उक्तः प्रथमः काण्डोऽथ पूर्वं द्वितीयस्मिन् काण्डे 'देवाः वक्ष्यन्ते' इति प्रतिज्ञातत्वाद् द्वितीयं देवकाण्डं प्रारभ्यते, तत्र देवनामाश्रयः स्वर्ग इति प्रथमं स्वर्गनामानि प्रोच्यन्ते –
१स्वर्ग२स्त्रिविष्टपं ३द्द्यौ४दिवौ ५भुवि६स्तविष७ताविषौ ८नाकः ।
९गौ१०स्त्रिदिव११मूर्ध्वलोकः १२सुरालयः
१ ऋज्यते स्थीयतेऽस्मिन्निति अर्गः स्थानम् । 'ऋज गतिस्थानार्जनोपार्जनेषु' (भ्वा.आ.से.), 'हलश्च'३।३।१२१ ॥ इति घञ्, 'चजोः कु घिण्ण्यतो:'७।३।५२॥ इति कुत्वं गकारः । शोभनो अर्गः स्वर्गः इति प्रादिसमासः । यद्वा स्वर्यते सुखहेतुतया कथ्यते इति स्वर्गः । 'स्वृ शब्दोपतापयो:' (भ्वा.प.वे.), 'गन् गम्यादेः' (उणा-१२०) इति गन्प्रत्ययः । यद्वा सुः सुकृतम्, तेन ऋज्यते प्राप्यते स्वर्गः । कर्मणि घञ् । अर्जनमर्गः । 'अर्ज सर्ज अर्जने' (भ्वा.प.से.), भावे घञि, न्यङ्क्वादित्वात् कुत्वम् । 'शोभनोऽर्ग: अर्जनं स्वर्गः' इति माधवः । २ विशन्ति अस्मिन् सुकृतिन इति विष्टपम् । 'विटप-विष्टपविशिपोलपा:'(उणा-४२५) इति विशे: कपन्प्रत्ययः, तस्य तुट् च, 'व्रश्च-'८।२३६॥ इति षत्वम् । त्रिदशानां विष्टपं लोक: त्रिविष्टपम्, पुंक्लीबः । पृषोदरादित्वाद् दशशब्दलोपः । "तृतीयं विष्टपं त्रिविष्टपम् । पूरणप्रत्ययस्तु वृत्तौ गतार्थत्वान्न प्रयुज्यते, त्रिभागवत्'' इति मधुमाधवी । इहच्छान्दसा:- 'विष्टान् पाति विष्टपमिति निरुक्तत्वाद् व्युत्पाद्य त्रिपिष्टपमिति, तृतीयं पिष्टपं त्रिपिष्टपमिति पकारपाठः प्राच्यानां प्रामादिकः' इत्याहुः । तद्युक्तम्- 'नभो विष्टपं वृषो गोर्ना पृश्निश्चापि सुरालयः' इति, रत्नमालादावपि दर्शनादिति तु कौमुदी । 'विटप-पिष्टपविशिपोलपाः'(उणा-४२५) इत्युणादौ पकारपाठः पठित्वा कपे विशतेरादेः पत्वम्, प्रत्ययस्य तुट्, षत्वादिकार्यम्, पिष्टपं भुवनम्, त्रिपिष्टपं स्वर्ग इति दर्शनात् । "त्रिपिष्टपं त्रिविष्टपं च" इति तु बृहस्पतिः । तथा च "पिष्टपो विष्टपोऽप्यस्त्री भुवनं च नपुंसकम्'' इत्यमरमालोक्तेः । "मर्त्यपातालापेक्षया तृतीयं पिष्टपं भुवनं त्रिपिष्टपम्'' इति तु राजदेवः । "तृतीयं विष्टपं त्रिविष्टपम् । 'भूर्भुवःस्वः' इति श्रुतेः, अत्र मयूरव्यंसकादित्वात् समासे पूरणप्रत्ययलोपः" [अभि.स्वो.टी.श्लो. ८७] इत्याचार्याः । ३ दीव्यन्ति अत्र सुरजना इति द्यौः, स्त्रीलिङ्गः । 'दिवु क्रीडाविजिगीषाव्यवहार-द्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु' (दि.प.से.) 'दिवेर्द्यो:' इति ड्योप्रत्ययः, टिलोपे गोशब्दवद्रूपाणि । यद्वा द्यौति अभिगच्छत्यमुं सुरजन इति द्यौः । 'द्यु अभिगमे' (अ.प.अ.), (द्युगमिभ्यां डो:'(हैमोणा-८६७) इति डोप्रत्ययः । द्योतत इति वा ।) 'द्युत दीप्तौ' (भ्वा.आ.से.), बाहुलकाद् 'गमेर्डो:'(उणा-२२५) इत्यतोऽपि डोः । ४ दीव्यन्त्यस्यां देवा इति द्यौः । 'दिवु क्रीडादौ' (दि.प.से.), बाहुलकाद् 'दिवेर्डिवि:' इति डिविप्रत्ययः । क्विपि तु 'च्छवोः शूड्-'६।४।१९॥ इत्यूट् (-ठ्) स्यात् । पदान्ते 'दिव उत्'६।१।१३१॥ इति उत्वम्, द्युभ्या-मित्यादि, स्त्रीलिङ्ग एव । ५ भवत्यस्यां सुखमिति भुविः, स्त्रीलिङ्गः । 'भू सत्तायाम्' (भ्वा.प.से.), 'भुवः कित्'(उणा-२६९) इतीस्प्रत्ययः । भुविषौ, भुविषः इत्यादि । ''त्रिविष्टपं देवलोको भुविः स्त्री द्योदिवौ स्त्रियाम्' इति वाचस्पतिः । ६-७ तव्यते गम्यते शुभकर्मवशादत्रेति तविषः ताविषः च । 'तव गतौ' इति सौत्रो धातुः, 'तवेर्णिद्वा'(उणा-४८) इति इषप्रत्ययः । णित्पक्षे वृद्धिः । ८ 'कं सुखम्, न कम् अकं दुःखम्, तन्नास्त्यत्रेति नाकः' पुंक्ली. । 'नञोऽस्त्यर्थानां बहुव्रीहिर्वाच्यः, उत्तरपदलोपश्च'(वा-) इति समासोत्तरपदलोपौ, 'नभ्राण्नापत्-'६।३।७५॥ इति नञ् प्रकृतिभावः । यद्वा कस्य ब्रह्मणोऽभावोऽकः, नास्ति अको यत्रेति, विद्यमानविरञ्चिरित्यर्थः । न आकाम्यते अभिलष्यते नास्तिकैरिति वा । नञ: कमि(क्रमि)गमि-'(हैमोणा-४) इति डिति अप्रत्यये नाक इति । ९ गच्छन्त्याश्रयन्ति देवास्तामिति गौः, पुंस्त्री । 'गम्लृ गतौ' (भ्वा.प.अ.), 'गमेर्डो:'(उणा-२२५), प्राधान्येन व्यपदेशा
भवन्तीति । १० त्रयः ब्रह्मविष्णुरुद्रा दीव्यन्त्यत्रेति, त्रिदशा दीव्य- न्त्यत्रेति वा त्रिदिवम्, पुंक्ली. । 'दिवु क्रीडादौ' (दि.प.से.), 'घञर्थे कविधानम्'(वा-३।३१५८॥) इति कः । यद्यपि घञर्थे कविधाने 'स्थाम्नापाव्यधिहनियुध्यर्थम्' इति परिगणनं कृतम्, तथापि सम्भवोदाहरणमेतत् । पृषोदरादित्वाद् दशशब्दलोप इति सर्वानन्दादयः । वयं तु मूलविभूजादित्वात् कप्रत्ययमेव युक्तं मन्यामहे, तथा च तत्रैव भाषावृत्तौ 'त्रिदिवः'[भाषावृत्तिः ३।२।५॥] इत्युदाहृतम् । क्षीरस्वामी तु--"तृतीया द्यौर्लोकस्त्रिदिवः, वृत्तिविषये दिवौकस इतिवद् दिवशब्दोऽदन्तः, पूरणार्थाधिक्यं च त्रिशब्दस्य वृत्तौ त्रिभागवत्' इत्याह । 'तृतीयं दिवं लोकस्त्रिदिवम्'[अभि. स्वोपज्ञटीका, श्लो.-८७] इत्याचार्याः । 'त्रिदशा दीव्यन्ति क्रीडन्ति शोभन्ते वा अत्रेति । इगुपधत्वात् के त्रिदिवः' इति तु राजदेवः । ११ ऊर्ध्वश्चासौ लोकश्च ऊर्ध्वलोकः । १२ सुराणामालयः सुरालयः । अयं सुरसदनादीनामप्युपलक्षकः । द्वादश स्वर्गस्य । शेषश्चात्र-
"फलोदयो मेरुपृष्ठं वासवावाससैरिको । दिदिविर्दीदिविर्द्युश्च दिवं च स्वर्गवाचकाः ॥१॥"
[शेषनाममाला २३॥] । स्वरव्ययेषु वक्ष्यते ॥
१तत्स२दस्त्वमराः ॥८७॥
३देवाः४सुपर्व५सुर६निर्जर७देवत८र्भु९बर्हिर्मुखा१०निमिष११दैवत१२नाकि१३लेखाः ।
१४वृन्दारकाः १५सुमन१६स्त्रिदशा १७अमर्त्याः १८स्वाहा१९स्वधा२०क्रतु२१सुधाभुज२२आदितेयाः ॥८८॥
२३गीर्वाणा २४मरुतो२५ऽस्वप्ना २६विबुधा २७दानवारयः ।
१ तत्सद इति । तच्छब्देन स्वर्ग: परामृश्यते, तच्छब्दस्य पूर्वपरामर्शित्वात् । तत्र स्वर्गे सीदन्ति तत्सदः । 'षद्लृ विशरणगत्यवसादनेषु' (भ्वा.प.अ.) । 'सत्-सू-द्विष-द्रुह-'३।२।६।। इत्यादिना क्विप् । यौगिकत्वाद् द्युसद्मान इत्यादयः । २ मरणं मरः । 'मृङ् प्राणत्यागे' (तु.आ.अ.), बहुलवचनाद् भावे 'ॠदोरप्'३।३१५७॥ इत्यप् । मर एषां नास्ति अमराः । एतच्च 'नञो जर-मर[मित्र] मृताः'६।२।११६॥ इत्यत्र वृत्तौ व्याख्यातम् । नाकवत्समासोत्तरपदलोपौ । न म्रियन्त इत्यमरा वा, पचाद्यच् । अमरशब्दश्चिर-स्थायित्वादिलक्षणया देवेषु यौगिको रूढश्च ॥८७॥ ३ दीव्यन्ति द्योतन्त इति देवाः । 'दिवु क्रीडादौ' (दि.प.से.), क्वचिदपवादविषयेप्युत्सर्गोऽभिनिविशते'(परिभाषा-५९) इतीगुपधलक्षणं कं बाधित्वा पचाद्यच्, पचादिगणस्थत्वात् । ४ शोभनममावास्यादिपर्वाऽमीषाम्, शोभनं पर्वचरितमेषां वा सुपर्वाणः । शोभनानि पर्वाण्यङ्गुलादिग्रन्थयो येषामिति वा । अविरतत्वाच्छोभनं पर्व उत्सव एषामिति वा । 'सुष्टु पृणन्ति पालयन्ति' इत्यन्ये । 'पॄ पालनपूरणयोः' (क्र्या.प.से.) अस्माद्वन्प्रत्ययः । ५ सुरन्ति ऐश्वर्यमनुभवन्ति सुराः । 'सुरं प्रसवैश्वर्ययो:' (तु.प.से.), 'इगुपधज्ञाप्रीकिरः कः'३।१।१३५ ।। "क्षीरोदोत्था सुरा एषामस्तीति सुराः" इत्यागमः। 'अर्शआदिभ्योऽच्'५।२।१२७ ॥ सुराः परिग्रहाद्वा सुराः । तथा च रामायणे –
"सुरा परिग्रहाद् देवाः सुराख्या इति विश्रुताः ।
अपरिग्रहणात् तस्या दैतेयाश्चासुराः स्मृतास्तथा ॥१॥" इति ।
सुष्ठ राजन्त इति वा । 'राजृ दीप्तौ' (भ्वा.उ.से.), 'अन्येभ्योऽपि-(अन्येष्वपि-)'३।२।१०१॥ इति डः । यद्वा सुन्वन्ति खण्डयन्ति सेवकदुःखमिति वा । 'षुञ् अभिषवे' (स्वा.उ.अ.), अभिषवः स्तपनपीडनस्नान [सुरा] सन्धानादिः । सुन्वन्ति अभिषुन्वन्ति समुद्रमिति वा । स्तुसू(सु) धागृधिभ्यः क्रन्'(उणा-१८२) इति क्रन् । भक्तदत्तं सुष्ठु रान्ति आददते वा । 'रा दाने' (अ.प.अ.), 'आतोऽनुपसर्गे कः'३।२।३॥ ६ सदा युवत्वाद् निरस्ता जरा यैस्ते निर्जराः । 'प्रादिभ्यो धातुजस्य'(वा-) इति बहुव्रीहिर्वाच्य उत्तरपदलोपश्च । निर्गता नि:क्रान्ता वा जरायाः । 'निरादयः क्रान्ताद्यर्थे पञ्चम्या'(वा-२।२।१८॥) इति समासः । अजरादावेकदेशविकृतस्यानन्य-त्वाद्वा जरसादेशः। निर्जरौ, निर्जरसौ इत्यादि । ते हि सर्वदा पञ्चविंशतिवर्षदेशीयाः । तथा च रामायणे –
"श्रियं विन्दति सौमित्रे पञ्चविंशतिवर्षवत् ॥" इति ।
७ देव एव देवता । 'देवात्तल्'५।८।२।। इति स्वार्थे तल्, 'तलन्तं स्त्रियाम्'(लिङ्गानु-१७) स्त्रीत्वाट्टाप् । ८ ऋनामा स्वर्गः, देवमाता वा । तत्र ततो वा भवन्तीति ऋभवः । ऋपूर्वाद् भवतेर्मितद्र्वादित्वाद् डुः, उपपदसमासः । रभन्ते पुण्यकर्मसूत्सुका भवन्तीति वा । 'रभ राभस्ये' (भ्वा.आ.अ.), 'रभिप्रथिभ्यामृच्चरस्य (हैमोणा-७३०) इति उप्रत्यय इति वा । ऋभुः, ऋभू, ऋभवः इत्यादि
भानुवत् । क्विपि, ऋभूः, ऋभुवौ, ऋभुवः इत्यन्ये । ९ बर्हिरग्निमुखमेषां बर्हिर्मुखाः । 'अग्निमुखा वै देवाः' इति श्रुतेः । तथा च मनुः -
"अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते ॥" [मनुस्मृतिः ३।७६] इति ।
१० न निमिषन्ति अनिमिषाः । 'मिष निमीलने ' (तु.प.से.), 'इगुपध-'३।१।१३५।। इति कः । ११ देवतैव दैवतम्, पुंक्ली. । देवताशब्दात् स्वार्थे प्रज्ञादित्वादण् विशेषविधेः पुंस्त्वम्, रूपभेदात् क्लीबत्वम्, तच्च प्रचुरतर प्रयोगम् । १२ नाक: स्वर्गः आश्रयत्वेन एषामस्तीति नाकिनः । 'अत इनिठनौ'५।२।११५॥ इतीनिः । १३ लिख्यन्ते गण्यन्ते ध्यानार्थम्, चित्रादौ वा लिख्यन्ते लेखाः । 'लिख अक्षरविन्यासे' (तु.प.से.), 'अकर्तरि च-'३।३।१९॥ इति कर्मणि घञ् । लिखन्ति प्राणिनां शुभाशुभफलं वा । अच् । ग्रीवाहस्तपादतलेषु प्रशस्ता लेखाः सन्त्येषामिति वा । प्रशंसायामर्शआदित्वादच् । १४ प्रशस्तं वृन्दमेषामस्तीति, प्रशंसायां 'शृङ्गवृन्दाभ्यामारकन्'(वा-५।२।१२०॥), वृन्दारकाः । १५ सुष्ठु मन्यन्ते सुमनसः । 'मनु (मन) ज्ञाने' (दि.आ.अ.), '-असुन्'(उणा-६२८) । शोभनं मनो येषामिति वा, मलिन सङ्कल्पनाभावात्, सङ्कल्पमात्रेण लब्धसिद्धित्वाद्वा । १६ जन्मसत्ताविनाशाख्याः तिस्रः दशा एषामिति त्रिदशाः । न तु नराणामिव बाल्ययौवनवार्धकाख्याः तिस्रो दशाः, निर्जरत्वात् । यद्वा तृतीया यौवनाख्या दशा सदैषामिति त्रिदशाः । त्रिविष्टपवत् त्रिशब्दस्य तृतीयार्थता । "त्रीन् तापान् दशन्ति । 'दंश दशने' (भ्वा.प.अ.), पचाद्यचि, पृषोदरादित्वान्नकारलोपे त्रिदशा:'' इति तु राजदेवः । यद्वा त्रिर्दश मानं येषां ते त्रिदशाः । बहुव्रीहौ संख्येये डजबहुगणात्'५।४७३ ॥ इति डच् । ''त्रिंशद्देवतास्त्रयत्रिंशद्देवतास्त्रिंशदक्षरा विराट्'' इति श्रुतेः । १७ न मर्त्याः अमर्त्याः । न म्रियन्त इति वा । 'हसिमृग्रिण्वाऽमि-'(उणा-३६६) इति तन्, ततो 'नवसूरमर्त-'(वा-५।४।३६ ॥) इति यत् । १८ स्वाहास्वधाक्रतुसुधाभुज इति । भुक्शब्दः स्वाहादिभ्यश्चतुर्यो युज्यते । तेन स्वाहाभुजः, १९ स्वधाभुजः, २० क्रतुभुजः, २१ सुधाभुजः । स्वाहां भुञ्जन्त इति । स्वधां भुञ्जन्त इति । क्रतुं भुञ्जन्त इति । सुधां भुञ्जन्त इति । 'भुज पालनाभ्यवहारयोः' (रु.आ.अ.), 'अन्येभ्योऽपि-'३।२।१७८ ।। इति क्विप् । यौगिकत्वात् स्वाहाशनाः, स्वधाशनाः, यज्ञाशनाः इत्यादयः । २२ न ददाति सेवकेभ्यो दुःखमिति अदितिः । नञ्पूर्वः 'डुदाञ् दाने' (जु.उ.अ.), 'नञो दाजो डिति:' इति डितिः, ततः 'कृदिकारात्-'(ग-४।१।४५॥) इति ङीषि, अदितीति शब्दात् 'स्त्रीभ्यो ढक्' ४।१।१२०॥, ढस्यैयादेशः । [ढस्यैयादेशे आदितेया:] । अङीषन्तात् 'दित्यदित्यादित्य-'४।१।८५ ।। इति ण्यः स्यात् । २३ गीरेव निग्रहानुग्रहसमर्था बाणोऽस्त्रमेषां गीर्वाणाः । यद्वा गिरं वन्वते याचन्ते स्तुतिप्रियादिति गीर्वाणाः । 'वनु याचने' (त.आ.से.), 'कर्मण्यण्'३।२।१॥ २४ म्रियन्ते पुण्यक्षयाच्च्यवन्ते मरुतः । 'मृङ् प्राणत्यागे' (तु.आ.अ.), 'मृग्रोरुतिः'(उणा-९४) इत्युतिः । २५ नास्ति स्वप्नो निद्रा एषाम् अस्वप्नाः । २६ विबुध्यन्ते न स्वपन्तीति, विशिष्टं बुध्यन्ते वा विबुधाः । 'बुध अवगमने' (दि.आ.अ.), 'इगुपधज्ञा-'३।१।१३५।। इति कः । २७ दानवा अरयो एषाम्, दानवानामरयो वा दानवारयः । यौगिकत्वाद् दनुजद्विषः इत्यादीनि । अत्रानुक्तमपि दिवौकस इति नाम व्युत्पाद्यते । दिवे ओको निवास एषां दिवौकसः । दिवशब्दोऽदन्तोऽप्यस्ति । तथा च त्रिकाण्डशेषः -
"मन्दर: सैरिभः शक्रभवनं खं दिवं नभः ॥" [त्रिकाण्डशेषः १।१४॥] इति ।
तथा बुद्धचरिते -
"न शोभते तेन हि नो विना पुरं मरुत्वता वृत्रवधे यथा दिवम् ॥'' [बुद्धचरितम् ८।१३] इति । "हलन्तस्यैव पृषोदरादित्वादुत्वाभावे दिवोकसः'' इति हट्टचन्द्रः । " 'दिव उत्'६।१।१३१॥ इत्यत्र तु [शब्द-] परविप्रतिषेधादुकारस्य यणादेशे दिवोकसः'' इति तु मैत्रेयः, 'अचः परस्मिन्-'१।१।५७॥ इति स्थानिवत्त्वेनापि नेकारस्य यणादेशः, 'सकृद्गत-'(परि-४१) परिभाषया निरासात्'' इति । गोवर्द्धनस्त्वाह-
"हलन्तस्योत्वाभावः, संज्ञाविषयत्वात्'' इति ।
"स्याद् दिवोका दिवौकाश्च देवे चापीह पक्षिणि'' इति रन्तिदेवः । ''केऽप्युभयमपि, 'कनिन् यु-वृषि-' (उणा-१५४) इत्यत्र बहुलवचनात् । केवलादपि दिवः कनिन्निति वृद्धौ दिवौ कसः'' इति तु 'दिव उत्'६।१।१३॥ इत्यत्र भागवृत्तिः । सप्तविंशतिर्देवस्य । शेषश्चात्रः -
''निलिम्पा: कामरूपाश्च साध्याः शोभाश्चिरायुषः ।
पूजिता मर्त्यमहिताः सुबाला वायुभाः सुर्रा: ॥२॥" [शेषनाममाला २।४॥]
तथा- "द्वादशार्का वसवोऽष्टौ विश्वेदेवास्त्रयोदश ।
षट्त्रिंशत्तुषिताश्चैव षष्टिराभास्वरा अपि ॥३॥
षट्त्रिंशदधिके माहाराजिकाश्च शते उभे ।
रुद्रा एकादशैकोनपञ्चाशद्वायवोऽपरे ॥४॥
चतुर्दश तु वैकुण्ठाः सुशर्माणः पुनर्दश ।
साध्याश्च द्वादशेत्याद्या विज्ञेया गणदेवताः ॥५॥" [शेषनाममाला २५-७]
तेषां यानं विमानः
तेषां देवानां यानं (वाहनं देवयानं सुरयानमित्यादि) । विमान्ति वर्तन्तेऽस्मिन् देवा इति विमानः, पुंक्ली. । 'मा माने' (अ.प.अ.), नप्रत्ययः । विशिष्टं मानयन्त्यनेनेति करणे घञि वा । व्योमयानमपि । एवं देवयानम्, सुरयानमित्यादियौगिकनामानि, तेषां हि विमानं यानमिति सम्बन्धाद् विमानयानाः, वैमानिकाः, देवा इत्यादिदेवनामानि स्युः ॥
१अन्धः २पीयूष३ममृतं४सुधा ॥८९॥
तेषां देवानाम् अन्धः अन्नं भोज्यमाहार इति यावत् । देवान्धः, देवान्नम्, देवभोज्यम्, देवाहार इत्यादि । १ पीय्यते पीयूषम् । 'पीयि प्रीणने' सौत्रः, 'पीयेरूषन्'(उणा-५१६) । पेयूषमपि । २ नास्ति मृतं मरणमत्र अमृतम् । न म्रियतेऽनेनेति वा । 'तनिमृङ्भ्यां किच्च'(उणा-३६८) इति तन् ।''न म्रियत इत्यमृतम्, 'मतिबुद्धि[पूजार्थेभ्यश्च]'३।२।१८८॥ इत्यत्र चकारस्यानुक्तसमुच्चयार्थत्वाद् वर्तमाने क्त:"[मा.धातुवृत्तिः, तुदादिः, धातुसं-१०७, पृ-४८०] इति माधवः । अविद्यमानं मृतमनेन' इति स्वामी । ३ "सुखेन धीयते सुधा । 'धेट् पाने' (भ्वा.प.अ.), 'आतश्चोपसर्गे'३।१।१३६॥ इत्यङ्" इति तु पूर्वटीकाकृतः । तदनुचितम्, कर्मण्यङोऽभावात्, द्वितीयभावग्रहणस्य [कार]काधिकारनिवृत्त्यर्थत्वात् । तस्मात् सुष्ठु दधाति पुष्णाति शरीरमिति सुधा । 'डुधाञ् धारणपोषणयोः' (जु.उ.अ.), अस्मात् पचाद्यन्ताट्टाप्'' इति तु वत्सेश्वरः । संमुद्रनवनीतमपि । त्रीणि सुधायाः॥८९॥
दैवाश्च श्रीजैनमते भवनपति-व्यन्तर-ज्योतिष्क-वैमानिकभेदाच्चतुर्धा भवन्ति, तत्र भवनपतीनाह -
१असुरा २नागा३स्तडितः ४सुपर्णका५वह्नयो६ऽनिलाः ७स्तनिताः ।
८उदधि ९द्वीपदिशोदश १०भवनाधीशाः कुमारान्ताः ॥९०॥
१ एतेऽसुरादयो दशशब्दाः कुमारान्ता ज्ञेयाः । कुमारशब्दोऽन्ते येषां ते कुमारान्ताः, तेन असुरकुमारा: १, नागकुमाराः २, तडित्कुमाराः ३, सुपर्णकुमाराः ४, अग्निकुमारा: ५, अनिलकुमारा: ६, स्तनितकुमारा: ७, उदधिकुमाराः ८, द्वीपकुमाराः ९, दिक्कुमारा: १०, एते सर्वेऽपि कुमारवत् कान्तदर्शनाः (अकर्कशशरीरत्वचः मधुरसलीलगमनाः उल्बलवेषभाषाभरणप्रावरणप्रहरणयान-वाहनाः शृङ्गाराभिरामाः खेलननिरताश्चेत्यतः) कुमारा इति प्रोच्यन्ते । दशानामसुरकुमारादीनां नामैकं 'भवनाधीशाः' इति, भवनपतय इत्यर्थः, भवनशब्दोऽत्र प्रथमस्वरादिरावासपर्यायः ॥९०॥
अथ व्यन्तरानाह –
स्युः १पिशाचा २भूता ३यक्षा ४ ५किन्नरा अपि ।
६किंपुरुषा ७महोरगा ८गन्धर्वा ९व्यन्तरा १०अमी ॥९१॥
अमी पिशाचादयोऽष्टौ व्यन्तराः प्रोच्यन्ते, विविधेषु गिरिकन्दरान्तरवनविवरादिषु वा प्रतिवसन्तीति व्यन्तराः । पृषोदरादित्वात् साधुः । यद्वा चक्रवर्त्यादिसेवाकारित्वाद् विगतमन्तरं विशेषो नरेभ्यो येषां ते व्यन्तराः । वनानां समूहो वानम्, तस्यान्तरे भवन्तीति पृषोदरादित्वाद् मकारागमे 'वानमन्तरा' इत्यपि । अष्टविधपिशाचादीनां नामैकम् ॥९१॥
अथ ज्योतिष्कानाह-
ज्योतिष्काः पञ्च १चन्द्रा२र्क३ग्रह४नक्षत्र५तारकाः ।
१ द्योतन्त इति ज्योतींषि विमानानि, तान्यावासतया सन्त्येषामिति ज्योतिष्काः । 'द्युत दीप्तौ' (भ्वा.आ.से.), 'द्युतेरिसन्नादेश्च ज:'(उणा-२६७) इति सूत्रेणेसन्प्रत्ययः, दस्य च जः, ज्योतिःशब्दाद् व्रीह्यादित्वात् ठन्, 'इसु[सु]क्तान्तात् कः'७।३५१॥ यद्वा भास्वरशरीरत्वात्, निखिलदिग्मण्डलद्योतनाद् वा ज्योतींषि देवाः, तान्येव ज्योतिष्काः । स्वार्थे कन् । पञ्चेति, पञ्चसंख्या इत्यर्थः, ते च १ चन्द्राः, २ अर्काः, ३ ग्रहाः, ४ नक्षत्राणि, ५ तारकाश्चेति । चन्द्रादितारकान्तानां नामैकं ज्योतिष्का इति ॥
अथ वैमानिकानाह -
वैमानिकाः पुनः कल्पभवा द्वादश ते त्वमी ॥९२॥
सौधर्मेशानसनत्कुमारमाहेन्द्रब्रह्मलान्तकजाः ।
शुक्रसहस्रारानतप्राणतजा आरणाच्युतजाः ॥९३॥
कल्पातीता नव ग्रैवेयकाः पञ्च त्वनुत्तराः ।।
१ विशिष्टपुण्यैर्जन्तुभिर्मान्यन्ते उपभुज्यन्ते विमानानि, तेषु भवा वैमानिकाः । अध्यात्मादित्वात् ठक् । ते च द्विधा,
कल्पभवाः कल्पातीताश्च । इन्द्रादिदशतया कल्पनात् कल्पः समुदायः सन्निवेशः, पृथ्वीप्रस्तार इति यावत्, तत्र भवा: कल्पभवाः द्वादश । ते चामी ॥९२॥ १-१२ सुधर्मा देवसभाऽत्रास्तीति सौधर्मः । 'तदस्मिन्नस्तीति देशे-'४।२।६७॥ इत्यण् । तत्र जाताः सौधर्मजाः । ईशानेन्द्रस्य निवास: ऐशानः कल्पः, तत्रं जाता ऐशानजाः । एवं सनत्कुमारादिकल्पेषु जाता: सनत्कुमारजाः, माहेन्द्रजा: । ब्रह्मा ब्रह्मलोकः, तत्र जाता: ब्रह्मजाः । लान्तकजाः, महाशुक्रजाः, सहस्रारजाः, आनतजाः , प्राणतजाः, आरणजाः, अच्युतजाः । सर्वत्र 'जनी प्रादुर्भावे' (दि.आ.से.), अस्मात् 'सप्तम्यां जनेर्ड:'३।२।९७।। अत्र आर्यायां ब्र-प्राक्षरयोः पूर्वी द्र-तौ ह्रादिसंयोगवर्जनाद् गरू न भवतः ॥९३॥ सौधर्माद्यच्यतजान्तदेवानां सामान्येनैकं कल्पभवा वैमानिका इति । कल्पानतीता: कल्पातीताः, कल्पानतिक्रम्योपरि स्थिता इत्यर्थः । अत्र 'द्वितीया श्रिता-'२।१।२४॥ इत्यादिना समासः । नवेति नवसंख्याका इत्यर्थः । लोकपुरुषस्य ग्रीवाप्रदेशविनिविष्टा ग्रीवाभरणभूता ग्रैवेयकाः । ग्रीवाशब्दात् 'कुलकुक्षि-'८।२।९६॥ इति ढकञ् । नवग्रैवेयकोद्भवदेवानां सामान्येनैकं कल्पातीता वैमानिका इति । पञ्चेति पञ्चसंख्या अनुत्तराः । नास्त्युत्तर उत्कर्षवान् येभ्यस्तेऽनुत्तरा: विजयवैजयन्तजयन्तापराजितसर्वार्थसिद्धनामानः । विजयादिपञ्चानामैकम् ॥
संग्रहमाह –
निकायभेदादेवं स्युर्देवाः किल चतुर्विधाः ॥९४॥
एवम् उक्तप्रकारेण देवाः भवनपत्यादयः चतुर्विधाः चतुष्प्रकाराः निकायभेदाद् निकायो निवास उत्पादस्थानं तद्भेदात् । तथाहि- भवनपतयोऽशीतिसहस्रोत्तरयोजनलक्षपिण्डायां रत्नप्रभायामूर्ध्वमधश्चैकैकं योजनसहस्रमपहाय तिष्ठन्ति । व्यन्तरास्तु तस्या एव रत्नप्रभाया उपरि यत्परित्यक्तं योजनसहस्रमेकं तस्याध ऊर्ध्वं चैकैकं योजनशतं विहाय मध्येऽष्टसु योजनशतेषु जायन्ते । ज्योतिष्कास्तु समभूतलभूभागात् सप्तशतानि नवत्युत्तराणि योजनानामारुह्य दशाधिकयोजनशतपिण्डे नभोदेशे लोकान्तात् किञ्चिन्न्यूने जन्माऽऽसादयन्ति । वैमानिकास्तु रज्जुमध्यार्द्धमधिरुह्याऽमुतः सौधर्मादिकल्पेषु वसन्ति । उक्तस्थानमन्तरे-णान्यत्रैषामुत्पादो जन्म नास्तीति । निवासार्थोऽत्र निकायशब्दः सङ्घार्थो वा ॥९४॥
अथ देवविशेषनामान्याह -
१आदित्यः २सविता३र्यमा ४खर५सहस्रो६ष्णांशु७रंशू
८रवि९र्मार्तण्ड१०स्तरणि११र्गभस्ति१२ररुणो १३भानु१४र्नभो१५ऽहर्मणिः ।
१६सूर्यो१७ऽर्कः १८किरणो १९भगो २०ग्रहपुषः२१पूषा २२पतङ्गः २३खगो,
२४मार्ताण्डो २५यमुना२६कृतान्तजनकः २७प्रद्योतन२८स्तापनः ।।९५।।
२९ब्रध्नो ३०हंस३१श्चित्रभानु३२र्विवस्वान् ३३सूर३४स्त्वष्टा ३५द्वादशात्मा च ३६हेलिः ।
३७मित्रो ३८ध्वान्ताराति३९रब्जां४०शुहस्त ४१चक्रा४२ब्जा४३हर्बान्धवः ४४सप्तसप्तिः ॥९६॥
४५दिवा४६दिना४७ह४८र्दिवस४९प्रभा५०विभा५१भासः करः स्या५२न्मिहिरो ५३विरोचनः।
५४ग्रहा५५ब्जिनी५६गो५७द्युपति५८र्विकर्तनो ५९हरिः ६०शुची६१नौ गगनाद् ६२ध्वजा६३ध्वगौ ॥९७॥
६४हरिदश्वो ६५जग६६त्कर्मसाक्षी ६७भास्वान् ६८विभावसुः ।
६९त्रयीतनु७०र्जगच्चक्षु७१स्तपनो७२ऽरुणसारथिः ॥९८॥
१ अदितेरपत्यम् आदित्यः । 'दित्यदित्या-'४।१८५॥ इति ण्यः । इदं रौढिकम् । २ सूते प्रकाशं सविता । 'षूङ् प्रसवे' (दि.आ.वे.), तृच् । ३ ऋच्छति अर्यते वा अर्यमा । 'ऋ गतौ प्रापणे च' (भ्वा.प.अ.), बाहुलकात् 'श्वन्नुक्षन् पूषन्-प्लीहन्-क्लेदन्-स्नेहन्-मूर्धन्-मज्जन्-[अर्यमन्]-विश्वप्सन्-परिज्मन्'(उणा-१५७) इति साधुः । ४-६ खरा: कठिनाः, सहस्रं च सहस्रसंख्याकाः, उष्णाश्च अंशवो यस्य स खरसहस्रोष्णांशुः, तेन खरांशुः, सहस्रांशुः, उष्णांशुः । यौगिकत्वात् खररश्मिः, दशशतरश्मिः, उष्णरश्मिः, शीतेतरश्मिरित्यादयः । ७ अमते (अमति) गच्छति व्योममार्गेणेति अंशुः । 'अम मत्यादौ' (भ्वा.प.से.) 'मृगय्वादयश्च'(उणा-३७) इति कुः, बाहुलकात् शुक्, शतालव्यः । ''अथोडुबन्धुश्च भयङ्करे करे महौषधीनष्टकरांशुभे शुभे ॥" इति जानकीहरणयमकात् । ८ रूयते स्तूयते रविः । 'रु शब्दे' (अ.प.से.), 'अच इ:'(उणा-५७८) इति इः । ९ मृतण्डस्याऽपत्यं मार्तण्डः । 'ऋष्यन्धकवृष्णि-कुरुभ्यश्च'४।१।११४॥ इत्यण, णित्त्वाद् वृद्धिः ।
"अण्डे द्विधा कृते चार्तं, दृष्ट्वा पितरमब्रवीत् ।
आर्त्तस्त्वं भव माण्डेति, मार्तण्डस्तेन संस्मृतः ॥१॥" इति ।
१० तरन्त्यनेन संसारं तमो वेति तरणिः । 'तॄ प्लवनतरणयोः'
(भ्वा.प.से.), अर्त्ति-सृ-धृ-धम्यस्यश्य-वितॄभ्योऽनि:'(उणा-२५९) इत्यनिः,'सार्वधातुकार्धधातुकयो:'७।३।८४॥ इति गुणः, पुंस्त्रीलिङ्गः । ११ गृध्यते अभिकाङ्क्ष्यते लोकैरिति गभस्तिः । 'गृधु अभिकाङ्क्षायाम्' (दि.प.से.), 'गृधेर्गभ् च'(हैमोणादिः ६६१) इत्यस्तिक्प्रत्ययो गृधेर्गभादेशश्च । यद्वा गोशब्दपूर्वादन्तर्भूतण्यर्थात्, 'भस भक्षण(भर्त्सन)दीप्त्योः' (जु.प.से.) अस्मात् 'क्तिच(क्तिच्)क्तौ च संज्ञायाम्'३।३।१७४॥ इति क्तिंचीडभावे पृषोदरादित्वाद् गोशब्दस्य अकारः । गां भूमिं बभस्ति दीपयति गभस्तिः । यद्वा गवि स्वर्गे दीप्यते । यद्वा बभस्ति रत्तिकर्माऽत्र । गामुदकं भौमरसलक्षणं बभस्ति अत्तीति गभस्तिः । यद्वा 'गट् च' इति भोजसूत्रेण तिप्रत्ययः, धातोर्गडागमश्च । बभस्ति दीप्यत इति गभस्तिरिति । १२ अरुणः सारथिरस्येति अरुणः । 'अर्शआदिभ्योऽच्'५।२।१२७ ॥ इत्यच् । अरुणकान्तित्वाद् वा अरुणः । १३ भाति दीप्यते भानुः । 'भा दीप्तौ' (अ.प.अ.), 'दाभाभ्यां नु:'(उणा-३१२) इति नुः । १४-१५ नभोऽहर्मणिः इति, नभश्च अहश्च नभोऽह्नी, नभोऽहोभ्यां मणिः नभोऽहर्मणिः, तेन नभसि मणिरिव नभोमणिः। अह्नो अह्नि वा मणिरिव अह मणिः । यौगिकत्वाद् व्योमरत्नम्, दिनरत्नमित्यादिः । दिवो मणिरिव द्युमणिः । ''दिवि मणिः [इव]"[अम.क्षीर.१।३।३१॥] इति तु क्षीरस्वामी । १६ सरति व्योममार्गेण, सुवति प्रेरयत्यन्धकारं वेति सूर्यः । 'सृ गतौ' (भ्वा.प.अ.) अस्मात् कर्तरि क्यप्, उकारोन्तादेशश्च निपात्यते, तत्र रपरत्वे 'हलि च'८।३।७७॥ इति दीर्घः । 'षू प्रेरणे' (तु.प.से.) अस्माद् वा, 'राजसूय-सूर्य-मृषोद्य-रुच्य-कुप्य-कृष्ट-पच्याव्यथाः'३।१।११४।। इति सूत्रेण साधुः । सुवति प्रेरयति कर्मणि लोकानिति वा व्युत्पत्तिः । तत्रोदिते लोकानां कर्मसु प्रवृत्तेः सूर एव वा सूर्यः । 'नवसूरयवा' इत्यादिना यत् । १७ दैवैर्मानवैश्च अर्च्यते पूज्यते अर्कः । 'अर्च पूजायाम्' (भ्वा.प.से.), कृ-दा-धा-रार्चि-कलिभ्यःक:'(उणा-३२०) इति कप्रत्ययः, 'चो: कुः'८।२।३०॥ इति धातोः कवर्गोऽन्तादेशः, ['झरो झरि-'८।४।६५॥ इति कलोपः] । अर्च्यतेऽसाविति, कर्मणि घञि वा, ‘चजोः'-७।३ ५२ ॥ इति कुत्वम्। १८ किरति विक्षिपति तमांसीति किरणः । कृणाति तम इति वा । 'कॄ विक्षेपे' (तु.प.से.), तुदादिः, 'कॄ हिंसायाम्' (क्र्या.प.से.), क्र्यादिः, आभ्यां 'कॄघृ(पॄ)वृजिमन्दिनिधाञ्भ्यः क्युः'(उणा-२३९) इति क्युः । १९ भज्यते आश्रीयतेऽनेन कृत्वा आलोको जनैरिति भगः । 'भज सेवायाम्' (भ्वा.उ.अ.), करणे घञ्, 'चजोः-७।३।५२॥ इति कुत्वम् । २० ग्रहान् पुष्णाति ग्रहपुषः । 'पुष पुष्टौ' (क्र्या.प.से.), मूलविभुजादि त्वात् कः । आदित्यो हि सुषुम्णाभिर्नाडिभिर्ग्रहान् पुष्णातीति । यद् व्याडि: -
"सुषुम्णाद्याश्च नाड्योऽस्य पुष्णन्ति सततं ग्रहान् ॥" इति ।
२१ वर्षेण कृत्वा लोकान् पुष्णाति ऋतुभेदात् पूषति वर्धते वा पूषा । पूषणौ, पूषणः इत्यादि । 'पुष पुष्टौ ' (क्र्या.प.से.), क्र्यादिः, 'पुष पुष्टौ' (भ्वा.प.से.), भ्वादिर्वा, 'श्वनुक्षन्-पूषन्-'(उणा-१५७) इत्यादिना साधुः । यद् व्याडि: -
"ऋतुभेदात् पुनस्तस्यातिरिच्यन्ते च रश्मयः ।
शतानि द्वादश मधौ त्रयोदश च माधवे ॥२॥
चतुर्दश पुनर्ज्येष्ठे नभोनभस्ययोस्तथा ।
पञ्चदशैव त्वाषाढे षोडशैव तथाश्विने ॥३॥
कार्तिकिके त्वेकादश शतान्येवं तपस्यपि ।।
मार्गे च दश सार्द्धानि शतान्येवं च फाल्गुने ॥४॥
पोष एव परं मासि सहस्रं किरणा रवेः ॥'' इति ।
२२ पतति गच्छति व्योम्नि पतङ्गः । 'पत्लृ गतौ' (भ्वा.प.से.), 'पतेरङ्गच्-'(उणा-११६) इत्यङ्गच् । २३ खे आकाशे गच्छति खगः । 'गम्लृ गतौ' (भ्वा.प.अ.), 'अन्यत्रापि दृश्यते'(वा-३।२४८॥) इति डः । २४ मृतमण्डमस्येति मृताण्डः ऋषिस्तस्यापत्यं मार्ताण्डः । 'ऋष्यन्धकवृष्णि-'४।१।११४॥ इत्यानिाऽण् । 'मृतमण्डमजायत' इति श्रुतेः । मार्ताण्डो दीर्घमध्यः । ''अथ मार्तण्डमार्ताण्डौ'' इति नामनिधानम् । शब्दार्णवे मार्कण्डोऽपि । २५-२६ यमुनाया: कृतान्तस्य च जनकः, तेन यमुनाजनकः, कृतान्तजनकः । यौगिकत्वात् कालिन्दीसूः, यमसूरित्यादयोऽपि । २७ प्रद्योतते प्रद्योतनः । 'द्युत दीप्तौ' (भ्वा.आ.से.), नन्द्यादित्वल्ल्युः, 'युवोरनाकौ'७।१।१॥ इत्यनादेशः । २८ तापयत्युष्णतेजोभिरिति तापनः । 'तप सन्तापे' (भ्वा.प.अ.) अस्माद् हेतुमण्णिजन्ताद् 'अन्यत्रापि बहुलम्' इति युच् ॥१५॥ २९ बध्नाति तिमिरमिति ब्रध्नः । 'बन्ध बन्धेन' (क्र्या. प.अ.), 'बन्धेर्ब्रधिबुधी च'(उणा-२८५) इति नक्, 'अनिदिताम्-'६।४।२४॥ इति न्लोपः । ३० हन्ति तमांसि, हन्ति गच्छति वा विहायसीति हंसः । 'हन हिंसागत्योः' (अ.प.अ.), 'वॄतॄवदिहनिकमिकषियुमुचिभ्यः सः' (उणा-३४२) इति सः । ३१ चित्रा नानाप्रकारा भानवः किरणा अस्येति चित्रभानुः । ३२ विवस्ते विविधप्रकारणाच्छादयति परतेजांसीति विवः । 'वस आच्छादने' (अ.आ.से.), अस्माद् विपूर्वात् क्विप् ।
विवो रश्मिस्तद् योगात् विवस्वान् । 'तदस्यास्त्यस्मिन्-'५।२।९४॥ इति मतुप्, 'मादुपधायाश्च मतोर्वोऽयवादिभ्यः'८।२।९॥ इति वत्वम् । यद्वा "विपूर्वो वसिरतिक्रमे । विवसोऽस्यास्ति, विवस्वान्, रात्र्याद्यतिक्रमवानित्यर्थः'' इति तु कौमुदी । ३३ सूते उत्पादयति तेजांसि, सूते (सुवति) प्रेरयत्यन्धकारमिति-वा सूरः । ['षूङ्प्राणिगर्भविमोचने' (अ.आ.से.)] 'सू (पू) प्रेरणे' (तु.प.से.) [वा], 'सुसूधागृधिभ्यः क्रन्'(उणा- १८२) इति क्रन् । सूरो दन्त्यादिः, ''वारुणीवारुणीभूतसौरभासौरभास्पदम्'' इति दण्डियमकात् । ''शवतिगच्छतिशूरः । 'शु गतौ' [सौत्रः], 'शुसिचिमीभ्यो दीर्घश्च'(उणा-१८३) इति क्रन्, शूरस्तालव्यादिः'' इति तु कलिङ्गः । ''शूरति शूरः । 'शूर विक्रान्तौ' (चु.आ.से.) अतः 'इगुपधज्ञाप्रीकिरकः'३।१।१३५॥" इति स्वाम्यपि, तालव्यादिः । ''सुभटे शूर: सूर्ये च दन्त्योऽपि" इत्यूष्मविवेकः । 'कुमुदाकरा इवासोढशूरभासः'' [सुबन्धुकृतवासवदत्ता, पृ.६५] इति वासवदत्ताश्लेषादपि तालव्यत्वमायाति । ३४ त्वेषति दीप्यते त्वष्टा । 'त्विष दीप्तौ' (भ्वा.उ.अ.), ‘नप्तृनेष्टृत्वष्टृक्षतृहोतृपोतृमातृभ्रातृजामातृदुहितृ'(उणा-२५२) एते शब्दानिपात्यन्ते, तृन्तृचोप्रत्ययोर्निरूढाः । 'त्विषेर्दैवतायामकारश्चोपधाया:' इति तृनि उपधाया अत्वमिति वा । ३५ द्वादश आत्मानो रूपाण्यस्यद्वादशात्मा, नकारान्तोऽयम् । 'द्वादश ह्यादित्याः" इति प्रसिद्धिः । ३६ हेलयति क्रीडयति अंशूनिति हेलिः । 'हिल क्रीडायाम्', णिजन्तादस्माद् 'अचइ:'(उणा-५७८) इति इः । ३७ मेद्यति मित्रः । 'ञिमिदा स्नेहने' (दि.प.से.), 'अमिचिमिदिशसिभ्यः त्रन्'(उणा-६०३) इति त्रन् । मित्रो द्वितकारः । ३८ ध्वान्तस्याराति: ध्वान्तारातिः । यौगिकत्वात तिमिरारित्यादयः । ३९-४० अब्जानि अंशवश्च हस्ते यस्य स तथा अब्जहस्तः, अंशुहस्त: । यौगिकत्वात् पद्मपाणिः, गभस्तिपाणिरित्यादयः ।४१-४३ चक्रस्य अब्जस्य अह्नश्च बान्धवः, तेन चक्रबान्धवः, चक्र: चक्रवाकपक्षी, अब्जबान्धवः, अहर्बान्धवः । यौगिकत्वात् चक्रवाकबन्धुः, पद्मबन्धुः, दिनबन्धुरित्यादयः । ४४ सप्तसंख्याः सप्तयोऽश्वायस्य स सप्तसप्तिः ॥९६।। यद्वेदः "सप्तयुजन्ति (युञ्जन्ति ) रथमेकचक्रम् एकोऽधो वहति सप्तनामा' इति । ४५-५१ दिवादिभ्यः सप्तभ्यः करशब्दोयोज्यः, तेनदिवाशब्दोऽधिकरणवाची, दिवाऽह्नि करोति प्राणिनश्चेष्टायुक्तानिति दिवाकरः । 'दिवा विभानिशाप्रभा-'३।२।२१ ॥ इत्यादिना टप्रत्ययः । दिनं करोति दिनकरः । 'डुकृञ् करणे' (त.उ.अ.), 'कृञो हेतुताच्छील्यानुलोम्येषु'३।२।२०॥ इति टः । अहः करोति अहस्करः । कृञो धातोः 'दिवाविभानिशाप्रभा-भास्करान्तानन्तादिबहुनान्दी'३।२।२१॥ इत्यादिनाटप्रत्ययः, 'रोऽसुपि'८१२।६९।। इति अह्नोनकारस्य रेफ:, 'खरवसानयोर्विसर्जनीय:'८।३।१५॥, तत: 'अत: कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य'८।३।४६॥ इति सत्वम् । ''कस्कादित्वात् सः''[अम.क्षीर.१।२।२९॥] इति तु स्वामी । दिवसं करोति दिवसकरः । प्रभाः करोति प्रभाकरः । विभा: करोति विभाकरः । उभयत्र 'दिवाविभानिशाप्रभा-'३।२।२१॥ इत्यादिना कृञष्टः । भाः करोति भास्करः । 'भास्कर'३।२।२१।। इति निपातनात् सः । सकारोच्चारणादेव निपातनात् प्रत्ययसन्नियोगेन भाः-शब्दस्य सकारो भवति, न विसर्जनीयजिह्वामूलीयावित्यर्थः । यद्वा 'भास्कर'३।२।२१ ॥ इति निर्देशादनुमितात् कस्कादित्वपाठात् स इत्यर्थो द्रष्टव्यः, तथा च "विसर्गसन्धावुक्तम्, कस्कादित्वात् सः भास्करः'' इत्यादि । यौगिकत्वाद्वासरकृत्, दिनप्रणीरित्यादय: ।
५२ मेहति सिञ्चति मिहिरः । 'मिह सेचने' (भ्वा.प.अ.), इषि-मदि-मुदि-खिदि-च्छिदि-भिदि-मन्दि-चदि-तिमि-मिहि-मुचि-रुचि-रुधि-शुषि-बन्धिभ्यः किरच्'(उणा-५०) इति किरच्, कित्त्वाद् गुणाभावः।
"आदित्याज्जायते वृष्टिर्वृष्टरन्नं ततः प्रजाः ॥" इति श्रुतेः ।
तथा शाम्बपुराणे -
"मेहेति सेचने धातुर्मेहनान्मिहिरः स्मृतः॥" इति । हट्टचन्द्रश्च 'मरिं महिं पठित्वा महिरः' इति प्रथमस्वरादि पठन् 'मिहेरपारणीयतया(-रपाणिनीयतया) मिहिरोऽसाधुः' इति यदाह, तदसत्, त्रिकाण्डशेषेऽपि "महिरमिहिरपीथाः कालकृत्पद्मपाणिः ॥"[त्रिकाण्डशेषः १।३।१८॥] इति दर्शनात् । क्षीरस्वाम्यादिभिरपि 'मिहिर' इति व्युत्पादनाच्च 'मिहिर' इत्यपि साधुरेव । ५३ विशेषेण रोचत इति विरोचनः । 'रुच दीप्तौ' (भ्वा.आ.से.), 'अनुदात्तादेश्च-'३।२।१४९॥ इति युच् । ५४-५७ ग्रहाणामब्जिनीनां गवां द्यूनां च पतिः, तेन ग्रहाणां पतिः ग्रहपतिः, अब्जिनीपतिः, गोशब्देन दीधितयस्तासां पतिः गोपतिः, द्युपतिः । यौगिकत्वाद् ग्रहेशः, पद्मिनीशः, त्विषांपतिरिति । 'दिवस्पतिवदलुकि' इति कलिङ्गः, 'वाक्यमेव प्रचुरप्रयोगत्वान्निबद्धम्' इति श्रीधरः । "पत्युस्त्विषामिह महौषधयः कलत्रस्थानम्"[शिशुपालवधम् ४।३४॥] इति माघः । ५८ स्वदुहितुरिच्छायै विश्वकर्मणा विविधं कर्तित इति विकर्त्तनः । विपूर्वः 'कृती छेदने' (तु.प.से.), 'कृत्यल्युटो बहुलम्'३।३।११३।। इति बहुलवचनात् कर्मणि ल्युट्, 'युवोरनाको'७।१।१॥, 'पुगन्तलघूपधस्य च'७।३।८६॥ इति उपधागुणः । ५९ हरति तमांसि स्वसेवकरोगानिति वा हरिः । 'हृञ् हरणे' (भ्वा.उ.अ.), 'अच इ:'(उणा-५७८)इति इः, 'सार्वधातुकार्धधातुकयो:'७।३।८४॥ इति गुणः । 'आरोग्यं भास्करादिच्छेत्' इत्यागमः । ६० शोचत्यस्मिन्नुदिते उलूक इति शुचिः, तालव्यादिः । 'शुच शोके' (भ्वा.प.से.), 'इगुपधात् कित्'(उणा-५५९) इतीन् । ६१ आयन्ति जनास्तमिति इनः । 'इण् गतौ' (अ.प.अ.), 'इण्दीङुषवभ्यो नक्'(उणा-२८२) । ६२-६३ गगनाद् ध्वाजाऽध्वगौ, गगनशब्दाद् ध्वजशब्दोऽध्वगशब्दश्च योज्यः, तेन गगने ध्वज इव गगनध्वजः, गगनाध्वगः । यौगिकत्वाद् नभ:केतनः, नभ:पान्थः इत्यादयः ॥९६॥ ६४ हरितो नीला अश्वा अस्य हरिदश्वः । ६५-६६ जगत्कर्मसाक्षी, जगतः कर्मणां च साक्षी, तेन जगत्साक्षी, जगत्साक्षिणौ, जगत्साक्षिणः इत्यादि । एवं कर्मसाक्षी । ६७ भासः सन्त्यस्य भास्वान् । 'तदस्यास्त्यस्मिन्-'५।२।९४॥ इति मतुप् । यौगिकत्वाद् अंशुमान्, अंशुमालीत्यादयः । ६८ विभा दीप्तिर्वसु धनमस्य विभावसुः । ६९ त्रयो वेदाः त्रयी, सा तनुरस्य त्रयीतनुः । 'त्रयी तेजोमयो भानुः' इति स्मृतेः । ७० जगतां चक्षुः जगच्चक्षुः, प्रकाशकत्वात् । ७१ तपतीति तपनः । 'तप सन्तापे' (भ्वा.प. अ.), तप्यते इति वा । 'तप ऐश्वर्यादौ' (दि.आ.अ.), युच्, नन्द्यादिर्वा 'नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः'३।१।१३४॥ इति ल्युः । "भानुर्हंसः सहस्रांशुस्तपनस्तापनो रविः॥" इति संसारावर्त्तः । ७२ अरुणः सारथिरस्य अरुणसारथिः । द्वासप्ततिः सूर्यस्य । शेषश्चात्र –
"सूर्ये वाजीलोकबन्धुर्भानेमिर्भानुकेसरः ।
सहस्राङ्को दिवापुष्टः कालभृद् रात्रिनाशनः ॥५॥
पपीः सदागतिः पीतुः सांवत्सररथः कपिः ।
दृशानः पुष्करो ब्रह्मा बहुरूपश्च कर्णसूः ॥६॥
वेदोदयः खतिलकः प्रत्यूषाण्डं सुरावृतः ।
१रोचि२रुस्र३रुचि४शोचि५रंशु६गो७ज्योति८रर्चि९रुपधृत्य१०भीशवः ।
११प्रग्रहः १२शुचि१३मरीचि१४दीप्तयो १५धाम १६केतु१७घृणि१८रश्मि१९ पृश्नयः ॥९९॥
२०पाद२१दीधिति२२कर२३द्युति२४द्युतो २५रु२६ग्विरोक२७किरण२८त्विषि२९त्विषः ।
३०भाः ३१प्रभा३२वसु३३गभस्ति३४भानवो ३५भा ३६मयूख३७महसी ३८छवि३९र्विभा ॥१००॥
१ रोचते दीप्यते रोचिः, क्लीबलिङ्गः । 'रुच दीप्तौ' (भ्वा.आ.से.), 'अर्चिरुचिशुचिहु सृपिछादिच्छृदिभ्य ईस्' (उणा-२६५) इति इस् । रोचिषी, रोचिंषी । २ वसन्ति रस अस्मिन्निति उस्रः । 'वस निवासे' (भ्वा.प.अ.), 'स्फायित-
ञ्चिवञ्चिशकिक्षिपिक्षुदिसृपितृपिदृपिवन्द्युन्दिश्वितिवृत्यजिनीपदिमदिमुदि-खिदिभिदिच्छिदिमन्दिचदिदहिदसिदम्भिवहिवसिवाशिशीङ्हसिसिधिशुभिभ्यो रक्'(उणा-१७०) इति रक्, कित्त्वात् सम्प्रसारणम्, बाहुलकात् 'शासिवसिघसीनां च'८।३।६०॥ इति षत्वाभावः । वसत्येषु परं तेज इति वा व्युत्पत्तिः । यद्वा उद्पूर्वात् 'स्रु गतौ' (भ्वा.प.अ.) इत्यस्माद् 'उपसर्गे च संज्ञायाम्'३।३।९९॥ इति घञि विधीयमाने उप्रत्ययो बाहुलकाद् भवति, उल्लोपश्च । उत्स्रवन्ति रसा अस्मादिति व्युत्पत्तिः । ३ रोचते रुचिः, स्त्रीलिङ्गः । 'रुच दीप्तौ' (भ्वा.आ.से.), 'इगुपधात् कित्'(उणा ५५९) इति इन्प्रत्ययः । ४ शोचतस्तमोधूकौ अत्रेति शोचिः । औषधीशरुचिहारकत्वेन शुच्यते औषधीरनेनेति वा शोचिः, क्लीबलिङ्गः । 'शुच शोके' (भ्वा.प.से.), 'अर्चिरुचिशुचि-' (उणा-२६५) इत्यादिना इस् । ५ अमते (अमति) गच्छति अंशुः, पुंल्लिङ्गः । 'अम् गतौ' (भ्वा.प.से.), 'मृगय्वादयश्च'(उणा-३७) इति कुः, शप्रत्ययागमश्च । ६ गच्छत्यस्मात् तमः, गीयते स्तूयते वा जनैः गौः, पुंस्त्रीलिङ्गः । 'गम्लृ गतौ' (भ्वा.प.अ.), 'गमेर्डो:'(उणा-२२५) इति डोः, 'गोतो णित्' ७।११०॥, 'अचो ञ्णिति'७।२।११५॥ इति वृद्धिः । ७ द्योतते दीप्यते ज्योतिः, क्लीबलिङ्गः । 'द्युत दीप्तौ' (भ्वा.आ.से.), 'द्युतेरिसन्नादेश्च जः'(उणा-२६७) इति सूत्रेण इसिन्प्रत्ययः धातोरादेश्च जकारः । ज्योतिषी, ज्योतींषि इत्यादि । ८ अर्च्यत इति अर्चिः, स्त्रीक्लीबलिङ्गः । 'अर्च पूजायाम्' (भ्वा.प.से.), 'अर्चिरुचिशुचि-'(उणा-२६५) इत्यादिना इस् । अर्चिषौ, अर्चिषः इत्यादि स्त्रियाम् । अर्चिषी, अर्चींषि इत्यादि क्लीबे । ९ उपध्रियतेऽवतिष्ठते रसोऽत्रेति उपधृतिः । उपपूर्वः 'धृञ् धारणे' (भ्वा.उ.अ.), 'क्तिच्क्तौ च संज्ञायाम्'३।३।१७४॥ इति क्तिच् । १० अभिव्याप्नुवन्ति जगदिति अभीशुः । अभिपूर्वाद् 'अशू व्याप्तौ' (स्वा.आ.वे.) इत्यस्मात् 'भृमृशीङ्चरित्सरितनिधनिमनिमिमस्जिभ्य उ:'(उणा-७) इत्युप्रत्ययो बाहुलकाद् भवति, धात्ववयवस्य अकारस्य च इकारः । यद्वा अभिपूर्वात् 'ईश ऐश्वर्ये' (अ.आ.से.) इत्यस्मात् पूर्ववदुप्रत्ययः, ईष्टे सूर्यस्तमो हन्तुमेभिरिति व्युत्पत्तेः । पुंल्लिङ्गौ एतौ । "अभीषुः" इति गौडः । ११ प्रगृह्यतेऽनेन रस इति प्रग्रहः । 'ग्रह उपादाने' (क्र्या.उ.से.), 'ग्रहवृ[दृ]णि(नि)श्चिगमश्च'३।३।५८॥ इति करणेऽप्। १२ शुच्यते औषधीभिरनेनेति शुचिः, पुंल्लिङ्गः । शुचि नैर्मल्यार्थोऽत्र, 'इगुपधात् कित्'(उणा-५५९) इतीन् । १३ म्रियते तमोऽत्रेति मरीचिः, पुंस्त्रीलिङ्गः । 'मृङ् प्राणत्यागे' (तु.आ.अ.), 'मृकणिभ्यामीचिः'(उणा-५१०) इतीचिप्रत्ययः । १४ दीप्यतेऽनयेति दीप्तिः । 'दीपी दीप्तौ' (दि.आ.से.), 'क्तिन्नवादिभ्यो वक्तव्यः'(वा-३।३।९४॥) इति क्तिन् । १५ धीयते तेजोत्रेति धाम । 'डुधाञ् धारणपोषणयोः' (जु.उ.अ.), '-मन्'(उणा-५८६) इति मनिन्प्रत्ययः । १६ चाय्यते लोकै: पूज्यत इति केतुः । 'चायृ पूजानिशामनयोः' (भ्वा.उ.से.), 'चायः की (कि:) च'(उणा-७३) इति तुप्रत्ययः । (१७ घरति घृणिः । 'घृ सेचने' (भ्वा.प.अ.), णिप्रत्ययः) । १८ अश्नुते व्याप्नोति जगदिति रश्मिः, पुंल्लिङ्गः । 'अशू व्याप्तौ' (स्वा.आ.वे.), 'अशे (अशो) रश्च'(हैमोणा-६८८) इति मिप्रत्ययो रशादेशश्च । यद्वा रशिर्यमनार्थो धातुः, 'नियो मिः'(उणा-४८३) विधीयमानो मिप्रत्ययो बाहुलकाद् भवति । रशनाद् रश्मिरिति, कतिपयप्राणयोगविषय एवायं रषिः (रशि:) भारत्यादिवन्न सर्वत्र बन्धनप्रतीतेः, बधात्युदकं बध्यते वा तैरुदकमिति वा व्युत्पत्तेः । १९ स्पृश्यते पृश्निः, पुंस्त्रीलिङ्गः । 'स्पृश संस्पर्शने' (तु.प.अ.), 'घृणिपृश्निपार्ष्णितू(चू)र्णि:'(उणा-४९२) इत्यनेन निप्रत्ययो निपातितः । पृष्णिरित्यके । वृष्णिरित्यन्ये । धृष्णोति प्रगल्भते, 'ञिधृषा प्रागल्भ्ये' (स्वा.प.से.), 'वृषिधृषिभ्यां कित्' इति निरिप्रत्यये (निप्रत्येय) धृष्णिरित्यपरे ॥९९॥ २० पद्यतेऽनेनेति पादः । 'पद गतौ' (दि.आ.अ.), 'पदरुजिविशस्पृशो घञ्'३।३।१६॥ इति घञ्, 'अत उपधायाः'७।३।११६॥ इति वृद्धिः । २१ 'दीधीङ् दीप्तिदेवनयोः' (अ.आ.से.), 'संज्ञायां क्तिन्,' तितुत्र-७।२।९॥ इतीण्निषेधोऽत्र न भवति 'अग्रहादीनामिति तत्रोक्तत्वात्'[मा. धातुवृत्तिः, अदादिः, धातुसं-८४] इति माधवः । धीयते विधीयते प्रेर्यते रसाहरणादिकर्मस्वाऽऽदित्येनेति दीधितिः, स्त्रियाम् । 'क्तिच्क्तौ च संज्ञायाम्'३।३।१७४॥ क्तिचि पृषोदरा-दित्वादेव यथाकथञ्चिद्रूपसिद्धिरुन्नेया । धार्यते वा वर्षार्थमुदकमेभिरादित्येन । तथा च 'अथास्य कर्मरसादानं रश्मिभिश्च रसधारणम्' [निरुक्तम् ७।३ ॥] इति निरुक्तम् ।
"न वासघृतं गर्भं भास्करस्य गभस्तिभिः ।.
