॥ श्रीशङ्खेश्वरपार्श्वनाथाय नमः ॥
॥ अनन्तलब्धिनिधानश्रीगौतमस्वामिने नमः ॥
॥ परमोपास्यश्रीनेमि-विज्ञान-कस्तूर-चन्द्रोदय-अशोक-सोमचन्द्रसूरीश्वरसद्गुरुभ्यो नमः ॥
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिता
वाचकश्रीदेवसागरगणिकृतव्युत्पत्तिरत्नाकरकलिता ॥
॥ अभिधानचिन्तामणिनाममाला ॥
॥ प्रथमो देवाधिदेवकाण्डः ॥
श्रेयःसन्ततिसिन्धुवृद्धिविलसज्जैवातृकाऽऽभो विभुर्भास्वद्ज्ञानगभस्तिदीप्तिविधुतव्यामोहपूरः प्रभुः ।
सात्वच्छश्वदभीष्टदैवतमणिः संसारसिन्धौ तरिः, श्रीमन्नाभिनरेन्द्रनन्दनजिनः श्रेयस्कर स्तात् सदा ॥ १ ॥
जित्वा यो जगतीं जिनश्चतसृभिः सेनाभिरुद्यद्यशा, भुक्त्वा भारतचक्रवर्तिकमलां दुष्टाष्टकर्मद्विषः ।
भित्त्वाष्टप्रवचःप्रसूबलगुणैर्लेभेऽथ सर्वश्रियं, स श्रीशान्तिजिनाधिपोऽस्तु भविनां प्रत्यूहशान्त्यै सताम् ॥ २ ॥
त्यक्त्वा राजीमतीं यः स्वनिहितहृदयामेकपत्नीं सुरूपां,
सिद्धिस्त्रीं भूरिरक्तामपि बहु चकमेऽनेकपत्नीमपीशः ।
लोके ख्यातस्तथाऽपि स्फुरदतिशयवान् ब्रह्मचारीति नाम्ना,
स श्रीनेमीजिनेन्द्रो दिशतु शिवसुखं सात्वतां योगिनाथः ॥ ३ ॥
कल्याणामृतशेवधेर्भगवतो यस्य क्षणालोकनप्राप्तप्रौढतरप्रसादगुणतो व्यालोऽपि देवेन्द्रताम् ।
लेभे विघ्नतमोवितानतरणिः सम्पल्लतावारिदः, श्रीवामेयजिनाधिपोऽस्तु भविनां श्रेयस्करस्तीर्थकृत् ॥ ४ ॥
सान्द्रानन्दनमन्नरेन्द्रविबुधाऽधीशाऽऽलिमौलिप्रभाभास्वद्यत्प्रतिबिम्बदम्भत इवाऽनेकस्वरूपो विभुः।
उद्धर्तुं जगदेव किं भवमहापङ्कात् कृपावारिधिः, श्रीमच्छासननायकः स तनुतां श्रीवर्धमानः श्रियम् ॥ ५ ॥
भक्त्या श्रीश्रुतदेवतां सुविशदज्ञानैकहेतुं तथा, श्रीमच्छ्रीगुरुविश्ववन्द्यचरणाऽम्भोजं प्रणम्याऽऽदरात् ।
वृत्तिं विज्ञमनोरमां विरचये श्रीपाणिनीयोक्तिभिः, श्रीसूरीश्वरहेमचन्द्ररचितश्रीनामचिन्तामणेः ॥ ६ ॥
क्षीरस्वामि-महेश-रक्षित-सुभूति-व्याडि-वोपालितस्वामि-न्यास-पुराण-भाष्य-रभस-ग्रन्थांस्तथाऽनेकशः ।
सर्वानन्द-निधान-रुद्र-धरणि-स्कन्दर्भुगुर्वादिकान् सद्ग्रन्थानुपजीव्य यत्यत इह ग्रन्थे मया सादरम् ॥ ७ ॥
तत्र ग्रन्थारम्भे ग्रन्थकारश्चिकीर्षितस्य ग्रन्थस्याऽविघ्नेन परिसमाप्त्यर्थं शिष्टाचारपरिपालनार्थं च
विशिष्टेष्टदेवतानमस्कृतिरूपं मङ्गलमाचरति -
प्रणिपत्यार्हतः सिद्धसाङ्गशब्दानुशासनः । रूढयौगिकमिश्राणां नाम्नां मालां तनोम्यहम् ॥ १ ॥
अहम् इति श्रीहेमचन्द्रसूरिः । नाम्नां मालां तनोमि, अभिधानचिन्तामणिनाम्नीमिति शेषः । केषां नाम्नां ?, रूढयौगिकमिश्राणां, रूढाश्च यौगिकाश्च मिश्राश्च रूढयौगिकमिश्रास्तेषाम् । किं कृत्वा ?, अर्हतः श्रीजिनवरेन्द्रान् प्रणिपत्य चतुस्त्रिंशदतिशयान् सुरनरेन्द्ररचितपूजां चार्हन्ति तेऽर्हन्तस्तान् प्रणिपत्य भक्तिश्रद्धातिशयपूर्वकं नत्वा । कीदृशोऽहम् ?, सिद्धसाङ्गशब्दानुशासनः । अनुशिष्यन्ते संस्क्रियन्ते व्युत्पाद्यन्तेऽनेन शब्दा इत्यनुशासनम् । शब्दानामनुशासनं शब्दानुशासनम् । अत्र केचिद्वदन्ति- 'उभयप्राप्तौ कर्मणि'२।३।६६॥ इत्यनेनाऽत्र षष्ठी, ततश्च, 'कर्मणि च'२।२।१४॥ इत्यनेन समासप्रतिषेधेन भवितव्यमिति ।
एतच्चायुक्तम्, यत्र ह्युभयोः प्राप्तिस्तत्राऽनेन कर्मणि षष्ठी विधीयते । क्व चोभयोः प्राप्तिः? यत्र सामर्थ्यप्राप्तमु- भयो: कर्तृकर्मणोरुपादानम् । यथा- 'आश्चर्यो गवां दोहोऽशिक्षितेन गोपालकेन' इति । एवं नाम दुर्दोहानां गवाम- शिक्षितेन गोपालकेन दोह इत्याश्चर्यभूतोऽत्र गवां दोहः प्रतिपादयितुमिष्टः । स च यदि दुर्दोहानां गवामुपादानं क्रियते, अशिक्षितस्य चाऽगोपालकस्य एवं शक्यः प्रतिपादयितुं नान्यथेति सामर्थ्यप्राप्तमुभयोरुपादानम्, शब्दानुशासनमित्यत्र तु शब्दानामिदमनुशासनं नार्थानामित्येतावतोऽर्थस्य विवक्षितत्वात् । तस्याचार्यस्य कर्त्तुरुपादानमन्तरेणापि प्रतिपादयितुं शक्यत्वात्, आचार्योपादानमकिञ्चित्करम् । तस्मान्नास्ति द्वयोरपि कर्तृकर्मणोः सामर्थ्यप्राप्तमुपादानम्, ततश्चोभयप्राप्तिरपि नास्त्येव, असत्यां च तस्यां न 'उभयप्राप्तौ कर्मणि' २।३|६६॥ इत्यनेन षष्ठी, किं तर्हि ? 'कर्तृकर्मणोः कृति'२।३।६५।। इत्यनेन, ततश्चेध्मप्रश्चनवत् समासो भविष्यति, अथवा शेषलक्षणैवेयं षष्ठीत्यचोद्यमेतत् ['अथ शब्दानुशासनम्' इत्यत्रत्या काशिका विवरणपञ्जिका] । सिद्धं निष्पन्नं प्रतिष्ठां प्राप्तम्, साङ्गं शब्दानुशासनं व्याकरणं यस्येति सिद्धं विशेषणम् । अङ्गानि लिङ्गोणादिधातुपारायणगणपाठादीनि, एतावता शब्दानुशासनेन सहात्मन एककर्तृत्वं ख्यापितम्, तत् ख्यापनं च परस्पराव्यभिचारिवाक्योपदर्शनार्थम्, शब्दानुशासनस्य च कीर्त्तनं शब्दविद्याधीनः सर्वविद्यानामुत्कर्ष इति ख्यापनार्थम् । तदुक्तम् -
"वक्तृत्वं च कवित्वं च विद्वत्तायाः फलद्वयम् ।
शब्दज्ञानादृते तन्न द्वयमप्युपपद्यते ॥१॥" इति ॥
पुन: -
"उपासनीयं यत्नेन शास्त्रं व्याकरणं महत् ।
प्रदीपभूतं सर्वासां विद्यानां यदवस्थितम् ॥२॥'' इति ॥
आचार्याणां मते त्रयी शब्दानां प्रवृत्तिः । केषाञ्चिन्मते-"जातिशब्दाः, गुणशब्दाः, क्रियाशब्दाः, यादृच्छिकशब्दाश्च" इति चतुष्टयी शब्दानां प्रवृत्तिः । यदुक्तम् –
"नाम च धातुजमाह निरुक्ते व्याकरणे शकटस्य च तोकम् ।
यन्न पदार्थविशेषसमुत्थं प्रत्ययतः प्रकृतेश्च तदूह्यम् ॥३॥"
व्याख्या- नाम इति प्रातिपदिकम् । निरुक्तकारो निरुक्ते धातुजमाह, च पुन: व्याकरणे शकटस्य च तोकम् अपत्यमिति शाकटायनोप्याह । एवं सति जातिगुणक्रियावाचित्वात् शब्दानां त्रय्येव प्रवृत्तिः, न चतुष्टयी, यादृच्छिकानामभावात्। अथवा सर्वेऽपि क्रियाशब्दा एव स्युः, सर्वेषां धातुजत्वात्, तत एकैव प्रवृत्तिः, न त्रयी, न चतुष्टयी । अथाऽव्युत्पन्नशब्दानां कथं धातुजत्वावधारणमत आह यन्न इति । पदमर्थः प्रयोजनं यस्य स तथा, प्रकृत्यादिः पदार्थविशेषात् समुत्थः प्रादुर्भावो यस्य तत्, प्रतिपदोक्तप्रत्ययविशेषादनिष्पन्नं डित्थादि, तद् आदेः प्रत्ययात् डीत्यादेर्धातोरूह्यमिति ॥१॥
तत्र रूढशब्दान् व्याचष्टे -
व्युत्पत्तिरहिताः शब्दा, रूढा आखण्डलादयः ।
प्रत्ययविभागतया शब्दोच्चारणं व्युत्पत्तिः, तया रहिताः वर्जिताः शब्दा रूढा ज्ञेयाः । ते के ? इत्याशङ्कायामाह आखण्डलादयः, आखण्डल: शब्द आदिर्येषां ते, आखण्डलप्रभृतयः, आदिशब्दाद् मण्डपादयः । यद्यपि शाकटायनमते रूढा अपि व्युत्पत्तिभाज इति तथापि तेषां शब्दानां व्युत्पत्तिर्वर्णानुपूर्वीविज्ञानमात्रप्रयोजना, न पुनरन्वर्थार्थप्रवृत्तौ कारणमिति रूढा अव्युत्पन्ना एव ॥
अथ यौगिकशब्दान् व्याचष्टे -
योगोऽन्वयः स तु गुण-क्रिया-सम्बन्धसम्भवः ॥२॥
शब्दानां परस्परमर्थानुगमनम् अन्वयः योगः प्रोच्यते । युज्यते गुणक्रियासम्बन्धेनेति योगः । युजिर् योगे' (रु. उ. अ.), 'भावे' ३।३।१८॥ घञ्, 'चजो:-' ७।३।५२॥ इति कुत्वम् । तुः अव्ययं विशेषे । स योगः कीदृशः?, गुण-क्रिया-सम्बन्ध-सम्भवः, गुणश्च क्रिया च सम्बन्धश्च गुण-क्रिया-सम्बन्धास्तेभ्यः
सम्भव: उत्पत्तिर्यस्य सः । गुणो नीलपीतादिः । क्रिया करोत्यादिका । सम्बन्धो वक्ष्यमाणः । यदुक्तम्- "योगो गुणेन क्रियया सम्बन्धेन कृतोऽन्वयः" इति । शब्दानां परस्परमर्थानुगमनमन्वयः स योग इति तट्टीका ॥२॥
अथ गुणकृतयोगेन शब्दानुदाहरति -
गुणतो नीलकण्ठाद्याः
गुणतः नीलपीतादिगुणनिबन्धनो येषां योगस्ते नीलक-
ण्ठाद्याः शब्दा ज्ञेयाः । नीलः कण्ठोऽस्य नीलकण्ठः शम्भुः, नीलो गुणस्तत्प्राधान्यात् । आदिशब्दात् शितिकण्ठकालकण्ठादयः । वैशेषिकाणां मते संख्याऽपि गुण एव, तेन त्रिनेत्रः, पञ्चेषुः, षण्मुखः, अष्टश्रवा ब्रह्मा, दशशिरा रावण इत्यादयोऽपि सङ्गृहीताः ।
अथ क्रियायोगेन ये यौगिकास्तानुपदर्शयति -
क्रियातः स्रष्टृसन्निभाः ।
क्रियाकरोत्यादिका, तन्निबन्धनो योगो येषां ते स्रष्टृसन्निभाः । सृजति इति सर्जनक्रियाप्राधान्यात् स्रष्टा । 'सृज विसर्गे'(दि.आ.अ.), तृच्प्रत्ययः 'अनुदात्तस्य चर्दुपधस्य'६|१५|९॥ इत्यमागमः, ‘इको यणचि'६।१ ७७।।, स्रष्ट्रा सन्निभाः स्रष्टृसन्निभाः । सन्निभग्रहणाद् धाता इत्यादयो द्रष्टव्याः ॥
अथ सम्बन्धलक्षणमाह -
स्वस्वामित्वादिसम्बन्धः
स्वम् आत्मीयं वस्तु, स्वामी तत्र प्रभविष्णुः । स्वं च स्वामी च स्वस्वामिनौ, तयोर्भावः स्वस्वामित्वम् । तद् आदिः यस्य स स्वस्वामित्वादिः, आदेर्जन्यजनकादिपरिग्रहः ॥
तत्राहुर्नाम तद्वताम् ॥३॥
स्वात् पाल-धन-भुग्-नेतृ-पति-मत्वर्थकादयः ।
तत्र इति स्वस्वामिभावसम्बन्धे पालादयः शब्दाः, स्वाद् आत्मीयाद् वस्तुनो भूप्रभृतेरग्रे नियुक्ताः सन्त: तद्वतां सम्बन्धवतां स्वामिनां नाम अभिधानम् आहुः कथयन्ति ॥३॥ मतुः तद्धितप्रत्ययः, तस्य अर्थः विशिष्ट- प्रकृत्यर्थेन सह देवदत्तादेः सम्बन्धः, तदाधारो वा, 'तदस्यास्त्यस्मिन्निति मतुप्' ५।२।९४।। इति सूत्रेण मतुप्प्रत्ययविधानात् । मतोरर्थ इवार्थो यस्य स मत्वर्थकः तद्धितः मतुपा समानार्थः, ‘अत इनिठनौ'५।२।११५॥ इत्यादिकः। मत्वर्थाव्यभिचाराद् मतुरपि । पालश्च धनं च भुक् च नेता च पतिश्च मत्वर्थकश्च पालधनभुग्नेतृपति-मत्वर्थकाः, ते आदिः प्रकारो येषां ते तथा । अत्र आदिशब्दः प्रकारार्थः।
"सामीप्येऽथ व्यवस्थायां प्रकारेऽवयवे तथा ।
चतुष्वर्थेषु मेधावी आदिशब्दं प्रचक्षते ॥१॥" इति ।
आदे: पाऽऽदयोऽपि गृह्यन्ते । ‘तत्राहुर्नाम तद्वताम्' इति उत्तरेष्वप्यनुवर्तनीयम् ॥
क्रमेणोदाहरणान्याह -
१भूपालो २भूधनो ३भूभुग् ४भूनेता ५भूपतिस्तथा ॥४॥ ६भूमांश्चेति
१ भुवं पालयति रक्षति भूपालः । २ भूः धनं यस्य स भूधनः । ३ भुवं भुनक्ति अवति भूभुक् । ४ भुवो नेता नायक: भूनेता । ५ भुवः पतिः भूपतिः । ६ भूरस्यास्ति भूमान् । ७ इति शब्दः प्रकारार्थः, तेन भूपादयोऽपि ग्राह्याः । एते सप्त राज्ञो नामवाचकाः ॥
कविरूढ्या ज्ञेयोदाहरणावली ।
रूढिः परम्पराऽऽयाता प्रसिद्धिः । कवीनां व्यासवाल्मीकिप्रभृतीनां रूढिः कविरूढिः, तया । उदाहरणानामावली श्रेणि: उदाहरणावली ज्ञेया ज्ञातव्या । कविरूढ्यैव, न तु कवि परम्पराऽऽयातप्रसिद्ध्य- तिक्रमेण । यथा 'कपाली' इत्यादौ स्वस्वामिसम्बन्धे सत्यपि मत्वर्थीय एव भवति, न तु 'कपालपाल:, कपालधनः, कपालभुक्, कपालनेता, कपालपतिः' इत्यादि ।
अथ जन्यजनकभावसम्बन्धं दर्शयति -
जन्यात् कृत्-कर्तृ-सृट्-स्रष्टृ-विधातृ-कर-सू-समाः ॥५॥
जन्यात् कार्याद् अग्रे कृदादयः सप्तशब्दाः, तद्वतां जन्यवतांजनकानां कारणानामभिधानमाहुः । यथा विश्वं करोति विश्वकृत्, विश्वस्य कर्ता विश्वकर्ता, विश्वं सृजति विश्वसृट्, विश्वस्य स्रष्टा विश्वस्रष्टा, विश्वस्य विधाता विश्वविधाता, विश्वं करोति विश्वकरः, विश्वं सूते विश्वसूः । समा इति समशब्दोऽत्राऽऽद्यर्थः, तेन विश्वकारकविश्वजनकादयोऽपि । कविरूढ्येत्येव, न तु कविपरम्पराऽतिक्रमेण । यथा चित्रकृदुच्यते न तथा चित्रसूः इति ॥५॥
जनकाद् योनि-ज-रुह-जन्म-भू-सूत्यणादयः ।
जनकात् कारणात् परे योन्यादयः सप्त, तद्वतां कारणवतां कार्याणां नामानि आहुः । यथा आत्मयोनिः, आत्मजः, आत्मरुहः, आत्मजन्मा, आत्मभूः, आत्मसूति: ब्रह्मा । तस्य ह्यात्मैव कारणमिति रूढिः । योनिश्च जश्च रुहश्च जन्म च भूश्च सूतिश्च अण् च योनि-ज-रुह-जन्म-भू-सूत्यणः, ते आदिः येषां ते तथा । वक्ष्यमाणस्यादिशब्दस्येहापि सम्बन्धात् सम्भवादयो ग्राह्याः । अणादयस्तु 'तस्यापत्यम्'४।१।९२॥ इति सूत्रविहितोऽण्, आदिर्येषां ते तथा । उपगोरपत्यमौपगवः, गर्गस्यापत्यं गार्ग्यः, दितेरपत्यं दैत्यः, भृगोरपत्यं भार्गवः । अत्र हि औपगवादी-नामुपग्वादयो जनका इति रूढिः । अत्रापि कविरूढ्येत्येव, न तु कविरूढ्यतिक्रमेण । यथा आत्मयोनिः तथा आत्मजनकः, आत्मकारकः इत्यादि न भवति ॥
अथ धार्यधारकभावसम्बन्धं दर्शयति -
धार्य्याद् ध्वजा-ऽस्त्र-पाण्यऽङ्क-मौलि-भूषण-भृन्निभाः ॥६॥
शालि-शेखर-मत्वर्थ-मालि-भर्तृ-धरा अपि ।
धार्यवाचकाद् अग्रे ध्वजादयो धरान्तः धारकनामानि
आहुः । यथा- वृषो ध्वजश्चिह्नं यस्य स वृषध्वजः, शूलमस्त्रमस्य शूलास्त्रः, पिनाकं पाणावस्य पिनाकपाणिः, वृषोऽङ्कश्चिह्नमस्य वृषाङ्कः, चन्द्रो मौलौ शिरस्यस्य चन्द्रमौलिः, शशी भूषणमस्य शशिभूषणः, शूलं बिभर्ति शूलभृत् । निभग्रहणात् वृषलक्ष्मवृष- केतनशूलायुधचन्द्राभरणादयो ग्राह्याः ॥६॥ तथा पिनाकशाली, इन्दुशेखरः, पिनाकं मलते धारयति पिनाकमाली, पिनाकं बिभर्ति पिनाकभर्ता, गङ्गाधर इत्यादयः शम्भुवाचकाः । अत्रापि कविरूढ्येत्येव, तेन सत्यपि धार्यधारकभावसम्बन्धे सर्वेभ्यो धार्येभ्यो न ध्वजाद्यर्थाः शब्दाः प्रयोज्याः । तेन न हि भवति वृषध्वजवत् शूलध्वजः, शूलास्त्रवत् चन्द्रास्त्रः, पिनाकपाणिवत् सर्पपाणिः, वृषाङ्कवत् चन्द्राङ्कः, इन्दुमौलिवद् गङ्गामौलिः, शशिभूषणवत् शूलभूषणः, शूलशालिवत् चन्द्रशाली, इन्दुशेखरवद् गङ्गाशेखरः, शूलीवत् शूलवान्, पिनाकमालीवत् सर्पमाली, पिनाकभर्तृवत् चन्द्रभर्ता, गङ्गाधरवत् चन्द्रधर इति ॥
अथ भोज्यभोजकभावसम्बन्धं दर्शयति –
भोज्याद् भुग-ऽन्धो-व्रत-लिट्-पायि-पा-ऽशा-ऽशना-ऽऽदयः ॥७॥
भुज्यत इति भोज्यं भक्ष्यम्, तद्वाचिनः शब्दात् परे भुक्प्रभृतयोऽष्टौ शब्दाः प्रयुक्ताः सन्तस्तद्वतां भोज्यवतां भोक्तॄणां नामानि आहुः । यथा- अमृतं भुञ्जन्ते अमृतभुजः, अमृतमेवान्ध ओदनं येषां ते अमृतान्धसः, अमृतं व्रतयन्ति वेष्टयन्तीति अमृतव्रताः, अमृतं लिहन्ति अमृतलिहः, अमृतं पिबन्ति अमृतपायिनः, अमृत पिबन्ति अमृतपाः, अमृतमश्नन्ति अमृताशाः, अमृतमशनं येषां ते अमृताशनाः सुराः । तेषां हि अमृतं भोज्यमिति प्रसिद्धिः । अत्र आदिशब्दः समानार्थभोजनादिशब्दपरिग्रहार्थः । अत्रापिकविरूढ्येव,न हि भवति यथा- अमृतभुजः तथा अमृतवल्भा इति ॥७॥
पतिकलत्रभावसम्बन्धं दर्शयति -
पत्युः कान्ता-प्रियतमा-वधू-प्रणयिनी-निभाः ।
पतिशब्दाद् धवशब्दाद् अग्रे कान्तादिसदृशाः शब्दाः, तद्वतीनां पतिमतीनां भार्याणां नामानि आहुः । यथा- शिवस्य शम्भोः कान्ता शिवकान्ता, शिवप्रियतमा, शिववधूः, शिवप्रणयिनी पार्वती । तस्या हि शिव: पतिरिति रूढिः । निभग्रहणाद् वल्लभा, रमणी, प्रिया, दयिता, प्राणेशा इत्यादयो ग्राह्याः । अत्रापि कविरूढ्येत्येव, तेन न हि भवति यथा शिवकान्ता तथा शिवपरिग्रह इति ॥
कलत्राद् वर-रमण-प्रणयीश-प्रियादयः ॥८॥
कलत्रवाचिन: शब्दात् परे वरप्रभृतयः शब्दाः प्रयुक्ताः सन्तस्तद्वतां वरयितॄणां नामानि आहुः । यथा पार्वतीवरः पार्वतीरमणः, पार्वतीप्रणयी, पार्वतीशः, पार्वतीप्रियः । अत्र हि शम्भोः गौरी कलत्रमिति रूढिः । आदिशब्दाद् वरसमानार्थाः पतिभर्त्रादयो ग्राह्याः । कविरूढ्येत्येव, न हि भवति यथा पार्वतीवरः शिवः तथा गङ्गावर इति ॥८॥
अथ सख्युः सम्बन्धमाह -
सख्युः सखिसमाः
सखिवाचकात् शब्दात् श्रीकण्ठादेरग्रे सखिसमाः सखिसदृगर्थाः शब्दाः, तद्वतां सख्यवतांसखीनां नामानि आहुः । यथा- श्रीकण्ठस्य सखा श्रीकण्ठसखः धनदः, 'राजाहः सखिभ्यष्टच्' ४।५।९१ ॥ समासान्तः, 'यस्येति च'६।४।१४८॥, एवं मधोः वसन्तस्य सखा मधुसखः कन्दर्पः। समग्रहणात् सुहृदादयो ग्राह्याः, तेन श्रीकण्ठसुहृत्, मधुसुहृद् इत्यादयः । कविरूढ्यैव, न हि भवति यथा श्रीकण्ठसखा धनदः तथा धनदसखा श्रीकण्ठ इति ॥
अथ वाह्यवाहकसम्बन्धं दर्शयति -
वाह्याद् गामि-याना-ऽऽसनादयः ।
उह्यते वाह्यम् । 'वह् प्रापणे'(भ्वा.उ.अ.), 'ऋहलोर्ण्यत्'३।१।१२४॥, वाह्याद् वाह्यवाचिनः शब्दात् परे गामिप्रभृतयः शब्दाः, तद्वतां वाहयितॄणां नामानि आहुः । यथा वृषेण गच्छतीत्येवंशीलो वृषगामी । 'सुप्यजातौ-'३।२।७८ ॥ इति णिनिः । वृषो यानं वाहनमस्य वृषयानः, वृष आसनमस्य वृषासनः शिवः । तस्य हि वृषो यानमिति रूढिः । आदेः वृषभवाहन इत्यादयोऽपि । कविरूढ्यैव, न हि भवति यथा नरवाहनः कुबेरः तथा नरगामी, नरयान इत्यादि ।
अथ ज्ञातिज्ञातेयसम्बन्धमाह -
ज्ञातेः स्वसृ-दुहित्रा-ऽऽत्मजा-ऽग्रजा-ऽवरजाऽऽदयः ॥९॥
ज्ञातिः स्वजनः, "स्वो ज्ञातिः स्वजनो बन्धुः" (अभिधानचि. का. ३, श्लो.-५६१) इति वक्ष्यमाणत्वात्, ज्ञातिवाचिन: शब्दाद् अग्रे स्वस्रादयः शब्दाः, तद्वतां ज्ञातेयवतां ज्ञातीनां नामानि आहुः । स्वस्रादीनां ज्ञातिविशेषवाचित्वात् प्रयोगोऽपि ज्ञातिविशेषादेव । यथा यमस्वसा यमुना, हिमवद्दुहिता पार्वती,
चन्द्रात्मजो बुधः, गदाग्रज इन्द्रावरजश्च विष्णुः । यमादयो हि कालिन्द्यादीनां भ्रात्रादिज्ञातय इति हि रूढिः । आदेः सोदरादयो ग्राह्याः । यथा- कालिन्दीसोदरो यमः । कविरूढ्येत्येव, न हि भवति यथा यमस्वसा यमुना तथा शनिस्वसाऽपि ॥९॥
१. 'वृषभ- ' इति २॥ २. 'तस्यादि' इति १. ३ ॥ ३. 'पतीनां' इति १॥ ४. 'अथ ज्ञातेयसम्ब-' इति १॥
अथाऽऽश्रयाश्रयिभावसम्बन्धं दर्शयति -
आश्रयात् सद्मपर्याय-शय-वासि-सदाऽऽदयः ।
आश्रयो निवासः, तद्वाचिन: शब्दात् सद्मपर्यायाः सद्मैकार्थवाचकाः शब्दाः शय-वासि-सदाऽऽदयश्च, तद्वताम् आश्रयवताम् आश्रितानां नामानि आहुः । यथा द्युसद्मान: द्युसदना:, दिवौकसः, दिवशब्दो वृत्तावदन्तोप्यस्ति, द्युवसतयः, दिवाश्रयाः, द्युशयाः, द्युवासिनः, द्युसदो देवाः । द्यौः स्वर्गः, स च तेषामाश्रय इति रूढिः । कविरूढ्येत्येव, न हि भवति यथा द्युसद्मानो देवाः तथा भूमिसद्मानो मनुजा इति ॥
अथ वध्यवधकभावसम्बन्धमाह -
वध्याद् भिद्-द्वेषि-जिद्-घाति-ध्रुग-ऽरि-ध्वंसि शासनाः ॥१०॥
अप्य-ऽन्तकारि-दमन-दर्पच्छिन्-मथनाऽऽदयः ।
वध्यो घात्यः, तद्वाचिनः शब्दाद् भिदादयोऽष्टौ, अन्तकार्यादयोऽपि चत्वारस्तद्वतां घातकानां नामानि आहुः । यथा पुरनामानं दैत्यं भिनत्ति पुरभित्, पुरं द्वेष्टीत्येवंशील: पुरद्वेषी, पुरं दैत्यं जयति अभिभवति पुरजित्, पुरं हन्तीत्येवं शीलः पुरघाती, पुरं द्रुह्यति पुरध्रुक्, पुरस्य अरिः पुरारिः, पुरं ध्वंसते पुरध्वंसी, पुरं शास्ति पुरशासनः ॥१०॥ पुरान्तं करोति पुरान्तकारी, पुरं दाम्यति पुरदमनः, पुरदर्पच्छित्, पुरमथनः शिवः । महादेवस्य हि पुरो वध्य इति रूढिः । आदिशब्दात् पुरदारी, पुरनिहन्ता, पुरकेतुः, पुरसूदनः, पुरान्तकः, पुरजयी । वध्य इति वधार्हमात्रेऽपि । तेन कालियदमनः कालियारिः, कालियशासनः, कृष्ण इत्यादयोऽप्यूह्याः। कविरूढ्येत्येव, तेन कालियदमनादिवत् कालियघातीति न भवति ॥
उक्ता: स्वस्वामित्वादयः सम्बन्धाः । ते च यथा भिन्नद्रव्याश्रयास्तथैकद्रव्याश्रया अपि भवन्तीति दर्शयितुमाह –
विवक्षितो हि सम्बन्ध एकतोऽपि पदात् ततः ॥११॥
प्राक्प्रदर्शितसम्बन्धिशब्दा योज्या यथोचितम् ।
हिः यस्माद्धेतोः विवक्षितः सम्बन्धः विवक्षानिबन्धनो हि सम्बन्धः, ततः तस्माद्धेतोः एकतोऽपि पदादेकस्मादपि, पदाद् वृषादेः सम्बन्धिपदादग्रे ॥११॥ प्राक् पूर्वं प्रदर्शितसम्बन्धिशब्दाः सम्बन्धान्तरनिबन्धना वाहनादयः शब्दा यथोचितं यथायोग्यं योज्याः ॥
एतदेव दर्शयति
दृश्यते खलु वाह्यत्वे वृषस्य वृषवाहनः ॥१२॥
स्वत्वे पुनर्वृषपतिर्धार्यत्वे वृषलाञ्छनः ।
अंशोर्धार्यत्वेंऽशुमाली स्वत्वेंऽशुपरिरंशुमान् ॥१३॥
वध्यत्वेऽहेरहिरिपुर्भोज्यत्वे चाहिभुक् शिखी ।
खलु इति निश्चये, वृषस्य वाह्यत्वे वाह्यवाहकभावसम्बन्धविवक्षायाम्, यथा वृषवाहनो महादेवो दृश्यते श्रूयते ॥१२॥ तथा स्वत्वे स्वस्वामिभावसम्बन्धविवक्षायां वृषपतिः । तथा धार्यत्वे धार्यधारकभावसम्बन्धविवक्षायां च वृषलाञ्छनः इत्यपि । तथा अंशोः किरणस्य धार्यत्वे धार्यधारकभाव- सम्बन्धविवक्षायां यथा अंशून् किरणान् मलते धारयति अंशु माली आदित्य इति भवति । तथा स्वत्वे स्वस्वामिभावसम्बन्धविवक्षायाम् अंशूनां पतिः अंशुपतिः, अंशवः किरणा: सन्त्यस्येति अंशुमानिति भवति ॥१३॥ तथा अहेः सर्पस्य वध्यत्वे वध्यवधकभावसम्बन्धविवक्षायां यथा अहिरिपुः मयूरः । तथा भोज्यत्वे भोज्यभोजकभावसम्बन्धविवक्षायाम् अहिभुक् इत्यपि भवति ॥
स्वस्वामित्वादिसम्बन्धनिबन्धनां व्युत्पत्तिं प्रदर्श्य पुनर्व्युत्त्यन्तरमाह –
चिह्नैर्व्यक्तैर्भवेद् व्यक्तेर्जातिशब्दोऽपि वाचकः॥१४॥
तथा ह्यगस्तिपूता दिग् दक्षिणाशा निगद्यते ।
व्यक्तैः प्रकटैर्नि:सन्देहैरिति यावत्, चिह्नै: विशेषणैः, जातिशब्दोऽपि सामान्याभिधाय्यपि, व्यक्तेः विशेषस्य, वाचकः कथको भवति, नामतां प्राप्नोतीत्यर्थः ॥१४॥ तथा हि इत्यादिना उदाहरणं दर्शयति अगस्तिनाम्ना मुनिविशेषेण पूता स्वकीयस्थित्या पवित्रिता या सा अगस्तिपूता दिग् दक्षिणाशा निगद्यते अभिधीयते इत्येतद्व्यक्तं चिह्नम् । तेन चिह्नता । अत्र 'दिक्' इति सामान्यशब्दो दक्षिणाशाया इति विशेषस्याभिधायी भवति । एवं सप्तर्षिपूता दिगुत्तराशा, अत्रेमुनेर्नेत्रसमुत्थं ज्योतिश्चन्द्र इत्यादयोऽपि ॥
पुनर्व्युत्पत्त्यन्तरमाह -
अयुग्-विषमशब्दौ त्रि-पञ्च-सप्तादिवाचकौ ॥१५॥
त्रिनेत्र-पञ्चेषु-सप्तपलाशादिषु योजयेत् ।
त्रि-पञ्च-सप्तादीनां स्थाने अयुग्-विषमशब्दौ त्रिनेत्र पञ्चेषु-सप्तपलाशादिषु पदेषु योजयेत्, कविरिति शेषः । कीदृशौ अयुग्-विषमशब्दौ ?, त्रिपञ्चसप्तादिवाचकौ, त्रयश्च पञ्च च सप्त च त्रिपञ्चसप्त, ते आदिर्येषां ते त्रिपञ्चसप्तादयः, तेषां
वाचकौ त्रिपञ्चसप्तादिवाचकौ । यथा- -त्रीणि नेत्राण्यस्य त्रिनेत्रः तथा अयुञ्जि नेत्राण्यस्य अयुग्नेत्रः,, विषमाणि नेत्राण्यस्य विषमनेत्रः शम्भुः । पञ्च इषवः बाणा अस्य पञ्चेषुः,, तथा अयुजः पञ्च इषवोऽस्य अयुगिषुः,, विषमाः पञ्च इषवोऽस्य विषमेषुः कामः । यथा सप्तपलाशः तथा अयुक्पलाशः,, विषमपलाशश्च । सप्तपलाशो वृक्षः, 'सातवनउ' इति लोकोक्त्या प्रसिद्धः । त्रिपञ्चशब्दादीत्यत्र आदिशब्दाद् नवशक्तिः, अयुग्शक्तिः, विषमशक्तिश्च शम्भुः ॥१५॥ त्रिनेत्रपञ्चेषुसप्तपलाशादिष्वित्यत्र आदि शब्दग्रहणात् त्र्यम्बक-पञ्चशर-सप्तच्छदादिष्वपि बोध्यम् । यथा त्र्यम्बक: तथा अयुगम्बकः, विषमाम्बक इत्यादयोऽपि । यथा पञ्चशरः तथा अयुक्शर: विषमशरश्च कामः । यथा सप्तच्छदः तथा अयुक्छदः, विषमच्छदश्च । एवमन्येषूह्याः ॥
पुनर्व्युत्पत्त्यन्तरमाह -
गुणशब्दो विरोध्यर्थं नञादिरितरोत्तरः ॥१६॥
अभिधत्ते यथा कृष्णः स्यादसितः सितेतरः ।
गुणो नीलपीतादिः, तद्वाची शब्दो गुणशब्दः, 'नञ्' इत्यव्ययमादिर्यस्य स नञादिः, नञ्पूर्वक इत्यर्थः । 'इतर' इत्ययं शब्द उत्तर : अग्रे यस्य स इतरोत्तरः, इतरशब्दपरश्चेत्यर्थः । विरोधी विपरीतः अर्थः विरोध्यर्थः, तं विरोध्यर्थम् ॥१६॥ अभिधत्त अभिपूर्वो दधाति: कथनार्थः, कथयतीत्यर्थः । अत्र यथा इति दृष्टान्तार्थेऽव्ययम् । असित: न सितोऽसितः, नञ्पूर्वः सितशब्द:। सितादितर: सितेतरः । अत्रेतरोत्तर : सितशब्दः कृष्णार्थ: स्यात्, द्वेऽपि कृष्णवर्णनाम्नी इत्यर्थः । एवम् अकृशः कृशेतर : स्थूलः, अस्थूलः स्थूलेतरश्च कृश इत्यर्थः ॥
पुनर्व्युत्पत्त्यन्तरमाह -
वार्ध्यादिषु पदे पूर्वे वडवाग्न्यादिषूत्तरे ॥१७॥
वार्ध्यादिषु शब्देषु पूर्वे पूर्वस्मिन्नेव पदे वारित्यादौ पर्यायस्यैकार्थवाचकशब्दस्य परिवर्तनं व्यतिहारो भवतीति शेषः। यथा वा: पानीयं धीयतेऽत्र इति वार्धिः । 'कर्मण्यधिकरणे च'३।३।९३॥ इति कि:, 'आतो लोप-'६।४।६४॥ इत्यालोपः जलधि:, वारिधिः, नीरधिः, अम्बुधिः इत्यादयः । अत्र जलपर्यायाणामेव परावर्तो, न तु धीत्यस्य । वार्ध्यादिष्वित्यत्रादिशब्दाद् वार्दोजलदस्तोयद इत्यादय एवमूह्याः । वडवाग्न्यादिषु शब्देषु उत्तरे उत्तरस्मिन्नेव अग्न्यादौ पदे पर्यायस्य परिवर्तनं भवति । यथा वडवाग्निः, वडवानलः, वडवावह्निः । अत्र अग्न्यादीनां पर्यायाणां परावर्तः, न तु वडवेत्यस्य । वडवाग्न्यादिष्वित्यत्र आदिशब्दात् सरोजम्, सरोरुहम्, सरोरुट्, सरोजन्म इत्यादयः ॥१७॥
द्वयेऽपि भूभृदाद्येषु पर्यायपरिवर्तनम् ।
भूभृदादिषु शब्देषु द्वयेऽपि पूर्वस्मिन् पदे, उत्तरस्मिंश्च पदे । पर्यायपरिवर्तनं भवति । यथा भूभृत्, उर्वीभृत्, भूधरः, उर्वीधरः पर्वतः । अत्र पूर्वोत्तरयोः पदयोः परिवर्तनम् । भूभृदाद्येष्वित्यत्र आद्यशब्दात् सुरपतिः, देवस्वामी, सुरराजः, देवराजः, सुरेश इत्यादयो ज्ञेयाः ॥
एवं परावृत्तिसहा योगात् स्युरिति यौगिकाः ॥१८॥
एवम् अमुना प्रकारेण पूर्वस्मिन् पदे, उत्तरस्मिन् पदे च पर्यायपरिवर्तनं सहन्ति परावृत्तिसहाः । वार्धिवडवाग्न्यादयः शब्दा: योगाद् अन्वयात् स्युःभवेयुः इति यौगिकाः ॥१८॥
मिश्रशब्दानाह –
मिश्राः पुनः परावृत्त्यसहा गीर्वाणसन्निभाः ।
प्रवक्ष्यन्तेऽत्र
परावृत्तिं पर्यायाणां परावर्तनं न सहन्ते न क्षमन्त इति परावृत्त्यसहाः । पूर्वपदे उत्तरपदे च उभयत्र पदे च
पर्यायाणां परावृत्तिमसहमाना मिश्राः, प्रोच्यन्त इति शेषः । ते परावृत्त्यसहाः के ?, गीर्वाणसन्निभाः। गीरेव बाणौ यस्य स गीर्वाण: । अत्र वाग्बाण इति पूर्वपदपरावृत्तिर्न भवति, तथा गी:शर इत्युत्तरपदपरावृत्तिरपि न भवति, तथा वाक्शर इत्युभयपदपरावृत्तिरपि न भवति । सन्निभा इति, सन्निभग्रहणाद् दशरथकृतान्तप्रभृतयो ज्ञेयाः । मिश्रा योगयुक्ता रूढिमन्तश्च । अत्र अभिधानचिन्तामणौ, प्रवक्ष्यन्ते कथयिष्यन्ते ॥
लिङ्गं तु ज्ञेयं लिङ्गानुशासनात् ॥१९॥
लिङ्गम् इति सामान्यपदग्रहणात् पुंल्लिङ्गं स्त्रीलिङ्गं नपुंसकलिङ्गं मिश्रलिङ्गं च । लिङ्गानुशासनात् श्रीहेमचन्द्राचार्यविरचिताद् ज्ञेयम् । अत एव आचार्यै: अमरकोषवैजयन्त्याद्यभि- धानमालास्विव अत्र लिङ्गनिर्णयो नोक्तः, तथापीह संविनेयजनानुग्रहार्थं सन्दिग्धलिङ्गानां च नानालिङ्गानां च शब्दानां लिङ्गनिर्णयो वक्ष्यते ॥१९॥