पीत्वा रसं समुद्राणां द्यौः प्रसूते रसायनम् ॥१॥" इति रामायणम् ।
''दीधीते दीप्यते । 'दीधीङ् दीप्तिदेवनयोः' (अ.आ.से.), स्त्रियां क्तिन् (क्तिच्), तितुत्रेष्वग्रहादीनामितीण्निषेधा-भावादिट्, 'यीवर्णयोर्दीधीवेव्योः'७।४।५३॥ इति ईकार लोपः" इति मिश्राः । २२ कीर्यते विक्षिप्यतेऽसौ करः। 'कॄ विक्षेपे' (तु.प.से.), 'ॠदोरप्'३।३।५७॥ इत्यप् । २३ द्योततेऽनया रविरिति द्युतिः । 'द्युत दीप्तौ' (भ्वा.आ.से.),
'इगुपधात् कित्'(उणा-५५९) इतीन् ङीषि द्युती च" इति कौमुदी । २४ द्योतनं द्युत् । 'द्युत दीप्तौ' (भ्वा.आ.से.), सम्पदादित्वात् क्विप् । २५ रोचनं रुक् । 'रुच दीप्तौ' (भ्वा.आ.से.), सम्पदादित्वात् क्विप् । २६ विरोचतेऽनेनेति विरोकः । 'रुच दीप्तौ' (भ्वा.आ.से.), बाहुलकात् करणे घञ् । २७ किरति तापमौष्ण्येन, कीर्यते वा आदित्येन दिग्मुखेषु वेति किरणः । 'कॄ विक्षेपे' (तु.प.से.) तुदादिः, 'कॄपॄवृजिमन्दिनिधाञ्भ्यः क्युः'(उणा-२३९) इति क्युः, 'ॠत इद्धातो:'७।१।१००॥ इतीकारोऽन्तादेशः, 'उरण् रपरः'१।१।५१॥ यद्वा कृणाति हिनस्ति तमः, हिंस्यते तमोऽनेनेति वा व्युत्पत्तिः 'कॄ[ञ्] हिंसायाम्' (क्र्या.उ.से.), प्रत्ययस्तु प्राचीन एव । २८ त्वेषते त्विषिः, स्त्रीलिङ्गः । 'त्विष दीप्तौ' (भ्वा.उ.अ.), 'इगुपधात् कित्'(उणा ५५९) इतीन् । २९ त्वेषणं त्विट् । 'त्विष दीप्तौ' (भ्वा.उ.अ.), सम्पदादित्वात् क्विप् । ३० भासते भाः, पुंस्त्रीलिङ्गः । 'भासृ दीप्तौ' (भ्वा.आ.से.) 'भ्राजभास-३।२।१७७॥ इत्यादिना क्विप् । भासौ, भासः इत्यादिरूपाणि । ३१ प्रकर्षेण भात्यनया प्रभा । 'भा दीप्तौ (अ.प.अ.) प्रपूर्वः, 'आतश्चोपसर्गे'३।३।१०६॥ इत्यङ् स्त्रीत्वाट्टाप् । ३२ वसति लोकेषु, वसत्यत्र परं तेजो वा वसुः । वसति (वस्ते) आच्छादयति लोकानिति वा । 'वस निवासे' (भ्वा.प.अ.), 'वस आच्छादने' (अ.आ.से.) वा, 'शॄस्वृ-स्निहि-त्रप्यसि-वसि-हनि-क्लिदि-बन्धि-मनिभ्यश्च'(उणा-१०) इत्युः। ३३ गोशब्दपूर्वादन्तर्भूतण्यर्थाद् 'भस भक्षण (भर्त्सन) दीप्त्योः' (जु.प.से.) इत्यस्मात् 'क्तिच्क्तौ च संज्ञायाम्'३।३।१७४॥ इति क्तिचीडभावे, पृषोदरादित्वाद् गोशब्दस्याकारोऽन्तादेशः । गां भूमिं बभस्ति दीपयति । यद्वा गवि स्वर्गे दीप्यत । यद्वा बभस्तिरत्रात्तिकर्मा, गामुदकं भौमरसलक्षणं बभस्ति अत्ति । यद्वा 'गट् च' इति सूत्रेण तिप्रत्ययः, धातोर्गडागमश्च । बभस्ति दीप्यत इति गभस्तिः । ३४ भातीति भानुः । 'भा दीप्तौ' (अ.प.अ.), 'दाभाभ्यां नुः'(उणा-३१२) इति नुः । वस्वादयस्त्रयः पुंसि । ३५ भानं भा । 'मृगयेच्छाटाट्या-'(वा-३।३।१०१॥) इत्यादिना 'भा दीप्तौ' (अ.प.अ.) इत्यस्य धातो रूपं निपात्यते । ३६ मिनोति प्रक्षिपति तमांसीति मयूखः, कवर्गद्वितीयोपधः । 'डुमिञ् प्रक्षेपणे' (स्वा.उ.अ.), अस्माद्धातोः 'मुहेः खः मूर्च'(उणा ७००) इति सूत्रेण मुहेर्विधीयमानः खप्रत्ययो बाहुलकाद् भवति, ऊडागमश्च । 'खप्रत्ययाधिकारेऽयं रूढः इति श्रीभोजः । मयतेर्गत्यर्थो (भ्वा.आ.से.) वा, बाहुलकाद् ऊखप्रत्ययः, मयति गच्छति सर्वलोकेष्विति व्युत्पत्तेः । माय प्रमाय गगने ओखति गच्छति मयूखः । 'मा माने' (अ.प.अ.), 'उख नख' (भ्वा.प.से.) इति दण्डको धातुर्गत्यर्थः, पचाद्यच्, पृषोदरादित्वाद् रूपसिद्धिः । यद्वा मिमीते मयूखः । 'माङ् माने' (जु.आ.अ.), 'माङ उखो (ऊखो) मय् च'(उणा-७०३) इत्यूखप्रत्ययो धातोर्मयादेशश्चेति । ३७ मह्यत इति महः । 'मह पूजायाम्' (भ्वा.उ.से.), '-असुन्'(उणा-६२८) इत्यसुन् । ३८ छ्यति छिनत्ति तमः, छाद्यते वा तमोऽनयेति छविः, स्त्रीलिङ्गः । 'छो छेदने' (दि.प.अ.), 'छद संवरणे' (चु.उ.से.), 'कृविघृष्विच्छविस्थविदविकिकिदिवः'(उणा-४९६) इति सूत्रेण साधुः । ३९ विभानं विभा । विपूर्वः 'भा दीप्तो' (आ.प.अ.), 'आतश्चोपसर्गे'३।३।१०६॥ इत्यङ् । सामान्येन एकोनचत्वारिंशत् किरणस्य ॥१००॥
१प्रकाश२स्तेज ३उद्द्योत ४आलोको ५वर्च ६आतपः ।
१ प्रकाशते प्रकाशः । 'काशृ दीप्तौ' (भ्वा.आ.से.), घञ् । २ तेजयति तेजः । 'तिज निशाने' (भ्वा.प.से.) णिजन्तादस्मात् '-असुन्'(उणा-६२८) इत्यसुन् । तेजसी, तेजांसि इत्यादि। ३ उद्योतत उद्द्योतः । उत्पूर्वः 'द्युत दीप्तौ' (भ्वा.प.से.), घञ् । ४ आलोकते जनोऽनेनेति आलोकः । 'लोक दर्शने' (भ्वा.आ.से.), करणे घञ् । ५ वर्चते दीप्यते वर्चः । 'वर्च दीप्तौ' (भ्वा.आ.से.), '-असुन्'(उणा-६२८) इत्यसुन् । वर्चसी, वर्चांसि इत्यादि । ६ आतपति आतपः । 'तप सन्तापे' (भ्वा.प.अ.), आङ्पूर्वः, पचाद्यच् । द्योत इत्यपि । षड् उद्योतस्य । 'उजुआलु' इति भाषा॥
१ म्रियतेऽनया मरीचिः । 'मृङ् प्राणत्यागे' (तु.आ.अ.), 'मृकणिभ्यामीचि:'(उणा-५१०) इतीचिः प्रत्ययः, मरीचिरिव मरीचिका, प्रथमस्वरादिः । 'इवे प्रतिकृतौ'५।३।९६॥ इति कन्, स्त्रीत्वाट्टाप् । २ जलाभासत्वाद् मृगाणां तृष्णाऽस्त्यस्यां मृगतृष्णा । अर्शआदित्वादच्, ततष्टाप् । मरुदेशे सिकतादौ अर्क- रश्मयः प्रतिफलिता दूरस्थानां जलत्वेनाभासन्ते, तद्वाचिनाम द्वयम् । मरुमरीचिकाऽपि । 'झांझूआ' इति भाषा॥
१मण्डलं २तूपसूर्यकम् ॥१०१॥
३परिधिः ४परिवेषश्च
१ मण्ड्यते मण्डयते वा मण्डलम्, त्रिलिङ्गः । 'मडि भूषायाम्' (भ्वा.प.से.), ण्यन्तो वा । 'कलतृ (स्तृ) पश्च'(उणा १०४) । इह सूत्रे प्राक्प्रत्ययनिर्देशो मण्डलादिप्रसिद्ध्यर्थः । मण्डं भूषां लात्यादत्ते वा मण्डलम् । 'ला आदाने' (अ.प.अ.), आतोऽनुपसर्गे कः'३।२।३ ॥, 'आतो लोप इटि च'६।४।६४॥ इत्यालोपः।
२ सूर्यमुपगतं उपसूर्यकम्, क्लीबलिङ्गः । स्वार्थे कन्, 'प्रादयश्च'२।२।१८॥ इति प्रादिसमासः । यद्वा समीपे सूर्यस्य प्रतिकृतिः उपसूर्यकम् । 'इवे प्रतिकृतौ'५।३।९६॥ इति कन् ॥१०१॥ ३ परितो धीयते स्थाप्यते परिधिः, पुंल्लिङ्गः । 'डुधाञ् धारणपोषणयोः' (जु.उ.अ.) परिपूर्वः, 'उपसर्गे घोः किः'३।३।१२॥ इति किः, 'आतो लोप इटि च'६।४।६४॥ इत्यालोपः । 'कर्तरि किः'[टीकासर्वस्वम् १।३।३१॥] इति तु सर्वानन्दः । ४ परितो विष्यते व्याप्यतेऽनेन परिवेषः । परिपूर्वः, 'विष्लृ व्याप्तौ' (जु.उ.अ.), बाहुलकात् कर्तरि घञ् । परिवेशस्तालव्यान्तोऽपि । तथा च "पुंल्लिङ्गः परिवेषः स्यात् परिधौ परिवेषणः" इति मूर्धन्यान्ते रुद्रः । ''वेष्टने परिवेशः स्याद् भानोः सविधमण्डले" इति तालव्यान्ते रभसः । ''एवं च विशतिवेवेष्ट्योर्घञ्" इति तु कौमुदी । तथा च "मण्डलं परिवेषश्च परिधिश्चोपसूर्यकम्" इति त्रिकाण्डे भागुरिः । ''परिधिर्यज्ञियतरौ(-रो:) शाखायामुपसूर्यके''[अमरकोषः३।३।९७॥] इत्यनेकार्थकाण्डः । "संमूर्च्छिता रवेरिन्दोश्च किरणाः पवनेन मण्डलीभूतास्ते तु साभ्रे व्योम्नि परिवेशः" इति वराहः । चत्वारि चन्द्रसूर्यमण्डलस्य ॥
१सूरसूतस्तु २काश्यपिः ।
३अनूरु४र्विनतासूनु५ररुणो ६गरुडाग्रजः ॥१०२॥
१ सूरस्य सूतः सारथिः सूरसूतः । यौगिकत्वाद् रविसारथिरित्यादयः । २ कश्यपस्यापत्यं काश्यपिः । 'ऋष्यन्धकवृष्णिकुरुभ्यश्च'४।१।११४॥ इति प्राप्तमणं बाधित्वा 'बाह्वादिभ्यश्च'४।१।९६॥ इति गोत्रे इञ् । ३ न विद्यते ऊरू अस्य अनूरुः । 'नञ्'२।२।६॥ इति सूत्रेण तत्पुरुषः, 'नञ्'६।३।७३॥ इति नञो लोपः, 'तस्मान्नुडचि'६।३।७४॥ इति नुडागमः । ४ विनतायाः सूनुः विनतासूनुः । यौगिकत्वाद् वैनतेय इत्यादिः । ५ अरुणवर्णत्वाद् अरुणः । ६ गरुडस्याग्रजो गरुडाग्रजः । षट् सूर्यसारथेः ।
शेषश्चात्र –
"अरुणे विपुलस्कन्धो महासारथिराश्मनः ॥" [शेषनाममाला २११॥] इति ॥१०२॥
१रेवन्तस्त्व२र्करेतोजः ३प्लवगो ४हयवाहनः ।
१ रेवति (रेवते) गच्छति हयेनेति रेवन्तः । 'रेवृ गतौ' (भ्वा.आ.से.), 'जॄविशिभ्यां झच (झच्)'(उणा-४०६), बाहुलकादतोऽपि झच्, 'झोऽन्तः'७।१।१३॥ २ अर्कस्य रेत:अर्करेतः, अर्करेतसो जातः अर्करेतोजः । 'जनी प्रादुर्भावे' (दि.आ.से.), 'पञ्चम्यामजातौ'३।२।९८॥ इति डः । ३ प्लवनं प्लवः । 'प्लुङ् गतौ' (भ्वा.आ.अ.), 'ॠदोरप्'३।३।५७॥ इत्यप्, गुणः । प्लव उत्पतनम्, तेन गच्छति प्लवगः । 'गम्लृ गतौ' (भ्वा.प.अ.), 'अन्यत्रापि दृश्यते'(वा-३।२।४८॥) इति डः । ४ हयो वाहनमस्य हयवाहनः । चत्वारि सूर्यपुत्रस्य ॥
अष्टादश माठराद्याः सवितुः पारिपार्श्विकाः ॥१०३॥
मठति वसति सूर्यसमीप इति माठरः । 'मठ मदनिवासयोः' (भ्वा.प.से.), अम्बरवद् अरन्प्रत्ययः, बाहुलकाद् दीर्घः । "मठरस्यापत्यं माठरः, 'विदादिभ्योऽञ्'४।१।१०४॥" इति तु स्वामी । परितः पार्था वर्तन्त इति पारिपार्श्विकाः। "परेर्मुखं च ४।४।२९॥ इति चकारात् ठक्, 'ठस्येकः'७।३।५०॥, 'किति च'७।२।११८॥ इति वृद्धिः । सूर्यः कारुणिकः, अतो देवानां यथेष्टं वरमाददात्विति धियाऽष्टादश चन्द्रादयो विघ्नदेवता नामा- न्तरेण स्थापतिाः, ते चामी ''माठरः, पिङ्गलः, दण्डः, राजश्रोथौ, खरद्वारिकौ, कल्माषपक्षिणौ, जातृकारः, कुतापकौ, पिङ्गगजौ, दण्डिपुरुषौ किशोरकौ" इति । यच्च व्याडि: -
"सुरावृतस्त्वसावष्टादशभिः पारिपार्श्विकैः । इन्द्रादयश्चैते देवाः सर्वे नामान्तरैः स्थिताः ॥१॥
तत्र शक्रो वामपार्श्वे दण्डाख्यो दण्डनायकः । वह्निस्तु दक्षिणे पार्श्वे पिङ्गलो वामतश्च सः ॥२॥
पूर्वद्वारे गुहहरौ राजश्रोघौ क्रमेण तौ । द्वितीये तु धर्माधर्मौ तौ खरद्वारिकौ क्रमात् ॥३॥
तृतीये तु यमतार्क्ष्यौ क्रमात् कल्माषपक्षिणौ । चित्रगुप्तश्च कालश्च रवेर्दक्षिणपार्श्वगौ ॥४॥
प्रथमो जातृकाराख्यो माढराख्यो द्वितीयकः । पश्चिमतोऽब्धिवरुणौ तौ प्राप्नुयात् कुतापकौ ॥५॥
उदीच्यां यक्षहेरम्बौ तौ च पिङ्गगजौ क्रमात् । प्राच्यां तु रुद्ररेवन्तौ तौ दण्डिपुरुषौ क्रमात् ॥६॥
आश्विनौ तु पार्श्वद्वये तौ द्वावेव किशोरकौ । इत्यष्टादशको वर्गश्चण्डांशोः पारिपार्श्विकाः॥७॥"
इति । 'पासेवाण' इति लोकभाषाप्रसिद्धाः ॥१०३॥
७कौमुदी-८कुमुदिनी-९भ-१०दक्षजा-११रोहिणी-१२द्विज-१३निशौ१४षधीपतिः ॥१०४॥
२४राजा २५निशो २६रत्नकरौ च २७चन्द्रः २८सोमो २९ऽमृत३०श्वेत३१हिमद्युति३२र्ग्लौ ॥१०५॥
१ चन्द्रं कर्पूरं सादृश्येन माति तुलयति, चन्द्रमाह्लादनं वा माति चन्द्रमाः । 'मा माने' (अ.प.अ.) अदादिः, 'मातेश्चन्द्रे मो डिच्च'(उणा-६६७) इत्यसुन्, 'अत्वसन्तस्य चाऽधातोः'६।४।१४॥ इत्युपधादीर्घः । चन्द्रमसौ, चन्द्रमसः इत्यादि । बाहुलकात् के[वलाद]प्यसुनि माः । अत एव "मा:शब्दो (मास् शब्दो)ऽपीह चन्द्रे च, सम्मतो बहुदृश्वनाम्" इत्युत्पलिनी । यद्वा 'माङ् माने' (जु.आ.अ.), कालं मिमीते परिमाति वा माः । माश्चासौ चन्द्रश्च चन्द्रमाः । "राजदन्तादिषु परम्'२।२।३१॥" इति तु स्वामी । चन्दति आह्लादयति दीप्यते वा चन्द्रमाः । 'चदि आह्लादनदीप्त्योः' (भ्वा.प.से.), 'चन्दे (चन्दो) रमस्'(हैमोणा-९८६) इति रमस् इति हैमोणादिः । २ कुमुदानां बान्धवः कुमुदबान्धवः । यौगिकत्वात् कैरवबन्धुरित्यादयः । सुहृदपि बन्धुप्रायत्वाद् बन्धुरेवेति कुमुदसुहृदित्यादयोऽपि । ३-४ दशसंख्या श्वेताश्च वाजिनो यस्य स दशश्वेतवाजी (श्वेतवाजी), इन्नन्तः, दशाश्वः । यद् व्याडि: -
"अश्वास्तु दश चन्द्रस्य यजुश्चन्द्रमसो वृषः । सप्तधातुर्हयो वाजी हंसो व्योममृगो नरः ॥१॥
अर्वा चाथ चन्द्रमस: स्थानेऽस्ति त्रिघनाः क्वचित् । सप्तधातोः पुनः स्थाने सहरुण्योऽस्ति कुत्रचित् ॥२॥" ।
श्वेतवाजी सिताश्वः । ५ अमृतं सूते अमृतसूः । 'षूङ् प्रसवे' (अ.आ.वे.), 'सत्सूद्विषद्रुहदुह-'३।२६१॥ इत्यादिना क्विप् । यौगिकत्वात् सुधासूरित्यादयोऽपि । ६ तिथीः प्रणयति तिथिप्रणीः । 'णीञ् प्रापणे' (भ्वा.उ.अ.), 'सत्सूद्विषद्रुहदुह-'३।२।६१॥ इत्यादिनैव क्विप् । ६-१४ कौमुद्याः, कुमुदिन्याः, भानाम्, दक्षजानाम्, रोहिण्याः, द्विजानाम्, निशायाः, औषधीनां च पतिः, तेन कौमुदीपतिः, कुमुदिनीपतिः, भपतिः, दक्षजापतिः, रोहिणीपतिः, द्विजपतिः । "सोमो राजा द्विजातीनाम्"[अम.क्षीर.१।२।१५॥] इति क्षीरस्वामी । निशापतिः, औषधीपतिः, तासामाप्यायकत्वात् । तथा च –
"नक्षत्रग्रहविप्राणां वीरुधां चाप्यशेषतः ।
याविति अत्त्री, अत्त्रिर्वा । 'अदेस्त्रिनिच्च'(उणा- ५०८)इति त्रिनिच् त्रिप् च । अत्त्रेमुनेर्दृशो नेत्राज्जातो अत्त्रिदृग्जः । 'जनी प्रादुर्भावे' (दि.आ.से.), 'पञ्चम्यामजातौ'३।२।९८॥ इति डः । २४ राजतेऽसौ राजा । 'राजृ दीप्तौ' (भ्वा.उ.से.), 'कनिन्युवृषितक्षिराजिधन्विद्युप्रतदिवः'(उणा-१५४) इति कनिन् । २५-२६ 'निशारत्नकरौ' इति पाठे रत्नं च करश्च रत्नकरौ, निशायाष्टाबन्तनिशाशब्दाद् रत्नकरौ निशारत्नकरौ इत्येकं पदम् । 'निशो रत्नकरौ' इति पाठे 'निशः' इति पञ्चम्यन्तं पदम्, तेन 'निशः' इति निशाशब्दाद् अग्रे रत्नकरौ शब्दौ योज्यौ । निशाया रत्नं निशारत्नम्, अजहल्लिङ्गोऽयम् । निशाकर: इत्यत्र 'डुकृञ् करणे' (त.उ.अ.), 'दिवाविभानिशा-'३।२।२१॥ इत्यादिना टः । यौगिकत्वाद् निशामणिः, रजनीकरः । २७ चन्दत्याह्लादयति चन्द्रः । 'चदि आह्लादनदीप्त्योः' (भ्वा.प.से.), 'स्फायितञ्चिवञ्चि-'(उणा-१७०) इत्यादिना रक् । पचाद्यचि रेफशून्योऽपि चन्द इति । ''हिमांशुश्चन्द्रमाश्चन्दः शशी चन्द्रो हिमद्युतिः" इति शब्दार्णवात् । २८ सुनोति तापं सूतेऽमृतमिति वा सोमः । 'षुञ् अभिषवे' (स्वा.उ.अ.), 'षू प्रेरणे' (तु.प.से.) वा, अर्ति-स्तु-सु-हु-सृ-धृ-क्षि-क्षु-भा-या-[वा]-पदि-यक्षि-नीभ्यो मन्'(उणा-१३७) इति सूत्रेण मन्प्रत्ययः । सूयते वा सोमः । 'षूङ् प्राणिप्रसवे' (दि.आ.वे.) इत्यस्य वा । सूयते जायते वा सोमः । ''नवो नवो भवति जायते" इति श्रुतेः । 'सीमन्सोमन्-' इत्यादौ सोमा नकारान्तोऽपि । २९-३१ अमृतं श्वेता हिमाश्च द्युतयो यस्य स तथा अमृतद्युतिः, श्वेतद्युतिः, हिमद्युतिः । यौगिकत्वात् सुधांशुः, सितांशुः, शीतांशुः इत्यादयः । "सुधा अमृतयुक्ता अंशवोऽस्येति सुधांशुरित्युपचारात्" इति सर्वानन्दः । ३२ ग्लायति क्षीयते ग्लौः । 'ग्लै हर्षक्षये' (भ्वा.प.अ.), 'ग्लानुदिभ्यां डौ:'(उणा २२२) इति डौः, डित्त्वाट्टिलोपः । द्वात्रिंशच्चन्द्रस्य । शेषश्चात्र -
"चन्द्रस्तु मास्तपोराजौ शुभ्रांशुः श्वेतवाहनः । जर्णः सृप्रो राजराजो यजतः कृत्तिकाभवः ॥४॥
यज्ञराडौषधीगर्भस्तपसः शयतो बुधः । स्यन्दः खसिन्धुः सिन्धूत्थ (:) श्रविष्ठारमणस्तथा ॥५॥
आकाशचमसः पीतुः क्लेदुः पर्वरिचिक्लिदौ । परिज्वा युवानो नेमिश्चन्दिरः स्नेहुरेकभूः ॥६॥"
[शेषनाममाला २।११-१४॥] ॥१०५॥
षोडशोऽशः १कला
१ षोडशानां पूरणः षोडशः । 'तस्य पूरणे डट्'५।२।४८॥ कलयति संरव्यां कला । 'कल क्षेपे' (चु.उ.से.), पचाद्यच् । अत्र च षोडशो भाग इति पूरणप्रत्ययान्तनिर्देशादेकादिभागस्य 'कला' इति नामापि सिद्ध्यति । दृश्यते च तत्रापि कलापदनिर्देश इति सादृश्यलक्षणाऽऽश्रीयते । तद्यथा स्वर्वैद्यौ द्वावप्येकाकारत्वाद् वा दस्रौ वोच्येते (नासत्यौ दस्रौ चोच्येते), तथात्राप्येकाकारत्वादेकादिभागोऽपि कलेत्युच्यत इति मन्तव्यम् । एकं कलायाः ॥
१ चिह्नं २लक्षणं ३लक्ष्म ४लाञ्छनम् ।
५अङ्कः ६कलङ्कोऽभिज्ञानम्
१ चाहयति चिह्नम् । 'चह परिकल्कने' (भ्वा.प.से.), [बाहुलकान्नक् उपधाया इत्वं च] । २ लक्ष्यतेऽनेनेति लक्षणम् । 'लक्ष दर्शनाङ्कनयोः (चु.उ.से.), करणे ल्युट् । ३ लक्ष्यतेऽनेनेति लक्ष्म । '-मन्'(उणा-५८४) इति मन् । लक्ष्मणमित्यपि, तत्र 'लक्ष्या अच्च'(गणसू-५।२।१०॥) इति पठ्यते, पामादित्वाद् नः, ईकारस्यात्वम् । "लक्षेरट् च'(उणा-२८७)इति नः, लक्षणम्, निर्मकारम्' इति तु सुभूतिः । रभसस्तु मकारमध्यं पठति -
"ज्योतिष्मत्यां च सारस्यां क्लीबं तु नामचिह्नयोः ।
स्याल्लक्षे लक्ष्मणः पुंसि सौमित्रो श्रीमति त्रिषु ॥१॥"
१चन्द्रिका २चन्द्रगोलिका ॥१०६॥
३चन्द्रातपः ४कौमुदी च ५ज्योत्स्ना
१ चन्द्रोऽस्यामस्तीति चन्द्रिका । 'अत इनिठनौ'५।२।११५॥ इति ठन् । चन्द्रं कायति प्रतिपादयति वा । 'कै शब्दे'
(भ्वा.प.अ.), 'आतोऽनुपसर्गे कः'३।२।३॥, यद्वा चन्द्रमाचष्टे चन्द्रयति, चन्द्रयतीति चन्द्रिका । ‘ण्वुल्तृचौ'३।१।१३३॥ इति ण्वुल्, 'युवोरनाकौ'७।१।१॥, "प्रत्ययस्थात्-'७।३।८८ ॥ इतीत्वम् । "चन्द्रिमा इत्यपि'' इति वाचस्पतिः, "चन्द्रिका चन्द्रिमा चार्वी" इति शब्दार्णवात् । २ चन्द्रगोलोऽस्त्यस्यां चन्द्रगोलिका, 'अत इनिठनौ'५।२।११५॥ ॥१०६॥ ३ चन्द्र स्यातपः चन्द्रातपः । ४ प्रियत्वेन कुमुदानामियं कौमुदी । 'तस्येदम्'४।३।१२०॥ इत्यण्, 'टिड्ढाणञ्- '४।१।१५॥ इत्यादिना ङीप् । ५ ज्योतिरस्यामस्तीति ज्योत्स्ना । 'ज्योत्स्नातमिस्राशृङ्गिणोर्जस्विन्नूर्जस्वलगोमिन्मलिनमलीमसाः' ५।२।११४॥ इति सूत्रेण ज्योतिष उपधालोपो नश्च प्रत्ययो निपात्यते ॥ पञ्च चन्द्रज्योत्स्नायाः ॥
१बिम्बं तु २मण्डलम् ।
१ बध्नाति रश्मिभिर्व्योमेति बिम्बम्, पुंक्लीबलिङ्गः । 'बन्ध बन्धने' (क्र्या.प.अ.), 'डीनीबन्धि-'(हैमोणा-३२५) इत्यादिना डिम्बप्रत्ययः । वेति शोभत इति वा । "वी गतिप्रजन कान्त्यसनादौ' (अ.प.अ.), 'उल्वादयश्च'(उणा-५३५) इति बन्नुमागमह्रस्वत्वानि" इति मिश्राः । ''बिम्बति भातीति बिम्बम्" [अम.क्षीर.१।२।१६॥] इति स्वामी । बिम्बेति सौत्रो धातुः, पचाद्यच् । २ मण्डं शोभां लातीति मण्डलम्, त्रिलिङ्गः । स्त्रियां गौरादित्वाद् ङीषि मण्डली । द्वे चन्द्रमण्डलस्य ॥ .
१ नक्षत्रं २तारका ३तारा४ज्योतिषी ५भ६मुडु ७ग्रहः ॥१०७॥
८धिष्ण्य९मृक्षम्
१ नक्षति गच्छति व्योम्नि नक्षत्रम्, एकतकारवान् । 'णक्ष गतौ' (भ्वा.प.से.), 'अमिनक्षिकलिभ्योऽत्र:'(उणा-३८५) इत्यत्रः । न क्षदति न हिनस्ति प्रभामिति नक्षत्रम्, द्वितकारवत् । 'क्षद गतिहिंसयो:', '-ष्ट्रन्'(उणा-५९८) इति ष्ट्रन्, 'खरि च'८।४।५५॥ इति चर्त्वम्, 'नभ्राण्नपाद्-'६।३।७५॥ इत्यादिना नञ: प्रकृतिभावः । न क्षदति प्रभामिति । 'क्षद संवरणे' सौत्रो धातुः, तस्मात् ष्ट्रन् वा । २ तरति तारका, त्रिलिङ्गः । 'तॄ प्लवनतरणयोः' (भ्वा.प.से.), 'ण्वुल्तृचौ'३।१।१३३॥, 'तारका ज्योतिषि'(वा-७।३।४५॥) इतीत्वाभावः । ''कनीनिकायां नक्षत्रे तारकं तारकापि च"[विश्वप्रकाशकोशः,कान्तवर्गः,श्लो.-७१] इति शाश्वतः (विश्वप्रकाशः), "द्वित्रैर्व्योम्नि पुराणमौक्तिकमणिच्छायैः स्थितं तारकै:" [विद्धशालभञ्जिका ४।२०॥] इति च । "अन्तिकं व्रजति तारकराजे"[किरातार्जुनीयम्, सर्गः-९, श्लो.-१८] इति च भारविरित्यपि । ३ तरन्त्यनया तारा, पुंस्त्रीलिङ्गः । 'तॄ प्लवनतरणयोः' (भ्वा.प.से.), भिदादिपाठाद् अङ्, गुणः, दीर्घत्वम्, निपातनात् । ''नक्षत्रे नेत्रमध्ये च तारा स्यात् तार इत्यपि" इति व्याडिः। ४ द्योतते ज्योतिः । 'द्युत दीप्तौ' (भ्वा.आ.से.), 'द्युतेरिसन्नादेश्च जः'(उणा-२६७) । ५ भातीति भम् । 'भा दीप्तौ' (अ.प.अ.), बाहुलकाद् डप्रत्ययः । भा विद्यतेऽत्रेति वा । 'अर्शआदिभ्योऽच्'५।२।१२७॥ इत्यच् । ६ उद् ऊर्ध्वं डयते उडुः, स्त्रीक्लीबलिङ्गः । उद्पूर्वः 'डीङ् विहायसां गतौ' (भ्वा.आ.से.) अस्माद्धातोर्बाहुलकाद् डुप्रत्ययः, उदो दकारलोपश्च । अवतीति वा उडुः । 'अव रक्षणादौ' (भ्वा.प.से.) अस्माद् वा, पृषोदरादित्वात् सिद्धम् । ईड्यते स्तूयत इति वा । 'ईड स्तुतौ' (अ.आ.से.), 'मृगय्वादयश्च'(उणा-३७) इति कुः, आदेश्चोत्वम्, पञ्चमस्वरादिरयम् । इयर्ति गच्छति खमिति वा उडुः । 'ऋ गतौ' (जु.प.अ.), 'उड् च भे'(हैमोणा-७३८) इति उः, अर्त्तेरुडादेशश्चेति हैमोणादिः । ७ गृह्यत इति ग्रहः । 'ग्रह उपादाने' (क्र्या.उ.से.), 'विभाषा ग्रहः'३।१।१४३॥ णो वा, अस्मिन् सूत्रे 'व्यवस्थया' इत्युक्तम्, तद्व्याख्यानं व्यवस्थितविभाषयेत्यर्थः, जलचरेऽभिधेये ण एव भवति, न कदाचिदजित्यर्थः । एवं ज्योतिष्यजेव भवति, न कदाचिण्ण इत्यर्थः ॥१०७॥ ८ धृष्णोति प्रगल्भते निशीति धिष्ण्यम् । 'ञिधृषा प्रागल्भ्ये' (स्वा.प.से.), 'मध्यविड्यशिक्याभ्यपर्जन्यवदान्यथोहर्म्यधिष्ण्यपस्त्यागस्त्यपुलस्त्यापत्यकुड्यकुल्याभल्यादयः' (इति क्यबन्तो निपात्यते) । ९ ऋषति गच्छति ऋक्षम् । 'ऋषी गतौ' (तु.प.से.), 'ऋषिवृषि-'(उणा-४०३) इत्यादिना कित् स: । 'षढोः कः सि'८।२४१॥ इति कत्वम्, षत्वम् । सामान्येन नव नक्षत्रस्य ॥
अथ विशेषत आह -
अथा१श्विन्य२श्वकिनी ३दस्रदेवता ।
४अश्वयु५ग्बालिनी च
१ अश्वोऽस्या अस्ति अश्विनी । 'अत इनिठनौ'५।२।११५॥ इतीनिः, 'ऋन्नेभ्यो ङीप्'४।१।५॥ अश्वरूपयोगादश्विनीति ङीप्, अश्वकर्मिणी अश्विनी अश्वादानात् । २ अज्ञातोऽश्वोऽश्वकः, 'अज्ञाते'५।३।७३॥ इति कः, सोऽस्या अश्वकिनी । ३ दस्रौ देवता अस्या दस्रदेवता । ४ अश्वं युनक्ति बध्नाति रूपेणेति अश्वयुक्, स्त्रीलिङ्गः । 'युजिर् योगे' (रु.उ.अ.), क्विबन्तः ‘ऋत्विग्दधृक्-'३।२।५९॥ इत्यादिना । ५ बाला: केशाः सन्त्यस्या बालिनी । 'अत इनिठनौ'५।२।११५॥ इतीनिः, 'ऋन्नेभ्यो ङीप्'८।१।५॥ पञ्च अश्विन्याः ॥
अथ १भरणी २यमदेवता ॥१०८॥
१ बिभर्ति भरणी । 'डुभृञ् धारणपोषणयो:' (जु. उ.अ.), बाहुलकाद् 'अशवदृभ्योऽनि:' इत्यनिः, ततः 'कृदिकारादक्तिनः'(गणसू-४।१।४५ ॥) वा ङीष् । २ यमो देवताऽस्या यमदेवता । द्वे भरण्याः ॥१०८॥
१कृत्तिका २बहुलाश्चाग्निदेवाः
१ कृन्तन्ति शुभमिति कृत्तिकाः । 'कृती छेदने' (तु.प.से.), 'कृति-भिदि-लतिभ्यः'(उणा-४२७) तिकन् । २ वहन्ति आकाशे बहुलाः । 'वह प्रापणे' (भ्वा.उ.अ.), बाहुलकाद् उलप्रत्ययः । एतौ द्वौ स्त्रीलिङ्गौ, नित्यबहुवचनान्तौ । यद् गौड: "कृत्तिकासु स्त्रियां भूम्नि, बहुलाः'' इति । ३ अग्निर्देवता आसां अग्निदेवाः । त्रीणि कृत्तिकाणाम् ॥
१ब्राह्मी तु २रोहिणी ।
१ ब्रह्मा देवताऽस्या ब्राह्मी । 'सास्य देवता'४।२।२४॥ इत्यण्, 'नस्तद्धिते'६।४।१४४॥, 'टिड्ढाणञ्-'४।१।१५॥ इत्यादिना ङीप् । २ रोहन्ति कार्याण्यस्यां रोहिणी । 'रुह प्ररोहे', बाहुलकात् 'श्यास्त्याहृञ्विभ्य इनन् (इनच्)'(उणा-२०४) इतीनन् (इतीनच्), गौरादित्वाद् ङीष् । द्वे रोहिण्याः ॥
१मृगशीर्षं २मृगशिरो ३मार्ग४श्चान्द्रमसं ५मृगः ॥१०९॥
१ मृगस्येव शीर्षमस्य मृगशीर्षम् । २ मृगस्येव शिरोऽस्य मृगशिरः, आकाशे ताराणां तथाकारस्थत्वात्, पुंक्लीबलिङ्गोऽयम् । यद् वाचस्पति: "सौम्यं मृगशिरोऽस्त्रियाम्'' इति । वोपालिते तु स्त्रीलिङ्गत्वम् । सौम्या मृगशिरा अपि । ३ मृग एव मार्गः । 'प्रज्ञादिभ्यश्च'५।४।३८॥ इत्यण् । प्रतीपलक्षणया मृगोऽपि "मृगशीर्षे हस्तिजातौ मृगः पशुकुरङ्गयो:" इति व्याडिः। ४ चन्द्रमा देवताऽस्येति चान्द्रमसम् । 'सास्य देवता'४।२।२४॥ इत्यण् । [५ मृगाकारत्वाद् मृगः] । पञ्च मृगशिरसः ॥१०९॥
१इल्वलास्तु मृगशिरःशिरःस्था पञ्चतारकाः ।
१ मृगशिरः शिरस्थाः पञ्चतारका: 'इल्वलाः' इत्युच्यन्ते । इलन्ति स्वपन्ति गगने इल्वला:, स्त्रीलिङ्गः । 'इल स्वप्ने '(तु.प.से.), 'सानसिवर्णसिपर्णसिततण्डु लाङ्कुशचर्ष(षा)लेल्वपल्वलधिष्ण्यशम्या: (-ल्याः)'(उणा-५४७) इति वलच्प्रत्ययो गुणाभावश्च निपात्यते । "इल्वन्ति प्रीणयन्ति [इन्वका:] मरुतो देवता इति, इल्वला नक्षत्रमिति श्रुतेः"[अम. क्षीर. १।२।२४॥] इति तु स्वामी । इन्वन्ति प्रीणयन्ति इन्वका इत्यपि । ''इवि व्याप्तौ' (भ्वा.प.से.), संज्ञायां क्वुन्, क्षिपकादित्वात् 'प्रत्ययस्थात्-'७।३।४४॥ इतीत्वाभावः"[मा. धातुवृत्तिः, भ्वादिः, धातुसं-३७८] इति माधवः । एकं मृशिर:शिरः स्थपञ्चतारकाणाम् ॥
१आर्द्रा तु २कालिनी ३रौद्री
१ अर्दति हिनस्ति कार्यमिति आर्द्रा । 'अर्द हिंसायाम्' (चु.उ.से.), बाहुलकात् 'शुसिचिमिभ्यो दीर्घश्च'(उणा-१८३) इति क्रन्दीर्घौ । २ कालोऽस्यामस्ति कालिनी । 'अत इनिठनौ' ५।२।११५॥ इतीनि:, 'ऋन्नेभ्यः-'४।१।५॥ इति ङीष् (ङीप्) । ३ रुद्रो देवताऽस्या रौद्री । 'सास्य देवता'४।२।२४॥ इत्यण्, 'टिड्ढा- णञ्-'४।१।१५ ॥ इत्यादिना ङीप् । त्रीणि आर्द्रायाः ॥
१पुनर्वसू तु २यामकौ ॥११०॥
३आदित्यौ च
१ पुनर्वसू अनयोः पुनर्वसू, पुंल्लिङ्गः । २ यमके यमले भवौ यामकौ ॥११०॥ 'तत्र भवः'४। ३।५३॥ इत्यण्, युग्मरूपावित्यर्थः । ३ अदितिर्देवता अनयो आदित्यौ । 'दित्यदित्या- '४।१।८५॥ इत्यादिना ण्यः, 'यस्येति च'६।४।१४८॥ एते द्विवचनान्ताः । त्रीणि पुनर्वस्वोः ।।
१पुष्य२स्तिष्यः ३सिध्यश्च ४गुरुदैवतः ।
१ पुष्यन्ति सिध्यन्ति अर्था अस्मिन्निति, पुष्णाति साधयति कार्याणि वा पष्यः । 'पुष पुष्टौ' (दि.प.अ.) अथवा
(क्र्या.प.से.), क्र्यादिर्दिवादिर्वा, 'पुष्यसिध्यौ चे नक्षत्रे'३।१।११६॥ इति क्यपि निपातितः । २ पुष्यन्ति अत्र कार्यकर्तार इति तिष्यः । 'तुष तुष्टौ' (दि.प.अ.), 'अघ्न्यादयश्च'(उणा-५५१) इति यत्, उपधेत्वं च निपात्यते । 'पुष्यसिध्यौ च नक्षत्रे'३।१।११६॥ अस्य सूत्रस्य सविधे यत्, स एव तिष्योपीत्युक्तम्, तत् तिष्यशब्दोऽनयोः पर्यायान्तरमप्यस्तीत्येतावदनेन प्रतिपाद्यते, न त्वस्यापि क्यपि निपातनमिति, 'त्विष दीप्तौ' (भ्वा.उ.अ.) इत्यतः 'अघ्न्यादयश्च'(उणा-५५१) इत्यौणादिकयक्प्रत्ययान्तस्य निपातनात् । तथा च "पुष्यस्तिष्ये कलियुगे"[अमरकोषः ३।३।१४७॥] इत्यमरकोषव्याख्याने क्षीरस्वामी "त्वि(त्वो)षति त्विष्यः, 'त्विष दीप्तौ' (भ्वा.उ.अ.), अघ्न्यादिः"[अम. क्षीर. ३।३।१४७॥] इति । यद्वा 'सूर्यतिष्य-'६।४।१४९॥ इति निपातनात् तिष्योऽपि पुष्यसमानार्थः साधुर्ज्ञेयः इति व्याख्येयमिति कृष्णः । [३ सिध्यन्ति अस्मिन् [सिध्यः] । 'पुष्यसिध्यौ नक्षत्रे'३।१।११६॥ इति क्यपि निपातितः]। ४ गुरुर्दैवतमस्य गुरुदैवतः । 'सास्य देवता'४।२।२४॥ इत्यण् । चत्वारि पुष्यस्य ॥
१सार्प्य२ऽश्लेषा
१ सर्पो देवताऽस्याः सापी । 'सास्य देवता'४।२।२४॥ इत्यण्, 'टिड्ढाणञ्-'४।१।१५॥ इत्यादिना ङीप् । २ न विद्यते श्लेषोऽस्यां जातापत्यस्येति अश्लेषा, पुंस्त्रीलिङ्गः । द्वे अश्लेषायाः॥
३मघाः ४पित्र्याः
१ मङ्घन्ते गच्छन्ति पितरः प्रीतिमास्विति मघाः । 'मघि गतौ' (भ्वा.आ.से.) । 'मघाः' इत्ययं नित्यस्त्रीलिङ्गो बहुवचनान्तश्च । २ पितरः देवता आसां पित्र्याः । 'वाय्वृतुपित्रुषसो यत्'४।२।३१॥ द्वे मघानाम् ॥
१फल्गुनी २योनिदेवता ॥१११॥
१ फलतीति फल्गुनी । 'फल निष्पत्तौ' (भ्वा.प.से.), 'फलेर्गुक् च'(उणा-३३६) इति उनन्, गौरादित्वाद् ङीष् । उत्तरत्र 'उत्तरा' इति विशेषणादत्र 'पूर्वा' इति लभ्यते । तेन पूर्वफल्गुनी । शाब्दिकास्तु 'पूर्वफल्गुन्यौ' इति द्विवचनान्तं मन्यन्ते । एकवचनान्तोऽपि दृश्यते, यद्वाचस्पतिः 'पूर्वफल्गुनी योनिदेवता' । २ योनिर्देवताऽस्या योनिदेवता । द्वे पूर्वफल्गुन्याः ॥१११॥
सा१तूत्तरा२र्यमदेवा
१ सा इति फल्गुनी, उत्तरेति विशेषणविशिष्टा उत्तर फाल्गुनी इत्युच्यते । २ अर्यमा देवोऽस्या अर्यमदेवा । द्वे उत्तर फल्गुन्याः ॥
१हस्तः २सवितृदेवतः ।
१ हसतीति हस्तः, पुंस्त्रीलिङ्गः । 'हस(हसे) हसने' (भ्वा.प.से.), हसिमृग्रिण्वाऽमिदमितमिमिलूपू-धुर्विभ्यस्तन्'(उणा-३६६) । २ सविता देवताऽस्य सवितृदेवतः, चतुर्थवर्गतृतीयैकादशस्वरमध्यः । द्वे हस्तस्य ॥
१त्वाष्ट्री २चित्रा
१ त्वष्टा देवताऽस्याः त्वाष्ट्री । 'सास्य देवता'४।२।२४॥ इत्यण्, 'इको यणचि'६।१।७७ ॥, 'टिड्ढाणञ्-'४।१।१५॥ इत्यादिना ङीप् । २ चिनोति कार्यं चित्रा । 'चिञ् चयने' (स्वा.उ.अ.); अमिचिमि-दिशसिभ्यः क्त्रः'(उणा-६०३) इति क्त्रः । द्वे चित्रायाः ॥
१आनिली २स्वातिः
१ विशाखति व्याप्नोति विशाखा । विपूर्वः 'शाखृ व्याप्तौ' (भ्वा.प.से.), पचाद्यच् । विशेषेण श्यति तनूकरोत्यशुभमिति वा । 'शो तनूकरणे' (दि.प.अ.), 'श्यतेरा(रि)च्च वा'(हैमोणा-८५) इति खः । मिश्रास्तु विशाखा द्वे, अत एव द्वित्वमुचितं विशाखे इति, तथा च रामायणम् –
"पत्न्योर्मध्यगतस्तत्र सुग्रीवः प्लवगेश्वरः।।
विशाखयोर्मध्यगतः संपूर्ण इव चन्द्रमाः ॥१॥" इति ।
"अत एकत्वं प्रमादात्'' इति कौमुदी । ''नक्षत्राऽभेद विवक्षायां त्वेकवचनम्" इति सुभूतिः । "एकतारापेक्षया एकवचनम्' इति श्रीभोजः । "छान्दसा अपि भाषायां प्रयुज्यन्त इति "विशाखायाश्चैकत्वाद्" इति सर्वानन्दः।
"मारुतोऽथ विशाखया'' इति वाचस्पतिः । २ इन्द्राग्नी देवते अस्याः इन्द्राग्निदेवता ॥११२॥ ३ राध्नोति कार्यमनया राधा । 'राध साध संसिद्धौ'(स्वा.प.अ.), 'गुरोश्च हलः'३।३।१०३॥ इत्यकार: । त्रीणि विशाखायाः ॥
१अनुराधा तु २मैत्री
१ अनुराध्नोति अनुराधा । 'राध साध संसिद्धौ' (स्वा.प.अ.), पचाद्यच् । एकदेशविकृतत्वादनूरा-धेत्यपि । २ मित्रो देवताऽस्याः मैत्री । 'सास्य देवता'४।२।२४॥ इत्यण्, 'टिड्ढाणञ्-'४।१।१५ ॥ इत्यादिना ङीप् । द्वे अनुराधायाः ॥
१ज्येष्ठे२न्द्री
१ अतिशयेन वृद्धा ज्येष्ठा । 'वृद्धस्य च'५।३।६२॥ इति ज्यादेशः, ततष्टाप् । २ इन्द्रो देवताऽस्या ऐन्द्री । 'सास्य देवता'४।२।२४॥ इत्यण्, 'टिड्ढाणञ्- '४।१।१५॥ इत्यादिना ङीप् । द्वे ज्येष्ठायाः ॥
१मूल २आस्रपः।
१ मूलति मूलः, पुंक्लीबलिङ्गः । 'मूल प्रतिष्ठायाम्' (भ्वा.प.से.), पचाद्यच् । २ अस्रं शोणितं पिबति अस्रपो राक्षसः, अस्रपो देवताऽस्य आस्रपः, दन्त्यसमध्यः । द्वे मूलस्य ।
१पूर्वाषाढा२ऽऽपी
१ न सहते अषाढा । ''नक्षत्रेऽषाढा इत्यव्युत्पन्नम्, मूर्धन्यमध्यवद् ह्रस्वादि'' इति 'स्र(श्र)विष्ठा' ४।३।३४॥ आदिसूत्रे रक्षितः । ''यद्रोहिणीयोगफलं तदेव सुतावषाढासहिते च चन्द्रे'' इति वराहः । २ आपो देवताऽस्या आपी । 'सास्य देवता'४।२।२४॥ इत्यण् 'टिड्ढाणञ्-४।१।१५॥' इत्यादिना ङीप् । द्वे पूर्वाषाढायाः ॥
१सोत्तरा स्याद् २वैश्वी
१ सा अषाढा सोत्तरा स्यात्, उत्तरया सह वर्तमाना सोत्तरा, उत्तराषाढा इत्यर्थः । २ विश्वो देवता अस्या वैश्वी । 'सास्य देवता'४।२।२४॥ इत्यण्, 'टिड्ढाणञ्- '४।१।१५॥ इत्यादिना ङीप् । द्वे उत्तराषाढायाः ॥
१श्रवणः पुनः ॥११३॥
२हरिदेवः
१ श्रूयतेऽसौ श्रवणः, पुंस्त्रीलिङ्गः । 'ल्युट च'३।३।११५॥ इति ल्युट् ॥११३॥ २ हरिर्विष्णुर्देवो ऽस्य हरिदेवः । द्वे श्रवणस्य ॥
श्रविष्ठा तु धनिष्ठा वसुदेवता ।
१ (श्रवणं श्रवः प्रसिद्धिः । 'श्रु श्रवणे' (भ्वा.प.अ.), 'ॠदोरप्'३।३।५७॥, श्रवोऽस्त्यस्याः मतुप्, अतिशयेन श्रववती श्रविष्ठा) । इष्ठन्, 'विन्मतोर्लुक्'५।३।६५॥ इति लुक् । २ एवं 'धन धान्ये' (जु.प.से.), पचाद्यजन्ताद् मतुबादिना अतिशयेन धनवती धनिष्ठा । एतौ द्वावपि टवर्गद्वितीयोपधौ । ३ वसवो देवताऽस्या वसुदेवता । त्रीणि धनिष्ठायाः ॥
१वारुणी तु २शतभिषक्
१ वरुणो देवताऽस्या वारुणी । 'सास्य देवता' ४।२।२४॥ इत्यण् । २ शतं भिषजोऽस्यां शतभिषक्, स्त्रीलिङ्गः । शतभिषजौ, शतभिषजः इत्यादि । द्वे शतभिषजः॥
१अजा२हिर्बुजदेवता ॥११४॥
१पूर्वो२त्तरा भद्रपदा द्वय्यः ३प्रोष्ठपदाश्च ताः ।
१ अजोऽजपादः, भीमो भीमसेन इतिवत्, पदैकदेशे पदसमुदायोपचाराद्वा । तथा च अजोऽहिर्बुध्नश्च देवते आसामिति अजाहिर्बुध्नदेवताः, अजाहिर्बुध्नाभ्यामग्रे देवतेति योज्यते ॥११४॥ पूर्वाश्च उत्तराश्च पूवोत्तराः, पूर्वोत्तरविशिष्टाः, कोऽर्थः?, पूर्वोत्तराभ्यामग्रे भद्रपदा इति योज्यते, ततोऽयमर्थ:-अजदेवताः, पूर्वभद्रपदाः च एकार्थौ, अहिर्बुध्नदेवताः, उत्तर भद्रपदाः च एकार्थौ । वैयाकरणा: पूर्वे भद्रपदे उत्तरे भद्रपदे इति द्वित्वमेव प्राहुः । तथा च "पूर्वभद्रपदे उत्तरभद्रपदे च द्वे" इति 'फल्गुनी प्रोष्ठपदानां च' १।२।६०॥ इति सूत्रे उक्तम् । ''भद्रपदा' इति शब्दो ह्रस्वादिः" इति वर्णविवेकः । ''ग्रहपतिरिव भद्रपदानुगत इति श्लेषः, ततो दीर्घादिपाठः प्रामादिकः" इति कौमुदी । "भाद्रपदासु भयं सलिलोत्थम्'' इति ज्योतिर्ग्रन्थे
कुलेखकदोषात् । ताः पूर्वभद्रपदा उत्तरभद्रपदाश्च द्वय्यः, द्वौ अवयवौ आसामिति द्वय्यः प्रोष्ठपदा उच्यन्ते । प्रवृद्धः ओष्ठो यस्य स प्रोष्ठः, तस्येव पादावासां प्रोष्ठपदाः । प्रोष्ठौ सारौ वा पादावासामिति प्रोष्ठपदाः । 'सुप्रातसुश्वसुदिवसा(शा)रिकुक्षचतुरश्रे(श्रै)णीपदाजपदप्रोष्ठपदाः'५।४।१२०॥ इति सूत्रेण प्रोष्ठपदाः भद्रपदाश्च निपातिताः । पूर्वे प्रोष्ठपदे द्वे, उत्तरभद्रपदे द्वे समुदायश्चासां चतु:संख्य इति बहुवचनम् । केचित्तु ''भद्रपदेन युक्तः काल इति प्रयोगात् पुंल्लिङ्गो भद्रपद:" इत्याहुः । यत्तु कदा पूर्वे प्रोष्ठपदे कदा पूर्वे भद्रपदे इति तत्तारकयोर्द्वित्वादुपपद्यते, 'फल्गुनीप्रोष्ठपदानां च'१।२।६०॥ इति सूत्रेण द्वित्वस्य वा
बहुत्वविधानात् । ''भद्रपदौ भद्रपदः भद्रपदा च" इति स्वामी । "भद्रपदशब्देन तारकाविशेषाणां समुदाय उच्यते । तिरोहिता- वयवभेदपक्षे एकवचनम्, प्रोष्ठ पदाशब्दस्तद्रिक्तावयवभेदभेदसमुदायमाचष्टे, एतत्पक्षे बहुवचनम्" इति मैत्रेयः ॥
१रेवती तु २पौष्णम्
१ रेवते गच्छति रेवती । 'रेवृ गतौ' (भ्वा.आ.से.), बाहुलकाद् 'भृदृशीङ्यर्जि-'(उणा-३९०) इत्यादिनाऽतच् । २ पूषा देवताऽस्येति पौष्णम् । पूषन्शब्दात् 'सास्य देवता'४।२।२४।। इत्यण्, 'अल्लोपोऽनः'६।४।१३४॥ इत्युपधालोपः । अयं ज्योतिषि क्लीबे रूढः । द्वे रेवत्याः ॥
१दाक्षायण्यः सर्वाः शशिप्रियाः ॥११५॥
दक्षस्यापत्यं दाक्षिः । 'अत इञ्'४।१९५॥ । 'आसुरेरुपसंख्यानम्'(वा-४।१।१९॥) इत्यत्र केचिद्-"आसुरिदाक्ष्योः" इति, "दाक्षायणी" इति पारायणम्, उपाध्यायसर्वस्वेऽपि तदेवोद्धृतम्, कलिङ्गादयस्तु तद-दर्शनात् 'नडादिभ्यः फक्'४।१।९९॥ इत्याकुलितवन्तः, गोत्रत्वाभावान्नडादावनाकृतिगणेऽस्याऽपाठात् । सर्वानन्दस्तु-"दक्षस्य प्रजापतेरपत्यानि दाक्षायण्यः, गोत्रत्वमुपचर्य 'गोत्रे कुञ्जादिभ्यश्च्फञ्'४।१।९८॥ इति 'जातेरस्त्रीविषयादयोपधात्४।१।६३॥ ङीष्"[टीकासर्वस्वम् १।३।२०॥] इत्याह । ''दक्षस्यापत्यं दाक्षायणी, 'अत इञ्' ४।१।९५॥ अनन्तरापत्येऽपि द्वैपायनवद् 'यञिञोश्च'४।१।१०१॥ इति फक्"[अम.क्षीर.१।२।२२॥] इति स्वामी । "स्त्रियामासुरिदाक्षिभ्यां श्च्फञ् इत्युपसंख्यायते दाक्षायणीश्रीरिव निर्बभासे नन्दी" इति स्वामी। "दक्षमयते गच्छति। 'अय गतौ' (भ्वा.आ.से.), नन्द्यादित्वाद् ल्युः, प्रज्ञाद्यणि दाक्षायणी" इत्यन्यः। तथा च "दक्षोऽय्यते गम्यते पितृतया आभिरिति ल्युटि, प्रज्ञाद्यणि, ङ्याम्, 'पूर्वपदस्था-७।३।४४॥ इति णत्वं च" इति केचित् । सर्वा अश्विन्यादयः सप्तविंशतिरपि दाक्षायण्यः शशिप्रियाश्चन्द्रदाराश्चोच्यन्त इत्यर्थः । "दाक्षायण्यः कीर्तिताश्चन्द्रदाराः"[हलायुधः १५१॥] इति हलायुधः । द्वे सामान्येन सप्तविंशतिनक्षत्राणाम् ॥११५॥
राशीनामुदयो लग्नम्
१ (अश्नुवते अहोरात्रमिति राशयः, पुंसि, तेषाम् । 'अशूङ् व्याप्तौ', 'अणिपणाय्यो रुडायलुकौ च' (उणा-५७२) इत्युणादिसूत्रेण इण्प्रत्ययः, अशेरुडागमः, वृद्धिः) । लगति निजे साध्ये लग्नम्, पुंक्लीबलिङ्गः । 'लगे सङ्गे' (भ्वा.प.से.), बाहुलकाद् नः । लज्जत इति वा । 'ओलस्जी व्रीडने' (तु.आ.से.), 'निष्ठा'३।२।१०२॥ इति क्तः, 'श्वीदितो निष्ठायाम्' ७।२।१४॥ इतीण्निषेधः, 'ओदितश्च'८।२।४५॥ इति निष्ठानत्वम्, नत्वस्यासिद्धत्वात् 'चोः कुः'८।२।३०॥ इति कुत्वम् । राशीनां मेषादीनां द्वादशानामुदयः प्राप्तकालता, तस्यैकं लग्नमिति नाम ॥
मेषप्रभृतयस्तु ते ।
ते इति राशय: मेष: प्रभृतिराद्यो येषां ते मेषप्रभृतयः । यथा 'मेषो वृषो मिथुनः कर्कटः सिंह: कन्या तुला वृश्चिको धनुर्मकरः कुम्भो मीन' इति । एकं सामान्येन मेषादीनां राशय इति ॥
१आरो २वक्रो ३लोहिताङ्गो ४मङ्गलो५ऽङ्गारकः ६कुजः ॥११६॥
७आषाढाभू ८र्नवार्चिश्च
१ आ समन्तादियर्ति क्रूरत्वं नक्षत्रेष्विति आरः । आङ्पूर्वः 'ऋ गतौ' (जु.प.अ.), पचाद्यच्, 'सार्वधातुकार्धधातुकयो:७।३।८४॥ इति गुणः । २ वञ्चति कुटिलं गच्छति वक्रः । 'वञ्चु गतौ' (भ्वा.प.से.), 'स्फायितञ्चिवञ्चि-'(उणा-१७०) इत्यादिना रक्, 'अनिदिताम्-'६।४।२४॥ इति न्लोपः । ३ लोहित वर्णानि अङ्गान्यस्य लोहिताङ्गः । ४ मङ्गति गच्छति मङ्गलः । 'मगि गतौ' (भ्वा.प.से.), 'मङ्गेरलच्' (उणा-७४८) । ५ अङ्गति कुटिलं क्रामति अङ्गारः । 'अगि गतौ' (भ्वा.प.से.), 'अगिमदिमन्दिभ्यः आरन्' (उणा-४१४), ततः स्वार्थे कनि अङ्गारकः । "अङ्गानियर्ति पीनत्वादिति तु, 'ऋ गतौ (जु.प.अ.), 'ण्वुल्तृचौ' ३।१।१३३॥ इति ण्वुल्" इति तु स्वामी । ६ कोः पृथिव्याः जातः कुजः । 'जनी प्रादुर्भावे' (दि.आ.से.), 'पञ्चम्यामजातौ'३।२।९८॥ इति डः । यौगिकत्वाद् भौमः, अत्र 'शिवादिभ्योऽण्'४।१।११२॥, माहेयः, धरणीसुत इत्यादयः ॥११६॥ ७ आषाढा उत्तराषाढाः, तासु भवति आषाढाभूः । 'भू सत्तायाम्' (भ्वा.प.से.), क्विप् । ८ नव अर्चिषोऽस्य नवार्चिः । नवार्चिषौ, नवार्चिषः इत्यादि । अष्टौ मङ्गलस्य । शेषश्चात्र –
"भौमे व्योमोल्मुकैकाङ्गौ ॥" [शेषनाममाला २।१४॥] ॥
१बुधः २सौम्यः ३प्रहर्षुलः।
४ज्ञः ५पञ्चार्चिः ६श्रविष्ठाभूः ७श्यामाङ्गो ८रोहिणीसुतः ।।११७ ।।
१ बुध्यते बुधः । 'बुध अवगमने' (दि.आ.अ.), 'इगुपधज्ञाप्रीकिरः कः'३।१।१३६॥ २ सोमश्चन्द्रः पितृत्वाद्
देवताऽस्य सौम्यः । 'सोमाट्ट्यण'८।२।३०॥ । "गर्गादित्वाद् अपत्ये यञ्" इति श्रीधरः, परं तदमूलम्, गर्गादौ अस्य पाठाभावात् । यौगिकत्वात् चन्द्रात्मजः, चान्द्रमसायनिरित्यादयः । ३ प्रहृष्यति प्रहर्षुलः । 'हृष तुष्टौ' (दि.प.से.), 'हृषेरुलच्'(उणा ९६) इत्युलच् । ४ जानातीति ज्ञः । 'ज्ञा अवबोधने' (क्र्या.प.अ.), 'इगुपधज्ञाप्रीकिरः कः'३।१।१३६॥, 'आतोलोप इटि च'६।४।६४॥ इत्यालोपः । ५ पञ्च अर्चिषोऽस्य पञ्चार्चिः । पञ्चार्चिषौ इत्यादि । ६ श्रविष्ठासु भवति श्रविष्ठाभूः । 'भू सत्तायाम्' (भ्वा.प.से.), क्विप् । ७ श्याममङ्गमस्य श्यामाङ्गः । ८ रोहिण्याः सुतो रोहिणीसुतः । यौगिकत्वाद् रौहिणेयः । अष्टौ बुधस्य ॥११७॥
१बृहस्पति: २सुराचार्यो ३जीव४श्चित्रशिखण्डिजः ।
५वाचस्पति६र्द्वादशार्चि७र्धिषणः ८फल्गुनीभवः ॥११८॥
९गी१०र्बृहत्योः पति११ रुतथ्यानुजा१२ङ्गिरसौ १३गुरुः ।
१ बृहतां देवानां गुरुत्वात् पतिः बृहस्पतिः । 'तद्बृहतोः करपत्योश्चौरदेवतयोः सुट् तलोपश्च'(वा-६।१।१५७॥) इति साधुः । बृहताम्पतिरित्यपि षष्ठ्यलुकि । २ सुराणां देवानामाचार्यः सुराचार्यः । ३ असुरैर्हतानपि मन्त्रादिना जीवयति जीवः । 'जीव प्राणधारणे' (भ्वा.प.से.), अस्माद्धेतुमण्णिजन्तात् पचाद्यच्। तथा च रामायणे –
"अनात्तान्नष्टसंज्ञांश्च आहातासून् बृहस्पतिः ।
दिव्याभिर्मन्त्रयुक्ताभिरौषधीभिरजीवयत् ॥१॥" इति । ४ "ऋषयः सप्त धीमद्भिः स्मृताश्चित्र-शिखण्डिनः" इति हारावली । एषोऽङ्गिरा अपि चित्रशिखण्डी, ततो जातः चित्रशिखण्डिजः । 'जनी प्रादुर्भावे' (दि.आ.से.), 'पञ्चम्यामजातौ'३।२।९८॥ इति डः। सप्तर्षिजोऽपि, 'समुदाये हि प्रवृत्ताः शब्दा अवयवेऽपि वर्तन्ते' इति न्यायात् । ५ वाचो वाण्याः पतिः वाचस्पतिः । 'पारस्करप्रभृतीनि [च] संज्ञायाम्'६।१।१५७॥ इति साधुः । ६ द्वादश अर्चिषोऽस्य द्वादशार्चिः । ७ धृष्णोति प्रगल्भते धिषणः । 'ञिधृषा प्रागल्भ्ये' (स्वा.प.से.), 'धृषेर्धिष् च संज्ञायाम्'(उणा-२४०) इति क्युः । प्रशस्तधिषणायोगाद् वा धिषणः । अर्शआदित्वादच्, 'यस्येति च'६।४।१४८॥ इत्याकार लोपः । ८ फल्गुन्याम् उत्तरफल्गुन्यां भवति, फल्गुनीभवः । 'भू सत्तायाम्' (भ्वा.प.से.), पचाद्यच् ॥११८॥ ९-१० गीर्बृहत्योः पतिरिति । गीश्च बृहतीचेति गीर्बृहत्यौ, तयोर्गीर्बृहत्योः पतिः, तेन गिरां पतिः गीर्पतिः । 'अहरादीनां पत्यादिषूभयथोपसंख्यानम्' (वा-८।२।७०॥ इति रेफस्य रेफादेशः । रेफाभावपक्षे विसर्जनीयोपध्मानीयौ गी:पतिः गी पतिरिति। गीष्पतिरसाधुरिति केचित् । "कस्कादित्वात् साधुः" इति चान्द्रः । "भ्रातुष्पुत्रादित्वात् षत्वमिष्यते" इति न्यासवचनाद् 'अहरादीनां पत्यादिषु-'(वा-८।२।७०॥) इति रेफः, पक्षे कस्कादिदर्शनात् षत्वम्' [अम. क्षीर.१।२।२५॥] इत्यमरकोषक्षीरस्वामिकृतटीकावचनात् षत्वसद्भावे गीष्पतिरित्यपि । बृहत्या वाण्याः पतिः बृहतीपतिः । बृहतीशब्दो वाणीपर्याय: -
"बृहती क्षुद्रवार्ताक्यां छन्दोवस(-सा)नभेदयोः ।
महत्यां वाचि वार्द्धान्याम्" [अनेकार्थसङ्ग्रहः ३।१२९५]
इत्यनेकार्थः । ११ उतथ्यः, चतुर्थवर्गद्वितीयान्तस्थाद्यान्तः, ऋषिविशेषस्य नाम, तस्यानुजः उतथ्यानुजः, अखण्डपञ्चाक्षरम् । १२ ('अगि गतौ' (भ्वा.प.से.), 'अङ्गिरस:' इत्यसुन्प्रत्ययो निपातितः) । अङ्गिरसोऽपत्यम् आङ्गिरसः । 'ऋष्यन्धकवृष्णि-'४।१।११४॥ इत्यादिनाऽण् । बहुत्वेऽणो (लुकि अङ्गिरसोऽपि), अभेदोपचाराद् अङ्गिरा, अङ्गिरसावित्यादि । ''यथापृथाभृगुश्चाङ्गिराश्च भार्गवे, अङ्गिरसो साधुत्वम्" इति क्षान्तिदेवः । १३ गृणाति हिताऽहितमुपदिशति गुरुः । 'गॄ शब्दे '(क्र्या.प.से.), 'कृग्रोरुच्च'(उणा-२४) इति कुः, 'उरण् रपरः'१।१।५१॥ इति रपरत्वम् । त्रयोदश बृहस्पतेः । शेषश्चात्र –
"गी:पतिस्तु महामतिः ।
प्रख्याः प्रचक्षा वाक् वाग्मी गौरो दीदिविगीरथौ ॥" [शेषनाममाला २।१४-१५॥] ॥
१शुक्रो २मघाभवः ३काव्य ४उशना ५भार्गवः ६कविः॥११९॥
७षोडशार्चि८र्दैत्यगुरु९र्धिष्ण्यः
१ शोचति सदा दैत्यनाशेनेति शुक्रः । 'शुच शोके' (भ्वा.प.से.), 'ऋज्रेन्द्रा-'(उणा-१८६) इत्यादिना रक्, कित्त्वाद् गुणाभावः ।"रुद्रस्य शुक्रद्वारेण निर्गतत्वात् शुक्रः"[अम.क्षीर.१।२।२६॥] इति तु स्वामी । यद् वामनपुराणम् –
"इत्येवमुक्त्वा भगवान् मुमोच, शिश्नेन शुक्रं स च निर्जगाम" इति । २ मघासु भवति मघाभवः । पचाद्यच् । ३ कविरेव काव्यः । 'चतुर्वर्णादीनां स्वार्थे ष्यञ् वाच्यः' इति ष्यञ् । "कवेरपत्यं काव्यः, 'कुर्वादिभ्यो ण्यः'४।१।१५१॥ इति ण्यः
"[अम.क्षीर.१।२।२६॥] इति स्वामी । ४ वष्टीति उशना । 'वश कान्तौ' (अ.प.से.), 'वशेः कनसि:'(उणा-६७८) इति कनसिः । ग्रह्यादित्वात् संप्रसारणम्,'ऋदुशनस्पुरुदंसोऽ-नेहसां च'७।१।७४॥ इत्यनङ् । सम्बोधने तूशनसस्त्रिरूपम्, सान्तं तथा नान्तमथाप्यदन्तमिति विशेषः । ५ 'भ्रस्ज पाके' (तु.उ.अ.), 'प्रथिम्रदिभ्रस्जां सम्प्रसारणं सलोपश्च'(उणा-२८) इति उप्रत्ययः, सम्प्रसारणसलोपौ च, 'न्यङ्क्वादीनां च'७।३।५३॥ इति कुत्वम्, भृगुः । भृगोरपत्यं भार्गवः । 'ऋष्यन्धकवृष्णि-'४।१।११४॥ इत्यादि नाऽण्, 'ओर्गुणः'६।४।१४६॥, 'एचोऽयवायावः'६।१।७८॥, बहुत्वेऽणो लुकि भृगवः । ६ कौति इति कविः । 'कु शब्दे' (अ.प.अ.), 'अच इ:'(उणा-५७८) इति इः । "कविस्त्वभेदात्''[अम.क्षीर.१।२।२६॥] इति स्वामी । ''कविजातत्वाद्वा''[अभि.स्वो.टी.२।११९॥] इत्याचार्याः ॥११९॥ ७ षोडश अर्चिषोऽस्य षोडशार्चिः । ८ दैत्यानां गुरुः दैत्यगुरुः । यौगिकत्वादसुराचार्य इत्यादयः । ९ धृष्णोति प्रगल्भते धिष्ण्यः । 'ञिधृषा प्रागल्भ्ये' (स्वा.प.से.), मध्यविड्यशिक्यान्यपर्जन्यवदान्य-' इत्यादिना साधुः । नव शुक्रस्य । शेषश्चात्र-"शुक्रे भृगुः"[शेषनाममाला २।१५॥] ॥
१शनैश्चरः २शनिः।
३छायासुतो४ऽसित: ५सौरि: ६सप्तार्ची ७रेवतीभवः ॥१२०॥
८मन्दः ९क्रोडो १०नीलवासाः
१ पङ्गुत्वात् शनैश्चरति शनैश्चरः । 'चर गतिभक्षणयोः' (भ्वा.प.से.), पचाद्यच् । प्रतीकलक्षणया शनैरपि । "शनैः शनैश्चरे मन्दे" इति वाचस्पतिः । २ श्यति तनूकरोति दृष्ट्या जनमिति शनिः । 'शो तनूकरणे' (दि.प.अ.), ('धूशाशीङो ह्रस्वश्च'(हैमोणा-६७८) इति निः) । ३ छाया सूर्यभार्या, तस्याः सुतः छायासुतः । ४ सितः शुक्लः, न सितः असितः, कृष्णवर्णाङ्ग इत्यर्थः । ५ सूरस्यापत्यं सौरिः । 'अत इञ्'४।१।९५॥ अयं दन्त्यादिः, तालव्यादिश्च । "सूर्यपर्यायसूरशब्दस्य दन्त्यतालव्यत्वात् सौरोऽपि, 'तस्येदम्'४।३।१२०॥ इत्यण्'' इति स्वामी । ६ सप्तार्चिषोऽस्य सप्तार्चिः । ७ रेवत्यां भवति रेवतीभवः । पचाद्यच् ॥१२०॥ ८ मन्दगतित्वाद् मन्दः । ९ करोति पीडां, क्रामति क्षेत्रं राशिं [च] चिरेणेति वा क्रोडः । पृषोदरादित्वात् साधुः । १० नीलं वासो वस्त्रमस्य नीलवासाः । 'अत्वसन्तस्य चाऽधातो:'६।४।१४।। नीलवाससौ, नीलवाससः इत्यादि । दश शनैश्चरस्य । शेषश्चात्र -
"शनौ पङ्गुः श्रुतकर्मा महाग्रहः ।
श्रुतश्रवोऽनुजः कालो ब्रह्मण्यश्च यमः स्थिरः॥ क्रूरात्मा च" [शेषनाममाला २।१५-१६॥] ॥
१स्वर्भाणु(नु)स्तु २विधुन्तुदः ।
३तमो ४राहुः ५सैंहिकेयो ६भरणीभूः
१ स्वराकाशे भाति स्वर्भानुः । 'भा दीप्तौ' (अ.प.अ.), 'दाभाभ्यां नुः'(उणा-३१२) इति नुः, क्षुभ्नादित्वात् 'पूर्वपदात्'८।३।१०६॥ इति न णत्वम् । ''स्वर्भानुः"[गणरत्नमहोदधिः, अध्या-२, श्लो-१६२] इति गणरत्नमहोदधौ । आचार्यमते तु तृतीयवर्गपञ्चमान्त एव स्वर्भाणुरिति । २ विधुं चन्द्रं तुदति विधुन्तुदः। 'तुद व्यथने' (तु.उ.अ.), 'विध्वरुषोस्तुदः'३।२।३५॥ इति खश्, खित्त्वात् मुम् । ३ ताम्यति तमः । 'तमु ग्लानौ' (दि.प.से.), '-असुन्'(उणा-६२८), क्लीबेऽयम् । तमसी, तमांसि इत्यादि । "तमस्कान्तिवात् तमः" इति स्वामी । "तमांसि गुणतिमिरसैंहिकेयाः" इति त्रिकाण्डशेषः । "स्वर्भानुस्तु तमो राहुः" इति पुंस्काण्डरत्नकोषा-ऽमरमालयोः पुंलिङ्गेऽपि । ४ रहति त्यजति गृहीत्वा चन्द्रार्कौ इति राहुः । 'रह त्यागे' (भ्वा.प.से.), 'रहेश्च' इत्युण् । ५ सिंहिकाया अपत्यं सैंहिकेयः । 'स्त्रीभ्यो ढक्'४।१।१२०॥, ढस्य एयादेशः । ६ भरण्यां भवति भरणीभूः, क्विबन्तः । षट् राहोः । अभ्रपिशाचग्रहकल्लोलावपि । शेषश्चात्र- ''अथ राहौ स्यादुपराग उपप्लव:" [शेषनाममाला २।१६॥] ॥
१अथाहिकः ॥१२१॥
२अश्लेषाभूः ३शिखी ४केतुः
१ अहिना संसृष्ट आहिकः । 'तेन संसृष्टम्'४।४।२२ ॥ इति ठक्, 'ठस्येकः'७।३।५०॥, 'किति च'७।२।११८॥ इति वृद्धिः ॥१२१॥ २ अश्लेषायां भवति अश्लेषाभूः । क्विप् । ३ शिखाऽस्यास्ति शिखी । 'व्रीह्यादिभ्यश्च'५।२।११६॥ इनिः, 'शिखादेर्न ठन्' इति ठनः प्रतिषेधः। ४ चाय्यते निशाम्यतेऽशुभमनेनेति केतुः । 'चायृ पूजानिशामनयो:' (भ्वा.उ.से.), 'चायः कीचतु:'(उणा-३७) इति तुप्रत्ययः, धातोश्च कीरादेशः, 'सार्वधातुकार्धधातुकयोः'७।३।८४ ॥ इति गुणः । चत्वारि केतोः । शेषश्चात्र- "केतावूर्ध्वकचः'' [शेषनाममाला २।१७॥] ॥
ध्रुवस्तूत्तानपादजः ।
१ ध्रुवत्वाद् निश्चलत्वाद् ध्रुवः । 'ध्रुव गतिस्थैर्ययोः' (तु.प.से.), पचाद्यच्, कुटादित्वाद् डिवम् । 'इगुपधज्ञाप्री-'३।१।१३५॥ इति को वा । 'ध्रु स्थैर्ये' (भ्वा.प.अ.), 'स्रुवः कः'(उणा-२१९) इति बाहुलकादतो-ऽपि के ध्रुवः" इति कौमुदी । 'ध्रुवमपायेऽपादानम्'१।४।२४॥ इति निर्देशात् साधुः । २ उत्तानपादान्नृपतेर्जातः उत्तानपादजः । 'जनी प्रादुर्भावे' (दि.आ.से.), 'पञ्चम्यामजातौ'३।२।९८॥ इति डः । यौगिकत्वादौत्तनपादिः, अत्र ऋषित्वाद् 'ऋष्यन्धक-'४।१।११४॥ इत्यणि प्राप्ते बाह्वादित्वादिञ् । अणि औत्तानपादोऽपि । द्वे ध्रुवस्य । शेषश्चात्र-
"ज्योतीरथग्रहाश्रयौ ध्रुवे" [शेषनाममाला २॥१७॥] ॥
१अगस्त्यो२ऽगस्तिः ३पीताब्धि४र्वातापिद्विट् ५घटोद्भवः ॥१२२॥
६मैत्रावरुणि७राग्नेय ८और्वशेया९ग्निमारुतौ ।
१ अगं विन्ध्यं पर्वतं त्यक्तवानिति अगस्त्यः । 'त्यज हानौ' (भ्वा.प.अ.), 'अन्येभ्योऽपि (अन्येष्वपि) दृश्यते'३।२।१०१॥ इति डः,पारस्करादेराकृतिगणत्वात् सुट् । विन्ध्याख्यमगं स्त्यायतीति वा । 'ष्ट्यै स्त्यै शब्दसंघातयोः' (भ्वा.प.अ.), 'अन्येभ्योऽपि (अन्येष्वपि) दृश्यते'३।२।१०१॥ इति डः । अगं स्तभ्नातीति वा । 'स्तम्भु रोधने' (क्र्या.प.से.,सौत्रः) 'अगपुलाभ्यां स्तम्भेर्डित्'(हैमोणा-३६३) इति यः । २ संहतमगमस्यतीति अगस्तिः । 'असु क्षेपणे' (दि.प.से.), 'वसेस्तिः'(उणा-६१९) बाहुलकाद् अस्यतेरपि तिः । शकन्ध्वादित्वात् पररूपत्वम् । अगति कुटिलं गच्छतीति वा अगस्तिः । 'अग [कुटिलायां] गतौ' (भ्वा.प.से), बाहुलकाद् अस्तिक् । ''अगस्त्यः कुम्भयोनिरगस्ति: कलसी(शी)सुतः" इति शब्दार्णवः । ''अगस्तिनाऽध्या-सितविन्ध्यशृङ्गम्''[भट्टिकाव्यम् १२।७१॥] इति भट्टिः । ३ पीतोऽब्धिरनेन पीताब्धिः । ४ वातापिं वातापिनं द्वेष्टीति वातापिद्विट् । 'द्विष अप्रीतौ' (दि.उ.अ.), 'सत्सूद्विषद्रुह-'३।२।६१॥ इत्यादिना क्विप् । ५ घटादुद्भवति घटोद्भवः । पचाद्यच् ॥१२२॥ ६ मित्रश्च वरुणश्च मित्रावरुणौ देवर्षी, 'देवताद्वन्द्वे च'६।३।२५॥ इत्यानङ्, तयोरपत्यं मैत्रावरुणिः । ऋषिसमुदायस्याऽनृषित्वाद् 'अत इञ्'४।१।९५॥ इति इञ् । यद्यपि मित्रस्य उर्वशीदर्शनाद् रेतश्चयुतं तत्तेन ह्रया कुम्भे धृतं तत्रायं जातोऽत एव कुम्भसंभवः इति प्रसिद्धस्तथापि सहचाराभेदाध्यवसायादुभयतेजोजत्वाच्चोभयापत्यव्यपदेशे मैत्रावरुणिरिति, अत एव भेदविवक्षायां वारुणिरपि । तथा च भारते –
"अद्यापि दक्षिणाशाया वारुणिर्न निवर्तते ॥" इति ।
तथा च व्याडि: -
"मित्रावरुणयोः सूनुरौर्वशेयश्च वारुणिः ॥" इति ।
[७ अग्नेरपत्यम् आग्नेयः, तदंशत्वात् । 'अग्नेर्ढक्'४।२।३२॥ इति ढक्, ढस्य एयादेशः] । ८ उर्वश्या अपत्यम् और्वशेयः । 'स्त्रीभ्यो ढक्'४।१।१२०॥, ढस्य एयादेशः । ९ अग्निश्च मरुच्च अग्निमरुतौ, तयोरपत्यम् आग्निमारुतः । 'तस्यापत्यम्'४।१।९२॥ इत्यण् । पीताब्ध्यादयो यौगिकाः । नव अगस्त्यस्य । शेषश्चात्र –
"अगस्त्ये विन्ध्यकूटः स्याद् दक्षिणाशारतिर्मुनिः ।
सत्याग्निर्वारुणिः क्वाथिस्तपनः कलशीसुतः ॥ १॥" [शेषनाममाला २।१७-१८॥] ॥
१लोपामुद्रा तु तद्भार्या २कौषीतकी वरप्रदा ॥१२३॥
१ तस्यागस्त्यस्य भार्या तद्भार्या । लोपयति योषितां रूपाभिमानमिति । 'लुपे लोपे' अतो णिजन्तात् पचाद्यच्, 'अजाद्यतष्टाप्'४।१।३॥ लोपा । मुद्रयति स्रष्टुः सृष्टिमिति मुद्रा । लोपा चासौ मुद्रा च लोपामुद्रा । पतिशुश्रूषालोपेषु जनेषु न मुदं रातीति वा । कुष्णाति तपसा कृत्वा आत्मानमिति कुषीतकः । 'कुष नि:कोषे' (क्र्या.प.से.), 'कुषेः कित्'(हैमोणा-८०) इति ईतक: कुषीतकः ऋषिः, (तस्यापत्यं स्त्री) 'ऋष्यन्धक-'४।१।११४॥ इत्यणि, टिड्ढाणञ्'४।१।१५॥ इति ङीप् कौषीतकी । ३ वरं प्रददाति वरप्रदा । 'आतोऽनुपसर्गे कः'३।२।३॥, ततष्टाप् । त्रीण्यगस्त्यपन्याः ॥१२३॥
मरीचिप्रमुखाः सप्तर्षयश्चित्रशिखण्डिनः ।
मरीचिः प्रमुखमादिरेषां मरीचिप्रमुखाः, प्रमुखशब्दः प्राथम्ये । यदुक्तम् -
"मरीचिरङ्गिरा अत्रिः पुलस्त्यः पुलहः क्रतुः ।
वशिष्ठश्चेति सप्तैते ज्ञेयाश्चित्रशिखण्डिनः ॥१॥" इति ।
'सप्तर्षयः' इत्यत्र 'दिक्संख्ये संज्ञायाम्'२।१।५०॥ इति समासः । चित्रो विचित्रः शिखण्डश्चूडाविशेषो-ऽस्त्येषामिति चित्रशिखण्डिनः । 'व्रीह्यादिभ्यश्च'५।२।११६॥ इतीनिः । मरीचि प्रमुखाः । सप्तर्षयः प्रत्येकं चित्रशिखण्डिन उच्यन्त इत्यर्थः ॥
१पुष्पदन्तौ २पुष्पवन्तावेकोक्त्या शशिभास्करौ ॥१२४॥
१ पुष्पे इव पुष्पे, दन्ताविव दन्तौ, पुष्पे च ते दन्तौ च पुष्पदन्तौ । यद् विश्वदन्तः "रविशशिनौ पुष्पदन्तौ" इति । २ (अथवा पुष्पनं पुष्पः, 'पुष्प विकसने'(दि.प.से.), भावे घञ्), पुष्पो विकासोऽस्त्यनयोरिति पुष्पवन्तौ । तदस्यास्त्यस्मिन्निति मतुप्'५।२।९४॥ "रविशशिनौ द्वौ संपृक्तावेवोच्येते, न तु पुष्पदन्तः पुष्पवान् वा इन्दुः सूर्यो वा उच्यते"[स्वो.टी., श्लो.-१२४] इत्याचार्याः । एकैकाभिधाने एकवचनान्तोऽपि । ''पुष्पवान्' इति मतुबन्तश्चायम्'' इति बृहस्पतिः । (अकारान्तोऽपि पुष्पवन्तशब्दः, 'अव रक्षणे' (भ्वा.प.से.), 'जृ(जॄ) विशिभ्यां झच्'(उणा-४०६) इति बाहुलकादवतेरपि झच्, 'झोऽन्तः'७।१।३॥ पुष्पस्यावन्ता(न्तौ) विग्रहे शक- न्ध्वादिः) । "रविशशिनौ पुष्पवन्ताख्यौ" इति नाममालायाम्, "प्राक् प्रत्यग्धरणीधरशिखरस्थितपुष्पवन्ता-भ्याम्'' इत्याश्चर्यमञ्जर्यां चाऽदन्तत्वदर्शनान्नित्यद्विवचनश्चायम्, मिलितयोरेवाभिधायकत्वात् तथैव सर्वत्र दर्शनाच्च । शशिभास्करावित्यत्र 'देवताद्वन्द्वे च'६।३।२६॥ इति नानङ्, तत्र 'आनङ् ऋतो द्वन्द्वे'६।३।२५॥ इत्यतो द्वन्द्वग्रहणेऽनुवर्तमाने पुनर्द्वन्द्वग्रहणेन वेदलोकसहचरितद्वन्द्वग्रहणादस्य तु द्वन्द्वस्याऽतथात्वात् । अत एव "रविचन्द्रावपि नोपलक्षितौ"[घटकर्पर काव्यम्, श्लो.-१] इति घटकर्परः । द्वे एकोक्त्या चन्द्रसूर्ययोः ॥१२४॥
१राहुग्रासोऽर्केन्द्वोर्ग्रह २उपराग उपप्लवः ।
१ राहुणां ग्रसनं राहुग्रासः । 'ग्रसु अदने' (भ्वा.आ.से.), भावे घञ् । अर्कश्चेन्दुश्च अर्केन्दू, तयोः कर्मभूतयोर्ग्रहणं ग्रहः । 'ग्रह उपादाने' (क्र्या.उ.से.), 'ग्रहवृदृ-'३।३।५८॥ इत्यप् । २ उपरज्येते छाद्येते चन्द्रार्कावनेनेति उपरागः । 'रञ्ज रागे' (भ्वा.उ.अ.), करणे घञ्, 'चजोः कु घिण्ण्यतो:'७।३।१५२॥ इति कुत्वम्, 'घञि च भावकरणयोः'६।४।२७॥ इति न्लोपः, 'अत उपधायाः'७।२।११६॥ ३ उपप्लूयतेऽनेन उपप्लवः । 'प्लूङ् गतौ' (भ्वा.आ.अ.), 'ॠदोरप्'३।३।५७॥ इत्यप्, 'सार्वधातुकार्धधातुकयोः'७।३।८४॥ इति गुणः । त्रीणि ग्रहणस्य ॥
१उपलिङ्गं २त्वरिष्टं स्या३दुपसर्ग ४उपद्रवः ॥१२५॥
५अजन्यमीति६रुत्पातः
१ उपलिङ्यते दोषैर्गम्यते जनोऽत्र उपलिङ्गम् । 'लिगि विचित्रीकरणे'(चु.उ.से.), अधिकरणे घञ् । २ नास्ति रिष्टं क्षेममत्र अरिष्टम् । ३ उपसृज्यत उपद्रूयते प्रजा अत्रेति उपसर्गः । 'सृज विसर्गे' (दि.आ.अ.), अधिकरणे घञ्, 'पुगन्तलघूपधस्य-'७।३।१८६॥ इति गुणः, 'चजोः कु घिण्ण्यतोः'७।३।५२॥ ४ उपद्रूयते प्रजा अत्र उपद्रवः । 'द्रु गतौ' (भ्वा.प.अ.), 'ॠदोरप्'३।३।५७॥ ॥१२५॥ ५ न जन्यते पुरुषव्यापारेणेति अजन्यम् । 'जनी प्रादुर्भावे' (दि.आ.से.), अतो णिजन्तात् 'तकिशसिचतियतिजनिभ्यश्च'(वा-३।१९७॥) इति यत् । ''जने साधु जन्यम्, न जन्यम् अजन्यम्'' इत्यन्ये । पुंक्लीबलिङ्गः । ६ ईयते प्राप्यते दुःखमस्यामिति ईतिः, चतुर्थस्वरादिः । 'इण् गतौ' (भ्वा.प.अ.), क्तिन् । ७ उत्पतत्यकस्मादायाति उत्पातः । 'पत्लृ गतौ' (भ्वा.प.से), 'ज्वलतिकसन्तेभ्यो णः'३।१।१४०॥ सप्त उपद्रवस्य ॥
१वह्न्युत्पातः २उपाहितः ।
१ वह्निना कृत उत्पातः वह्न्युत्पातः । शाकपार्थिवादित्वान्मध्यपदलोपः । २ उप आसन्नमहितमस्य उपाहितः । "धूमकेत्वाख्य उत्पात:" इत्येके । द्वे वह्निकृतोपद्रवस्य ।।
स्यात् १कालः २समयो ३दिष्टा४नेहसौ ५सर्वमूषकः ॥१२६॥
१ कल्यतेऽसौ कालः । 'कल संख्याने शब्दे च' (भ्वा.आ.से.), कर्मणि घञ्, 'अत उपधायाः'७।२।११६॥ इति वृद्धिः । कालयति क्षिपति सर्वभावानिति वा । 'पचाद्यच' इति तु स्वामी । 'कल शब्दसंख्यानयोः' (भ्वा.आ.से.), कलते कालः, 'अकर्तरि च कारके-'३।३।१९॥ इति घञ् वा । २ सम् सम्यक् एति समयः, पुंक्लीबलिङ्गः । सम्पूर्वः 'इण् गतौ' (भ्वा.प.अ.), पचाद्यच् । ३ दिश्यते स्मेति दिष्टः । 'दिश अतिसर्जने' (तु.प.अ.), 'निष्ठा'३।२।१०२ ॥ इति क्तः, 'व्रश्चभ्रस्ज-८।२।३६॥ इत्यादिना षत्वम्, ष्टुत्वम् । ४ नाहन्ति गतः सन्निति अनेहा, पुंलिङ्गः । 'हन् (हन) हिंसागत्योः' (अ.प.अ.), 'नञो (नञि) हन एह च'(उणा-६६३) इत्य सुन्प्रत्ययः, आहन्स्थाने एहादेशः, तस्मान्नुडचि'६।३।७४॥ इति नुट्, 'ऋदुशन-७।१।९४॥ इत्यादिना चाऽनङ् । न ईहते
चेष्टतेऽनेन आघ्रात इति वा । 'ईह चेष्टायाम्' (भ्वा.आ.से.) नञ्पूर्वः, 'नञ ईहेरेहै(हे)धौ च'(हैमोणा-९७५) इत्यसुन् । अनेहसौ, अनेहसः इत्यादि । ५ सर्वं मूषति सर्वमूषकः । 'मूष स्तेये' (भ्वा.प.से.), षष्ठस्वरादिः, 'ण्वुल्तृचौ'३।१।१३३।। इति ण्वुल् । सामान्यतः पञ्च कालस्य ॥१२६॥
अथ विशेषादाह -
कालो द्विविधो१ऽवसर्पिण्यु२त्सर्पिणीविभेदतः।
कालो द्विविधो द्विभेदः, अवसर्पो भावानां पतत्प्रकर्षता, सोऽस्यामस्तीति अवसर्पिणी । 'अत इनिठनौ'५।२।११५॥ इतीनिः, 'ऋन्नेभ्यः-'४।१।५॥ इति ङीप् । उत्सर्पणमुत्सर्पः भावानामेव रोहत्प्रकर्षता, सोऽस्यामस्ति उत्सर्पिणी । प्रत्ययः प्राग्वत् । अवसर्पिणी च उत्सर्पिणी च अवसर्पिण्युत्सर्पिण्यौ, तयोविभेदतः पार्थि(र्थ)क्यात् कालस्य द्वैविध्यम्, स इति अवसर्पिण्युत्सर्पिणीलक्षणः कालः (सागराणि दशकोटिकोटीपल्योपमप्रमाणाणि), सागराणां कोटिकोट्यः सागरकोटिकोट्यस्तासां विंशत्या समाप्यते परिपूर्यते ॥१२७॥
अवसर्पिण्यां षडरा उत्सर्पिण्यां त एव विपरीताः ।
एवं द्वादशभिररैर्विवर्तते कालचक्रमिदम् ॥१२८॥
षडिति षट् संख्याकाः इय्रति गच्छन्ति सुषमादिनामविशेषमिति अराः । 'ऋ गतौ' (जु.प.अ.), पचाद्यच्, 'सार्वधातुकार्धधातुकयोः'७।३।१८४॥ । ते च वक्ष्यमाणा एकान्तसुषमादयः एकान्तदुःषमान्ता अवसर्पिण्यां भवन्ति । त एवेति, एकान्तसुषमादयः षडपि विपरीता इति, एकान्तदुःषमाद्या एकान्तसुषमान्ताश्च उत्सर्पिण्यां काले भवन्ति । एवम् उक्तप्रकारेण द्वादशभिररैश्चक्रमिव चक्रम्, कालस्य चक्रं कालचक्रं विवर्तते परिभ्रमति ॥१२८॥
तत्रैकान्तसुषमाऽरश्चतस्र: कोटिकोटयः ।
सागराणाम्
१ तत्रेति । द्वादशारे कालचक्रे शोभनाः समा वर्षाण्यस्यां सुषमा । 'सुविनिर्दुर्भ्यः सुपिसूतिसमा:'८।३।८८॥ इति षत्वम् । एकान्तेन सुषमादुःषमानुभावरहिता एकान्तसुषमा, सुषमसुषमेत्यर्थः, प्रथमोऽरः । सागराणां सामरोपमाणां चतस्रः इति चतुःसंख्याः कोटीनां कोटयः कोटिकोटयः, चतु:कोटी- कोटीसागरोपमप्रमाण इत्यर्थः । प्रथमारस्यैकम् ॥
सुषमा तु तिस्रस्तत्कोटिकोटयः ॥१२९॥
१ शोभनाः समाः वर्षाण्यस्यां सुषमा । 'सुविनिर्दुर्भ्य:-'८।३।८८॥ इति षत्वम् । सुषमाख्यो द्वितीयोऽरः तिस्रस्तरकोटिकोटयः, त्रिसागरोपमकोटीकोटिप्रमाण इत्यर्थः । एकं द्वितीयारकस्य ॥१२९॥
१सुषमदुःषमा ते द्वे
दुरिति दुष्टाः समा अस्यां दुःषमा । 'सुविनिर्दुर्भ्यः सूपिसूतिसमाः'८।३।८८॥ इति षत्वम् । सुषमा चासौ दुःषमा च सुषमदुःषमा । सुषमाऽनुभावबहुला अल्पदुःषमानुभावेति भावः । तन्नामा तृतीयोऽरः । ते द्वे इति । सागरोपमकोटिकोट्यौ, द्विसागरोपमकोटीकोटिप्रमाण इत्यर्थः । तृतीयारकस्यैकम् ॥
१दुःषमसुषमा पुनः ।
सैका सहस्रैर्वर्षाणां द्विचत्वारिंशतोनिता ॥१३०॥
१ दुष्टा निन्द्याः कृच्छ्ररूपा वा समा वर्षाण्यस्यां दुःषमा । दुःषमा चासौ सुषमा च दुःषमसुषमा । दुःषमानुभावबहुला अल्पसुषमानुभावेत्यर्थः । दुःषमसुषमाधिश्चतुर्थोऽरकः । सेति सागरोपमकोटिकोटी एका एकसंख्या द्विचत्वारिंशद्वर्षसहस्रैः ऊनिता हीनीकृतेत्यर्थः । 'ऊन परिहाणे' (चु.उ.से.), चुरादिरदन्तः, निष्ठान्तः । एकं चतुर्थारकस्य ॥१३०॥
अथ १दुःषमैकविंशतिरब्दसहस्स्राणि
१ दुष्टा निन्द्याः समा वर्षाण्यस्यां दुःषमा । दुःषमाख्यः पञ्चमोऽरः, एकविंशतिवर्षसहस्राणि । एकं पञ्चमदुःषमाभिधारकस्य ।
तावती तु स्यात् ।
१एकान्तदुःषमाऽपि हि
१ एकान्तेन दुःषमा सुषमानुभावरहिता एकान्तदुःषमा, दुःषमदुःषमेत्यर्थः । तदाख्यः षष्ठोऽरः, तावतीति दुःषमावदेकविंशतिवर्षसहस्रप्रमाणेत्यर्थः । एकं षष्ठारकस्य ॥
एत्संख्याः परेऽपि विपरीताः ॥१३१॥
एषैव अवसर्पिण्यरकोक्ता संख्या येषां ते एतत्संख्याः, परेऽपि उत्सर्पिण्यरका अपि, विपरीताः प्रतिलोमवृत्तयः एकान्तदुःषमा[रा]द्या एकान्तसुषमारपर्यन्ताः स्युरिति । एकान्तसुषमाद्या एकान्तदुःषमान्ता मूर्धन्यमध्याः स्त्रीलिङ्गाः ॥१३१॥
प्रथमेऽरत्रये मर्त्त्यास्त्रिद्व्येकपल्यजीविताः ।
त्रिद्व्येकगव्यूतोच्छ्रायास्त्रिद्व्येकदिनभोजनाः॥१३॥
कल्पद्रुफलसन्तुष्टाः
प्रथमे आदिमे अवसर्पिण्या अरत्रये मर्त्त्या मनुजाः त्रिद्व्येकपल्यजीविताः स्युः, त्रीणि द्वे एकं च पल्यं पल्योपमं जीवितं जीवनं येषां ते त्रिद्व्येकपल्यजीविताः, पल्यमिति धान्याधारविशेषः । इह तु तत्प्रतिकृतिरायामविष्कम्भावगाहैर्योजनप्रमाणः प्रदेशः प्रोच्यते, स च कुरुक्षेत्रोद्भवसाप्ताहिकमेषशिश्वङ्गुल-प्रमाणबाललेशैः पुनरसंख्यातखण्डीकृतैर्भूतः, उपरि च लोहशकटेनाप्यन्यग्भूतो वर्षशते च गते एकैकवालाग्रापहारेण यावता कालेन निर्लेप: स्यात् तावान् कालः पल्योपममद्धेत्यभिधानम् । कीदृशा नराः? त्रीणि द्वे एकं च गव्यूतं क्रोश उच्छ्रायो येषां ते त्रिद्व्येकगव्यूतोच्छ्रायाः, पुनस्त्रिद्व्येकदिनभोजनाः त्रिषु द्वयोरेकस्मिंश्च दिने व्यतिक्रान्ते भोजनं येषां ते तथा । तत्र प्रथमेऽरके मर्त्त्यास्त्रिपल्योपमायुषः, त्रिगव्यूतोन्नताङ्गाश्चतुर्थदिनभोजिनो भवन्ति । द्वितीयेऽरके द्विपल्योपमजीविताः, द्विगव्यूतोन्नतशरीरा-स्तृतीयदिनभोजिनो भवन्ति, तृतीयेऽरके द्वि(एक)पल्योपमजीविताः, एकगव्यूतोच्छ्रिताङ्गाः, द्वितीयदिनभोजिनो भवन्ति इति यथाक्रमार्थः ॥१३२॥ ते च कल्पद्रुमाणां फलैः
सन्तुष्टा भवन्ति, कल्पवृक्षफलान्याहरन्तीत्यर्थः ॥
चतुर्थे त्वरके नराः।
पूर्वकोट्यायुषः पञ्चधनुःशतसमुच्छ्रयाः ॥१३३॥
तुर्ये दुःषमसुषमाभिधेऽरे मनुजाः पूर्वकोट्यायुषो भवन्ति । सप्ततिः कोटिलक्षाः षट्पञ्चाशच्च वर्षकोटिसहस्राः पूर्वम्, तत्कोट्यायुषः, पञ्चधनुःशतानि समुच्छ्रय उच्चत्वं येषां ते तथा ॥१३३॥
पञ्चमे तु वर्षशतायुषः सप्तकरोच्छ्रयाः ।
पञ्चमेऽरके मनुजाः वर्षशतमायुर्येषां ते वर्षशतायुषः, सप्त च ते करा हस्ताश्च सप्तकराः, सप्तकरा उच्छ्रयो येषां ते तथा ॥
षष्ठे पुनः षोडशाब्दायुषो हस्तसमुच्छ्रयाः ॥१३४॥
एकान्तदुःखप्रचिताः
पुनः षष्ठेऽरके मनुष्याः षोडशवर्षायुषः, एकहस्तोन्नताङ्गाः एकान्तदुःखव्याप्ताश्च ॥
उत्सर्पिण्यामपीदृशाः।
पश्चानुपूर्व्या विज्ञेया अरेषु किल षट्स्वपि ॥१३५॥
किलेति सत्ये, उत्सर्पिण्यामपि कालविशेषे षट्स्वप्यरकेषु पश्चानुपूर्व्या प्रातिलोम्येन ईदृशा एव मर्त्त्या विज्ञेयाः, सम्यग्दृग्भिरिति शेषः । तद्यथा उत्सर्पिण्या: दुःषमदुःषमानाम्नि एकविंशतिसहस्रवर्षप्रमाणे प्रथमेऽरके मनुजाः षोडशवर्षायुषः, एकहस्तमानोन्नताङ्गाः स्युः, ततो द्वितीये दुःषमानाम्नि एकविंशतिवर्षसहस्रप्रमितेऽरके मनुजाः वर्षशतायुषः, सप्तहस्तोच्छ्रयाश्च भवन्ति, ततस्तृतीये द्वाचत्वारिंशद्वर्षसहस्रोनैककोटीकोटिसागरप्रमाणे दुःषमसुषमाख्येऽरके मनुजाः पूर्वकोट्यायुषः, पञ्चधनु:शतसमुच्छ्रयाश्च भवन्ति, ततः चतुर्थे द्विसागरोपमकोटीकोटिप्रमाणे सुषमदुःषमाख्येऽरके मनुजाः एकपल्योपमायुष एकगव्यूतोच्चतनवः, एकस्मिन् दिने गते भोजिनो भवन्ति, ततः पञ्चमे सुषमाभिधेऽरके सागरत्रयप्रमाणे मनुजा द्विपल्योपमायुषो द्विगव्यूतोन्नततनवस्तृतीयदिनभोजिनो भवन्ति, ततः षष्ठे सुषमसुषमानाम्नि चतु:कोटीकोटिसागरप्रमाणे त्रिपल्योपमजीवितास्त्रिगव्यूतोन्नततनवश्चतुर्थदिनभोजिनो भवन्ति मनुजाः ॥१३५॥
अष्टादश निमेषाः स्युः १काष्ठा
१ पुंसो यावता कालेनाकृत्रिमनेत्रविकाशानन्तरं पक्ष्माकुञ्चनं जायते, स निमेष उच्यते, तेऽष्टादशसंख्याः 'काष्ठा' इत्युच्यते । "निमेषनिमिषौ कालभेदे नेत्रनिमीलने"[विश्वलोचनकोशः, षान्तवर्गः, श्लो.-२५] इति श्रीधरः । काशते काष्ठा । 'काश दीप्तौ' (भ्वा.आ.से.), 'हनिकुषिनीरमिकाशिभ्यः क्थन्'(उणा-१५९), 'तितुत्र-'७।२।९॥ नेट्, 'व्रश्च-'८।२।३६॥ आदिना षत्वम्, 'ष्टुना ष्टुः'८।४।४१॥ समूहवाचित्वात् काष्ठेत्येकवचनम् । अष्टादशनिमेषप्रमाणकालस्यैकम् ॥
काष्ठाद्वयं लवः ।
१ लुनाति परिच्छिनत्ति कालमिति लवः । 'लूञ् छेदने' (क्र्या.उ.से.), अच्, गुणः । काष्ठाद्वयं षट्त्रिंशन्निमेषा इत्यर्थः, तावत्प्रमाणकालस्यैकम् ॥
१कला तैः पञ्चदशभिः
१ तैः पञ्चदशभिर्लवैः कला । कलयति कालमिति कला । 'कल संख्याने' (चु.उ.से.), णिजन्ताद-स्मात् पचाद्यच्, टाप् । पञ्चदशलवप्रमाणकालस्यैकम् ॥
१लेशस्तद्वितयेन च ॥१३६॥
१ लिश्यतेऽल्पीभवति लेशः । 'लिश अल्पीभावे' (दि.आ.अ.), 'भावे'३।३।१८॥ इति घञ् । तस्याः कलायाः द्वितयेन तद्द्वितयेन, कलायुगलेनेत्यर्थः । कलाद्वयप्रमाणकालस्यैकम् ॥१३६॥
१क्षणस्तैः पञ्चदशभिः
१ तैः पञ्चदशभिर्लेशैः क्षणः । क्षणोति क्षणः । 'क्षणु हिंसायाम्' (त.उ.से.), पचाद्यच् । पञ्चदशलेशप्रमाणकालस्यैकम् ॥
क्षणैः षड्भिश्च १नाडिका ।
सा २धारका ३घटिका च
मुहर्तस्तद्वयेन च ॥१३७॥
१ हूर्च्छति मुहूर्त्तः, पुंक्लीबलिङ्गः । 'हूर्च्छा कौटिल्ये' (भ्वा.प.से.), बाहुलकाद् 'अञ्जिघृषि(-सि)- '(उणा-३६९) इति क्तः, मुडागमश्च, 'राल्लोपः'६।४।२१॥ छलोपः,, 'हलि च' ८।२७७॥ इति दीर्घः । मुहुर्वारंवारमियर्तीति वा । पृषोदरादित्वात् साधुः । तयोर्घटिकयोर्द्वयं तद्द्वयम्, तेन । एकं घटिकाद्वय- प्रमाणकालस्य ॥१३७॥
त्रिंशता तैरहोरात्राः
१ तैर्मुहूर्त्तैस्त्रिंशतेति त्रिंशत्संख्याकै: अहोरात्रः उच्यते । (अह्ना सहिता रात्रिरिति समासः) (अहश्च रात्रिश्च अनयोः समाहारः), 'अहः सर्वैकदेशसङ्ख्यातपुण्याच्च रात्रेः'५।४।८७॥ इत्यच्, 'यस्येति च'६।४।१४८ ॥, अह्नो रुत्वविधौ 'रूपरात्ररथन्तरेषूपसंख्यानम्'(वा-८।२।६८॥) इति रु: अहोरात्रः,, पुंक्ली-
बलिङ्गः । ''द्वन्द्वे त्वहोरात्राविमौ पुण्यौ''[अम.क्षीर.१।३।१२॥] इति स्वामी । ''एवं समाहारे क्लीबमप्यहोरात्रम्, वामनलिङ्गानुशासने 'द्विगुरपि पात्राद्यन्तः"[वामनीयलिङ्गानुशासनम्, स्वो.टीका,श्लो.-१६] इति नपुंसकत्वेन 'अहोरात्रम्, द्विरात्रम्''[वामनीयलिङ्गानुशासनम्, स्वो.टीका.श्लो.-१६] इत्युदाहृतम्" इति सुभूतिः । (पाणिनीयमते तु परत्वाद् 'रात्राहाहाः पुंसि'२।४।२९॥ इति पुंलिङ्ग एवायम्) । एकं त्रिंशन्मुहूर्तप्रमाणकालस्य ॥
त१त्राह२ र्दिवसो ३दिनम् ।
४दिवं ५द्यु६र्वासरो ७घस्र:
१ तत्रेति, अहोरात्रमध्ये, न जहाति कालमिति अहः । 'ओहाक् त्यागे' (जु.प.अ.), 'नञि जहाते:'(उणा-१५६) इति कनिन् । अंहते गच्छति वा । 'अहि गतौ' (भ्वा.आ.से.), बाहुलकात् 'श्वनुक्षन्-' (उणा-१५७) इत्यादिना निपातितः, 'अहन्'८।२।६८॥ इति नकारस्य रुत्वम् । २ दीव्यति आदित्योऽत्र दिवसः । 'दिवु क्रीडादौ' (दि.प.से.), 'दिवादिभ्यः किदसच्'(उणा-४०१) इत्यसच्प्रत्ययः । ३ दीयते क्षयं याति तमोऽत्रेति दिनम्, पुंक्लीबलिङ्गः । 'दीङ् क्षये' (दि.आ.अ.), इण्सिञ्जिदीङ्ष्याव(-ङुष्यवि-)भ्यो नक्'(उणा-२८२) इति बाहुलकान्नकि ह्रस्वः । द्यति तमः, निर्व्यापारस्थितिं वा । 'दो अवखण्डने' (दि.प.अ.), औणादिके नकि 'द्यतिस्यति[मा]स्थामित्ति-'७।४।४०॥ इतीत्वम् । ४ दीव्यन्त्यत्र लोका इति दिवम् । 'दिवु क्रीडादौ' (दि.प.से.), 'घञर्थे कविधानम्'(वा-३।३५८॥) इति
कः । ५ द्यौति गच्छति द्युः, पुंलिङ्गः । 'द्यु अभिगमे' (अ.प.अ.), मितद्र्वादित्वाद् डुः, डित्त्वाट्टिलोपः । ६ वासयति रविमिति वासरः, पुंक्लीबलिङ्गः । 'वस निवासे' (भ्वा.प.अ.), णिजन्तः, शुद्धोऽपि पूर्वार्थे वर्तते,, 'अर्त्तिकमिचमिभ्रमिवासिभ्यश्च'(उणा ४१२) इत्यरप्रत्ययः । वासयत्यपनयति शीतादिकं वा । यद्वा वसेः स्वार्थे णिचि अधिकरणेऽरन्, वसत्यस्मिन् सुखेनेति वासरः । यद्वा 'वासृ दीप्तौ', पूर्वस्मादेवसूत्रादरन्, वासते दीप्यत इति वासरः । विपूर्वात् सर्तेर्गत्यर्थात् पचाद्यचि वीत्यस्येकारस्याकारः पृषोदरादित्वाद् वासरो दन्त्यमध्यः । ''रविर्मनाग्दर्शितवासरः सरः" इति जानकीहरणम् । "वृद्धो वासरसङ्गः"[भट्टिकाव्यम् १३।२॥] इति भट्टिः । वेसरमित्यपि । क्वचिदुणादिवृत्तौ 'वाशि' इति, 'वाशृ शब्दे' (दि.आ.से.) इति पठ्यते, अतो वाशरं तालव्यमध्यमाहुः, तददर्शनम् । ७ घसति अन्धकारमिति घस्र: । 'घस्लृ अदने' (भ्वा.प.अ.), 'स्फायितञ्चि-'(उणा-१७०) इत्यादिना रक् । दिवाऽव्ययम् । दिवसो हि शिवशासने ब्रह्मणः सुरप्रसवित्रीतनुः । यद्विष्णुपुराणम् -
"सिसृक्षुरन्यदेहस्थः प्रीतिमापुस्ततः सुराः ।
सत्वोद्रिक्ताः समुद्भूता मुखतो ब्रह्मणो द्विजः ॥१॥
त्यक्ता सापि तनुस्तेन स च (सत्त्व) प्रायमभूद् दिनम् ।
ततो हि बलिनो रात्रावसुरा देवता दिवा ॥२॥"
[विष्णुपुराणम्, प्रथमांशः, अ.५,श्लो.-३३-३४] इति ।
सप्त दिवसस्य ॥
दिवसो हि प्रातस्तनसङ्गवमध्याह्नापराह्नसायाह्नलक्षणैः पञ्चभिर्भागैर्युक्तो भवत्यतः प्रातःकाल-नामान्याह –
१प्रभातं स्या२दहर्मुखम् ॥१३८ ॥
३व्युष्टं ४विभातं ५प्रत्यूषं ६कल्य७प्रत्युषसी ८उषः ।
९काल्यम्
१ भातुं प्रवृत्तं प्रभातम् । 'भा दीप्तौ' (अ.प.अ.), 'आदिकर्मणि क्त:-'३।४।७१॥ । "प्रपूर्वाद् भातेः बाहुलकात् तन्' इति तु सर्वधरः । २ अह्नो मुखं प्रारम्भः अहर्मुखम् ॥१३८॥ "मुखमुपाये प्रारम्भे श्रेष्ठे"[अनेकार्थसङ्ग्रहः २।२४॥] इत्यनेकार्थः । ३ विशेषेण उच्छ्यतेऽतिक्रम्यते व्युष्टम् । विपूर्वः 'उच्छी विवासे' (तु.प.से.), [क्तः], 'व्रश्च-'८।२।३६॥ इत्यादिना षत्वम्, ष्टुत्वम् । ४ विभातुं प्रवृत्तम् विभातम् । विपूर्वः 'भा दीप्तौ' (अ.प.अ.), 'आदिकर्मणि क्तः-'३।४॥७१।। ५ प्रत्यूषति निशां रुजति प्रत्यूषम्, पुंक्लीबलिङ्गः । 'ऊष रुजायाम्' (भ्वा. प.से.), 'इगुपधज्ञाप्रीकिरः कः'३।१।१३५।। इति कः, दीर्घमध्योऽयम् । ''प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः"[मेघदूतम्,पूर्वमेघः,श्लो.-३१] इति मेघः । ६ कलयति संख्यां कल्यम् । 'कल संख्याने' (चु.उ.से.), 'अघ्न्यादयश्च'(उणा-५५१) इति यत् । कलासु साधु वा कल्यम् । 'तत्र साधुः'४।४।८९॥ इति यत् । ७ प्रत्योषत्यर्ककरैरन्धकारमिति प्रत्युषः, सकारान्तः, पञ्चमस्वरमध्यः । 'उष दाहे' (भ्वा.प.से.), 'उषेः कित्'(उणा-६७३) इत्यसिः। प्रतिरन्योपसर्गनिवृत्त्यर्थः । ८ ओषति दहत्यन्धकारमिति उषः । 'उष दाहे' (भ्वा.प.से.), 'उषेः कित्'(उणा-६७३) इत्यसिः, अयमपि पञ्चमस्वरादिः । "उषसि सयावकव्यपादलेखा (-रेखा)"[किरातार्जुनीयम् ५।४०॥] इति भारविः । ९ काले साधु काल्यम् । 'तत्र साधुः'४।४।९८॥ इति यत् । ''काले भवं काल्यम्, 'दिगादिभ्यो यत्'४।३।५४॥" [माधवीयधातुवृत्तिः,भ्वादिः,धातुसं-३२५] इति माधवः । विभातकालस्य प्रशस्यत्वात् साधुत्वम् । नव प्रभातस्य । शेषश्चात्र –
"व्युष्टे निशात्ययगोसर्गौ"[शेषनाममाला २॥१८॥] ।
प्रभातकालो हि सूर्यार्धोदयादारभ्य घटिकाषट्कं यावद्भवति । यद्विष्णुपुराणम् -
"लेखाप्रभृत्यथादित्ये त्रिमुहूर्त्ते गतेऽत्र वै (रवौ) ।
ज्ञेयः प्रातस्ततः कालो भागश्चाह्नः स पञ्चमः ॥१॥"
[विष्णुपुराणम्, द्वितीयांशः,अ-८,श्लो.-६२] इति । ''अर्द्धोदयोऽत्र लेखा'' इति तट्टीका । प्रातः, प्रगे, प्राह्ने, पूर्वेद्युश्चाव्ययानि । गोसो देश्याम् । संस्कृतेऽपीत्येके ॥
१मध्याह्नस्तु २दिवामध्यं ३मध्यन्दिनं च सः ॥१३९॥
१ अह्नो मध्यं मध्याह्नः । अहन्शब्दाद् 'राजाह: सखिभ्यष्टच्'५।४।९१॥ इति टच्, 'अह्नोऽह्न : ५।४।८८॥ इत्यह्नादेशः, 'रात्राह्नाहाः पुंसि'२।४।२९॥ इति पुंस्त्वम्, 'संख्याविसायपूर्वस्य-'६।३।११०॥ इति ज्ञापकात् समासः ।
२ दिवा अह्नो मध्यं दिवामध्यम् । ३ दिनस्य मध्यं मध्यन्दिनम् । 'राजदन्तादिषु परम्'२।२।३१॥ (इति दिनशब्दस्य परनिपातः) । स इति मध्याह्न एव मध्यन्दिनमुच्यत इत्यर्थः । द्वादशघटि- काभ्योऽग्रिमस्त्रिमुहूर्त्तः कालो मध्याह्नस्तन्नामानि त्रीणि ॥१३९॥
१दिनावसान२मुत्सूरो ३विकाल४सबली अपि ।
५सायम्
१ दिनस्यावसानमन्तः दिनावसानम् । २ उत्क्रान्तः सूरोऽस्मिन्निति उत्सूरः । ३ विरुद्धः कालो विकालः । ४ सह बलिभिरुपहारैर्वर्तते सबलिः, पुंलिङ्गः । ५ स्यति दिनं सायम् । 'षोऽन्तकर्मणि' (दि.प.अ.), 'श्याद्व्यधास्रुसंस्र्वतीणव-'३।१।१४१॥ इत्यादिना णप्रत्ययः, 'आदेच उपदेशेऽ शिति'६।१।४५॥ इत्यात्वम्, 'आतो युक् चिण्कृतो:'७।३।३३॥, सायमिति क्लीबलिङ्गः । गौडस्तु "उत्सूरश्च विकालश्च सबलिश्च सः" इति पुंस्याह । "कर्मणि घञि सायः" इति तु कौमुदी । मान्ताव्ययं अव्ययवर्गे[अभि.,श्लो.-१५३१] वक्ष्यते । "सायमिति क्लीबपाठ : प्रामादिकः" इति बृहस्पतिः । पञ्च उत्सूरस्य । 'उसूर' इति भाषा ॥
१सन्ध्या तु २पितृसूः
१ सं सम्यग् ध्यायन्ति मन्त्रादिकमस्यामिति सन्ध्या । सम्पूर्वः 'ध्यै चिन्तायाम्' (भ्वा.प.अ.), 'आतश्चोपसर्गे'३।१।१३६॥ इत्यङ्, 'अजाद्यतष्टाप्'४।१।३॥ 'सन्धा पितृप्रसूः सन्ध्या' इति शब्दार्णवाद् निर्यकारोऽपि । 'सन्धोच्छलितः'[वासवदत्ता, पृ.१५] इति वासवदत्ता । २ पितॄन् सूते पितृसूः । 'षूङ् प्राणिप्रसवे', 'सत्सूद्विषद्रुह-'३।२।६१॥ इत्यादिना क्विप् । सन्ध्या हि ब्रह्मणः पितृप्रसवित्रीतनुः इति प्रसिद्धिः यद्विष्णुपुराणम् –
"सत्वमात्रात्मिकामेवं (-व) ततोऽन्यां जगृहे तनुम् ।
पितृवन्मन्यमानस्य पितरोऽस्यां च जज्ञिरे (पितरस्तस्य जज्ञिरे) ॥१॥
उत्ससर्ज पितॄन् सृष्ट्वा ततस्तामपि स प्रभुः । (उत्सर्ज ततस्तां तु पितॄन् सृष्ट्वापि स प्रभुः।)
सा चोत्सृष्टाऽभवत् सन्ध्या दिननक्तान्तरस्थितिः ॥२॥"
[विष्णुपुराणम्, प्रथमांशः, अ.-५, श्लो.-३५-३६] । द्वे सन्ध्यायाः ॥
१त्रिसन्ध्यं २तूपवैणवम् ॥१४०॥
१ अहरवयवोऽहः शब्दो ग्रामो दग्ध इतिवत्, प्रथम च तदहश्च प्राह्णः । 'राजाहःसखिभ्यष्टच्' ५।४।९१॥, 'अहोऽह्नः'५।४।८८॥ इत्यह्नादेशः, 'रात्राह्नाहाः पुंसि'२।४।२९॥ इति पुंस्त्वम् । अह्नः अपरं अपराह्णः । पूर्वापर-'२।२।१॥ इत्येकदेशिसमासः, 'अह्नोऽदन्तात् '८।४७॥ इति द्वयोरपि णत्वम् । अह्नो मध्यं मध्याह्नः । एतास्तिस्रः सन्ध्याः समाहृता इति त्रिसन्ध्यम् । 'आबन्तो वा'(वा-२।४।३०॥) इति क्लीबत्वम् । 'गोस्त्रियोरुपसर्जनस्य'१।२।४८॥ इति ह्रस्वत्वम् । पक्षे त्रिसन्ध्यी । २ उप समीपे वैणवो व्रतदण्डो यत्रेति उपवैणवम् । द्वे त्रिकालस्य ॥१४०॥
१श्राद्धकालस्तु २कुतपोऽष्टमो भागो दिनस्य यः।
१ श्राद्धं पितृकर्म, तस्य कालः श्राद्धकालः । २ कुं पापं तपति कुतपः, पुंक्लीबलिङ्गः । 'तप सन्तापे' (भ्वा.प.अ.), पचाद्यच् । कुं भूमिं मध्यन्दिने तपत्यर्कोऽत्रेति वा । कोतन्ति गच्छन्ति पितरः प्रीतिमस्मिन्निति वा कुतपः, पुंक्लीबलिङ्गः । कुतिः सौत्रो धातुः, बाहुलकाद् अपक् । य: दिवसस्याष्टमो भागोंऽशः, से श्राद्धकालः कुतपश्चोच्यत इत्यर्थः । (दिनस्य हि पुराणमतोक्तानि रौद्रादीनि भगान्तानि पञ्चदशमुहूर्त्तानि, तन्मध्ये यो गणनाक्रमेणाष्टमो मुहूर्त्तः, स कुतपः प्रोच्यते, तत्प्रयोजनं च श्राद्धे । यत्स्मृतिः- )
"दिवसस्याष्टमे भागे मन्दीभूते दिवाकरे ।
स कालः कुतपो यत्र पितॄणां दत्तमक्षयम् ॥१॥" इति ।
अन्यकर्मण्यष्टमो मुहूर्त्तोऽभिजिदाह्वः, श्राद्धकर्मणि च कुतप इत्यष्टममुहूर्त्तस्यैव नामान्तरम् । द्वे श्राद्धकालस्य ॥
१निशा २निशीथिनी ३रात्रिः ४शर्वरी ५क्षणदा ६क्षपा ॥१४१॥
७त्रियामा ८यामिनी ९भौती १०तमी ११तमा १२विभावरी ।
१३रजनी १४वसतिः १५श्यामा १६वासतेयी १७तमस्विनी ॥१४२॥
१८उषा १९दोषे२०न्दुकान्ता
१ निशानं निशा, सर्वव्यापाराणां तनूकरणम् । निपूर्वात् 'शो तनूकरणे' (दि.प.अ.) अस्माद् 'आतश्चोपसर्गे'३।१।१३६।। इति भावेऽङ्, तद्योगाद् अर्शआद्यच् । (अथवा नितरां श्यति तनूकरोति व्यापारान् इति निशा । 'आतश्चोपसर्गे'३।१।१३६॥ कः) । यद्वा नेशन्ति समाहितमनस्का भवन्त्यस्यामिति । 'णिश समाधौ' (भ्वा.प.से.), 'इगुपधज्ञा-३।१।१३५॥ इति कः, अजादित्वाट्टाप् । पृषोदरादित्वाद् निट् इति हलन्तापि। "गुणसन्धी पुंसि निट् [च] श्यामा तुङ्गी तमा तमी" इति नाम निधानम् । २ नियतं शेरते लोका अत्रेति निशीथः । ('शीङ् स्वप्ने (अ.आ.से.), 'निशीथगोपीथा-'(उणा-१६६) इति थक्) । सोऽस्यामस्ति निशीथिनी। 'अत इनिठनौ'५।२।११५॥ इतीनिः, 'ऋन्नेभ्यः-४।१।५॥ इति ङीप् । ३ राति ददाति जनेभ्यः सुखमिति रात्रिः। 'रा लादाने' (अ.प.अ.), 'रशदिभ्यां त्रिप्' (उणा-५०७) इति त्रिप् । यद्वा 'रमु क्रीडायाम्' (भ्वा.आ.अ.), अस्मादन्तर्भूतण्यर्थाद् बाहुलकात् त्रिप्रत्ययः, मकारस्य चाकारः । रमयति भूतानि नक्तञ्चारीणि, उपरमयति दिवाचारीणि स्वव्यापारेभ्य इति वा रात्रिः । 'कृदिकारात्-'(गणसू-४।१।४५॥) इति ङीषि रात्री च । ''रात्री रात्रिस्तमस्विनी" इति शब्दार्णवः । ४ शृणाति चेष्टाः, रात्रौ हि स्वस्वव्यापारेभ्य उपरमन्ते जना इति । 'शॄ हिंसायाम्' (क्र्या.प.से.), 'कॄगॄशॄवृ[ञ्]चतिभ्यष्ट्वरच्'(उणा २७९), टित्त्वात् ङीष् (ङीप्) शर्वरी, तालव्यादिः । पृषोदरादित्वाद् दीर्घादिरपि । "शार्वरी शर्वरी शर्वा (शर्या)" इति शब्दार्णवः । शृणाति दिनव्यापारानिति वा । "शॄ हिंसायाम्' (क्र्या.प.से.) अस्माद् 'अन्येभ्योऽपि दृश्यते'३।२।७५॥ इति वनिपि, 'वनो र च'४।१।७॥ ङीप्, रश्चान्तादेशः । ५ क्षणमव्यापारसुखं ददाति क्षणदा । 'डुदाञ् दाने' (जु.उ.अ.), आतोऽनुपसर्गे कः'३।२।३॥, 'आतो लोप इटि च'६४।६४॥ इत्यालोपः । "क्षणमवसरं भोगिनां ददाति"[अम.क्षीर.१।३।४॥] इति स्वामी । ६ (क्षपयति वेशं क्षपा । 'क्षै क्षये'(भ्वा.प.अ.) अस्माण्ण्यन्ताद् मितः पचाद्यच्) । क्षप्यते सूर्याचारेण, क्षपयति चेष्टा वा क्षपा । 'क्षप प्रेरणे' (चु.उ.से.), पचाद्यच्, भिदादित्वादङ् वा, क्षपा प्रथमस्वरादिः । 'क्षिप प्रेरणे' (दि.प.अ., तु.उ.अ.) इत्यस्य धातोर्यदा, तदा तृतीयस्वरादिरपि ॥१४१॥ ७ आद्यन्तयोरर्द्धयामयोश्चेष्टाकाल-त्वेन दिनवत्त्वात्, दिनवद् दिनव्यवहाराच्च त्रयो यामा यस्यां सा त्रियामा । ८ कार्यानर्हत्वान्निन्दिता यामा अस्यां यामिनी । अत्र निन्दायाम् 'अत इनिठनौ'५।२।११५॥ इतीनिः, 'ऋन्नेभ्यः-४।१।५॥ इति ङीप् । यौगिकत्वाद् यामवती च । ९ भूतानामियं भौती । 'तस्येदम् '४।३।१२०॥ इत्यण्, 'टिड्ढाणञ्-'४।१।१५॥ इत्यादिना ङीप्, भूतानां रात्रिचरत्वात् । १० ताम्यन्त्यस्यां चक्रवाकाः तमी । 'तमु ग्लानौ' (दि.प.से.), 'इन् सर्वधातुभ्यः'(उणा-५५७) इतीन्, 'कृदिकारात्-'(गणसू ४।१।४५॥) इति ङीष् । ११ पचाद्यचि, टापि तमा इत्यपि । तथा च विदग्धमुखमण्डनम्-"हारा महादेवरता तमातः" इति । "तमीत्यमूलम्, तमेत्येव पाठः" इति सुजातोकादयः, परं तदयुक्तम्, "स तमी (तमीं) तमोभिरभिगम्य[त]ताम्"[शिशुपालवधम्, सर्गः-९, श्लो.-२३] इति माघदर्शनात् । "नामनिधाने द्वयोरप्युपादानात् पाठद्वयमेव न्याय्यम्'' इति तु कौमुदी । "[वयं तु] क्षीरस्वामी(मि)सर्वधरादिभिस्तु तमीतीकारान्तपाठ एव स्वीकृत इति, तमीतीकारान्त एव मूलपाठः [इत्याचक्ष्महे]" [पदचन्द्रिका, कालवर्गः, श्लो.-१०७] इति बृहस्पतिः । १२ वृणाति 'वृञ् (वॄ) आच्छादने ' (क्र्या.उ.से.) इत्यतः पचाद्यजन्तात् 'पिप्पल्यादयश्च'(गणसू.-४।१।४१॥) इति ङीप् (ङीष्) वरी । विभानं विभा, प्रभावत्, विभाया वरी आच्छादिका विभावरी । यद्वा 'भा दीप्तौ' (अ.प.अ.), नक्षत्रादिभिर्विशेषेण भातीति, 'आतो मनिप्क्वनिप्वनिश्च'३।२।७४॥ इति क्वनिबन्ताद् 'वनो र च'४।१।७॥ इति ङीप् विभावरी । १३ रजन्ति रागं प्राप्नुवन्ति रागि-
णोऽत्रेति,, रञ्जयति तमसा वा रजनी । 'रञ्ज रागे' (भ्वा.उ.अ.), 'क्षिपेः किच्च'(उणा--२६४) इति चकाराद् रञ्जेरप्यनिः, कित्त्वान्नलोपः, 'कृदिकारात्' (गणसू.-४।१।४५॥) इति ङीष् । ङीब- (ङीष)भावे रजनिरपि । १४ वसत्यस्यां तमः, वसन्त्यस्यां जना वा वसतिः । 'वस निवासे' (भ्वा.प.अ.), वहिवस्यर्तिभ्यश्चित्'(उणा-५००) इति अतिप्रत्ययः । १५ श्यायते गच्छति शनैः शनैरिति श्यामा । 'श्यैङ् गतौ' (भ्वा.प.अ.), 'इषियुधीन्धिदसिश्याधूसूभ्यो मक्'(उणा-१४२), 'आदेच उपदेशेऽशिति'६।१।४५॥ इत्यात्वम्, ततष्टाप् । श्यामगुणयोगाद्वा श्यामा । १६ वसतौ साधुः वासतेयी । 'पथ्यतिथिवसतिस्वपतेर्ढक्' ४।४।१०४॥, 'आयनेयीनीय्'७।१।२॥ इत्यादिना ढस्य एयादेशः, 'टिड्ढाणञ्-'४।१।१५॥ इत्यादिना ङीप् । १७ तमोयोगात् तमस्विनी । 'अस्मायामेधास्रजो विनि:'५।२।१३१॥ इति विनिः, 'ऋन्नेभ्यो ङीप्'४।१।५॥ ॥१४२॥ १८ ओषति दहति अहःक्लेशमिति उषा । 'उष दाहे' (भ्वा.प.से.), 'इगुपधज्ञा-'३।१।१३५॥ इति कः, टाप् । उषेत्यव्ययमपि । १९ दुष्यत्यस्यां दृष्टिः दोषा । 'दुष वैकृत्ये' (दि.प.अ.), पचाद्यच्, 'अजाद्यतष्टाप्'४।१।३।। दोषाव्ययमपि । २० इन्दोः कान्ता इन्दुकान्ता । सामान्येन विंशतिः रात्रेः । शेषश्चात्र -
"निशि चक्रभेदिनी ॥
निषद्वरी निशीथ्या निट् (निड्) घोरा वासरकन्यका ।
शताक्षी राक्षसी याम्या घृतार्चिस्तामसी तमिः ॥१॥
शार्वरी क्षणिनी नक्ता पैशाची वासुरा उमा" [शेषनाममाला २।१८-२०॥] ।
नक्तमव्ययम् । तुङ्गी देश्याम, संस्कृतेऽपि॥
अथ १तमिस्रा दर्शयामिनी ।
१ तमांसि विद्यन्तेऽस्यां तमिस्रा । 'ज्योत्स्नातमिस्रा-'५।२।११४॥ इति साधुः, दन्त्यरेफोपधोऽयम् । दर्शस्य यामिनी रात्रिः दर्शयामिनी । "तमिस्रा तामसी रात्रिः"[अमरकोषः १।४।५॥] इत्यमरः । "तमिस्रा तु दर्शरात्रिर्ज्योत्स्ना स्यात् पूर्णिमा निशा" इति शब्दार्णवः । "तामसी रात्रिमात्रेऽपि'' इति कौमुदी । एकममाव-स्यारात्रेः । "अन्धकाररात्रिनामेदम्" इत्यपरे ॥
१ज्योत्स्नी तु पूर्णिमारात्रिः