इह मुक्तगतिः, सुरगतिः, मनुजगतिः, तिर्यग्गतिः, नारकगतिरिति जीवानां पञ्च गतयो भवन्तीति । गतिभेदाद् जीवा अपि पञ्चधा भवन्ति । तद्यथा मुक्ताः सुपर्वाणो मनुजास्तिर्यञ्चो नारकाश्चेति । ततोऽभिधास्यमानरूढयौगिकमिश्रशब्दविभागं त्यक्त्वा प्रथमादिकाण्डेषु अभिधास्यमानमुक्तादिनामानुक्रम- निर्देशमाह –
देवाधिदेवाः प्रथमे काण्डे देवा द्वितीयके ।
नरास्तृतीये तिर्यञ्चस्तुर्य एकेन्द्रियादयः ॥२०॥
एकेन्द्रियाः पृथिव्यम्बुतेजोवायुमहीरुहः ।
कृमिपीलकलूताद्याः स्युर्द्वित्रिचतुरिन्द्रियाः ॥२१॥
पञ्चेन्द्रियाश्चेभकेकिमत्स्याद्याः स्थलखाम्बुगाः ।
पञ्चेन्द्रिया एव देवा नरा नैरयिका अपि ॥२२॥
नारकाः पञ्चमे साङ्गाः षष्ठे साधारणाः स्फुटम् ।
प्रस्तोष्यन्तेऽव्ययाश्चात्र
देवाधिदेवाः सर्वज्ञा वर्तमाना अतीता अनागताश्च । वाच्यवाचकयोरभेदोपचारात् तद्वाचकाः शब्दा अपि देवाधिदेवाः । एवं वक्ष्यमाणदेवादिपदेष्वपि ज्ञेयम् । अत्र ‘साङ्गाः' इति पदं सर्वत्र सम्बन्धनीयम् , तेन प्रथमे काण्डे साङ्गाः गणधराद्यङ्गैः सहिताः सर्वश्रेष्ठत्वाद् देवाधिदेवाः प्रथमं प्रस्तोष्यन्ते प्रक्रंस्यन्ते। द्वितीये काण्डे साङ्गाः सोपस्करा देवाः प्रस्तोष्यन्ते । तृतीये काण्डे साङ्गा मनुष्याः प्रस्तोष्यन्ते । चतुर्णां सङ्ख्यापूरणस्तुर्यः, तस्मिन् तुर्ये, चतुर्थे इत्यर्थः, साङ्गाः तिर्यञ्चः प्रस्तोष्यन्ते । एते च एकेन्द्रियादयः ॥२०॥ एकं स्पर्शनरूपमिन्द्रियं येषां ते एकेन्द्रिया: पृथिव्यम्बु-तेजो-वायु-महीरुहः, पृथिवी च अम्बु च तेजश्च वायुश्च महीरुट् च पृथिव्यम्बुतेजोवायुमहीरुहः, एते पञ्चाप्येकेन्द्रिया इत्यर्थः । तत्र पृथिवीकायोऽनेकविधः, शुद्धपृथिवी शर्करावालुकादिः। अप्कायोऽवश्यायहिमकरकादिः । तेज:कायोऽङ्गारादिः । वायुकाय उत्कलिकादिः । वनस्पतिकायः शेवालादिः। कृमिपीलकलूताद्याः, कृमिश्च 'सुरमिया' इति प्रसिद्धः, पीलकश्च ‘मण्डोका' इति प्रसिद्धः,, लूता चेति द्वन्द्वे कृमिपीलकलूताद्या:, लूताशब्दः, स्त्रीलिङ्गः। स्युः भवेयुः, द्वित्रिचतुरिन्द्रियाः । इह द्वित्रिचतुर्भ्यः शब्देभ्य इन्द्रियशब्दो योज्यः, ततो द्वे स्पर्शनरसने इन्द्रिये येषां ते द्वीन्द्रियाः, त्रीणि स्पर्शन-रसनघ्राणानि इन्द्रियाणि येषां ते त्रीन्द्रियाः, चत्वारि स्पर्शनरसनघ्राणनेत्राणीन्द्रियाणि येषां ते चतुरिन्द्रियाः। द्वीन्द्रिया कृम्यादयः, त्रीन्द्रिया पिपीलिकादयः, चतुरिन्द्रिया लूतादयः । पञ्च स्पर्शादीनि श्रोत्रसहितानीन्द्रियाणि येषां ते पञ्चेन्द्रियाः। ते च त्रिविधाः, स्थलं च भूः, खं च आकाशम्, अम्बु च जलमिति द्वन्द्वे स्थलखाम्बूनि, स्थलखाम्बुषु गच्छन्ति स्थलखाम्बुगाः, स्थलचराः, खचराः, जलचराश्चेत्यर्थः । ते के ? इत्याह- इभश्च, केकी च मयूरः, मत्स्यश्च इति इभकेकिमत्स्यास्ते आद्या येषां ते इभकेकिमत्स्याद्याः । तत्र स्थलचरा इभादयः, खचरा मयूरादयः, जलचरा: मत्स्यादयः । देवा नरा नारकाश्च पञ्चेन्द्रिया एव, न तु तिर्यञ्च इव एकद्वित्रिचतुरिन्द्रिया इति । एवकारो निर्धारणार्थः॥२२॥ पञ्चमे काण्डे साङ्गा नारकाः प्रस्तोष्यन्ते । च पुनरर्थे । अत्र इति षष्ठे काण्डे साधारणाः शब्दाः स्व:प्रभृतयः अव्ययाः च वक्ष्यन्ते ॥
त्वन्ताथादी न पूर्वगौ ॥२३॥
तुरित्यव्ययमन्ते यस्य स त्वन्तः । अथेति शब्द आदिर्यस्य स अथादिः। त्वन्तश्च अथादिश्च त्वन्ताथादी, न पूर्वगौ पूर्वेण न सम्बन्धनीयौ, अग्रिमेण सम्बध्येत इत्यर्थः । "तु विशेषे अवधारणे समुच्चये पादपूर्तौ च"[अनेकार्थसङ्ग्रहः ७।९॥] इत्यनेकार्थः । तुना अव्ययेन पूर्वस्मात् शब्दाद् विशेषो द्योत्यत इति, तुः, पूर्वं शब्दं न यातीत्यर्थः । यथा- "स्यादन्तजिदनन्तः सुविधिस्तु पुष्पदन्तः''[अभि.का-१, श्लो.-२९] इति । अत्र तुशब्देन अनन्तजिदन्तशब्दाभ्यां सुविधिपुष्पदन्तशब्दयोर्विशेषो द्योतितः । अथेत्यव्ययमारम्भार्थः । “अथो अथ च सम्प्रश्ने मङ्गलारम्भयोरपि" [विश्वप्रकाशः, अनेकार्थाव्ययपरिच्छेदः, श्लो.-२६] इति महेश्वरः । अथशब्देन शब्दान्तरारम्भो द्योत्यते । यथा- "मुक्तिर्मोक्षोऽपवर्गोऽथ मुमुक्षुः श्रमणो यतिः" [अभि. का-१, श्लो.-७५] इति । अत्र अथशब्देन 'मुक्तिर्मोक्षऽपवर्गः' इति मोक्षनामसमाप्तिः, मुमुक्षुरित्यादियतिनामप्रारम्भश्च द्योतितः, एवमन्यत्राप्यूह्यम् ॥२३॥
१अर्हन् २जिनः ३पारगत४स्त्रिकालवित् ५क्षीणाष्टकर्मा ६परमेष्ठ्य७ऽधीश्वरः ।
८शम्भुः ९स्वयम्भू१०र्भगवान् ११जगत्प्रभु१२स्तीर्थङ्कर१३स्तीर्थकरो १४ जिनेश्वरः ॥२४॥
१५स्याद्वाद्य१६भयद१७सार्वाः १८सर्वज्ञः १९सर्वदर्शि२०केवलिनौ ।
२१देवाधिदेव२२बोधिद२३पुरुषोत्तम२४वीतरागा२५प्ताः ॥२५॥
१ अर्हति चतुस्त्रिंशदतिशयान्, सुरेन्द्रकृतामशोकाद्यष्टमहाप्रातिहार्यरूपां पूजामिति वा अर्हन् । 'अर्ह योग्यत्वे' (भ्वा.प.से.) 'अर्ह मह पूजायां' (भ्वा.प.से.) वा 'अर्हः प्रशंसायाम्'३।२।१३३।। इति शतृप्रत्ययः, उगिदचाम्-'७।१।७०।। इति नुम् । अर्हन्तौ, अर्हन्तः इत्यादि । अर्ह्यात् सुरनरवरादिसेवामिति । 'अर्ह पूजायाम्' (भ्वा.प.से.) अस्माद् बाहुलकात् 'तॄभूवहिवसिभासि-' (उणा-४०८) इत्यादिना आशिष्यर्थे झचि 'झोऽन्तः' ७।१।३॥ इति अन्तादेशे अर्हन्त इत्यदन्तोऽपि । अर्हन्तीति पचाद्यचि, पृषोदरादित्वाद् मुमागमे 'अर्हम्' इति च अव्ययम् । २ जयति अभिभवन्ति रागद्वेषादिशत्रूनिति जिनः । 'जि अभिभवे' (भ्वा.प.अ.), अभिभवार्थोऽयं सकर्मकः । यथोक्तं माधवेन "जयिर्जयाभिभवयोराद्येऽर्थेऽसावकर्मकः ।
उत्कर्षप्राप्तिराद्योऽर्थो द्वितीयेऽर्थे सकर्मकः॥१॥" [मा.धातुवृत्तिः
भ्वादिः, धातु सं-३६६] इति । 'इण्सिजि(सिञ्जि)भ्यो नक्'(उणा-२८२) इति नक् । यद्वा जयति सर्वोत्कर्षेण वर्तत इति । अनेनैव सूत्रेण नक् । ३ संसारसमुद्रस्य प्रयोजनजातस्य वा पारं पर्यन्तं गतः प्राप्त: पारगतः । 'द्वितीया श्रितातीतपतितगतात्यस्त- प्राप्तापन्नैः'२।१।२४॥ इति समासः । ४ अतीतानागतवर्तमानरूपत्रीन् कालान् वेत्ति त्रिकालवित् । 'विद ज्ञाने' (अ.प.से.), 'क्विप्'३।२।७६॥ इति क्विप् । ५ क्षीणान्यष्टौ ज्ञानावरणीयादिकर्माण्यस्य क्षीणाष्टकर्मा, नकारान्तः । ६ परमे पदे स्थाने तिष्ठति परमेष्ठी । 'ष्ठा गतिनिवृत्तौ' (भ्वा.प.अ.), 'परमे स्थः कित्'(उणा-४५०) इतीनि:, 'आतो लोप इटि च'६।४।६४॥ इत्यालोपः, 'तत्पुरुषे कृति बहुलम्'६।३।१४॥ इति सप्तम्यलुक्, 'स्थास्थिन्स्थ(स्था)नां षत्वं वक्तव्यम्'(वा-८।३।९७॥) इति षत्वम् । परमेष्ठिनौ, परमेष्ठिन: इत्यादि । ७ जगतामधीष्ट इत्येवंशील: अधीश्वरः । 'ईश ऐश्चर्ये' (अ.आ.से), 'स्थेशभासपिसकसो वरच्'३।२।१७५॥ इति वरच् । ८ शं कल्याणरूपतां भवते प्राप्नोति शम्भुः । 'भूङ् प्राप्तौ' (चु.आ.से.), आत्मनेपदी, 'आ घृषाद्वा'(गणसूत्रः) इति न णिच्, मितद्व्रादित्वात्(वा-३।२।१८०॥) डुः । शं शाश्वतसुखम्, तत्र भवतीति वा । 'भू सत्तायाम्' (भ्वा.प.से.), मितद्र्वादिः । शमयति क्लेशमिति वा । 'शमु उपशमे' (दि.प.से.), हेतुमण्णिजन्तः, 'शमेर्भुन्' इति भुन् वा । ''शं सुखं भवत्यस्मादिति व्युत्पत्तिस्त्वपादाने डुप्रत्ययाभावाच्चिन्त्या'' [मा.धातुवृत्तिः, भ्वादिः, धातुसं-१] इति माधवः । ९ स्वयमित्येतदव्ययमात्मनेत्येतदर्थे, तेन स्वयमात्मना तथा भव्यत्वादिसामग्रीपरिपाकवशात्, न तु परोपदेशात् भवतीति स्वयम्भूः । क्विप् । १० भगः त्रैलोक्याधिराजत्वम्, परज्ञानं वा अतिशयेनाऽस्यास्तीति भगवान् । 'तदस्यास्त्यस्मिन्-'५।२।९४॥ इत्यतिशयेऽर्थे मतुप, 'मादुपघायाश्च मतोर्वोऽयवादिभ्यः'८।२।९।। इति मस्य वत्वम्, 'उगिदचाम्-'७।१७०।। इति नुम्, 'हल्ङयाभ्य:-'६।१।६८॥ इति सुलोपः, 'संयोगान्तस्य
लोपः'८।२।२३॥ । ११ जगतां प्रभुः जगत्प्रभुः । १२ तीर्यते संसारार्णवोऽनेनेति तीर्थम् । 'तॄ प्लवनतरणयो:' (भ्वा.प.से.), ‘पातॄतुदिवचिरिचिसिचिभ्यस्थक्'(उणा-१६४), 'ऋॄत इद्धतोः' ७।१।१००॥, 'उरण् रपरः' १।१।५१।।, 'हलि च'८।२।७७॥ इति दीर्घत्वम् । तीर्थं चतुर्विधः सङ्घः, प्रथमगणभृद् वा, तं करोति तीर्थङ्करः। 'डुकृञ् करणे'(त.उ.अ.) 'अभयादौ च' इति खच्, 'अरुर्द्विषदजन्तस्य- '६।३।६७॥ इति नुम् (मुम्) । १३ तीर्थकर इत्यत्र 'कृञो हेतुताच्छील्यानुलोम्येषु'३।२।२०॥ इति टः । १४ जिनाः सामान्यकेवलिनस्तेषामीश्वरो जिनेश्वरः ॥२४॥ १५ स्याद् अनेकान्तं वदतीत्येवंशीलः स्याद्वादी । 'स्यात्' इत्यव्ययमनेकान्तवाचकम् । 'वद व्यक्तायां वाचि' (भ्वा.प.से.) 'सुप्यजातौ-'३।२।७८॥ इति णिनिः, अत उपाधायाः'७।२।११६॥ इति वृद्धिः । स्याद्वादिनौ स्याद्वादिनः इत्यादि । स्याद्वादनं स्याद्वादः, स्याद्वादोऽस्यास्तीति वा । 'अत इनि ठनौ'५।२।११५॥ इतीनिः । यौगिकत्वाद् अनेकान्तवाद्यपि । १६ अभयं मोक्षः, तं ददाति अभयदः, भयम् इहपरलोकादानादि सप्तधा, एतत्प्रतिपक्षतोऽभयं विशिष्टमात्मनः स्वास्थ्यं ददाति वा, निरुपधिपरदुःखहानेच्छत्वात् । 'डुदाञ् दाने' (जु.उ.अ.) 'सुपि'३।२।८॥ इति योगविभागात् कः, 'आतो लोप इटि च'६।४।६४॥ इत्यालोपः । १७ सर्वेभ्यः प्राणिभ्यो हितः सार्वः । शैषिकोऽण् । 'तस्मै हितम्'५।१।५॥ इति छप्रत्यये सर्वीयोऽपि । 'जयन्ति ते सदा सन्तः सर्वीया यैरुपमार्जितम् इत्यादिप्रयोगाः। १८ सर्वम् अतीतानागतवर्तमानादिकं जानाति सर्वज्ञः । 'ज्ञा अवबोधने ' (क्र्या.प.अ.), 'आतोऽनुपसर्गे क:'३।२।३॥, 'आतो लोप इटि च'६।४।६४॥ १९ सर्वं पश्यतीत्येवंशील: सर्वदर्शी। 'दृशिर् प्रेक्षणे' (भ्या.प.अ.), 'सुप्यजातौ णिनिस्ताच्छील्ये'३।२।७८॥, 'पुगन्तलघूपधस्य-'७।३।८६॥ इति गुणः । २० सर्वथाऽऽवरणविलये चेतनास्वरूपाऽऽविर्भावः, केवलम्, तदस्यास्ति केवली । २१ देवानामप्यधिदेवः देवाधिदेवः । २२ बोधिरर्हत्प्रणीतधर्मप्राप्तिः, तां ददाति बोधिदः । "बोधिर्बोधसमाधौ (बौद्धसमाधौ) चार्हद्धर्माप्तौ च पिप्पले'' [अनेकार्थसङ्ग्रहः २।२४०] इत्यनेकार्थः । २३ पुरुषाणामुत्तमः पुरुषो- त्तमः । पुरुषेभ्य उत्तमः पुरुषोत्तम इति पञ्चमीयोगविभागात् समासो वा । २४ विशेषेण इतो गतो रागोऽस्मादिति वीतरागः । २५ यथाभूतार्थोपदेष्टृत्वाद् आप्तः । पञ्चविंशतिः सामान्य तस्तीर्थङ्करनाम्नाम् ॥२५॥
एतस्यामवसर्पिण्या१मृषभो२ऽजित३शम्भवौ ।
४अभिनन्दनः ५सुमतिस्ततः ६पद्मप्रभाभिधः ॥२६॥
७सुपार्श्व८श्चन्द्रप्रभश्च९सुविधिश्चाथ१०शीतलः ।
११श्रेयांसो १२ वासुपूज्यश्च १३विमलो१४ऽनन्ततीर्थकृत् ॥२७॥
१५धर्मः १६शान्तिः १७कुन्थु१८ररो१९मल्लिश्च २०मुनिसुव्रतः ।
२१नमि२२र्नेमिः २३पार्श्वो २४वीरश्चतुर्विंशतिरर्हताम् ॥२८॥
एतस्याम् इति वर्तमानायां दशकोटाकोटीसागरोपमप्रमाणायाम्, अवसर्पिण्याम् कालविशेषे । १ ऋषति गच्छति परमं पदमिति ऋषभः । 'ऋषी गतौ' (तु.प.से.), 'ऋषिवृषिभ्यां किदभच्'(उणा- ४०३) इत्यभच् । यद्वा ऊर्वोर्वृषभचिह्नं भगवतोऽ
भूत्, भगवतो जनयित्र्या च चतुर्दशस्वप्नानामादौ वृषभो दृष्टः, तेन हेतुना ऋषभः प्रोच्यते । २ परीषहोपसर्गादिभिर्न जीयते स्मेति अजितः । 'जि अभिभवे '(भ्वा.प.अ.), 'निष्ठा'३।२।१०२॥ इति क्तः । सर्व एव च भगवन्तो यथोक्तस्वरूपा एवेत्यतो विशेषनामार्थमाह गर्भेऽस्मिन् द्यूते राज्ञा भगवज्जननी न जितेति अजितः । ३ शमिति मान्यमव्ययम्,, सुखवाचि कल्याणवाचि च । शं सुखं श्रेयो वा,, तस्य भवः सत्ता यस्मिन् स शम्भवः । शं सुखं श्रेयो वा,, तस्य भव आप्तिर्वा यस्मात् स शंभवः । शंरूपो भवो जन्मास्येति वा । "भवः सत्ताप्तिजन्मसु रुद्रे श्रेयसि" [अनेकार्थसङ्ग्रहः,,२५२१ ॥] इत्यनेकार्थः। संभवो दन्त्यादिरपि, तत्र संभवन्ति चतुस्त्रिंशदतिशयगुणा अस्मान्निति संभवः । सर्वेऽपि भगवन्तो यथोक्तस्वरूपा एव,, अतो विशेषार्था ऽभिधानं तु गर्भस्थेऽस्मिन् भगवति अभ्यधिकसस्यसंभवात् संभवः । ४ अभिनन्द्यन्ते देवेन्द्रादिभिरिति अभिनन्दनः । 'टुनदि समृद्धौ' (भ्वा.प.से.),, कर्मणि ल्युट् । विशेषार्थस्तु गर्भात् प्रभृत्येवाऽभीक्ष्णं शक्रेन्द्रेणाभिनन्दनाद् अभिनन्दनः । ५ शोभना मतिः अस्य सुमतिः । विशेषाभिधाननिबन्धनं तु गर्भस्थेऽर्हति मातुः सुनिश्चिता मतिरासीदिति सुमतिः । ६ निष्पङ्कतामङ्गीकृत्य पद्मस्येव प्रभा यस्य स पद्मप्रभः। विशेषाभिधाननिबन्धनं तु गर्भस्थे भगवति जनन्याः पद्मशय्याशयनदोहदो देवतया पूरितः । पद्मवर्णश्च भगवानिति पद्मप्रभः ॥२६॥ ७ शोभनानि पार्श्वानि अस्येति सुपार्श्वः । विशेषार्थस्तु गर्भगते भगवति जनन्यपि शोभनपार्श्वाऽभूदिति सुपार्श्वः । इह सर्वत्र सामान्याभिधानम्, विशेषाभिधानं चाऽधिकृत्याऽन्वर्थाभिधानविस्तरोऽनुक्तोऽपि द्रष्टव्यः । ८ चन्द्रस्येव प्रभा कान्तिरस्य चन्द्रप्रभः । गर्भस्थे भगवति मातुश्चन्द्रपानदोहदः। चन्द्रवर्णश्च भगवानिति चन्द्रप्रभः। ९ शोभनो विधिः सर्वत्र कौशल्यमस्य सुविधिः। गर्भस्थे भगवति जनन्यपि सर्वविधिषु विशेषेण कुशलाऽभूदिति सुविधिः । १० सकलसत्त्वसन्तापहरणात् सर्वजनाह्लादकत्वाच्च शीतलः । गर्भ गतेऽस्मिन् पितुः पूर्वोत्पन्नदाहज्वरव्यथा भगवन्मातृकरकमल स्पर्शादुपशान्तेति शीतलः । ११ श्रेयांसौ प्रशस्यौ अंसावस्य श्रेयान् [श्रेयांसः] । सर्वस्यैव हितकर इति वा श्रेयांसः । अकारान्तत्वं पृषोदरादित्वात् । गर्भस्थे भगवति केनाप्यनाक्रान्तपूर्वा देवताधिष्ठिता शय्या जनन्या आक्रान्तेति, तत्र च श्रेयो जातमिति श्रेयांसः । १२ वसुपूज्यस्य नृपतेरयं वासुपूज्यः । 