१ ज्योत्स्ना चन्द्रिकाऽस्त्यस्यां ज्योत्स्नी । 'प्रज्ञादिभ्यश्च' ५।४।३८॥ इत्यण्, 'तद्धितेष्वचामादेः'७।२।११७॥ इति वृद्धिः, 'टिड्ढाणञ्-'४।१।१५॥ इत्यादिना ङीप् । पूर्णिमाया रात्रिः पूर्णिमारात्रिः इति षष्ठीतत्पुरुषः । एकं पूर्णिमाया रात्रेः । "उद्योतयुक्ताया रात्रेः" इत्यपरे । यन्महेश्वरः "ज्योत्स्नी चन्द्रिकयान्विता' इति । ज्योत्स्नेत्याबन्तोऽप्ययम्, वृद्धिहीनश्च । "ज्योत्स्ना सचन्द्रनक्षत्ररात्रौ चन्द्रातपेऽपि च"[विश्वप्रकाशकोशः, नान्तवर्गः, श्लो.-२२] इति । शाश्वतोऽपि "ज्योत्स्ना ज्योतिष्मती रात्रिर्योत्स्ना चन्द्रमसः प्रभा"[शाश्वतकोशः, श्लो.-१९२] इति ॥
गणरात्रो निशागणः ॥१४३॥
१ इह गणशब्द एकवचनान्तः। "बहुत्वसंख्यावचनः" इति 'बहुगण-'१।१।२३॥ इत्यत्रेन्दुमित्रः । रात्रीणां गणो गणरात्रः । राजदन्तादित्वात् परनिपातः । 'बहुगणवतु-'१।१।२३॥ इति संख्यात्वे, 'अहःसर्वैकदेश-'५।४।८७॥ इत्यादिनाऽच् गणरात्रः, पुंक्लीबलिङ्गः। "क्लीबत्वमत्र प्रमादः, 'रात्राह्नाहाः पुंसि'२।४।२९॥ इति पुंस्त्वप्राप्तेः" इत्येके । "प्राप्तमपि पुंस्त्वं लोकाश्रयत्वान्न भवति" इति सर्वानन्दः। "भवति नपुंसकलिङ्गयोगः संख्यापूर्वस्य रात्रिशब्दस्य" इति वररुचिवचनात्, गणशब्दस्य च संख्यात्वात् क्लीबत्वसम्भवात् ।"तथा च नपुंसकेऽमरकोषेऽप्युक्तं 'रात्रं प्राक् संख्ययान्वितम्'[अमरकोषः ३।५।२५॥] इति कौमुदी । अन्येऽप्याहुः "गणानां रात्रीणां समाहार इति द्विगौ कृते समासावयवाः समासान्ता इत्यकारान्तोत्तरपदत्वाभावादकारान्तोत्तरपदो द्विगुः स्त्रियां
भाष्यते" इति । "स्त्रीत्वाभावे 'स नपुंसकम्' २।४।१७॥ इति क्लीबत्वं प्राप्तं बाधित्वानेन पुंस्त्वे प्राप्ते पात्रादित्वात् क्लीबत्वम्" इति मिश्राः । निशागणो रात्रिसमूह इत्यर्थः । एकं रात्रिसमूहस्य । "त्रिणि रात्रि,, च्यारि रात्रि, दश रात्रि' इति भाषा ॥१४३॥
१पक्षिणी पक्षतुल्याभ्यामहोभ्यां वेष्टिता निशा ।
१ वर्तमानदिवसागामिदिवसयोः पक्षयोरिव मध्ये या वर्तमाना रात्रिस्तस्या नामैकं पक्षिणी । उभयाह्नी पक्षाविव स्त अस्या इति पक्षिणी । 'अत इनिठनौ'५।२।११५॥ इतीनिः। पक्षशब्दो मासार्द्धदेहाङ्गयोर्वाचकः । अत्र निशेत्युपलक्षणम्, तेनागामिवर्तमाननिशायुक्तो दिवसोऽपि पक्षीत्याहुः॥
१गर्भकं रजनीद्वन्द्वम्
१ गर्भयति गर्भकम् । ण्वुल् । रजन्या रात्रेर्द्वन्द्वं रजनीद्वन्द्वम् । एकं रात्रिद्वयस्य ॥
प्रदोषो यामिनीमुखम् ॥१४४॥
१ प्रारब्धा दोषास्मिन्निति प्रदोषः । यद्वा 'दुष वैकृत्ये' (दि.प.अ.), अच्, टाप् । प्रारम्भो दोषायाः प्रदोषः, प्रादिसमासो वा । प्रारम्भो दोषाया यत्र इति, 'एकविभक्तिश्च'१।२।४४॥ इत्युपसर्जनत्वे 'गोस्त्रियोरुपसर्जनस्य'१।२।४८॥ इति ह्रस्वत्वम् । दोषाशब्दः स्त्रियाम् । यामिन्या रात्रेर्मुखं प्रारम्भः यामिनीमुखम् । एकं रात्रिमुखस्य । [शेषश्चात्र-"दिनात्ययः प्रदोषे स्यात्"] [शेषनाममाला २।२०] ॥१४४॥
१यामः २प्रहरः
१ याति गच्छति यामः । 'या प्रापणे' (अ.प.अ.), 'यातेर्मक्' इति मक् । यद्वा यच्छति उपरमति रात्रिरहश्चानेनेति यामः । 'यमु उपरमे' (भ्वा.प.अ.), घञ् । २ प्रह्रियते ताड्यतेऽस्मिन् कालसूचकं वाद्यमिति प्रहरः । प्रपूर्वः 'हृञ् हरणे' (भ्वा.उ.अ.), 'पुंसि संज्ञायाम्-'३।३।११८॥ इति घः । द्वे प्रहरस्य ॥
१निशीथ२स्त्वर्धरात्रो ३महानिशा ।
१ नियतं शेरते लोका अत्रेति निशीथः । 'शीङ् स्वप्ने (अ.आ.से.), 'निशीथगोपीथावगीथाः'(उणा-१६६) इति थकि प्रत्यये साधुः । अत एव कात्यः "निशीथं सुप्तजनम्" आह । २ अर्द्धं रात्रेः अर्धरात्रः । 'अहःसर्वैकदेश-'५।४।८७॥ इत्यादिनाच् । ३ महती चासौ निशा च महानिशा, प्राप्तप्रकर्षकत्वात् । त्रीणि अर्द्धरात्रस्य ॥
१उच्चन्द्र२स्त्वपररात्रः
१ उत्क्रान्तश्चन्द्रोऽस्मिन् उच्चन्द्रः । २ रात्रेरपरो भागः अपररात्रः । 'अहःसर्वैकदेशसंख्यातपुण्याच्च रात्रे:'५।४।८७॥ इति एकदेशेऽच्, 'यस्येति च'६।४।१४८॥, 'रात्राह्नाहाः पुंसि'२।४।२९॥ इति पुंस्त्वम् । द्वे पाश्चात्यरात्रेः । 'पाछिली रात्रि' इति भाषा ॥
१तमिस्रं २तिमिरं ३तमः ॥१४५॥
४ध्वान्तं ५भूच्छाया६न्धकार ७तमसं सम८वा९न्धतः ।
१ तमोऽस्याऽस्ति तमिस्रम् स्त्रीक्लीबलिङ्गः, दन्त्यसकारवान् । 'ज्योत्स्नातमिस्रा-'५।२।११४॥ इत्यादिना निपातनात् साधुः । २ तिम्यति तिमिरम्, पुंक्लीबलिङ्गः । 'तिम ष्टिम आर्दीभावे' (दि.प.से.), 'इषिमदिमुदिखिदिच्छिदिभिदिमे(मि)दिचदितिमिमिहिमुहिमुचिरुचिरुधिशुषिबधिभ्यः किरच्'(उणा-५१) । ३ ताम्यन्त्यनेन तमः । 'तमु ग्लानौ', '-असुन्'(उणा-६२८) इत्यसुन् । तमशब्दोऽकारान्तोऽपि ॥१४५॥ ४ ध्वन्यते सर्वरोगहरतयेति ध्वान्तम् । 'ध्वन शब्दे' (भ्वा.प.से), 'क्षुब्धस्वान्तध्वान्तलग्नम्लिष्ट-'७।२।१८॥ इत्यादिना साधुः । पुंक्लीबलिङ्गोऽयम् । ५ भुवः पृथिव्याश्छाया भूच्छाया, पुराणे भूगुणश्रुतेः । 'विभाषा सेनासुराच्छाया-'२।४।२५॥ इत्यादिना क्लीबत्वे भूच्छायं च । ६ अन्धं करोति अन्धकारम्, पुंक्लीबलिङ्गः। 'डुकृञ् करणे' (त.उ.अ.), 'कर्मण्यण्'३।२।१॥, 'अचो ञ्णिति'७।२।११५॥ इति वृद्धिः । ७-९ समवान्धेभ्यस्तमसमिति योज्यते, सङ्गतं तम इति सन्तमसम्, अवगतमवहीनं वा तमः अवतमसम्, अन्धं करोति अन्धयति, अन्धयति तदन्धम्, तच्च तमश्च अन्धतमसम् 'अवसमन्धेभ्यस्तमसः'५।४।७९॥ इत्यच्समासान्तः । बाहुलकाद् दीर्घत्वे अन्धातमसमित्यपि । अमरस्तु "ध्वान्ते गाढेऽन्धतमसं क्षीणेऽवतमसं तमः विष्वक्सन्तमसम्"[अमरकोषः१।८।३॥] इति विशेषमाह । नव अन्धकारस्य ॥
शेषश्चात्र –
"ध्वान्ते वृत्रो रजोबलम् ॥
रात्रिरागो नीलपङ्को दिनाण्डं दिनकेसरः ।
खपरागो निशाचर्म वियद्भूतिर्दिगम्बरः॥१॥" [शेषनाममाला २।२०-२१] ॥
तुल्यनक्तन्दिने काले १विषुवद् २विषुवं च तत् ॥१४६॥
१ तुल्ये समे नक्तन्दिने यस्मिन् काले स तुल्यनक्तन्दिनः, तत्र । विषुवद् विषुर्नाम मुहूर्त्तः, सोऽस्यास्ति विषुवत्, पुंक्लीबलिङ्गः । यद्वैजयन्ती "पुरा(पुरी) तन्महिमा हेम विषुवत् कर्म लोम दोः"[वैजयन्ती ८।९।३१॥] नृषण्ढलिङ्गः । २ विषुरस्यास्ति विषुवम् । विषु साम्येऽव्ययम्, तदस्यास्तीति वा । उभयत्र ॥ 'केशाद्वोन्यतरस्याम्'५।२।१०९॥ अत्र सूत्रे 'अन्येभ्योऽप्युपसंख्यानम्'(वा-५।२।१०९॥) इत्युपसंख्यानाद् वप्रत्ययः । ''विषुवान् समरात्रिवासरः कालः" इति पुंस्काण्डे वोपालितः । ''विषुवोऽप्यत्र" इति लोमादि सूत्रे रक्षितः । तच्च मेषतुलयोः सङ्क्रान्त्योर्भवति । द्वे सदृशरात्रिदिनकालस्य । 'विषुवती' इति भाषा ॥१४६॥
पञ्चदशाहोरात्रः स्यात् १पक्षः
१ पञ्चदशसंख्याका अहोरात्रा अस्मिन्निति पञ्चदशाहोरात्रः । पचति भूतानि पक्षः । 'डुपचष् पाके' (भ्वा.उ.अ.), 'वृ(वॄ)तॄवदिहनिकमिकषियुमुचिभ्यः सः'(उणा-३४२) इति बाहुलकात् सः । (पक्ष्यत इति वा । 'पक्ष परिग्रहे '(चु.उ.से.), कर्मणि घञ्) । क्षपति कालमिति वा । 'क्षप क्षये', पचाद्यच्, पृषोदरादित्वाद् वर्णविपर्ययः । एकं पक्षस्य । 'पखवाडा' इति भाषा ॥
स बहुलोऽसितः ।
१ स इति पक्षः असितः कृष्णः, बंहते वर्द्धते तमोऽस्मिन्निति बहुलः । 'बंहि वृद्धौ' (भ्वा.प.से.), 'बंहेर्नलोपश्च'(उणा-२९) इति उलच् । एकं कृष्णपक्षस्य ।।
शेषश्चात्र -
"पक्षः कृष्णः सितो द्वेधा कृष्णो निशाह्वयोऽपरः
शुक्लो दिवाह्वयः पूर्वः'' [शेषनाममाला २।२२] ॥
अथ विशेषेणाह –
१ तिथिः पुनः २कर्मवाटी
१ अतति सततं गच्छति तिथिः, पुंस्त्रीलिङ्गः । 'अत सातत्यगमने' (भ्वा.प.से.), 'ऋतन्यञ्जि-' (उणा-४४२) इत्यादिना इथिन्, पृषोदरादित्वाद्धातोरकारलोपः । तन्यते षष्ठिघटिकाभिरिति वा । 'तनु विस्तारे' (त.उ.से.), 'तनोते(तने)र्डित्'(हैमोणा-६७४) इतीथिन् । २ कर्मणां कार्याणां वाटी (वाटीव) कर्मवाटी, तत्प्रतिबद्धत्वात् तेषाम् । सामान्यतो द्वे तिथेः ॥
अथ विशेषतः प्राह –
१प्रतिपत् २पक्षतिः समे ॥१४७॥
१ प्रतिपद्यतेऽङ्गीक्रियते पक्षस्याऽऽद्यतया, प्रतिपद्यते वाऽस्यां चन्द्रस्य क्षय उदयो वेति प्रतिपद्, स्त्रीलिङ्गः । 'पद गतौ' (दि.आ.अ.), सम्पदादित्वात् क्विप्, दकारान्तः शब्दः । "प्रतिपद्यत उपक्रम्यते मासादिरनय''[अम.क्षीर.१।३।१॥] इति स्वामी । २ पक्षस्य मूलं प्रारम्भः पक्षतिः, स्त्रीलिङ्गः । 'पक्षात् ति:' ५।२।२५॥ इति तिप्रत्ययः । कृदिकारात्-'(गणसू-४।१।४५॥) इति ङीषि पक्षती च । द्वे प्रतिपदः ॥१४७॥
१पञ्चदश्यौ २यज्ञकालौ ३पक्षान्तौ ४पर्वणी अपि ।
१ पञ्चदशानां तिथीनां पूरण्यौ पञ्चदश्यौ । 'तस्य पूरणे डट्'५।२।४८॥ इति डट्, डित्त्वाट्टिलोपः, टित्त्वात् 'टिड्ढाणञ्-'४।१।१५॥ इत्यादिना ङीप् । २ यज्ञस्य कालौ यज्ञकालौ । यच्छ्रुति: "दर्शपौर्णमासीभ्यां मृ(मि)ष्टान्नेन यजेत" इति । ३ पक्षस्यान्तौ प्रान्तौ पक्षान्तौ । ४ पूर्यन्ते पितरोऽनयोरिति पर्वणी । (पॄ पालनपूरणयोः' (जु.प.से.), 'स्नामदिपद्यर्त्तिपॄशकिभ्यो वनिप्'(उणा-५५२) ) । चत्वारि यागकालस्य ॥
१. वैजयन्त्यां तु "सक्तुः परीतन्महिमा कर्म पर्व च लोम दोः" इति दृश्यते, ८।९।३१॥, पृ.२२२ ।। २. द्र. पदचन्द्रिका, भा-१, कालवर्गः, शो ११६, पृ.१४९, रामाश्रमी १४।१४॥, पृ.६१ ॥ ३. '-रात्रिकाल-' इति२ ॥ ४. उणादिगणसूत्रादत्र 'युमुचि' इत्यधिकपाठो दृश्यते ॥ ५. कोष्ठान्तर्गतपाठः १प्रतावेव दृश्यते ॥६. क्षीरतरङ्गिण्यादौ क्षयार्थेऽयं धातुर्न दृश्यते ॥ ७. 'बंहि-' इति१.२॥ वस्तुतः 'लबिंद्योनलोपश्च' इत्युणादिगण
च अनेन सूत्रेण इसिप्रत्ययः, न तु उलच, तेन बाहुलकादुलजेव वक्तव्यः, रामाश्रभ्यामपि बाहुलकादुलच् कृत्वा बहुलशब्दः साधितः ॥ ८. 'निशाह्वयः परः' इति२.३॥ ९. 'पक्षसाद्यतया' इति३॥ १०. '-द्यतेऽस्यां' इति३॥ ११. 'उपक्रम्यतेऽनया' इति अम.क्षीर. टीकार प, पृ.३१॥ १२. द्र. स्वोपज्ञटीका २।१४८ ॥, पृ.३३ ॥ १३. कोष्ठान्तर्गतपाठः १प्रतावेव दृश्यते ॥
त१त्पर्वमूलं भूतेष्टापञ्चदश्योर्यदन्तरम् ॥१४८॥
१ भूतेष्टा च पञ्चदशी च भूतेष्टापञ्चदश्यौ, तयोर्यदन्तरं तत्, पर्वणोर्मूलं पर्वमूलम् इत्युच्यते । भूतेष्टा चतुर्दशी, पञ्चदशीशब्दः पूर्णिमाया अमावास्यायाश्च नामेत्यर्थः ॥१४८॥
स १पर्व सन्धिः प्रतिपत्पञ्चदश्योर्यदन्तरम् ।
१ प्रतिपत्पञ्चदश्योर्यदन्तरं मध्यम्, स सन्धिः श्लेषः पर्व उच्यते । प्रतिपच्च पञ्चदशी च प्रतिपत्पञ्चदश्यौ, तयोः । अत्र पञ्चदशीति द्वयोरपि पूर्णिमामावास्ययोर्ग्रहणमुक्तम् । "प्रतिपत्पञ्चदश्योस्तु सन्धिः पर्व" इति दुर्गः । प्राच्यास्तु पर्वसन्धिरिति चतुरक्षरं नामाख्यन् । एकं प्रतिपत्पञ्चदशीसन्धेः ॥
१पूर्णिमा २पौर्णमासी
१ पूरणं पूर्णम् । 'पुरी आप्यायने' (दि.आ.से.), भावे क्त:, 'रदाभ्यां निष्ठातो न:-'८।२।४२॥, ततो 'भावप्रत्ययान्तादिमप् वक्तव्यः'(वा-४।४।२०॥) इति मपि, टाप् । (पूर्णेन निर्वृत्ता पूर्णिमा) । यद्वा पूरणं पूर्णिः । 'पॄ पालनपूरणयोः' (जु.प.से.), 'स्त्रियां क्तिन्'३।३।९४॥, 'ल्वादिभ्यः क्तिन्निष्ठावद्'(वा-३।३।९४॥) इति नत्वम्। पूर्णिं मिमीते पूर्णिमा । 'माङ् माने' (जु.आ.अ.), 'आतोऽनुपसर्गे कः'३।२।३॥ इति स्वामी । २ मीयते तिथीनां क्षयो वृद्धिश्चानेनेति, 'मा माने' (अ.प.अ.) अस्मादौणादिकोऽसिप्रत्ययः । माश्चन्द्रः संपूर्णो यस्यां सा पौर्णमासी तिथिः । 'सास्मिन् पौर्णमासी'४।२।२१ ॥ इति निपातनादण् । अथवा पूर्णो माः पूर्णमाः, तस्येयं तिथिः, 'तत्र भवः'४।३।५३ ॥ इत्यणि पौर्णमासी । यद्वा पूर्णो मासो (विद्यतेऽस्यामिति । 'पूर्णमासादण् वक्तव्यः') (वा-४।२।३५॥) इत्यण्, 'टिड्ढाणञ्-'४।१।१५ ॥ इत्यादिना ङीप् । सामान्यतः पूर्णिमाया द्वे ॥
सा राका पूर्णे निशाकरे ॥१४९॥
१ सा पौर्णमासी सूर्यास्तानन्तरं वर्तमाना पूर्णे निशा करे दृष्टे सति राका प्रोच्यते । राति ददाति सुखमानन्दं वा राका। 'रा दाने' (अ.प.अ.), 'कृदाधारार्चिकर्तिभ्यः कन्'(उणा-३२०) इति कन्, अजादित्वाट्टाप, बाहुलकात् 'केऽणः'७।४।१३॥ इति न ह्रस्वः । यस्यां पूर्णिमायां सूर्यास्तानन्तरं पूर्णश्चन्द्र उदेति, तस्या एकम् ॥१४९॥
कलाहीने १त्वनुमतिः
१ अत्रापि पूर्वस्मात् पादात् सेत्यनुकृष्यते, सा पूर्णिमा उदयकाले प्रतिपद्योगात् कलयो हीने कलाहीने चन्द्रे अनुमतिः उच्यते । अनुमन्यतेऽनुमतिः । 'मनु(मन) ज्ञाने' (दि.आ.अ.), 'स्त्रियां क्तिन्'३।३।९४॥, 'अनुदात्तोपदेश-'६।४।३७॥ इत्यनुनासिकलोपः । "चतुर्दशीविद्धा पौर्णमासी अनुमतिः" इत्यन्ये ॥
१मार्गशीर्ष्या२ग्रहायणी ।
१ मृगशीर्षेण चन्द्रयुक्तेन युक्ता पौर्णमासी मार्गशीर्षी । 'नक्षत्रेण युक्तः कालः'४।२।३॥ इति तृतीयान्तादण्, 'टिड्ढाणञ्'४।१।१५॥ इत्यादिना ङीप् । २ अग्रे हायनो वर्षमस्या आग्रहायणी, मार्गशीर्षादारभ्य वत्सरप्रवृत्तेः । 'आग्रहायण्यश्वत्थाट्ठक्'४।२।२२॥ इति निर्देशादण्, 'पूर्वपदात् संज्ञायामगः' ८।४।३॥ इति णत्वम् । द्वे मार्गशीर्षीपूर्णिमायाः ॥
१अमा२ऽमावस्य३मावस्या ४दर्शः ५सूर्येन्दुसङ्गमः ॥१५०॥
६अमावास्या७ऽमावासी च
१ अमा इति अमावास्याशब्दैकदेशोऽयं भीमवत् । न विद्यते माश्चन्द्रमा अस्यामिति वा, पृषोदरादित्वात् । २ अमा सह वसतोऽस्यां चन्द्रार्काविति अमावसी । औणादिके अप्रत्यये गौरादित्वाद् ङीष्। ३ अमा सह वसतोऽस्यां चन्द्रार्काविति ॥
१. इतोऽग्रे १प्रतौ 'चन्द्रस्य पूर्तिः' इति दृश्यते ॥ २. इतोऽग्रे १प्रतौ 'पूर्णेन निवृत्ता पूर्णिमा । तेन निवृत्तमित्यर्थे ' इति दृश्यते ॥ ३. कोष्ठान्तर्गतपाठः १प्रतौ न दृश्यते ॥ ४. अस्य धातोः स्थाने २.३.४प्रतिषु पूरी आप्यायने' इति दृश्यते ॥ ५. 'ऋल्वादिभ्यः क्तिन्निष्ठावद् वाच्यः' इति १प्रतौ दृश्यते॥ ६. 'पूर्ण' इति२॥ ७. द्र. पदचन्द्रिका, भा-१, कालवर्गः, शो-११०, पृ.१४३ ।। ८. स्वामिकृतामरकोशटीकायां "पूर्णिं मिमीते पूर्णिमा, कः" इति दृश्यते, द्र. १३७॥, पृ.३३ ।। ९. 'पूर्णो' इति१॥ १०. कोष्ठान्तर्गतपाठस्थाने १प्रतौ '-ऽस्त्यस्यामिति पौर्णमासी । पूर्णमासादण् वक्तव्यः' इति दृश्यते ॥ ११. '-वर्तिभ्यः कन्' इति२.३.४॥ १२. 'अजाद्यतष्टाप्' इति१ ॥ १३. 'सूर्यास्तानन्तरं' इति १प्रतौ नास्ति ॥ १४. -कालप्रति-' इति२.३.४॥ १५. 'कलाया' इति३, 'कालया' इति२॥ १६. अत्र १प्रतावेवोट्टङ्किता टिप्पणी दृश्यते, सा चेयम्-"अत्र प्रज्ञाद्यण, 'पूर्वपदात्-'८४३ ॥ इति णत्वम् । आग्रहायणी पौर्णमासी । तद्योगान्नक्षत्रमपि तथा । यत्तु-'आग्रहाण्यश्वत्थाट्ठक् ४।२।२२ ॥ इति निर्देशात् स्वार्थेऽण, गौरादित्वाद् डीए, अणन्तादेव डीपि
ऽस्य पंवद्भावनिषेधार्थः, तेनाग्रहायणीभार्य इति सिद्ध्यति इति मकटः, तन्न, असिद्धान्तात् । न हि गौरादित्वं पंवद्भावप्रतिषेधार्थम, किन्तु ङीप(डीए)विधानार्थम् । न च पाठसामर्थ्यम्, तस्य स्वरभेदार्थत्वात् । न चोदात्तनिवृत्तिस्वरेण तदभावः । पाठ-सामर्थ्यादुदात्तनिवृत्तिस्वरस्यैव बाधसम्भवात् । अस्य गौरादित्वमप्रामाणिक इति सुवचत्वाच्च"[रामाश्रमी १।३।२३ ॥, पृ.४८] इति व्याख्यासुधाकारः । आचार्या अपि प्रज्ञाद्यणमेवाहुः" इति ॥१७. ३.४नास्ति ॥
अमावस्या । 'वस निवासे' (भ्वा.प.अ.), 'अमावस्यदन्यतर- स्याम्'३।१।१२२॥ इति वृद्ध्यभावपक्षे ण्यति प्रत्यये रूपं निपातितम् । ४ दृश्यते याज्ञिकैः दर्शः । 'दृशिर् प्रेक्षणे' (भ्वा.प.अ.), 'पुंसि संज्ञायां घः प्रायेण'३।३।११८॥ । 'दृश्येते उपलक्ष्येते चन्द्रार्कावत्रेति दर्शः' इत्यन्ये । दृश्यते चन्द्रोऽस्मिन्निति वा विपरीतलक्षणया । ५ सूर्येन्द्वोः सङ्गमोऽत्रेति सूर्येन्दुसङ्गमः । व्यधिकरणो बहुव्रीहिः ॥१५०॥ ६ अमा सह वसतोऽस्यां चन्द्रार्काविति अमावास्या । 'अमावस्यदन्यतरस्याम्' ३।१।१२२॥ इति ण्यति वृद्धिभावपक्षे निपातितम् । ७ अमा सह वसतोऽस्यां चन्द्रार्कौ इति अमावासी । औणादिकोऽप्रत्ययः बाहुलकाद् दीर्घता, गौरादित्वाद् ङीष् । "अमावस्या दर्शोऽमाऽमावसी च" इति रभसः, "अप्यमावास्यामावासी चामामास्यप्यमाव(म)सी" इति शब्दार्णवे चानेकरूपता ।
"अमानाम रवे रश्मिश्चन्द्र- लोकं प्रतिष्ठितः ।
तत्र सोमो वसत्यस्याममावास्या ततः स्मृता ॥१॥" इति स्मृतिः ।
सामान्यतोऽमावास्यायाः सप्त ॥
अथ विशेषेणाह –
सा नष्टेन्दुः १कुहुः २कुहूः ।
१ सा अमावास्या नष्टोऽदृश्य इन्दुरस्यां नष्टेन्दुः,उदयेऽमावास्यायोगान्नष्टचन्द्रकलाऽमावास्या कुहुः प्रोच्यते । कुहयते विस्मापयते कुहुः । 'कुह विस्मापने' (चु.आ.से.), 'मृगय्वादिभ्यश्च'(उणा-३७) इति कुः । तथा च "धेनूरुरज्जकुहुसरयुतनुकरेणवः स्त्रियाम्" इति विन्ध्यवासी । २ कुहयते विस्मापयते कुहूः, षष्ठस्वरान्तः । 'कुह विस्मपने' (चु.आ.से.), चुरादिः, अतः 'कृकमि(कृषिचमि)तनिधनिसर्जिखर्जिभ्यः कूः' (उणा-८१) इति "बाहुलकात् कुहेरपि" इति धातुप्रदीपः । यत्राऽमायां प्रभाते चन्द्रो न दृश्यते, तस्या द्वे ॥
दृष्टेन्दुस्तु १सिनीवाली
१ अत्रापि सेत्यनुकृष्यम्, साऽमावास्या चतुर्दशीयोगाद् दृष्टचन्द्रा सती सिनीवाली । सह एन विष्णुना वर्तते, सा लक्ष्मीस्तद्योगाद् व्रीह्यादित्वादिनिः, सिनी चन्द्रकला, (सा बालाल्पात्रेति गौरादिपाठाद् ङीष् । यद्वा सिनीं) वलति धारयतीति वा । 'वल धारणे', कर्मण्यणि सिनीवाली, ('स्त्रियाः पुंवद्-'६।३।३४॥ इत्यादिना न पुंवत्त्वम्, 'संज्ञापूरण्योश्च'६।३।३८॥ इति निषेधात्) । "सिनी सिता वाला चन्द्रकलाऽस्त्यस्याम्"[अम.क्षीर.१।३।९॥] इति स्वामी । दृष्टचन्द्रामावस्या एकम् ॥
१भूतेष्टा तु २चतुर्दशी ॥१५१॥
१ भूतानामिष्टा प्रिया भूतेष्टा । २ चतुर्दशानां तिथीनां पूरणी चतुर्दशी । 'तस्य पूरणे डट्'५।२।४८॥, टित्त्वात् 'टिड्ढाणञ्-'४।१।१५॥ इत्यादिना ङीप् । चतुर्दश्या द्वे ॥१५१॥
पक्षौ मासः
१ तौ शुक्लकृष्णपक्षौ मासः स्यात् । मीयतेऽनेन वर्षमिति मासः, पुंक्ली. । 'माङ् माने' (दि.आ.अ.), 'मासः (मः सः)'(दशपाद्युणादिः ९।२७॥) इत्युणादिसूत्रेण सप्रत्ययः। 'मासः (मः सः)' (दशपाद्युणादिः ९।२७॥) इति सूत्रे सानुवृत्तौ पुनः सग्रहणं कित्त्वाभावार्थम्, अन्यथा इत्वं स्यात्, अथवा निपातः । माश्चन्द्रस्तस्यायमिति वा । 'तस्येदम्'४।३।१२०॥ इत्यण् । एतच्चान्द्रेण मानेन, सौरादिमानैस्तु मस्यते परिमीय-तेऽनेन, असौ वेति मासः । 'मसी परिमाणे' (दि.प.से.), 'हलश्च'३।३।१२१॥ इति घञ् । पृषोदरादित्वाद्धलन्तोऽप्ययम् । ("तौ द्वौ वर्षांशकश्रामो वर्षा(ङ्)गमा अहर्गणः" इति नामनिधानम्) । द्विपक्षोऽपि । सामान्यत एकं मासस्य ।
शेषश्चात्र- "मासे वर्षांशको भवेत् । वर्षकोशो दिनमलः"
[शेषनाममाला २१२२-२३॥] ॥
अथ विशेषेणाह –
१वत्सरादि२र्मार्गशीर्ष ३सहः ४सहाः ।
५आग्रहायणिकश्च
१ वत्सरस्य वर्षस्यादिः वत्सरादिः । २ मृगशिरसा नक्षत्रेण युक्ता पौर्णमासी मार्गशीर्षी । मृगशिरःशब्दाद् 'नक्षत्रेण
युक्तः कालः४।२।३॥ इत्यण्, 'अचि-'६।१६२॥ इति शिरसः शीर्षादेशः । मार्गशीर्षी पौर्णमासी अस्मिन्निति मार्गशीर्षः । 'सास्मिन् पौर्णमासीति संज्ञायाम्'४।२।२१॥ इत्यण्, 'यस्येति च'६।४।१४८॥ । ३ सहते (लोकोऽस्मिन् शीतम्) इति सहः । 'षह मर्षणे' (भ्वा.आ.से.), पचाद्यच्, 'धात्वादेः षः सः'६।१।६४॥, अकारान्तोऽयम् । यथा "सहस्य प्रथमे मासि वाहयेद् दोषसञ्चयम्"[चरकसंहिता अ-७, श्लो.-४६] इति चरकः । ४ "मार्गपौषयोः प्राणिनां बलमुपचीयते" इति वैद्यकम् । ततः सहो बलमुपचितमस्मिन्नस्तीति सहाः, पुंसि, सकारान्तः । सहशब्दाद् 'मत्वर्थे मासतन्वोः'४।४।१२८॥ इति यत्, तस्य 'लुगकारेकाररेफाश्च वक्तव्याः'(वा-४।४।१२९॥) इति वा लुक् । अलुक्पक्षे तु सहस्यः पौषे रूढः । (यद्वा सहते लोकः शीतमस्मिन्निति सहाः । असुन्प्रत्ययः) । ५ आग्रहायणीयोगाद् आग्रहायणिकः । 'आग्रहायण्यश्वत्थाट्ठक्'४।२।२२॥ इति ठक्, 'ठस्येकः'७।३।५०॥, 'किति च'७।२।११८॥ इति वृद्धिः। ज्योत्स्नादित्वादणि 'आग्रहायणोऽपि' इति पुरषोत्तमः । मार्गोऽपि, मृगशिरा एव मृगः, तथा 'मृगशिरा मृगः' इति रुद्रकोषात्, तद्युक्ता पौर्णमासी मार्गी, ततः पूर्ववदणि मार्गः । मार्गशीर्षस्य पञ्च ॥
अथ १पौष२स्तैषः ३सहस्यवत् ॥१५२॥
१ पुष्येण युक्ता पौर्णमासी पौषी । 'नक्षत्रेण युक्तः कालः'४।२।३॥ इत्यण् । सा पौर्णमासी अस्मिन्नस्ति पौषः । 'सास्मिन् पौर्णमासीति संज्ञायाम्'४।२।२१॥ इत्यण् । २ एवं तैषः अपि । 'तिष्यपुष्ययोर्नक्षत्राणि यलोपो वाच्यः'(वा ६४।१४९॥) इत्युभयत्रापि यलोपः । ३ सहते लोकोऽस्मिन् शीतमिति सहः । 'षह मर्षणे' (भ्वा.आ.से.), असुन् । सहसि साधुः सहस्यः । 'तत्र साधुः'४।४।९८॥ इति यत् । यद्वा सहोऽस्मिन्नस्ति सहस्यः । सहःशब्दाद् 'मत्वर्थे मासतन्वोः'४।४।१२८॥ यत् । सहस्य इव सहस्यवत्, यथा सहस्यः पौषवाची तथा तैषोऽपीत्यर्थः । पौषस्य त्रीणि ॥१५२॥
१ माघ२स्तपाः
१ मघया नक्षत्रेण युक्ता पौर्णमासी माघी । सा पौर्णमासी अस्मिन्नस्ति माघः । 'सास्मिन्पौर्णमासीति संज्ञायाम्'४।२।२१॥ इत्यण् । २ तपोऽस्यास्ति तपाः, पुंक्लीबलिङ्गः । 'मत्वर्थे मासतन्वोः'४।४।१२८॥ इति यत्, तस्य लुक् । यद्वा तपति तपाः। 'तप सन्तापे' (भ्वा.प.अ.), असुन् । द्वे माघस्य ॥
१फाल्गुनस्तु २फाल्गुनिकस्तपस्यवत् ।
१ फलतीति फल्गुनी । 'फल निष्पत्तौ' (भ्वा.प.से.), 'फलेर्गुक् च'(उणा-३३६) इत्युनन्, ("फल्गुन्यौ ह्रस्वादी । फल्गुन्योः काले जात इति 'फल्गुनाषाढाभ्यां टानौ'(वा-४।३।३४॥) इति र(ट) प्रत्यये, अर्जुनेऽपि, ह्रस्वादिः" इति रूपरत्नाकरः) । "फल्गुनस्त्वर्जुने मासे नक्षत्रे फल्गुनी स्मृता" इति गोवर्धनः । (कातन्त्रोणादौ तु 'पिशुनफाल्गुनौ'(कातन्त्रोणा-१२१) इति वृद्धिं निपात्य फाल्गुनोऽर्जुने दृष्ट इति) । फल्गुनीभिर्युक्ता पौर्णमासी फाल्गुनी । फाल्गुनी पौर्णमासी अस्मिन् फाल्गुनः । 'विभाषा फाल्गुनीश्रावणीकार्तिकीचैत्री भ्यः' ४।२।२३॥ इति ठग्णौ । २ फाल्गुनकिः, अत्र ठक्, 'ठस्येकः'७।३।५०॥ ३ तपसि साधुः तपस्यः । तत्र साधुः'४।४।९८॥ इति यत् । त्रीणि फाल्गुनस्य । शेषश्चात्र- "फल्गुनालस्तु फाल्गुने" [शेषनाममाला २।२३॥] ॥
१चैत्रो २मधु३श्चैत्रिकश्च
१ "चित्रानक्षत्रेण युक्ता पौर्णमासी चैत्री । सा पौर्णमासी अस्मिन्नस्ति चैत्रः । 'सास्मिन् पौर्णमासीति-' ४।२।२१॥ इत्यण् । २ मन्यते सर्वत्र कामदेवोऽत्र मधुः, पुंसि । 'मन ज्ञाने' (दि.आ.अ.), 'फलिपाटिनमिमनिजनां गुक्पटि-
नाकिधतश्च'(उणा-१८) इति उः, धश्चान्तादेशः । यद्वा मधुर्वसन्तोऽत्रास्तीति मत्वर्थे 'मधोर्ञ च'४।४।१२९॥ इति [ञः], ञस्य वा लुकि मधुः । ३ चैत्री पौर्णमासी अस्मिन्नस्तीति चैत्रिकः। 'विभाषा फाल्गुनीश्रावणी(श्रवणा)कार्तिकीचैत्रीभ्यः'४।२।२३॥ इति ठक् । चैत्रस्य त्रीणि । शेषश्चात्र – "चैत्रे मोहनिकः कामसखश्च फाल्गुनानुजः" [शेषनाममाला २।२३॥] ॥
१वैशाखे २राध३माधवौ ॥१५३॥
१ वैशाखी पौर्णमास्यस्त्यस्मिन् वैशाखः । 'सास्मिन् पौर्णमासी-'४।२।२१॥ इत्यण्, तत्र । २ राधया नक्षत्रेण युक्ता पौर्णमासी राधी । सा पौर्णमासी अस्मिन्निति राधः । 'सास्मिन् पौर्णमासी-'४।२।२१॥ इत्यण् । ३ पुष्पगतं मध्वत्रास्ति माधवः । 'मधोर्ञ च'४।४।१२९॥ इति ञः, 'तद्धितेष्वचामादेः'७।२।११७॥ इत्यादिवृद्धिः, 'ओर्गुणः'६।४।१४६।। मधुरेव वा । 'प्रज्ञादिभ्यश्च'५।४।३८॥ इत्यण् । वैशाखस्य त्रीणि । ''वैशाखे तूच्छरः"[शेषनाममाला २।२४॥] इति शैषिकम् ॥१५३॥
१ज्येष्ठस्तु २शुक्रः
१ जयेष्ठया युक्ता पौर्णमासी ज्यैष्ठी । सास्मिन्नस्तीति ज्यैष्ठ इत्यण्द्वयं पूर्ववत् । 'संज्ञापूर्वको विधिरनित्यः'(परि-९४) इति वृद्ध्यभावे ज्येष्ठः इत्यपि । "ज्येष्ठो मासे च वृद्धे च ज्येष्ठा च गृहगोधिका'[त्रिकाण्डशेष: ३।३।१०७॥] इति त्रिकाण्डशेषः । वासरैर्वृद्धतमत्वादतिशयेन वृद्धो वा ज्येष्ठः । २ शोचन्ति पान्था अत्रेति शुक्रः, पुंन. । 'शुच शोके' (भ्वा.प.से.), 'ऋज्रेन्द्राग्र-वज्र-वप्र-कुप्र-चुप्र-क्षुर-खुर- भद्रोग्र-भेर-भेल-शुक्र-तीव्र-वर्णेरमाला:'(उणा-१८६) इति रन्प्रत्ययान्तः साधुः । यद्वा शुक् शोचनमस्त्यत्र शुक्शब्दाद् 'लुगकारेकाररेफाश्च वक्तव्याः'(वा-४।४।१२९॥) इति शुक्रः । ज्येष्ठस्य द्वे । शेषश्चात्र - "खरकोमलः ज्येष्ठामूलीयः" [शेषनाममाला २॥२४॥] ॥
अथा१ऽऽषाढः २शुचिः स्यात्
१ आषाढानक्षत्रेण युक्ता पौर्णमासी आषाढी । 'नक्षत्रेण युक्तः कालः'४।२।३॥ इत्यण् । सा पौर्णमास्यस्मिन्नस्ति आषाढः । 'सास्मिन् पौर्णमासीति संज्ञायाम्'४।२।२१॥ इत्यण् । "नक्षत्रे अषाढा इत्यव्युत्पन्नं मूर्धन्यवद्ध्रस्वादि'' इति 'श्रविष्ठा-'४।३।३४॥ आदिसूत्रे रक्षितः । मासे तु पृषोदरादित्वाद् द्वैरुप्यम्। (आषाढाभिराख्यात इति विग्रहे तु अषाढकोऽपि । आख्यातण्यन्तात् 'क्वुन् शिल्पिसंज्ञयोः'(उणा-१९०) ।) "स्यादाषाढे त्वषाढकः" इति शब्दार्णवः । "यद् रोहिणीयोगफलं तदेव सुतावषाढासहिते च चन्द्रे' इति वराहोक्तेर्नक्षत्रवाच्यपि ह्रस्वादिरस्ति । आशा दिशो ढौकत इति आशाढः, तालव्यमध्योऽपि । २ शोचन्ति पान्था अत्रेति शुचिः, पुंलिङ्गः । 'शुच शोके' (भ्वा.प.से.), 'इगुपधात् कित्'(उणा-५५९) इतीन्, स च कित् । आषाढस्य द्वे ॥
१श्रावणो २नभाः ।
३श्रावणिकः
१ ('श्रु श्रवणे' (भ्वा.प.अ.), 'बहुलमन्यत्रापि-'(उणा-२३६) इति युच् । श्रवणं नक्षत्रम्, श्रवणेन युक्ता रात्रिः श्रवणा, सा पौर्णमासी अस्मिन्निति विगृह्य 'विभाषा फाल्गुनीश्रवणाकार्तिकीचैत्रीभ्यः'४।२।२३॥ इत्यणि श्रावणः, मध्यव कारवान् । "स्त्रीपुंसयोर्ऋक्षभेदे श्रवणं श्रुतिकर्णयोः" इति रभसकोषात् । २ नभसो मेघाः सन्त्यत्रेति नभाः, पुंसि)। "न भासनं मेघच्छन्नत्वाद् अस्यास्तीति वा । 'भास दीप्तौ' (भ्वा. आ.से.), क्विबन्तः'' इति स्वामी । सहोवत् सकारान्तः।
"धनुर्धरे त्रिषु नभः क्लीबं व्योम्नि पुमान् घने ।
घ्राणश्रावणवर्षासु बिसतन्तौ पतद्ग्रहे ॥१॥"
१. "मधुशब्दान्मत्वर्थे बः प्रत्ययो भवति, चकाराद्यच्च । उपसंख्यानाल्लुक् च" इति काशिका, भा-३, ४।४।१२९ ॥, पृ.८०४॥ २. २.४ न दृश्यते ॥ ३. २.३.४प्रतिषु न दृश्यते ॥ ४. 'ज्येष्ठे' इति३॥ ५. त्रिकाण्डशेषे 'मासि' इति दृश्यते ॥ ६. 'पन्था' इति३.४॥ ७. 'पुनपुंसकः' इति३॥ ८. 'ऋजेन्द्राग्रवज्रविप्रकुब्रचुब्रक्षुरखुरभद्रोग्रभेरभेलशुक्रशुक्लगौरवन्त्रेरामाला:' इत्युणादिगणसूत्रम् ॥ ९. 'अषाढया नक्ष-' इति॥ १०. द्र. पदचन्द्रिका, भा-१, कालवर्गः, शो-११९, पृ.१५२॥ ११. कोष्ठान्तर्गतपाठः २.३.४प्रतिषु न दृश्यते ॥ १२. टीकासर्वस्वम्, भा-१, १४।१६॥, पृ.८६॥, पदचन्द्रिका, भा-१, कालवर्गः, श्रो-११९, पृ.१५२॥, रामाश्रमी १४१६॥, पृ.६२॥ १३. 'पन्था' इति३.४॥ १४. कोष्ठान्तर्गतपाठस्थाने १प्रतौ "श्रूयत इति नक्षत्रम् । 'श्रु श्रवणे'(भ्वा.प.अ.), 'बहुलमन्यत्रापि-'(उणा-२३६)इति युच् । श्रवणेन युक्ता पौर्णमासी श्रवणा । 'लुबविशेषे'४।२४। इति प्राप्तो लुप् यद्यपि 'पौर्णमास्यां नेष्यते' इत्युत्सर्गः, 'विभाषा फाल्गुनी-४।२।२३॥ इति लिङ्गात्, तथापि श्रवणशब्दादिष्यत एव, तत्रैव सूत्रे 'श्रवणा' इति निर्देशात् 'अबाधकान्यपि निपातनाति' इति श्रावणी' इत्यपि, ततः सा पौर्णमासी अस्मिन्निति विगृह्य विभाषा फाल्गुनीश्रवणाकार्तिकीचैत्रीभ्यः ४२॥२३॥ इत्यणि श्रावणः, न बभस्ति मेघच्छन् [-नत्वात्] नभाः पुंसि । 'भस दीप्तौ (जु.प.से.), क्विबन्तः" इति पाठो दृश्यते ॥ अत्र रामाश्रमी द्रष्टव्या, १४१६॥, पृ.६२॥१५. टीकासर्वस्वम्, भा-१,१।४।१६॥, पृ.८६॥, पदचन्द्रिका, भा-१, कालवर्गः, श्रो-११९, पृ.१५२॥१६. अम.क्षीरस्वामिटीकायां
"न भासनं मेघच्छन्नत्वादस्त्यस्य नभाः" इति दृश्यते, १३॥१६॥, पृ.३५॥ १७. 'पतद्ग्रहः' इति४॥
[मेदिनीकोशः, सान्तवर्गः, श्लो.-२६-२७]
इति मेदिनिः । नभ्यति हिनस्ति पान्थानिति वा नभाः । 'णभ हिंसायाम्' (दि.प.से.), असुन् । ३ श्रावणी पौर्णमास्यस्मिन्नस्ति श्रावणिकः । 'विभाषा फाल्गुनीश्रावणी-'४।२।२३॥ इति ठक्, 'ठस्येकः'७।३।५०॥, 'किति च'७।२।११८॥ इति वृद्धिः । श्रावणस्य त्रीणि ॥
अथ १नभस्यः २प्रौष्ठ३भाद्रपरः पदः ॥१५४॥
४भाद्रश्चापि
१ नभसि अभ्रे साधुः नभस्यः । 'तत्र साधुः'४।४।९८॥ इति यत् । २-३ प्रौष्ठभाद्राभ्यां परः पदशब्दो योज्यः, तेन प्रौष्ठपदी पौर्णमासी अस्मिन् प्रौष्ठपदः । एवं भाद्रपदः । उभयत्र 'सास्मिन् पौर्णमासी-'४।२।२१॥ इत्यण् ॥१५४॥ ४ भीमभामावद् भद्रया युक्ता पौर्णमासी भाद्री । सास्मिन्नस्तीति भाद्रः । 'सास्मिन् पौर्णमासी-'४।२।२१॥ इत्यण् । यद्वा भाद्रशब्दः भाद्रपदैकदेशवाची । चत्वारि भाद्रपदस्य ॥
१आश्विने २त्वाश्व३युजैषौ
१ आश्विनी पौर्णमास्यस्मिन् आश्विनः । 'सास्मिन् पौर्णमासीति संज्ञायाम्'४।२।२१॥ इत्यण्, [तत्र] । २ अश्वयुगश्विनी, ततः आश्वयुजी पौर्णमास्यस्मिन्नस्ति आश्वयुजः । 'सास्मिन् पौर्णमासी-'४।२।२१॥ इत्यण् । (पृषोदरादित्वाद् वा ह्रस्वादिरपि) । "आश्विनोऽश्वयुजश्चेषः" इत्यमरमालोक्तेः । ३ एषणं इट् यात्रा, सास्मिन् मासे जिगीषूणामस्ति इषः, ह्रस्वादिर्मूर्धन्योपधः । 'इष गतौ' (दि.प.से.), 'लुगकार-'(वा ४।४।१२९॥) इत्यकारः । यद्वा इच्छन्ति महोत्सवार्थिनोऽमुमिति । 'इष इच्छायाम्'(तु.प.से.), 'इगुपधज्ञाप्री-'३।१।१३५॥ इति कः । "ध्वनिमिषेऽनिमेषेक्षणमग्रतः"[शिशुपालवधम् ६।४९॥] इति माधयमकं । त्रीणि आश्विनस्य ॥
अथ १कार्तिकः ।
२कार्तिकिको ३बाहुलो४र्जौ
१ कार्तिकी पौर्णमास्यस्मिन्नस्ति कार्तिकः । 'सास्मिन् पौर्णमासी-'४।२।२१॥ इत्यण् । २ 'विभाषा फाल्गुनी[श्रवणा]-कार्तिकी-'४।२।२३॥ इत्यादिना ठकि कार्तिकिकः । ३ बहुलाः कृत्तिकास्ताभिर्युक्ता पौर्णमासी बाहुली । सा पौर्णमास्यस्मिन्नस्ति बाहुलः । 'सास्मिन् पौर्णमासी-'४।२।२१॥ इत्यण् । ४ ऊर्जयन्ति बलिनो भवन्ति प्राणिनोऽत्रेति ऊर्जः । 'ऊर्ज बलप्राणनयोः' (चु.उ.से.), 'पुंसि संज्ञायां घः-'३।३।११८॥ । (अथवा ऊर्जयति उत्साहयति जिगीषून्, ण्यन्तात् पचाद्यच्) । यद्वा "ऊर्जमुत्साहमाहुः" [इति नाममाला], तदत्र मासि विजिगीषूणामस्ति ऊर्जः, अर्शआदित्वादच् । चत्वारि कार्तिकस्य । शेषश्चात्र – "सैरः कौमुदः" [शेषनाममाला २।२४॥] ।
द्वौ द्वौ मार्गादिका१वृतुः ॥१५५॥
१ मासाविति शेषः । मार्गादिकाविति, मार्गपोषौ, माघफाल्गुनौ, चैत्रवैशाखौ, ज्येष्ठाषाढौ, श्रावणभाद्रपदौ, आश्विनकार्तिकाविति । इयर्त्ति मासद्विकमिति ऋतुः, पुंसि । 'ऋ गतौ' (भ्वा.प.अ.), 'अर्तेश्च-' (उणा-७१) इति तुन् (तुः), चाद् गुणाभावः । यत्कात्यः "आदाय मार्गशीर्षाच्च द्वौ द्वौ मासावृतुर्मतः" । सामान्यत एकं ऋतोः ॥१५५॥
अथ विशेषेणाह, तत्र हेमन्ताद्धि वत्सरप्रारम्भस्त तस्तन्नामान्याह –
१हेमन्तः २प्रशलो ३रौद्रः
१ हन्ति दुःखं हेमन्तः । 'हन्(हन) हिंसागत्योः' (अ.प.अ.), 'हन्तेर्मुट् हि च'(उणा-४०९)इति झच्, हन्तेर्हिरादेशो मुडागमश्च । हिन्वन्ति, वर्धन्ते वा रात्रयोऽत्रेति हेमन्तः । 'हि गतौ वृद्धौ च' (स्वा.प.अ.), पृषोदरादित्वात् साधुः । हिमः अन्तोऽस्येति वा । पृषोदरादिः । हिमेन हन्ति वा । २ प्रकर्षण शलति याति दिनमत्रेति प्रशलः । 'शल गतौ' (भ्वा.प.से.), पचाद्यच् । ३ रुद्रस्यायं पूजाहेतुत्वाद् रौद्रः । 'तस्येदम्'४।३।१२०॥ इत्यण् । मार्गपौषाभ्यां हिमऋतुस्तस्य त्रीणि । ''हिमागमः"[शेषनाममाला २।२५॥] इति शैषिकम् ॥
अथ १शैष२शिशिरौ समौ ।
१ शेषस्यायं पूजाहेतुत्वात् शेषः । 'तस्येदम्'४।३।१२०॥ इत्यण् । २ शीर्यन्तेऽस्मिन् तृणगुल्मवनस्पतीनां तेजांसीति शिशिरः, पुंक्लीबलिङ्गः । शशति गच्छति शीघ्रं दिनमत्रेति वा । (शशन्ति धावन्ति पथिका यस्मिन् वा) । 'शॄ हिंसायाम्' (क्र्या.प.से.), 'शश प्लुतगतौ' (भ्वा.प.से.) वा, 'अजिरशिशिरशिथिलस्थिरस्फिरस्थविरखदिराः'(उणा-५३) इति सूत्रेण किरजन्तो निपातितः । माघफाल्गुनाभ्यां शिशिरऋतुस्तस्य द्वयम् ॥
१वसन्त २इष्यः ३सुरभिः ४पुष्पकालो ५बलाङ्गकः ॥१५६॥
१ वसति कामोऽत्र, वसति सुखं वा अत्रेति वसन्तः, पुंक्ली. । 'वस निवासे' (भ्वा.प.अ.), 'तॄभूवहिवसिभासिसाधिगण्डिमण्डिजनिनन्दिभ्यश्च'(उणा-४०८) इति झच्, 'झोऽन्तः'७।१।३॥ । वस्ते आच्छादयति पत्रपुष्पफलादिर्भुवं वा । 'वस आच्छादने' (अ.आ.से.), 'तॄभूवहि-'(उणा-४०८) इत्यनेनैव झच्। २ इषस्य तुल्यः समरात्रिन्दिवत्वाद् इष्यः, पुंक्ली. । शाखादित्वाद् यः । यद्वा एषणमिट् पुष्पादिवाञ्छा, तस्यां साधुरिति वा । 'तत्र साधुः'४।४।९८॥ इति यत् । "वसन्ते त्वस्त्रियामिष्यः" इति वाचस्पतिः । ३ सुष्ठ रभन्ते रसयुक्ता भवन्त्यत्रायाते जना इति सुरभिः, पुंलिङ्गः । 'रभ राभस्ये' (भ्वा.आ.अ.), 'इन् सर्वधातुभ्यः'(उणा-५५७) इतीन् । सुरैर्भातीति पृषोदरादिर्वा । ४ पुष्पाणां कालः पुष्पकालः । ५ बलं वीर्यमङ्गेऽस्माद् बलाङ्गकः । 'उर:प्रभृतिभ्यः कप्'५।४।१५१॥ । चैत्रवैशाखाभ्यां वसन्तस्य पञ्च । शेषश्चात्र – "वसन्ते पिकबान्धवः पुष्पसाधारणश्च" [शेषनाममाला २।२५] ॥१५६॥
१उष्ण २उष्णागमो ३ग्रीष्मो ४निदाघ५स्तप ६ऊष्मकः ।
१ ओषति तापेन लोकानिति उष्णः, पञ्चमस्वरादिः । 'उष दाहे' (भ्वा.प.से.), 'इण्सिजिदीङ(ङु)-ष्यविभ्यो नक्'(उणा-२८२) इति नक् । २ उष्णस्य घर्मस्यागमोऽत्रेति उष्णागमः । ३ गिरति पीडयति प्राणिनः, ग्रसते जलं वा ग्रीष्मः । गिरति जलं वा । 'गॄ निगरणे' (तु.प.से.), 'ग्रसु अदने' (भ्वा.आ.से.) वा, 'घर्मसीमभीमग्रीष्म-' इति उणादिसूत्रेण साधुः । ४ निदह्यतेऽत्रेति निदाघः, पुंक्ली. । निपूर्वः 'दह भस्मीकरणे' (भ्वा.प.अ.), 'हलश्च'३।३।१२१॥ इति घञ्, 'संज्ञायां मघमेघनिदाघावदाघा-'(गणसू-७।३।५३॥) इति न्यङ्क्वादिपाठात् कुत्वम् । ''दघ घातने पालने च' (स्वा.प.से.), ततो निदघ्यतेऽनेन कृत्वा निदाघः साधुरिति पारायणिकाः" इति सुधाकरस्तदपाणिनीयम् । ५ तपति सन्तापयति तपः । 'तप सन्तापे' (भ्वा.प.अ.), पचाद्यच् । ''तपेन वर्षा[:] शरदा हिमागमः"[शिशुपालवधम् १।६६॥] इति माघः । तपः सकारान्तोऽपि । "तपं(तपश्च) तपसा समम्'[शब्दप्रभेदः, श्लो.-३६] इति शब्दप्रभेदः । ६ ओषति ऊष्मकः । 'उष दाहे' (भ्वा.प.से.), बाहुलकाद् मनिनि दीर्घत्वं च, यावादिपाठात् कन् । 'ऊष रुजायाम्'(भ्वा.प.से.) अस्माद्वा मनिन् । “ऊष्मा तापनिदा घयोः"["]इति नन्तो वोपालितः, ततः कन् । 'ऊष रुजायाम्' (भ्वा.प.से.) अस्माद् मकि प्रत्ययेऽदन्तोऽपि ऊष्मशब्दः । "ऊष्मो घर्मेऽश्रुणि तथा ज्यैष्ठे ऊष्मा स्त्रियां त्विषि" इति वोपालितः । ज्येष्ठाषाढाभ्यां ग्रीष्मस्तस्य षट् । [शेषश्चात्र- "ग्रीष्मे तूष्मायणो मतः, आखोरपद्मौ" [शेषनाममाला २।२५-२६॥] ॥
१वर्षा२स्तपात्ययः ३प्रावृण्मेघात् ४काला५गमौ ६क्षरी ॥१५७॥
१ व्रियत आच्छाद्यते मेधैर्नभोऽत्रेति वर्षाः । 'वृञ् आच्छादने' (क्र्या.उ.से.), 'वृञ्वदि-'(उणा-३४२) इत्यादिना सः । वर्षमस्त्यास्विति वा । अर्शआदित्वादच् । वर्षन्तीति वा । 'पृषु वृषु मृषु सेचने' (भ्वा.प.से.), पचाद्यच् । वर्षणं वा वर्षाः । भावे घञ् । नित्यबहुवचनान्तोऽयम्, स्त्रीलिङ्गश्च ।
"आपः सुमनसो वर्षा अप्सराः सिकताः समाः ।
एते स्त्रियां बहुत्वे स्युरेकत्वेऽप्युत्तरत्रयम् ॥१॥"
इत्युक्तेः । 'वरिषा'[शब्दप्रभेदः, श्लो.-३८] इत्यपि शब्दप्रभेदः । २ तपस्यात्ययो नाशोऽत्र तपात्ययः । ३ प्रवर्षन्त्यस्यां मेघाः, प्रकृष्टं वर्षमत्रेति वा प्रावृट्, स्त्रीलिङ्गः । 'पृषु वृषु मृषु सेचने' (भ्वा.प.से.), सम्पदादित्वात् क्विप्, 'नहिवृतिवृषि-'
६।३।११६॥ इत्यादिना दीर्घः । ४-५ मेघशब्दात् परः कालः आगमश्च, तेन मेघकालः, मेघागमः यौगिकनामनी । ६ क्षराः मेघाः सन्त्यत्र क्षरी । 'अत इनिठनौ'५।२।११५॥ इतीनिः। श्रावणभाद्रपदाभ्यां वर्षाऋतुस्तस्य षट् ॥१५७॥
१शरद् २घनात्ययः
१ शीर्यन्तेऽस्यां पाकेनौषधयः, शृणाति हिनस्ति तापेन वा शरद्, स्त्रीलिङ्गः । 'शु हिंसायाम्' (क्र्या.प.से.), 'शॄ-दृ-भसोऽदिः'(उणा-१२७) इति अदिः । भागुरिटापि शरदा टाबन्तोऽपि । ''शरद् भवेच्छरदया प्रावृट् प्रावृषया सह" इति विश्वः । २ घनस्यात्ययो नाशोऽत्र घनात्ययः । आश्विनकार्तिकाभ्यां शरद्, तस्या द्वे॥
१अयनं शिशिराद्यैस्त्रिभिस्त्रिभिः ।
१ अयतेऽर्कोऽनेनेति अयनम् । 'अय गतौ'(भ्वा.आ.से.), नन्द्यादित्वाल्ल्युः । त्रिभिस्त्रिभिरिति, शिशिराद्यैस्त्रिभिः ऋतुभिरुत्तरायन(ण)म्, वर्षाद्यैस्त्रिभिर्दक्षिणायनमित्यर्थः, षड्भिर्मासैरयनं पूर्यत इति भावः ॥
अयनस्य प्रमाणमुक्त्वा शब्दार्थं प्रतिपादयन्नाह –
अयने द्वे गतिरुदग् दक्षिणार्कस्य १वत्सरः॥१५८॥
१ उदगुत्तरा, दक्षिणाऽपाची याऽर्कस्य गतिस्ते द्वेऽयने उत्तरायनं(णं) दक्षिणायनं च, ते मिलिते वत्सरः वर्षं भवति । अत्र अयनं चाऽयनं च अयने, एकशेषः । वसन्ति ऋतवोऽत्र वत्सरः, पुंक्ली. । 'वस निवासे' (भ्वा.प.अ.), 'वसेश्च'(उणा-३५१) इति सरन्, 'सः स्यार्धधातुके'७।४।४९॥ इति सस्य तत्वम् ॥१५८॥
स १सं२पर्य३नू४द्भ्यो ५वर्षं ६हायनो७ऽब्दं ८समाः९शरत् ।
१ स इति तच्छब्देन पौर्वः वत्सरशब्दः परामृश्यते, ततः सम् परि अनु उद् एतेभ्यो वत्सरो योज्यते । सं समेत्य वसन्ति ऋतवोऽत्र संवत्सरः । 'वस निवासे' (भ्वा.प.अ.), संपूर्वः, 'वसेश्च'(उणा-३५१) इति सरन्प्रत्ययः । चकारादनुवत्सरादयः । ('स(:) स्यार्धधातुके'७।४।४९॥ इति सस्य तः, 'वा पदान्तस्य'८।४।५९॥ इति पक्षे सानुनासिको वकारः, पक्षे अनुस्वारः, अनुस्वारपक्षेऽपि वकारस्य दन्त्यौष्ठत्वाद् न मत्वम्) । एवं २ परिवत्सरः, ३ अनुवत्सरः, ४ उद्वत्सरः । "संवत्सरानुवत्सरपरिवत्सरवत्सराः" इति शब्दार्णवः । ५ वृणोति छादयति वर्षम्, पुनपुं. । 'वृञ् वरणे' (स्वा.उ.से.), स्वादिः, 'वृज्वदि -'(उणा-३४२) इत्यादिना सः । ६ भावान् जहाति जिहीते वा हायनम्, पुंक्ली. । 'ओहाक् त्यागे' (जु.प.अ.), 'ओहाङ् गतौ' (जु.आ.अ.) वा, 'हश्च व्रीहिकालयोः'३।१।१४८॥ इति ण्युट् । ७ आप्यतेऽधिकमासेनेति अब्दः, पुंक्ली. । यदरुणः "अब्दमसयोदं पुंनके ह्येतत् पठितम्'' इति । 'आप्लृ व्याप्तौ' (स्वा.प.अ.), 'अब्दादयश्च'(उणा-५३८) इति दन्, ह्रस्वत्वं च । आपो ददातीति वा । ८ समन्ति समाः । 'षम ष्टम वैक्लव्ये' (भ्वा.प.से.), पचाद्यच् । सह मान्ति वर्तन्ते ऋतव आसु इति वा समाः । स्त्रीलिङ्गः, बहुवचनान्तोऽयम् । यदमरटीका-"स्त्री बहुत्वे समा: शब्दः, यथा "जीव्यात् सहस्रं समाः" । "वा बहुत्वेयम्" इति वामनः । यदुक्तम्- "समासिकतावर्षाप्सुमनोजलौकसः" [वामनीय-लिङ्गानुशासनम्, श्लो.-२३] । 'समांसमां विजायते'५।२।१२॥ इति निर्देशात्, "समायां समायाम्'' [काशिकावृत्ति: ५।२।१२॥] इति वृत्तिदर्शनाच्चैकत्वमपि दृश्यते" इति । अत एव भूम्नीति न क्वापि निर्णीतम् । ९ शीर्यते जगदत्रेति शरत्, स्त्रीलिङ्गः । 'शॄ हिंसायाम्' (क्र्या.प.से.), 'शॄदृभसोऽदिः'(उणा-१२७) इति अदिः । नव वर्षस्य । शेषश्चात्र – "ऋतुवृत्तिर्युगांशकः ।
कालग्रन्थिर्मासमलः संवत् सर्वर्तुशारदः(-दौ) ।
वत्स इड्वत्सर इडावत्सरः परवाणिः(-वत्) ॥१॥"
[शेषनाममला २।२६-२७॥] ॥
संवदित्ययं त्वव्ययेषु (श्लो.-१५३५) वक्ष्यते । शारद इत्यकारान्तोऽपि, प्रज्ञादित्वादणि । "समायोषिति शारदः" इति रत्नकोषः ॥
भवेत् १पैत्रं त्वहोरात्रं मासेन
१ मानुषेण मासेन पितॄणामिदं पैत्रम् अहोरात्रम्,
भवेदिति क्रियाशेषः, तत्र कृष्णपक्षो दिनम्, शुक्लपक्षो रात्रिः, पितॄणां कव्यपालादीनामिदम्, 'तस्येदम्'४।३।१२०॥ इत्यण् ॥
अब्देन दैवतम् ॥१५९॥
१ मानुषेण अब्देन वर्षेण दैवतम् अहोरात्रम्, भवेदिति शेषः, देवतानामिदं दैवतम् । 'तस्येदम्' ४।३।१२०॥ इत्यण्, 'यस्येति च'६।४।१४८॥, 'तद्धितेष्वचामादेः'७।२।११७॥, उत्तरायणं देवानामहः, दक्षिणायनं रात्रिः ॥१५९॥
दैवे युगसहस्रे द्वे १ब्राह्मम्
१ देवानां युगसहस्रद्वयेन ब्राह्मम् अहोरात्रम्, स्यादिति शेषः, ब्रह्मण इदं ब्राह्मम्, 'ब्राह्मोऽजातौ'६।४।१७१॥ इत्यणि साधुः । अयमभिप्राय:- मानुषेण चतुर्युगेन देवानामेकं युगम् । लैङ्गं युगमानं यथा –
"पूर्वं कृतयुगं नाम ततस्त्रेताभिधीयते ।
द्वापरश्च कलिश्चैव युगान्येतानि विश्रुताः (सुव्रताः!) ॥१॥
सहस्राणां शतान्यासंश्चतुर्दश च संख्यया ।
चत्वारिंशत्सहस्राणि तथान्यानि कृतं युगम् ॥२॥
तथा दशसहस्राणि वर्षाणां शतसंख्यया ।
अशीतिश्च सहस्राणि कालस्त्रेतायुगस्य वा ॥३ ॥
सप्तैव नियुतान्याहुर्वर्षाणां मानुषाणि च ।
विंशतिश्च सहस्राणि [कालस्तु द्वापरस्य च ॥४॥
तथा शतसहस्राणि] वर्षाणां शत (त्रीणि) संख्यया ।
षष्टिश्चैव सहस्राणि कालः कलियुगस्य वा ॥५॥
एवं चतुर्युगः काल ऋतु(ऋते) सन्ध्यांशकात् स्मृतः ॥"
[लिङ्गपुराणम्, प्रथमखण्डम्, कालमानब्रह्माण्डनिरूपणम्, श्लो.-२४-३०॥] ।
ज्योतिषे तु –
"वस्व८श्व७मैत्री२ऋतु६रन्ध्र७मासा१२-
वेदा४रसा६दृष्टौ८भुज२वह्नि३वेदा:४ ।
एतानि शून्यत्रयभाजितानि ।
युगाब्दसंख्या[:] परिकीर्तिता च (-नि)॥६॥"
एतच्च मानुषमानेन सत्यादीनां मानम्, तदेकेनापि (तदङ्केनापि), यथा सत्यस्य १७२८०००, त्रेतायाः १२९६०००, द्वापरस्य ८६४०००, कले: ४३२०००, इदानीं च शकाब्दाः १३५३ द्वात्रिंशदब्दाधिकं(-क-)पञ्चवर्षोत्तरचतुःसहस्रवर्षाणि कलिसन्ध्याया भूतानि ४५३२ । तथा च गणितचूडामणौ महितापनीयराजपण्डितश्रीनिवास:- "कलिसन्ध्यायाः स्व(ख) समयकरकृतवर्षाणि भूतानि ४२६०, तच्च ब्रह्मणो दिनम्" । अयमाशयः- दैवैर्हि षष्ट्यधिकैस्त्रिभिरहोरात्रशतैः दिव्यं वर्षम्, तैर्द्वादशभिः सहस्रैर्लौकिकं चतुर्युगम्, तच्च देवानामेकं युगम्, तत्सहस्रं ब्रह्मणो दिनं भूतानां स्थितिकालः, तावत्येव रात्रिर्भूतानां प्रलयकालः । यन्मनुः –
"चत्वार्याहुः सहस्राणां वर्षाणां तु कृतं युगम् ।
तस्य तावच्छती सन्ध्या सन्ध्यांशश्च तथाविधः ॥७॥
इतरेषु ससन्ध्येषु ससन्ध्यांशेषु च त्रिषु ।
एकापायेन वर्तन्ते सहस्राणि शतानि च ॥ ८॥
यदेतत्परिसंख्यातमादावेव चतुर्युगम् ।।
एतद्द्वादशसाहस्रं देवानां युगमुच्यते ॥९॥
दैविकानां युगानां तु सहस्रं परिसंख्यया ।
ब्राह्ममेकमहर्ज्ञेयं तावती रात्रिरुच्यते ॥१०॥" [मनुस्मृतिः, अ-१, श्लो.-६९-७१ ॥]
इयं च मानुषमानेनैव गणना कृता ॥
कल्पौ तु ते नृणाम् ।
ये द्वे दैवे युगसहस्रे ते नृणां कल्पौ, एकं स्थितिं कल्पयति, द्वितीयं तु क्षयमिति । अत्रापि स्थितिकालो भूतानां ब्रह्मणो दिनम्, प्रलयकालश्च ब्रह्मणो रात्रिः । तथा च लैङ्गे –
"चतुर्दशसहस्रो वै कल्पश्चैको द्विजोत्तम! । (चतुर्युगसहस्रं वै कल्पश्चैको द्विजोत्तमाः।)
निशान्ते सृजतो(-ते) लोकान् नश्यन्ति निशि जन्तवः ॥१॥
कोटीनां द्वे सहस्रे तु अष्टौ कोटिशतानि च ।
द्विषष्टिश्च तथा कोट्यो नियुतानि तु सप्ततिः ॥२॥
कल्पस्य सङ्ख्या कथिता कल्पशेषं तु कल्पयेत् ।
(कल्पान्तसङ्ख्या दिव्या वै कल्पमेवं तु कल्पयेत् ।)
कल्पानां वै सहस्रं तु वर्षमेकमजस्य तु ।।३।।
कल्पानामष्टसाहस्रं ब्रह्मणैर्ब्रह्मणो युगम् ।"
[लिङ्गपुराणम्, प्रथमखण्डम्, कालमानब्रह्माण्डनिरूपणम्, श्लो.-३६,३७,४१,४२] इति ॥
१मन्वन्तरं तु दिव्यानां युगानामेकसप्ततिः ॥१६०॥
दिव्यानां युगानामेकसप्ततिः मन्वन्तरम्, मनोरन्तरमवकाशोऽवधिर्वाऽत्रेति मन्वन्तरम्, 'सुप् सुपा'२ ।१।४॥ इति समासः, तैश्चतुर्दशभिर्मन्वन्तरैर्ब्रह्मणो दिनमित्यर्थः । मन्वन्तरमानं तु लिङ्गपुराणे प्रोक्तम्, तथा हि –
"एवं चतुर्युगाख्यानाम् साधिका ह्येकसप्ततिः ।
कृतत्रेतादियुक्तानां मनोरन्तरमुच्यते ॥१॥
मन्वन्तस्य संख्या च वर्षाग्रेणेह कीर्तिता ।
त्रिंशत्कोट्यस्तु वर्षाणां मानुषेण द्विजोत्तमाः ।
सप्तषष्टिस्तथान्यानि नियुतान्यधिकानि तु ॥२॥
विंशतिश्च सहस्राणि कालो यः साधिकं विना ।
मन्वन्तरस्य संख्यैषा लिङ्गेऽस्मिन् कथिता द्विजाः ॥३॥"
[लिङ्गपुराणम्, खं-१, कालमानब्रह्माण्डनिरूपणम्, भो-३०, ३४, ३५] ।
मनवो ब्रह्मपुत्राश्चतुर्दशैव । तथा च विष्णुपुराणे –
"मनुः स्वायम्भुवो नाम मनुः स्वारोचिषस्तथा ।
औत्तमिस्तामसिश्चैव रैवतश्चाक्षुषस्तथा ॥३॥
षडेते मनवोऽतीताः सप्तमस्तु (साम्प्रतं तु) रवेः सुतः ।
वैवस्वतोऽयं यस्यैतत्सप्तमो(-म्) वर्तते युगम् ॥४॥"
[विष्णुपुराणम्, खंडम्-१, तृतीयांशः, अध्य-१, श्लो.-६, ७]
एकसप्ततिरिति, यद्यपि गणनया सार्द्धयुगेनाधिकानां सा, यथाहुर्नामनिधाने सर्वज्ञश्रीनारायणचरणा: -
"दैविकानां युगानां तु सहस्रं ब्रह्मणो दिनम् ।
मन्वन्तरं तथैवैकं तस्य भागश्चतुर्दश ॥५॥''
तत्किञ्चिदधिका दिव्ययुगानामेकसप्ततिरिति, तथापि अन्यत्वात् तदिह नोक्तम् । अपरे सप्त मनव: -
"सावर्णिदक्षसावर्णो ब्रह्मसावर्ण इत्यपि ।
धर्मसावर्णरुद्रस्तु सावर्णौ रोच्यभौत्यवत् ॥६॥"
एते चतुर्दश मनवः ॥१६०॥
१कल्पो २युगान्तः ३कल्पान्तः ४संहारः ५प्रलयः ६क्षयः।
७संवर्त्तः ८परिवर्त्तश्च ९समसुप्ति१०र्जिहानकः ॥१६॥
१ कल्पते विरुद्धलक्षणया क्षीयते जगदत्रेति कल्पः । 'कृपू सामर्थ्य' (भ्वा.आ.वे.), 'पुंसि संज्ञायाम्-' ३।३।११८॥ इति घः, 'कृपो रो लः'८।२।१८॥ इति लत्वम्, 'पुगन्तलघूपधस्य च'७।३।८६॥ इत्युपधाया गुणः । २ युगस्यान्तो युगान्तः । ३ कल्पस्य ब्रह्मणो दिनस्यान्तोऽवधिः कल्पान्तः । अत्रैकः कल्पः क्षयार्थोऽन्यस्तु ब्रह्मणो दिनार्थः, यत् शाश्वत:- "कल्पः शास्त्रे विधौ न्याये संवर्त्ते ब्रह्मणो दिने"[शाश्वतकोषः, श्लो.-२०१] इति। ४ संह्रियते क्षीयते जगदत्रेति संहारः । 'हृञ् हरणे' (भ्वा.उ.अ.), 'करणाधिकरणयोश्च'३।३।११७॥ इत्यधिकरणे घञ् । ५ प्रलीयतेऽत्रेति प्रलयः । 'लीञ् विलयने', 'एरच्'३।३।५६॥ इत्यच् । ६ क्षीयते सर्वमत्रेति क्षयः । 'क्षि क्षये' (भ्वा.प.अ.), 'एरच्'३।३।५६॥ । ७ संवर्त्तत उपरमते जगदत्रेति संवर्त्तः । 'वृतु वर्त्तने ' (भ्वा.आ.से.), 'हलश्च'३।३।१२१ ॥ इति घञ् । वृत्तिरत्रावसानार्थः, यथा लोके अयं निवृत्तः, उपरत इत्यर्थ । ८ एवं परिवर्त्तः । ९ समा सर्वेषां साधारणा सुप्तिरत्रेति समसुप्तिः । १० जिहीते गच्छति जिहानः, स्वार्थे कनि जिहानकः । 'ओहाङ् गतौ' (जु.आ.अ.), 'लटः शतृशानचौ-'३।२।१२४॥ इति शतुः (लट:) शानजादेशः । प्रलयकालस्य दश ॥१६१॥
१तत्कालस्तु २तदात्वं स्यात्
१ स चासौ कालश्च तत्कालः । २ तदेत्यस्य भावः तदात्वम् । द्वे तत्कालस्य । 'तिवारइं ज' इति भाषा ॥
तज्जं १सान्दृष्टिकं फलम् ।
१ तज्जं तात्कालिकं फलम्, सन्दृष्टं प्रत्यक्षं प्रयोजनमस्य सान्दृष्टिकम् । तदस्य प्रयोजनम् ' ५।१।१०९॥ इति ठक्, 'ठस्येकः'७।३।५०॥ 'किति च'७।२।११८॥ इत्यादिवृद्धिः । 'सांसृष्टिकम्' इत्यन्ये । एकं तत्कालफलस्य । 'तुरतफल' इति भाषा ॥
१आयतिस्तूत्तरः कालः
१ एष्यति आयतिः, स्त्रियाम् । 'इण् गतौ' (अ.प.अ.) । "अयतिश्चायतिः काले'' इति शब्दप्रभेदः । उत्तर आगामी कालः। एकमागामिकालस्य ॥
उदर्कस्तद्भवं फलम् ॥१६२॥
१ उदियर्त्ति उदर्कः, उदर्च्यते अभिलाषात् स्रूयते उदर्कः । 'अर्च पूजायाम्' (भ्वा.प.से.), कर्मणि घञ्, 'चजोः कु घिण्ण्यतो:'७।३।५२॥ इति कुत्वम् । तस्या आयतेर्भवं तद्भवम् । एकमागामिकालभवफलस्य ॥१६२॥
१व्योमा२न्तरि(री)क्षं ३गगनं ४घनाश्रयो ५विहाय ६आकाश७मनन्त८पुष्करे ।
९अभ्रं १०सुरा११भ्रो१२डु१३मरुत्पथो१४ऽम्बरं १५खं १६द्यो१७दिवौ १८विष्णुपदं १९विय२०न्नभ:॥१६३॥
१ व्ययति छादयति क्ष्माम्, वीयते तद्वायुना घनैश्चेति वा, विशेषेण अवति प्राणिनोऽवकाशप्रदानेनेति वा [व्योम] । 'व्येञ् संवरणे' (भ्वा.उ.अ.), 'अव रक्षणादौ' (भ्वा.प.मे.) वा. 'नामन्सामन्स्तोमन्होमन्रोमन्लो-मन्व्योमन्धर्मन्पाप्मन्व्येमन्'(उणा-५९०) इत्युणादिसूत्रेण साधुः । विपूर्वादवतेर्व्याप्यर्थत्वादौणादिके '-मनिन्' (उणा-५८४) इति सूत्रेण मनिन्प्रत्यये 'ज्वरत्वरस्रिव्यविमवामुपधायाश्च'६४।२०॥ इति (इत्यूठ्), गण इति वा । व्यवति व्याप्नोति सर्वं जगदिति वा । यद्वा अविर्गत्यर्थः, भावे मन्, अवनं गमनं विविधमस्मिन् विद्यत इति व्युत्पत्तेः । २ अन्तरीक्षते जगदस्मिन्निति अन्तरीक्षम् । 'ईक्ष दर्शने' (भ्वा.आ.से.), घञ् । अन्तर् मध्ये ऋक्षाणि नक्षत्राणि अस्येति, पृषोदरादित्वाद्वा । अन्तरा मध्ये सर्वभूतानां क्षान्तं शान्तं स्थिति नि:क्रियं वा, शान्तं प्रत्यहं विभज्यस्थानकत्वात्। अन्तरा इमे रोदस्यौ क्षयतीति वा । अन्तरा इमे क्षोण्याविति वा । एवमने- कविकल्पमुत्तरपदमन्तरशब्दात् सर्वत्र पृषोदरादित्वात् साधुः इति भाष्यम् । "वेदे तु छान्दसं ह्रस्वत्वम्" इति वर्णदेशना । "अन्तरीक्षमन्तरिक्षम्''[शब्दप्र-३] इति शब्दप्रभेदः । ३ गच्छन्त्यनेन देवा इति गगनम् । 'गम्लृ गतौ' (भ्वा.प.अ.), 'गमेर्गश्च'(उणा-२३५) इति युच् किच्च, गश्चान्तादेशः । ४ घनानामाश्रयो घनाश्रयः । ५ विजहाति सर्वमिति विहायः । 'ओहाक् त्यागे' (जु.प.अ.), बाहुलकादसुन् । ६ आ समन्तात् काशन्ते दीप्यन्ते सूर्यादयोऽत्र आकाशम्, पुंक्लीबलिङ्गः । 'काशृ दीप्तौ' (भ्वा.आ.से.), 'हलश्च'३।३।१२१॥ इति घञ् । न काशत इत्याकाशमिति वा । नपूर्वः 'काशृ दीप्तौ'(भ्वा. आ.से.), छान्दसो दीर्घः, भावे घञ् । ७ नास्त्यन्तः प्रान्तोऽस्येति अनन्तम् । ८ पोषयति भूतान्यवकाशप्रदानेन, उदकदानाद्युपकारेण वा पुष्करम् । पुषिरत्रान्तर्भूतण्यर्थः, 'पुषेः किच्च'(उणा-४४४) इति करप्रत्ययः । "पुष्कं वारि राति ददाति"[अम.क्षीर. १।२।१॥] इति क्षीरस्वामी । 'रा दाने' (अ.प.अ.), 'आतोऽनुपसर्गे कः'३।२।३॥, 'आतो लोप इटि च' ६।४।६४।। इत्यालोपः । यद्वा वपुरित्युदकनाम, तत्कर्तुं शीलमस्येति । 'कृञो हेतुताच्छील्यानु-लोम्येषु'३।२।२०॥ इति टच्, वकारलोपः पुष्करादित्वाद् । पुष्णाति पोषति मेघान् वा । 'पुषेः किच्च' (उणा-४४४) इति करः । ९ अभ्रति स्थैर्यं गच्छति नित्य द्रव्यत्वाद् अभ्रम् । 'अभ्र गतौ' (भ्वा.प.से.), पचाद्यच् । न बिभर्ति किञ्चिदपीति अभ्रं वा । 'डुभृञ् धारणपोषणयोः' (जु.उ.अ.), "मूलविभुजादित्वात् कः" इति कौमुदी। न भ्राजत इति वा । 'भ्राजृ दीप्तौ' (भ्वा.आ.से.), "अन्येभ्यो(ष्व)पि'३।२।१०१॥ इति ड:'[अम.क्षीर. १।२।१॥] इति स्वामी । अभ्राण्यस्य सन्तीति वा अभ्रम् । अर्शआदित्वादच् । "आपो भ्रंश्यत्यस्मादिति अब्भ्रम्, बकारसंयुक्तम्" इत्येके । 'भ्रंशु अध:पतने' (दि.प.से.), 'अन्येभ्यो(ष्व)ऽपि'३।२।१०१॥ इति डः, डित्त्वाट्टिलोपः। १०-१३ सुराणां देवानाम्, अभ्राणां मेघानाम्, उडूनां नक्षत्राणाम्, मरुतां वायूनां पन्थाः, तेन सुरपथः, अभ्रपथः, उडुपथः, मरुत्पथः, यौगिकत्वाद् देववर्त्म, मेघवर्त्म, नक्षत्रवर्त्म, वायुवर्त्मेत्यादयः । १४ 'अबि शब्दे' (भ्वा.आ.से.), 'कृश(कृद)रादयश्च'(उणा-७१९) इति अरन्प्रत्ययान्तो निपात्यते । अम्बन्ते शब्दायन्तेऽस्मिन् मेघादयः, अम्बते शब्दायते वा स्वयं वायुमेघादिसंसर्गाद्, आकाशगुणो हि शब्दः । अथवा अर्त्तेर्धातोः 'अर्जिदृशिकम्यमिपशिबाधामृ-
१. शब्दप्रभेदे इदं वचो न दृश्यते, 'भाविकालेऽपि चायतिः' इति त्रिकाण्डशेषे, ३३१४८ ॥ २. '-कालभवस्य' इति४॥ ३. 'नामन्सीमन्व्योमन्रो मन्लोमन्पाप्मन्धामन्' इत्युणादिगणे ॥ ४.'-शृ-' इति१.२॥५. द्र. टीकासर्वस्वम्, भा-१, १२१ ॥, पृ.५२ ।।, पदचन्द्रिका, भा-१, व्योमवर्गः, श्रो ६७, पृ.९४ ॥, रामाश्रमी १२१॥ पृ.३७॥ ६. 'अन्तरिक्षमन्तरीक्षम्' इति शब्दभेदप्रकाशे ॥ ७. 'काश्यन्ते' इति२.३.४॥ ८. 'काश्यत' इति२॥ ९ 'पुषः किच्च' इत्युणादिगणे ॥ १०. अम.क्षीर.टीकायां 'ददाति' इत्यस्य स्थाने '(च्यवति)' इति दृश्यते ॥ ११. द्र. पदचन्द्रिका, भा-१, व्योमवर्गः,
श्रो-६७, पृ.९४॥ १२. अम.क्षीर.टीकायां 'डः' इत्येव दृश्यते, ११२॥१॥, पृ.२२ ॥ १३. 'अम्बते शब्दायते' इति४॥
जिपशितुग्धुग्दीर्घहकारश्च'(उणा-२७) इति अमतेर्विधीयमान उप्रत्ययो वुगागमो बाहुलकाद्भवति, तस्मिन् गुणे परत्वरेफमकारश्च अम्बु, अमतेरेव वा तेनैव सूत्रेण उप्रत्ययो बुगागमश्च, उभयत्रापि गच्छन्ति देशाद् देशान्तरं वा, गम्यते वा प्राणिभिरिति अम्बु जलम्, तद् राति ददाति अम्बरो मेघः । 'आतोऽनुपसर्गे कः'३।२।३॥, पृषोदरादित्वादुकारस्याकारः, तद्वद् आकाशमपि अम्बरम्, 'लुक्भकाररेफाश्च वक्तव्याः' इति मत्वर्थीयस्य लुक्, तदेव वर्षासु प्राणिभ्य उदकं ददातीति अम्बरम् । अथवा अम्बशब्दे उपपदे राजतेर्धातोः 'अन्येष्वपि दृश्यते'३।२।१०१॥ इति दृशिग्रहणाद् डः । सर्वोपाधिव्यभिचारार्थ-सिद्धिः, अम्बुवद् राजते स्वच्छस्तिमितसागराम्बुवदाभासते, कल्पितोपमानं चैतत् । यथा-"पुञ्जीकृतमिव ध्वान्तमेतेष्वाभाति किं गजः, सर:शरत्प्रशन्नाम्भो नभः खण्डमिवोर्जितम्"इत्यादि । १५ खन्यते हन्यते खम् । 'खन खनने' (भ्वा.उ.से.), '-खनेर्मुट् [स] चोदात्त:'(उणा-६९८) इत्यच्, स च डित्, मुडागमस्त्वागमाऽनित्य-त्वान्न भवति । १६ द्योतते रविकिरणसम्बन्धाद् द्यौः । 'द्युत दीप्तौ' (भ्वा.आ.से.), बाहुलकाद् डोप्रत्ययः । यद्वा 'द्यु अभिगमने' (अ.प.अ.) 'द्युगमिभ्यां डो:' इति श्रीभोजः । द्युवन्त्यभिगच्छन्ति स्वं स्वमभिमतं प्रदेशं प्राणिन इति, 'गोतो णित्'७।२।९०॥ इति वृद्धिः । १७ दिवशब्दस्तु प्राक् स्वर्गनामसु (अभि.श्लो.-२।८७) साधितः । १८ विष्णोः पदं क्रमोऽत्र विष्णुपदम् । १९ वियच्छति न विरमति वियत्, क्लीबलिङ्गः । 'यम उपरमे' (भ्वा.प.अ.), विपूर्वः, 'अन्येभ्योऽपि'३।२।७५॥ इति क्विप्, 'क्वौ च गमादीनामनुनासिकलोपो भवतीति वक्तव्यम्'(वा-६।४।४०॥) इत्यनुनासिकलोपः, 'ह्रस्वस्य पिति कृति तुक्'६।१७१॥ । यद्वा विपूर्वाद् 'यती प्रयत्ने' (भ्वा.आ.से.) अस्मात् क्विप् । विविधं यतन्तेऽस्मिन् प्राणिनः, आकाशे हि सर्वे व्याप्रियन्ते । २० 'नह (णह) बन्धने' (दि.उ.अ.), 'नहेर्दिवि भश्च'(उणा-६५०) इत्यसुन्, भश्चान्तादेशः । न बभस्तीति वा । 'भस दीप्तौ' (जु.प.से.), असुन् । नवं नवं भातीति वा नभः, क्ली. । 'भा दीप्तौ' (अ.प.अ.), पृषोदरादिः । अत्यविचमि-'(उणा-३९७) असचि 'नभसम्' इत्यदन्तमपि । विंशतिराकाशस्य । विहायसा भुवश्चाव्यये(अभि. श्लो.-६।१५२६), महाबलिं देश्याम्, अलिङ्गमिति लिङ्गानुशासनवृत्तौ । शैषिकाणि-"[नक्षत्रवर्त्मनि] ग्रहनेमिः नभोऽवटी छायापथः'' [शेषनाममाला २।२७-२८॥] ॥१६३॥
१नभ्राट् २तडित्वान् ३मुदिरो ४घनाघनो५ऽभ्रं ६धूमयोनि७स्तनयित्नु८मेघाः ।
९जीमूत१०पर्जन्य११बलाहका १२घनो १३धाराधरो १४वाह१५द१६ मुग्१७धरा जलात् ॥१६४॥
१ न भ्राजत इत्येवंशीलो नभ्राट् । 'भ्राजृ दीप्तौ' (भ्वा.आ.से.), 'भ्राजभासभाषधूर्विद्युतोर्जि-' ३।२।१७७॥ इति क्विप्, 'नभ्राण्नपान्नवेद-'६।३।७५॥ इति सूत्रेण नञ: प्रकृतिभावः । २ तडिद् विद्यतेऽस्य तडित्वान् । 'तदस्यास्त्यस्मिन्निति मतुप्'५।२।९४॥, 'झयः'८।२।१०॥ इति मतुपो मस्य वः, 'तसौ मत्वर्थे ' १।४।१९॥ इति भसंज्ञकत्वाद् 'झलां जशोऽन्ते'८।२।३९॥ इति जश्त्वाभावः । ३ मोदन्तेऽनेन जनाः, मोदयति प्राणिन इति वा मुदिरः । 'मुद हर्षे' (भ्वा.आ.से.), 'इषिमदिमुदिखिदिच्छिदिभिदिमेदिचदितिमिमिहिमुहिरुचि-रुधिशुषिबधिभ्यः किरच्'(उणा-५१) इति किरच् । ४ हन्ति प्रवासिनः, विरहिणः, दुःकालं वा घनाघनः । 'हन हिंसागत्योः' (अ.प.अ.), 'हन्तेर्घत्वं च'(वा-)इत्यचि द्विर्वचनमभ्यासस्यागागमो हस्य घकारः, परस्य 'अभ्यासाच्च'७।३।५५॥ इति कुत्वम्, आको दीर्घोच्चारणसामर्थ्यान्न ['ह्रस्वः'७।४।५९॥], 'हलादिः शेषः' ७।४।६०॥ । ५ अभ्रति गच्छति अभ्रम्, क्लीबलिङ्गः । 'अभ्र गतौ' (भ्वा.प.से.), पचाद्यचि इति उपाध्यायसर्वस्वम् । अत एव माघे "-घनमदभ्रमराणि"[शिशुपालवधम् ६।७३] इति यमकम् । "अपो बिभर्तीति मूलविभुजादित्वात् के अब्भ्रं बकारवत्" इति वैयाकरणा: । "न भ्रश्यन्त्यापोऽस्मादिति, 'अन्येभ्यो(ष्व)ऽपि-'३।२।१०१॥ इति डे नभ्रम्" इति पौराणिकाः । तदुक्तम्- "न भ्रश्यन्ति यतस्तेभ्यो जलान्यभ्राणि तान्यतः" इति । आप्नोति सर्वा दिश इति वा, पृषोदरादित्वात् साधुः । ६ धूमो योनिः कारणमस्य धूमयोनिः ।
७ स्तनयति गर्जति स्तनयित्नुः । 'स्तनगदी देवशब्दे' (चु.उ.से.), चुरादावदन्तः, अतः 'स्तनिकृषिमदिगदिभ्यो णेरित्नुच्'(उणा ३०९), 'आ(अ)यामन्ताल्वाज्ये(य्ये)त्वि(त्न्वि)ष्णुषु'६।४।५५॥ इति णेरयादेशः । ८ मेहति सिञ्चति महीं मेघः । 'मिह सेचने' (भ्वा.प.अ.), पचाद्यच्, 'संज्ञायां मघमेघनिदाघावदाघा[र्घा:]'(ग-७।३।५॥) इति न्यङ्क्वादिपाठात् कुत्वम् । ९ जीवनं जलं मूतं बद्धमनेन जीमूतः । 'मूङ् बन्धने' (भ्वा. आ.से.), पृषोदरादित्वात् साधुः । जीवनं वारि मुञ्चतीति वा, पृषोदरादिः । "जीवनस्य [जलस्य] मूतः पुटबन्धः"[अम. क्षीर.१।२८॥] इति तु स्वामी । १० परिवर्षति गर्जति पर्य(ज)न्यः। ('पृषु सेचने' (भ्वा.प.से.), 'अन्यप्रत्यये षस्य जः' इत्युणादिसूत्रेण पर्जन्यः साधुः, चवर्गतृतीयमध्यः) 'पर्य(ज)न्यः'(उणा-३८३) इत्युणादिसूत्रेण साधुः । ११ बलन्ति जीवन्त्यनेन बलाहकाभिर्हीयते गम्यते वा, वारिणो वाहको वा बलाहकः । सर्वत्र पृषोदरादित्वाद् रूपसिद्धिः । १२ हन्ति सन्तापम्, हन्यते वायुना वा घनः । 'हन हिंसागत्योः' (अ.प.अ.), बाहुलकात् कर्तरि अप्, 'मूर्ती घनः' ३।३७७॥ इति घनादेशः । १३ धारां धरति धाराधरः । 'धृञ् धारणे' (भ्वा.उ.अ.), पचाद्यच् । १४-१७ वाहश्च दश्च मुक् च धरश्च वाहदमुग्धराः, एते जलशब्दात् पुरो योजिता मेघस्य वाचकाः स्युः, यथा वहनं वाहः, भावे घञ्, जलस्य वाहो जलवाहः । जलं वहतीति कर्मण्यणि वा । जलं ददाति जलदः । जलं मुञ्चति जलमुक्। जलं धरति जलधरः । यौगिकत्वाद् वारिवाह:, वारिदः, वारिमुक्, वारिधरः इत्यादयः । अभ्रशब्दवर्जं सर्वेऽप्यन्ये पुंलिङ्गाः । इन्द्रवंशेन्द्रयोरुपजातिः । सप्तदश मेघस्य । यद्यपि शब्दार्णवे त्रिविधा मेघाः, यथा –
"मेघास्तु त्रिविधास्तत्र वह्निजा धूमयोनयः ।
निःश्वासजास्तु जीमूतास्ते ज्ञेया जीवरूपिणः ॥१॥
यज्ञजास्तु घना घोराः पुष्करावर्तका[दयः] ॥" इति
तथाऽप्यन्यत्राऽप्यभेदोऽपि दृश्यते, इहाऽपि तथा । शेषश्चात्र –
"मेघे तु व्योमधूमो नभोध्वजः । गण्डयित्नुर्गदयित्नुर्वामसिरिवाहनः ॥
खतमालोऽपिं" [शेषनाममाला २।२८-२९॥] ॥१६४॥
१कादम्बिनी मेघमाला
१ कं जलमाददते कादम्बाः मेघास्ते सन्त्यस्यां कादम्बिनी । यद्वा कादम्बाः पक्षिणो बलाकावत् मेघमनुधावन्ति, तद्योगात्, ज्योत्स्नादित्वादणि कादम्बिनी । "कदम्बविकासः कादम्बः, सोऽस्यास्ति कार्यत्वेन"[अम.क्षीरः १।२८॥] इति तु स्वामी । मेघमाला मेघघटा, तन्नामैकम् । 'कलाइणि' इति भाषा ॥
१दुर्दिनं मेघजं तमः ।
१ दुष्टं निन्दितं दिनं दुर्दिनम् । अत्र दिनमिति अहर्निशोपलक्षणम्, तेन रात्रावपि दुर्दिनम्, अत एव मेघान्धकारमात्रे 'दुर्दिनम्' इति रत्नकोषः, "दुर्दिनं जलदध्वान्तम्'' इति ।
"यत्रौषधिप्रकाशेन नक्तं दर्शितसञ्चराः ।
अनभिज्ञास्तमिस्राणां दुर्दिनेऽप्यभिसारिकाः॥१॥"
[कुमारसंभवम्, सर्गः-६, श्लो.-४३]
इति कुमारे रात्रावपि दुर्दिनप्रयोगः । "यन्नेत्रयोर्दुदिनमित्यत्र त्वसंभवः स्वार्थाविनाभूतपयःप्रवाहं लक्षयन् अश्रुप्रवाहं लक्षयति" इति शृङ्गारप्रकाशः, एवं लक्षितलक्षणया । "अकरोत् पृथिवी रुहानपि श्रुतशाखारसवाध्यदुर्दिनम् (बाष्पदूषितान् (-दुर्दिनान्)"[रघुवंशम् ८।७०॥] इति रघुः । "वार्दालं दुर्दिनं मेघ-" [मेदिनीकोश, लान्तवर्गः, श्लो.-११९] इति मेदिनि: । मेघाज्जातं मेघजं तमोऽन्धकारं दुर्दिनं प्रोच्यत इत्यन्वयः। एकं मेघजनितान्धकारस्य ॥
१आसारो वेगवान् वर्षः
१ वेगवान् वेगयुक्तो वर्षो वृष्टिः आसारः प्रोच्यते । आसरणमासारः । 'सृ गतौ' (भ्वा.पं.अ.), 'अकर्तरि च कारके संज्ञायाम्'३।३।१९॥ इति घञ् । धाराणां संभूय जननमासार इत्यर्थः । "धोरासंपातः"[शेषनाममाला २।२९॥] इति शैषिकम् । एकं शीघ्रवृष्टेः ॥
वाताऽस्तं वारि १शीकरः ॥१६५॥
१ वातेन वायुनाऽस्तं क्षिप्तं वातास्तं वारि जलं शीकरः प्रोच्यते । शीकते सिञ्चति शीकरः । 'शीकृ सेचने' (भ्वा.आ.से.), 'ऋच्छेररन्'(उणा-४११) इति बाहुलकादरन् । तालव्यादिरयम्, "शम्बशीकरपांशवः" इति तालव्यप्रकरणे ऊष्मविवेकात् । एकं वाताहतजलकणस्य । 'वाछंटी' इति भाषा ॥१६५॥
१वृष्टयां २वर्षण३वर्षे
१ वर्षणं वृष्टिः । 'पृषु वृषु मृषु सेचने' (भ्वा.प.से.), "स्त्रियां क्तिन्'३।३।९४॥, 'तितुत्र-'७।२।९॥ इतीण्निषेधः, तत्र वृष्ट्याम् । २ "वर्षणाद् वृषभः" इति भाष्यकारवचनाद् 'ल्यु्ट च'३।१३।११५॥ इति ल्युटि वर्षणम् इति साधु । ३ वर्षम् इति, 'अज्विधौ भयादीनामुपसंख्यानम्' नपुंसके भावे क्तादिनिवृत्त्यर्थम्'(वा-३३५६॥) इत्यच् । पुंक्लीबलिङ्गोऽयम् । यद्वाचस्पतिः ''अथ वृष्टिर्वर्षमस्त्री केचिदिच्छन्ति वर्षणम्'' इति । वर्षोऽल्पतरो वृष्टिर्महतीति वर्षवृष्ट्योर्भेदोऽत्र नाश्रितः । त्रीणि वृष्टेः ॥
तद्विघ्ने १ग्राह२ग्रहाववात् ।
१-२ तद्विघ्ने वृष्टिविघ्ने, अवात् परौ ग्राहग्रहौ योज्यौ, 'ग्रह उपादाने' (क्र्या.उ.से.), 'अव (अवे) ग्रहो वर्षप्रतिबन्धे'३।३।५१॥ इति पक्षे घञि अवग्राहः, घञभावपक्षे 'ग्रह वृतॄ(दृ)-'३।३।५८॥ इत्यप् अवग्रहः । अवग्रहादिदोषेण वृष्टिविघातस्य द्वे ॥
१घनोपलस्तु २करकः
१ घनस्य मेघस्य उपल: पाषाणः घनोपलः । कृणोति सस्यम्, कीर्यते वा करकः त्रिलिङ्गः । 'कृञ् हिंसायाम्' (स्वा.उ.अ.), 'कृञादिभ्यः संज्ञायां वुन्'(उणा-७१३), 'युवोरनाकौ'७।१।१॥, क्षिपकादिपाठात् स्त्रियां टापि 'प्रत्ययस्थात्-'७।३।४४॥ इतीत्वं न । द्वे मेघभवशिलायाः । 'गडा' इति भाषा ।
शेषश्चात्र –
"अम्बुघनो मेघकफ:(-फो) मेघास्थिपुञ्जिका ।
बीजोदकं तोयडिम्भो वर्षाबीजमिरावरम् ॥१॥"
[शेषनाममाला २।२९-३०] ॥
१काष्ठा२ऽऽशा ३दिग् ४हरित् ५ककुप् ॥१६६॥
१ काशते काष्ठा, टवर्गद्वितीयोपधोऽयम् । 'काशृ दीप्तौ' (भ्वा.आ.से.), 'हनिकुशिनीवमिकाशिभ्यः क्थन्'(उणा-१५९), 'लशक्वतद्धिते'१।३।८॥, 'व्रश्चभ्रस्ज-'८।२।३६॥ इति षत्वम्, 'तितुत्र-'७।२९॥ इति नेट्, 'ष्टुना ष्टुः'८।४।४१॥, 'अजाद्यतष्टाप्'४।१।४॥, काशन्ते दीप्यन्त इति व्युत्पत्तिः । २ आ समन्तादश्नुते व्याप्नोति आशा । आङ्पूर्वः 'अशूङ् व्याप्तौ' (स्वा.आ.से), पचाद्यच्, टाप् । आङ्पूर्वः 'शद्लृ
शातने' (भ्वा.आ.अ., तु.आ.अ.) वा, अयमत्र गत्यर्थः, अनेकार्थत्वाद् धातूनाम्, 'अन्येभ्योऽपि-'३।२।१०१॥ इति डः । ३ दिशन्ति तामिति, दिशत्यवकाशं वा दिक् । 'दिश अतिसर्जने' (तु.प.अ.) 'ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चाञ्च'३।२।५९॥ इति क्विन्, कइन एते इतः 'तस्य लोपः'१।३।९॥, ['वेरपृक्तस्य'६।१।६७॥ इति वो लोप:], 'क्विन्प्रत्ययस्य कुः'८।२।६२॥ । भागुरिमते टापि दिशा आबन्तोऽपि । "दिक् तु स्त्रियां दिशा दान्ती ककुब् देववधूः पविः" इति शब्दार्णवः। ४ हरन्ति नयन्त्यनया हरित् । 'हृञ् हरणे' (भ्वा.उ.अ.), 'हृसृतडि रुहियुषिभ्य इत्'(उणा-९७) इतीत् । ५ कं वायुं कु(स्कु)भ्नाति विस्तारयति ककुप् । 'कुभ[स्कुम्भु] विस्तारे' , क्विप् । केन प्रजापतिना विस्तारिता इति वा । सर्वत्र 'क्विब् वचिप्रच्छायतस्तु-'(वा-३।२।१७८ ॥) इत्यत्र "प्राक्प्रत्ययनिर्देशादिष्टसिद्धिः" इत्युक्तेः क्विप्, "पृषोदरादित्वाद् वा रूपसिद्धिः" इति भाष्यम् । 'ककुभा' अपि कश्चित् । एते पञ्चाऽपि स्त्रीलिङ्गाः । पञ्च दिशः ॥१६६॥
"दिगेकैवाऽस्ति, औपाधिकं तु प्राचीत्वादि" इति वैशेषिकमते, परं तन्मतमनादृत्य स्वमतेन दिग्भेदानाह –
१पूर्वा २प्राची
१ पूर्वति पूरयति पूर्वा । 'पर्व पूर्व पूरणे' (भ्वा. प.से.), पचाद्यच्, टाप् । 'पूर्व निकेतने' (चु.प.से) अस्माद्वा अच् । २ प्र इति प्रथममञ्चत्युदेति रविरस्यामिति प्राची । प्रपूर्वः 'अञ्चु गतिपूजनयोः' (भ्वा.प.से.), प्राथम्येत्र प्रशब्दः, 'ऋत्विग्दधृक्-'३।२।५९॥ इत्यादिना क्विन्, 'अञ्चतेस्त्विष्टः'(वा-४।१।६॥) इति ङीप् । द्वे पूर्वदिशः ॥
१दक्षिणा२ऽपाची
१ दक्षते शीघ्रं गच्छति रविरस्यां दक्षिणा । 'दक्ष गतौ' (भ्वा.आ.से.), आत्मनेपदी, 'द्रुदक्षिभ्यामिनन्' (उणा-२०८), टाप् । २ अपेति मध्याह्ने अञ्चत्यस्यां रविरिति अपाची । अपशब्दोऽत्र मध्यवाची । तेन 'अवाची' इत्यपपाठ एव, अवपूर्वोऽञ्चतिरधोमुखीभावे वर्तते, यथाऽमरकोषे-"स्यादवाङ्मुखो- ऽप्यधोमुख:"[अमरकोषः ३।१।३३॥] इति । "अवाङ्मुखस्योपरि पुष्पवृष्टिः"[रघुवंशम् २।६०॥]इति रघुः । "तेन अवाचीत्यधोदिश्येव वर्तते" इति कौमुदीकारादयः । ''अवो मध्यार्थः, तेन अवाचीत्यपि क्वापि"[अम.क्षीर.१।२।३॥] इति स्वामी । अपपूर्वः 'अञ्च गतिपूजनयोः' (भ्वा.प.से), 'ऋत्विग्दधृक्-' ३।२।५९॥ इत्यादिना क्विन्, 'अञ्चतेस्त्विष्टः'(वा-४।१६॥) ङीप् । द्वे दक्षिणादिशः ॥
१प्रतीची तु २पश्चिमा ।
३अपरा
१ प्रति पश्चाद् दिनान्ते अञ्चति रविरस्यामिति प्रतीची । प्रतिपूर्वः 'अञ्च गतिपूजनयोः' (भ्वा.प.से.), 'ऋत्विक्-'३।२५९॥ आदिना क्विन्, 'अञ्चतेस्त्विष्ट:'(वा-४।१६॥) इति ङीप्, 'अनिदितां हल:' ६।४।२४॥ इति उपधान्लोपः, 'अचः'६।४।१३८॥ इति अकारलोपः, 'चौ'६।३।१३८॥ इति दीर्घः । २ पश्चाद् भवा पश्चिमा । 'अग्रपश्चादिमन्'(वा ४।३।२३॥) इतीमन्, 'यचि भम्'१।४।१८॥ इति भसंज्ञा, 'अव्ययानां भमात्रे टिलोप:'(वा-६।४।१४४॥), 'अजाद्यतष्टाप्'४।१।३॥ इति टाप् । ३ न पृणाति रविरेतां चिरमिति अपरा । न पिपर्तीति वा । 'पृ पालनपूरणयोः' (जु.प.अ.), पचाद्यच्, टापि । त्रीणि पश्चिमदिशः । शेषश्चात्र-
"[अ]परेतरा पूर्वा पूर्वेतराऽपरा" [शेषनाममाला २।३०॥] ॥
१अथोत्तरो२दीची
१ अतिशयेन उत्कृष्टा उत्तरा । 'द्विवचनविभज्योपपदेन तरबीयसुनौ'५।३।५७॥ इति तरप्, टाप् । उत्तरत्यस्यामर्क इति वा । उद्पूर्वः 'तॄ प्लवनतरणयोः' (भ्वा.प.से.), पचाद्यच्, टाप् । २ उत्क्रान्तो दृष्टिपथमतीतः सूर्योऽञ्चत्यस्यामिति उदीची । उद्पूर्वः 'अञ्च गतिपूजनयोः (भ्वा.प.से.), ऋत्विक्-' ३।२।५९॥ आदिना क्विन्, 'अञ्चतेस्त्विष्ट:'(वा-४१६॥) इति ङीप्, 'उद ईत्'६।४।१३१॥ इत्यञ्चतेरकारस्य ईकारः । द्वे उत्तरदिशः । शेषश्चात्र-
"यथोत्तरेतराऽपाची तथापाचीतरोत्तरा" [शेषनाममाला २॥३१॥]॥
१विदिक् २त्वपदिशं ३प्रैदिक् ॥१६७॥
१ विशिष्टा दिक् विदिक् उभयव्यपदेशात् । यदाहु:- "यान्यासामन्तरालानि विदिशः प्रदिशश्च ताः" । २ दिशोरिदमन्तरालम् अपदिशम् । 'अव्ययं विभक्ति-'२।१।६॥ इत्यादिना अव्ययीभावः, 'अव्ययीभावे शरत्प्रभृतिभ्यष्टच्' ५।४।१०७॥ इति टच्समासान्त इति टच् । ३ प्रकृष्टा दिक् प्रदिक् । सामान्यतस्त्रीणि विदिशः ॥१६७॥
१दिश्यं दिग्भववस्तुनि
१ दिक्षु भवं दिश्यम् । 'दिगादिभ्यो यत्'४।३।५४॥ इति यत् । सामान्यतो दिग्भववस्तुनामैकम् ॥
अथ विशेषतः प्राह –
१अपाग२पाचीनम्
१ अप अञ्चतीति अपाक् । २ अपागेव अपाचीनम् । 'विभाषाञ्चेरदिक्स्त्रियाम्'५।४।८॥ इति खः, खस्येनादेशः । द्वे दक्षिणदिग्भववस्तुनः ॥
१उदगु२दीचीनम् ।
१ उदञ्चीति उदक् । 'ऋत्विक्-'३।२।५९।। आदिना क्विन्, 'क्विन्प्रत्ययस्य कुः'८।२।६२।। २ उदगेव उदीचीनम् । 'विभाषाञ्चेरदिक्स्त्रियाम्'५।४।८।। इति खः, खस्य ईनादेशः, 'उद ईत्'६।४।१३१।। इति भस्याञ्चतेरस्य ईत् । उत्तरदिगुत्पन्न्स्य द्वे ॥
१प्राक् २प्राचीनं च समे
१ प्राञ्चतीति प्राक् । 'अञ्चु गतिपूजनयोः' (भ्वा. प.से.), 'ऋत्विक्-'३।२।५९॥ आदिना क्विन्, 'क्विन्प्रत्ययस्य कुः'८।२।६२॥ २ प्रागेव प्राचीनम् । 'विभाषाञ्चेरदिक्स्त्रियाम्' ५४८८॥ इति खः । पूर्वदिगुत्पन्नस्य द्वे ॥
१प्रत्यक् तु स्यात् २प्रतीचीनम् ॥१६८॥
१ प्रत्यञ्चतीति प्रत्यक् । 'ऋत्विक्-'३।२।५९॥ आदिना क्विन् । २ प्रत्यगेव प्रतीचीनम् । 'विभाषाञ्चेरदिक्स्त्रियाम्'५।४।८८॥ इति खः, खस्येनादेशः, अचः'६।४।१३८॥ इत्यञ्चतेरकारस्य लोपः, 'चौ'६।३।१३८॥ इति पूर्वस्याणो दीर्घः । पश्चिमदिग्भवस्तुनो द्वे ॥१६८॥
तिर्यग्दिशां तु पतय इन्द्राग्नियमनैर्ऋताः ।
वरुणो वायुकुबेरावीशानश्च यथाक्रमम् ॥१६९॥
तिर्यगिति ऊर्ध्वाधोदिग्व्यवच्छेदार्थम् । विदिगिति प्रसिद्ध्या दिगुच्यते । एवं स्वस्वामिसम्बन्धे पूर्वा दिग् ऐन्द्री, ततो विदिग् आग्नेयी, दक्षिणा याम्या, ततो विदिग् नैर्ऋती, पश्चिमा वारुणी, ततो विदिग् वायव्या, उत्तरा कौबेरी, ततो विदिग् ऐशानी इति सिद्धम् । "इन्द्रादीनां च प्राचीपत्यादिवाचकत्वसूचनायाभि- धानादिन्द्रादिनामानां नाप्रस्तुताभिधानम्" इति कौमुदी । इन्द्रयमवरुणधनदाश्चत्वार एते दिगीशाः, अग्निनैर्ऋतवाय्वीशाना एते चत्वारो विदिगीशा इति हृद्यम् ॥१६९॥
१ऐरावतः २पुण्डरीको ३वामनः ४कुमुदो५ऽञ्जनः ।
६पुष्पदन्तः ७सार्वभौमः ८सुप्रतीकश्च दिग्गजाः ॥१७०॥
१ इरावति समुद्रे पर्वते वा भवः ऐरावतः । 'तत्र भवः'४।३।५३॥ इत्यण्, 'तद्धितेष्वचामादेः'७।२।११७॥ इत्यादि वृद्धिः । २ पुण्डरीकवर्णयोगात् पुण्डरीकः । 'अर्शआदिभ्योऽच्' ५।२।१२७॥ इत्यच् । ३ वामनाकारत्वाद् वामनः । ४ कौ पृथिव्यां मोदत इति कुमुदः । 'मुद हर्षे' (भ्वा.आ.से.), मूल विभुजादित्वात् कः । कुमुदं रक्तोत्पलं तत्तुल्यवर्णत्वाद्वा । ''कुमुदं कैरवे रक्तपद्येऽस्त्री"[दान्तवर्गे श्लो.-२५] इति मेदिनिः । ५ अञ्जनवर्णत्वाद् अञ्जनः । ६ पुष्पवद् दन्ता अस्य पुष्पदन्तः । ७ सर्वभूमौ विदितः सार्वभौमः । 'तत्र विदित:-'५।१४३॥ इत्यण्, 'अनुशतिकादीनां च'७।३।२०॥ इति उभयपदवृद्धिः । ८ शोभनः प्रतीकोऽङ्गमस्य सुप्रतीकः । दिशां धारका गजा:
दिग्गजाः । दिक्क्रमेणेति प्रस्तावाल्लभ्यते । ''ऐरावतः पुण्डरीकः कुमुदाञ्जनवाहनाः" इति भागुरिः क्रममाह । माला तु "ऐरावतः सुप्रतीकः" इति क्रममाह । ऐरावतादीनामष्टानां नामैकं दिग्गजा इति ॥१७०॥
इन्द्रादयोऽष्टौ दिक्पालाः, तत्राग्निर्वायुश्च एकेन्द्रियेषु तिर्यक्काण्डे(श्लो.-१०९९-११०६) वक्ष्येते, शेषानत्रानुक्रमेणाह –
१इन्द्रो २हरि३र्दुश्च्यवनो४ऽच्युताग्रजो
५वज्री ६विडौजा ७मघवान् ८पुरन्दरः ।
९प्राचीनबर्हिः १०पुरुहूत११वासवौ
१२संक्रन्दना१३ऽऽखण्डल१४मेघवाहनाः ॥१७१॥
१५सुत्राम१६वास्तोष्पति१७दल्मि१८शक्रा
१९वृषा २०सुनाशीर(शुनाशीर)२१सहस्रनेत्रौ ।
२२पर्जन्य२३हर्यश्व२४ऋभुक्षि२५बाहु-
दन्तेय२६वृद्धश्रवस२७स्तुराषाट् ॥१७२॥
२८सुरर्षभ२९स्तपस्तक्षो ३०जिष्णु३१र्वर३२शतक्रतुः ।
३३कौशिकः ३४पूर्वदिग्३५देवा३६ऽप्सरः३७स्वर्ग३८शचीपतिः॥१७३॥
३९पृतनाषा४०डुग्रधन्वा ४१मरुत्वान् ४२मघवा
१ इन्दति परमैश्वर्यमनुभवति इन्द्रः । 'इदि परमैश्वर्ये' (भ्वा.प.से.), 'ऋज्रेन्द्राग्रवज्रविप्रकुप्रचुप्रक्षुरखुर-भद्रोग्रभेरभेलशुक्रतीव्रवर्णेरमाला :'(उणा-१८६) इति सूत्रेण रन्प्रत्ययान्तो
निपातः । २ हरति दैत्यप्राणान् हरिः। 'हृञ् हरणे' (भ्वा.उ.अ.), 'अच इ:'(उणा-५७८) इति इः, 'सार्वधातुकार्धधातुकयोः'७।३।८४॥ इति गुणः । ३ दुःखेन च्यवनं पतनमस्य दुश्च्यवनः । श्च्यवनमुनिना एकदा जितत्वात्, दुःसहश्च्यवनोऽस्येति वा, दुःसहं च्यवते परदारेषु रेत इति वा । 'च्युङ् यु(ज्यु)ङ् प्रुङ् प्लुङ् गतौँ' (भ्वा.आ.से.), 'चलनशब्दार्थादकर्मकाच्च"३।२।१४८॥ इति युच् इति । "दुःखेन च्यवते रणाद् वा' इति प्रादिसमासः''[अम.क्षीर.१।१।४४॥] इति तु स्वामी । ४ अच्युतस्याग्रजः अच्युताग्रजः । ५ वज्रमस्यास्ति वज्री । 'अत इनिठनौ'५।२।११५॥ इतीनिः । ६ वेवेष्टि विट्, 'विष्लृ व्याप्तौ' (जु.उ.अ.), क्विप्, विट् व्यापकमोजोऽस्य विडौजा: (विडोजाः), पृषोदरादित्वादकारागमे विडौजाः, सकारान्तः । विट्सु प्रजासु ओजोऽस्येति वा, पृषोदरादिः । 'विड भेदने' 'इगुपध-'३।१।१३५॥ इति कः । ''विडं दैत्याना भेदकमोजोऽस्य" [अम.क्षीर.१।१४१॥] इति स्वामी । ७ मह्यते पूज्यते जनैरिति मघवान् (मघवा) । 'मह पूजायाम्'(भ्वा.उ.से., (चु.उ.से.), 'श्वन्नुक्षन्पूषन्प्लीहन्क्लेदस्नेहन्मूर्धन्मज्जन्नर्यमन्विश्वप्सन्परिज्मन्मातरिश्वन्मघवन्-'(उणा-१५७) इति सूत्रेण कन्नन्तो निपातितः । 'मघवा बहुलम्'६।४।१२८॥ इति पक्षे त्रादेशात् सौ दीर्घत्वाभावाद् 'मघवन्' इति । "हविर्जक्षिति निःशङ्को मखेषु मघवान्"[भट्टिकाव्यम् १८१९॥] इति भट्टिप्रयोगात् । मघः सौख्यमस्यास्ति मघवा[न्], मतुबन्तोऽपि । मघा देवानां सभा, सास्यास्तीति वा, 'ङ्यापोः संज्ञाछन्दसोर्बहुलम्'६।३।६३॥ इति ह्रस्वः । यद्वा मघ इति अदन्तं देवसभानाम, सोऽस्यास्तीति मघवा[न्] । एवं मघवा, मघवन्, मघवान् इति त्रैरूप्यम् । ८ पुराण्यरीणां दारयति पुरन्दरः । 'दॄ विदारणे' (क्र्या. प.से.), 'पू:सर्वयोर्दारिसहोः'३।२।४१॥ इति खच् । 'वाचंयमपुरन्दरौ च'६।३।६९॥ इति सूत्रेण निपातितः । ९ प्राचीनमुखाः बर्हिषो दर्भा अस्य प्राचीनबर्हिः । यदुक्तं विष्णुपुराणे –
"प्राचीनाग्राः कुशास्तस्य पृथिव्यां विश्रुता मुने ।
प्राचीनबर्हिरभवत् ख्यातो भुवि महाबलः ॥१॥"
[विष्णुपुराणम्, प्रथमभागः, प्रथमांशः, अध्याः-१४, श्लो.-४] इति ।
१० युद्धे पुरुनाम्ना दैत्येन आहूत इति पुरुहूतः । 'ह्वेञ् आह्वाने' (भ्वा.उ.अ), 'निष्ठा'३।२।१०२॥ इति क्तः, संप्रसारणम्, 'हलः'६।४।२ ॥ इति दीर्घः । "पुरु प्रचुरं (हूतं यज्ञेष्वाह्वानमस्येति) पुरुहूतः" [अम.क्षीर.१।१।४१॥] इति तु स्वामी । ११ वसूनि रत्नानि बहून्यस्य सन्तीति वासवः । ज्योत्स्नादित्वादण् । "वसोरपत्यं वासवः"[अम.क्षीर.१।१।४२॥] । 'तस्यापत्यम्'४।१।९२॥ इत्यण्, 'ओर्गुणः'६।४।१४६॥, 'एचोऽयवायावः'६।१।१७८॥ इति तु स्वामी । वसुरेव वा वासवः । प्रज्ञादित्वादण् । वसति स्वर्गे वासव इति वा । 'वस निवासे' (भ्वा.प.अ.), 'मणिवसो(से)र्णित्'(हैमोणा-५१६) इत्यव इति । १२ संक्रन्दयति दैत्यस्त्रीः, दितिगर्भं संक्रन्दितवानिति वा संक्रन्दनः । दारणाद् गर्भस्थमरुतो वा । 'कदि क्रदि आह्वाने रोदने च' (भ्वा.प.से.), 'नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः'३।१।१३४॥ इति ल्युः । १३ आखण्डयत्यरीन् आखण्डलः । 'खड खडि भेदने' (चु.उ.से.), 'वृषादिभ्यः कलच्'(उणा-१०६) इति कलच् । १४ महामेघा गजरूपधारिण ऐरावतादयो वाहनमस्य, मेघान् वाहयति वर्षयति वा मेघवाहनः । 'वह प्रापणे' (भ्वा. उ.अ.) णिजन्तः, नन्द्यादित्वाल्ल्युः । "इन्द्रो हि मेघानादिश्य वर्षति" इत्यागमः ॥१७१॥ १५ सुष्ठु त्रायते सुत्रामा, नकारान्तः । 'त्रेङ्(त्रैङ्) पालने' (भ्वा.आ.से.), '-मनिन्'(उणा-५८४) इति मन्, 'आदेच उपदेशे-'६।१।४५॥ इत्यात्वम् । शोभनं त्राम बलमस्येति वा । बाहुलकाद् दीर्घत्वे सूत्रामा दीर्घादिरपि ।
१६ वास्तोर्गृहक्षेत्रस्य पतिरधिष्ठातृत्वात् वास्तोष्पतिः इति । 'द्यावा-पृथिवी-सु(शु)नासीर-मरुत्वदग्नीषोम-वास्तोष्पतिगृहमेधाच्छ च'४।२।३२॥ इति निपातनात् षष्ठ्यलुक्, 'षष्ठ्याः पति-पुत्र-'८।३।५३॥ इत्यादिना षत्वे इण्परत्वान्मूर्धन्यमध्यः । १७ दलति गिरीन् दल्मिः । 'दल विशरणे' (भ्वा.प.से.), 'दल्मिः'(उणा-४८७) इत्यौणादिको निपातः । १८ शक्नोति चिन्तितं कर्तुमिति शक्रः । 'शक्लृ शक्तौ' (स्वा.प.अ.), 'स्फायितञ्चिवञ्चि-'(उणा-१७०) इत्यादिना रक् । शक्रं नाम सिंहासनमस्यास्तीति वा । 'अर्शआदिभ्योच्'५।२।१२७॥ १९ वर्षतीति वृषा । 'पृषु वृषु मृषु सेचने' (भ्वा.प.से.), '[कनिन्] युवृषितक्षिराजिधन्विद्युप्रतिदिवः'(उणा-१५४) इति कनिन् 'सर्वनामस्थाने चाऽसम्बुद्धौ'६।४।८॥ इति दीर्घः 'हल्ङ्याप्-'६।१।६८॥ इति सुलोपः, 'नलोपः प्रातिपदिकान्तस्य'८।२।७॥ इति न्लोपः । वृषा, वृषाणौ, वृषाणः इत्यादि राजन्वत् । २० 'नासृ(णासृ) शब्दे' (भ्वा.आ.से.), बाहुलकादीरन्, नासीरा अग्रेसरास्ते शोभना सुनासीरः, द्विदन्त्यः । तत्र शुनो वायुः शीरः सूर्यस्तावस्य स्त इति, अर्शआदित्वादचि 'अन्येषामपि-' ६।३।१३७॥ इति दीर्घत्वे शुनाशीरः इति द्वितालव्योऽपि, एतत्पक्ष एव । "शौरिशुनाशीरशीतशिवशङ्खाः'' इति तालव्यादावूष्मविवेकः । आशुर्नासीरो यस्येति, पृषोदरादित्वादाकारलोपे शुनाशीरः" इत्यन्ये । २१ सहस्रं नेत्राण्यस्य सहस्रनेत्रः । "यत्कौटिल्यः-इन्द्रस्य हि मन्त्रिपर्षदृषीणां वा सहस्रं, स तच्चक्षुस्तस्मादिन्द्रं द्व्यक्षं सहस्राक्षमाहुः"[कौटिलीय-अर्थशास्त्रम्, प्रथममन्त्राधिकारः, १० प्रकरणम्, १४ अध्यायः] इति चाणक्यः । २२ परिवर्षति गर्जति पर्जन्यः । निपातनात् साधुः । २३ हरयः पिङ्गा अश्वा अस्य हर्यश्वः । यच्छालिहोत्रम्–
"त्वत्केशवालरोमाणि सुवर्णाभानि यस्य तु ।
हरिः स वर्णितोऽश्वस्तु पीतकौशेयसप्रभः॥२॥" इति ।
२४ ऋभवः क्षियन्ति निवसन्त्यत्रेति ऋभुक्षः स्वर्गः । 'क्षि निवासगत्योः' (तु.प.अ.), 'अन्येभ्योऽपि'३।२।१०१॥ डः । सोऽस्याश्रयत्वेनास्तीति, 'अत इनिठनौ'५।२।११५॥ इतीनिः ऋभुक्षिन् । प्रथमैकवचने 'पथिमथ्यभुक्षामात्'७।१।८५॥ ऋभुक्षाः, ऋभुक्षाणौ, ऋभुक्षाणः इत्यादिरूपाणि । "ऋभुक्षो वज्रः" इति तु धातुपारायणे पूर्णचन्द्रः । सोऽस्यास्तीति ऋभुक्षा । "ऋभुक्षः स्वर्गवज्रयोः" इति वज्रः (विश्व:) । "इयर्त्ति ऋभुक्षा वा । 'ऋ गतौ' (जु.प.अ.), 'अर्त्तेर्भुक्षिन्', इति भुक्षिन्, स च कित्" इति कौमुदी । "ऋभून् देवान् क्षियति कार्येषु व्यापारयतीति, पृषोदरादित्वात्" इति तु पञ्जिका । २५ बहुदन्त्या अपत्यं बाहुदन्तेयः। 'स्त्रीभ्यो ढक्'४।१।१२०॥ ढक्, 'आयनेयी-'७॥१२॥ इति ढस्यैयादेशः। २६ वृद्धेभ्यः शृणोति वृद्धश्रवाः । 'श्रु श्रवणे' (भ्वा.प.अ.), '-असुन्'(उणा-६२८) इत्यसुन्, वृद्धोपजीवीत्यर्थः । वृद्धाद् बृहस्पतेः शृणोतीति वा । "वृद्धे श्रवसी कर्णावस्य" इति तु स्वामी । 'अत्वसो: सौ' इति दीर्घः । वृद्धश्रवसौ, वृद्धश्रवसः इत्यादि । २७ तुरं त्वरितं साहयत्यभिभवत्यरीनिति, तुरं वेगवन्तं सहत इति वा, तुरः त्वरितः सन् परबलानि सहत इति वा तुराषाट् । 'षह मर्षणे' (भ्वा.आ.से.), 'छन्दसि सहः'३।२।६३॥ इति ण्विः, 'सहे साडः सः'८।३।५६॥ इति षत्वम्, 'अन्येषामपि दृश्यते'६।३।१३७॥ इति दीर्घत्वम् ॥१७२॥ २८ सुरेषु देवेषु ऋषभो मुख्यः सुरर्षभः । 'सप्तमी'२।१।४०॥ इति योगविभागात् समासः । सुरोऽयमृषभ इवेति वा । 'उपमितं व्याघ्रादिभिः-'२।१।५६॥ इति समासः । २९ तपस्तक्ष्णोति इन्द्रपदप्राप्तिशङ्कया तपस्तक्षः । 'तक्ष त्वक्ष तनूकरणे' (भ्वा.प.वे.), पचाद्यच् । ३० जयनशीलः, जयतीत्येवंशीलो वा जिष्णुः । 'जि जये' (भ्वा.प.अ.), 'ग्लाजिस्थश्च ग्स्नुः'
३।२।१३९॥ इति कित् स्नुः (ग्स्नुः) । ३१-३२ वराः शतं च क्रतवोऽस्य वरशतक्रतुः, तेन वरक्रतुः, शतक्रतुः। ''शतं क्रतवः प्रतिमा अभिग्रहविशेषाः कार्त्तिकभवेऽस्याऽऽसन्' इति सिद्धान्तविदः । ३३ कुशैर्दर्भैश्चरति कौशिकः । 'तेन चरति'४।४।८॥ इति ठक् । जातमात्रस्यादित्या कुशैश्छादितत्वात्, यत्पुराणम्-
"जातमात्रोऽथ भगवानादित्या स कुशैर्वृतः ।
तदा प्रभृति देवेशः कौशिकत्वमुपागतः ॥३॥"
इति । कुशिकस्यापत्यं कौशिक इति वा । 'ऋष्यन्धकवृष्णि-'४।१।११४॥ इत्यण् । ३४-३८ पूर्वदिशः, देवानाम्, अप्सरसाम्, स्वर्गस्य, शच्याश्च पतिः, तेन पूर्वदिक्पतिः, देवपतिः, अप्सरःपतिः, स्वर्गपतिः, शचीपतिः, यौगिकत्वात् प्राचीशः, सुरस्त्रीशः, नाकेशः, पौलोमीशः इत्यादयः । त्रिभुवनपतिरपि, यल्लक्ष्यम्-"कपर्दी कैलाशं(-सं) त्रिभुवनपतिः स्वं करिवरम्" इति ॥१७३॥ ३९ पृतनां साहयति पृतनाषाट् । 'षह मर्षणे' (भ्वा.आ.से.), णिजन्तः, 'सहो ण्विः'३।२।६३॥ इति ण्विः , 'सहे साढः(साड:) सः'८।३।५६॥ इति सस्य षत्वम् । ४० उग्रं धनुरस्य उग्रधन्वा । 'धनुषश्च'५।४।१३३॥ इति सूत्रेणानङन्तादेशः । उग्रधन्वानौ, उग्रधन्वानः इत्यादि । ४१ मरुतो देवा अनुचरत्वेनाऽस्ये सन्तीति मरुत्वान् । 'तदस्यास्त्यस्मिन्निति मतुप्'५।२।९४॥, 'झयः'८।२।१०॥ इति मस्य वत्वम्, 'तसौ मत्वर्थे'१।४।१९॥ इति भसंज्ञकत्वात् पदकार्यजश्त्वाभावः । ४२ मघः सौख्यमस्यास्ति मघवान् (मघवा) । मङ्घत इति वा । 'मघिङ् गतौ' (भ्वा. आ.से.), 'श्वन्नुक्षन्-'(उणा-१५७) इत्यादिना साधुः, 'मघवा बहुलम्'६।४।१२८॥ इति पक्षे त्रादेशाभावः । मघा महामेघा देवविशेषा वा वश्यत्वेनास्य सन्तीति वा । मह्यते पूज्यते जनैरिति वा । 'मह पूजायाम्' (भ्वा.उ.से, चु.उ.से.), "पृषो- दरादित्वात् साधुः" इत्युज्ज्वलदत्तः । द्वाचत्वारिंशदिन्द्रस्य । शेषश्चात्र –
"इन्द्रे तु खिदिरो" नेरी त्रायस्त्रिंशपतिर्जयः ।
गौरावस्कन्दी बन्दीको वराणो देवदुन्दुभिः ॥४॥
किणालातश्च हरिमान् यामनेमिरसन्महाः ।
शपीविर्मिहिरो वज्रदक्षिणो वियुतस्तथा ॥५॥" [शेषनाममाला २३१-३३] इति ॥
अस्य तु ।
द्विषः १पाको२ऽद्रयो ३वृत्रः ४पुलोमा५नमुचि६र्बलः ॥१७४॥ .