'तस्येदम्'४।३।१२०॥ इत्यण् । वसूनां देवविशेषाणां पूज्यो वसुपूज्यः, वसुपूज्य एव वासुपूज्यः, 'प्रज्ञादिभ्यश्च'५।४।३८॥ इत्यण् वा । गर्भस्थे भगवति वासवो देवराजो अभीक्ष्णं भगवन्मातरं पूजयति स्म । वसूनि रत्नानि, तैः कृत्वा भगवद्गृहं च पूरयति स्मेति वासुपूज्यः । १३ विगतो मलो अस्मात्, विमलानि ज्ञानादीन्यस्येति वा विमलः । गर्भस्थे भगवति मातुस्तनु मतिश्च विमला जातेति वा विमलः । १४ नास्ति गुणानामन्तोऽस्येति अनन्तः । अनन्तकर्मांश जयादिति वा । अनन्तानि ज्ञानादीन्यस्येति वा । नास्ति अन्तो विनाशोऽस्येति वा । गर्भस्थे भगवति जनन्या रत्नविचित्रमतिमहाप्रमाणं च दामस्वप्ने दाम दृष्टम्, तस्मादनन्त इति वा । अनन्तजिदेकदेशो वा अनन्तः, भीमो भीमसेन इतिवत् । अनन्तश्चासौ तीर्थकृच्च अनन्ततीर्थकृत् । १५ दुर्गतौ प्रपतन्तं सत्त्वसङ्घं धारयति धर्मः । 'धृञ् धारणे' (भ्वा.उ.अ.), णिजन्तः, 'अर्ति-स्तु-सु-हु-सृ-धृ-क्षि-क्षु-भा-या-[वा]-पदि-यक्षि-नीभ्यो मन्'(उणा--१३७), 'णेरनिटि '६।४।५१॥ इति णिलोपः । गर्भगते भगवति जननी दानदयादिधर्मपरायणा जातेति वा धर्मः । १६ शान्तियोगात्, तदात्मकत्वात्, तत्कर्तृत्वाद् वा शान्तिः । गर्भस्थे भगवति पूर्वोत्पन्नाऽशिवोपशान्तिर्जातेति शान्तिः । १७ कुः पृथिवी, तत्र तिष्ठति कुन्थुः । पृषोदरादिः । गर्भस्थे भगवति रत्नानां कुन्थुराशिं दृष्टवतीति कुन्थुः । यद्वा मनोहराभ्युन्नतभूप्रदेशे स्तूपं रत्नविचित्रं माता स्वप्ने दृष्ट्वा जागृता, ततः कुन्थुः । १८-
"सर्वोत्तमे महासत्त्व: कुले य उपजायते ।
तस्याभिवृद्धये वृद्धैरसावर उदाहृतः॥१॥"
इति वचनाद् अरः । गर्भगते भगवति जनन्या स्वप्नेऽतिप्रमाणः सर्वरत्नमयोऽतिसुन्दरो यस्मादरो दृष्टस्ततोऽर इति । १९ परीषहादिमल्लगणजयान्निरुक्तिवशाद् मल्लिः । तथा गर्भगते भगवति जनन्याः सुरभिपञ्चवर्णकुसुमशयनीयदोहदो देवतया पूरितस्तस्माद् मल्लिरिति वा । २० मनुते जगतस्त्रिकालावस्थामिति मुनिः । 'मनु अवबोधने' (त.आ.अ.), 'मनेरुच्चोपधाया:' (उणा-५६२) इति इन्, उपधायाश्चोत्वम् । शोभनानि व्रतान्यस्य सुव्रतः । मुनिश्चासौ सुव्रतश्च मुनिसुव्रतः । गर्भगते भगवति माता मुनिवच्छोभनव्रता जातेति वा । २१ नमन्ति प्रह्वीभवन्ति परीषहोपसर्गा अमुमिति नमिः । ‘णमु प्रह्वत्वे शब्दे च' (भ्वा.प.अ.), 'इन् सर्वधातुभ्य:' (उणा-५५७) इति इन्, ‘णो नः'६।१।६५॥ इति नत्वम् । गर्भस्थे भगवति शत्रुनृपैरपि प्रणतिः कृतेति वा नमिः । परीषहोपसर्गादिनामनाद्वा । २२ नयति प्रापयति सन्मार्गदर्शनात् सिद्धिसुखमिति नेमिः । ‘णीञ् प्रापणे' (भ्वा.उ.अ.), 'नियो मिः' (उणा-४८३) इति मिप्रत्ययः, 'सार्वधातुकार्धधातुकयो:-'७।३।८४॥ इति गुणः । धर्मचक्रस्य नेमिवन्नेमिरिति वा ।
'णमु प्रह्वत्वे शब्दे [च]' (भ्वा.प.अ.) अस्य पृषोदरादित्वाद् वा । 'अरिष्टनेमिपृतनाजमाशुम्' इति निगमः । 'नेमी' इति नकारान्तोऽपि, यथा 'वन्दे सुव्रतनेमिनौ' इति प्रयोगः । २३ स्पृशति जानाति ज्ञानेन सर्वमिति पार्श्वः । 'स्पृश संस्पर्शने' (तु.प.अ.), पृषोदरादिः । गर्भस्थे भगवति जनन्या शय्यास्थया सान्धकाररजन्यां कृष्णसर्पो दृष्ट इति गर्भानुभावोऽयमिति मत्वा पश्यतीति निरुक्तार्थत्वात् पार्श्वः । पार्श्वनामा यक्ष सेवकोऽस्येति वा । 'अर्शआदिभ्योऽच्'५।२।१२७॥, पार्श्वनाथस्यैकदेशः पार्श्वो वा, भीमो भीमसेन इति यथा । २४ विशेषेण ईरयति कम्पयति प्रेरयति कर्मशत्रूनिति वीरः । विपूर्वः 'ईर गतिकम्पनयोः' (आ.आ.से.), पचाद्यच्। विशिष्टा ई: लक्ष्मी: तपोरूपा, तीर्थ कृन्नामकर्मोदयसमुद्भूता वा, तया राजतेऽसौ वीरः । 'राजृ दीप्तौ' (भ्वा.उ.से.), अन्येभ्योऽपि-(अन्येष्वपि-)'३।२।१०१॥ इति डः । यद्वा ईरणमीरः, 'ईर गतौ' (अ.आ.से.) भावे घञ् । 'ये गत्यर्थास्ते ज्ञानार्थाः प्राप्त्यर्थाश्च' इति वचनाद् विशिष्ट ईरो ज्ञानमस्य वीरः । यद्वा विशिष्टा पञ्चत्रिंशद्वाग्गुणोपेता इरा वाणी यस्येति वा । कर्मशत्रुसेनाजेतृत्वाद् दर्शितपराक्रमो वा वीर इव वीरः । यद्वा निरुक्तिवशात् कर्मततिविदारणाद् वा । यदुक्तम् - “विदारणात् कर्मततेर्विभञ्जनात्, तपः श्रिया विक्रमतस्तथाद्भुतात् । भवत्प्रमोदः किल नाकनायकश्चकार ते 'वीर' इति प्रथाभिधानम् ॥२॥" इति । अर्हतां वर्तमानानां चतुर्विंशतिः ऋषभादि वीरान्तानां जिनानां नामानीत्यर्थः ॥२८॥
अथ विशेषतो वर्तमानावसर्पिण्यां चतुर्विंशत्यर्हतां मध्ये यस्य यावन्ति नामानि तस्य तावन्त्याह -
१ ऋषभो २वृषभः
१ ऋषति परमपदं गच्छति ऋषभः । २ वृषति सम्यक् संयमभारमुद्ववहति वृषभः । 'ऋषी गतौ' (तु.प.से.), 'वृष उद्वहने', 'ऋषिवृषिभ्यां कित्' (उणा-४०३) इत्यभच् । वृषभचिह्नत्वाद् वा । द्वे श्रीऋषभस्य ॥
१श्रेयान् २श्रेयांसः
१ त्रिभुवनस्यापि प्रशस्यतमत्वेन श्रेयान् । २ श्रेयांसौ अंसौ अस्य श्रेयांसः । पृषोदरादिः । द्वे श्रेयांसस्य॥
स्याद१नन्तजिद२नन्तः ।
१ अनन्तान् कर्मांशान् जयति अभिभवति अनन्त जित् । 'जि अभिभवे' (भ्वा.प.अ.), 'क्विप्' ३।२।७६॥ इति क्विप्, 'ह्रस्वस्य-'६।१।७१॥ इति तुक् । अनन्तैर्ज्ञानादिभिः जयति, सर्वोत्कर्षेण वर्तत इति वा । 'जि जये' (भ्वा.प.अ.), 'क्विप्-'३।२।७६॥, 'ह्रस्वस्य-'६।१७१॥ इति तुक् । २ नास्ति अन्तो अस्य अनन्तः । द्वे अनन्तनाथस्य ॥
सुविधिस्तु पुष्पदन्तः
१ शोभनो विधिः सर्वत्र कौशल्यामस्य सुविधिः । २ पुष्पाणि पुष्पकलिकाः, तद्वद् मनोहरदर्शनत्वात् पुष्पदन्तः । द्वे सुविधिनाथस्य ॥
१मुनिसुव्रत२सुव्रतौ तुल्यौ ॥२९॥
१ मुनिसुव्रतः प्राग् व्याख्यातः (अभि.-श्लो.-२८) । २ मुनिसुव्रतैकदेशः सुव्रतः । यथा सत्यभामा भामेतिवत् । तथा मुनिरपि, भीमो भीमसेन इतिवत् । द्वे मुनिसुव्रतस्य ॥२९॥
१अरिष्टनेमिस्तु २नेमिः
१ रिष्टं शुभम्, न रिष्टम् अरिष्टं अशुभम्, तस्याऽरिष्टस्य प्रध्वंसकत्वाद् नेमिः, चक्रधारे वा अरिष्टनेमिः । यद्वा गर्भस्थे भगवति जनन्या रिष्टरत्नमयो माहनेमिर्दृष्ट इति रिष्टनेमिः, नास्ति रिष्टनेमिरन्योऽस्मादिति अरिष्टनेमिः। अपश्चिमादिशब्दवद् नञ्पूर्वत्वे साधुः । अरिष्टनेमिरिकारान्त इन्नन्तश्च । 'मात्रा तस्यारिष्टनेमिरित्याख्यां तत्पिता व्यधात्' इति । २ नयति वाञ्छितसौख्यमिति नेमिः । द्वे नेमिनाथस्य ॥
१वीर२श्चरमतीर्थकृत् ।
३महावीरो ४वर्धमानो ५देवार्यो ६ज्ञातनन्दनः ॥३०॥
२ चरमः अन्तिमः, पश्चिम इति यावत्, स चासौ तीर्थकृच्च चरमतीर्थकृत् । ३ महांश्चासौ वीरश्च महावीरः । अन्तरङ्गारिजेतृत्वात् । ४ उत्पत्तेरारभ्य ज्ञानादिभिर्वर्द्धते वर्द्धमानः । 'वृधु वृद्धौ' (भ्वा.आ.से.) 'लटः शतृशानचावप्रथमासमानाधिकरणे'३।२।१२४॥ इति लटः शानच्, 'आने मुक्'७।२।८२॥ इति मुक् । यद्वा गर्भस्थे भगवति सिद्धार्थराजकुलं धनधान्यादिभिर्वर्द्धते इति वर्द्धमानः । ५ आराद् हेयधर्माद् यातः आर्यः, देवश्चासावार्यश्च देवार्यः । देवैरर्य्यत अभिगम्यत इति वा । 'ऋ गतौ'(जु.प.अ.), ऋहलोर्ण्यत्'३।१।१२४॥, देवानाम् इन्द्रादीनाम् अर्यः, स्वामीति वा, 'अर्य: स्वामिवैश्ययोः' ३।१।१०३॥ इत्युक्तत्वात् । ६ ज्ञातकुलोत्पन्नत्वाद् ज्ञातः सिद्धार्थराजः, तस्य नन्दनः ज्ञातनन्दनः । षण्महावीरस्य ॥३०॥
गणा नवाऽस्यर्षिसङ्घाः
अस्य श्रीमहावीरजिनस्य ऋषीणां समूहाः सङ्घाः गणाः नवसङ्ख्याका अभूवन् । यद्यपि भगवतः श्रीवीरस्यैकादश गणधराः आसंस्तथापि नवानामेव गणभृतां विभिन्ना वाचना अभूवन्, यतोऽकम्पिताचलभ्रात्रोर्मेतार्यप्रभासयोश्च समाना एव वाचना अभवन् इति नवैव गणाः । यत्त्रिषष्टिशलाकापुरुषचरिते -
"श्रीवीरनाथस्य गणधरेष्वेकादशस्वपि ।
द्वयोर्द्वयोर्वाचनयोः साम्यादासन् गणा नव ॥१॥"
[त्रिषष्ठिशलाका-पर्व, १०, श्लो.-१७५] इति ॥
एकादशगणाधिपाः ।
१इन्द्रभूति२रग्निभूति३र्वायुभूतिश्च गोतमाः ॥३१॥
४व्यक्तः ५सुधर्मा ६मण्डित७मौर्यपुत्राव८कम्पितः ।
९अचलभ्राता १०मेतार्यः ११प्रभासश्च पृथक्कुलाः ॥३२॥
श्रीमहावीरस्य गणाधिपाः गच्छाधिपाः एकादश,, तन्नामानि । १ इन्द्रोऽस्य भूयादिति इन्द्रभूतिः । 'क्तिच्क्तौ च संज्ञायाम्'३।३।१७४॥ इति क्तिच्, 'तितुत्र-'७।२।९॥ इति इण्निषेधः । २ एवम् अग्निरस्य भूयादिति अग्निभूतिः । ३ वायुरस्य भूयादिति वायुभूतिः । एते त्रयोऽपि गोतमस्यापत्यानि गौतमाः । 'ऋष्यन्धकवृष्णिकुरुभ्यश्च'४।१।११४॥ इत्यण् । बहुत्वे 'तद्राजस्य बहुषु तेनैवास्त्रियाम्'२।४।६२॥ इत्यणो लुक्, गोतमाः, गोतमवंशजा इत्यर्थः ॥३१॥ ४ व्यज्यते गुणैः कृत्वेति व्यक्तः । विपूर्वः 'अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु'(रु.प.वे.), क्तः, 'चोः कु:'८।२।३०॥ इति जस्य गत्वं, 'खरि च'८।४।५५॥ चर्त्वं ककारः, 'अनिदिताम्-'६।४।२४॥ इति न्लोपः । ५ शोभनो धर्मोऽस्य सुधर्मा । 'धर्मादनिच् केवलात्'५।४।१२४॥ इत्यनिच् । सुधर्माणौ, सुधर्माण: इत्यादि । अग्निवैश्यगोत्रजश्च । ६-७ ज्ञानादिगुणैर्मण्ड्यते स्म मण्डितः । 'मडि भूषायाम्'(भ्वा.प.से.), क्तः, 'आर्धधातुकस्येड्वलादे:'७।२।३५॥ इतीट् । मौर्यस्य पुत्रो मौर्यपुत्रः मण्डितमौर्ययोः पुत्रौ इति । मण्डितपुत्रोऽपि । एतौ वाशिष्ठकाश्यपगोत्रौ । ८ न कम्पितवान् इति अकम्पितः । 'कपि चलने'(भ्वा.आ.से.), क्त: 'आर्धधातुकस्य-'७।२।३५॥ इतीट् । गौतमगोत्रः । ९ अचलस्य भ्राता अचलभ्राता । हारितगोत्र: । १० मां लक्ष्मीम् इतः प्राप्त: मेतः, स चासौ आर्यश्च मेतार्यः । ११ प्रभासते प्रभासः । 'भासृ दीप्तौ'(अ.आ.से.), पचाद्यच् । एतौ कोण्डिन्यौ । पृथग् विभिन्नानि कुलानि येषां ते पृथक्कुलाः ॥३२॥
केवली चरमो १जम्बूस्वामी
१ चरमः अन्तिमः केवली केवलज्ञानवान्, न तु तीर्थङ्करः । ततः परस्यामवसर्पिण्यां केवलिनामसम्भवात् सद्गुणरत्नमयत्वेन जम्बूद्वीपे जम्बूरिव जम्बूः, स चासौ स्वामी च जम्बूस्वामी ॥
अथ १प्रभवप्रभुः ।
२शय्यम्भवो ३यशोभद्र ४सम्भूतविजयस्ताँ ॥३३॥
५भद्रबाहुः ६स्थूलभद्रः ७श्रुतकेवलिनो हि षट् ।
१ प्रभवन्ति शास्त्राण्यस्मादिति प्रभवः । प्रकृष्टो ज्ञानादिगुणानां भवः प्राप्तिर्वा यस्य,, यस्माद्वा प्रभवः,, स चासौ प्रभुश्च प्रभवप्रभुः । २ शय्यायां भवति शय्यम्भवः । पृषोदरादिः । ३ यशसा भद्रः कल्याणरूपो यशोभद्रः । ४ सं सम्यग् भूतः प्राप्तो रागादीनां विजयो येन स सम्भूतविजयः ॥३३॥ ५ भद्रौ बाहू अस्य भद्रबाहुः । ६ स्थूलमुपचितं भद्रं कल्याणमस्य स्थूलभद्रः । एते षडपि श्रुतेन केवलिनः श्रुतकेवलिनः, चतुर्दशपूर्वधरत्वात् ॥
१महागिरि२ सुहस्त्याद्या वज्रान्ता दशपूर्विणः ॥३४॥
१ प्रसरत्परीषहोपसर्गादिपवनपूरैरकम्प्यमानत्वाद् महागिरिरिव महागिरिः । २ दुःकर्मद्रुमोन्मूलने सुहस्तीव सुहस्ती । महागिरिसुहस्तिनावाद्यौ येषां ते महागिरिसुहस्त्याद्याः । १० परतीर्थिकदर्पाचलदलने वज्र इव वज्रः वज्रस्वामी । सोऽन्ते येषां ते वज्रान्ताः । दशभिः पूर्वैः कृत्वा पूर्विणोः दशपूर्विणः । दश पूर्वाण्येषाम्, सन्तीति वा । 'अत इनिठनौ'५।२।११५॥ इतीनिः। ततः परं दशपूर्वधराणामसम्भवात् ॥३४॥
इक्ष्वाकुकुलसम्भूताः स्याद् द्वाविंशतिरर्हताम् ।
मुनिसुव्रतनेमी तु हरिवंशसमुद्भवौ ॥३५॥
इक्ष्वाकुसंज्ञं कुलं वंश इक्ष्वाकुकुलं, तत्र सम्भूताः उत्पान्नाः अर्हताम् ऋषभादीनां द्वाविंशतिः । तुशब्दोऽत्र विशेषे । मुनिसुव्रतनेमी एतौ हरिवंशसंज्ञके कुले समुद्भवौ जातौ ॥३५॥
१ नाभिश्च २ जितशत्रुश्च ३ जितारिरथ ४ संवरः ।
५ मेघो ६ धरः ७ प्रतिष्ठश्च ८ महसेननरेश्वरः ॥३६॥
९ सुग्रीवश्च १० दृढरथो ११ विष्णुश्च १२ वसुपूज्यराट् ।
१३ कृतवर्मा १४ सिंहसेनो १५ भानुश्च १६ विश्वसेनराट् ॥३७॥
१७ सूरः १८ सुदर्शन: १९ कुम्भः २० सुमित्रो २१ विजयस्तथा ।
२२ समुद्रविजयश्चा२३ ऽश्वसेनः २४सिद्धार्थ एव च ॥३८॥
१ नह्यत्यऽन्यायकारिणो हाकारादिभिर्नीतिभिरिति नाभिः, चरमकुलकरः । 'णह बन्धने' (दि.उ.अ.), 'नहो भश्च' (उणा-५६५) इतीन्, स च णिद् भोन्तादेश । २ जिताः पराभूताः शत्रवोऽनेनेति जितशत्रुः । ३ एवं जिता अरयोऽनेन जितारिः । ४ संवृणोतीन्द्रियाणि संवरः । 'वृञ् वरणे' (स्वा.उ.से.), पचाद्यच् । ५ निखिलजनमनोदुःखसन्तापहरणाद् मेघ इव मेघः । ६ धरति पृथिवीभारमिति धरः । 'धृञ् धारणे' (भ्वा.उ.अ.), पचाद्यच् । शत्रुप्रचण्डपवनैरकम्प्यत्वाद् धर इव अद्रिरिव धरः । ७ प्रकर्षेण तिष्ठति धर्मकार्ये इति प्रतिष्ठः । ८ महापूज्या सेनाऽस्य