७जम्भः
१ सर्वनाम्नां पूर्वपरामर्शित्वादस्य इन्द्रस्य द्विषः शत्रवः, ते चामी पाकादयः । पात्यात्मानं पिबति वा पाकः । 'पा रक्षणे' (अ.प.अ), 'पा पाने' (भ्वा.प.अ.) अतो वा, 'इण्भीकापाशल्यतिमर्चिभ्यः कन्'(उणा-३२३) इति कन् । २ अत्ति अद्यते वा अद्रिः । 'अद भक्षणे' (अ.प.अ.), 'अदिशदिभूशुभिभ्यः कित् (क्रिन्)' (उणा-५०५) इति सूत्रेण रिन्प्रत्ययः, स च कित् । ३ वर्तते वृत्रः । 'वृतु वर्तने' (भ्वा.आ.से.), 'स्फायितञ्चि-' (उणा-१७०) इत्यादिना रक् । ४ पुते लोमान्यस्य पुलोमा, नकारान्तः । पृषोदरादित्वात् पुतशब्दतकारलोपः । ५ न मुञ्चत्यहङ्कारं नमुचिः । 'मुच्लृ मोक्षणे' (तु.उ.अ.), 'इगुपधात् कित्'(उणा-५५९) इतीन्, 'नभ्राण्नपात्'६।३।७५॥ इत्यादिना नञ: प्रकृतिभावः । ६ बलति बलः। 'बल प्राणने' (भ्वा.प.से.), पचाद्यच् ॥१७४॥ ७ जम्भते जम्भः । 'जभि गात्रविनामे' (भ्वा.आ.से.), पचाद्यच् । ततो 'वध्याद्-भिद्-द्वेषि-जिद्घाति-' [अभि. श्लो.१०] इति वचनात् पाकद्विट्, अदिद्विट्, वृत्रद्विट्, पुलोमद्विट्, नमुचिद्विट्, बलद्विट्, जम्भद्विट्, यौगिकत्वात् पाकशासनः, गोत्रभित्, (अद्रिभित्), वृत्रहा, पुलोमारिः, नमुचिसूदनः, बलारातिः, जम्भभिद् इत्यादिः । [सप्त इन्द्रद्विषः] ॥
प्रिया १शची२न्द्राणी ३पौलोमी ४जयवाहिनी ।
१ अस्येति पूर्वतोऽनुकृष्यते, प्रिया भार्या, शचते व्यक्तं वक्तीति शची । 'शच व्यक्तायां वाचि' (भ्वा.आ.से.),
'सर्वधातुभ्य इन्'(उणा-५५७) इतीन् शचिः । 'कृदिकारात्-'(गणसू-४।१।४५॥) इति ङीषि शची, तालव्यादिः । ''सर्वेन्द्रियेषु सचते समवैतीति सचिः । 'षच समवाये' (भ्वा. आ.से.), 'सर्वधातुभ्य इन्'(उणा-५५७), 'धात्वादेः षः सः'६।१।६४॥ षस्य सः, 'कृदिकारात्-'(गणसू-४।१।४५॥) ङीषि सची दन्त्यादिरपि" इति पञ्जिका । २ इन्द्रस्य स्त्री इन्द्राणी । 'इन्द्रवरुणभवशर्वरुद्रमृड-'४।१४९॥ इत्यादिना ङीषानुकौ । 'इन्द्रवरुण-'४।१।४९॥ इति सूत्रे "अनुकि कर्त्तव्ये दीर्घाकारमानुकं शास्ति, तद् ज्ञापयति 'यतो विहितं ततोऽन्यत्रापि भवति', तेन कीर्याणी गीर्याणीत्यादि सिद्धं भवति" इति धातुपारायणम् । अत एव-
"लेखर्षभोऽप्यथ शची स्यादिन्द्राणी शतावरी ।
चारुधारा महेन्द्राणी शक्राणी जयवाहिनी ॥१॥" इति रभसः ।
३ पुलोम्नो मुनेरपत्यं पौलोमी । 'बह्वादिभ्यश्च'४।१।९६॥ इतीञ् । ४ जयं वहतीत्येवंशीला जयवाहिनी । चत्वारि इन्द्राण्याः । शेषश्चात्र –
"(स्यात् पौलोम्यां तु) शक्राणी चारुरावा शतावरी ।
महेन्द्राणी परिपूर्णसहस्रचन्द्रवती॥२॥" [शेषनाममाला २३४॥ ॥
तनयस्तु १जयन्तः स्या२ज्जयदत्तो ३जयश्चसः ॥१७५॥
१ इन्द्रस्य तनयः पुत्रः जयन्तः । जयति सर्वोत्कर्षेण वर्तते, जयत्यभिभवति शत्रून् वा । 'जि जये' (भ्वा.प.अ.), 'जि अभिभवे' (भ्वा.प.अ.) अतो वा, 'हृभृ-(तॄभू-)'(उणा-४०८) इत्यादिना झच्, 'झोन्तः'७।१।३॥ झस्यान्तादेशः । केचित्तु '-गण्डिमण्डिजनिनन्दिभ्यश्च'(उणा-४०८) इति सूत्रे जनिस्थाने जिं पठित्वा झचमानयन्ति । २ जय एनं देयादिति जयदत्तः । 'डुदाञ् दाने' (जु.उ.अ.), 'क्तिच्क्तौ च संज्ञायाम्'३।३।१७४॥ इति क्तप्रत्ययः, 'दो दद् घोः'७।४।४६॥ इति दाञ: दथादेशः, 'खरि च'८।४।५५॥ चर्त्वम्, 'तितुत्रतथसिसुरसकसेषु च'७।२।९॥ इतीण्निषेधः । ३ जयति जयः । 'जि जये' (भ्वा.प.अ.), पचाद्यच्। त्रीणि इन्द्रपुत्रस्य । शेषश्चात्र –
"जयन्ते यागसन्तानः'' [शेषनाममाला २।३४॥] ॥१७५॥
सुता १जयन्ती २तविषी ३ताविषी
१ इन्द्रस्य सुता जयन्ती । जयति जयन्ती, गौरादित्वाद् ङीष् । २-३ तवति गच्छति तविषी, ताविषी। 'तव गतौ' सौत्रो धातुः, 'तवेर्णिद्वा'(उणा-४८) इति इषप्रत्ययः, गौरादित्वात् ङीष् । णित्पक्षे आद्यचो वृद्धिः । त्रीणि इन्द्रसुतायाः ॥
१उच्चैःश्रवा हयः।
१ इन्द्रस्य हयः उच्चैःश्रवाः । उच्चैः श्रवसी अस्य उच्चैःश्रवाः । उच्चैः शृणोति वा । 'श्रु श्रवणे' (भ्वा.प.अ.), '-असुन्'(उणा-६२८) इत्यसुन्, 'सार्वधातुकार्धधातुकयोः'७।३।८४॥ इति गुणः, 'अत्वसन्तस्य चाधातो:'६।४।१४॥ इति सौ दीर्घः । 'वा शरि'८।३।३६॥ इति पक्षे विसर्गस्य सत्वम्, 'स्तोः श्चुना श्चुः' ८।४।४०॥ शकारः । द्वे इन्द्रस्य अश्वस्य । "वृषाश्वः" [शेषनाममाला २।३४॥] इति शैषिकम् ॥
१मातलिः सारथिः
१ इन्द्रस्य सारथिः मातलिः । धातूनामनेकार्थत्वाद् मानं मतम्, मतं लाति मातलिः । 'ला आदाने' (दि.प.अ.), बहुलवचनात् कर्तरि किः, 'आतो लोप:-'६।४।६४॥ इत्या लोपः । सूतकर्माणि मतानि, मतानि लाति मतलः, मतलस्यापत्यं मातलिरिति वा । 'अत इञ्'४।१।९५॥ । एकमिन्द्रसारथेः। "हयंकष:" [शेषनाममाला २॥३५॥] इति शैषिकम् ॥
१देवनन्दी द्वाःस्थः
१ इन्द्रस्य द्वा:स्थः । द्वारि तिष्ठतीति द्वा:स्थः द्वारपालः, देवान् नन्दयतीत्येवंशीलः देवनन्दी । 'टुणदि (टुनदि) समृद्धौ' (भ्वा.प.से.), 'सुप्यजातौ-'३।२।१७८॥ इति णिनिः । देवनन्दिनौ, देवनन्दिनः इत्यादि । एकमिन्द्रद्वारपालस्य ॥
गजः पुनः ॥१७६॥
१ऐरावणो२ऽभ्रमातङ्ग३श्चतुर्दन्तो४ऽर्कसोदरः ।
५ऐरावतो ६हस्तिमल्लः ७श्वेतगजो८ऽभ्रमुप्रियः ॥१७७॥
१. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, शो-४०, पृ.६१ ॥, तत्र "धात्वादेः षः सः, षस्य सः, 'कृदिकारात्-' ङीषि" इति न दृश्यते ॥ २. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, शो-४०, पृ.६१ ॥, रामाश्रमी ११४५॥, पृ.२३॥ ३. अत्र जिज्ञासुभी रामाश्रमी ११४५॥, पृ.२३, तथा सिद्धान्तकौमुद्यां 'इन्द्रवरुण-' इत्यत्रत्या तत्त्वबोधिनीव्याख्या द्रष्टव्या, पृ.१४९॥ ४. द्र. पदचन्द्रिका,
कोष्ठान्तर्गतपाठः १.२.४प्रतिषु नास्ति ॥ ६. 'चारुधारा' इति शेषनाममालास्वोपज्ञटीकयोः ॥ ७. '-गडि-' इत्युणादिगणे ॥ ८. उणादिगणसूत्रे तु 'जि' एव दृश्यते ॥ ९. ३.४ नास्ति ॥ १०. '-णोतीति' इति३.४॥ ११. तेन 'उच्चैःश्रवाः' इत्यपि बोध्यम् ॥ १२. 'इन्द्रहयस्य' इति३, 'इन्द्राश्वस्य' इति४॥ १३. 'वृषणश्वो' इति शेषनाममालास्वोपज्ञटीकयोः ॥ १४. 'इन्द्रसारथिः' इति१.२॥ १५. 'क्तिः' इति३॥
१ इन्द्रस्य गजो हस्ती ॥१७६॥ इरा मदिरा, तत्प्रधानं वनं इरावणम्, इरावनम् । 'विभाषौषधि-' ८।४।६॥ इति वा णत्वम् । इरावणे भव ऐरावणः । 'तत्र भव:'४।३।५३॥ इत्यण् । २ अभ्रात्मको मातङ्गः अभ्रमातङ्गः । शाकपार्थिवादित्वाद् मध्यपदलोपी समासः । अभ्रस्थत्वाद्वा अभ्रमातङ्गः । 'अभ्ररूपः' इत्येके । यत्कात्यः- "ऐरावतं विजानीयान्नागमम्बुदगोचरम्'' इति । ३ चत्वारो दन्ता अस्य चतुर्दन्तः । ४ अर्कस्य सोदरः अर्कसोदरः, द्वयोरपि समुद्रोत्पन्नत्वात् । ५ इराः नीराणि नित्यं विद्यन्तेऽस्मिन्निति इरावान् समुद्रः । "इराम्भोवाक्सुराभूमिषु"[अनेकर्थसङ्ग्रहः २३८५] इत्य नेकार्थः । इरावति भवः ऐरावतः, पुंनपुंसकः । 'तत्र भवः' ४।३।५३॥ इत्यण् । इरावती कश्यपजा अनपत्या पुलहप्रिया, तया संभृतत्वाद्वा । तथा चागम:- "इरावत्या भृतः पुत्रस्यार्थे ऐरावतस्ततः" इति । "ऐरावत एव ऐरावणः, पृषोदरादित्वात् तस्य णत्वम्" इति केचित् । ६ हस्तिनां मल्लो हस्तिमल्लः । ७ श्वेतश्चासौ गजश्च श्वेतगजः । ८ अभ्रतीति अभ्रमुः । 'अभ्र वभ्र मभ्र गतौ' (भ्वा.प.से.), 'अभ्रेरमुः(हैमोणा-८००) इत्यमुप्रत्ययः । अभ्रे खे माति, न भ्राम्यति वा मन्थरगामित्वात्, यल्लक्ष्यम्- "अभ्रं वा जघनान्तदोलितकरः" । तस्याः प्रियः अभ्रमुप्रियः । अष्ट ऐरावणस्य।
शेषश्चात्र –
"ऐरावणे मदाम्बरः सदादानो भद्रवेणु:"
[शेषनाममाला २॥३५॥] ॥१७७॥
१वैजयन्तौ तु प्रासादध्वजौ
१ इन्द्रस्य प्रासादो ध्वजश्च, वैजयन्ती पताकास्ति अनयोरिति वैजयन्तौ । 'अर्शआदिभ्योऽच्'५।२।१२७॥ "विजयत इति विजयन्तो विष्णुः । 'जि जये' (भ्वा.प.अ.), 'तॄभूवहिव- सिभासिसाधिगण्डिमण्डिजिनन्दिभ्यश्च'(उणा-४०८) इति झच्, 'झोऽन्तः'७।१।३॥ । तस्यायं वैजयन्तः" इति स्वामी । इन्द्रप्रासादो वैजयन्तः, ध्वजोऽपि वैजयन्तः प्रोच्यते, वैजयन्तीनामा लघुपताका ध्वजेऽस्ति, तद्योगात्। [एकं इन्द्रगृहस्य, ध्वजस्य च] ॥
पुर्यमरावती ।
१ इन्द्रस्य पुरी, अमराः सन्त्यस्याम् अमरावती । 'तदस्यास्त्यस्मिन्निति मतुप्'५।२।९४॥, 'मादुपधायाश्च मतोर्वोऽयवादिभ्यः'८।२।९॥ इति मस्य वत्वम्, 'मतौ बह्वचोऽनजिरादीनाम्'६।३।११९॥ इति दीर्घः । एकमिन्द्रपुर्याः । "सुदर्शनम्' [शेषनाममाला २।३५॥] इति शैषिकम् ॥
सरो १नन्दीसरः
१ इन्द्रस्य सरः, नन्दीनाम्ना सरः नन्दीसरः । एकमिन्द्रसरसः ॥
पर्षत् १सुधर्मा
१ इन्द्रस्य सभा सुधर्मा । शोभनो धर्मोऽस्यामिति सुधर्मा । 'धर्मादनिच् केवलात्'५।४।१२४॥ इत्यनिच्। सुधर्माणौ, सुधर्माणः इत्यादि । "सुधर्मामिव तां सकौशिकां" विन्ध्याटवी(विन्ध्याटवीं) विवेश" इति वासवदत्तायामाबन्तत्वे समासान्तो विधिरनित्यः इत्यनिजभावः । यद्वा 'डाबुभ्याम्-'४।१।१३॥ इति डाप्, नकारान्तपक्षे ऋन्नेभ्यो ङीपि प्राप्ते 'अनो बहुव्रीहे:'४।१।१२॥इति प्रतिषेधः । इन्द्रसभाया एकम् ॥
नन्दनं वनम् ॥१७८॥
१ इन्द्रस्य वनम्, नन्दयति नन्दनम् । 'टुणदि (टुनदि) समृद्धौ' (भ्वा.प.से.), हेतुमण्णिच्, 'नन्दिग्रहिपचादिभ्यः-'३।१।१३४॥ इति ल्युः, 'युवोरनाकौ'७।१।१॥, 'णेरनिटि'६।४।५१॥ इति णिलोपः । इन्द्रवनस्य एकम् ॥१७८॥
वृक्षाः १कल्प: २पारिजातो ३मन्दारो ४हरिचन्दनः ।
५सन्तानश्च
१ इन्द्रस्य वृक्षाः पञ्च, तन्नामानि, यथा-कल्पः सङ्कल्प इच्छा, तत्पूरकत्वात् कल्पः । "कल्पः सङ्कल्पितोऽर्थस्तस्य वृक्षः" इत्यन्ये । "कल्पस्थायी वृक्षः" इत्येके । "कल्पः सङ्कल्पः, तस्य वृक्षः, जन्यजनकसम्बन्धात् कल्पवृक्षः" इति माधवी । २ समुद्रपारे जातः पारिजातः, पृषोदरादिः ।
"पारिणः पारवतोऽब्धेर्जातः पारिजात:"[अम.क्षीर.१।१।५०॥] इति स्वामी । परिजातो जन्यत्वेनास्यास्ति, अर्शआद्यचि पारिजात इति वा । पारिजातः समुद्रः, तत्र भव इति वा । ३ मन्दते मोदयति मन्दारः । 'मद स्तुतिमोदमदस्वप्न[कान्ति]गतिषु' (भ्वा.प.से.) अस्माद्धातोः 'अगिमदिमन्दिभ्य आरन्'(उणा.-४१४) इत्यारन्। "मन्दा आरा धारा अस्य, सरलत्वात्" इति श्रीधरः । ४ चन्दति आह्लादयति चन्दनम् । 'चदि आह्लादनदीप्त्यो:' (भ्वा.प.से.), नन्द्यादित्वाद् ल्युः । हरेश्चन्दनः हरिचन्दनः, पुंनपुंसकलिङ्गः । ५ सम्यक् तनोति फलमिति सन्तानः । 'तनु विस्तारे' (तना.उ.से.), संपूर्वः, 'तनोतेर्णउपसंख्यानम्'(वा-३।१।१४०॥)इति णः, णित्त्वाद् वृद्धिः । "गन्धस्य सम्यक् तानो विस्तारोऽस्य सन्तानः" इत्यन्ये । "सम्यक् तन्वन्ति विस्तारयन्ति पुष्पाणि सन्त्यस्मिन्नित्यधिकरणे घञ्'' इत्यपरे ॥
धनु१र्देवायुधम्
१ इन्द्रस्य धनुः, देवानामायुधं देवायुधम् । "मेघप्रतिफलिता हि रविरश्मयो धनुराकारेण भासन्ते" [अम.क्षीर. १।२।११॥] इति क्षीरस्वामी । एकमिन्द्रधनुषः ॥
तदृजु १रोहितम् ॥१७९॥
तद् देवेन्द्रधनुः, अर्जयति यश ऋजु । 'अर्ज सर्ज अर्जने' (भ्वा.प.से.), 'अर्जि-दृशि-कम्यमि-पंसि (पशि)-'(उणा.-२७) इत्युप्रत्ययः, अर्जे: ऋजिरादेशः । रोहः सञ्जातोऽस्य रोहितम्, तारकादित्वादितच् । रोहितवर्णत्वाद्वा । केचित्तु "ऋजुरोहितम्" इति समस्तमिच्छन्ति । तदिन्द्रधनुः ऋजु सरलमवक्रम्, तस्य नामैकम् । ऋजु इदं तूत्पाते भवति ॥१७९॥
दीर्घ१र्ज्वैरावतम्
१ तदेवेन्द्रधनुः दीर्घं ऋजु च दीर्घर्जु, अत्र कर्मधारयः । इरावति मेघेऽब्धौ वा भवम् ऐरावतम् । 'तत्र भवः'४।३।५३॥ इत्यण् । पुंक्लीबलिङ्गः । इदं वर्षासु भवति । प्रलम्बसरलधनुष एकम् ॥
१वज्रं त्व२शनि३र्ह्रादिनी ४स्वरुः ।
५शतकोटि: ६पविः ७शम्बो८दम्भोलि९र्भिदुरं १०भिदुः ॥१८०॥
११व्याधामः १२कुलिशः
१ वजति यात्येव न प्रतिहन्यते क्वापीति वज्रम्, पुंक्ली. । 'वज गतौ'(भ्वा.प.से.), 'ऋजेन्द्रा-'(उणा-१८६) इति रक् । "व्रजोऽस्त्री हीरके पवौ"[अमरकोषः ३।३।१८४॥] इत्यनेकार्थः । "अस्त्रियौ वज्रकुलिशौ दम्भोलिरशनिर्द्वयोः" इति संसारावर्त्तः । २ अश्नाति शैलान्, अश्यते भुज्यते वा स्वाराज्यमनेनेति अशनिः, पुंस्त्री । 'अश भोजने' (क्र्या.प.अ.), 'अर्तिसूधूववस्यम्य(अर्त्तिसृधृधम्यम्य)श्यवितॄभ्योऽनिन्'(उणा.-२५९) इत्यनिन् । अश्नुते व्याप्नोत्यरीन् ज्वालाभिरिति वा । "न शनैर्यातीति पृषोदरादित्वात्''[अम.क्षीर. १।१।४७॥] इति स्वामी । "स्त्रीपुंसयोः स्यादशनिश्चञ्चलायां पवावपि" इति गौडः । " 'वज्राशनिः' इति समुदितं नामाऽस्येत्यपि" इति केचित् । "वज्राशनिं विदुर्वज्रम्"[त्रिकाण्डशेषः १।१।६१॥] इति त्रिकाण्डशेषात् । "अथ वज्राशनिर्द्वयोः" इति नामनिधानाच्च । ३ ह्रादत्यव्यक्तं वक्ति अवश्यं ह्रादिनी । 'ह्राद अव्यक्ते शब्दे' (भ्वा.आ.से.), आवश्यके णिनिः । ह्रादः स्फूर्जथुरस्त्यस्या इति वा । 'अत इनिठनौ'५।२।११५॥ इतीनौ ह्रादिनी, स्त्रीलिङ्गः । ४ स्वरत्युपतापयति दैत्यानिति स्वरुः, पुंसि । 'स्वृ शब्दोपतापयोः' (भ्वा.प.अ.), 'शृस्वृस्निहित्रप्यसिवसिहनिक्लिदिबन्दिमनिभ्यश्च'(उणा-१०) इति उः । "सु शोभनानि अरूंषि धारा अस्येति वा स्वरुः, सकारान्तः"[अम.क्षीर. १।१।४७॥] इति स्वामी । ५ शतानि दशशतानि कोटयो धारास्येति शतकोटिः, पुंसि । "शतं बह्व्यः कोटयोऽस्य" इत्यन्ये । ६ पुनाति वैरं पविः, पुंसि । 'पूञ् पवने' (क्र्या.उ.से.), 'अच इ:' (उणा.-५७८) इति इः । हीरकस्य पवित्रत्वोक्तेः । "वज्रोऽस्त्री हीरके
१. '-वातो-' इति१॥ २. 'पारिजातकः' इति अम.क्षीर. टीकायाम्, ११५० ॥, पृ.१६ ॥ ३. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, शो-४५,
॥ ४. 'परि-' इति २॥ ५. 'अङ्गि-' इत्युणादिगणे ॥ ६. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, शो-४५, पृ.६७॥, रामाश्रमी ११५०॥ पृ.२६ ॥ ७. 'चदि ह्लादने दीप्तौ च' इति स्वामी, '-आह्लादने' इति सायणः ॥ ८. '-णस्योप-' इति काशिकावृत्तौ ॥ ९. 'ततो' इति३ ॥ १०. अम.क्षीरस्वामिटीकायां 'दृश्यन्ते' इति दृश्यते, १२॥११॥, पृ.२५ ॥ ११. 'ऋजुः' इति३.४॥ १२. द्र. स्वोपज्ञटीका २ १३. द्र. पदचन्द्रिका, स्वर्गवर्गः, शो-४२, पृ.६३ ॥ १४. '-ऽनि' इत्युणादिगणे ॥ १५. अम.क्षीर.टीकायां 'न शनैर्याति वा' इत्येव दृश्यते, ११४७॥, पृ.१५॥ १६. त्रिकाण्डशेषे "वज्राशनिर्भिदुर्भिद्रो" इति दृश्यते, ११६१ ॥, पृ.२६६॥ १७. द्र. पदचन्द्रिका, स्वर्गवर्गः, श्रो-४२, पृ.६४॥, रामाश्रमी १।१४७॥, पृ.२५ ॥ १८. अम. क्षीरस्वामिटीकायां "शोभनान्यरूंषि धारा अस्येति सान्तो वा" इति दृश्यते, ११४७॥, पृ.१४॥. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, श्रो-४२, पृ.६४॥ १९. द्र. अम.क्षीर. १।१।४७॥, पृ.१५ ॥, स्वोपज्ञटीका २१८० ॥, पृ.४२ ॥, पदचन्द्रिका, भा-१, स्वर्गवर्गः, श्रो-४२, पृ.६४॥
पवौ"[अमरकोषः ३।३।१८४॥] इत्युक्तेर्न सकारान्तत्वाशङ्का । ७ शमयत्यरीन् शम्बः । अन्तर्भावितण्यर्थात् 'शमेर्बन्'(उणा-५३४) इति बन् । कार्यं कृत्वा शाम्यति तिष्ठतीति वा । शं शुभमस्यास्त्यभेद्यत्वाद्वा । 'कंशंभ्यां बभयुस्तितुतयसः'५।२।१३८॥ इति बः । "तालव्या अपि दन्त्याश्च शम्बशूकरपांशवः" इत्यूष्मविवेकाद् दन्त्यादिरप्ययम् । ८ दभ्नोति खेदयति दानवानिति । दम्भाद् आटोपाल्लीयते श्लेषयतीति वा दम्भोलिः, पृषोदरादिः । "दभ्नोति खेदयति, ओलिप्रत्यये बाहुल्ये दम्भोलिः, पुंसि'' इति स्वामी । ९ भेदनशीलत्वाद् भिदुरम्, क्लीबे । 'भिदिर् विदारणे' (रु.उ.अ.), 'विदिभिदिच्छिदेः कुरच'३।२।१६२॥ । "कर्मकर्त्तरि चायमिष्यते इत्यत्र चकार: कर्तरीत्यनुकर्षणार्थः, तेनाकर्मकर्त्तर्यपि भवति'' इति वामनाचार्यः । तथा च - "गुरुमत्सरच्छिदुरया'' [शिशुपालवधम्, सर्गः-६, श्लो.-८] इति माघः । केचित्तु 'भिदिरम्' इति पठन्ति, तत्र 'इषिमदि-'(उणा.-५१) इत्यादिना किरच् । १० भिनत्ति पर्वतानिति भिदुः, पुंसि । 'भिदिर् विदारणे' (रु.उ.अ.), 'पॄभिदिव्यधि- गृधिधृषिहृषिभ्यः कु:'(उणा.-२३) इति कु: ॥१८०॥ ११ विशेषेण आदधाति भयं दैत्यानामिति व्याधामः । 'डुधाञ् धारणपोषणयो:' (जु.उ.अ.), 'अर्तीरि-'(हैमोणा-३३८) इति मः । १२ कुलौ हस्ते शेते कुलिशः, पुंक्ली. । 'शीङ् स्वप्ने' (अ.आ.से.), 'अन्यत्रापि दृश्यते'(वा.-३।२।४८॥) इति डः, डित्त्वाट्टिलोपः । "कुलिर्हस्तो भुजादलः''[त्रिकाण्डशेषः २।६।२६॥] इति त्रिकाण्डशेषः । यद्वा कुलिनः पर्वतान् श्यति पक्षच्छेदेन तनूकरोति । 'शो तनूकरणे' (दि.प.अ.), 'अन्यत्रापि दृश्यते'(वा.-३।२।४८॥) इति ड: । "कुत्सितं लिशति तक्ष्णोति गिरीन् वा । 'लिश श्लेषणे' (तु.प.से.), 'इगुपधज्ञाप्रीकिरः कः'३।१।१३५॥ इति कः" इति स्वामी । द्वादश वज्रस्य ॥
अस्यार्चि१रतिभीः
१ अस्य वज्रस्यार्चिः ज्वाला अतिभी : । अतिशयेन बिभेत्यस्याः अतिभी:, स्त्रीलिङ्गः । 'ञिभी भये' (जु.प.अ.), क्विबन्तः । एकं वज्रज्वालायाः ॥
१स्फूर्जथुर्ध्वनिः ।
१ अस्य वज्रस्य ध्वनिः स्फूर्जथुः, पुंसि । 'टु[ओ]स्फूर्जा वज्रनिर्घोषे' (भ्वा.प.से.), 'ट्वितोऽथुच्' ३।३।८९॥ इत्यथुच् । एकं वज्रध्वनेः ।।
१स्वर्वैद्या२वश्विनीपुत्रा३वश्विनौ ४वडवासुतौ ॥१८१॥
५नासिक्या६वर्कजौ ७दस्रौ ८नासत्या९वब्धिजौ यमौ ।
१ स्वः स्वर्गस्य वैद्यौ स्वर्वैद्यौ । २ वडवारूपिणी संज्ञारूपयोगादश्विनी, तस्याः पुत्रौ अश्विनीपुत्रौ । यौगिकत्वाद् आश्विनेयौ । 'स्त्रीभ्यो ढक्'४।१।१२०॥ इति ढक् । ३ अश्वो नित्यं विद्यतेऽनयोः अश्विनौ । 'अत इनिठनौ'५।२।११५॥ इतीनिः । (सदारूढावित्यर्थः । अश्विन्यां जाताविति नक्षत्राण: 'नक्षत्रेभ्यो बहुलम्' ४।३।३७॥ इति लुकि 'लुक् तद्धितलुकि'१।२।४९॥ इति ङीपो लुकि अश्विनौ नान्तौ ह्रस्वादी) । "सदा- श्वारूढत्वादश्वयोगादश्विनौ'' इति तु स्वामी । ४ वडवायाः सुतौ वडवासुतौ ॥१८१॥ ५ "संज्ञानामा सूर्यस्य स्त्री उत्तरकुरौ धृताश्वरूपा तपस्यन्ती आसीत्, रविरपि तत्सङ्गमेच्छु: तुरङ्गरूपी सङ्गमगात्, स च तयान्यपुरुषधिया निरस्तः सन् तन्नासापुटद्वये रेतोऽभ्यषिञ्चत, तत्र तौ जातौ'' इत्याश्चर्यपर्व । अतो "नासिकाभवत्वेन नासिक्यवर्णसदृशौ नासिक्यौ । अश्विन्या नासिकारन्ध्रयो रवे रेत:पातादुत्पन्नौ" इति हि प्रसिद्धिः । ६ अर्काज्जातौ अर्कजौ । ७ दस्यत उत्क्षिपतो रोगानिति
१. द्र. रामाश्रमी ११४७ ॥, पृ.२५ ॥, अमरकोशस्य मल्लिनाथसूरिकृताऽमरपदपारिजातटीका, भा-१, ११४७ १, पृ.३४ ॥ २. अम.क्षीरस्वामिटीकायां "दभ्नोति खेदयति दम्भोलिः" इत्येव दृश्यते, १।१४७ ॥, पृ.१५ ॥ ३. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, श्री-४२, पृ.६३ ॥ ४. '-धृषिभ्यः' इत्येवोणादिगणे दृश्यते ॥ ५. 'लिश अल्पीभावे' अथवा 'लिश गतौ' इति पाठ्यम्, 'लिश श्रेषणे' इत्यास्यादर्शनात् ॥ ६. द्र. पदचन्द्रिका,
भा-१, स्वर्गवर्गः, श्री-४२, पृ.६३, तत्र "कुलिनः पर्वतान् श्यति पक्षच्छेदेन तनूकोरोति, कुत्सितं लिशति तक्ष्णोतीति वेति तु स्वामी" इति . दृश्यते ॥ ७. अम. क्षीरस्वामिटीकायां "कुत्सितं लिक्षति तक्ष्णोत्यरीन् वा" इत्येव दृश्यते, १।१४७॥, पृ.१५ ॥ ८. '-भिरुच्यते' इति३ ॥ ९. कोष्ठान्तर्गतपाठः १प्रतौ न दृश्यते ॥ १०. २प्रतौ नास्ति ॥ ११. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्ग:, शो-४६, पृ.६९ ॥ १२. अम. क्षीरस्वामिटीकाया "अश्विनौ सदाश्वाधिरूढौ" इति दृश्यते, १।१५१ ॥, पृ.१६॥ १३. "संज्ञानामादित्यमहिला उत्तरकरावश्वरूपधारिणी प्रार तत्सङ्गमेच्छुरश्वरूपेण तत्सन्निधिमगमत् । स तयान्यपुंशङ्कया निरस्तः सन् तन्नासापुटद्वये रेतो निषिक्तवान् । तत्र तौ जातावित्याश्चर्यपर्वणि ।" इति टीकासर्वस्वम्, भा-१, १।१५१ ॥, पृ.३८ ॥, पदचन्द्रिकायां "संज्ञा च सूर्यस्त्री उत्तरकुरौ धृताश्वरूपा तपस्यन्त्यासीत् । सूर्योऽपि तत्सङ्गमेच्छु स्तुरगरूपी समीपमगात् । स च तयान्यपुरुषधिया निरस्तः सन् तन्नासापुटद्वये रेतो न्यषिञ्चत । तत्र तौ जातावित्याश्चर्यपर्व ॥" इति दृश्यते, स्वर्गवर्गः, शो-४६, पृ.६८ ॥ १४. द्र. स्वोपज्ञटीका २।१८१ ॥, पृ.४२ ॥ १५. '-पतौ रोगाविति' इति ४॥
दस्रौ । 'तसु उत्क्षेपे, दसु च' (दि.प.से.) इत्यतः 'स्फायितञ्चि-'(उणा.-१७०) इति रक् । ८ नासां त्यक्तवन्ताविति नासत्यौ । 'त्यज हानौ' (भ्वा.प.अ.), 'अन्येभ्योऽपि(अन्येष्वपि) दृश्यते'(वा.-३।२।४८॥) इति डः, डित्त्वाट्टिलोपः, 'ङ्यापोः संज्ञाच्छन्दसोर्बहुलम्'६।३।६३॥ इति नासाशब्दस्य ह्रस्वत्वम् । यद्वा अत एव नासाभवत्वात् सत्सु साधू सत्यौ। 'तत्र साधु:'४।४।९८॥ इति यत् । "न सत्यौ असत्यौ, पुनर्नञ्समासे 'नभ्राण्नपात्-'६।३।७४॥ इत्यादिना नञ: प्रकृतिभावः"[अम.क्षीर. १।१।५१॥] इति तु स्वामी । न असत्सु साधू नासत्यौ इति वा । ९ अब्धेर्जातौ अब्धिजौ । 'जनी प्रादुर्भावे' (दि.आ.से.), 'पञ्चम्यामजातौ'३।२।९८॥ इति डः । १० यमौ युग्मरूपौ । सर्व एवामी नित्यद्विवचनान्ताः, पुंल्लिङ्गाश्च । यद्यपि "देव्यां तस्यामजायेतां नासत्यो दस्र एव वै" इति मार्कण्डेयपुराणम्, "एते वयं वृत्ररिपुस्तथैतौ नासत्यदस्रौ वरुणस्तथा [-थैव]" इति वायुपुराणे । उत्पलिन्यां च –
"वैवस्वतो मनुर्नाम यमौ च यमुनायमौ ।
नासत्यदस्ररेवन्ताः षट्संज्ञायां रवेः सुताः ॥१॥"
इति व्याडिः, भेदस्तथापि अनयोरेकार्थत्वात्, समानसर्वप्रकारकत्वाच्च अभेदोऽपि, यथा भारते "उभावेतौ न सोमार्हौ नासत्याविति मे मतिः"। तथा च माघे "अनुसस्रतुस्तयोः सुतौ"[शिशुपालवधम्, सर्गः-१३,श्लो.-२३] इति । यदा हि नासत्ये उपचाराद् दस्रोऽपि वर्तते, तदा नित्यद्विवचनान्तता, न त्वेकवृत्तिः । यच्च 'नभ्राण्नपात्-' ६।३।७६॥ इति सूत्रे नासत्या इत्येकस्मिन्नपि नासत्ये बहुत्वमारोप्य बहुवचनम्, (तच्चारोपित बहुत्वमेकस्मिन्नपि बहुवचनं) भवतीति ज्ञापनार्थम्, तेन गुरुष्वित्याधुपपन्नं भवति इति कौमुदी । "यमजत्वाद् द्वित्वम्" इत्यन्ये । तथा च भागुरिः "नासत्यदस्रौ यमजावाश्विनेयौ यमाविति" । एकत्वमपि, "दीप्यमानं ततश्चलमश्वासुतविपुलं पुच्छम्" इति भारतोक्तेः । दश स्वर्वैद्ययोः । शेषश्चात्र –
"नासिक्ययोस्तु नासत्यदस्रौ प्रवरवाहनौ ।
गदान्तकौ यज्ञवहौ'' [शेषनाममाला २।३६॥] ॥
१विश्वकर्मा पुन२स्त्वष्टा ३विश्वकृद् ४देववर्धकिः ॥१८२॥
१ विश्वं करोति विश्वकर्मा । 'डुकृञ् करणे' (त.उ.अ.), '-मनिन्'(उणा.-५८४) इति मनिन् । २ त्वक्षति त्वष्टा । 'त्वक्ष (त्वक्षू) तनू करणे' (भ्वा.प.से.), 'नप्तृनेष्टुत्वष्टहोतृपोतृमातृभ्रातृजामातृपितृदुहितृ'(उणा.-२५२) अनेनं निपातितः । ३ विश्वंकरोति विश्वकृत्, क्विप् । ४ देवानां वर्धकिः देववर्धकिः । चत्वारि देवसूत्रधारस्य ॥१८२॥
१स्वः२स्वर्गिवध्वो३ऽप्सरसः ४स्वर्वेश्या५स्तूर्वशीमुखाः ।
१-२ स्वश्च स्वर्गी च स्वःस्वर्गिणौ, तयोर्वध्वः । द्वन्द्वान्ते श्रूयमाणं वधूपदं प्रत्येकमभिसम्बध्यते, तेन स्वर्वध्वः, स्वर्गिवध्वः । यौगिकत्वात् स्वर्गस्त्रियः, सुरस्त्रियः । ३ समुद्रप्रभवत्वादद्भ्यः सरन्ति अप्सरसः । 'ऋ सृ गतौ' (जु.प.अ.), 'सर्तेरसुन्'(उणा.-६७६) इत्यसुन् । अपः सारयन्ति स्खलयन्तीति वा । औणादिकोऽसिप्रत्ययः, पृषोदरादित्वादुपधह्रस्वत्वमपशब्दस्यान्त्याकारलोपश्च । यद्वा आप्यन्ते पुण्यैरित्यप्सरसः । 'आपोऽपाप्ताप्सरोजश्च (-रोब्जाश्च)'(हैमोणा-९६४) इत्यस्, बहुवचनान्तः, स्त्रीलिङ्गोऽयम्। एकवचनेऽपि, 'चयो द्वितीयाः शरि पौष्करसादेरिति वक्तव्यम्'(वा.-८।४।४७॥) इति, अत्र वामनाचार्येण 'अप्सराः' इत्युदाहृतत्वात्, "स्त्रियां बहुष्वप्सरसः स्यादेकत्वेऽप्सरा अपि" इति शब्दार्णवाच्च । शुंभयाशब्दवद् रूपम् ।
"सान्द्रबाणपटसंवृतमूर्तेर्दन्तिदन्तशयनीयशयस्य ।
मानिनः कुलवधूरिव रागादप्सरा व्यधितपार्श्वमशून्यम् ॥१॥"
इति प्रयोगः । ४ स्वः स्वर्गस्य वेश्याः स्वर्वेश्याः । स्वरिति स्वर्गिणोऽप्युपलक्षणम्, तेन देवगणिका इत्यपि । ५ उरून् महतो वष्टि कामयते वशीकरोति वा उर्वशी, पञ्चमस्वरादिः । 'वश कान्तौ' (अ.प.से.), पचाद्यचि, गौरादित्वाद् ङीष्, पृषोदरादित्वादुरुशब्दस्योकारलोपः । ऊरू (ऊरूम्) अश्नुते व्याप्नोतीति वा, नारायणोरुद्भवत्वात् । पृषोदरादित्वाद् ह्रस्वत्वे 'इको यणचि'६।१।७७॥ इति यणादेशः । "पूर्ववदन्यत्" इति स्वामी । एवं ह्रस्वादिस्तालव्यान्त उर्वशीशब्दः । तथा च शतपथे - "उर्वशीहाप्सराः पुरूरवसमैलं चकमे" इति। माघे च- "दधत्युरोजद्वयमुर्वशीतलं भुवो गतेव स्वयमुर्वशी तलम्" [शिशुपालवधम्-९।८६] । "ऊरौ उषितेति 'वस निवासे' (भ्वा.प.अ.) इत्यत्र ऊर्वसी दीर्घादिदन्त्यान्ता, पृषोदरादित्वाद् व्युत्पादिता" इति वर्णदेशना' । तथा च हरिवंशे - "नारायणोरुं निर्भिद्य संभूता वरवर्णिनी" । मुखशब्देन आद्यर्थेन रम्भामेनकादीनां ग्रहणम् । यद् व्याडि: -
"अथ ब्रह्मणोऽग्निकुण्डात् समुत्पन्ना प्रभावती ।
वेदितलाद् वेदिवती यमात् पुनः सुलोचना ॥२॥
उर्वशी तु हरेः सव्यमूरुं भित्त्वा विनिर्गता ।
रम्भा तु ब्रह्मणो वक्त्राच्चित्रलेखा तु तत्करात् ॥३॥
शिरसस्तु महाचित्ता स्मृता काकलिसा चसा ।
मारीची सूचिका चैव विद्युत्पर्णा तिलोत्तमा ॥४॥
अद्रिका लक्षणा क्षेमा दिव्या रामा मनोरमा ।।
हेमा सुगन्धा सुवपुः सुबाहुः सुव्रता सिता ॥५॥
शारद्वती पुण्डरीका सुरसा सूनृतापि च ।।
सुवाता कोमला हंसपादी च सुमुखीति च ॥६॥
मेनका सहजन्या च पर्णिनी पुञ्जिकास्थला ।।
ऋतुस्थला घृताची च विश्वाचीत्यप्सर:स्त्रियः ॥७॥" ।
चत्वारि स्वर्वेश्यायाः ॥
हाहादयस्तु १गन्धर्वा २गान्धर्वा ३देवगायनाः ॥१८३॥
१ गायन् हा इति कुत्सितध्वनिं जहाति हाहाः, पुंसि । 'ओहाक् त्यागे' (जु.प.अ.), विच्प्रत्ययः। क्विबन्तत्वाभावेनाऽधातुत्वाद् द्वितीयाबहुवचने हाहान् इति । टादौ तु 'आतो धातोः'६।४।१४०॥ इति योगविभागादाकारलोपे हाहा इत्यादि । बहुलवचनाद् 'मिथुनेऽसिः'(उणा.-६६२) इत्यसौ हाहाः, सकारान्तोऽपि, ''गन्धर्वः प्रीतिहाहसोः" इति संसारावर्तात्, "गन्धर्वो हाहसि प्रोक्तः" इति रत्नकोषाच्च । केचित्तु 'हाहाहूहूः' इति समुदितं नामाहुः । अन्ये तु, "हहा आदिह्रस्वोऽव्युत्पन्नो, हुहुराद्यन्तर्ह्रस्वोऽपि" इत्याहुः । तथा च "गीतमाधुर्यसंपन्नौ विख्यातौ च हहाहुहुः" इति व्यासः । "हंसो हहाहुहू च द्वौ वृषाणश्वश्च तुम्बुरुः" इति शब्दार्णवः । आदिशब्देन हूहूतुम्बुरुविश्वावसुचित्ररथादीनां ग्रहणम् । अत्रानुक्तोऽपि हूहू व्युत्पाद्यते । हू इति कृत्वा ह्वयतीति हूहूः । 'ह्वेञ् स्पर्धायां शब्दे च' (भ्वा.उ.अ.), क्विप्, वच्यादीनां संप्रसारणम्, 'हलः'६।४।२॥ इति दीर्घः, 'संप्रसारणाच्च'६।१।१०८॥ इति पररूपत्वम् । शृङ्गारप्रकरणे हाहा- हूहूशब्दयोरव्ययत्वमप्युक्तम् । गन्धं सौरभमर्वति गन्धर्वः । 'अर्व पर्व मर्व गतौ" (भ्वा.प.से.), कर्मण्यण्, शकन्ध्वादित्वात् पररूपत्वम् । गानं धर्म एषामिति, पृषोदरादित्वाद्वा । २ गन्धयन्ते हिंसन्ति दु:खं गन्धर्वाः 'गन्धेरर्चात: (-न्तः)' (हैमोणा.-५०८) इति वाः (व:) । गौर्ध्रियते वाक् सप्तमस्वरसंपन्ना
तिष्ठत्यत्रेति वा, पृषोदरादिः । गन्धर्वा एव गान्धर्वाः । स्वार्थेऽण् । देवानां गायनाः देवगायनाः । "अपि गन्धर्वगान्धर्वाः दिव्यगायनगानवः" इति शब्दार्णवः । त्रीणि देवगन्धर्वस्य ॥१८३॥
१यमः २कृतान्तः ३पितृ४दक्षिणाशा-
५प्रेतात् पति६र्दण्डधरो७ऽर्कसूनुः ।
८कीनाश९मृत्यू १०समवर्ति११कालौ
१२शीर्णांह्रि१३हर्य१४न्तक१५धर्मराजाः ॥१८४॥
१६यमराजः १७श्राद्धदेवः १८शमनो १९महिषध्वजः ।
२०कालिन्दीसोदरश्चापि
१ यमयति यमः । 'यम उपरमे' (भ्वा.प.अ.), हेतुमण्णिजन्तात् पचाद्यच् । यमलजातत्वाद्वा । २ कृतोऽन्तो विनाशोऽनेन कृतान्तः । 'निष्ठा'२।२।३६॥इति सूत्रेण निष्ठान्तकृतशब्दस्य प्राक्प्रयोगः । ३-५ पितृशब्दात्, दक्षिणाशाशब्दात्, प्रेतशब्दाच्च परतः पतिशब्दो योज्यः, तेन पितृपतिः, दक्षिणाशापतिः, प्रेतपतिः । ६ कालाख्यस्य दण्डस्य धरो दण्डधरः । 'धृञ् धारणे' (भ्वा.उ.अ.), पचाद्यच् । ७ अर्कस्य सूनुः पुत्रः अर्कसूनुः । ८ क्लिश्यति (क्लिश्नाति) लोकान् कीनाशः । 'क्लिशू विबाधने' (क्र्या.प.वे.), 'क्लिशेरीच्चोपधायाः शन् लोपश्च लो नाम् च'(उणा.-७३४) इति सूत्रेण शन्प्रत्ययः, उपधाया ईत्, लस्य लोपः, नामागमः । कनति दीप्यते वा कीनाशः । 'कन दीप्तौ' (भ्वा.प.से.), 'कनेरिच्चातः'(हैमोणा-५३४) इत्याशप्रत्ययः । ९ म्रियतेऽनेन मृत्युः, पुंसि । 'मृङ् प्राणत्यागे' (तु.आ.अ.), 'भुजिमृङ्भ्यां युक्त्युकौ'(उणा.-३०१) इति त्युक् । १० शत्रुमित्रयोः राज्ञि रङ्के च समं वर्तितुं शीलमस्य समवर्ती । 'वृतु वर्तने' (भ्वा.आ.से.), 'सुप्यजातौ-३।२।७८॥ इति णिनिः, 'सौ च'६।४।१३॥ इति सौ परे दीर्घः । ११ कलते प्राणिनां धर्माधर्माविति कालः । 'कल संख्याने' (भ्वा.आ.से), अतो भौवादिकाद् बहुवचनात् कर्तरि घञ् । "कलयति क्षिपयत्यायुः"[अम.क्षीर.१।१।५९॥] इति स्वामी, पचाद्यच् । १२ शीर्णावंह्री अस्य शीर्णांह्रि: । शनैश्चरेणास्य दृशाऽवलोकितौ पादौ दग्धाविति हि प्रसिद्धिः । १३ हरति प्राणान् हरिः । 'हृञ् हरणे' (भ्वा.उ.अ.), 'अच इ:'(उणा.-५७८) इति इः । १४ अन्तं करोति अन्तकः । 'तत्करोति तदाचष्टे'(गणसू.-३।१।२६॥) इति चुरादित्वात् सुबन्ताण्णिजन्ताद् 'ण्वुल्तृचौ'३।१।१३३।। इति ण्वुल् । १५ यथापराधदण्डदानाद् धर्मोऽस्यास्ति धर्मः । अर्शआदित्वादच् । धर्मश्चासौ राजा चेति, धर्मप्रधानो वा राजा धर्मराजः । 'राजाह:सखिभ्यष्टच्'५।४।९१॥ इति टच्, 'नस्तद्धिते'६।४।१४४॥ इति टिलोपः । 'धर्मस्य राजा' [अम.क्षीर. १।१५८॥] इति तु स्वामी ॥१८४॥ १६ यमाः मृत्युप्रभृतयोऽस्य किङ्करास्तेषु राजत इति, यमेन संयमेन राजत इति वा यमराजः । 'राजृ दीप्तौ' (भ्वा.उ.से.). पचाद्यच् । यमराडित्यपि । १७ श्राद्धं पितृक्रिया, तदंशभागित्वात्, पितृ पतित्वाद्वा श्राद्धदेवः । १८ शमयतीति शमनः । 'शमु उपशमे' (दि.प.से.) अस्माण्णिजन्तान्नन्द्यादित्वाद् ल्युः । ''बाहुलकात् कर्तरि ल्युः"[मा.धातुवृत्तौ, दिवादिः, धातुसं-९९] इति माधवः । १९ महिषो ध्वजोऽस्य महिषध्वजः, महिषवाहनत्वात् । २० कालिन्द्या यमुनायाः सोदरः कालिन्दीसोदरः । विंशतिर्यमस्य। शेषश्चात्र -
"यमे तु यमुनाग्रजः । महासत्यः पुराणान्तः कालकूट:'' [शेषनाममाला २।३६-३७] ।।
१धूमोर्णा तस्य वल्लभा ॥१८५॥
१ तस्य यमस्य वल्लभा स्त्री धूमोर्णा । धूमवद् धूसरा ऊर्णा भ्रूमध्यावर्तोऽस्याः धूमोर्णा । "ऊर्णा भ्रूमध्यगावर्ते मेषादीनां च लोमनि"[अनेकार्थसङ्ग्रहः २।१३१॥] इत्यनेकार्थः । ( यमस्य भार्याया नाम एकम्) ॥१८५॥
पुरी पुनः १संयमनी
१ यमस्य पुरी, संयम्यन्ते प्राणिनोऽस्यां संयमनी । 'यमु नियमने' णिजन्तः, 'ल्युट् च'३।३।११५॥ इति ल्युट्, गौरादित्वाद् ङीष् ॥
प्रतीहारस्तु १वैध्यतः ।
१ यमस्य प्रतीहारः, विध्यतोऽपत्यं वैध्यतः । 'तस्यापत्यम्'४।१।९२॥ इत्यण् ॥
दासौ १चण्ड२महाचण्डौ
१-२ यमस्य दासौ अत्यन्तकोपनत्वात् चण्डः, महाचण्डः च ॥
१. 'यमु' इति१.२.४॥ २. स्वामिना 'क्लिश उपतापे'(दि.आ.से.)इत्यतोऽपि कीनाशशब्दो व्युत्पादितः, द्र. क्षीरतरङ्गिणी, दिवादिः, धातुसं
५०, पृ.२१८॥ ३. 'कनी दीप्तिकान्तिगतिषु' इति क्षीरतरङ्गिण्यादौ ॥ ४. '-शन्प्र-' इति१॥ ५. 'शब्दसङ्ख्यानयोः' इति क्षीरतरङ्गिण्यादौ ॥ . ६. "कलयत्यायुः कालः" इति अम.क्षीरस्वामिटीकायाम्, ११५९॥, पृ.१९ ।। ७. 'शीर्णावंही' इति१.३॥ ८. २.३.४प्रतिषु नास्ति ॥ ९.
कोष्ठान्तर्गतपाठः ३.४प्रत्योर्नास्ति ॥ १०. 'नियम' इति३, नियमनेऽर्थे यमुधातुर्न दृश्यते ॥
चित्रगुप्तस्तु लेखकः ॥१८६॥
१ यमस्य लेखकः, चित्रे लिखिते गुप्तः, चित्रमेनं गुप्यादिति वा चित्रगुप्तः ॥१८६॥ ।
स्याद् १राक्षसः २पुण्यजनो ३नृचक्षा ४यात्वा५ऽऽशरः ६कौणप७यातुधानौ ।
८रात्रिंचरो ९रात्रिचरः १०पलादः ११कीनाश१२रक्षौ१३निकसात्मजाश्च ॥१८७॥
१४क्रव्यात् १५कर्बुर१६नैर्ऋता१७वसृक्पः
१ भीमत्वाद् रक्षति जन आत्मानमस्मादिति रक्षः । 'रक्ष पालने' (भ्वा.प.से.), '-असुन्'(उणा.-६२८) इत्यसुन् । रक्ष एव राक्षसः । 'प्रज्ञादिभ्यश्च'५।४।३८॥ इति स्वार्थेऽण् । "प्रकृतेर्लिङ्गवचने बाधन्ते स्वार्थिकाः क्वचित्'' इति पुंस्त्वम् । २ भद्रमङ्गलादिवद् विरुद्धलक्षणया पुण्यश्चासौ जनश्च पुण्यजनः । ३ नॄन् चष्टे नृचक्षाः । 'चक्षिङ् व्यक्तायां वाचि' (अ.आ.से.), '-असुन्'(उणा.-६२८) इत्यसुन् । ४ याति गच्छति यातु, क्लीबे । 'या प्रापणे' (अ.प.अ.), 'कमिमनिजनिगापाभायावाहिभ्यश्च तुः'(उणा.-७२) इति तुप्रत्ययः । "यातुरर्धर्चादिः" इति शबरस्वामी । "[यातु]धानशब्दैकदेशो वा, भीमवत्, तस्मात् पुंस्यपि" इति धनपालः, यदाह-"क्रव्यादा यातवो यातुधानाः" इति । ५ आशृणाति हिनस्तीति आशरः । 'शॄ हिंसायाम्' (क्र्या.प.से.), तालव्यादिः, पचाद्यच् । 'आशिरः' इति पाठे, 'अशेर्णिच्च'(उणा.-५२) इति किरच्, 'ॠत इद्धातो:'७।१।१००॥ [इतीत्], रपरत्वम् । "आशिरो हनुषः शङ्कु(:) क्रव्यादोऽस्रप आशि(श)र:" इति संसारावर्तः । ६ कुणपः शबस्तद्भक्षणं शीलमस्येति कौणपः । 'शीलम्'४।४।६१॥ इत्यण्, 'तद्धितेष्वचामादेः'७।२।११७॥ इत्यादिवृद्धि: । "कुणपमत्तीति, 'शेषे'४।२।१२॥ इति सूत्रेण शेषार्थेऽण्'' इति तु कौमुदी । "कुणपा रक्षसां माता, तस्यापत्यं कौणपः" इत्यन्ये । ७ यातुसंज्ञां दधाति यातुधानः, अन्तस्थादिः । 'डुधाञ् धारणपोषणयोः' (जु.उ.अ.), 'कृत्यल्युटो बहुलम्'३।३।११३॥ इति ल्युट् । यातूनि रक्षांसि दधाति स्वजातिपोषकत्वादिति वा । "यातूनि यातना धीयन्तेऽस्मिन्"[अम.क्षीर.१।१।६०॥] इति तु कौमुदी (स्वामी) । "जातु कदाचिद् रन्ध्रं प्राप्य धानं संनिधानमस्येति "जातुधानः"[शब्दभेदप्रकाशः,श्लो.-१९] इति चवर्गतृतीयादिरपि इति पुरुषोत्तमः । ८-९ चरतीति चरः । 'चर गतिभक्षणयोः' (भ्वा.प.से.), पचाद्यच् । रात्रौ चरः रात्रिचरः । 'सप्तमी'२।१।४०॥ इति योगविभागात् समासः । अथवा रात्रौ चरतीति रात्रिंचरः । 'चरतेष्ट:'३।२।१६॥ इति टः, 'उपपदमतिङ् २।२।१९॥ इति समासः, 'रात्रेः कृति विभाषा-'६।३।७२॥ इति मुम्विकल्पः । १० पलं मांसमत्ति पलादः । 'अद भक्षणे' (अ.प.अ), 'कर्मण्यण् '३।२।१॥ । ११ कनति दीप्यते कीनाशः । 'कन दीप्तौ" (भ्वा.प.से.), 'कनेरीच्चात:'(हैमोणा-५३४) इत्याशः । कीनमाममांसमश्नातीति वा । १२ भीमत्वाद् रक्षन्त्यात्मानमस्मादिति रक्षः, क्लीबे । 'रक्ष पालने' (भ्वा.प.से.), '-असुन्'(उणा.-६२८) इत्यसुन् । १३ नितरां कसति पतिं गच्छति निकसा । 'कस गतौ' (भ्वा.प.से.), पचाद्यच् । तस्या आत्मजो निकसात्मजः, दन्त्यसकारवान् । यद्वा निकषा रक्षसां माता, तदात्मजत्वाद् निकषात्मजः, मूर्धन्यमध्यः ॥१८७॥ १४ क्रव्यमत्ति क्रव्यात् । 'अद भक्षणे' (अ.प.अ), 'क्रव्ये च'३।२।६९॥ इति विच् (विट्) । क्रव्यादोऽपि । "क्रव्याद इति, मांसवाचककृत्तविकृत्तशब्दे उपपदे कर्मण्यण्, पृषोदरादित्वात् कृत्तविकृत्तशब्दस्य क्रव्यादेशः, 'अदोऽनन्ने'३।२।६८॥ इति सिद्धे 'क्रव्ये च' ३।२।६९॥ इति
१. 'निजनमात्मा-' इति३ । २. "स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यतिवर्तन्तेऽपि"(परि-५।४।२२॥ काशिका)इत्यपि च ॥ ३. '-गाभायाहिभ्यश्च' इत्युणादिगणे ॥ ४. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, श्रो-५५, पृ.८१॥ ५. द्र. स्वोपज्ञटीका २१८७॥, पृ.४४ ॥, तत्र 'तस्मात्' इति नास्ति ॥ ६. द्र. स्वोपज्ञटीका २१८७॥, पृ.४४॥ ७. 'शृणोति' इति१.४॥ ८. 'अशेर्णित्'(उणा-५२)इत्युणादिगणे ॥ ९. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, श्रो-५४, पृ.८० ॥, तत्र 'आशिरोऽनुशवः-' इति दृश्यते, रामाश्रमी १।१५९॥, पृ.३१॥ १०. 'इति वृद्धिः' इति३॥ ११. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, श्रो-५४, पृ.७९ ॥, तत्र "कुणपमत्तीति शेषेऽणि"(पा.४।२।९२) [-ति] तु कौमुदी" इत्येव दृश्यते ॥ १२. द्र. पदचन्द्रिका, भा-१,
विर्गः, श्रो-५४, पृ.७९ ॥, तत्र 'रक्षसां माता' इत्यस्य स्थाने 'रक्षोमाता' इति दृश्यते ॥ १३. 'जातः' इति३॥ १४. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, शो-५५, पृ.८१ ॥ १५. 'रात्रिंचरः' इति२॥ १६. 'रात्रिं' इति३॥ १७. 'चरेष्टः' इत्यष्टाध्याय्याम् ॥ १८. क्षीरतरङ्गिण्यादौ॥ १९. '-मामं मास-' इति३ ॥ २०. ३प्रतौ नास्ति ॥ २१. '-विकृत्त-' इति २प्रतौ नास्ति ॥
सूत्रं वासरूपविधिना प्राप्तस्याऽणो निवृत्त्यर्थम्" इति न्यासः । कौमुदीकारादयस्तु - "पृषोदरादित्वात् क्रव्यभावे, कृत्तविकृत्तरूपपक्वमांसभक्षः क्रव्यादः, आममांसभक्षंस्तु क्रव्यात्" [काशिकावृत्तिः ३।२।६९।।] इति जयादित्यानां प्रमादः, "नैर्ऋतः कर्बुरः क्रव्यात् क्रव्यादोऽस्रप आशरः'इति शब्दार्णवसंसारावर्तादावविशेषेणैव निबन्धादिति हट्टचन्द्रः, सोऽयं चन्द्रे कलङ्को हट्टचन्द्रस्याप्रतिसन्धानदोषात् । शब्दार्णव एव रक्षःपर्याये द्वावेतौ पठित्वापि पुनः कृदध्याये -
"सदान्नादकणादौ च स्यात् क्रव्यादाममांसभुक् ।
क्रव्यादः कृत्तविकृत्तपक्वमांसमांसभुगुच्यते ॥१॥"
इत्युक्तेः । तस्माद् राक्षसस्य रूढिरूपे द्वे एते संज्ञे सामान्येन, यौगिकत्वे तु जयादित्ये व्यवस्था'' इत्याहुः । १५ कर्बुरवर्णत्वात् कर्बुरः । कर्बति गच्छतीति वा । 'कर्ब गतौ' (भ्वा.प.से.), 'वाश्यसि-'(हैमोणा-४२३) इत्युरः । 'कबृ वर्णे' (भ्वा.प.से.), बाहुलकादुरप्रत्ययो रेफोपसृष्ट:"[मा.धातुवृत्तिः, भ्वादिः, धातुसं.-२५९] इति माधवः। १६ निर्ऋतेर्दिक्पालस्यापत्यं नैर्ऋतः । 'तस्यापत्यम्'४।१।९२॥ इत्यण् । निर्ऋत्यां दिशि भवो विद्यमान इति, 'शेषे'४।२।९२॥ अण् वा । १७ असृक् पिबति असृक्पः । 'पा पाने' (भ्वा.प.अ.), 'आतोऽनुपसर्गे कः' ३।२।३॥, 'आतो लोप इटि च'६।४।६४॥ इत्यालोपः । अमरकोषे तु "अस्रपः"[अमरकोषः १।१।५९॥] इति सदन्त्यः । "न श्रपयति क्रव्यात्वाद् अश्रपः इति, श्रपधातोः पचाद्यचि शतालव्येऽपिं" इति गोवर्धनीयोणादि वृत्तिः । 'सुराशीध्वोः(वा.-३।२।८॥) इत्युपसंख्यानाद् आश्रपः इत्यत्र 'गापोष्टक्'३।२।८॥ इति टक् न भवति । सप्तदश राक्षसस्य । शेषश्चात्र –
"पलप्रियः खषापुत्रः कर्बरो नरविष्वणः ।
आशिरो हनुषः शङ्कुर्विधुरो जललोहितः ॥२॥
उद्वरः स्तब्धसंभारो रक्तग्रीवः प्रवाहिकः ।।
सन्ध्याबलो रात्रिबलस्त्रिशिराः समितीपदः॥३॥" [शेषनाममाला २३७-३९] ॥
१वरुणस्त्व२र्णमन्दिरः ३प्रचेताः ।
४जल५यादःपति६पाशि७मेघनादा ८जलकान्तारः स्यात् ९परञ्जनश्च ॥१८८॥
१ वृणोति बिभर्ति पाशं वरुणः । 'वृञ् वरणे' (स्वा.उ.से.), 'कृ(कॄ)वृदारिभ्यः उनन्'(उणा-३३३) । व्रियत इति वा ।
"वरं वृणन्ति तं देवा वरदश्च वरार्थिनाम् ।
धातुर्वै वरणे प्रोक्तस्तस्माद् वरुणः स्मृतः ॥१॥"
इति शाम्बपुराणम् । २ अर्णवो मन्दिरमस्य अर्णवमन्दिरः । ३ प्रकृष्टं चेतोऽस्य प्रचेताः, सकारान्तः । यद्वा प्रचेतयति प्रचेताः । 'चिती संज्ञाने' (चु.उ.से.), '-असुन्'(उणा.-६२८) इत्यसुन् । ४-५ जलयादसोः पतिः, तेन जलपतिः, यादःपतिः । "यादसांपतिरपि"[अमरकोषः १।१।६१॥] इत्यमरः । एवं यादसांपतिः, अपांपतिः, सर्वत्र 'तत्पुरुषे कृति-'६।३।१४॥ इत्यलुक् । ६ पाशोऽस्त्यस्य पाशी । 'अत इनिठनौ'५।२।११५॥ इतीनिः । यौगिकत्वात् पाशपाणिरित्यादयः । ७ मेघवन्नादोऽस्य
मेघनादः । ८ जलं पानीयमेव कान्तारमस्य जलकान्तारः । ९ परं जयति परञ्जनः । 'जि जये' (भ्वा.प.अ.), 'जि अभिभवे' (भ्वा.प.अ.) अस्माद्वा, 'वदनगगन-'(हैमोणा-२७५) इत्यादिना निपातनात् साधुः । नव वरुणस्य । शेषश्चात्र - "प्रतीचीशो दुन्दुभ्युद्दामसंवृताः॥" [शेषनाममाला २।३९] ॥१८८॥
१श्रीदः २सितोदर३कुहे४शसखाः ५पिशाचकी६च्छावसु७स्त्रिशिर८ऐलविलै९कपिङ्गाः ।
१०पौलस्त्य११वैश्रवण१२रत्नकराः १३कुबेर१४यक्षौ १५नृधर्म१६धनदौ १७नरवाहनश्च ॥१८९॥
१८कैलासौका १९यक्ष२०धन२१निधि२२किंपुरुषेश्वरः ।
१ श्रियं ददाति श्रीदः । 'डुदाञ् दाने' (जु.उ.अ.), 'आतोऽनुपसर्गे कः'३।२।३॥, 'आतो लोप इटि च'६।४।६४॥ इत्यालोपः । २ सितमुदरमस्य सितोदरः, कुष्ठित्वात् । ३ कुहयते विस्मापयते कुहः । 'कुह विस्मापने' (चु.आ.से.), 'इगुपधज्ञा-'३।१।१३५॥ इति कः, 'णेरनिटि'६।४।५१॥ इति णिलोपः । ४ ईशस्य रुद्रस्य सखा ईशसखः । 'राजाहः सखिभ्यष्टच्'५।४।९१॥, 'यस्येति च'६।४।१४८॥ इत्य कारलोपः । ५ पिशाचाः सन्त्यस्य पिशाचकी । 'पिशाचाच्चेति वक्तव्यम्'(वा-५।२।१२९॥) इतीन् (इनिः), कुक् च । पिशाचकिनौ, पिशाचकिनः इत्यादि । ६ इच्छया वसु द्रव्यमस्य इच्छावसुः । ७ त्रीणि शिरांस्यस्य त्रिशिराः, सकारान्तः । 'अत्वसन्तस्य चाधातो:'६।४।१४॥ इति सौ दीर्घः । ८ इलविला पुलस्तिभार्याऽस्य पितामही, तस्यापत्यम् अपतनादपत्यमिति कृत्वाऽण्, 'अवृद्धाभ्यो नदीमानुषीभ्यः-'४।१।११३॥ इत्यनेन, ऐलविलः । इडविडा मातास्येति, ज्योत्स्नादित्वादणि ऐडविडः । "डलयोरेकत्वस्मरणादैलविलोऽपि"[अम.क्षीर. ११६९॥] इति स्वामी । "ईड्यतेऽसौ इडविड् विश्रवाः, 'ईडेरविड् ह्रस्वश्च'(हैमोणा-८७९) (इति अविड्, इडविडोऽपत्यम्, ऐडविडः") [अभि. स्वोपज्ञटीका, श्लो.-२।१।८९॥] इत्याचार्याः । "इडविड्
धनदमाता" इत्यन्ये । ९ एकं पिङ्गं नेत्रमस्य एकपिङ्गः । [सासूयं] गौरीनिरीक्षणे तत्प्रभावाद् वामे चक्षुषि नष्टे रुद्राननुनयात् ततः पिङ्गं चिह्नं देव्या दत्तमस्येति एकपिङ्गः । अत एव भागुरिणा हर्यक्ष उक्तः । १० पुलस्तरेपत्यं पौलस्त्यः । 'गर्गादिभ्यो यञ्'४।१।१०५॥, बहुत्वे प्रत्ययलुकि पुलस्तयः । ११ पुलस्त्यपुत्रो विश्रवणः (विश्रवाः), तस्यापत्यं वैश्रवणः तालव्यशः । 'शिवादिभ्योऽण्'४।१।११२॥ इत्यत्र '[वि]श्रवण- रवणाविति पाठाद् विश्रवसो विश्रवणादेशोऽण् च । १२ रत्नानि करेऽस्य रत्नकरः । १३ कुबेर इति त्रिचरणोऽष्टदंष्ट्रो जातोऽयमतः कुत्सितं बेरं कायोऽस्य कुबेरः । "कुष्ठित्वेन कुत्सितदेहत्वेन कुबेरः"[अम.क्षीर. १।१।६८॥] इति स्वामी । कुत्सायामत्र कुशब्दः। यतः -
"कुत्सायां क्विति शब्दोऽयं शरीरं बेरमुच्यते ।
कुबेरः कुशरीरत्वान्नाम्ना तेनैव सोऽङ्कितः ॥२॥"
इति वायुपुराणम् । अथवा 'कुबि छादने' (भ्वा.प.से., चु.उ.से.), 'कुम्बेर्नलोपश्च'(उणा.-५९) इत्येरन् (-क्) । कुबेरो धनच्छादको धनरक्षक इत्यर्थः । १४ यक्ष्यते पूज्यते यक्षः । 'यक्ष पूजायाम्' (चु.आ.से.), कर्मणि घञ् । "इ: कामस्तस्येवाक्षिणी अस्य" इत्यन्ये । "ईं लक्ष्मीमक्ष्णोति व्याप्नोति यक्षः । 'अक्ष(असू) व्याप्तौ' (भ्वा.प.वे.), पचाद्यच्" इति तु स्वामी । १५ नुरिव मनुष्यस्येव धर्म आचारः, श्मश्रुलत्वा दिर्वास्येति नृधर्मा । 'सप्तम्युपमानपूर्वस्ये-' इत्यादिना समासः, 'धर्मादनिच्केवलात्'५।४।१२४॥ इत्यनिच् । नृधर्माणौ,
नृधर्माणः इत्यादि । १६ धनं दयते रक्षतीति धनदः । 'देङ् त्रैङ् पालने' (भ्वा.आ.अ.), 'आतोऽनुपसर्गे कः'३।२।३।। १७ रुद्रदत्तनरयुक्तशिविकावाहनत्वाद् नरवाहनः । 'वाहनमाहितात्'८।४।८॥ इति न णत्वम्, अनाहितवाचित्वात् । नापि 'पूर्वपदात् संज्ञायाम्-'८।४।३॥ इति णत्वम्, क्षुभ्नादेराकृतिगणत्वात् । ॥१८९॥ १८ केलीनां समूह : कैलम्, 'तस्य समूहः'४।२।३७॥ इत्यण्, ('तद्धितेष्वचामादेः'७।२।११७॥ इत्यादि वृद्धिः । कैलेन आस्यतेऽत्र कैलासः । 'आस उपवेशने' (अ.आ.अ.), 'हलश्च'३।३।१२१॥ इत्यधिकरणे घञ् । यद्वा केलिः प्रयोजनमस्य कैलः । 'प्रयोजनम्'५।१।१०९॥ इत्यण्) । कैलश्चासावासश्चेति, कृष्णसर्पवन्नित्यसमासः । कं जलमिला भूमिः, केलयो: जलभूम्योरास्ते इति केलासः, ततःस्वार्थेऽणि । यद्वा "के जले लासो लसनमस्य केलासः स्फटिकः, तस्यायं कैलासोऽद्रिः"[अम.क्षीर.१।१।१७०॥] इति स्वामी । कैलास ओको गृहमस्य कैलासौकाः, सकारान्तः । ' अत्वसन्तस्य च-'६।४।१४॥ इति दीर्घः। १९-२२ यक्षाणाम्, धनस्य, निधीनाम्, किंपुरुषाणां चेश्वरः, तेन यक्षेश्वरः, धनेश्वरः, निधीश्वरः, किंपुरुषेश्वरः, यौगिकत्वाद् गुह्यकेशः, वित्तेशः, निधानेशः, किंनरेशः, राजराजस्तु राज्ञां यक्षाणां राजेति यौगिकत्वाद् गृहीतः । द्वाविंशतिर्धनदस्य । शेषश्चात्र –
"निधनाक्षः महासत्त्वः [स्याद्] प्रमोदितः । रत्नगर्भ: उत्तराशाधिपतिः सत्यसङ्गरः ॥
धनकेलि: सुप्रसन्नः परिविद्धः'' [शेषनाममाला २।४०-४१॥] ।
विमानं पुष्पकम्
१ अस्येति शेषः, श्रीदस्य विमानं पुष्यति(पुष्प्यति) पुष्पकम्, पुंक्ली. । 'पुष्प विकसने' (दि.प.से.), 'क्वुन् शिल्पिसंज्ञयो:-'(उणा-१९०) इति क्वुन् । "पुष्पस्य तुल्यं पुष्पकम्, 'इवे प्रतिकृतौ'५।३।९६॥ इति कन्'' इति स्वामी । "विमानं तु पुष्पकोऽस्त्री नगरी त्वलका प्रभा" इति शब्दार्णवः॥
१चैत्ररथं वनम्
१ श्रीदस्य वनं चैत्ररथम् । चित्ररथेन निर्वृत्तं चैत्ररथम् । 'तेन निर्वृत्तम्'५।२।७९ ॥ इत्यण् ॥
पुरी १प्रभा ॥१९०॥
२अलका ३वस्वोकसारा
१ श्रीदस्य पुरी प्रभा । प्रकर्षेण भाति प्रभा । 'भा दीप्तौ' (अ.प.अ.), 'आतश्चोपसर्गे'३।३।१०६॥ इत्यङ्, टाप् ॥१९०॥ २ अलति भूषयति अलका । 'अलञ् भूषणपर्याप्तिवारणेषु' (भ्वा.उ.से.), 'क्वुन् शिल्पिसंज्ञयोः'(उणा.-१९०) इति क्वुन्, 'न यासयोः'७।३।४५॥ इत्यत्र योगविभागात्, 'प्रत्ययस्थात् कात् पूर्वस्य-'७।३।४४॥ इति नेत्वम् । "क्षिपकादित्वान्नेत्वम्''[अम.क्षीर.१।१।१७०॥] इति स्वामी । "बाहुकान्नेत्वम्" इति कौमुदी । ३ वसुयुक्तानि ओकांसि सारमस्यां वस्वोकसारा । पृषोदरादित्वात् सलोपः । त्रीणि धनदनगर्याः । ''वसुप्रभा वसुसारा'' [शेषनाममाला २।४१॥] शैषिके ॥
सुतोऽस्य नलकूबरः ।
अस्य श्रीदस्य सुतः नलकूबरः । नलकूबरो युगंधरोऽस्येति नलकूबरः । "पुत्रस्तु नलकूबरः" इति शब्दार्णवादयोऽपि । नलो नडः कुबरं रथावयवोऽस्येति वा। "पुत्रौ तु नलकूबरौ'' इति त्रिकाण्डशेषे, तन्मूलं गवेष्यम् ॥
१वित्तं २रिक्थं ३स्वापतेयं ४राः ५सारं ६विभवो ७वसुः॥१९१॥
८द्युम्नं ९द्रव्यं १०पृक्थ११मृक्थं १२स्व१३मृक्णं १४द्रविणं १५धनम् ।
१६हिरण्या१७र्थौ