महसेनः । नराणामीश्वरो नरेश्वरः । महसेनश्चासौ नरेश्वरश्च महसेननरेश्वरः ॥३६॥ ९ शोभना ग्रीवा यस्य स सुग्रीवः । १० दृढो रथोऽस्य दृढरथः । ११ वेवेष्टि व्याप्नोति बलैः पृथिवीमिति विष्णुः । 'विष्लृ व्याप्तौ' (जु.उ.अ.), 'विषेः किच्च' (उणा-३१९) इति नुः । १२ अन्यैर्नृपतिभिर्वसुभिः धनैः कृत्वा पूज्यते वसुपूज्यः । राजतेऽसौ राट् । वसुपूज्यश्चासौ राट् च वसुपूज्यराट् । १३ कृतं वर्माऽनेन कृतवर्मा, नकारान्तः । १४ सिंहवत् पराक्रमवती सेनास्य सिंहसेनः । १५ धर्मार्थकाममोक्षवर्गेण भाति भानुः । 'भा दीप्तौ' (अ.प.अ.), 'दाभाभ्यां नुः' (उणा-३१२) इति नुः । १६ विश्वव्यापिनी सेनाऽस्य विश्वसेनः । स चासौ राट् च विश्वसेनराट् ॥३७॥ १७ तेजसा सूर इव सूरः । सूरयति(ते) विक्रान्तो भवति सूरः । 'सूर वीर विक्रान्तौ' (चु.आ.से.), चुरादिः, ततोऽच् । १८ शोभनं दर्शनमस्य सुदर्शनः। १९ शौर्यौदार्यादिगुणपयसामाधारभूतत्वात् कुम्भ इव कुम्भः । २० शोभनानि मित्राण्यस्य सुमित्रः । २१ विजयते शत्रूनिति विजयः । २२ गाम्भीर्यगुणेन समुद्रस्यापि विजेतेति समुद्रविजयः । २३ अश्वप्रधाना सेनाऽस्य अश्वसेनः । २४ सिद्धाः प्रतिष्ठां प्राप्ता अर्था पुरुषार्थाः धर्मादयोऽस्य सिद्धार्थः ॥३८॥
१ मरुदेवा २ विजया ३ सेना ४ सिद्धार्था च ५ मङ्गला ।
ततः ६ सुसीमा ७ पृथ्वी ८ लक्ष्मणा ९ रामा ततः परम् ॥३९॥
१० नन्दा ११ विष्णु१२र्जया १३ श्यामा १४ सुयशाः १५ सुव्रता१६ऽचिरा ।
१७श्री१८देवी १९प्रभावती च २०पद्मा २१वप्रा २२शिवा तथा ॥४०॥
२३वामा २४त्रिशला क्रमतः पितरो मातरोऽर्हताम् ।
१ मरुद्भिर्देवैः दीव्यते स्तूयते मरुदेवा । 'दिवु क्रीडादौ' (दि.प.से.), घञ्, पृषोदरादिः । मरुदेवीति ङीबन्तमपि। २ विजयते विजया । ३ सह इनेन जितारिस्वामिना वर्तते सेना । ४ सिद्धोऽर्थः प्रयोजनं यस्याः सा सिद्धार्था । ५ मङ्गं पुण्यं लाति मङ्गला । "मङ्गशब्दोऽयमुद्दिष्ट: पुण्यार्थस्याभिधायकः" इत्युक्तेः । मङ्गलहेतुत्वाद् वा मङ्गला । ६ शोभना सीमा कुलमर्यादाऽस्याः सुसीमा । ७ स्थिरत्वात् पृथिवीव पृथिवी । ८ लक्ष्मी: शोभा सम्पद् वाऽस्त्यस्याः लक्ष्मणा । ९ धर्मकर्मणि रमते रामा । 'रमु क्रीडायाम्' (भ्वा.आ.अ.), ज्वलादित्वाद् णः, ततष्टाप् ॥३९॥ १० नन्दति समृद्धिं प्राप्नोति सत्पुत्रेणेति नन्दा । 'टुनदि समद्धौ' (भ्वा.प.से.), अच् । ११ वेवेष्टि व्याप्नोति सद्गुणैर्जगदिति विष्णुः। 'विष्लृ व्याप्तौ'(जु.उ.अ.), 'विषेः कित्' (उणा-३१९) इति नुः, 'रषाभ्यां-'८।४।१॥ इति णत्वम्। १२ जयति सर्वोत्कर्षेण वर्तते जया । 'जि जये' (भ्वा.प.अ.), पचाद्यच् । १३ श्यामवर्णत्वात् श्यामा । १४ शोभनं यशोऽस्याः सुयशाः । १५ पतिव्रतात्वाच्छोभनं व्रतमस्याः सुव्रता । १६ न चिरयति उत्सुका भवति धर्मकार्येष्विति अचिरा । १७ श्रीरिव श्रीः । १८ देवीव देवी । कृताभिषेकाद्वा । १९ प्रभाऽस्त्यास्याः प्रभावती । 'तदस्यास्त्यस्मिन्-'५।२।९४॥ इति मतुप्,, 'मादुपधाया-'८।२।९॥ इति वत्वम्, 'उगितश्च'४।१।६॥ इति ङीप् । २० पद्ममस्त्यस्याः पाणितले सुलक्षणत्वादिति पद्मा। अर्शआदित्वादच् । २१ वपति धर्मबीजं वप्रा । 'टुवप् बीजतन्तुसन्ताने' (भ्वा.उ.आ.), 'ऋज्रेन्द्रा-' (उणा-१८६) इत्यादिना साधुः। २२ शिवहेतुत्वात् शिवा ॥४०॥ २३ वामा मनोज्ञत्वात् । पापकर्मसु प्रतिकुलत्वाद् वा । २४ त्रीणि ज्ञानदर्शनचारित्राणि शलति प्राप्नोति त्रिशला । 'शल गतौ' (भ्वा.प.से.), अच्, टाप् । क्रमतः अनुक्रमेण चतुर्विंशतितीर्थकृतां पितरो मातरश्च ज्ञेयाः ॥
स्याद् १ गोमुखो २ महायक्ष ३स्त्रिमुखो ४यक्षनायकः ॥४१॥
५तुम्बुरुः ६कुसुमश्चापि ७मातङ्गो ८विजयो९ऽजितः ।
१०ब्रह्मा ११यक्षेट् १२कुमारः१३ षण्मुख१४ पाताल१५ किन्नराः ॥४२॥
१६गरुडो १७गन्धर्वो १८यक्षेट् १९कुबेरो २०वरुणोऽपि च ।
२१भृकुटि२२र्गोमेधः २३ पार्श्वो २४मातङ्गोऽर्हदुपासकाः ॥४३॥
१ गोर्मुखमिव मुखमस्य गोमुखः । २ महांश्चासौ यक्षश्च महायक्षः । ३ त्रीणि मुखान्यस्य त्रिमुखः । ४ यक्षाणां नायको यक्षनायकः ॥४१॥ ५ तुम्बति अर्दयति विघ्नानिति तुम्बुरुः । 'तुबि अर्दने' (भ्वा.प.से.), 'तुम्बेरुरु:' (हैमोणादि-८१७) इत्युरु:, इदित्वान्नुम् । ६ कुस्यति श्लिष्यति पद्मप्रभोपासनायेति कुसुमः । 'कुस श्लेषणे' (दि.प.से.), 'कुसेरुलोम्भोण्वामेदाः' (उणा-५४६) इत्युमः । ७ महाबलत्वाद् मातङ्ग इव मातङ्गः । ८ विजयते विजयः । 'जि जये' (भ्वा.प.अ.), अच् । ९ न केनापि जीयते स्मेति अजितः । १० बृंहति वर्धते प्रभावोऽस्मिन्निति ब्रह्मा । 'बृहि वृद्धौ' (भ्वा.प.से.), 'बृहेर्नोऽच्च' (उणा-५८५) मनिन्, नकारस्य चाऽदादेशः । ११ यक्षाणामीशो यक्षेट् । १२ कुमारयति क्रीडयति कुमारः । 'कुमार क्रीडायाम्' (चु.उ.से.), चुरादिः, अच् । काम्यत इति वा कुमारः । 'कमु कान्तौ' (भ्वा.आ. से.), कमेः किदुच्चोपधाया:' (उणा-४१८) इत्यारप्रत्ययः, उपधायाश्चोत्त्वम् । १३ षड् मुखान्यस्य षण्मुखः । १४ पातं रक्षितम् आलम् अनर्थोऽनेन
पातालः । १५ किञ्चिन्नर: किन्नरः ॥४२॥ १६ प्रचण्डत्वाद् गरुड इव गरुडः । १७ गन्धयते अर्दयति विघ्नानिति गन्धर्वः । 'गन्ध अर्दने' (चु.आ.से.), 'गन्धेरर्व' इत्यर्वः । १८ यक्षाणामीशो यक्षेट् । १९ कुत्सितं बेरं शरीरमस्य कुबेरः । २० वृणाति ददाति वाञ्छितमिति वरुणः । 'वृञ् वरणे' (स्वा.उ.अ.), 'कॄवृदारिभ्य उनन्' (उणा-३३३) । २१ भृकुटीरिव भीषणत्वाद् भृकुटिः । २२ गां मेधते पवित्रीकरोति गोमेधः । २३ श्रीवामेयार्हतः सदा पादौ स्पृशति पार्श्वः । 'स्पृश संस्पर्शने' (तु.प.अ.), पृषोदरादित्वात् साधुः। श्रीपार्श्वजिनस्य, पार्श्ववर्तित्वाद् वा पार्श्वः। २४ महाबलवत्त्वाद् मातङ्गो हस्तीव मातङ्गः। अर्हतां श्रीऋषभजिनादिश्रीवीरान्तानामनुक्रमेण उपासकाः, सदा समीपवर्तित्वात् सेवका इत्यर्थः ॥४३॥
१चक्रेश्वर्य२जितबला ३दुरितारिश्च ४कालिका ।
५महाकाली ६श्यामा ७शान्ता ८भृकुटिश्च ९सुतारका ॥४४॥
१०अशोका ११मानवी १२चण्डा १३विदिता १४चाङ्कुशा तथा ।
१५कन्दर्पा १६निर्वाणी १७बला १८धारिणी १९धरणप्रिया ॥४५॥
२०नरदत्ताऽथ २१गान्धार्य२२म्बिका २३पद्मावती तथा ।
२४सिद्धायिका चेति जैन्यः क्रमाच्छासनदेवताः॥४६॥
१ चक्रस्य ईश्वरी चक्रेश्वरी, सदा चक्रधारिणीत्वात् । अप्रितिचक्रेत्यपि ।२ न केनापि बलेन जिता इति अजितबला । 'राजदन्तादिषु परम्'२।२।३१॥ इति बलशब्दस्य परनिपात:। पदैकदेशे पदसमुदायोपचाराद् अजिता इत्यपि । ३ दुरितानां पातकानामरिः दुरितारिः । ४ काली वर्णेन काल्येव कालिका । स्वार्थे कनि, 'केऽण:'७।४।१३।। इति ह्रस्वत्वम् । ५ महती चासौ काली च महाकाली । स्वर्णवर्णाया अपि संज्ञेयम् । ६ श्यामा वर्णेन । अस्या अच्युतदेवीत्यप्यन्यन्नाम । ७ शमयति सुपार्श्वजिनसेवकविघ्नमिति शान्ता । 'शमु उपशमे' (दि.प.से.), णिजन्तः, 'वा दान्त-शान्त-पूर्ण-दस्त-स्पष्ट-च्छन्ना-ज्ञप्ता:'७।२।२७ ॥ इति साधुः, ततष्टाप् । ८ भापकभृकुटित्वात् भृकुटिः ।
९ शोभना तारकाऽस्याः सुतारका ॥४४॥ १० अविद्यमानः शोकोऽस्या: अशोका । ११ मानवीव मानवी । अभिगम्यदर्शनत्वात्। १२ चण्डते कुप्यति अभक्तेभ्य इति चण्डा । 'चडि कोपे' (भ्वा.आ.से.), अच् । चण्डा प्रचण्डत्वाद् वा । १३ विद्यते ज्ञायते लोके विदिता । १४ अङ्कुशमायुधरूपमस्त्यस्याः अङ्कुशा । अर्शआदित्वादच्, टाप् । १५ 'कम्' इत्यव्ययं कुत्सितार्थे, कं कुत्सितं दृप्यति मोचयति कन्दर्पा । 'दृप हर्षणमोचनयोः' (दि.प.अ.), अच्, टाप् । १६ निर्वाति भक्तजनानां दु:खवह्निरनया निर्वाणी । निर्पूर्वः 'वा गतिगन्धनयो:' (अ.प.अ.), क्तः, 'निर्वाणोऽवाते'८।२।५० ॥ इति साधुः, गौरादित्वाद् ङीष् । १७ बलमस्त्यास्याः बला । अर्शआदित्वादच् । १८ मातुलिङ्गादीन्यवश्यं धरति धारिणी । 'धृञ् धरणे' (भ्वा.उ.अ.), 'आवश्यकाधमर्ण्ययोर्णिनिः'३।३।१७०॥ 'ऋन्नेभ्यः'४।१।५॥ इति ङीप् । १९ धरणनाम्न उरगेन्द्रस्य प्रिया धरणप्रिया । अदोऽभिधानं वैरोट्या इत्यपि ॥४५॥ २० नरेभ्यो दत्तमभिलषितसौख्यमनया नरदत्ता । २१ गां भुवं धारयति गान्धारी । पृषोदरादिः। २२ लोकानामम्बेव अम्बिका । 'इवे प्रतिकृतौ'५।३।९६॥ इति कन्, टाप्, 'प्रत्ययस्थात्-'७।३।४४॥ इतीत्वम् । कुष्माड्यपि। २३ पद्मं करेऽस्त्यस्याः पद्मावती । 'तदस्यास्ति-'५।२।९४॥ इति मतुप्, 'मादुपधायाश्च मतोऽर्वोऽयवादिभ्यः'८।२।९॥ इति मस्य वत्वम्, 'मतौ बह्वचोऽनजिरादीनाम्'६।३।११९॥ इति दीर्घत्वम्, 'उगितश्च'४।१।६॥ इति ङीप् । २४ सिद्धानयते सिद्धायिका । 'अय गतौ' (भ्वा.आ.से.), ण्वुल्, 'युवोरनाकौ'७।१।१॥, 'प्रत्ययस्थात्-'७।३।४४॥ इतीत्वम् । जिना देवताः सन्त्यासामिति जैन्यः । 'सास्य देवता'४।२।२४॥ इति जिनशब्दादण्, 'टिड्ढाणञ्-'४।१।१५॥ इति ङीप् । एवमेताश्चतुर्विंशतिरपि जिनानां भक्ता अनुक्रमेण जिनशासनस्याधिष्ठात्र्यो देवताः शासनदेवताः ॥४६॥
१वृषो २गजो३ऽश्वः ४प्लवगः, ५क्रौञ्चौ६ऽब्जं ७स्वस्तिकः ८शशी ।
९मकर: १०श्रीवत्सः ११खड्गी १२महिषः १३शूकरस्तथा ॥४७॥
१४श्येनो १५वज्रं १६मृग१७श्छागो १८नन्द्यावर्तो १९घटोऽपि च ।
२०कूर्मो २१नीलोत्पलं २२शङ्ख: २३फैणी २४सिंहोऽर्हतां ध्वजाः ॥४८॥
वृषप्रभृतिशब्दानां व्युत्पत्तिस्त्वग्रे वक्ष्यते । एते वृषादयश्चतुर्विंशतिः ऋषभादिजिनेन्द्राणां ध्वजाः चिह्नानि । एते च दक्षिणाङ्गविनिवेशिनो लाञ्छनभेदाः । ऊर्वोर्निवेशिनो लाञ्छनभेदा इत्येके । यदुक्तं हरिभद्रसूरिभिः ऋषभादिनामव्याख्याने "ऊर्व्वोवृषभलाञ्छनत्वात्, मातुश्चतुर्दशस्वप्नेषु प्रथमं वृषभदर्शनाद्वा वृषभः" इति ॥४७॥४८॥
१. भृकुटिरिव' इति १॥ २. केनापि बलेन न' इति १॥३. 'बलशब्दस्य' इति २.३ नास्ति ॥ ४. 'पूर्वनिपात:' इति २.३ ।। ५. 'भापकत्वाद् भृकुटिरिव भृकुटि:' इति १॥ ६. वृषभ-' इति २.३.४ ।। ७. '-वशिनो' इति २॥ ८. श्रीमदावश्यकसूत्रे द्वितीयेऽध्ययने 'उसभमजिअंच वंदे' इत्यादिप्राकृतथोकत्रयस्य व्याख्यां कुर्वद्भिर्हरिभद्रसूरिभि:
"आसां व्याख्या-इहार्हतां नामानि अन्वर्थमधिकृत्य सामान्यलक्षणतो विशेषलक्षणतश्च वाच्यानि, तत्र सामान्यलक्षणमिदम्-'वृष उद्वहने' समग्रसंयमभारोद्वहनाद् वृषभः, सर्व एव च भगवन्तो यथोक्तस्वरूपा इत्यतो विशेषहेतुप्रतिपादनायाऽऽह
"ऊरूसु उसभलंछण उसभं सुमिणमि तेण उसभजिणो ।" पुव्वद्धं । जेण भगवओ दोसुवि ऊरूसु उसभा उप्पराहुत्ता जेणं च मरुदेवाए भगवईए चोद्दसण्हं महासुमिणाणं पढमो उसभो सुमिणे दिट्ठोत्ति, तेण तस्स उसभोत्ति णामं कयं, सेसतित्थगराणं मायरो पढमं गयं तओ वसहं एवं चोद्दस, उसभोत्ति वा वसहोत्ति वा एगटुं'[आवश्यकसूत्रम्, पृ.५०१-२] इत्युक्तम् ॥
येषां तीर्थङ्कराणां यादृग्वर्णस्तमाह -
रक्तौ च पद्मप्रभवासुपूज्यौ शुक्लौ च चन्द्रप्रभपुष्पदन्तौ ।
कृष्णौ पुनर्नेमिमुनी विनीलौ श्रीमल्लिपार्श्वौ कनकत्विषोऽन्ये ॥४९॥
पद्मप्रभवासुपूज्यौ जिनौ रक्तौ रक्तवर्णी, चन्द्रप्रभपुष्पदन्तौ जिनौ शुक्लौ शुक्लवर्णौ, नेमिमुनी नेमिश्च मुनिश्च नेमिमुनी अरिष्टनेमिमुनिसुव्रतजिनौ कृष्णौ श्यामवर्णौ, श्रीमल्लिपार्श्वौ जिनौ विनीलौ विशिष्टनीलवर्णौ अन्ये उक्तेभ्यः ऋषभप्रभृतयः षोडशजिनवरेन्द्राः कनकत्विषः कनकस्येव त्विट् कान्तिर्येषां ते कनकत्विषः,स्वर्णवर्णा इत्यर्थः ॥४९॥
उत्सर्पिण्यामतीतायां चतुर्विंशतिरर्हताम् ।
१केवलज्ञानी २निर्वाणी ३सागरोऽथ ४महायशाः ॥५०॥
५विमलः ६सर्वानुभूतिः ७श्रीधरो ८दत्ततीर्थकृत् ।
९दामोदरः १०सुतेजाश्च ११स्वाम्यथो १२मुनिसुव्रतः ॥५१॥
१३सुमतिः १४शिवगतिश्चैवा१५ऽस्तागोऽथ १६निमीश्वर: ।
१७अनिलो १८यशोधराख्यः १९कृतार्घोऽथ २०जिनेश्वरः ॥५२॥
२१शुद्धमतिः २२शिवकरः २३स्यन्दनश्चाथ २४सम्प्रतिः ।
अतीतायां गतायाम् उत्सर्पिण्यां दशसागरोपमकोटाकोटिप्रमाणायां कालविशेषे अर्हतां तीर्थकृतां केवलज्ञान्यादिसम्प्रतिपर्यन्तानां चतुर्विंशतिः,, तन्नामानि । १ केवलज्ञानमस्यास्ति केवलज्ञानी । २ निर्वाणं मुक्तिरस्यास्ति निर्वाणी । उभयत्र 'अत इनिठनौ'५।२।१५५॥ इतीनिः । ३ ज्ञानागाधजलभरणे गाम्भीर्यगुणेन वा सागर इव सागरः । ४ महत् त्रिलोकीव्यापि यशोऽस्य महायशाः ॥५०॥ ५ विगतो मलोऽस्य विमलः । ६ अनुभूतिः स्मृतिव्यतिरिक्तं ज्ञानम्,, सर्वत्र सर्वज्ञत्वादनुभूतिरस्य सर्वानुभूतिः । ७ मुक्तिश्रियं धरति श्रीधरः । पचाद्यच् । ८ दत्तं दानमस्यास्ति दत्तः । अर्शआदित्वादच् । दत्तश्चासौ तीर्थकृच्च दत्ततीर्थकृत् । ९ जन्माभिषेकोत्सवे सुरैः क्षिप्तं सुरभिपुष्पदामनिगरणाद् लम्बमानमुदरेऽस्य दामोदरः । १० शोभनं जनमनोनयनाह्लादकत्वात् तेजोऽस्य सुतेजाः । ११ त्रिजगतामधीशत्वात् स्वामी । १२ मुनिश्चासौ सुव्रतश्च मुनिसुव्रतः ॥५१॥ १३ शोभना मतिरस्याः अस्माद्वा सुमतिः । १४ शिवे मोक्षे गतिरस्य शिवगतिः । शिवप्रापका गतिर्ज्ञानमस्येति वा गाम्भीर्योद्रेकात् । १५ न विद्यते स्तागो लब्धमध्यताऽस्येति अस्तागः। १६ परीषहोपसर्गादीनां नामनाद् निमिः, स चासौ ईश्वरश्च निमीश्वरः, तृतीयस्वरादिः । १७ अव्याहतस्वैरगतित्वात्, महाबलवत्त्वाद्वा अनिल इव अनिलः । १८ यशांसि धरति यशोधरः । अच् । १९ चतुष्षष्टिसुरेन्द्रैः कृतोऽर्घः पूजाऽस्य कृतार्घः, रेफकवर्गचतुर्थान्तः । 'अर्घ पूजाविधौ मूल्ये' [अनेकार्थसङ्ग्रहः २।५१] इत्यनेकार्थः । २० जिनश्चासौ ईश्वरश्च जिनेश्वरः ॥५२॥ २१ शुद्धा निर्मला मतिरस्य शुद्धमतिः । २२ शिवं क्षेमं करोति शिवकरः । २३ स्यन्दते सरसवचतनपियूषमिति स्यन्दनः । 'स्यन्दू प्रस्रवणे' (भ्वा.आ.वे.),, नन्द्यादित्वाद् ल्युः । २४ नित्यप्रवृत्तित्वेन ध्यायमानत्वात् सम्प्रतिः । अतीतचतुर्विंशतिजिनेन्द्राणां नामानि ॥