१ विद्यते लभ्यते वित्तम् । 'विद्लृ लाभे' (तु.उ.अ.), 'वित्तो भोगप्रत्ययोः'८।२।१५८॥ इति निष्ठान्तो निपातः । २ रिच्यते विभज्यते रिक्थम् । 'रिचिर् विभाजने' (रु.उ.अ.), 'पातॄतुदि-'(उणा.-१६४) इत्यादिना थक् । ३ स्वपतौ साधु स्वापतेयम् । 'पथ्यतिथि[वस]स्वपतेर्ढक्'४।४।१०४॥ इति ढक्, 'आयेनेयीनीयियः फढखछघाम्'७।१।२॥ ढस्यैयादेशः, 'किति च'७।२।११८॥ इति वृद्धिः, 'यस्येति च'६।४।१४८॥ इतीकारलोपः। ४ राति श्रेयार्थं पात्रेभ्यस्तामिति राः, पुंस्त्रीलिङ्गः । 'रा ला दाने' (अ.प.अ.), 'रातेर्डै:'(उणा.-२२४) इति डैः, 'चिरव्ययम्'(उणा.-२२३) इति नियमात् 'कृन्मेजन्तः'१।१।३९॥ इति नाव्ययत्वम् । ''राः स्मृता स्वर्णवित्तयोः"[विश्वप्रकाशः, रान्तवर्गः, श्लो.-१] इति विश्वः । ५ सरति क(का)लान्तरं सारम्, क्लीबे । पुंस्यपि धनपालः, यदाह-"सारोऽर्थो द्रविणं धनम्" इति । 'सृ गतौ' (भ्वा.प.अ.), 'सृ स्थिरे'३।३।१७॥ इति घञ् । ६ विभवति विभवः । 'भू सत्तायाम् (भ्वा.प.से.), पचाद्यच् । ७ वस्ते छादयति सर्वदोषान्, वसति पुण्यवतो वेश्मनि वा वसु, क्लीबे । 'वस आच्छादने' (अ.आ.से.), 'वस निवासे' (भ्वा.प.अ.) अस्माद्वा 'मृ(शॄ) स्वृस्निहित्रप्यसिवसिहनिक्लिदिबन्धिमनिभ्यश्च उ:(उणा.-१०) इत्युः ॥१९१॥ ८ दिने आम्नायते द्युम्नम् । 'म्नाऽभ्यासे' (भ्वा.प.अ.), 'सुपि'३।२।४॥ इति योगविभागात् 'आतोऽनुपसर्गे कः'३।२।३॥ । द्युशब्दो दिनवचनः । 'रास्नासास्नाद्युम्ननिम्न-'(उणा.-२९५) इत्यादिना 'द्युत दीप्तौ' (भ्वा.आ.से.) इत्यस्मात् धातो : क(न)प्रत्ययो मकारश्चान्तादेशो निपात्यते । द्योततेऽनेन, यद्वा "द्यूयते द्युम्नम्, 'द्यु अभिगमने' (अ.प.अ.)"[अम.क्षीर.२।१।१०॥] इति क्षीरस्वामी, अत्रं धातोर्मगागमः । ९ द्रुः वृक्षस्तत्तुल्यं द्रव्यम् । 'द्रोर्भव्ये'(हैमसू.-७।१।११५॥) इति यः । यदाहु:- "[द्रुः] अग्रन्थि अजिह्मं दारु उपकल्प्यमानं विशिष्टेष्टरूपं भवति, तथा द्रव्यमपि [वि]नियुज्यमानं विशिष्टेष्टमाल्याद्युपभोगफलं भवतीति द्रव्यमुच्यते "[स्वोपज्ञटीका, श्लो.-२।१९२] । १० पृणक्ति संयुज्यते पृक्थम् । 'पृची सम्पर्के'(क्र्या.प.से.), 'पातॄतुदि-'(उणा.-१६४) इति बाहुलकात् थक् । ११ ऋच्यते स्तूयते ऋक्थम् । 'ऋच स्तुतौ' (तु.प.से.), 'पातॄतुदि-'(उणा.-१६४) इति बाहुलकात् थक् । १२ अस्यते क्षिप्यते स्वम्, पुंक्ली. । यदमर:-"स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोऽस्त्रियां धने''[अमरकोषः ३।३।२११॥] इति । स्वनति शब्दायत इति वा । 'स्वन शब्दे' (भ्वा.प.से.), 'अन्येऽभ्योऽपि-'(वा.-३।३।१०१॥) इति डः । १३ ऋच्यते स्तूयते ऋक्णम् । 'ऋच स्तुतौ' (तु.प.से.), बाहुलकाद् नक् । १४ द्रवति द्रविणम् । 'द्रु गतौ' (भ्वा.प.अ.), 'द्रुदक्षिभ्यामिनन्'(उणा.-२०८) । द्रूयते गम्यतेऽर्थिभिर्वा । १५ 'धन ध्वन शब्दे', धनति धनम्, पचाद्यच्, पुंक्लीबलिङ्गः । धन्यत इति वा वर्षादित्वादन् । धीयते वा धनम् । 'डुधाञ् धारणादौ', (जु.उ.अ.), कॄपॄवृजिमन्दिनिधाञ्भ्यः क्युन्'(उणा.-२३९) । "अयं बाहुलकात् केवलादपि"[माध. धातुवृत्तिः, जुहोत्यादिः, धातुसं-१८] इति माधवः । १६ ह्रियते हिरण्यम् । 'हृञ् हरणे' (भ्वा.उ.अ.), 'हर्यतेः कन्यन् हिर्च'(उणा.-७२२) इति कन्यन्प्रत्ययो धातोर्हिरादेशश्च । १७ अर्थ्यते अर्थः । 'अर्थ याच्ञायाम्' (चु.आ.से.), कर्मणि घञ् । अर्यते वा । 'ऋ गतौ' (जु.प.अ.), 'उषिकुषिगार्तिभ्यस्थन्'(उणा.-१६१) इति थन्प्रत्ययः, "सार्वधातुकार्धधातुकयोः'७।३।८४॥ । इति गुणः, 'उरण् रपरः'१।१।५१॥ । सप्तदश द्रव्यस्य ॥
१ निधानं तु २कुनाभिः ३शेवधि४र्निधिः ॥१९२॥
१ निधीयतेऽस्मिन् मन इति निधानम् । 'डुधाञ् धारणपोषणयोः' (जु.उ.अ.), 'करणाधिकरणयोश्च' ३।३।११७॥ इत्यधिकरणे ल्युट् । यद्वा 'कृ(कॄ)पॄवृजि-'(उणा.-२३९) इत्यादिना क्युन् । २ कोः पृथिव्या नाभिरिव कुनाभिः, पुंसि । ३ शेते शेवं स्थाप्यं धनम् । 'शीङ् स्वप्ने' (अ.आ.से.), 'इण्शीभ्यां वन्'(उणा.-१५०) इति वन् । तत् धीयतेऽत्र शेवधिः, पुंसि । 'शेवृ षेवृ ग्लेवृ पेवृ(प्लेवृ) श्लेवृ(म्लेवृ) सेचने' (भ्वा. आ.से.), तत्र तालव्यादेः शेवृधातोः 'गुरोश्च हलः'३।३।१०३॥ इत्यप्रत्यये शेवा, सा धीयतेऽत्रेति 'कर्मण्यधिकरणे च'३।३।९३॥ इति किः, बाहुलकादापोः ह्रस्वत्वम् । "शे कल्याणेऽवधिः शेवधिः" इति तु राजदेवः । "शेफः श्वेतौ शरभः शरारुशफशूर्माशेवधिश्यामाः" इति तालव्यादावूष्मविवेकात् । "शेवृधातोः पचाद्यचि शेवः, शेवान् दधाति शेवधिः, बाहुलकात् कर्तरि किः"[टीकासर्वस्वम् १।१।७१॥] इति तु सर्वानन्दः । ४ नियतं धीयते निधिः, पुंसि । 'धाञ: कि:' इति किः । चत्वारि सामान्येन निधेः ॥१९२॥
अथ निधिवशेषानाह –
१महापद्मश्च २पद्मश्च ३शङ्खो ४मकर५कच्छपौ ।
६मुकुन्द७कुन्द८नीलाश्च ९चर्चाश्च निधयो नव ॥१९३॥
१ महापद्माकृतित्वाद् महापद्मः । २ पद्माकृतित्वात् पद्मः, पुंसि । वाचस्पतिस्तु -"पद्मोऽस्त्रियाम्" इत्याह । ३ शङ्खाकारत्वात् शङ्खः । ४ मकराकारत्वाद् मकरः । ५ कच्छपाकारत्वात् कच्छपः । ६ मुकुन्दवर्णत्वाद् मुकुन्दः । ७ कुन्दवर्णत्वात् कुन्दः । ८ नीलवर्णत्वाद् नीलः । ९ चर्च्यत इति चर्चाः, पुंसि । एते नवनिधयः । जैनसमये तु नैसर्पाद्या नवनिधयः । यदुक्तं श्रीहेमचन्द्राचार्यै त्रिषष्टिशलाकापुरुषचरिते –
"नैसर्पः पाण्डुकश्चाथ पिङ्गलः सर्वरत्नकः ।
महापद्मः कालमहाकालौ माणवशङ्खकौ ॥१॥
तेषामेवाभिधानैस्तु तदधिष्ठायकाः सुराः ।
पल्योपमायुषो नागकुमारास्तन्निवासिनः ॥२॥"
[त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम्, पर्व-१, सर्ग-४, श्लो.-५७०,५७३] ॥१९३॥
१यक्षः २पुण्यजनो ३राजा ४गुह्यको ५वटवास्यपि ।
१ इज्यत इति यक्षः । 'यज देवपूजनादौ' (भ्वा. उ.अ), 'मावावद्यमि-'(हैमोणा.-५६४) इति सः । ई लक्ष्मीमक्ष्णोति वा । 'अक्ष(अक्षू) व्याप्तौ संघाते च' (भ्वा.प.वे.), पचाद्यच् । यक्ष्यते वा जनैः । 'यक्षङ् पूजायाम्' (चु.आ.से.), कर्मणि घञ् । २ पुण्यश्चासौ जनश्च पुण्यजनः । ३ राजते राजा, नान्तः । 'राजृ दीप्तौ' (भ्वा.उ.से.), 'कनिन्युवृषि-'(उणा.-१५४) इति कनिन् । ४ गुह्यं वित्तं करोति गुह्यकः । 'डुकृञ् करणे' (क्र्या.उ.अ.), 'अन्येभ्योऽपि' इति डः । पात्रापात्रमविचार्यैव गुह्यं गुप्तं कायति वा । 'कै शब्दे' (भ्वा.प.अ.), प्राग्वद् डः । गूहतीति वा गुह्यकः । पृषोदरादिः। ५ वटे वसतीत्येवंशीलो वटवासी । 'वस निवासे' (भ्वा.प.अ.), 'सुप्यजातौ णिनिस्ताच्छिल्ये'३।२।७८॥ इति णिनिः । पञ्च यक्षस्य ॥
१किंनरस्तु २किंपुरुष३स्तुरङ्गवदनो ४मयुः ॥१९४॥
१ किञ्चिन्नरोऽश्वमुखत्वात्, कुत्सितो नरो वा किन्नरः (किंनरः) । 'किं क्षेपे'२।१।६४॥ इति समासः, 'अनुस्वारस्य ययि परसवर्ण:'८।४।५८॥ इति मस्य नत्वम् । २ एवं किंपुरुषः अपि । "कुत्सा च कस्यचिन्नरमुखाश्वकायत्वात्, कस्यचिदश्वमुखनरशरीरत्वात्" इति कौमुदी । ३ तुरङ्गस्येव वदनमस्य तुरङ्गवदनः । ४ मयत इति मयुः । 'डुमिञ्
प्रक्षेपणे' (स्वा.उ.अ.), 'भृतॄमृशीचरित्सरितमि(तनि)धनिमि- मस्जिभ्य उ:'(उणा-७) इत्युः । 'मीनाति-मिनोति दीङा ल्यपि च'६।१।५०॥ इत्यात्वं "बहुलवचनान्न भवति" इत्युणादिवृत्तिः । केचित्तु-पृथगिदं नामचतुष्टयं मन्यते, तदयुक्तम्, अन्यत्रापि सर्वत्र पर्यायदर्शनात् । चत्वारि किन्नरस्य ॥१९४॥
१शंभुः २शर्वः ३स्थाणु४रीशान ५ईशो ६रुद्रो७ड्डीशौ ८वामदेवो ९वृषाङ्कः ।
१०कण्ठेकालः ११शङ्करो १२नीलकण्ठः १३श्रीकण्ठो१४ग्रौ १५धूर्जटि१६र्भीम१७भर्गौ ॥१९५॥
१८मृत्युञ्जयः १९पञ्चमुखो२०ऽष्टमूर्तिः २१श्मशानवेश्मा २२गिरिशो २३गिरीशः ।
२४षण्ढ: २५कपर्दी२६श्वर २७ऊर्ध्वलिङ्ग २८एक२९त्रिदृग्३०भाल दृ३१गेकपादः ॥१९६॥
३२मृडो३३ऽट्टहासी ३४घनवाहनो३५ऽहिर्बुध्नो ३६विरूपाक्ष३७विषान्तकौ च ।
३८महाव्रती ३९वह्नि४०हिरण्यरेताः ४१शिवो४२ऽस्थिधन्वा ४३पुरुषास्थिमाली ॥१९७॥
स्याद् ४४व्योमकेशः ४५शिपिविष्ट४६भैरवौ ४७दिक्४८कृत्तिवासा ४९भव५०नीललोहितौ ।
५१सर्वज्ञ५२नाट्यप्रिय५३खण्डपर्शवौ महापरा ५४देव५५नटे५६श्वरा ५७हरः ॥१९८॥
५८पशु५९प्रमथ६०भूतो६१मापतिः ६२पिङ्गजटे६३क्षणः ।
६४पिनाक६५शूल६६खट्वाङ्ग६७गङ्गा६८ऽही६९न्दु७०कपालभृत् ॥१९९॥
७१गज७२पूष७३पुरा७४नङ्ग७५कालान्धक७६मखाऽसुहृत् ।
१ शं कल्याणं भवते प्राप्नोति शंभुः । 'भूङ् प्राप्तावात्मनेपदी' (चु.आ.से.), 'आधृषाद्वा'(गणसू-) इति न णिच्, 'मितद्र्वादिभ्यश्च'(वा.-३।२।१८०॥) इति डुः । (शं सुखं तत्र भवति वा । 'भू सत्तायाम्' (भ्वा.प.से.), अतो 'मितद्र्वादिभ्यश्च'(वा.-३।२।१८०॥) इति डुः) । "शं सुखं भवत्यस्मादिति व्युत्पत्तिस्त्वापादाने डुप्रत्ययाभावाच्चिन्त्या"[मा.धातुवृत्तिः, धातु. सं-१, पृ.४३] इति माधवः । शमयति क्लेशमिति वा शंभुः । 'शमु उपशमे' (दि.प.से.), हेतुमण्णिच्, 'शमेर्भुन्' इति भुन् । २ प्रलयकाले सर्वं शृणातीति शर्वः । 'शॄ हिंसायाम्' (क्र्या.प.से.), 'कॄगॄशॄदृभ्यो वः'(उणा.-१५३) इति वः, तालव्यादिः । " 'अर्व सर्व (षर्व) हिंसायाम्' (भ्वा.प.से.) इत्यतः पचाद्यचि सर्वः, दन्त्यादिरपि'' इत्युपाध्यायसर्वस्वे । अत एव "सर्वस्तु शर्वो भगवान् शंभुः कालिञ्जर : शिवः" इति नामनिधानम् । ३ तिष्ठति शाश्वतं स्थाणुः । 'ष्ठा गतिनिवृत्तौ' (भ्वा.प.अ.), 'स्थो णुः'(उणा.-३१८) इति णुः । यद्वा 'स्थासूङ: क्विच' इति नुः । प्रलयकाले तिष्ठतीति वा । ४ ऐश्वर्यसामर्थ्याद् ईशानः । ईष्टे इत्येवंशीलो वा । 'ईश ऐश्वर्ये' (अ.आ.से.), 'ताच्छील्यवयोवचनशक्तिषु चानश्'३।२।१२९॥ इति चानश् । ५ ईष्टे इति ईश: । 'ईश ऐश्वर्ये' (अ.आ.से.), 'इगुपधज्ञाप्रीकिरः कः'३।१।१३५॥ इति कः । ६ रोदयति वैरिस्त्रीरिति रुद्रः । 'रुदिर् अश्रुविमोचने' (अ.प.से.) अस्माद् हेतुमण्णिजन्ताद् 'रु(रो)देर्णिलुक् च'(उणा.-१७९) इति रक्प्रत्ययः, णिलोपश्च । सर्वजगतरुजां हरणात्, रोदनहरणाद् वा रुद्रः । तथा च स्कन्दे –
"रुजः सर्वगता यस्माद् द्रावयामि जगत्यहम् ।
रोदनं हन्मि यस्माच्च रुद्रस्तस्मादहं प्रिय ॥१॥"
इति । यद्वा रवणं रुत् शब्दः, उपलक्षणेन ज्ञानम्, रुतं ज्ञानं राति ददाति भक्तेभ्य इति रुद्रः । 'रा दाने' (अ.प.अ.),
'आतोऽनुपसर्गे कः'३।२।३॥ इति कः, 'आतो लोप इटि च'६।४।६४॥ इत्यालोपः । ''ईश्वराद् ज्ञानमिच्छेच्च धनमिच्छेद्भुताशनात्'' इति श्रुतेः । ७ उद्दिशत्यागमविशेषमिति उड्डीशः । उद्पूर्वः 'दिश अतिसर्जने' (तु.प.अ.), पृषोदरादित्वाद् डद्वयम् । ८ वामः श्रेष्ठो देवो वामदेवः । यद्वा वामः प्रतीपः संसारात्, स चासौ देवश्च वामदेवः । यद्वा लोकाचारविपरीतत्वाद् वामः । 'टुवम उद्गिरणे' (भ्वा.प.से.), घञि 'नोदात्तोपदेश-' ७।३।३४॥ इत्यादिना वृद्धिनिषेधे प्राप्ते 'अनाचमे:'७।३।३४॥ इति 'कम्यमिचमि'(वा.-७।३।३४॥) इत्यादिना
निषेधः । वामः सुन्दरश्चासौ देवश्चेति वा । ९ वृषोऽङ्कः चिह्नमस्य वृषाङ्कः । यौगिकत्वाद् वृषलाञ्छन इत्यादयः । १० कण्ठे कालोऽस्य कण्ठेकालः । 'अमूर्धमस्तकात् स्वाङ्गदकामे'६।३।१२॥ इति सप्तम्या अलुक् । ११ शश्वद्भूतानां शं कल्याणं करोति शङ्करः । 'डुकृञ् करणे' (त.उ.अ.), कृञो हेतुताच्छी- ल्यानुलोम्येषु'३।२।२०॥ इति टः । तथा च स्कन्दे –
"शं करोमि सदा ध्यानात् परमं यन्निरामयम् ।
भूतानामसकृद् यस्मात् तेनाऽहं शङ्करः स्मृतः ॥२॥"
इति । १२ नीलः कण्ठोऽस्य नीलकण्ठः, कालकूटभक्षणात् । १३ श्रीः शोभा कण्ठेऽस्य श्रीकण्ठः । तदुक्तं
महाभारते –
"इन्द्रेण तत् पुरु क्षिप्तं वज्रं श्रीकण्ठकाषिणा ।।
दत्त्वा कण्ठं तु तत् पार्थ ! ततः श्रीकण्ठता मम ॥३॥" ।
१४ उच्यति क्रुधा समवैति, ओषति पुरं दहति वा उग्रः । 'उच समवाये' (दि.प.से.), 'उष दाहे' (भ्वा.प.से.) वा, 'ऋज्रेन्द्रेन्द्राग्रोग्र-'(उणा.-१८६) इति सूत्रेण रक्प्रत्ययान्तो निपातितः । १५ 'जट झट सङ्घाते' (भ्वा.प.से), 'इन् सर्वधातुभ्यः'(उणा.-५५७) इतीन् जटिः । "जटिर्जटाशीलाशीलिनी" इति द्विरूपकोष: । धुरस्त्रैलोक्यचिन्तायाः जटिः सङ्घातोऽत्रेति धूर्जटि: । "धूर्गङ्गा जटास्वस्य, पृषोदरादित्वादाकारस्येत्वम्" इति स्वामी भ्रान्तः, उक्तरूपेण जटिसाधनात् । ''धूर्भारभूता जटिर्जटास्य'' इति कौमुदी । "धूम्रं रूपं च यत् तस्य तेन धूर्जटिरुच्यते''[स्वोपज्ञटीका, श्लो.-२।१९५] इत्याचार्याः । १६ बिभेत्यस्माद् भैरवरूपत्वाद् भीमः । 'ञिभी भये' (जु.प.अ.), "भियः षुके वा'(उणा.-१४५) इति सूत्रेण मक्प्रत्ययः । 'भीमादयोऽपादाने'३।४।७४॥ इति वा साधुः । १७ बिभर्ति शक्तिं भर्गः । 'डुभृञ् धारणपोषणयोः' (जु.उ.अ.), 'स्वृभृभ्यां गः' इति गः । भृज्यन्ते कामकालादयोऽनेनेति वा । 'भ्रस्जो पाके' (तु.उ. अ.), करणे घञ् । भर्जति(भर्जते) वा भर्गः । भर्ज ['ऋजी भृजी भर्जने' (भ्वा.आ.से.), पचाद्यच्,] न्यङ्क्वादित्वात् कुत्वम् । भृज्यते पच्यते जगदत्रेति वा । अधिकरणे घञ् 'चजोः कु घिण्ण्यतो:'७।३।५२॥ । 'भर्ग्य:' इति पाठे 'ऋहलोर्ण्यत्'३।१।१२४॥, 'चजोः कु घिण्ण्यतो:'७।३।५२॥ इति कुत्वम्, परं बहुभिस्तु 'भर्ग' इति मूलपाठः स्वीकृतः । ॥१९५॥ १८ मृत्युं जयति मृत्युञ्जयः । 'जि जये' (भ्वा.प.अ.), 'जि अभिभवे' (भ्वा.प.अ.) अतो वा, 'संज्ञायां भृतवृजिधारिसहितप (तपि)-'३।२।४६॥ इति खच् । १९ पञ्च मुखानि सद्योजात१वामदेवरअघोर३तत्पुरुषे४शानलक्षणान्यस्य पञ्चमुखः । २० अष्टौ मूर्तयः क्षितिजलपवनहुताशनयजमानाकाशसूर्यचन्द्रलक्षणा अस्येति अष्टमूर्त्तिः । २१ श्मशानं वेश्माऽस्य श्मशानवेश्मा, नकारान्तः । २२ गिरिरस्यास्ति गिरिशः । 'लोमादिपामादि-' ५।२।१००॥ इत्यादिना शः । गिरौ शेते इति वा । 'शीङ् स्वप्ने'(अ.आ.से.), गिरौ शेतेर्ड: । गिरिं हिमाद्रिं श्यति उपभोगेन तनूकरोति वा । 'शो तनूकरणे' (दि.प.अ.), 'अन्येभ्योऽपि(अन्येष्वपि)'३।२।१०१।। इति डः, डित्त्वाट्टिलोपः । २३ गिरेरीश: गिरीशः । २४ मुनिभिः शापेन पातितलिङ्गत्वात् षण्ढः । यदुक्तं वामनपुराणे-
"ततस्तमृषयो दृष्ट्वा भार्गवाङ्गिरसौ मुने! ।
क्रोधभाजोऽब्रुवन् सर्वे लिङ्गोऽस्य पततां भुवि ॥४॥"
इति । २५ कपर्दो जटाजूटोऽस्यास्ति कपर्दी । 'अत इनिठनौ'५।२।११५॥ इतीनिः । २६ ईष्ट इत्येवंशील: ईश्वरः । 'ईश ऐश्वर्ये' (अ.प.से.), 'स्थेशभासपिसकसो वरच्'३।२।१७५।। यदुक्तं स्कन्दे –
"ईश एवाहमत्यर्थं न च मामीशते परः ।
ददामि च सदैश्वर्यमीश्वरस्तेन कीर्त्तितः ॥५॥"
इति । २७ ऊर्ध्वं लिङ्गमस्य ऊर्ध्वलिङ्गः । २८-२९ एका तिस्रश्च दृशोऽस्य एकदृक्, अर्धनारीश्वरमूर्ती महेश्वराङ्गस्य एकदृक्त्वात् । तिस्रो दृशोऽस्य स त्रिदृक्, ललाटे नेत्रयोगात्, यौगिकत्वाद् एकनेत्रः, विषमनेत्र:। ३० भाले दृगस्य भालदृक् । ३१ अर्धनारीश्वरमूर्तौ एकः पादोऽस्य एकपात् । 'संख्यासुपूर्वस्य'५।४।१४०॥ इति पादशब्दान्तलोपः । एकत्रि गादीनां त्रयाणां द्वन्द्वः ॥१९६॥ ३२ मृडयति सुखयति मृडः । 'मृड सुखे' (तु.प.से., क्र्या.प.से.), 'इगुपधज्ञा-'१।१।१३५॥ इति कः । ३३ अट्टः हासोऽस्य अट्टहासी । 'अत इनिठनौ' ५।२।११५॥ इतीनिः । ३४ घना मेघा वाहनमस्य घनवाहनः । यौगिकत्वाद् अब्दवाहनादयोऽपि । ३५ अहिः शेषनागो बुध्नेऽस्य भूमूर्ते : अहिर्बुध्नः । पृषोदरादित्वाद् रेफागमः । "द्वाभ्यां पृथक्पदाभ्यां प्रथमैकवचनान्ताभ्यामेकं नाम" इत्यन्ये । विभक्त्यन्तरेऽपि, यथा-"अहये बुध्नाय नमो बुध्नये नमोऽस्तु गणपतये" । ३६ रविचन्द्राग्निरूपत्वाद् द्विविधरूपाण्यक्षीण्यस्य, त्रित्वाद्वा विरूपाक्षः । 'बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात् खच् (षच्)'५।४।११३॥ । ३७ विषमन्तयति विषान्तकः, समुद्रमथने विषभक्षणात् । ३८ महाव्रतं कापालिकलिङ्गं विद्यतेऽस्य महाव्रती । 'अत इनिठनौ'५।२।११५॥ । ३९-४० वह्निहिरण्यशब्दाभ्यां परो रेत:शब्दः, वह्नौ रेतोऽस्य वह्निरेताः, सकारान्तः । ''देव्या सोढुमशक्यत्वादग्नौ क्षिप्तमस्य, अत एव कुमारः पावकिः''[अम.क्षीर. १।१।३३॥] इति स्वामी । हिरण्यं रेतोऽस्य हिरण्यरेताः, अग्निमूर्त्तिना ह्यमुना हिरण्यं प्रसूतमिति । ४१ शिवं कल्याणं, तद्योगात् शिवः । 'अर्श आदिभ्योऽच्' ५।२।१२७॥ । लोकानां शिवकारित्वाद् वा । शेते वसति प्रलये जगदस्मिन् वा । 'शीङापो ह्रस्वश्च [वा]' (हैमोणा-५०६) इति वः । ४२ अस्थिमयं धनुरस्य अस्थिधन्वा, नकारान्तः । 'धनुषश्च'५।४।१३२॥ इति सूत्रेणानङ् । ४३ पुरुषास्थीनि मलते धारयतीत्येवंशीलः पुरुषास्थिमाली । 'मल मल्ल धारणे' (भ्वा.आ.से.), 'सुप्यजातौ णिनिस्ताच्छील्ये'३।२।७८॥ इति णिनिः ॥१९७॥ ४४ गङ्गाधरणाय व्योमव्यापी केशोऽस्य व्योमकेशः । व्योम द्यौः, के मूर्ध्नि शेतेऽस्येति वा । "शीर्णि द्यौः समवर्तत"[ऋ.-१०] इति श्रुतेः । 'अन्यत्रापि (अन्येष्वपि) दृश्यते'(वा.-३।२।४८॥) इति डः। ४५ शिविर्नाम राजा नारायणेन हतः, स चेश्वरस्यात्यन्तं प्रिय इति, तस्यास्थीनि शिरसि धृतानि, अतः पिष्टोऽस्थ्यादिरूपेण शिपिरत्र शिपिविष्टः, पृषोदरादित्वात् । शिपिरिन्द्रलुप्त[वात]स्तेन विष्टो व्याप्त इति वा । ४६ बिभर्ति कपालम्, बिभेत्यस्मादिति वा भैरवः । भैरवकैरव-'(हैमोणा.-५१९) इत्यादिना निपातनात् साधुः । ४७-४८ दिशः कृत्तिश्च वासोऽस्य दिग्वासाः, सकारान्तः, नग्नत्वात् । कृत्तिः चर्म वासोऽस्य कृत्तिवासाः सकारान्तः, गजचर्म संव्यानत्वात् । ४९ भवति विश्वमस्माद् रजोगुणापन्नत्वादिति भवः । बाहुलकादपादानेऽप्यच् । विश्वमस्त्यस्मिन्निति वा । 'असु(अस) भुवि'(अ.प.से.) इत्यस्य धातोर्भूरादेशाद् भुवोऽन् । [यद्वा] 'श्रिणीभुव:-'३।३।२४॥ इत्य[त्र] श्रिणीसाहचर्यात् भुवो भौवादिकादेव घञ् । ५० "जुह्वतो ब्रह्मणो ललाटे स्वेदो जातस्तं महेश्वरं तेजोऽध्यतिष्ठत्, तच्चाग्नौ निपत्य नीलं भूत्वा लोहितं बभूव, ततोऽयं जात इति नीललोहितः'' इति पौराणिकाः । स्कन्दे -
१. द्र. स्वोपज्ञटीका २१९६ ॥, पृ.४७॥, तत्र '-ङ्गिरसौ' इत्यस्य स्थाने '-ङ्गिरसो' इति दृश्यते॥ २. 'ददासि' इति२॥ ३. द्र. पदचन्द्रिका, भा १, स्वर्गवर्गः, श्री-२५, पृ.४५ ॥ ४. '-नेत्रश्च' इति३ ।। ५. अत्र मृडति मृड्नाति वा पाठ्यम्, मृडधातोस्तुदादित्र्यादित्वात्। ६. 'सुखने' इति क्षीरतरङ्गिण्यादौ दृश्यते॥ ७. 'भूमूर्तिः' इतिर ॥ ८. द्र. स्वोपज्ञटीका २१९८॥, पृ.४७॥ ९. २प्रतौ नास्ति॥ १०. इतोऽग्रे अम.क्षीर.टीकायां 'हि'
११. 'अस्य' इति अम. क्षीर. नास्ति, ११३३ ॥, पृ.११ ॥ १२. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, श्रो-२८, पृ.४७॥ १३. 'हूस्वेति' इति२.३ ॥ १४. द्र. स्वोपज्ञटीका २।१९८ ॥, पृ.४७॥, अम.क्षीर. ११३४॥, पृ.१२॥ १५. 'इन्दं लुप्त-' इति२॥ १६. 'संख्यान-' इति१ ॥ १७. 'अस्तेर्भूः' २४५२॥ इत्यनेन ॥ १८. अत्र 'ऋदोरप्' ३।३५७॥ इति मनसि निधाय 'अप्' इति पाठ्यम् ॥ १९. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, श्रो-२८. पृ.४७ ॥, तत्र 'महेश्वरं' इत्यस्य स्थाने 'माहेश्वरं' इति दृश्यते ॥
"नीलं येन समागं (ममाङ्गं) तु रसाक्तं लोहितं त्विषा । नीललोहित इत्येव ततोऽयं परिकीर्तितः ॥४॥" इति वा । "नीलः कण्ठो लोहिताश्च केशाऽस्येति नीललोहितः''[अम. क्षीर.१।१।३३॥] इति स्वामी । ५१ सर्वं जानाति सर्वज्ञः । 'ज्ञा अवबोधने' (क्र्या.प.अ.), 'इगुपधज्ञा-'३।१।१३५॥ इति कः, 'आतो लोपः-'६।४।६४॥ इत्यालोपः । ५२ नाट्यं प्रियमस्य नाट्यप्रियः । ५३ गदासुरवधे खण्डीभूतः पर्शुरस्य खण्डपर्शुः । यद्वा खण्डयतीति खण्डः, पचाद्यच् । तादृशः पर्शुरस्य खण्डपर्शु: । "खण्डपर्शु पर्शुरामे शङ्करे चूर्णलेपिनि"[विश्वप्रकाशः, शान्तवर्गः, श्लो.-३८] इति विश्वः । ५४-५६ महापरा देवनटेश्वराः, देवनटेश्वराः महच्छब्दात् पुरो योज्याः, तेन महांश्चासौ देवश्च महादेवः, सर्वदेवानां महनीयत्वात् । तथा च शाम्बपुराणम् –
"पूज्यते यत्सुरैः सर्वैर्महांश्चैव प्रमाणतः ।
धातुर्महति(-र्महेति) पूजायां महादेवस्ततः स्मृतः॥५॥"
इति । स्कन्देऽपि –
"महतामपि देवानामहमेव महान् यतः ।
न तु मत्तो महानन्यो महादेवस्ततो ह्यहम् ॥ ६॥"
इति । महानटः, नाट्यस्थितिकारित्वात् । महांश्चासावीश्वरश्च महेश्वरः । 'सन्महत्परमोत्तमोत्कृष्टाः'२।१।६१॥ इति समासः, 'आन्महतः समानाधिकरणजातीययोः'६।३।४६॥ इत्यात्वम् । प्रलये कृत्स्नं हरति हरः । 'हृञ् हरणे' (भ्वा.उ.अ.), पचाद्यच् । पृषोदरादित्वादीत्वे हीरोऽपि, "हीरः कपर्दी समीरः" इति संसारावर्तात् ॥१९८॥ ५८-६१ पशूनाम्, प्रमथानाम्, भूतानाम्, उमायाश्च पतिः, पशूनां सुरनरतिरश्चां पतिः पशुपतिः, सुरनरतिरश्चां पशुत्वेनोक्तत्वात्, "आब्रह्मान्तं लोकाः पशवः" इति स्मृतेः । "तिर्यग्जातौ पशुः प्रोक्तः सर्वप्राणिनि पुंस्ययम्'' इति स्वामी । "पशवः प्रमथास्तेषां पतिः पशुपतिः'' इति कौमुदी । "पशुर्मुगादौ छगले प्रमथे च पशुः पुमानयम्'' इति तालव्यान्ते रभसः । स्कन्दे –
"पालयामि पशून् यस्मात् सृजामि च यदृच्छया ।।
तेषां च पतिरेवाहं तस्मात् पशुपतिः स्मृतः ॥७॥"
इति । प्रमथपतिः, भूतपतिः, उमापतिः, यौगिकत्वात् पशुनाथः, गणनाथः, भूतनाथः, गौरीनाथः इत्यादयः। ६२-६३ पिङ्गा जटा ईक्षणं च यस्य स तथा पिङ्गजटः, पिङ्गेक्षणः । ६४-७० पिनाकं च शूलं च खट्वाङ्गं च गङ्गां च अहिं च इन्दुं च कपालं च बिभर्ति, तेन पिनाकभृत्, शूलभृत्, खट्वाङ्गभृत्, गङ्गाभृत्, अहिभृत्, इन्दुभृत्, कपालभृत्, यौगिकत्वात् पिनाकपाणिः, शूली, खट्वाङ्गधरः, गङ्गाधरः। 'धृञ् धारणे' (भ्वा.उ.अ.), पचाद्यच् । गङ्गाया धरो गङ्गाधरः। अन्यथा तु कर्मण्यण, 'संज्ञायां भृतॄवृज(वॄजि)'३।२।४६॥ इति सूत्रेण खच् वा स्यात् । उरगभूषणः, शशिभूषणः, कपाली इत्यादयः ॥१९९॥ ७१-७७ गजस्य, पूष्णः, पूरस्य, अनङ्गस्य, कालस्य, अन्धकस्य, मखस्य असुहृद् गजासुहृत्, गजासुरहन्तृन्त्वात् । पूषासुहृत्, दक्षाध्वरध्वंसने हि पूष्णो दन्ता महेश्वरेण पातिताः । यद् वामनपुराणम् –
"ततः क्रोधाभिभूतेन पूष्णो वेगेन शंभुना ।
मुष्टिनाऽऽहत्य दशना: पातिता धरणीतले ॥ ८॥"
पुरासुहृत्, शंभोराग्नेयबाणेन त्रिपुरस्य प्लुष्टत्वात् । अनङ्गासुहृत्, शंभोस्तृतीयनेत्राग्निना कामस्य दग्धत्वात्। कालासुहृत्, दक्षमखध्वंसे यमस्य जितत्वात् । अन्धकासुहृत्, अन्धको हि समरे शूलेन शूलिना प्रोतः । मखासुहृत्, दक्षस्य मखो महेश्वरेण विध्वंसितः । यौगिकत्वाद् गजासुरद्वेषी, पूषदन्तहरः, त्रिपुरान्तकः। त्रयाणां पुराणां समाहारः त्रिपुरम्, पात्रादिगणस्थः,
तस्यान्तकः । कामध्वंसी, यमजित्, अन्धकारिः, दक्षाध्वर-ध्वंसक: इत्यादयः । सप्तसप्तिर्महादेवस्य । शेषश्चात्र –
"शङ्करे नन्दिवर्धनः ॥
बहुरूपः सुप्रसादो मिहिराणोऽपराजितः । कङ्कटीको गुह्यगुरुर्भगनेत्रान्तकः खरुः ॥८॥
परिणाहो दशबाहुः सुभगोऽनेकलोचनः । गोपालो वरवृद्धोऽहिपर्यङ्कः पांशुचन्दनः ॥९॥
कूटकृन्मन्दरमणिर्नवशक्तिर्महाम्बुक: । कोणवादी शैलधन्वा विशालाक्षोऽक्षतस्वनः ॥१०॥
उन्मत्तवेषः शबर: सिताङ्गो धर्मवाहनः । महाकान्तो वह्निनेत्रः स्त्रीदेहार्द्धो नृवेष्टनः ॥११॥
महानादो निराधारो भूरिरेकादशोत्तमः । जोटी झोटीङ्गोऽर्धकूट: समिरो धूम्रयोगिनौ ॥१२॥
उलन्दो जयतः कालो जटाधरदशाव्ययौ । सन्ध्यानाटी रेरिहाणः शङ्कुश्च कपिलाञ्जनः ॥१३॥
जगद्रोणिरर्द्धकालो दिशांप्रियतमोऽतलः । जगत्स्रष्टा कटाटङ्कः कटप्रूहीरहृत्करा: ॥१४॥"
[शेषनाममाला २।४१-४८॥] ॥
१कपर्दोऽस्य जटाजूट:
१ अस्य शंभोः, जटाजूटो जटाबन्धः, 'पर्व पूरणे' (भ्वा.प.से.), संपदादित्वात् क्विप्, 'राल्लोपः '६।४।२१॥ इति वकारलोपः, कस्य गङ्गाजलस्य पूरणेन दापयति शुद्ध्यतीति कपर्दः । 'दैप् शोधने' (भ्वा.प.अ.), 'सुपि'३।२।४॥ इति योगविभागात् कः । ''(कस्य गङ्गाजलस्य पूरः) पूरणमिदं दापयति शुद्धयति, पृषोदरादित्वादूकारस्याकारः'' इति त्वन्यः । के शिरसि पर्दति शब्दायते वा । "कं शिरः पिपर्ति वो कपर्दः, औणादिको दप्रत्यय:''[अम.क्षीर. १।१।३५॥] इति तु स्वामी । जटानां जूटो रचनाविशेषो बन्ध इति यावत् । शिवजटाबन्धनस्यैकम् ॥
खट्वाङ्गस्तु सुखंसुणः ॥२००॥
१ खट्वाया अङ्गमिव सरलत्वेन ईषा सदृशत्वात् [खट्वाङ्गः], पुंस्ययम् । क्लीबेऽपि व्याडि:-"खट्वाङ्गं शिवपांशुलम्'' इति । २ सुष्ठु खं सुखं सुनोति संबध्नाति सुखंसुणः । 'भ्रूण- '(हैमोणा-१८६) इत्यादिना णान्तो निपात्यते । महादेवस्य खट्वाङ्गनामायुधविशेषस्य द्वे ॥२००॥
१पिनाकं स्यादा२जगवम३जकावं च तद्धनुः ।
१ त्रिपुरदाहे शरानलज्वालाजालेन नाकमपि पिहितवानिति पिनाकम्, पुंक्ली. । निजभासा पिहितनाको वा । अपिरत्र पिहितार्थवाची पृषोदरादित्वात् पूर्वनिपातोऽकारलोपश्च । यद्वा पातीति पिनाकः । 'पा रक्षणे' (अ.प.अ.), 'पिनाकादयश्च'(उणा.-४५५) इति आक: नुमागम इत्वं च निपात्यते । यद्वा पिनष्टयरीन् पिनाकम् । 'पिष्लृ संचूर्णने' (रु.प.अ.), 'पिषेः पिन्पिण्यौ च'(हैमोणा.-३६) इति उणादिसूत्रेण आकः । २ अजगवोऽस्थिविकारस्तस्येदम् आजगवम् । 'तस्येदम्'४।३।१२० ॥ इत्यण् । यत्कात्यः - "धनुर्वदन्त्याजगवं पिनाककरगोचरम्'' । ३ अजकाग्रहणस्थानमस्यास्ति वा अजकावम् इति प्रथमवर्गाद्यमध्योऽपि । 'अन्येऽभ्योप्युपसंख्यानम्'(वा.-५।२।१०९॥) इति वः । गाण्ड्यजकात् संज्ञायाम्'५।२।११०॥ इति को (वो) वा। "पिनाकोऽजगवं धनुः"[अमरकोषः १।१।३५॥ इति ह्रस्वादिममरः प्राह । "अजकावागावेव भवेदाजगवं तथा, पिनाकेऽजगवं च'' इति शब्दप्रभेदः । यद्वा
अजो विष्णुः, को ब्रह्मा, तावत्र स्त इति, 'गाण्ड्यजगात् संज्ञायाम्'५।२।११०॥ इति वः । "निपातनात् कुत्वम्, अजकावम्" इति तु भाष्यम्, तन्मते सूत्रेऽपि ककारः, प्रज्ञादित्वादणि, 'अन्येषामपि भाषायां दीर्घत्वं दृश्यते'६।३।१३७॥ इति दीर्घः । ''धनुस्त्वजगवं पुण्य(युग्य)- मजकावमजाजकम्" इति शब्दार्णवः । तस्य महादेवस्य धनुस्तद्धनुः । महादेवधनुषस्त्रीणि ॥
ब्राह्माद्या १मातरः सप्त
१ ब्रह्मादीनां स्वेदान्निर्गतत्वाद् ब्रह्मण इयं ब्राह्मी । 'तस्येदम्'४।३।१२०॥ इत्यण्, 'ब्राह्मोऽजातौ' ६।४।१७१॥ इति टिलोपः, 'टिड्ढाणञ्-'४।१।१५॥ इति ङीप् । ब्रह्माणीति शैवप्रसिद्धम् । ब्राह्मी आद्या आसां ब्राह्माद्याः । मान्ति वर्तन्ते मातरः, शंभोः परिकरभूताः । यदुक्तम् –
"स्मृताद्या ब्रह्माणी सिद्धा माहेश्वरी च कौमारी ।
वैष्णव्यथ वाराही चामुण्डा मातरः सप्त ॥१॥"
इति । केचित्त्वष्टावाहुः । तदुक्तम् –
"ब्राह्मी माहेश्वरी चेन्द्री (चैन्द्री) वाराही वैष्णवी तथा ।
कौमारी चाथ चामुण्डा चर्चिकेत्यष्टमातरः ॥२॥"
इति । तथा च भट्टस्वामी "अस्याष्टौ परिवारत्वेन मान्ति वर्तन्ते मातरः"[अम.क्षीर.१।१।३५॥] । सर्वधरादयस्तु चामुण्डाचर्चिकाशब्दावपनीय कौमारीति पठित्वा "सप्तैव मातरः" इत्याहुः । 'मातरः' बहुवचनान्त एव, यथा "तं मातरो देवमनुव्रजन्त्यः'' इति । महादेवस्य हि ब्राह्माद्या मातृनाम्न्यः परिवारत्वेन वर्तन्ते, तासां सप्तानामेकम्॥
१प्रमथाः २पार्षदा ३गणाः ॥ २०१ ॥
१ रुद्रद्वेषिणं प्रमथ्नन्ति प्रमथाः । 'मन्थ विलोडने' (क्र्या.प.से.), पचाद्यच् । २ पर्षदि साधवः पार्षदाः । णे, 'परिषदो ण्यः'४।४।१०१॥ इति योगविभागात् णः । ''भूताः शिवस्य पार्षदाः" इति संसारावर्त्तः । ''स पार्षदैरम्बरमापुपूरत्" इति जाम्बवत्यां पाणिनिः । परिषदि साधव इति व्युत्पत्त्या पारिषदा इत्यपि । ३ गण्यन्ते दिव्यपदप्राप्त्येति गणाः । 'गण संख्याने' (चु.उ.से.), कर्मणि घञ् । शिवस्य गणनामानि त्रीणि, महादेवस्य 'पासवाण' इति भाषा ॥ २०१॥
१लघिमा २वशिते३शित्वं ४प्राकाम्यं ५महिमा६ऽणिमा ।
यत्र७कामावसायित्वं ८प्राप्तिरैश्वर्यमष्टधा ॥२०२॥
१ लघोर्भावो लघिमा, येन वायोरपि लघुर्भवति । २ वशिनो भावो वशिता वशित्वम्, सर्वजीववशीकरणशक्तिः, भूतानि पृथिव्यादीनि, भौतिकानि गोघटादीनि, तेषु वशी स्वतन्त्रो भवति तेषां त्ववश्यः, तत्कारणतन्मात्रपृथिव्यादिपरमाणुवशीकारात् तत्कार्यवशीकरः, तेन तान् यथावस्थापयति,
तथावतिष्ठन्त इत्यर्थः । बृहस्पतिस्तु - "वशिता, यया भूमावपि जलवन्मज्जनोन्मज्जने करोति'' इत्याह । ३ ईष्टे इत्येवंशील ईशी, ईशिनो भाव ईशित्वम्, तेषां भूतभौतिकानां विजितमूलप्रकृतिः सन् य उत्पादो यो विनाशो यच्च यथावदवयवसंस्थानं तेषामीष्टे । ४ प्रकृष्ट: कामोऽस्य प्रकामः, तद्भावः प्राकाम्यम्, इच्छानभिघातः, नास्य केनापीच्छा प्रतिहन्यते । ५ महतो भावो महिमा, अल्पोऽपि नगनगरगगनपरिमाणो भवति । ६ अणोर्भावः अणिमा, येन कृत्वा महान् अपि अणुपरिमाणो भवति । ७ यत्र काम इच्छा तत्र आवसतीत्येवंशीलः यत्रकामावसायी, तद्भावस्तत्त्वम्, सत्यसङ्कल्पना, विजितगुणार्थतत्त्वो यद्यदर्थतया सङ्कल्पयति तत्तस्मै प्रयोजनाय कल्पते, विषमप्यमृतकार्ये सङ्कल्प्य भोजयन् जीवयतीति । ८ प्रापणं प्राप्तिः, सर्वे भावा संनिहिता भवन्ति, तद्यथा भूमिष्ठोऽप्यङ्गल्यग्रेण चन्द्रं स्पृशति । इत्यैश्वर्यमष्टधा । महादेवस्याष्टानां लघिमादीनां नामैकम् 'ऐश्वर्यम्' इति ॥२०२॥
१गौरी २काली ३पार्वती ४मातृमाता५ऽपर्णा ६रुद्राण्य७म्बिका ८त्र्यम्बको९मा ।
१०दुर्गा ११चण्डी १२सिंहयाना १३मृडानी१४कात्यायन्यौ १५दक्षजा१६ऽऽर्या १७कुमारी ॥२०३॥
१८सती १९शीवा २०महादेवी २१शर्वाणी २२सर्वमङ्गला ।
२३भवानी २४कृष्ण२५मैनाकस्वसा २६मेना२७द्रिजे२८श्वरा ॥२०४॥
२९निशुम्भ३०शुम्भ३१महिषमथनी ३२भूतनायिका ।
१ गौरवर्णत्वाद् गौरी । 'षिद्गौरादिभ्यश्च'४।१।४१॥ इति गौरादित्वात् ङीष् । तथा च स्कन्दे –
"इच्छामि देवि ! दिव्यं च वपुः कनकसुप्रभम् ।
गौरीति लोके विख्याता भवेयं कमलोद्भवा ॥१॥"
इति । २ संहारमूर्तौ श्यामवर्णत्वात् काली । 'जानपदकुण्ड-'४।१।४२॥ इति ङीष् । वर्णस्याविवक्षायां 'काला' इत्यपि । "उमा कात्यायनी दुर्गा काली हैमवतीश्वरी । काला कालिञ्जरी गौरा" इति वाचस्पतिः । ३ पर्वतस्यापत्यं पार्वती । 'तस्यापत्यम्'४।१।९२॥ इत्यण्, 'टिड्ढाणञ्-'४।१।१५॥ इति ङीप् । यद्वा पर्वतोऽभिजनोऽस्याः पार्वती । 'सिन्धुतक्षशिलादिभ्योऽणञौ'४।३।९३॥ इति प्रथमान्तादभिजनोपाधिकाद-स्येत्यर्थे तक्षशिलादित्वादञि ङीष् (ङीप्) । "यत्र पूर्वैरुषितं सोऽभिजनः" इति धातुवृत्तिः । ४ मातॄणां ब्राह्म्यादीनां माता मातृमाता । 'न षट्स्वस्रादिभ्यः'४।१।१०॥ इति न ङीप् । ५ तपस्यन्त्यानया स्वयं शीर्णमपि पर्णं न भुक्तमिति, न विद्यते पर्णमप्याहारोऽस्या अपर्णा । जाते[रि]त्यनुवृत्तेः 'पाककर्णपर्ण-' ४।१।६४॥ इत्यादिना न ङीष् । ६ रुद्रस्य स्त्री रुद्राणी । 'इन्द्रवरुण-'४।१।४९॥ इत्यादिना ङीषानुकौ । ७ जगन्मातृत्वात् अम्बैव अम्बिका । संज्ञायां कन्, 'प्रत्ययस्थात् कात् पूर्वस्यातः-७।३।४४॥ इतीत्वम् । ८ त्रीणि अम्बकानि नेत्राण्यस्याः त्र्यम्बका । ९ अवति रक्षति आपद्भय उमा । 'अव रक्षणादौ' (भ्वा.प.से.), 'अविसिवि[स]शुषिभ्यः कित्'(उणा.-१४१) इति मन्प्रत्यये, कित्त्वे, 'ज्वरत्वर-'६।४।२०॥ इत्यट्(ठ्)त्वे, बाहुलकात् ह्रस्वत्वे च उमा । ओर्महेश्वरस्य मा लक्ष्मीरिति वा । "उ मेति मात्रा तपसे निषिद्धा"[कुमारसंभवम्, सर्ग:-१, श्लो.-२६] इति वा । १० 'सर्वे गत्यर्था ज्ञानार्थाः' इत्युक्तेः दुःखेन गम्यते ज्ञायतेऽसाविति दुर्गा । 'गम्लृ गतौ' (भ्वा.प.अ.), 'अन्यत्रापि (अन्येष्वपि)-'(वा.-३।२।४८॥) इति डः । दुःखेन गन्तुं शक्यतेऽस्यामिति आधारविवक्षायां "सुदुरोरधिकरणे'(वा.-३।२।४८॥) डः" [माधवीयधातुवृत्तौ भ्वा., पृ.२७८] इति माधवः । दुर्गं वनं गिरिर्वा निवासत्वेनास्त्यस्या इति, अर्श आदित्वादचि दुर्गा । दुर्गनामासुरवधाद्वा । तथोक्तम् –
"तत्रैव च वधिष्यामि दुर्गमाख्यं महासुरम् ।
दुर्गादेवीति विख्यातं तन्मे नाम भविष्यति ॥२॥"
इति मार्कण्डेयपुराणम् । ११ चण्डति चण्डी, कोपनत्वात् । 'चडि कोपे' (भ्वा.आ.से.), पचाद्यच्, स्त्रियां 'बाह्वादिभ्यश्च'४।१।४५॥ इति ङीष् । १२ सिंहो यानमस्याः सिंहयाना, यौगिकत्वात् सिंहवाहनाऽपि । १३ मृडस्य शिवस्य भार्या मृडानी । 'इन्द्रवरुण-'४।१।४९॥ इत्यादिना ङीषानुकौ । १४ कतस्यापत्यं कात्यायनी । 'गर्गादिभ्यो यञ्'४।१।१०५॥, ततः 'सर्वत्र लोहितादिकतन्तेभ्यः'४।१।१८॥ इति ष्फः, फस्यायनादेशः, षित्त्वात् ङीष् । १५ दक्षाज्जाता दक्षजा । 'जनी प्रादुर्भावे' (दि.आ.से.), 'पञ्चम्यामजातौ'३।२।९८॥ इति डः । यौगिकत्वाद् दाक्षायणी । १६ अर्यत इति आर्या । 'ऋ गतौ' (जु.प.अ.), 'ऋहलोर्ण्यत्'३।१।१२४॥ इति ण्यत् । १७ कुमारी अवस्थाभेदात् ॥२०३॥ १८ सती इति प्राग्जन्मनि दक्षपुत्रीत्वे नाम, दक्षजेतिवत् । यद् वामनपुराणम् –
"ब्रह्मस्त्वयों समाख्याता मृता दक्षात्मजा सती ।
सा जाता हिमवत्पुत्रीत्येवं मे वक्तुमर्हसि ॥३॥"।
१९ शक्तिशक्तिमतोरभेदोपचारात्, स्वतः श्रेयस्करीत्वाद्वा शिवा । "पुंयोगे ङीषि शिवी"[अम.क्षीर.१।१।३७॥] इति च स्वामी । २० महादेवस्य भार्या महादेवी । २१ शर्वस्य
भार्या शर्वाणी । 'इन्द्रवरुण-'४।१।४९॥ इति ङीषानुकौ। २२ सर्वाणि मङ्गलान्यस्याः सर्वमङ्गला । २३ भवस्य भार्या भवानी । 'इन्द्रवरुण-'४।१।४९ ॥ इति ङीषानुकौ । २४-२५ कृष्णमैनाकाभ्यामग्रे स्वसा, तेन कृष्णस्वसा, ऋकारान्त:, नन्दपुत्रीत्वात्, मैनाकस्वसा, मैनाको हिमाचलपुत्रः पर्वतविशेषः, तस्य स्वसा मैनाकस्वसा, ऋकारान्तः । २६-२७ मेनाद्रिभ्यामग्रे जः शब्दो योज्यते, तेन मेनानाम्नी हिमाचलपत्नी, ततो जाता मेनजा, अद्रेर्जाता अद्रिजा । २८ ईष्टे इति ईश्वरा । 'ईश ऐश्वर्ये' (अ.आ.से.), 'स्थेशभासपिशकसो वरच्'३।२।१७५॥, अजादित्वाट्टाप्, गङ्गावद् रूपाणि । ईश्वरीति तु 'अश्नोतेराशुकर्मणि वरट्, ईच्चादेः'(उणा.-७३५) इति टित्त्वात् ङीप्, नदीवत् । "ईश्वरः शङ्करेऽधीशे तत्पत्न्यामीश्वरीश्वरा" इति वोपालितः । ईश्वरस्य भार्या वा ईश्वरी ॥२०४॥ २९-३१ निशुम्भशुम्भमहिषानामग्रे मथनी, तेन 'निशुम्भं मथति निशुम्भमथनी, शुम्भमथनी, महिषमथनी । ३२ भूतानां नायिका भूतनायिका । 'प्रत्ययस्थात्-'७।३।४४॥ इतीत्वम् । द्वात्रिंशत् पार्वत्याः । शेषश्चात्र –
"गौतमी कौशिकी कृष्णा तामसी वाभ्रवी जया । कालरात्रिर्महामाया भ्रामरी यादवी वरा ॥४॥
बहिर्ध्वजा शूलधरा परमब्रह्मचारिणी । अमोघा विन्ध्यनिलया षष्ठी कान्तारवाहिनी ॥५॥
जाङ्गुली बदरीवासा वरदा कृष्णपिङ्गला । दृषद्वतीन्द्रभगिनी प्रगल्भा रेवती तथा ॥६॥
महाविद्या सिनीवाली रक्तदन्त्येकपाटला । एकपर्णा बहुभुजा नन्दपुत्री महाजया ॥७॥
भद्रकाली महाकाली योगिनी गणनायिका । हासा भीमा प्रकूष्माण्डी गण्डिनी वारुणी हिमा ॥८॥
अनन्ता विजया क्षेमा मानस्तोका कुहावती । वारणा च पितृगणा स्कन्दमाता घनाञ्जनी ॥९॥
गान्धर्वी कर्बरी गार्गी सावित्री ब्रह्मचारिणी । कोटिश्रीर्मन्दरावासा केशी मलयवासिनी ॥१०॥
कालायनी विशालाक्षी किराती गोकुलोद्भवा । एकानसी नारायणी शैला शाकम्भरीश्वरी ॥११॥
प्रकीर्णकेशी कुण्डा च नीलवस्त्रोग्रचारिणी । अष्टादशभुजा पौत्री शिवदूती यमस्वसा ॥१२॥
सुनन्दा विकचा लम्बा जयन्ती नकुला कुला ।। विलङ्का नन्दिनी नन्दा नन्दयन्ती निरञ्जना ॥१३॥
कालञ्जरी शतमुखी विकराला करालिका । विरजा: पुरला जारी बहुपुत्री कुलेश्वरी ॥१४॥
कैटभी कालदमनी दुर्दुरी कुलदेवता । रौद्री कुण्डा महारौद्री कालङ्गमी महानिशा ॥१५॥
बलदेवस्वसा पुत्री हीरी क्षेमङ्करां प्रभा । मारी हैमवती चापी गोला शिखरवासिनी ॥१६॥"
[शेषनाममाला २।४९-६१ ॥] ॥
तस्याः सिंहो १मनस्ताल:
१ तस्याः पार्वत्याः, सिंहो वाहनम्, मनस्ताडयत्यरीणां मनः कम्पयति मनस्तालः । 'तड आघाते' (चु.उ.से.), णिजन्तः, पचाद्यच् । गौर्या वाहनम्, तस्यैकम् ॥
सख्यौ तु विजया जया ॥२०५॥
१-२ गौर्याः द्वे सख्यौ, एका विजयते विजया, [द्वितीया] जयति जया। 'जि जये' (भ्वा.प.अ.), पचाद्यच्, टाप् ॥२०६॥
१चामुण्डा २चर्चिका ३चर्ममुण्डा ४मार्जारकर्णिका ।
५कर्णमोटी ६महागन्धा ७भैरवी च ८कपालिनी॥२०६॥
१ चमति अत्ति प्रलये जगदिति चामुण्डा । 'चमु अदने' (भ्वा.प.से.), '[पि]चण्डैरण्ड-'(हैमोणा-१७६) इत्यादिना (इत्यत्रादिना) साधुः । चण्डमुण्डदैत्ययोर्मारणाद्वा । यदुक्तम् –
"यस्माच्चण्डं च मुण्डं च गृहीत्वा त्वमुपागता ।।
चामुण्डेति ततो लोके ख्याता देवी भविष्यसि ॥१॥" ।
२ चर्च्यते पूज्यते चर्चा, 'चर्च पूजायाम्', 'चर्च अध्ययने' (चु.उ.से.), अस्माद्वा भिदादित्वादङ्, चर्चैव चर्चिका । स्वार्थे कन्, 'प्रत्ययस्थात्-'७।३।१४४॥ इतीत्वम् । ३ चर्म मुण्डेऽस्याः चर्ममुण्डा । ४ मार्जारः कर्णिकाऽस्याः मार्जरकर्णिका । मार्जारवत् कर्णावस्याः इति वा । ५ दैत्यानां कर्णान् मोटयति उत्पाटयति कर्णमोटी । 'मुट प्रमर्दने' (भ्वा.प.से.), पचाद्यच्, गौरादिः । ६ महान् गन्धोऽस्याः महागन्धा, दैत्यास्रविस्रत्वात् । ७ भैरवस्य भार्या भैरवी । ८ कपालमस्त्यस्याः कपालिनी । 'अत इनिठनौ' ५।२।११५॥ इतीनिः, 'ऋन्नेभ्यो ङीप्'४।१।५॥ अष्टौ चामुण्डायाः ॥ शेषश्चात्र –
"चामुण्डायां महाचण्ड चण्डमुण्डाऽपि" [शेषनाममाला २।६२॥] ॥२०६॥
१हेरम्बो २गण३विघ्नेशः ४पर्शुपाणि५र्विनायकः ।
६द्वैमातुरो ७गजास्यै८कदन्तौ ९लम्बोदरा१०खुगौ ॥२०७॥
१ हे शङ्करे रम्बते लम्बते शैशवे इति हेरम्बः । "हे प्रत्यूहे रम्बते शब्दायते"[अम.क्षी. १।१।३८॥] इति तु स्वामी । यद्वा हे शिवसमीपे रम्बते शब्दायते इति वा । 'अबि रबि शब्दने' (भ्वा.आ.से.), पचाद्यच्, 'तत्पुरुषे कृति बहुलम्'६।३।१४॥ इत्यलुक् । देश्योऽप्ययं बहुशः संस्कृते प्रयुक्तत्वात् निबद्धः । २-३ गणविघ्नाभ्यामग्रे ईशः, तेन गणानां प्रमथादीनामीशः गणेशः, विघ्नानामीशो विघ्नेशः, यौगिकत्वात् प्रथमाधिपो, विघ्नराजः इत्यादयः । ४ पर्शुः पाणावस्य पशुपाणिः । ५ वि इति विघ्नानां नायको विनायकः, पदैकदेशे पदसमुदायोपचाराद् विशब्देन विघ्नः प्रोच्यते । विशिष्टानां नायको वा । विगतो नायको नियन्ताऽस्य वा । 'ण्वुल्तृचौ'३।१।१३३॥ इति ण्वुल् । यद् वामनपुराणे-
"नायकेन मया देवि ! विनोद्भूतोऽपि पुत्रकः ।
यस्माज्जातस्ततो नाम्ना भविष्यति विनायकः ॥१॥"
इति । अन्येषां विनेतृत्वाद्वा । ६ दुर्गया चामुण्डया च पालितत्वाद् द्वयोर्मात्रोरपत्यं द्वैमातुरः । मातुरुत्संख्या-सं-भद्र-पूर्वायाः'४।१।११५॥ इत्यण्, 'उरण् रपरः'१।१।५१॥ इति रपरत्वम् । ''शिरोरहितो जातोऽतो हस्तिशिरसि योजित इत्यतो हस्तिन्यापत्यत्वाद् द्वयोरपत्यम्'' इति तु कौमुदी । ७ गजस्येव आस्यमस्येति गजास्यः । "समुदाये प्रवृत्ताः शब्दा अवयवेष्वपि वर्तन्ते" इति गजास्यः । गजास्यमिवास्येति वा । उष्ट्रमुखवत्समासोत्तर-पदलोपौ । ८ कार्तिकेनोत्पाटितैकदन्तत्वाद् एको दक्षिणो दन्तोऽस्य एकदन्तः । ९ लम्बमुदरमस्य लम्बोदरः। १० आखुना गच्छति आखुगः । 'गम्लृ गतौ' (भ्वा.प.अ.), 'अन्यत्रापि(अन्येष्वपि) दृश्यते' (वा.-३।२।४८॥) इति डः । यौगिकत्वात् मूषिकरथोऽपि । दश गणेशस्य । शेषश्चात्र –
"पृश्निगर्भः पृश्निशृङ्गः(-ङ्गो) द्विशरीरस्त्रिधातुकः ।
हस्तिमल्लो विषाणान्तः" [शेषनाममाला २।६२-६३ ॥] ॥२०७॥
१स्कन्दः २स्वामी ३महासेनः ४सेनानी: ५शिखिवाहनः ।
११द्वादशाक्षो १२महातेजाः १३कुमारः १४षण्मुखो १५गुहः ।
१६विशाखः १७शक्तिभृत् १८क्रौञ्च१९तारकारिः २०शरा२१ग्निभूः ॥२०९॥
१ स्कन्दति गच्छति शोषयति दैत्यानिति वा स्कन्दः । 'स्कन्दिर् गतिशोषणयो:' (भ्वा.प.अ.), पचाद्यच् । तथा च वायुपुराणम् - "स्कन्दिता दानवगणांस्तेन स्कन्दः प्रतापवान्'' इति । स्कन्नं शुष्कं रेतोऽस्येति, पृषोदरादिर्वा । २ स्वमस्यास्ति स्वामी । 'स्वामिन्नैश्वर्ये'५।२।१२६॥ इति साधुः । ३ महती सेनाऽस्य महासेनः । ४ सेनां नयति प्रापयति सेनानीः । 'णीञ् प्रापणे' (भ्वा.उ.अ.), 'सत्सूद्विषद्रुह-' ३।२।६१॥ इत्यादिना क्विप् । ५ शिखी वाहनमस्य शिखिवाहनः, यौगिकत्वात् मयूररथः इत्यादयः । ६ षण्णां मातॄणामपत्यं पाण्मातुरः । 'मातुरुत्संख्यासं-भद्र- पूर्वायाः'४।१।११५॥ इत्यण् उत्वम्, रपरत्वं च । ७ ब्रह्म चरतीत्येवंशील: ब्रह्मचारी । 'चर गतिभक्षणयोः' (भ्वा.प.से.), 'सुप्यजातौ णिनिस्ताच्छील्ये'३।२।७८॥ इति णिनिः, 'अत उपधायाः'७।२।११६॥ । ८-१० गङ्गोमाकृत्तिकाभ्योऽग्रे सुतः, तेन गङ्गासुतः, उमासुतः, कृत्तिकासुतः, कृत्तिकानां सुत इति समासः, यौगिकत्वाद् गाङ्गेयः, पार्वतीनन्दनः बाहुलेयः इत्यादयः ॥२०८॥ ११ द्वादशाऽक्षीण्यस्य द्वादशाक्षः । बहुव्रीहौ सक्थ्यक्ष्णोः षच्, 'यस्येति च'६।४।१४८॥ । षण्मुखत्वाद् द्वादशनेतृत्वम् । १२ महत्तेजोऽस्य महातेजाः, सकारान्तः । १३ कुमारयति क्रीडयति शिखिना कृत्वेति कुमारः । 'कुमार क्रीडायाम्' (चु.उ.से.), पचाद्यच् । यदुक्तं वायुपुराणे - "यस्मात् क्रीडति सोत्यर्थं कुमारस्तेन कीर्तितः" इति । काम्यते अभिलष्यते इति वा । 'कमु कान्तौ' (भ्वा.आ.से.), 'कमेः किदुच्चोपधायाः'(उणा.-४१८) इत्यार[न्] प्रत्यये उपधायाश्चोत्वे कुमारः" इति तु व्याख्यामृतम् । सदा बालत्वाद्वा । तथा च स्कन्दे –
"पुत्रस्ते भविता देवि ! महायोगबलान्वितः ।
सदा बालोऽथ सुभगो धर्मविधर्मवत्सलः॥१॥"
इति नारदवचनात् । षोडशवर्षदेशीयः, न त्वनूढतया कुमार इत्यादर्त्तव्य:, यतोऽनेन देवसेना ऊढो । तथा च वायुपुराणम् –
"शतक्रतो रूपवती देवसेनेति या सुता ।।
सा महेन्द्रेण रत्यर्थं भार्यात्वेनोपपादिता ॥२॥"
इति । "उदीर्णसेनापतये महासेनाय सुव्रत! ॥" इति । ब्रह्मचारित्वात् कुत्सितो मारः कामोऽस्येति वा, एकपत्नीत्वात् । १४ षट् मुखान्यस्य षण्मुखः, अग्निपत्नीनां षण्णां स्तनपानत्वात् । १५ गृहति रक्षति सेनां गुहः । 'गुहू संवरणे' (भ्वा.आ.वे.), 'इगुपधज्ञा-'३।१।१३५॥ इति कः । १६ विशाखानक्षत्रेण युक्तः काल इत्यर्थे 'नक्षत्रेण युक्तः कालः'४।२।३॥ इति सूत्रेणाऽण्, तस्याणः 'लुबविशेषे'४।२।४॥ इति लुप्, 'लुपि युक्तवद् व्यक्तिवचने'१।२।५१॥ इति प्रकृति [वल्] लिङ्गसंख्ये, ततो विशाखायां जात इत्यर्थे 'सन्धिवेला-'४।३।१६॥ इति सूत्रेणाऽण्, तस्य 'श्रविष्ठाफाल्गुनी'४।३।१६॥ इत्यादिना लुकि 'लुक् तद्धितलुकि'१।२।४९॥ इति टापो लुकि विशाखः । १७ शक्तिमायुधं बिभर्ति शक्तिभृत् । 'डुभृञ् धारणपोषणयोः' (जु.उ.अ.), क्विप्, 'ह्रस्वस्य पिति-'६।१।७१॥ इति तुक् । १८-१९ क्रौञ्चतारकाभ्यामग्रेऽरिः । 'क्रुञ्चु गतौ' (भ्वा.प.से.), 'ऋत्विक्'३।२।५९॥ इत्यादिना क्विन्, 'प्रज्ञादिभ्यश्च'५।४।३८॥ इति अण् । क्रौञ्चस्य गिरेरसुरस्य वा अरिः क्रौञ्चारिः । अन्धकासुरे हि महेशात् क्रौञ्चमध्ये प्रनष्टेऽनेन क्रोञ्चो दारित इति हि प्रसिद्धिः । "कैलासै च नदीशे च क्रौञ्चः क्रौञ्चोऽभिधीयते'' बृहद्वादावली । तारक[स्य] दानवस्य अरिः तारकारिः । यौगिकत्वात् क्रौञ्चदारण:, तारकान्तकः इत्यादयः । २०-२१
शराग्निभ्यामग्रे भूः, तेन शरभूः, अग्निभूः । "पुरा किल तारकोपप्लुतदेवरक्षार्थं शिवेनाग्निरूपं स्वबीजमग्निमुखे क्षिप्तम्, तेनापि कृत्तिकासु क्षिप्तम्, ताश्च दैवात् गर्भसत्रपाः शरवनं(-णं) प्रविश्य प्रसूताः, तेनाग्निभू:"[टीकासर्वस्वम् १।१।३९॥] इति सर्वानन्दः । कौमुद्यां तु-"तारकभीतदेवरक्षाक्षमपुत्रोत्पादाय देव्यां बीजमुत्सिसृक्षू रौद्रो गौरीगर्भजातत्वदपत्यादतिबलाद् देवा भीरव इत्यग्निना ज्ञापितो भूमौ रेतोऽक्षिपत्, देवीशापात् स गर्भोऽग्नावेवाऽभूत्, स च तं गर्भखिन्नो गङ्गायामक्षिपत्, सा च शरवने कुमारमसूत, स च कृत्तिकाभिर्नीत्वा पालित इति, ततोऽयमग्निभवत्वाद् अग्निभूः'' इत्युक्तम् । यौगिकत्वात् शरजन्मा, अग्निजन्मा इत्यादयः । एकविशंतिः स्वामिकार्तिकेयस्य । शेषश्चात्र –
"स्कन्दे तु किरवारकः, सिद्धिसेनो वैजयन्तो बालचर्यो दिगम्बर:'' [शेषनाममाला २।६३॥] ॥२०९॥
१भृङ्गी २भृङ्गिरिटि३र्भृङ्गिरीटि४र्नाड्य५स्थिविग्रहः।
१ भृङ्गाः षिङ्गाः क्रीडापात्रत्वात् सन्त्यस्य भृङ्गी । 'अत इनिठनौ'५।२।११५॥ इतीनिः । भृङ्गिणौ, भृङ्गिणः इत्यादिरूपाणि । २ भ्रमन् गिरावटति भृङ्गिरिटिः, पृषोदरादित्वात् । ३ एवं भृङ्गिरीटि: अपि । ४-५ नाड्यस्थिभ्यामग्रे विग्रहः, तेन नाडीशेषो विग्रहोऽस्य नाडीविग्रहः, अस्थिशेषो विग्रहोऽस्य अस्थिविग्रहः, अन्धकासुरो हि रौद्रेण वर्षसहस्राणि शूलप्रोतो धृतः नाड्यस्थिशरीरशेषश्च दासत्वं प्रपन्नो मुक्तः भृङ्गीगणोऽभूत् इति हि प्रसिद्धिः । पञ्च महादेवस्य भृङ्गीनामा गणस्य । शेषश्चात्र –
''चर्मी'' [शेषनाममाला २।६४॥] ॥
१कूष्माण्डके २केलिकिलः
१ कुष्णाति कूष्माण्डः । 'कुष निष्कोषणे' (क्र्या.प.से.), 'पिचण्डैरण्ड-'(हैमोणा-१७६) इत्यादिना निपातनात् साधुः, ततः स्वार्थे कन् [कुष्माण्डकः], तत्र । २ केल्या किलति क्रीडति केलिकिलः । 'किल श्वैत्यक्रीडनयो:' (तु.प.से.), 'इगुपध-'३।१।१३५॥ इति कः । द्वे महादेवस्य कूष्माण्डनाम्नो गणस्य ॥
१नन्दीशो २तण्डु३नन्दिनौ ॥२१०॥
१ नन्दति नन्दिः । 'टुणदि समृद्धौ' (भ्वा.प.से.), 'इन् सर्वधातुभ्यः'(उणा.-५५७) इतीन् । नन्दिश्चासौ ईशश्च नन्दीशः, तत्र । २ तनोति नृत्यं तण्डुः । 'तनु विस्तारे' (तना.उ.से.), 'तनिमनिकणिभ्यो डु:'(हैमोणा-७६५) इति डुः । ३ अवश्यं नन्दति नन्दी । 'टुणदि समृद्धौ' (भ्वा.प.से.), आवश्यके णिनिः । नन्दिनौ, नन्दिनः इत्यादि । त्रीणि महादेवस्य नन्दिनाम्नो गणस्य । गणा अन्येऽप्यत्र, यद् व्याडि: -
''महाकालः पुनर्बाणो लूनबाहुर्वृषाणकः । वीरभद्रस्तु धीरौजा हेरकस्तु कृतालकः ॥१॥
अथ चण्डो महाचण्ड: शशाण्डी कङ्कणप्रियः । मज्जनोन्मज्जनौ छागच्छागमेषौ महाघसः ॥२॥
महाकपाल आलापः सन्तापनविलापनौ । महाकपाल ऐलोजः शङ्खकर्णः खरस्तपः ॥३॥
उल्कामाली महाजम्भः श्वेतपादः खराण्डकः । गोपालो ग्रामणीमालुर्घण्टाकर्णकरन्धमौ ॥४॥
कपाली जृम्भको लिम्पः स्थूलः कर्णविकर्णकौ । लम्बकर्णो महाशीर्षो हस्तिकर्ण प्रमर्दकः ॥५॥
ज्वालाजिह्वो धमधमः संहातः क्षेमकः पुलः । भीषको ग्राहक: सिस्तो धीरुण्डो मकराननः ॥६॥
पिशिताशी महाकुण्डो नखारिरहिलोचनः ।। कूणकुच्छो महाजानुः कोष्टकोटिः शिवङ्करः ॥७॥
वेतालो लोमवेतालस्तामसः सुमहाकपिः । उत्तुङ्गो गृध्रजम्बूकः कण्डानककलानकौ ॥८॥
चर्मग्रीवो जलोन्मादो ज्वालावक्त्रो विहुण्डनः ।। हृदयो वर्तुलः पाण्डुर्भण्डिरित्यादयोऽपरे ॥ ९॥"
॥ २१०॥
१द्रुहिणो २विरिञ्चि३र्द्रुघणो ४विरिञ्चः ५परमेष्ठ्य६जो७ऽष्टश्रवणः ८स्वयम्भूः ।
९कमनः १०कविः ११सात्त्विक१२वेदगर्भौ १३स्थविरः १४शतानन्द१५पितामहौ १६क: ॥२११॥
१७धाता १८विधाता १९विधि२०वेधसौ २१ध्रुवः २२पुराणगो २३हंसग२४विश्वरेतसौ ।
२५प्रजापति२६र्ब्रह्म २७चतुर्मुखो २८भवान्तकृ२९ज्जगत्कर्तृ३०सरोरुहासनौ ॥२१२॥
३१शम्भुः ३२शतधृतिः ३३स्रष्टा ३४सुरज्येष्ठो ३५विरिञ्चनः ।
३६हिरण्यगर्भो ३७लोकेशो ३८नाभि३९पद्मा४०त्मभूरपि ॥२१३॥