भाविन्यां तु १पद्मनाभः २शूरदेवः ३सुपार्श्वकः ॥५३॥
४स्वयंप्रभश्च ५सर्वानुभिति६र्देवश्रुतो७दयौ
८पेढाल: ९पोट्टिलश्चापि १०शतकीर्तिश्च ११सुव्रतः ॥५४॥
१२अममो १३निष्कषायश्च १४निष्पुलाकोऽथ १५निर्ममः ।
१६चित्रगुप्तः १७समाधिश्च १८संवरश्च १९यशोधरः ॥५५॥
२०विजयो २१मल्ल२२देवौ २३चानन्तवीर्यश्च २४भद्रकृत् ।
भाविन्याम् आगामिन्यामुत्सर्पिण्यां कालविशेषे पद्मनाभादिभद्रकृदन्तानां तीर्थङ्कराणां नामानि । १ यथा पद्मं नाभावस्य, पद्मं नाभिरस्येति वा पद्मनाभः । 'नाभे संज्ञायाम्' इत्यञ्, 'यस्येति च'६।४।१४८ ॥ इतीकारलोपः । २ रागद्वेषादिशत्रुसैन्यं प्रति शूरो विक्रमवान्, स चासौ देवश्च शूरदेवः। ३ शोभनौ पार्श्वावस्य सुपार्श्व:, ततः स्वार्थे कनि सुपार्श्वकः ॥५३॥ ४ स्वयमात्मनैव,, न तु परोपाधिना, प्रकर्षेण भाति स्वयंप्रभः । 'आतोऽनुपसर्गे क:'३।२।३॥, 'आतो लोप इटि च'६।४।६४॥ इत्यालोपः । ५ सर्ववित्त्वात् सर्वा निखिलाऽनुभूतिरस्य सर्वानुभूतिः । ६ देवेषु श्रुतः प्रतीतो देवश्रुतः । ७ उदेति उदयं प्राप्नोति धर्मोऽस्मादिति उदयः । उद्पूर्वः 'इण् गतौ' (अ.प.अ.), पचाद्यच्, 'सर्वाधातुक-'७।४।८४॥ इति गुणः, 'एचोयवायावः' ६।१।७८॥ इत्ययादेशः। ८ पढति तत्त्वमिति पेढालः । पृषोदरादिः। ९ जन्मप्रभृत्येव ज्ञानत्रयेण पुटति संश्लिष्यति पोट्टिलः । 'स्थण्डिलादयश्च'४।२।१५॥ इति निपातनात् साधुः । १० शतमिति बह्वर्थोपलक्षणम्। शतं बह्व्यः कीर्तयोऽस्य शतकीर्तिः । ११ शोभनान्यहिंसादीनि व्रतान्यस्य सुव्रतः ॥५४॥ १२ नास्ति ममेति मदीयमेतदिति बुद्धिरस्य अममः । मम इति विभक्ति प्रतिरूपकमव्ययं मदीयताबुद्ध्यर्थे । १३ निर्गतः कषायेभ्यो नि:कषायः । 'निरादयः क्रान्ताद्यर्थे पञ्चम्या'(वा-२।२।१८॥) इति समासः । १४ निश्चितं पोलति ज्ञानयशोभ्यां महान् भवति नि:पुलाकः । निर्पूर्वः 'पुल महत्त्वे' (भ्वा.प.से.), 'बलाकादयश्च' (उणा-४५४) इति
कित्याकप्रत्यये साधुः । १५ नि:क्रान्तो ममताया निर्ममः । १६ चित्राण्याश्चर्यकारीणि गुप्तानि मनोवाक्कायगुप्तयोऽस्य चित्रगुप्तः । चित्रमाश्चर्यकारि गुप्तं सर्वप्राणिरक्षणं यस्येति वा । १७ सम्यगाधीयते मनोऽत्रेति समाधिः । सदा समाधियुक्तत्वाद्वा समाधिः । १८ संवृणोति पञ्चेन्द्रियाणि संवरः । यद्वा संवरः आश्रवनिरोधोऽस्य संवरः । अर्शआदित्वादच् । १९ यशो धरति यशोधरः ॥५५॥ २० विजयते सर्वोत्कर्षेण वर्तते जन्मादिकल्याणोत्सवैरिति विजयः । २१ कर्मभटानां मल्ल इव मल्लः । २२ दीव्यति क्रीडति परमानन्दपदे देवः । दीव्यते स्तूयते भक्तजनैरिति वा । २३ अनन्तं वीर्यं बलमस्य अनन्तवीर्यः । २४ भद्रं कल्याणं करोति भद्रकृत् । भद्रोऽपि ॥
सङ्ग्रहमाह -
एवं सर्वावसर्पिण्युत्सर्पिणीषु जिनोत्तमाः ॥५६॥
एवं पूर्वोक्तप्रकारेण सर्वावसर्पिण्युत्सर्पिणीषु वर्तमानातीतानागतासु जिनोत्तमाः तीर्थङ्कराश्चतुर्विंशतिसंख्याका अवसर्पिण्युत्सर्पिणीकालविशेषेषु, भवन्तीति शेषः ॥५६॥
अत्र चतुस्त्रिंशदतिशयनामानि, तत्रादौ जिनेन्द्राणां चतुरः सहजातिशयानाह -
१तेषां च देहोऽद्भुतरूपगन्धो निरामयः स्वेदमलोज्झितश्च ।
२श्वासोऽब्जगन्धो ३रुधिरामिषं तु गोक्षीरधाराधवलं ह्यविस्रम् ॥५७॥
४आहारनीहारविधिस्त्वदृश्यश्चत्वार एतेऽतिशयाः सहोत्थाः ।
१ तच्छब्दस्य पूर्वपरामर्शित्वात् तेषाम् इति तीर्थकराणां देहः कायः अद्भुतरूपगन्धो भवति । अद्भुतमाश्चर्यकारि लोकोत्तरं रूपं गन्धश्च यस्य सः अद्भुतरूपगन्धः । पुनस्तेषां देहो निरामयः, निर्गत आमयेभ्यो रोगेभ्यो निरामयः, रोगरहितो भवति । स्वेदोङ्ग जलं मलं स्वेदमलाभ्यामुज्झितः स्वेदमलोज्झितः । एष प्रथमः सहजातिशयः । २ बाह्यस्य वायोराचमनं श्वासः । अत्र श्वासशब्द उच्छ्वासस्याप्युपलक्षणम्, तेषां तीर्थकृतां श्वासः अब्जस्य पद्मस्येव गन्धोऽस्य अब्जगन्धः, कमलपरिमलमञ्जुल इत्यर्थः । इति द्वितीयः सहजाऽतिशयः । ३ रुधिरं चामिषं च रुधिरामिषम् । 'द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम्'२।४।२॥ इत्येकवद्भावः । मांसः शोणितं गोक्षीरधारावद् धवलं पाण्डुरं भवति, अविस्रं अनामगन्धीत्यर्थः। इति तृतीयः सहजातिशयः ॥५७॥ ४ आहारणम् आहार: अशनं, निहरणं नीहारः, मूत्रपुरीषोत्सर्गः, तयोः विधिः करणं, न दृश्यत इति अदृश्यः, मांसचक्षुषा, न पुनरवध्यादिदर्शनवता पुंसा । एषश्चतुर्थः सहजातिशयः । जगतोऽप्यतिशेरते औत्कर्षमाप्नुवन्ति तीर्थकरा एभिरिति अतिशयाः । अतिपूर्वः ‘शीङ् स्वप्ने' (अ.आ.से.), 'एरच्'३।३।५६॥ इत्यच् । सहोत्थाः सहजन्मानः ॥
अथ घातिकर्मक्षयोद्भवैकादशातिशयानाह -
१ क्षेत्रे स्थितियोजनमात्रकेऽपि नृदेवतिर्यग्जनकोटिकोटेः ॥५८॥
२ वाणी नृतिर्यक्सुरलोकभाषा संवादिनी योजनगामिनी च ।
३भामण्डलं चारु च मौलिपृष्ठे विडम्बिताहर्पतिमण्डलश्रि ॥५९॥
४साग्रे च गव्यूतिशतद्वये रुजा ५वैरै६तयो ७मार्या८तिवृष्टय९वृष्टयः ।
१०दुर्भिक्षम११न्यस्वकचक्रतो भयं स्यान्नैत एकादश कर्मघातजाः ॥६०॥
१ योजनप्रमाणेऽपि क्षेत्रे समवसरणपृथिव्यां नृणां देवानां तिरश्चां च जनानां कोटिकोटिसंख्यानां स्थितिः अवस्थानमिति प्रथमः कर्मक्षयजातोऽतिशयः ॥५८॥ २ वाणी भाषा अर्थादर्द्धमागधी । कीदृशी ? नृतिर्यक्सुरलोकभाषासंवादिनी, नृतिर्यक्सुरलोकभाषया संवदति तत्तद्भाषाभावेन परिणमतीत्येवंशीला या सा तथा । संपूर्वाद् 'वद व्यक्तायां वाचि' (भ्वा.प.से.), इत्यस्मात् 'सुप्यजातौ णिनिस्ताच्छील्ये'३।२।७८॥ इति णिनिः, 'अत उपधायाः'७।२।११६॥, 'ऋन्नेभ्य:-'४।१।५॥ इति ङीप् । भगवद्वाणी अर्द्धमागधीत्याख्या भवति । यत्समवायाङ्गसूत्रम्-"भयवं च णं अद्धमागहीए भासाए धम्ममाइक्खइ''[समवायाङ्गसूत्रम्, सूत्रम्-३४] इति, तथा च तट्टीका प्राकृतादीनां षण्णां भाषाविशेषाणां मध्ये या मागधीभाषा 'रसोर्लशौ मागध्याम्'(हैमप्राकृतव्या-८।४।८८॥) इत्यादिलक्षणवती, सा असमाश्रित-
स्वकीयसमग्रलक्षणार्द्धमागधीत्युच्यते । तथा च श्रीहेमचन्द्राचार्याः स्वोपज्ञप्राकृतव्याकरणे-''अत एत्सौ पुंसि मागध्याम्''[हैम प्राकृतव्या-८।४।२८७।।], "मागध्यां भाषायां सौ परे अकारस्य एकारो भवति, पुंसि पुंल्लिङ्गविषये । एष मेषः, एशे मेशे । एष: पुरुष:, एशे पुलिशे । करोमि भदन्त, करेमि भन्ते । अत इति किम् ? णिहि, कली, गिली । पुंसीति किम् ? जलम् । यदपि 'पोराणमद्धमागहभासा निअयं हवइ सुत्तं' [निशीथचूर्णि] इत्यादिना आर्षस्य अर्द्धमागधभाषानियतत्वमाम्नायि प्राचीनैस्तदपि प्रायोऽस्यैव विधानान्न वक्ष्यमाणलक्षणस्य । 'कयरे आगच्छइ, से तारिसे दुक्खसहे जिइन्दिए' इत्यादि तट्टीका । एवं प्रायः 'अत एत्सौ पुंसि मागध्याम्'(हैमप्राकृतव्या ८।४।२८७॥) इत्येतल्लक्षणोपेता 'रसोर्लशौ मागध्याम्' (हैमप्राकृतव्या-८।४।२८८॥) इत्यादिलक्षणविहीना, प्राकृतभाषा लक्षणबहुलार्द्धमागधीत्यर्थः । तथा योजनगामिनी, योजनमेकं गच्छति व्योप्नोतीत्येवंशीला योजनगामिनी च इति द्वितीयः । ३ तथा भगवतो मौलिपृष्ठे शिर: पश्चिमभागे भानां प्रभाणां मण्डलं भामण्डलं, तच्च विडम्बिताहर्पतिमण्डलश्रि अधरी- कृतवासरपतिबिम्बशोभम्, अत एव चारु दृष्टृजनमनोहरमिति तृतीयः ॥५९॥ ४ साग्रे ऊर्ध्वाधोऽपेक्षया पञ्चविंशतियोजनाधिके क्रोशयुगं गव्यूतिः, गव्यूतीनां शतद्वयं गव्यूतिशतद्वयं शतयुग्मम्, तत्र गव्यूतिशतद्वये, योजनशते इत्यर्थः । इदमत्र हृदयम्-प्रत्येकं चतुर्दिक्षु पञ्चविंशतिपञ्चविंशतियोजनमध्ये, ऊर्ध्वं सार्द्धद्वादश- योजनमध्ये, अधश्च सार्द्धद्वादशयोजनमध्ये रुजा रोगो ज्वरादिर्न स्यात् । अत्र रुजाशब्दः स्त्रियामाबन्त इति चतुर्थः । ५ तथा 'साग्रे गव्यूतिशतद्वये' इति सर्वत्र योज्यम् । वैरं मिथो विरोधो न भवतीति पञ्चमः । ६ तथा धान्याद्युपद्रवकारी ईतिः मूषिकादिप्राणिगणो न स्यादिति षष्ठः । ७ तथा मारि: औत्पातिकं सर्वगतमरणं न स्यादिति सप्तमः । ८ तथा अतिवृष्टिः अतिवर्षणं निरन्तरं वृष्टिर्न स्यादित्यष्टमः । ९ तथा अवृष्टिः सर्वथा वृष्ट्यभावो न स्यादिति नवमः । १० दुर्भिक्षं भिक्षाणामभावो न स्यादिति दशमः । ११ तथा अन्यचक्रात् स्वचक्रात् च भयं न स्यादित्येकादशः । एते एकादश अतिशयाः कर्मघातजाः कर्मणां ज्ञानावरणीयदर्शनावरणीयमोहनीयान्तरायाख्यानां चतुर्णां घातात् क्षयात् जायन्त इति कर्मघातजाः ॥६०॥
अथैकोनविंशतिदेवकृतातिशयान् व्याकरोति –
१खे धर्मचक्रं २चमरा: ३सपादपीठं मृगेन्द्रासनमुज्ज्वलं च ।
४छत्रत्रयं रत्नमयो ५ध्वजों६ऽह्रिन्यासे च चामिकरपङ्कजानि ॥६१॥
७वप्रत्रयं चारु ८चतुर्मुखाङ्गता ९चैत्यद्रुमो१०ऽधोवदनाश्च कण्टकाः ।
११द्रुमानति१२र्दुन्दुभिनाद उच्चकै१३र्वातोऽनुकूलः शकुनाः १४प्रदक्षिणाः ॥६२॥
१५गन्धाम्बुवर्षं १६बहुवर्णपुष्पवृष्टिः १७कचश्मश्रुनखाप्रवृद्धिः ।
१८चतुर्विधामर्त्यनिकायकोटिर्जघन्यभावादपि पार्श्वदेशे ॥६३॥
ऋतूनामिन्द्रियार्थानामनुकूलत्वमित्यमी ।
एकोनविंशतिर्दैव्याश्चतुस्त्रिंशच्च मीलिताः ॥६४॥
१ खे आकाशे धर्मप्रकाशं चक्रं धर्मचक्रं भवतीति प्रथमो देवकृतातिशयः । २ तथा खे आकाशे चमराः चामराणि भवन्तीति द्वितीयो देवकृतातिशयः । ३ तथा खे आकाशे पादपीठे न सह वर्तमानं सपादपीठं मृगेन्द्रासनं सिंहासनम् उज्ज्वलं निर्मलमच्छाऽऽकाशस्फटिकमयत्वादिति तृतीयः । ४ तथा खे छत्रत्रयम् आतपत्रत्रयमिति चतुर्थः । ५ तथा खे रत्नमयः रत्नप्रधानं ध्वजः इति पञ्चमः । ६ तथा अंह्र्योश्चरणयोर्न्यासः स्थापनम् अंह्रिन्यासः, तत्र । अत्र निमित्तं सप्तमी. तेन पादन्यासनिमित्तं, चामीकरपङ्कजानि स्वर्णपद्मानि भवन्ति । अत्र बहुवचननिर्देशात् नवसंख्यानि कमलानि ज्ञेयानीति षष्ठः ॥६१॥ ७ तथा वप्रत्रयं चारु समवसरणे चारु मनोहरं रत्नस्वर्णरजतमयं प्राकारत्रयं भवतीति सप्तमः । ८ तथा चत्वारि मुखानि अङ्गानि गात्राणि च यस्य चतुर्मुखाङ्गः, तस्य भाव चतुर्मुखाङ्गता भवतीत्यष्टमः। ९ तथा चैत्याभिधानो द्रुमः चैत्यद्रुमः अशोकवृक्षः स्यादिति नवमः । १० तथा अधोमुखाः कण्टकाः भवन्तीति दशमः । ११ तथा द्रुमाणामानतिः द्रुमानतिः इत्येकादशः । १२ तथा उच्चकैः उच्चैर्विश्वप्रसरणशीलो दुन्दुभिनादः देवदुन्दुभिध्वनिर्भवतीति द्वादशः । १३ तथा वातः वायुः अनुकूलः भवति सुखकारित्वादिति
त्रयोदशः । १४ तथा शकुनाः पक्षिण: प्रदक्षिणाः प्रदक्षिणगतयो भवन्तीति चतुर्दशः ॥६२॥ १५ तथा गन्धाम्बुवर्षं गन्धोदकवृष्टिरिति पञ्चदशः । १६ तथा बहुवर्णपुष्पवृष्टिः बहुवर्णानां पञ्चवर्णानां पुष्पाणां जानूत्सेधप्रमाणा वृष्टिरिति षोडशः । १७ तथा कचश्मश्रुनखाप्रवृद्धिः कचानां शिरोजानामुपलक्षणत्वाद् लोम्नां च श्मश्रुण: कूर्चस्य नखानां करचरणोद्भवानामप्रवृद्धिः वृद्धिर्न स्यात् इति सप्तदशः । १८ तथा भवनपत्यादिचतुर्विधदेवनिकायानां जघन्यतः अपि भगवत्सविधे कोटि: भवतीत्यष्टादशः ॥६३॥ १९ तथा ऋतूनां वसन्तादीनां सर्वदा कुसुमादिसामग्रीभिः स्पर्शरसगन्धरूपशब्दानाम् इन्द्रियार्थानाम् अमनोज्ञानां निरासेन मनोज्ञानां च प्रादुर्भावेन आनुकूल्यं भवतीत्येकोनविंशः । इति देवतानिर्मिता एकोनविंशतिः श्रीमदर्हतामतिशयाः । यदेते ग्रन्थान्तरेष्वन्यथाऽपि दृश्यन्ते तन्मतान्तरमवसेयम् । एते च सहोत्थैश्चतुर्भिः कर्मघातजैरेकादशभिश्च समं मीलिताः सन्तश्चतुस्त्रिंशत्संख्या भवन्तीति ॥६४॥
अथ पञ्चत्रिंशतं भगवतो वचनातिशयानाह -
१संस्कारवत्त्व२मौदात्त्य३मुपचारपरीतता ।
४मेघगम्भीरघोषत्वं ५प्रतिनादविधायिता ॥६५ ॥
६दक्षिणत्व७मुपनीतरागत्वं च ८महार्थता ।
९अव्याहतत्वं १०शिष्टत्वं ११संशयानामसंभवः ॥६६ ॥
१२निराकृतान्योत्तरत्वं १३हृदयङ्गमतापि च ।
१४मिथःसाकाङ्क्षिता १५प्रस्तावौचित्यं १६तत्त्वनिष्ठता ॥६७ ॥
१७अप्रकीर्णप्रसृतत्व१८मस्वश्लाघान्यनिन्दिता ।
१९आभिजात्य२०मतिस्निग्धमधुरत्वं २१प्रशस्यता ॥६८॥
२२अमर्मवेधितौ२३दार्यं २४धर्मार्थप्रतिबद्धता ।
२५कारकाद्यविपर्यासो २६विभ्रमादिवियुक्तता ॥६९॥
२७चित्रकृत्त्व२८मद्रुतत्वं तथा२९ऽनतिविलम्बिता ।
३०अनेकजातिवैचित्र्य३१मारोपितविशेषता ॥७०॥
३२सत्त्वप्रधानता ३३वर्णपदवाक्यविविक्तता ।
३४अव्युच्छित्ति३५रखेदित्वं पञ्चत्रिंशच्च वाग्गुणाः ॥७१॥
१ संस्करणं संस्कारः, स विद्यते यस्मिंस्तत्संस्कारवत्, संस्कारवतो भावः संस्कारवत्त्वम्, संस्कृतादिलक्षणान्वितत्वमित्यर्थः । २ उदात्तस्य भावः औदात्त्यम् उच्चैर्वर्तित्वम् । ३ उपचारपरीतता अग्राम्यत्वम् । ४ मेघगम्भीरघोषत्वं जलधरस्येव गम्भीरध्वनित्वम् । ५ प्रतिनादं विदधाति प्रतिनादविधायी, तस्य भावस्तत्त्वम्, ध्वने: प्रतिशब्दकर्तृत्वम् ॥६५॥ ६ दक्षिणत्वं सरलत्वम् । ७ उपनीतरागत्वं ग्राम्यमालवकै- शिक्यादिरागोपेतत्वम् । एते सप्तातिशयाः शब्दापेक्षया, अतः परं वक्ष्यमाणा अर्थाश्रयाः । ८ महार्थता बृहदभिधेयता, परिपुष्टार्थाभिधायिता वा । ९ अव्याहतत्वं पूर्वापरवाक्यार्थविरोधाभाववत्त्वम् । १० शिष्टत्वम् अभिलषितप्रवचनोक्तार्थत्वम्, वक्तुः सकलजनशिष्टत्वसूचकत्वं वा । ११ संशयानामसंभवः असन्दिग्धपदार्थत्वम्, परिस्फुटार्थप्रतिपादनता वा ॥६६॥ १२ निराकृतान्योत्तरत्त्वं परोट्टङ्कितदूषणाविषयता । १३ हृदयङ्गमता श्रोतृमनोहरता, दुर्गमस्याप्यर्थस्य परहृदये प्रवेशकरणत्वं वा । १४ मिथःसाकाङ्क्षिता मिथः परस्परं पदानां वाक्यानां च सापेक्षत्वम् । १५ प्रस्तावौचित्यं देशकालाधुचितत्वम् । १६ तत्त्वनिष्ठता विवक्षितजीवाऽजीवादिवस्तुस्वरूपानुकारिता ॥६७॥ १७ अप्रकीर्णप्रसृतत्वं शब्दस्य वाऽर्थस्य सुसम्बद्धस्य सतः प्रसरणं, न त्वसम्बद्धस्य । यद्वा अतिविस्तराऽसम्बद्धाधिकारित्वयोरभावः । १८ अस्वश्लाघान्यनिन्दिता स्वकीयोत्कर्षपरनिन्दावियुक्तत्वम् । १९ आभिजात्यं वक्तुः प्रतिपाद्यस्यार्थस्य वा भूमिकानुसारिता । २० अतिस्निग्धमधुरत्वं क्षीरमधुघृतगुडादिवत् सुखकारित्वम् । २१ प्रशस्यता प्रागुक्ताऽसाधारणगुणवत्त्वात् प्राप्तश्लाघता । २२ अमर्मवेधिता परमर्माप्रकाशनस्वरूपत्वम् । २३ औदार्यं प्रतिपाद्यस्यार्थस्याऽतुच्छत्वम्, गुम्फगुणविशेषो वा । २४ धर्मार्थप्रतिबद्धता धर्मार्थोपेतत्वम् । २५ कारकाद्यविपर्यासः कारकाणि कर्त्रादीनि, तेषामविपर्यासः, आदिशब्दात् कालवचनलिङ्गादिव्यत्ययानवकाशत्वम् । २६ विभ्रमादिवियुक्तता वक्तुर्मनसो भ्रान्तता विभ्रमः, स आदिर्येषां विक्षेपादीनाम्, स विभ्रमादिर्मनसो दोषस्तेन वियुक्तता रहितत्वम् ॥६७॥ २७ चित्रकृत्त्वं श्रोतुर्मनस उत्पादितानुपमकुतुकत्वम् । २८ अद्रुतत्वं शैघ्र्यरहितत्वम् । २९ तथाऽनतिविलम्बिता विलम्बरहितत्वम् । ३० अनेकजातिवैचित्र्यम् जातयो वर्णनार्हवस्तुस्वरूपवर्णनानि, अनेकाश्च ता जातयश्चानेकजातयः, तत्संश्रयाद् विचित्रत्वम् । ३१ आरोपितविशेषता अन्यवचोपेक्षया आहितोत्कर्षत्वम् ॥ ७० ॥ ३२ सत्त्वप्रधानता साहसोपेतत्वम्। ३३ वर्णपदवाक्यविविक्तता वर्णाश्च पदानि च वाक्यानि च वर्णपदवाक्यानि, तेषां विविक्तता स्पष्टत्वम्। ३४ अव्युच्छित्तिः विवक्षितार्थसिद्धिं यावदव्युच्छिन्नप्रमेयत्वम्। ३५ अखेदित्वं वक्तुः श्रोतुश्चानायासकर्तृत्वम् । पञ्चत्रिंशत्संख्याकाः अर्हतां वाचां गुणाः वाग्गुणाः पञ्चत्रिंशद्वचनातिशयनामानि ॥७१॥
अथ श्रीमदर्हतामष्टादशशदोषाः न स्युरिति दर्शयति –
अन्तराया १दान२लाभ३वीर्य४भोग५पभोगगाः ।
६हासो ७रत्य८रती ९भीति१०र्जुगुप्सा ११शोक एव च ॥७२॥
१२कामो १३मिथ्यात्व१४मज्ञानं १५निद्रा १६चाविरतिस्तथा ।
१७रागो १८द्वेषश्च नो दोषस्तेषामष्टादशाप्यमी ॥७३॥
दानं च लाभश्च वीर्यं च भोगश्च उपभोगश्च दानलाभवीर्यभोगोपभोगास्तान् गच्छन्ति ते दानलाभवीर्यभोगोपभोगगाः अन्तरायाः, तेन १ दानगतोऽन्तरायः दानान्तरायः इति प्रथमः । २ लाभगतोऽन्तरायो लाभान्तरायः इति द्वितीयः । ३ वीर्यं शारीरी शक्तिस्तद्गतोऽन्तरायः वीर्यान्तरायः इति तृतीयः । ४ भुज्यते भोगः स्रक्चन्दनमाल्यान्नादिस्तद्गतोऽन्तरायः भोगान्तरायः चतुर्थः। ५ उपभुज्यते उपभोगः वस्त्रवनितादिस्तद्गतोऽन्तरायः [उपभोगान्तरायः] पञ्चमः । ६ हासो हास्यमोहनीयमिति षष्ठः । ७ रतिः पदार्थानामुपरि प्रीतिरिति सप्तमः । ८ अरतिः पदार्थानामुपरि अप्रीतिरित्यष्टमः । ९ भीतिः भयमिति नवमः । १० जुगुप्सा घृणेति दशमः । ११ शोको वैमनस्यम्,, चित्तवैधुर्यमिति यावदित्येकादशः ॥७२॥ १२ कामः स्मर इति द्वादशः । १३ मिथ्यात्वं दर्शनमोह इति त्रयोदशः । १४ अज्ञानं जडत्वमिति चतुर्दशः । १५ निद्रा संवेश इति पञ्चदशः। १६ अविरतिः अप्रत्याख्यानमिति षोडशः । १७ रागः सुखाभिज्ञस्य सुखानुस्मृतिपूर्वः, सुखे तत्साधनेऽप्यभिमते विषये गर्ध इति सप्तदशः । १८ द्वेषो दोषाभिज्ञस्य दुःखानुस्मृतिपूर्वः, दुःखे तत्साधने वा क्रोध इति अष्टादशः । एवमुक्तविधा अष्टादश दोषाः, तेषां श्रीनाभेयाद्यर्हतां न भवन्तीति ॥७३॥
१महानन्दो२ऽमृतं ३सिद्धिः ४कैवल्य५मपुनर्भवः।
६शिवं ७निःश्रेयसं ८श्रेयो ९निर्वाणं १०ब्रह्म ११निर्वृतिः ॥७४॥
१२महोदयः१३सर्वदुःखक्षयो १४निर्याण१५मक्षरम् ।
१६मुक्ति१७र्मोक्षो१८ऽपवर्गः
१ महान् आनन्दोऽत्रेति महानन्दः । २ नास्ति मृतं मरणमत्रेति अमृतम् । ३ सिद्ध्यति अस्यां सिद्धिः । ४ निखिलकर्मक्षयात् केवलस्यात्मनो भावः कैवल्यम् । "शरीरेन्द्रियविरहेणात्मनः केवलत्वं कैवल्यम्'' इति मिश्राः । ५ नास्ति पुनर्भवो जन्माऽत्रेति अपुनर्भवः । "भवः सत्ताप्तिजन्मसु"[अनेकार्थसङ्ग्रहः २।५२१॥] इत्यनेकार्थः । तत्र गतः सन् न पुनर्भवति उत्पद्यते वा अपुनर्भवः । ६ सदाप्यानन्दमग्नैः शय्यते स्थीयतेऽत्र शिवम् । 'शीङ् स्वप्ने' (अ.आ.अ.), 'सर्वनिघृष्व-'(उणा-१५१) इति वे निपात्यते । ७ निश्चितं श्रेयो निःश्रेयसम्। अचतुर-विचतुर-'५।४।७७॥ इत्यादिना साधुः । ८ अतिशयेन प्रशस्यं श्रेयः । प्रशस्यशब्दादतिशयेऽर्थे ईयसुनि, 'प्रशस्यस्य श्रः' ५।३।६०॥ इति श्रादेशः । ९ निर्वाति आत्मा अत्रेति निर्वाणम् । 'पै ओवै शोषणे' (भ्वा.प.से.), ‘वा गतिगन्धनयोः' (अ.प.अ.) अतो वा, निष्ठा, 'निर्वाणोऽवाते'८।२।५०॥ इति साधुः । १० बृंहति वर्धते आनन्दोऽत्रेति ब्रह्म, पुंक्लीबलिङ्ग: । 'बृहि वृद्धौ' (भ्वा.प.से.), 'बृंहेर्नोऽच्च मनिन्'(उणा-५८५) इति मनिन्, नकारस्य चाऽकारादेशः । ११ निर्व्रियते सुखीभूयते अस्यामिति निर्वृतिः । 'वृञ् वरणे' (स्वा.उ.अ.), 'स्त्रियां क्तिन्'३।३।९४॥ ॥७४॥ १२ महान् ज्ञानस्योदयोऽत्रेति महोदयः । १३ सर्वदुःखानां जन्मजरादीनां क्षयोऽत्रेति सर्वदुःखक्षयः । १४ निर्यान्ति सर्वदुःखानि अत्र निर्याणम् । 'या प्रापणे' (अ.प.अ.), 'निष्ठा'३।२।१०२॥, 'संयोगादेरातो धातो:-'८।२।४३॥ इति नत्वम् । १५ न क्षरति चलति आत्मा, अस्मादिति अक्षरम् । 'क्षर सञ्चलने' (भ्वा.प.अ.), पचाद्यच् । अश्यते प्राप्यते क्षीणकर्मभिरिति वा । 'अशूङ् व्याप्तौ' (स्वा.आ.वे.), 'अशेः सरन्'(उणा-३५०) इति सरन्, 'व्रश्चभ्रश्च-' ८।२।३६॥ इत्यादिना षत्वम्, 'षढो: क: सि'८।२।४१॥ इति कत्वम्, 'आदेशप्रत्यययोः'८।३।५९॥ इति षत्वम्, क्-ष्संयोगे क्षः । १६ मुच्यते सर्वकर्मभिरत्रेति मुक्तिः । 'मुच्लृ मोक्षणे' (तु.उ.अ.), 'स्त्रियां क्तिन्'३।३।९४॥ "शरीरेन्द्रियाभ्यामात्मनो मुक्तत्वं मुक्तिः" इति मिश्राः । १७ मुच्यते सर्वकर्मभिरात्मेति मोक्षः । 'मुच्लृ मोक्षणे' (तु.उ.अ.), 'युमुचिभ्यां ष:' इति षः । मोक्ष्यन्ते अवसानं प्राप्यन्ते सर्वदुःखान्यत्रेति वा । 'मोक्ष अवसाने' (चु.प.से.), चुरादिः, 'एरच्'३।३।५६।। मोक्षणं मोक्ष इति, भावे घञ् वा । १८ कर्मभिः अपवृज्यतेऽत्रेति अपवर्गः । 'वृजी वर्जने' (रु.प.से.), भावे घञ् । अष्टादश मोक्षस्य ।
शेषश्चात्र "निर्वाणे स्याच्छीतीभावः शान्तिर्नैश्चिन्त्यमन्तिकः' [शेषनाममाला १।१॥] इति ॥
अथ १मुमुक्षुः२श्रमणो ३यतिः ॥७५॥
४वाचंयमो ५यती ६साधु७रनगार ८ऋषि९र्मुनिः ।
१० निर्ग्रन्थो ११भिक्षुः
१ मोक्तुमिच्छु: मुमुक्षुः । 'मुच्लृ मोक्षणे' (तु.उ.अ.), 'धातोः कर्मणः समानकर्तृकात्-'३।१।७॥ इति सन्, 'सन्यङोः' ६।१।९॥ इति द्वित्वं, 'सनाशंसभिक्ष उ:'३।२।१६८॥ २ श्राम्यति
तपसेति श्रमणः । 'श्रमु खेदे तपसि च' (दि.प.से.),,नन्द्यादित्वाद् ल्युः । ३ यतते मोक्षाय यतिः । संयमयोगेषु यतमानः प्रयत्नवान् वा । 'यती प्रयत्ने' (भ्वा.आ.से.),, 'इन् सर्वधातुभ्यः'(उणा-५५७) इतीन् ॥७५॥ ४ वाचं यच्छति वाचंयमः । 'यमु नियमने' (भ्वा.प.अ.),, 'वाचंयमपुरन्दरौ च'६।३।६९॥ इति खचि साधुः । ५ यतं यतनमस्यास्तीति यती । 'अत इनिठनौ'५।२।११५॥ इतीनिः। ६ उत्तमक्षमादिभिर्गुणविशेषैर्भावितात्मा साध्नोति परमपदमिति साधुः । 'साध संसिद्धौ' (स्वा.प.अ.), 'कृ-वा-पा-जि-मि-स्वदि-साध्यशूभ्य:'(उणा-१) इत्युण् । ७ नास्ति अगारं गृहमस्य अनगारः । ८ ऋषति गच्छति ज्ञानसंसारयोः पारमिति ऋषिः । 'ऋषी गतौ' (तु.प.से.), 'इगुपधात् कित्'(उणा-५५९) इतीन् । ऋषति जानाति तत्त्वमिति वा । ९ मन्यते जगतस्त्रिकालावस्थामिति मुनिः, पुंस्त्रीलिङ्गः । 'मनु (मन) ज्ञाने' (दि.आ.अ.), 'मनेरुच्चोपधाया:'(उणा-५६२) इतीन्, उपधायाश्चोत्त्वम् । १० नि:क्रान्तो ग्रन्थाद् द्रव्यादिति निर्ग्रन्थः । 'निरादयः क्रान्ताद्यर्थे पञ्चम्या'(वा-२।२।१८॥) इति समासः । ११ 'भिक्ष याच्चायाम्' (भ्वा.आ.से.),, यमनियमव्यवस्थितः कृतकारित्वानुमोदितपरिहारेण भिक्षते इत्येवंशीलो भिक्षुः । 'सनाशंसभिक्ष उः'३।२।१६८॥ इत्युः प्रत्ययः । यद्वा नैरुक्तीशब्दव्युत्पत्ति:- 'क्षुध बुभुक्षायाम्' (दि.प.अ.), क्षुध्यति बुभुक्षते भोक्तुमिच्छति चतुर्गतिकमपि संसारमस्मादिति । सम्पदादित्वात् क्विप् । क्षुद् अष्टप्रकारं कर्म, तां क्षुधं ज्ञानदर्शनचारित्रतपोभिर्भिनत्तीति भिक्षुः । पृषोदरादित्वादिष्टरूपसिद्धिः । द्वे हि शब्दस्य निमित्ते, तद्यथा- व्युत्पत्तिनिमित्तं प्रवृत्तिनिमित्तं च । यथा गोशब्दस्य, तथाहि-गोशब्दस्य व्युत्पत्तिनिमित्तं गमनक्रिया, गच्छति गौरिति व्युत्पत्तेः । तेन च गमनेन एकार्थिसमवायितया यदुपलक्षितं सास्नादिमत्त्वं, तत् प्रवृत्तिनिमित्तम् । तेन गच्छत्यगच्छति वा गोपिण्डे शब्दः प्रवर्तते, उभय्यामप्यवस्थायां प्रवृत्तिनिमित्तत्वात् । अश्वादौ तु न प्रवर्तते, यथोक्तरूपस्य प्रवृत्तिनिमित्तस्य तत्राभावात् । एवमत्रापि भिक्षुशब्दस्य द्वे निमित्ते । व्युत्पत्तिर्निमित्तं (व्युत्पत्तिनिमित्तं प्रवृत्तिनिमित्तं) च, तत्र भिक्षणं व्युत्पत्तिनिमत्तम्, भिक्षते इत्येवंशीलो भिक्षुरिति व्युत्पत्तेः । तेन च भिक्षणेन एकार्थसमवायितया यदुपक्षितं इहपरलोकाशंसाविप्रमुक्ततया यमनियमेषु व्यवस्थितत्वम्, तत् प्रवृत्तिनिमित्तम्, तेन च भिक्षमाणेऽभिक्षमाणे वा भिक्षौ भिक्षुशब्दः प्रवर्तते, उभय्यामप्यवस्थायां प्रवृत्तिनिमित्त- सद्भावात् । रक्तपटादौ न प्रवर्तते, नवकोट्यपरिशुद्धान्नभोजितया तेषु यथोक्तरूपस्य प्रवृत्तिनिमित्तस्याभावात् । एवं सर्वत्रोन्नेयम् । एकादश साधोः ॥
अस्य स्वं तपोयोगशमादयः ॥७६॥
अस्य मुमुक्षोस्तपश्च योगश्च शमश्च तपोयोगशमाः, ते आदिः येषां ते तथा । आदिशब्दात् क्षान्त्यादयः। स्वं द्रव्यमुच्यते । तेन तपोधनः, तपस्वी, योगी, शमभृत्, क्षान्तिमानित्यादियौगिकनामानि भवन्ति ॥७६॥
मोक्षोपायो योगो ज्ञानश्रद्धानचरणात्मकः ।
मोक्षस्य उपायः कारणम्, हेतुरिति यावत्, मोक्षोपायः योगः उच्यते इत्यन्वयः । कीदृग्योगः ? ज्ञानश्रद्धानचरणात्मकः, ज्ञानं यथावस्थिततत्त्वावबोधः, श्रद्धानं च सम्यक्तत्त्वेषु रुचिः, चरणं चारित्रं सावद्ययोगपरित्यागः, तेषां द्वन्द्वे, तानि आत्मा स्वरूपं यस्य स ज्ञानश्रद्धानचरणात्मकः । एकं मोक्षोपायस्य ॥
१अभाषणं पुनर्मौनम्
१ न भाष्यते अभाषणम् । 'भाषृ भाषणे' (भ्वा.अ.से.), ल्युट् । २ मुनेर्भावः कर्म वा मौनम्, पुंक्लीबलिङ्गः । 'इगन्ताच्च लघुपूर्वात्'५।१।१३१॥ इत्यण् । द्वे मौनव्रतस्य॥
१गुरु२र्धर्मोपदेशकः ॥७७॥
१ गृणाति हिताहिततत्त्वमिति गुरुः । 'गृ शब्दे' (क्र्या.प.से.), कॄग्रोरुच्च'(उणा-२४) इत्युप्रत्ययः, ऋकारस्य च उकारः, 'उरण् रपरः'१।१।५१॥ २ धर्ममुपदिशति धर्मोपदेशकः । 'दिश अतिसर्जने' (तु.प.अ.), ‘ण्वुल्तृचौ'३।१।१३३॥ इति ण्वुल् । 'स्यान्निषेकादिकृद्गुरुः'[अमरकोषः२।७।७॥] इत्यमरः । “"यन्मनु: -
"निषेकादीनि कर्माणि यः करोति यथाविधि ।
संभावयति चान्नेन स विप्रो गुरुरुच्यते ॥१॥" [मनुस्मृतिः, २।१४२] ।
निषेको गर्भाधानविधिः । आदिशब्दात् पुंसवनसीमन्तोन्नयनजातकर्मनामकरणान्नप्राशनचौडोपनयनादी[नि]" [अम.क्षीर.२७७॥] इति क्षीरस्वामी । द्वे धर्मोपदेष्टुः ॥७७॥
अनुयोगकृ१दाचार्यः
१ अनुयोगं व्याख्यां करोति अनुयोगकृत, व्याख्यानकर्ताऽऽचार्य उच्यत इत्यर्थः । आचर्यते सेव्यते शिष्यैर्विद्यार्थं विनयार्थं वा आचार्यः । आङ्पूर्वः 'चर गतौ' (भ्वा.प.से.),
'ऋहलोर्ण्यत्'३।१।१२४॥ ज्ञानदर्शनादिपञ्चविधाचारे साधुरिति, यति वा, 'यस्येति च'३।४।१४८॥ इत्यकारलोपः । आचारान् यातीति वा । 'क्वचिद् ड:' (हैमसू-५।१।१०१॥) इति डः, डित्त्वाट्टिलोपः । आचारानाचष्टे इति, 'तत्करोति तदाचष्टे' (गणसू-) इति णिचि, 'शिक्यास्य-'(है मोणा-३६४) इति निपात्यते । "आचारान् गृह्णाति ग्राहयति, कर्मण्यणि, पृषोदरादिर्वा" इति न्यासः । 'मन्त्रव्याख्याकृदाचार्यः' [अमरकोषः २।७।७॥] इत्यमरः । मन्त्रकृद्वेदाध्यापनाद् विशिष्टाऽऽख्याकृत्, उपनयनेन द्विजत्वोपादानात् । यदुक्तम् –
"उपनीय तु यः शिष्यं वेदमपध्यापयेद् द्विजः ।
साकल्यं सरहस्यं च तमाचार्य प्रचक्षते ॥१॥"
[मनुस्मृतिः, २।१४०] इति । एकं व्याख्याकर्तुः ॥
१उपाध्यायस्तु २पाठकः ।
१ उपेत्यागत्याधीयतेऽस्मादिति उपाध्यायः । अधिपूर्वः 'इङ् अध्ययने' (अ.आ.अ.), 'इङश्च'३।३।२१॥ इति घञ्, 'अचो ञ्णिति'७।२।११५॥ वृद्धिः, 'एचोऽयवायावः'६।१।७८॥ २ पाठयति पाठकः । 'पठ व्यक्तायां वाचि' (भ्वा.प.से.), हेतुमण्णिजन्तः, 'ण्वुल्तृचौ'३।१।१३३॥ इति ण्वुल् । "अध्यापक उपाध्यायः" [हलायुधः, श्लो.-२।४००] इति हलायुधः । 'द्वौ समौ' इति तट्टीका । द्वे उपाध्यायस्य ॥
१अनूचानः प्रवचने साङ्गेऽधीती २गणिश्च सः ॥७८॥
१ अनु उवाचेति अनूचानः । 'वच परिभाषणे' (अ.प.अ.), 'उपेयिवाननाश्वाननूचानश्च'३।२।१०९॥ इति निपातनात् साधुः । प्रोच्यते प्रवचनम् । 'वच परिभाषणे' (अ.प.अ.), ल्युट् । प्रवचनमागमस्तत्र, साङ्गे इत्याचाराङ्गाद्यङ्गयुक्ते अधीतमनेनेति अधीती । 'इष्टादिभ्यश्च'५।२।८८॥ इतीनिः । प्रवचनेऽत्र सप्तमी 'क्तस्येन्विषयस्य कर्मण्यपि'(वा-२।३।३६॥) इत्यनेन । २ गण्यते पूज्यतया गणिः । 'गण संख्याने' (चु.उ.से.), चुरादिः, 'अच इ:'(उणा-५७८) इति इः । जैनमते साङ्गसिद्धान्तज्ञातुर्द्वे । शैवमते तु ''शिक्षाद्यङ्गषट्कोपेते प्रवचने वेदेऽधीतिनः कृताध्ययनस्य द्वे" इति मिश्राः ॥७८॥
१शिष्यो २विनेयो३ऽन्तेवासी
१ शिष्यत उपदिश्यतेऽसाविति शिष्यः । 'शासु अनुशिष्टौ' (अ.प.से.), 'एति-स्तु-शास्-वृ-दृ-जुषः क्यप्' ३।१।१०९॥, 'शास इदङ्हलो:'६।४।३४॥ इतीत्वम् । २ विनीयते विनेयः । ‘णीञ् प्रापणे' (भ्वा.उ.अ.), 'अचो यत्'३।१।९७॥ इति यत् । ३ अन्ते गुरुसमीपे वस्तुं शीलमस्य अन्तेवासी । 'वस निवासे' (भ्वा.प.अ.), 'सुप्यजातौ णिनिस्ताच्छील्ये'३।२।७८ ॥ इति णिनिः, 'शयवासवासिष्वकालात्'६।३।१८॥ इति सप्तम्यलुक् । प्रत्ययान्तरविषयश्च वसिः शिष्ये प्रयुक्तो दृश्यते । "वसन्निवान्ते विनयेन जिष्णुः" [किरातार्जुनीयम्-३।२४] इति भारविः । वसिः समानार्थधातुप्रयोगोऽप्यत्र दृश्यते । यथा- "इतरेतरानभिभवेन मृगास्तमुपासते गुरुमिवान्तसदः" [किरातार्जुनीयम्-६।३४] इति भारविः । त्रीणि शिष्यस्य । शेषश्चात्र –
"शिष्ये छात्रः'' [शेषनाममाला १।२॥] ।
गुरुच्छिद्राच्छादनं छत्रम्, तच्छीलमस्य छात्रः । 'छत्रादिभ्यो णः'४।४।६२॥ इति णः ॥
१शैक्षः २प्राथमकल्पिकः ।
१ शिक्षा शीलमस्य शैक्षः । 'छत्रादिभ्यो णः'४।४।६२॥ इति णः । शिक्षायां भव इति वा । 'तत्र भवः'४।३।५३॥ इत्यण् । शिक्षणं शिक्षा प्रथमोपदेशः, तत्साहचर्याद् ग्रन्थोऽपि शिक्षा, तामधीयते तद्वेद वा, 'तदधीते तद्वेद वा'४।२।५९॥ इत्यण् वा । २ प्रथमं कल्पं प्रथमं शिक्षणीयं शास्त्रमधीते प्राथमकल्पिकः । उक्थादित्वात् ठक्, 'ठस्येक:'७।३।५०॥, 'किति च'७।२।११८॥ इति वृद्धिः । "कल्पः शास्त्रविधौ न्याये" [मेदिनी, पान्तवर्गः, श्लो.-२] इति मेदिनी । द्वे नवीनशिष्यस्य । द्वे प्रथमारब्धवेदानामित्यन्ये ॥
१सतीर्थ्या२स्त्वेकगुरवः
१ तरन्त्यनेन शास्त्राम्भोनिधिमिति तीर्थं गुरुः । 'तॄ प्लवनतरणयोः' (भ्वा.प.से.), पातॄतुदिवचिरिचिसिचि-भ्यस्थक्'(उणा-१६४), 'ॠत इद्धातो:'७।१।१००॥, 'उरण् रपरः'१।१।५१।। समाने तीर्थे गुरौ वसन्ति सतीर्थ्याः । 'समाने तीर्थे वासी'४।४।१०७॥ इति सूत्रेण यत्, 'तीर्थे ये'६।३।८७॥ इति समानस्य सभावः । २ एकः समानो गुरुरेषामिति एकगुरवः । द्वे गुरुभ्रातुः॥
विवेकः पृथगात्मता ॥७९॥
१ विवेचनं हेयोपादेयज्ञानं विवेकः । 'विचिर् पृथग्भावे' (रु.उ.अ.) भावे घञ्, 'चजोः कु घिण्ण्यतो:' ७।३।५२॥ इति कुत्वम् । पृथग् भिन्नमात्मा स्वरूपं पृथगात्मा, पृथगात्मनो भावः पृथगात्मता । ग्राह्याग्राह्यज्ञानम्, प्रकृतिपुरुषयोः पृथग्ज्ञानं वा विवेक उच्यते इति भावः । भावानां पृथक्स्वरूपमित्येके । एकं विवेचनस्य ॥७९॥
एकब्रह्मव्रताचारा मिथः १सब्रह्मचारिणः ।
१ तुल्यागमास्तुल्यव्रतास्तुल्याचाराश्च मिथः परस्परं सब्रह्मचारिणः उच्यन्ते । समाने ब्रह्मण्यागमे गुरुकुले वा व्रतं चरन्तीत्येवंशीलाः सब्रह्मचारिणः । मिश्रास्तु-"ब्रह्म वेदस्तदेकस्माद् गुरोरध्येतुमभिन्नं ब्रह्मचर्याख्यं व्रतमाचरन्ति ये तेऽन्योन्यं सब्रह्मचारिण उच्यन्ते । उपचाराद् ब्रह्माध्ययनार्थम्, तमपि ब्रह्म, तच्चरन्तीति । 'व्रते'३।२।८०॥ इति णिनिः, 'चरणे ब्रह्मचारिणि'६।३।८६॥ इति समानस्य सभावः" इति व्याख्यन्। एकं साधर्मिकस्य । 'साहमि' इति भाषा ॥
स्यात् १पारम्पर्य२माम्नायः ३सम्प्रदायो ४गुरुक्रमः ॥८०॥
१ परम्परायाः गुरुशिष्यप्रशिष्यादिसन्तानरूपाया: भावः पारम्पर्यम् । ब्राह्मणादित्वात् ष्यञ् । २ आम्नायते आम्नायः । 'म्ना अभ्यासे' (भ्वा.प.अ.), घञ्, 'आतो युक् चिण्कृतोः'७।३।३३॥ ३ सं सम्यक् प्रदीयते सम्प्रदायः । 'डुदाञ् दाने' (जु.उ.अ.), भावे घञ्, 'आतो युक् चिण्कृतो:७।३।३३॥ ४ गुरूणां क्रमो गुरुक्रमः । चत्वारि गुरुपरम्परायाः ॥८०॥
१व्रतादानं २परिव्रज्या ३तपस्या ४नियमस्थितिः।
१ आदीयते गृह्यते आदानम् । व्रतं शास्त्रविहितो नियमः । व्रतस्यादानं व्रतादानम् । २ परिव्रजनं परिव्रज्या । 'व्रज गतो' (भ्वा.प.से.), 'परचिर्या-परिसर्या-मृगयाटाट्यादयश्च'(वा-३।३।१०१॥) इत्यादिशब्दात् साधुः । प्रव्रज्या अपि । ३ तपश्चरणं तपस्या । 'कर्मणो रोमन्थ-तपोभ्यां वर्ति-चरो:'३।१।१५॥ इति क्यङि, 'अ प्रत्ययात्'३।३।१०२॥ इत्यः । ४ नियमे व्रते स्थानं स्थितिः नियमस्थितिः । चत्वारि तपस्यायाः ॥
१अहिंसा २सूनृता३ऽस्तेय४ब्रह्मा५किञ्चनता यमाः ॥८१॥
१ हिंसनं हिंसा प्राणवियोगकरणम्, तदभावो अहिंसा । २ सूनृतं प्रियं सत्यं च वचः । ३ स्तेयम् अदत्तादानं, तदभावः अस्तेयम् । ४ ब्रह्म इति ब्रह्मचर्यं मैथुनत्यागः । ५ अकिञ्चनता परिग्रहत्यागः । यम्यते चित्तमेभिरिति यमाः । 'यमु नियमने' - (भ्वा.प.अ.) । एकं पञ्चमहाव्रतानाम् ॥
नियमाः १शौच२सन्तोषौ३स्वाध्याय४तपसी अपि ।
५देवताप्रणिधानं च
(२) नियम्यते संव्रियते निरुध्यते चित्तमेभिरिति नियमाः । 'यमु नियमने' (भ्वा.प.अ.), 'यमः समुप-नि-विषु च'३।३।६३॥ इत्यप् । १ शुचेर्भावः कर्म वा शौचम्, कायमनसोः शुद्धिः। 'इगन्ताच्च लघुपूर्वात्' ५।१।१३१॥ इत्यण् । सन्निहितसाधनादधिकस्यानुपादित्सा सन्तोषः । ३ स्वकीयमध्ययनं स्वाध्यायः, मोक्षशास्त्राध्ययनं प्रणवजपो वा । आसमन्तादध्ययनमाध्यायः, शोभन आध्यायः स्वाध्याय इति वा । ४ तप्यते तदिति तपः, चान्द्रायणादि । 'तप सन्तापे' (भ्वा.प.अ.), '-असुन्'(उणा-६२८) इत्यसुन् । देवतायाः श्रीअर्हतः प्रणिधानं आत्मनः सर्वतः सम्भेदः देवताप्रणिधानम् । शौचादीनां पञ्चानां नामैकं नियमा इति ॥
१करणं २पुनरासनम् ॥८२॥
(३) १ क्रियते मनो वश्यमनेन करणम् । 'डुकृञ् करणे' (त.अ.उ.), 'करणाधिकरणयोश्च'३।३।११७॥ इति करणे ल्युट् । २ आस्यतेऽनेनेति आसनम् । 'आस उपवेशने' (अ.आ.से.), ल्युट् । द्वावपि क्लीबलिङ्गौ । द्वे पद्मासनाद्यासनस्य ॥८॥
१प्राणायामः २प्राणयमः श्वासप्रश्वासरोधनम् ।
(४) प्राणस्य मुखनासिकासञ्चारिणो वायोरासमन्ताद्यमनं गतिच्छेदः प्राणायामः । १ एवं प्राणस्य यमनं प्राणयमः । २ बाह्यस्य वायोराचमनं श्वासः, कोष्ठ्यस्य वायोर्नि:श्वसनं प्रश्वासः, श्वासप्रश्वासयोः रोधनं गतिच्छेदः श्वासप्रश्वासरोधनम् । यद्योगशास्त्रम् -
"प्राणायामो गतिच्छेदः श्वासप्रश्वासयोर्मतः ।
रेचकः पूरकश्चैव कुम्भकश्चेति स त्रिधा ॥१॥" [योगशास्त्रम्, प्रकाशः-५, श्लो.-४] इति ॥
द्वे श्वासप्रश्वासरोधनस्य ॥
१प्रत्याहारस्त्विन्द्रियाणां विषयेभ्यः समाहृतिः ॥८३॥
(५) १ विषेयभ्यः इन्द्रियाणां समाहृतिः संक्षेपः, तन्नामैकं प्रत्याहारः । प्रतीपमाहरणं प्रत्याहारः । प्रत्याङ्पूर्वः 'हृञ् हरणे' (भ्वा.उ.अ.), भावे घञ् । एकमिन्द्रियाणां विषयेभ्यः सङ्कोचनस्य ॥८३॥
१धारणा तु क्वचिद्ध्येये चित्तस्य स्थिरबन्धनम् ।
(६) १ धारणं धारणा । 'धृञ् धारणे' (भ्वा.उ.अ.), णिजन्तः, ‘ण्यासश्रन्थो युच्'३।३।१०७॥ इति युच् । स च स्त्रियाम् । क्वचिद् इति कस्मिंश्चिद् देवतादौ ध्यातव्ये चित्तस्य मनसः स्थिरबन्धनं स्थैर्यम्, तस्यैकम् ॥
१ध्यानं तु विषये तस्मिन्नेकप्रत्ययसन्ततिः ॥८४॥
(७) १ विषये तस्मिन् इति, दैवतादौ ध्येये एकस्य प्रत्ययस्य ध्येयालम्बनस्य सन्ततिः सदृशप्रत्ययः, तस्यैकं ध्यानम् इति । ध्यायते इति ध्यानम् । 'ध्यै चिन्तायाम्' (भ्वा.प.अ.), ल्युट् ॥८४॥
१समाधिस्तु तदेवार्थमात्राभासनरूपकम् ।
(८) १ सम्यगाधीयते मनोऽत्रेति समाधिः । समाङ्पूर्वः 'डुधाञ् धारणपोषणयोः' (जु.उ.अ.), 'उपसर्गे घोः किः'३।३।९२॥ इति किः । तदेव इति, तच्छब्देन ध्यानं परामृश्यते । ध्यानमेव अर्थमात्राभासनरूपकं ध्येयाकारमात्रावलम्बनम्, तस्य नामैकं समाधिरिति ॥
संग्रहमाह -
एवं योगो यमाद्यङ्गैरष्टभिः सम्मतोऽष्टधा ॥८५॥
एवम् अमुना प्रकारेण पूर्वोक्तैः अष्टभिः यमाद्यङ्गैः अष्टधा योगः सम्मतः, योगिनां मान्य इत्यर्थः ॥८५॥
१श्वःश्रेयसं २शुभ३शिवे ४कल्याणं ५श्वोवसीयसं ६श्रेयः ।
७क्षेमं ८भावुक९भविक१०कुशल११मङ्गल१२भद्र१३मद्र१४शस्तानि ॥८६॥
१ शोभनं श्रेयः श्वःश्रेयसम् । 'श्वसो वसीयः श्रेयसः' ५।४।८०॥ इत्यच्समासान्तः । श्व आगामि श्रेयो वा। अत्र श्व:शब्दस्य परपदार्थत्वम्, स्वशक्तिस्वाभाव्यात् । यदुक्तं पाणिनीयमतदर्पणे -
"अर्थं परपदस्यात्र श्व:शब्द: कालवाच्यपि ।
अभिधत्ते स्वभावेन तेनेमौ मङ्गलार्थकौ ॥१॥" इति
२ शोभते शुभम् । 'शुभ दीप्तौ' (भ्वा.आ.से.), 'इगुपध-ज्ञा-प्री-किरः कः'३।१।१३५॥ इति कप्रत्ययः । ३ शेतेऽशुभमनेनेति शिवम् । 'शीङ् स्वप्ने' (अ.आ.अ.), 'शिङो ह्रस्वश्च'(उणा-७०२) इति वः। 'सर्वनिघृष्व-' (उणा-१५१) इति साधुर्वा । शिनोत्यशिवमनेनेति अन्ये । ४ कल्यं नीरुक्त्वम् अणति कल्याणम् । 'अण गतौ' (भ्वा.प.से.), 'कर्मण्यण्'३।२।१।। ५ वसुमच्छब्दादीयसुनि, 'टेः'६।४।१५५॥ इति टिलोपे वसीयः । शोभनं वसीयः श्वोवसीयसम् । श्व आगामि श्रेयो वा । 'श्वसो वसीयः श्रेयसः'५।४।८०॥ इत्यच् । ६ अतिशयेन प्रशस्यं श्रेयः । 'प्रशस्यस्य श्र:'५।३।६०॥ इति ईयसु नि प्रत्यये परे श्रादेशः । ७ क्षीयते क्लेशोऽनेन, क्षिणोति दुःखमिति वा क्षेमम्। पुंक्लीबलिङ्गः । 'क्षि क्षये' (भ्वा.प.अ.), 'क्षि हिंसायाम्' (स्वा.प.अ.) अस्माद्वा, 'अर्ति-स्तु-सु-हु-सृ-धृ-क्षि-क्षु-भा-या-वा-पदि-यक्षिभ्यो मन्'(उणा-१३७) इति मन् । ८ भवनशीलं भावुकम् । 'लष-पत-पद-स्था-भू-वृष-हनि-कमि-गमि-सृभ्य उकञ्'३।२।१५४॥, 'अचो ञ्णिति'७।२।११५॥ सूत्रेण वृद्धिः । ९ भवो भद्राप्तिरस्त्यस्य भविकम् । 'अत इनिठनौ'५।२।११५॥ इति ठन्, 'ठस्येकः'७।३।५०॥ "भवो भद्राप्तिसत्त्रयोः(-सत्तयोः)" इत्यजयः । १० कुश्यते पुण्यात्मना सम्बध्यते कुशलम् । 'कुश श्लेषणे' (दि.प.से.), सौत्रः, वृषादित्वात् कलच् । कुत्सितं श्यतीति पृषोदरादिर्वा । कुशं लाति वा । ११ मङ्ग्यते प्राप्यते हितमनेन मङ्गलम् । पुंक्लीबलिङ्गः । 'मगि गतौ' (भ्वा.प.से.), 'मङ्गेरलच्'(उणा-४८) । १२ भन्दते भद्रम् । 'भदि कल्याणे सुखे च' (भ्वा.प.से.), 'ऋजेन्द्राग्रवज्र-'(उणा-१८६) इत्यादिना साधुः । भन्दमपि । "भन्दं भद्रं शिवं तथा''[त्रिकाण्डशेष:१।४।११॥] इति त्रिकाण्डशेषः । भन्द्रमपि ।१३ माद्यति हृष्यति अनेन मद्रम् । 'मदी हर्षे' (दि.प.से.), स्फायितञ्चि-'(उणा-१७०) इति रक् । १४ शस्यते स्तूयते शस्तम् । 'शंस (शंसु) स्तुतौ' (भ्वा.प.से.), भावे क्तः । चतुर्दश कल्याणस्य । [शेषश्चात्र- "भद्रे भव्यं काम्यं सुकृतसूनृते'' [शेषनाममाला १।२॥] ॥
इत्याचार्यश्रीहेमचंद्र विरचितायामभिधानचिन्तामणौ नाममालायां देवाधिदेवकाण्डः प्रथमः ॥
सर्वाङ्गीणकलाविलासनिलयः कल्पद्रुमाभः कलौ जाग्रत्सर्वजनीनमञ्जुमहिमो मित्रप्रतापोदयः ।
श्रीमच्छ्रीविधिपक्षगच्छगणभृद् भूभृन्नतांह्रिद्वयः श्रीकल्याणसमुद्रसूरिसुगुरुः सूरीन्द्रचूडामणिः ॥१॥
तन्निर्देशविधायिवाचकवर श्रेणीकिरीटोपमा भास्वत्साधुगुणौघशालिविनयाच्चन्द्राभिधा वाचकाः ।
तच्छिष्या 'रविचन्द्र' इत्यभिधया तेषां विनेयो व्यधादेनं वाचकदेवसागरगणिर्व्युत्पत्तिरत्नाकरम् ॥२॥
इति श्रीवाचकवरदेवसागरविरचितायामभिधानचिन्तामणिनाममालायां
व्युत्पत्तिरत्नाकरटीकायां देवाधिदेवकाण्डः प्रथमः ॥