१ द्रुह्यति दानवेभ्यः कामक्रोधादिभ्यो वा द्रुहिणः । 'द्रुह जिघांसायाम्' (दि.प.से.), 'द्रुदक्षिभ्यामिनन्' (उणा.-२०८) इति बाहुलकादिनन्, गुणाभावोऽपि बाहुलकादेव । २ भूतानि विरचयति विरिञ्चिः । 'रच प्रतियत्ने' (चु.उ.से.), पचाद्यच्, पृषोदरादित्वादकारयोरित्वम्, नुमागमश्च । 'रीच वियोजनसम्पर्चनयो:' (चु.उ.अ.), चुरादिः, 'अच इ:'(उणा.-५७८) इति इ:, पृषोदरादित्वान्नुम्, कुञ्जरवदुपधाया ह्रस्वत्वं 'विरिञ्चि:' इत्यन्ये । विरिङ्क्ते सूते विरिञ्चिः । 'रिचिर् विरेचने' (रु.उ.अ.), रुधादिरुभयपदी वा, पृषोदरादिः । "विभिर्हंसै रिच्यते उह्यते [वा] विरिञ्चिरिति प्राच्याः"[अम.क्षीर. १।१।१७॥] इति क्षीरस्वामी । ३ द्रुर्हन्यतेऽनेन द्रुघणः कुठारः, द्रुघण इव द्रुघणः, संसारच्छेदकत्वात् । "ब्रह्मात्मभूः स्याद् द्रुहिणो द्रुघणश्च पितामहः'' इति भागुरिः । ४ विरिङ्क्ते प्रजाः सूते इति विरिञ्चः, पृषोदरादिः । "विरिञ्चो द्रुघणः सिन्धो विरिञ्चिर्द्रुहिणो मतः'' इति शब्दार्णवः । ५ परमे पदे तिष्ठति परमेष्ठी । 'ष्ठा गतिनिवृत्तौ' (भ्वा.प.अ.), परमे स्थ: कित्'(उणा.-४५०) इति इन्(इनिः), 'तत्पुरुषे कृति बहुलम्'६।३।१४॥ इति सप्तम्या अलुक्, 'स्थास्थिन्स्थ (स्थॄ) नां चेति वक्तव्यम्'(वा.-८।३।९७॥) इति षत्वम् । ६ न जायत इति अजः । 'जनी प्रादुर्भावे' (दि.आ.से.), 'अन्येष्वपि दृश्यते'(वा.-३।२।१०१॥) इति डः । ७ अष्टौ श्रवणान्यस्य अष्टश्रवणः, चतुर्मुखत्वात् । ८ स्वयं भवति स्वयम्भूः । 'भुवः संज्ञान्तरयोः'३।२।१७९॥ इति क्विप् । ९ कामयतेऽभिलषति सुतामिति कमनः । 'कमु कान्तौ' (भ्वा.आ.से.), नन्द्यादित्वात् ल्युः । १० कवते वेदान् कविः । 'कुङ् शब्दे' (तु.आ.से.), 'अच इ:'(उणा.-५७८) इति इः । ११ सत्त्वानि प्रयोजनमस्य सात्त्विकः । 'तदस्य प्रयोजनम्'५।१।१०९।। इति ठक्, 'ठस्येक:'७।३।५०।। १२ वेदाः गर्भेऽस्य वेदगर्भः । १३ स्थितो यौवनादिति, पुराणपुरुषत्वाद्वा स्थविरः । 'ष्ठा गतिनिवृत्तौ' (भ्वा.प.अ.),'अजिर-शिशिर-शिथिल-स्थिर-स्फिर-स्थविर-खदिरा:'(उणा.-५३) इति सूत्रेण किरजन्तो निपातः । १४ शतमानन्दानामस्य शतानन्दः । १५ पितॄणामपि पितेति पितामहः । 'पितृव्यमातुल'४।२।३६ ॥ इत्यादिना निपातितः । "स तु पितुः पिता भवति । पितृजननी च तन्मूर्ति'' इत्यागमः । १६ कायति कः । 'कै शब्दे' (भ्वा.प.अ.), बाहुलकात् डः। केकिर- वच्छन्दः । तल्लक्षणं चेदम्-"परिकीर्तितं केकिरवं सयौ स्यौ'' इति कविशिक्षावृत्तौ ॥२११॥ १७ दधाति धारयति भूतानि धाता । 'डुधाञ् धारणपोषणयोः' (जु.उ.अ.), 'ण्वुल्तृचौ'३।१।१३३।। इति तृच् । धातारौ, धातारः इत्यादि । १८ एवं विदधाति विधाता, धातृवत् । १९ विदधाति सृजति विधिः । 'डुधाञ् धारणपोषणयोः' (जु.उ.अ.) 'उणादयो
.. १. 'पुनः' इति३॥ २-१. 'सिस्नो' इति, २-२. ('-ताहि' इति३) '-ताशो' इति च स्वोपज्ञवृत्तौ २।२१० ॥, पृ.५१ ॥ ३. '-कच्छ'
इति३ ।। ४. 'उत्तङ्गो' इति२.४॥ ५. 'कण्डात-' इति२ ॥ ६. '- ण्डि-' इति स्वोपज्ञवृत्तौ २।२१० ॥, पृ.५१॥ ७. द्र. स्वोपज्ञटीका २१२१० ॥, पृ.५१॥ ८. 'विरञ्चः' इति३॥ ९. क्षीरतरङ्गिण्यादौ हुस्वमध्यो दृश्यते ॥ १०. '- धाया हस्व-' इति१ ॥ ११. 'विरञ्चिः' इति२ ।। १२. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, श्री-१२, पृ.२८॥ १३. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, श्रो-१२, पृ.२८ ॥, रामाश्रमी १।१।१७।।, पृ.१०॥ १४. 'विरिञ्चिः' इति१.२॥ १५. 'सिन्धौ' इति२.४ ॥ १६. द्र. टीकासर्वस्वम्, भा-१, १।१।१७॥, पृ.१५ ॥ तत्र 'सञ्जो' इति दृश्यते, पदचन्द्रिका, भा-१, स्वर्गवर्गः, श्री-१२, पृ.२८ ॥, रामाश्रमी ११ ॥१७॥, पृ.१० ॥ तत्र 'शिञ्जो' इति दृश्यते ॥ १७. 'परमे कित्' इत्युणादिगणे ॥ १८. 'प्रयोजनम्' इत्येवाष्टाध्याय्याम्॥ १९. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, श्रो-११, पृ.२७, टीकासर्वस्वे "पितृजननी च तन्मूर्तिरित्यागमः" इत्येव दृश्यते ॥ २०. '-तीति' इति१ ॥ २१. अत्र १प्रतौ भ्रष्टः पाठः ॥
बहुलम्'३।३।११३॥ इति बहुलवचनात्, कर्त्तर्यपि 'उपसर्गे घोः किः' ३।३१२॥ इति किः । 'विध विधाने' (तु.प.से.) अस्माद्वा, 'इगुपधात् कित्'(उणा.-५५९) इति किन्(इन्) वा । २० विदधाति वेधाः । 'डुधाञ् धारणपोषणयोः' (जु.उ.अ.), 'विधाञो वेध्(वेध) च'(उणा.-६६४) इत्यौणादिके असुनि वेधादेशश्च । 'विध विधाने' (तु.प.से.) अस्माद्वा असुन् । वेधसौ, वेधसः इत्यादि । २१ ध्रुवत्वाद् ध्रुवः । 'ध्रुव गतिस्थैर्ययोः' (तु.प.से.), 'इगुपधज्ञा-'३।१।१३५॥ इति कः । २२ पुराणानि गायति पुराणगः । 'गै शब्दै' (भ्वा.प.अ.), 'अन्यत्रापि-(अन्येष्वपि-)'(वा.-३।२।१०१॥) इति डः । २३ हंसेन गच्छति हंसगः । 'गम्लृ गतौ' (भ्वा.प.अ.), 'अन्येष्वपि दृश्यते'(वा.-३।२।४८॥) इति डः, यौगिकत्वात् शतपत्ररथः । २४ विश्वाय रेतोऽस्य विश्वरेताः, सकारान्तः । २५ प्रजानां जनानां, प्रजायाः सुताया वा पतिः प्रजापतिः । "प्रजा स्यात् सन्ततौ जने" इति विश्वः । "स्वां दुहितरमकामयत'' इति श्रुतेः । २६ बृंहन्ति वर्धन्ते चराचराणि भूतान्यत्रेति ब्रह्मा, नकारान्तः । 'बृहि वृद्धौ' (भ्वा.प.से.), बृंहेर्मनिन्, नलोपः, अमागमश्च । तदुक्तम् –
"बृहदस्य शरीरं यदप्रमेयं प्रमाणतः ।
बृहद्विस्तीर्णमित्युक्तं ब्रह्म(ब्रह्मा) तेन स उच्यते ॥१॥"
इति । बृंहयति वर्धयति प्रजा इति णिजन्ताद् मनिन् वा, ब्रह्मा पुंक्लीबलिङ्गः । २७ चत्वारि मुखान्यस्य चतुर्मुखः । २८ भवान्तं करोति भवान्तकृत् । 'क्विप् च'३।२।७६॥ इति क्विप्, 'ह्रस्वस्य पिति-'६।१।७१॥ इति तुक् । २९ जगतां कर्ता जगत्कर्ता, यौगिकत्वाद् विश्वसृड् इत्यादयः । ३० सरोरुहं कमलमासनमस्य सरोरुहासनः ॥२१२॥ ३१ शं सुखम्, तत्र भवति शम्भुः । 'भू सत्तायाम्' (भ्वा.प.से.) 'मितद्र्वादिभ्यश्च' (वा.-३।२।१८०॥) इति डुः । ३२ शतं धृतीनामस्य शतधृतिः । ३३ सृजति प्रजाः स्रष्टा । 'सृज विसर्गे' (तु.प.अ.), ['ण्वुल्तृचौ' ३।१।१३३॥ इति तृच्, 'सृजि दृशोर्झल्यमकिति'६।१।५८॥ इत्यम्] | ३४ सुराणां ज्येष्ठः सुरज्येष्ठः । ३५ विरिङ्क्त इति विरिञ्चनः । नन्द्यादित्वाद् ल्युः । ३६ हिरण्यं गर्भोऽस्य, हिरण्यस्य गर्भो वा हिरण्यगर्भः, हिरण्यवर्णबह्माण्डप्रभवत्वात् । यत्पुराणम् –
"हिरण्यवर्णमभवदत्राण्डमुदकेशयम् ।
तत्र यज्ञे स्वयं ब्रह्मा स्वयम्भूर्लोकविश्रुत: ॥२॥"
इति । यद्वा उपचारादत्र हिरण्यमयमण्डं हिरण्यम् । तथा च मनुः-"तदण्डमभवद्धैमं सहस्रांशुसमप्रभम्"[मनुस्मृतिः१।९॥] इति, तदस्य गर्भ उत्पत्तिकारणम्, तस्य गर्भोऽयमिति वा, तत्प्रभवत्वाद् हिरण्यगर्भः । ३७ लोकस्य चतुर्दशभुवनस्येशः लोकेशः । ३८-४० नाभिपद्मात्मभ्योऽग्रे भूः, तेन नाभिभूः, पद्मभूः, आत्मभूः । 'भुवः संज्ञान्तरयोः'३।२।१७९॥ इति त्रिष्वपि शब्देषु क्विप् । आत्मना भवतीति आत्मभूरित्यनेनैव स्वयम्भूरिति लब्धे स्वभूनिवृत्त्यर्थं स्वयम्भूरित्युक्तम् । यौगिकत्वाद् नाभिजन्मेत्यादयः, कमलयोनिरित्यादयः । चत्वारिंशद् ब्रह्मणः । "क्षेत्रज्ञः, पुरुषः, सतत्''[शेषनाममाला २।६४॥] इति शैषिकाणि ॥२१३॥
१विष्णु२र्जिष्णु३जनार्दनौ ४हरि५हृषीकेशा६च्युताः ७केशवो
८दाशार्हः ९पुरुषोत्तमो१०ऽब्धिशयनो११पेन्द्रा१२वजे१३न्द्रानुजौ ।
१४विष्वक्सेन१५नरायणौ १६जलशयो १७नारायणः १८श्रीपति-
१९दैत्यारिश्च २०पुराण२१यज्ञपुरुष२२स्तार्क्ष्यध्वजो२३ऽधोक्षजः ॥२१४॥
२४गोविन्द२५षड्बिन्दु२६मुकुन्द२७कृष्णा २८वैकुण्ठ२९पद्मेशय३०पद्मनाभाः ।
३१वृषाकपि३२र्माधव३३वासुदेवौ ३४विश्वम्भरः ३५श्रीधर३६विश्वरूपौ ॥२१५॥
३७दामोदरः ३८शौरि३९सनातनौ ४०विधुः ४१पीताम्बरो ४२मार्ज४३जिनौ ४४कुमोदकः ।
४५त्रिविक्रमो ४६जह्नु४७चतुर्भुजौ ४८पुनर्वसुः ४९शतावर्त५०गदाग्रजौ ५१स्वभू: ॥२१६॥
५२मुञ्जकेशि५३वनमालि५४पुण्डरीकाक्ष५५बभ्रु५६शशबिन्दु५७वेधसः ।
५८पृश्निशृङ्ग५९धरणीधरा६०त्मभू६१पाण्डवायन६२सुवर्णबिन्दवः ॥२१७॥
६३श्रीवत्सो ६४देवकीसूनु६५र्गोपीन्द्रो६६विष्टरश्रवाः ।
६७सोमसिन्धु६८र्जगन्नाथो ६९गोवर्धनधरोऽपि च ॥२१८॥
७०यदुनाथो ७१गदा७२शार्ङ्ग७३चक्र७४श्रीवत्स७५शङ्खभृत् ।
१ वेवेष्टि विश्वं व्याप्नोति विष्णुः । 'विष्लृ व्याप्तौ' (जु.उ.अ.), 'विषेः किच्च'(उणा.-३१९) इति नुः, 'रषाभ्याम्-'८।४।१॥ इति णत्वम् । विशति सर्वभूतानिति वा । 'विश प्रवेशने' (तु.प.अ.), पृषोदरादित्वात् षत्वम् । 'विशेर्धातो: प्रवेशनात्' इति भारतम् । २ जयनशीलो जिष्णुः । 'जि जये' (भ्वा.प.अ.), 'ग्लाजिस्थश्च गस्नुः'३।२।१३९॥, गित्त्वाद् न गुणः, 'आदेशप्रत्ययोः'८।३।५९॥ इति षत्वम्, 'रषाभ्याम्-'८।४।१॥ इति णत्वम् । ३ जनान् अर्दयति जनार्दनः । यद्वा जनाः समुद्रमध्यस्थदैत्यभेदास्तेषामर्दनः जनार्दनः । 'अर्द हिंसायाम्' (चु.उ.से.), नन्द्यादित्वाद् ल्युः । ४ हरति पापमिति हरिः । 'हृञ् हरणे' (भ्वा.उ.अ.), 'अच इ:'(उणा.-५७८) इति इः । हरति दैत्यप्राणानिति वा । ५ हृषीकाणामिन्द्रियाणामीशो वशिता हृषीकेशः । ६ न च्यवत अच्युतः। कदापि कुतोऽपि न च्युतः, निजपदात्, नास्ति च्युतं स्खलनमस्येति वा । ७ प्रशस्ताः केशाः सन्त्यस्य केशवः । 'केशाद् वोऽन्यतर स्याम्'५।२।१०९॥ इति वः । यद्वा –
"यस्मात् त्वयैष दुष्टात्मा हतः केशी जनार्दनः ।
तस्मात् केशवनामा त्वं लोके ख्यातो भविष्यसि ॥१॥"
इति हरिवंशोक्तेः, हन्त्यर्थाद् वधेः केशिनं हतवानिति । 'अन्येभ्योऽपि(अन्येष्वपि) दृश्यते'३।२।१०१॥ इति डः, पृषोदरादित्वात् केशिशब्दस्येकारस्य अकारे नलोपे च कृते केशव इति निष्पन्नम् । ८ दशार्हो वसुदेवः, तस्यापत्यं दाशार्हः । 'ऋष्यन्धकवृष्णि-'४।१।११४॥ इत्यादिना अण् । दशार्ह एव वा दाशार्हः । 'प्रज्ञादिभ्यश्च' ५।४।३८॥ इत्यण् । ९ पुरुषेभ्यं उत्तमः पुरुषोत्तमः । 'पञ्चमी'२।१।३७॥ इति योगविभागात् समासः । 'सह सुपा'२।१।४॥ इत्यस्य लक्षणत्वे अध्वगन्तव्यवत् समासो वा । तथा च गीता –
"यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तमः ।
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥२॥" । [श्रीमद्भगवद्गीता, अध्या.-१५,श्लो.-१८],
तथा च –
"उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतम्' [श्रीमद्भगवद्गीता, अध्या-१५, श्लो.-१७] इति ।
''षष्ठ्यां तु 'न निर्धारणे'२।२।१०॥" इति समासनिषेधः स्यात् । 'सन्महत्परमोत्तमोत्कृष्टाः'२।१।६१॥ इति कर्मधारये च उत्तमपुरुषः इति । यत्र समुदायो निर्धार्यमाणो निर्धारणो निर्धारहेतुश्चेति त्रयं सन्निहितम्, तत्रैव 'न निर्धारणे'२।२।१०॥ इति निषेधः, इह तु सर्वानेकदेशरूपतया ख्यातुं न शक्यत इति नास्ति निषेधः' इत्यनुन्यास: । "शेषषष्ठ्यात्र समासः" इति तु कैयट: । पुरुषेषु उत्तम इति वा । १०
अब्धौ शयनमस्य अब्धिशयनः । ११ इन्द्रमुपगतोऽनुजत्वाद् उपेन्द्रः । उपगत इन्द्रोऽस्येति वा । 'कुगतिप्रादयः'२।२।१८॥ इति समासः । "इन्द्रलोकादप्युपरि वर्तमानत्वादुपेन्द्रः" इति तु कलिङ्गः । यथा हरिवंशे –
"ममोपरि यथेन्द्रस्त्वं स्थापितो गोभिरीश्वरः ।
उपेन्द्र इति कृष्ण ! त्वां गास्यन्ति दिवि देवताः ॥३॥"
इति । १२ न जायत इति अजः । 'जनी प्रादुर्भावे' (दि.आ.से.), 'अन्येष्वपि दृश्यते'३।२।१०१॥ इति डः । १३ इन्द्रस्यानुजः इन्द्रानुजः । इन्द्रमातुरदितेर्गर्भे बलिनिग्रहार्थं वामनरूपेणोत्पन्नत्वात् । यन्माघः –
"दीप्तिनिर्जितविरोचनादयं द्यां विरोचनसुतदभीप्सतः ।
आत्मभूरवरजाखिलप्रजः स्वर्पतेरवरजत्वमाययौ ॥४॥"
[शिशुपालवधम्, सर्ग:-१४, श्लो.-७४] इति । यौगिकत्वाद् वासवावरजादयः । १४ "विष्वग्नानार्थप्रथने स्यात्" इति वोपालितः । न्यासेऽपि लोमादिसूत्रे विषुशब्दो नानार्थो निपातो मूर्धन्यान्तो दर्शितः, पामादित्वाद् नप्रत्यये विषुण इति णत्वदर्शनात् । विष्वगञ्चतीति ('ऋत्विक्'३।२।५९॥ इति) क्विनि, कुत्वे, ['उगितश्च' ४।१।६॥ इति ङीपि] विषुची नाना अञ्चती सेनाऽस्येति विष्वक्सेनः । "(विषु सर्वतोऽर्थेऽव्ययम्,) विषु सर्वतोऽञ्चती सेनाऽस्य" इति तु पञ्जिकादयः । " 'पूर्वपदात् संज्ञायामगः'८।४।३॥ इति न णत्वम्, विष्वक्शब्दस्य गकारान्तत्वात्, गकारान्तत्वं च णत्वे कर्तव्ये 'खरि च'८।४।५५॥ इति चर्वस्यासिद्धत्वात्" इति कलिङ्गः । विष्वगिति मूर्धन्यमध्य एव । "विष्वक् विश्वक् स्मृतं विज्ञैर्विषुवं विशुवं तथा" इति द्विरूपकोषात् तालव्या मूर्धन्याश्चैते शब्दाः । "शटी च परिवेषः । विश्वक्सेनोऽभ्रेषः प्रतिष्कसः कौशषविषदौ च" इत्यूष्मविवेकाच्च कदाचित् तालव्यमध्योऽपि । "विश्वक् सर्वव्यापिनी सेनास्य" इति सुभूतिः । १५ नरा आपो भूतानि वा, तान्ययते नरायणः । 'अय गतौ' (भ्वा. आ.से.), नन्द्यादित्वाद् ल्युः । यदुक्तम्-"आपो नरा इति प्रोक्ताः", [तथा "नरा जातानि भूतानि" इति] । १६ जले शेते जलशयः, पक्षे जलेशयोऽपि । १७ "नराणां समूहो नारम् । 'तस्य समूहः'४।२।३७॥ इत्यण् । तदेवायनं स्थानमस्येति नारायणः" इति निरुक्तिकारः । "क्वचिन्मन्वन्तरेऽस्य ऋषेरपत्यत्वमुगपत इति नरस्यापत्यमिति 'नडादिभ्यः फक्'४।१।१९॥ इति फकि नारायणः" इति तु वैयाकरणाः ।
"आपो नारा इति प्रोक्ता आपो वै नरसूनवः ।
ता यदस्यायनं पूर्वं तेन नारायणः स्मृतः ॥५॥"
[मनुस्मृतिः, अध्या.-१, श्लो.-१०] इति मन्वादयः । "नरादात्मनो जातान्याकाशादीनि नाराणि कार्याण्ययं कारणात्मा एति व्याप्नोति नारायणः ।
"नराज्जातानि तत्त्वानि नाराणीति ततो विदुः ।
तान्येवायतनं तस्य तेन नारायणः स्मृतः ॥६॥"
इति तु मन्त्रवर्णः । पृषोदरादित्वाद् नरायणोऽपि'' इति मिश्राः । "अथ नारायणो विष्णुरूर्ध्वकर्मा नरायणः" इति शब्दार्णवः । सर्वत्र 'पूर्वपदात् संज्ञायामगः'८।४।३॥ इति णत्वम् ।
१८ श्रियः लक्ष्म्याः पतिः श्रीपतिः, यौगिकत्वाद् लक्ष्मीनाथ इत्यादयः । १९ दैत्यानामरिः दैत्यारिः । २०-२१ पुराणयज्ञशब्दाभ्यां पुरुषः, तेन पुराणश्चासौ पुरुषश्च पुराणपुरुषः । यज्ञेषु पुरुषः यज्ञपुरुषः । २२ तार्क्ष्यो ध्वजोऽस्य तार्क्ष्यध्वजः, यौगिकत्वाद् गरुडाङ्क इत्यादयः । २३ अक्षमिन्द्रियमधः इन्द्रियं पादौ, ताभ्यां जातः अधोक्षजः । 'अन्येभ्योऽपि दृश्यते'(वा.-३।२।१०१॥) इति डः । तदुक्तं एकादशेन्द्रियगणने पद्मपुराणे-"पायूपस्थं करौ पादौ" इति । अधोक्षाणां जितेन्द्रियाणां जायते प्रत्यक्षीभवतीति वा । अक्षजं ज्ञानमधोऽस्येति वा । अक्षादिन्द्रियाज्जाता अक्षजाः, प्राणिनस्तेऽधः कक्षा यस्मादिति वा । यद्वा अधो न क्षीयते जात्विति पृषोदरादधोक्षजः । तथा च योगपर्वणि "अधो न क्षीयते जातु यस्मात् तस्मादधोक्षजः" इति । "अधोऽक्षिभ्यां दृग्भ्यां जात इत्यधोक्षजः" इति तु पञ्जिका ॥२१४॥ २४ गां भुवं विन्दति गोविन्दः । 'विद्लृ लाभे' (तु.उ.अ.), 'गवादिषु विन्दै: संज्ञायाम्'(वा.-३।१।१३८॥) इति शः, 'शे मुचादीनाम्'७।१।५९॥ इति मुम् । "महावृष्टौ गोवर्धनगिरिमुत्पाट्य गोकुलमनेन रक्षितमिति ब्राह्मणैर्गोष्ठाधिपत्यमस्मै दत्तम्'' इति तु सुभूतिः । गां भुवं विन्दति वा गोविन्दः । वराहरूपेणोद्धाराद्वा, गोपत्वाद्वा । २५ षट् बिन्दवो लाञ्छनभूता अस्य षड्विन्दुः। २६ मुञ्चति पापिनो मुकुन्दः । 'मुच्लृ मोक्षणे' (तु.उ.अ.), 'मुञ्चेर्डुकुन्दकुकुन्दौ' (हैमोणा.-२५०) इति डुकुन्दः प्रत्ययः । २७ कलियुगे कृष्णवर्णत्वात्, कर्षत्यरीनिति वा कृष्णः । 'कृष विलेखने' (भ्वा.प.अ.), कृषेर्नक् बाहुलकात् । तथा च संक्षिप्तभारतम् –
"सत्यत्रेताद्वापरयुगेषु सितरक्तपीतवर्णाभः ।
स एव कृष्ण:किल कलिकाले, स एष पुरुषोत्तमो जयति ॥७॥" [इति] ।
"कृषिर्भूवाचकः शब्दो नश्च निर्वृतिवाचकः ।
तयोरैक्यं परं ब्रह्म कृष्ण इत्यभिधीयते ॥८॥" इत्यौपनिषदाः ।
"कृषिरुत्कृष्टवचनः" इत्यपि पाठः। उत्कृष्टा निर्वृतिरस्मादिति व्युत्पत्तिः । २८ चाक्षुषमन्वन्तरे विकुण्ठाया अपत्यं वैकुण्ठः । शिवादित्वादण् । विपूर्वात् कुण्ठतेर्धातोः 'गुरोश्च-'३।३।१०३॥ इत्यप्रत्यये वा । विविधा कुण्ठा माया अस्यास्तीति वा । ज्योत्स्नादित्वादणि वैकुण्ठः । विकुण्ठाया अपत्यत्वोक्तिस्तु विष्णुपुराणे –
"चाक्षुषेऽवान्तरे देवो वैकुण्ठः पुरुषोत्तमः ।
विकुण्ठाया मथो जज्ञे वैकुण्ठैर्दैवतैः सह ॥९॥"
इति । विकुण्ठेरादिवाराह्या अपत्यमिति वा । विकुण्ठितसिंहादिवक्त्रो वा, संहितासु तथा दर्शनात् । २९ पद्मे शेते पद्मेशयः । 'शयवासवासिष्वकालात्'६।३।१८॥ इति सप्तम्या अलुक् । ३० पद्मं नाभावस्य पद्मनाभः । 'नाभेः संज्ञायाम्'(हैमसू.-७।३।१३४॥) इत्यप्, 'यस्येति च'६।४।१४८॥ इतीकार लोपः । पद्मनाभ इत्यत्र "अच् प्रत्ययपूर्वात्(प्रत्यन्वपूर्वात्-)'५।४।७५॥ इत्यत्र 'अच्' इति योगविभागादच्, योगविभागस्य हि पूर्वदृष्टमात्रसाधकत्वम्, न तु नाभ्यन्तस्य सर्वत्रैवान्समासान्त इति नियमः, तेन "प्रजा इवाङ्गादरविन्दनाभेः" [शिशुपालवधम् ३।६५॥] इति माघः, "नाधारेण विना सृष्टिजन्तूनां तैरपीष्यते" इत्यादि प्रयोगाः, उक्तं च -योगविभागादिष्टसिद्धिः" इति मिश्राः । ३१ वृषो धर्मः कपिर्वराहस्ताद्रूप्याद् वृषाकपिः । यत्पुराणम् –
"कपिर्वराह श्रेष्ठश्च धर्मश्च वृष उच्यते ।
तस्माद् वृषाकपिं प्राह काश्यपो मां प्रजापतिः॥१०॥" इति ।
वृषं दानवमाकम्पितवानिति वा, पृषोदरादित्वात् । ३२ यदोर्ज्येष्ठः पुत्रो मधुस्तद्वंश्यत्वात्, 'तस्यापत्यम्' ४।१।९२॥ इत्यणिति माधवः । अन्येऽपि तद्वंश्या माधवाः । तथा च "प्रहित[:] प्रधा(ध)नाय माधवान्" [शिशुपालवधम् १६।५२] इति माघः । माया लक्ष्म्या धव इति वा । ३३ वसुदेवस्यापत्यं वासुदेवः । 'ऋष्यन्धकवृष्णिकुरुभ्यश्च'४।१।११४॥ इत्यण् । तथा च विष्णुपुराणम् –
"सर्वत्रासौ समस्तं च वसत्यत्रेति वै यतः ।
ततो वै वासुदेवोऽसौ विद्वद्भिः परिकीर्तितः ॥११॥"
इति । वासुरित्यपि । तथा च त्रिकाण्डशेष: - "वासुर्नारायणपुनर्वसुविश्वरूपाः" [त्रिकाण्डशेषः १।१।२९॥] । ३४ विश्वं बिभर्ति विश्वम्भरः । 'डुभृञ् धारणपोषणयोः (जु.उ.अ.), 'संज्ञायां भृ-तॄ-वृ-जि-धारि-सहि-तपि-दमः'३।२।४६॥ इति खच्, 'अरुर्द्विषदजन्तस्य'६।३।६७॥ इति मुम् । ३५ श्रियं धरति श्रीधरः । 'धृञ् धारणे' (भ्वा.उ.अ.), पचाद्यच् । ३६ विश्वं रूपमस्य विश्वरूपः॥२१५॥ ३७ शैशवे चापल्यनिषेधाय यशोदया दाम्ना उदरे बद्धत्वाद् दाम उदरेऽस्य दामोदरः । गमकत्वाद् वैयधिकरण्येऽपि समासः । ३८ शूरो नाम यादवो वसुदेवपिता, तद्वंशजत्वात् शौरिः । बाह्वादेराकृतिगणत्वाद् इञ् । "शर्वः शिवः केशव एव शौरिः" इति शकारभेदात् तालव्यादिः । "षूङ् प्राणिप्रसवे' (दि.आ.वे.), सुसूधागृवि(गृधि)भ्यः क्रन्'(उणा.-१८२) इति क्रन्, सूरो यादवे दन्त्यवान्'' इति तु मधुमाधवी । ३९ सना भवः सनातनः । 'सायंचिरंप्राह्नेप्रगेऽव्ययेभ्यः'४।३।२३॥ इति ट्युः, तुडागमश्च । ४० विध्यति दैत्यान् विधुः । 'व्यध ताडने' (दि.प.अ.), 'पॄभिदिव्यधिगृधिधृषिभ्यः कु:'(उणा.-२३) इति कुः । ४१ पीते अम्बरेऽस्य पीताम्बरः । ४२ मार्जयति पापं मार्जः । 'मृजूष् शुध्दौ' (अ.प.वे.), णिजन्तात् पचाद्यच् । मां लक्ष्मीमर्जयति वा मार्जः । 'अर्ज सर्ज अर्जने' (भ्वा.प.से.), पचाद्यच् । ४३ जयति दैत्यानिति जिनः । 'जि जये' (भ्वा.प.अ.), 'इण्सिजि(ञ्जि)-[दीङुष्यवि]भ्यो नक्'(उणा.-२८२) इति नक् । ४४ कुं भुवं मोदयति कुमोदकः । 'मुद हर्षे' (भ्वा.आ.से.), 'ण्वुल्तृचौ'३।१।१३३॥ इति ण्वुल् । ४५ त्रयो विशिष्टाः क्रमाः सृष्टिस्थितिप्रलयलक्षणाः शक्तयोऽस्य त्रिविक्रमः । बलिबन्धनार्थं भूव्योमस्वर्गेषु त्रयो विक्रमाः पादन्यासा अस्येति वा त्रिविक्रमः । ४६ जहाति पादाङ्गुष्ठाद् गङ्गामिति जह्नुः । 'ओहाक् त्यागे' (जु.प.अ.), 'जहातेः सन्वदालोपश्च'(उणा.-१३८) इति नुः। ४७ चत्वारो भुजा अस्य चतुर्भुजः । ४८ पुनर्वस्वोर्जातः पुनर्वसुः । 'लुबविशेषे'४।२।४॥ इत्यणो लुप् । ४९ शतमावर्त्ता अस्य शतावर्त्तः । ५० गदस्याग्रजोः गदाग्रजः । ५१ स्वतो भवति स्वभूः, क्विप् ॥२१६॥ ५२ मुञ्जवर्णकेशयुक्तत्वाद् मुञ्जकेशी । 'अत इनिठनौ'५।२।११५॥ इतीनिः । यत्पुराणम् –
"स शूलतेजसाऽऽविष्टो नारायणविभुस्तदा ।
बभूव मुञ्जवर्णश्च ततोऽहं मुञ्जकेशवान् ॥१२॥"
इति । ५३ वनं वनपुष्पम्, तन्मालाऽस्यास्ति वनमाली । 'व्रीह्यादिभ्यश्च'५।२।११६॥ इति इनिः । "सपल्लवपुष्पग्रथिता स्रक् वनमाला'' इत्येके । "आपादपद्मं या माला वनमालेत सा मता" इति तु कलिङ्गः । ५४ अवयवलक्षणया आयतत्वात् पुण्डरीके पुण्डरीकपत्रे इवाक्षिणी यस्य स पुण्डरीकाक्षः । पुण्डरीकमक्षि अस्येति वा । 'बहुव्रीहौ सक्थ्यक्ष्णोः [स्वाङ्गात्] षच्'५।४।११३॥, 'यस्येति च'६।४।१४८॥ । अनेन किल पूर्वं रुद्राय सहस्रपुण्डरीको बलिरुपनीतः, तत्र तेन एकं भक्तिं ज्ञातुमपहॄतम्, ततोऽनेन स्वचक्षुरेकमुत्पाट्य पुण्डरीकस्थाने [दानं] कृतं, तेन च महिम्नः स्तोत्रे "हरिस्ते साहस्रम्"
[शिवमहिम्नस्तोत्रम्-१९] इति पद्ये व्यक्तम् । यद्वा अक्षेषु इन्द्रियेषु दृश्यते, अधिष्ठातृरूपेणानुभूयते इत्यक्षः परमात्मा, 'शेषे'४।२।१२।। इत्यण्, सर्वेन्द्रियाणामधिष्ठातेत्यर्थः, हृत्पुण्डरीकमध्ये परमात्मस्वरूपेण स्थितत्वात्, सर्वेन्द्रियाणामपि इन्द्रिय इति यावत् । तथा च श्रुतिः-'प्राणस्य प्राण उत चक्षुषश्चक्षुः श्रोत्रस्य च श्रोत्रं मनसोऽयं मनो विदुः'' इति । आलौहित्यात् पुण्डरीकं कर्पासमिवाक्षि अस्येति वा । "कर्पासशब्दस्तु वानरकटिवचन:'' इति तु विष्णु- पुराणटीकाकाराः । ५५ बिभर्त्ति विश्वम्, जगद्भारं वा बभ्रुः । 'डुभृञ् धारणपोषणयो:' (जु.उ.अ.), 'कुर्भ्रश्च'(उणा.-२२) इत्युणादिसूत्रेण कुप्रत्ययः, धातोर्द्वित्वं च । ५६ शशाकारा बिन्दवो लाञ्छनमस्य शशबिन्दुः । ५७ विधति सृजति वेधाः । 'विध विधाने' (तु.प.अ.), '-असुन्'(उणा.-६२८) इत्यसुन्, 'अत्वसन्तस्य चाधातोः '६।४।१४॥ इति दीर्घः । वेधसौ, वेधस: इत्यादि । ५८ पृश्निः शृङ्गमस्य पृश्रिशृङ्गः। ५९ धरणी धरति धरणीधरः । 'धृञ् धारणे' (भ्वा.उ.अ.), पचाद्यच्, यौगिकत्वाद् महीधरादयः। ६० आत्मनो भवति आत्मभूः । 'भुवः संज्ञान्तरयो:'३।२।१७९।। इति क्विप् । ६१ पाण्डवान् अयते पाण्डवायन: । 'अय गतौ' (भ्वा.आ.से.), नन्द्यादित्वाद् ल्युः । ६२ सुवर्णवर्णा बिन्दवो लाञ्छनान्यस्य सुवर्णबिन्दुः ॥२१७॥ ६३ श्रीवत्सो हृदि अस्य श्रीवत्सः । अर्शआदित्वादच् । महापुरुषलक्षणं श्वेतरोमावर्तविशेष: श्रीवत्सः । वदति महत्त्वमिति वत्सः । 'वद व्यक्तायां वाचि' (भ्वा.प.से.), 'वृ(वॄ)तॄवदिहनिकमिकुषिभ्यः सः'(उणा.-३४२) इति सप्रत्ययः । "श्रीयुक्तो वत्सः श्रीवत्सः । क्रुद्धस्य दुर्वाससः पदाघातरूपो रेखाविशेष: श्रीवत्सः" इति रूपपञ्जिका । "शौरि श्रीवत्सदैत्यारिविष्वक्सेनजनार्दनाः" इति शब्दार्णवः । श्रीवत्सलाञ्छनोऽपि । ६४ देवस्यापत्यं देवकिः । 'अत इञ्' ४।१।९५।।, संज्ञापूर्वकत्वाद् वृद्ध्यभावः, ततः स्त्रियाम् 'इतो मनुष्यजातेः'४।१।६५॥ इति ङीष् । 'देवकी' इति वर्णदेशना । ''देवकीनाचष्टे इति णिजन्ताद् 'अच इ:'(उणा.-५७८) इति इः, ततो ङीषि देवकीति समाधेयम्'' इति श्रीधरः । 'दैवकी देवकी' इति द्विरूपकोषश्च । देवक्याः सूनुः देवकीसूनुः । ६५ गोपीनामिन्द्रो गोपीन्द्रः । ६६ "पलाशी विष्टर: स्थिर:"[त्रिकाण्डशेष:२।४।२॥] इति त्रिकाण्डशेषः । तरुः अश्वत्थोऽभिमतः । तथा च "अश्वस्थः सर्ववृक्षाणाम्''[ श्रीमद्भगवद्गीता १०।२६॥] इति गीता । तत्र श्रूयत इति । 'सर्वधातुभ्योऽसुन्'(उणा.-६२८), विष्टरश्रवाः । विष्टर: कुशमुष्टिरिव श्रवसी कर्णावस्येति वा । विष्टरश्रवसौ, विष्टरश्रवस: इत्यादि । ६७ सोमोऽभिगम्यः सिन्धुरस्य सोमसिन्धुः । ६८ जगतां नाथो जगन्नाथः । ६९ गोवर्धनं धरति गोवर्धनधरः, पचाद्यच् ॥२१८॥ ७० यदूनां नाथो यदुनाथः । ७१-७५ गदाशार्ङ्गचक्रश्रीवत्सशङ्खेभ्यः भृत्, तेन गदाभृत् । शृङ्गस्य विकारः शार्ङ्गम्, 'अनुदात्तादेश्च'४।३।१४०॥ इत्यञ्, शार्ङ्गं धनुर्बिभर्ति शार्ङ्गभृत्, चक्रभृत्, श्रीवत्सभृत्, शङ्खभृत्, यौगिकत्वाद् गदाधरः, शार्ङ्गी, चक्रं पाणावस्य चक्रपाणिः । 'प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ'(वा.-२।२।३६ ।।) इति परनिपातः । श्रीवत्साङ्कः, शङ्खपाणिः इत्यादयः । पञ्चसप्ततिः कृष्णस्य । शेषश्चात्र –
"नारायणे तीर्थपादः पुण्यश्लोको बलिन्दमः ।
उरुक्रमोरुगावौ च तमोघ्नः श्रवणोऽपि च ॥१३॥
उदारधिर्लतापर्णः सुभद्र: पांशुजालिकः ।
चतुर्व्यूहो नवव्यूहो नवशक्तिः षडङ्गजित् ॥१४॥
द्वादशमूल: शतको दशावतार एकदृक् ।
हिरण्यकेशः सोमोऽहिस्त्रिधामा त्रिककुत् त्रिपात् ॥१५॥
मानञ्जरः पराविद्धः पृथिगर्भोऽपराजितः ।
हिरण्यनाभः श्रीगर्भो वृषोत्साहः सहस्रजित् ॥१६॥
ऊर्ध्वकर्मा यज्ञधरो धर्मनेमिरसंयुतः ।
पुरुषो योगनिद्रालुः खण्डास्य: शलिकाऽजितौ ॥१७॥
कालकण्ठो वरारोहः श्रीकरो वायुवाहनः ।
वर्धमानश्च चतुर्दंष्ट्रो नृसिंहवपुरव्ययः ॥१८॥
कपिलो रुद्रकपिलः सुषेणः सुमतिञ्जयः ।
क्रतुधामा वासुभद्रो बहुरूपो महाक्रम ॥१९॥
विधाता धार एकाङ्गो वृषाक्षः सुवृषोऽक्षजः ।
रन्तिदेव: सिन्धुवृषो जितमन्युर्वृकोदरः ॥२०॥
बहुशृङ्गो रत्नबाहुः पुष्पहासो महातपाः ।
लोकनाभः सूक्ष्मनाभो धर्मनाभः पराक्रमः ॥२१॥
पद्महासो महाहंसः पद्मगर्भः सुरोत्तमः ।
शतवीरो महामायो ब्रह्मनाभः सरीसृपः ॥२२॥
वृन्दाङ्कोऽधोमुखो धन्वी सुधर्मा विश्वभुक् स्थिरः ।
शतानन्दः शरुश्चापि यवनारिः प्रमर्दनः ॥२३॥
ऋक्षनेमिर्लोहिताक्षः एकपाद् द्विपदः कपिः ।
एकशृङ्गो यमकील:(-ल) आसन्दः शिवकीर्तनः ॥२४॥
शद्रुर्वंशः श्रीवराह : सदायोगी सुयामुनः ॥"
[शेषनाममाला २।६४-७६ ।।] ॥
१मधु२धेनुक३चाणूर४पूतना५यमलार्जुनाः ॥२१९॥
६कालनेमि७हयग्रीव८शकटा९रिष्ट१०कैटभाः ।
११कंस१२केशि१३मुरा: १४साल्व१५मैन्द१६द्विविद१७राहवः ॥२२०॥
१८हिरण्यकशिपु१९र्बाणः २०कालियो २१नरको २२बलिः ।
२३शिशुपालश्चास्य वध्याः
१ अस्य विष्णोरेते त्रयोविंशतिर्वध्याः, मन्यते इत्यर्थं मधुः । 'मनु अवबोधने' (त.आ.से.), 'फलि-पाटि-मनि-नमि-जनांगुक्पाटिनाकिधताश्च उर्निच्च'(उणा.-१८) इति सूत्रेण मन्यतेर्धोन्तादेशः, उप्रत्ययश्च । २ धेनुं कायति धेनुकः । ३ चणति शब्दायते प्रतिमल्लानिति चाणूरः । 'चण शब्दे' (भ्वा.प.से.) । ४ पूनाति पूतना । 'पूञ् पवने' (क्र्या.उ.से.), 'पृपूभ्यां कित्'(हैमोणा.-२९३) इति तनः, टाप् । ५ यमलरूपावर्जुनवृक्षौ यमलार्जुनौ ॥२१९॥ ६ कालस्य नेमिश्चक्रधारेव कालनेमिः । ७ हयस्य ग्रीवेव ग्रीवाऽस्य हयग्रीवः । ८ शकटाकारत्वात् शकटः । ९ नास्ति रिष्टं क्षेममस्मादिति अरिष्टः । १० कैतवेन भाति कैटभः, पृषोदरादिः । ११ कामयते जयं कंसः । 'कमु कान्तौ' (भ्वा.आ.से.), वृ(वॄ)तॄवदिहनिकमिकषियुमुचिभ्यः सः'(उणा.- ३४२) इति सः । १२ केशाः सन्त्यस्य केशी । 'अत इनिठनौ'५।२।११५॥ इतीनिः । १३ मुरति वेष्टयति मुरः । 'मुर [सं]-वेष्टने' (तु.प.से.), तुदादिः, 'इगुपधज्ञा-'३।१।१३५॥ इति कः । १४ सल्वा अभिजनोऽस्य साल्वः । सलति गच्छति वा । 'सल गतौ' (भ्वा.प.से.), 'सलेर्णिद्वा'(हैमोणा.-५१०) इति वः । १५ मया लक्ष्म्या कृत्वा इन्दति परमैश्वर्यमनुभवति मेन्द: । 'प्रज्ञादिभ्यश्च'५।४।३८॥ इत्यणि मैन्दः । १६ ['विद ज्ञाने' (अ.प.से.)], 'इगुपध-'३।१।१३५॥ इति कः । द्वयोस्त्रेताद्वापरयोर्विदः द्विविदः । १७ रहयति गृहीत्वा सूर्याचन्द्रमसौ इति राहुः । 'रहि(रह) त्यागे' (चु.उ.से.), दृ(दॄ)सनिजनिचरिचटिरहिभ्यो उण्'(उणा.-३) इति उण् ॥२२०॥ १८ हिरण्येन युक्तः कसि(शि)पुः हिरण्यकसि(शि)पुः । १९ बाणयति युद्धाय रिपूनिति बाणः । 'बण शब्दे' (भ्वा.प.से.), अस्माण्णिजन्तात् पचाद्यच् । २० के पानीये आलयोऽस्य कालियः, पृषोदरादिः । २१ नृणाति नरकः । 'दृन्(कॄ)नॄ-'(हैमोणा.-२७) इत्यकः । २२ बलति
१. 'खजस्य' इति२, 'षडास्यः' इति३ ।। २-१. 'कालकुण्ठो' इति, २-२. 'भद्रकपिलः' इति, २-३. 'सुमितिञ्जयः' इति, २-४. 'सुधन्वा' इति च शेषनाममालास्वोपज्ञटीकयोः ॥ ३. 'सुवृषोकुजः' इति२ ॥ ४. 'रतिदिवः' इतिर, 'रतिदेवः' इति४ ॥ ५. 'सिन्धुः वृषो' इति२ ।। ६. 'शरीसृपः' इति१.२.४ ॥ ७. 'त्सरु-' इति१॥ ८. '-निमिलो-' इति३, 'यज्ञनेमिलो' इति शेषनाममालास्वोपज्ञटीकयोः ॥ ९. 'सद्रु-' इति३॥ १०. 'सया-' इति३॥ ११. 'साल्वः' इति१, 'शाल्वः' इति३॥ १२. 'उच्च' इति३, 'उनिच्च' इति१ ॥ १३. 'फलिनमिमनिजनां गुक्पाटिनाकिधतश्च' इत्युणादिगणसूत्रस्वरूपम् ॥ १४. 'कामयति' इति३ ।। १५. क्षीरतरङ्गिण्यादौ चणधातुः शब्देऽर्थे न दृश्यते, तेनात्र हैमसम्मतः शब्दार्थक: अणरणदण्डात्मक: चणधातुर्बोध्यः, तत्राह- "महिकणि-'(हैमोणा ४२८)इति णिति ऊरे चाणूरो विष्णुहतो मल्लः" इति स्वोपज्ञं धातुपारायणम्, भ्वादिः, धातुसं-२७२, पृ.३३ ॥ १६. '-कषिभ्यः सः' इत्युणादिगणे ॥ १७. 'सला' इति३.४, 'सलवा' इति२ ॥ १८. 'मेदः' इति१, 'मैन्दः' इति२.४॥ १९. 'मेन्दः' इति३ ॥ २०. अत्र 'देवताद्वन्द्वे च' ६।३।३६॥ इत्यानङ् ॥ २१. ' -चटिभ्यो जुण्' इत्युणादिगणे॥ २२. 'योद्धं' इति२.३॥ १प्रतावपि केनचित् 'योद्धं रि-' इत्यस्य निष्काषणं कृत्वा बहिर्भागे 'युद्धाय रि-' इति कृतः ॥ २३. 'कालीयः' इति३ ॥
बलिः । 'इन् सर्वधातुभ्यः'(उणा.-५५७) । २३ शिशून् पालयति शिशुपालः, पचाद्यच् । नारायणस्य मध्वादीनां त्रयोविंशतिरिपूणां नामानि । यौगिकत्वाद् मधुमथनः, धेनुकध्वंसी, चाणूरसूदनः, पूतनादूषणः, यमलार्जुनभञ्जनः, कालनेमिहरः, हयग्रीवरिपुः, शकटारिः, अरिष्टहा, कैटभारिः, कंसजित्, केशिहा, मुरारिः, साल्वारिः, मैन्दमर्दनः, द्विविदारिः, राहुमूर्धहरः, हिरण्यकशिपुदारणः, बाणजित्, कालियदमनः, नरकारिः, बलिबन्धनः, शिशुपालनिषूदनः इति विष्णुनामानि भवन्ति ॥
१वैनतेयस्तु वाहनम् ॥२२१॥
१ अस्य विष्णोर्वाहनं विनताया अपत्यं वैनतेयः । 'स्त्रीभ्यो ढक्'४।१।१२०॥ इति ढक् , 'आयनेयी-' ७।१।२॥ इत्यादिना ढस्य एयादेशः ॥२२१॥
शङ्खोऽस्य १पाञ्चजन्यः
१ अस्य विष्णोः शङ्खः पाञ्चजन्यः । समुद्रे तिमिरूपधारी पञ्चजननामा असुर आसीत्, तदस्थिभवत्वात् । 'बहिर्देवपञ्चजनेभ्यः-'(वा.-४।३।१५८॥) इत्युपसंख्यानाद् ञ्यः । यद्वा पञ्चजने पाताले भव इति, 'बहिर्देव-'(वा.-४।३।१५८॥) इति सूत्रेणैव ञ्यः ॥
अङ्कः १श्रीवत्सः
१ अस्य विष्णोरङ्कश्चिह्नं श्रीवत्सः, महापुरुषलक्षणं श्वेतरोमावर्तविशेषः । वदति महत्त्वमिति वा । वदेः 'वृ(वॄ)तॄवदिहनि-'(उणा.-३४२) इत्यादिना सः । "श्रिया युक्तो वत्सः श्रीवत्सः । रोमावर्त्तविशेषः श्रीवत्सः" [अभि. स्वोपज्ञटीका - २।२२२॥] इत्याचार्याः॥
असिस्तु १नन्दकः ।
१ विष्णोरसिः खड्गः नन्दयति नन्दकः । 'टुणदि समृद्धौ' (भ्वा.प.से.), 'ण्वुल्तृचौ'३।१।१३३॥ इति ण्वुल् ॥
गदा १कौमोदकी
विष्णोर्गदा देवास्त्रत्वाद् गदति गदा । 'गद व्यक्तायां वाचि' (भ्वा.प.से.), पचाद्यच्, टाप् । कौ पृथिव्यां मोदते सदा जययोगात् कौमोदकी । 'मुद हर्षे' (भ्वा.आ.से.), 'बहुलमन्यत्रापि' इति वुञ् । "विष्णुः कुमोदकः शौरिः" इति कोषान्तरात् कुमोदको विष्णुः, तस्येयमित्यर्थेऽणि कौमोदकी । "संहितासु तु कौपोदकीति पाठः, कूपोदकाज्जातेत्याम्नायात्" [अम. क्षीर. १।१।२८॥] इति स्वामी ॥
चापं १शार्ङ्गं
१ विष्णोश्चापं धनुः शृणाति शीर्यते वा शृङ्गम् । 'शॄ हिंसायाम्' (क्र्या.प.से.), 'शृणातेर्ह्रस्वश्च'(उणा.-१२३) इति गन्प्रत्ययः, स च कित्, मु(नु)डागमश्च, धातोर्ह्रस्वत्वम् । शृङ्गस्य विकारः शार्ङ्गम् । 'तस्य विकारः'४।३।१३४॥ इत्यण्, 'तद्धितेष्वचामादेः७।२।११७॥ इत्यादिवृद्धिः ॥
चक्रं १सुदर्शनः ॥२२२॥
१ विष्णोः चक्रं सदा रिपुच्छेदं करोत्यनेन चक्रम्, करोते: कप्रत्यये, 'कृञादीनां के द्वे स्त:'(वा.-६।१।१२॥) इति द्विर्वचनम् । भक्तैः सुखेन दृश्यत इति सुदर्शनः । 'दृशिर् प्रेक्षणे' (भ्वा.प.अ.) 'भाषायां शासियुधिदृशिधृषिमृषिभ्यो युज् वक्तव्यः'(वा.-३।३।१३०॥) इति खलपवादो युच्, 'युवोरनाकौ'७।१।१॥, 'पुगन्तलघूपधस्य च'७।३।८६॥ इति गुणः । अभिरामत्वात् शोभनं दर्शनमस्य वा सुदर्शनः, पुंसि । "सुदर्शनोऽस्त्रियां चक्रे'' इति नामनिधानात् पुंनपुंसकलिङ्गोऽपि । वाचस्पतिरपि "चक्रं सुदर्शनोऽस्त्रियाम्'' इत्याह ॥२२२॥
मणिः १स्यमन्तको हस्ते
१ विष्णोर्हस्तस्थो मणिः सीमन्तयति दीप्तिभिर्द्यामिति स्यमन्तकः । पृषोदरादिः ॥
भुजमध्ये तु १कौस्तुभः ।
१ भुजमध्यं वक्षस्तत्र, कुं भुवं स्तोभते व्याप्नोति
१. इतोऽग्रे ४प्रतौ 'चाणूरध्वंसी' इति दृश्यते ॥ २. 'मेन्दवर्दनः' इति३.४॥ ३. इतोऽग्रे स्वोपज्ञवृत्तौ 'वक्षोऽनेन' इति दृश्यते, द्र. २।२२२ ।।, पृ.५५॥ ४. २प्रतौ नास्ति ॥ ५. स्वोपज्ञटीकायां न दृश्यते ॥ ६. 'नन्दनः' इति३॥ ७.'दैवा-' इति१॥ ८. ३प्रतौ नास्ति ॥ ९. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, लो-२३, पृ.४२ ॥, रामाश्रमी १।१।२८॥, पृ.१६॥ १०. 'कुमु-' १.४॥ ११. इतोऽग्रे क्षीरस्वामिटीकायां 'मेण्ठादौ' इति दृश्यते ॥ १२. क्षीरस्वामि टीकायां नास्ति ॥ १३. 'भक्तेः' इति१.३॥ १४. '-वादौ' इति३॥ १५. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, यो-२३, पृ.४२ ।।, रामाश्रमी १।१।२८ ।, पृ.१६ ॥ १६. द्र. स्वोपज्ञटीका २२२२॥, पृ.५५ ॥ १७. 'दीप्तिभिद्या-' इति १, 'दीप्तिर्भिद्या-' इति३॥
कुस्तुभोऽब्धिः, तस्यायं कौस्तुभः। 'स्तुभ स्तम्भे'(भ्वा.आ.से.), 'इगुपधज्ञा-'३।१।१३५॥ इति कः । यद्वा कौ स्तोभते कुस्तुभो विष्णुः, तस्यायमित्यर्थे, 'तस्येदम्' ४।३।१२० ॥ इत्यण् वा । "पुंक्लीबोऽयम्" इति गौडः। एकं विष्णुवक्षःस्थमणेः ॥
वसुदेवो भूकश्यपो दुन्दुरानकंदुन्दुभिः ॥२२३॥
१ वसुभी रत्नैर्दीव्यति वसुदेवः । 'दीवु क्रीडादौ' (दि.प.से.), पचाद्यच् । वसूनि दीव्यतीति कर्मण्यण् वा। २ भुवि कश्यप इव भूकश्यपः, तालव्यान्तस्थाद्यमध्यः । ३ द्विषो दमयति दुन्दुः । 'दमु उपशमे'(दि.प.से.), पृषोदरादित्वात् साधुः । ४
१० कृष्णे जाते देवैरानकाः पटहा दुन्दुभयश्चास्य वेश्मनि वादिता इति आनकदुन्दुभिः, पृषोदरादित्वाद् रूपसिद्धिः । “आनकदुन्दुभो वसुदेवपिता, तस्यापत्यमित्यर्थे अत इञ्'४।१।९५॥"[अम.क्षीर, १।१।२२॥] इति स्वामी । चत्वारि विष्णुपितुः ॥२२३॥
रामो हली मुसलिसात्वतकामपाला:
सङ्घर्षणः प्रियमधुबलरौहिणेयौ ।
रुक्मिप्रलम्बयमुनाभिदनन्तताल
लक्ष्मैककुंण्डल सितासितरेवतीशाः॥२२४॥
बलदेवो बलभद्रो नीलँवस्त्रोऽच्युताग्रजः।
१ रमयति मोदयति प्रजाः रूपमस्येति वा रामः। 'रमु
२० क्रीडायाम्'(भ्वा.आ.अ.,),णिजन्तः, 'ज्वलितिकसन्तेभ्यो णः' ३।१।१४०॥ इति णः । २ हलं प्रहरणमस्य हली । 'अत इनिठनौ'५।२।११५॥ इतीनिः । यौगिकत्वाद् हलायुधः सीरपाणिः इत्यादयः। ३ 'मुस खण्डने'(दि.प.से.), वृषादिभ्यः कलच्' (उणा-१०६)इति कलच् मुसलम्, दन्त्यमध्यम् । तथा च 'सर्वस्य द्वे'८।११॥ इत्यत्र न्यास:-""विसंविसं मुसलंमुसलं
स्यात्''[ ]इति षत्वम् । सुरमुर्सेलसृपा इति सकारभेदश्च । तदस्त्य स्य मुसली । “ 'मुष स्तेये'(त्र्या.प.से.)इत्यतो मूर्धन्यान्तोऽपि" []इति वर्णदेशना, तद्योगाद् मुषलीत्यपि। ४ सत्वतोऽपत्यम्, तत्र भवो वा सात्वतः। 'उत्सादिभ्योऽञ्'४।१।८६॥ इति अञ् । ५ काममिच्छां भ्रातृजत्वात्, कामं स्मरं वा पालयति वा कामपालः।
३० ‘पाल रक्षणे (चु.प.से.), 'पृ पालनपूरणयोः' (जु.प.से.)अस्माद्वा 'कर्मण्यण'३।२।१ ॥, रलयोरैक्यम् । ६ सङ्कर्षति संहारमूर्त्तित्वात्, - हलेन वेति सङ्कर्षणः । गर्भस्य सम्यक् कर्षणाद्वा । तथा च हरिवंशे-"गर्भ[सङ्कर्षणात् सोऽथ लोके] सङ्कर्षणः स्मृतः" ["]इति । 'कृष विलेखने'(भ्वा.प.अ.), नन्द्यादित्वाल्ल्युः । द्वितीयपक्षे 'अर्शआदिभ्योऽच्'५।२।१२७॥ इत्यच् । सङ्कर्षति यमुनामिति वा। ७ प्रियं मधु मद्यमस्य प्रियमधुः। ८ बलभद्रैकदेशो बलः। बलातिशययोगाद्वा, अर्शआदित्वादच् । ९ रोहिण्या अपत्यं रौहिणेयः। 'शुभ्रादिभ्यश्च'४।१।१२३ ॥ इति ढक् । १०-१२ रुक्मिप्रलम्बयमुनाभ्योऽग्रे भिच्छब्दो योज्यः, तेन रुक्मिणं भिनत्ति
४० रुक्मिभित्, प्रलम्बभित्, यमुनाभित्, यौगिकत्वाद् रुक्मिदारुणः,। प्रलम्बं हतवानिति प्रलम्बघ्नः। देवत्वाद् ‘अमनुष्यकर्तृके च'३।२५३॥ इति टक्। " मूलविभुजादित्वात् को वा"["] इति कौमुदी । १३ अनन्तः शेषः, तन्मूर्त्तित्वाद् अनन्तः । १४ तालो वृक्षविशेषः, लक्ष्म चिह्नमस्य ताललक्ष्मा, नकारान्तः । १५ एकं कुण्डलमस्य एककुण्डलः, अर्शआदित्वादच् । १६ सितः शेषमूर्त्तित्वाद्, असितो निलाङ्गत्वात् सितासितः । १७ रेवत्या ईशः रेवतीशः ॥२२४॥१८ बलश्चासौ देवश्च बलदेवः। बलेन दीव्यतीति पचाद्यच् वा । १९ बलं पराक्रमः, भद्रं श्रेष्ठमस्य बलभद्रः । बलेन भद्रो वा । २० नीलं वस्त्रमस्य
५०
१. 'स्तम्भ' इति१, 'स्तभ-' इति४, 'सुभ स्तम्भने' इति३, क्षीरतरङ्गिण्यादौ 'ष्टुभु-' इति दृश्यते ॥ २. मुद्रितमूले “दिन्दु-' इति दृश्यते, स्वोपज्ञटीकापि तमाश्रित्यैव ॥ ३. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, शो-१७, पृ.३६॥, क्षीरस्वामिटीकायां 'अनकदुन्दुभो वसुदेवस्य पितेत्येके' इत्येव दृश्यते, १।१।२२।।, पृ.९॥ ४. 'मुष' इति१.४॥ ५. 'वृषादिभ्यश्चित्' इत्युणादिगणे ॥ ६. 'मुशलम्' इति३॥ ७. 'विसं मुसलं सुषलं' इति२, 'विसं विशं मुसलं मुखलं' इति३॥ ८. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, श्रो-१९, पृ.३७॥, तत्र "-इत्यत्र न्यासः-"तथा च विसं विषं मुसलं मुषलमिति षत्वं" स्यादिति" इति दृश्यते ॥ ९. न्यासे "इह तर्हि विसंविसं मुसलम्मुसलमित्यत्र 'आदेशप्रत्ययोः' इति षत्वं प्राप्नोति ? अयमप्यदोषः, तदवयवः॥" इति दृश्यते, काशिकावृत्तिः, भा-६, ८११॥, पृ.२१५॥ १०. '-मुशल-' इति३॥ ११. 'अन्' इति३.४ ॥ १२. द्र. टीकासर्वस्वम्, भा-१, ११।२४॥, पृ.२०॥, पदचन्द्रिका, भा-१, स्वर्गवर्गः, श्री-१९, पृ.३७॥ १३. "दिव-' इति२ ।। १४. '-कर्तृकतेति' इति३.४॥ १५. सिद्धान्तकौमुद्यामपि कृदन्ते अमनुष्येति सूत्रे दीक्षितेन “अमनुष्येति किम् । आखुघातः शूद्रः । अथ कथं बलभद्रः, प्रलम्बघ्नः, शत्रुघ्नः, कृतघ्नः इत्यादि । मूलविभुजादित्वात् सिद्धम् ॥" इत्युक्तम्, सि.कौमुदी, पृ.५७२ ॥ १६. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, श्रो-१८, पृ.३६ ॥
नीलवस्त्रः। २१ अच्युतस्य विष्णोरग्रजः अच्युताग्रजः। एकविंशतिर्बलदेवस्य। "भद्राङ्गः फालो गुप्तचरो बली। प्रलापी भद्रबलिनः पौरः शेषाहिनामभृत् ॥"[शेषनाममाला २७७॥] इति शैषिकनामानि॥
मुसलं त्वस्य सौनन्दम्
१ अस्य बलदेवस्य मुसलं सुनन्दाया इदं सौनन्दम् । 'तस्येदम्' ४।३।१२०॥ इत्यण, क्लीबे ॥
हलं संवर्तकाह्वयम् ॥२२५॥
१ बलभद्रस्य हलमायुधम्, तन्नामैकम्, संवर्तयति
१० संहरति शत्रून् संवर्तकम्, क्लीबे । 'वृतु वर्त्तने'(भ्वा.आ.से.), ‘ण्वुल्तृचौ' ३।१।१३३॥ इति ण्वल् ॥२२५॥
लक्ष्मीः पंद्या रमा यो मा ता सा श्री: कमलेन्दिरा।
हरिप्रिया पद्मवासा क्षीरोदैतनयाऽपि च ॥२२६॥
१ लक्षयति पश्यति नीतिशालिनमिति लक्ष्मीः । लक्ष दर्शनाङ्कनयोः'(चु.उ.से.), 'लक्षेमुट् च'(उणा-४४०)इतीकारः प्रत्ययो मुडागमश्च, अत एव ड्यन्तत्वाभावाद् न सुलोपः । "कृदिकारादक्तिनो वा ङीप'(गणसू-४।१।४५॥)इत्यत्र सावर्ण्य ग्रहणाद् ङीबन्तोऽपि''[ ] इति मैत्रेयः । तेन लक्ष्मीशब्दस्य नदीवद्रूपाणि भवन्ति। " "कृदिकारात्-'(गणसू-४।१।४५ ॥)इति
२० ङीषि लक्ष्मीत्यपि भवतीति दुर्घटे रक्षितः"[ ]इति उज्ज्वलदत्तः। "लक्ष्मीर्लक्ष्मी हरेः स्त्रियाम्''[शब्दभेदप्रकाशः, श्रो-३४॥]इति शब्दप्रभेदः । २ पद्ममस्त्यस्य(-स्याः) पद्मा । १० एवं कमला अपि । उभयोरेवोपादानादन्यकमलपर्यायेणानभिधानं सूचितम् । ३ रमते रमा । 'रमु क्रीडायाम्'(भ्वा.आ.अ.), पचायच्, टाप्। ४ या इति पदस्य विश्रूषः कर्तव्यः, तेन ई आ इति नामद्वयं भवति। अस्य विष्णोर्भार्या ई"। "अः कृष्ण आः स्वयम्भूः" []इत्यभिधानात्। पुंयोगे ङीषि, 'यस्येति च'६।४।१४८ ॥ इत्यकारलोपे प्रत्ययमात्रं शिष्यते। ईशब्दस्य नदीशब्दवद्रूपाणि। ५ अटति अतति वा चपलत्वाद् आ। 'अट गतौ'(भ्वा.प.से.), 'अत सातत्यगमने' (भ्वा.प.से.) वा अस्माद्धातोः 'क्वचिड:'
३० (हैमसू-५।१।१७१ ॥)इति डः, डित्त्वाट्टिलोपः, 'अजाद्यतष्टाप्' ४।१।४॥, आशब्दष्टाबन्तो गङ्गावत् । नामद्वयाभ्याम् ‘इको यणचि'६।१।७७॥ इति कृते या इति सिद्धम् । सविसर्गोऽपि ई: इति । यद्विश्वशम्भुः
"ई रमामदिरामोहे महानन्दे शिरोभ्रमे ।
स्त्रीलिङ्गोऽयमुणाद्यन्तो नातोऽस्माल्लोपनं सुपः॥१॥"
[ ] इति ।
"ईयौं योऽत्र जसा रूपं स्यादमा रूपमीं शसीः।"[ ]इति। (यातीति या इत्यखण्डमपि, ‘या प्रापणे'(अ.प.अ.)इत्यस्य । तथा च विश्वशम्भुः-"या रमामातृयातृषु"[ ]इति । ६ मीयते
४० संख्यायते पुरुषेषु पुमान् अनयेति मा)। 'मा माने'(अ.प.अ.), क्विबन्तः। ७ तनोति सुखं ता। तनु विस्तारे'(त.उ.से.), 'क्वचिड:' (हैमसू-५।१।१७१ ॥) इति डः, अजाद्यतष्यप्'४।१।४।। ८ एवं स्यति दारिद्र्यं सा। 'षोऽन्तकर्मणि'(दि.प.अ.), 'क्वचिड: (हैमसू-५।१।१७१॥) इति डः । ९ श्रीयते आश्रीयते सर्वैरिति श्रीः। 'श्रिञ् सेवायाम्'(भ्वा.उ.से.), क्विब् वचि प्रच्छ्यायतस्तु कटप्रूजुश्रीणां दीर्घोऽसंप्रसारणं च'(वा-३।२।१७८ ॥ इति क्विप् दीर्घत्वं च । यत्तु श्रयन्त्येतामिति श्रीरिति तात्पर्यार्थकथनम्, न विग्रहवाक्यम्, कर्मणि क्विपो विधानात् श्रयन्तीति कर्बर्थतिङम्, तस्यासमानार्थत्वाद् वृत्तिसमानार्थेन हि वाक्येन भवितव्यमिति
५० भाष्योक्तेः । यत्तु दात्यनेन दात्रं दीयतेऽस्मै दानीयो विप्र इत्यादि, तत्र समानार्थस्यासंभवात् किञ्चित्साम्येनागत्या वाक्यं भवति। श्रयति सुकृतिनमित्येवंशीला वा श्रीः। 'कृदिकारदक्तिनो वा ङीष्' (गणसू-४।१।४५॥)इत्यत्र सावर्ण्यग्रहणाद् ङीबन्तोऽप्ययम्"
१. 'भद्रचलनः' इति शेषनाममालास्वोपज्ञटीकयोः ॥ २. 'मुशलं' इति३॥ ३. 'मुसलमा-' इति१.२॥ ४. 'कृदिकारादक्तिनः' इत्येव गणसूत्रम्॥ ५. 'डीबि लक्ष्मीत्यपित्यत्र' इति४॥ ६. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, श्रो-२२, पृ.४१ ॥ ७. ३प्रतौ नास्ति ॥ ८. 'कृति-' इति३॥ ९. 'लिक्ष्मी लक्ष्मीह रेः' इति१.२॥ १०. श्रीशिवदत्तमिश्रसंशोधितशब्दभेदप्रकाशापरनामद्विरूपकोशे 'लक्ष्मिर्लक्ष्मी हरेः प्रिया' इति दृश्यते, शो-३४, पृ.४११॥, पूज्यकस्तूरसूरीश्वरसंपादितशब्दभेदप्रकाशे 'लक्ष्मीर्लक्ष्मी हरेः प्रिया' इति दृश्यते, श्रो-३३, पृ.२३३॥ ११. 'ई:' इति२.३॥ १२. 'क्वचित्' ५।१।१७१ ॥ इति हैमसूत्रम् ॥ १३. कोष्ठान्तर्गतपाठः रप्रतौ नास्ति ॥ १४. 'डः' इति हैमसूत्रे नास्ति ॥ १५. 'इति डः' इति १.२.३प्रतौ नास्ति ॥ १६. 'कत्रर्थः' इति३॥ १७. 'दातु' इति१॥ १८. 'कृदिकारादक्तिनः' इति गणसूत्रम् ॥
[]इति मैत्रेयः । तदा नदीवत् । "तां दृष्ट्वा श्रीमिवायान्तीम्'[] इति प्रयोगः। १० कमला इति प्रागेवोक्तम् । काम्यते सर्वैरिति वा कमला। 'कमु कान्तौ'(भ्वा.आ.से.), वृषादिभ्यः कलच्' (उणा-१०६)इति बाहुलकात् कलच्, टाप् । ११ इन्दति परम *श्वर्यमनुभवति अनया इन्दिरा । 'इदि परमैश्वर्ये'(भ्वा.प.से.), इषि मदिमुदि-'(उणा-५१)किरच्प्रत्ययः । "बाहुलकात् किरच्"[मा. धातुवृत्तिः, भ्वादिः, धातुसं-५३]इति माधवः । १२ हरेर्विष्णोः प्रिया हरिप्रिया । १३ पद्मे वासोऽस्याः, पद्मवासोऽस्या इति वा पद्मवासा ।१४ क्षीरोदस्य तनया क्षीरोदतनया । चतुर्दश लक्ष्म्याः ।
१० शेषश्चात्र-"लक्ष्म्यां तु भर्भरी विष्णुशक्तिः क्षीराब्धिमानुषी"[शेष नाममाला २१७८॥] ॥२२७॥
मदनो जरांभीरुरनङ्गमन्मथौ
कर्मन: कलाकेलिरनन्यजोऽङ्गजः ।
मधुंदीपमारौ मधुसारथिंस्मरौ
विषमायुधो दर्पककामहच्छयाः ॥२७॥
प्रद्युम्नः श्रीनन्दनश्च कन्दर्पः पुष्पकेतनः ।
१ मदयति हर्षयति मन इति मदनः। 'मदी हर्षग्ल (ग्ले)पनयोः (भ्वा.प.से.), अस्माण्णिजन्ताद् नन्द्यादित्वाद्
ल्युः। २ जरायाः सकाशाद् भीरुः जराभीरुः। ३ अविद्यमान
२० मङ्गमस्य अनङ्गः। ४ मननं मद् युक्तिजन्यं ज्ञानम्। 'मन ज्ञाने'(दि.आ.अ.), सम्पदादित्वात् क्विप् 'अनुदात्तोपदेश-' ६४३७॥ इत्यादिनाऽनुनासिकलोपः, 'हुस्वस्य पिति-'६।१७१॥ इति तुक्। मनाति मथः, 'मन्थ विलोडने'(या.प.से.), पचाद्यच् । “मतो मथो मन्मथ:"[अम.क्षीर. १।१।२५॥]इति स्वामी । मनो मनाति वा, पृषोदरादित्वात् । "माद्यतीति मत्। 'मदी हर्षे '(दि.प.से.), क्विप्। मनातीति मथः। मच्चासौ मथश्च मन्मथः।"[टीकासर्वस्वम् १।१।२५॥] इति सर्वानन्दः । ५ कामयते शृङ्गारं कमनः। 'कमु कान्तौ'(भ्वा.आ.से.), अस्माद् वासरूपेणानुदात्तेल्लक्षणो युच् । ६ कलासु केलिरस्य कलाकेलिः। ७ न मनसोऽन्यस्माज्जायत इति अनन्यजः। न
३० विद्यतेऽन्यद् यस्मात् सोऽनन्यो विष्णुः, "सर्वं विष्णुमयं जगत्" [*]इति श्रुतेः । अनन्याद् विष्णोर्जात इति अनन्यजः । ८
अङ्गाज्जायत इति अङ्गजः। 'जनी प्रादुर्भावे'(दि.आ.से.), 'पञ्चम्यामजातौ'३।२।९८॥ इति डः । ९ मधौ वसन्ते दीप्यते मधुदीपः। 'दीपी दीप्तौ'(दि.आ.से.), पचाद्यच्। १० म्रियतेऽनेनेति मारः। 'मृङ् प्राणत्यागे'(तु.आ.अ.), करणे घञ्। मारयति विरहिणं वा, पचाद्यच् । ११ मधुर्वसन्तः सारथिरस्य मधुसारथिः । १२ स्मरयति उत्कण्ठयति स्मरः। 'स्मृ चिन्तायाम्'(भ्वा.प.अ.)इत्यतो णिजन्तात् पचाद्यच् । स्मर्यते वनिताऽनेन कृत्वा स्मरः। 'पुंसि संज्ञायाम्'३।३।११८॥ इति
४० सूत्रेण घः। १३ विषमाण्यायुधान्यस्य विषमायुधः । १४ दर्पयति हर्षयति दर्पकः। 'दृप हर्षणमोचनयो: '(दि.प.अ.), 'ण्वुल्तृचौ' ५।१।१३३॥ इति ण्वुल्। १५ कामयत इति कामः। 'कमु कान्तौ'(भ्वा.आ.से.), पचाद्यच् । काम्यतेऽनेनेति वा। 'पुंसि संज्ञायाम्-'३।३।११८॥ इति घः। कामोऽभिलाषोऽस्त्यस्य वा, 'अर्शआदिभ्योऽच्'५।२।१२७।। १६ हृदि शेते हृच्छयः। 'शीङ् स्वप्ने'(अ.आ.से.), पचाद्यच् । यौगिकत्वाद् मनसिशयः ॥२२७॥ १७ प्रकृष्टं द्युम्नं बलमस्य प्रद्युम्नः। १८ श्रिया लक्ष्म्या नन्दनः श्रीनन्दनः,रुक्मिण्याः श्रियोऽवतारत्वात्। १९ के ब्रह्मणि दृप्तवान्, कं ब्रह्माणं दर्पितवानिति वा कन्दर्पः,
५० पृषोदरादिः। 'कम्' अव्ययं कुत्सायाम्, कं कुत्सितो दर्पोऽस्येति वा। २० पुष्पाणि केतनमस्य पुष्पकेतनः । विंशतिर्मदनस्य। शेषश्चात्र
"कामे तु यौवनोद्भेदः शिखिमृत्युर्महोत्सवः ।
शमान्तकः सर्वधन्वी रागरज्जुः प्रकर्षकः ॥१॥
मनोदाही मथनश्च" [शेषनाममाला २।७८-७९॥]। कन्तुर्दश्याम्, संस्कृतेऽपि ॥
१. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, शो-२२, पृ.४१ ॥ २. 'वृषादिभ्यश्चित्' इत्युणादिगणे ॥ ३. 'लक्ष्म्यां तु' १.२.४प्रतौ नास्ति ॥ ४. '-सारथिः स्मरो' इतिर, मुद्रितमूलेऽपि तथैव ॥ ५. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, श्रो-२०, पृ.३८॥, क्षीरस्वामिटीकायां "मतो मनसो मथः [मध्नातीति] मन्मथः" इति दृश्यते, ११।२५॥, पृ.९॥ ६. '-श्चेति' इति टीकासर्वस्वे, भा-१, १।२।२५ ॥, पृ.२१॥ ७. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, श्रो २१, पृ.४० ॥ ८. 'श्रुतिः' इतिर॥ ९. 'हर्षमोहनयोः' इति क्षीरतरङ्गिण्याम, दिवादिः, धातुसं-८७, पृ.२२४॥ १०. १प्रतौ नास्ति ॥ ११. 'कामे तु' इति १.२.४प्रतौ नास्ति ॥ १२. 'सर्वधन्वी' इति३, शेषनाममालास्वोपज्ञटीकयोः 'सर्वधन्वी' इति दृश्यते, तत्तु विचारणीयम्, 'वा संज्ञायाम्'५।४।१३३॥ इत्यस्य प्रवृत्तित्वात् ॥
पुष्पाण्यस्येषुचापास्त्राणि
१-३ अस्य कामस्य पुष्पाणि कुसुमानि इषुचापा स्त्राणि बाणधनुरायुधानि, प्रोच्यन्ते इति शेषः॥
अरी शम्ब(म्व)रशूर्पकौ ॥२२८॥
१-२ अस्येति सर्वत्र सम्बध्यते, अस्य कामस्य अरी वैरिणौ शम्बरः शूर्पकः च प्रोच्यते । इतो विस्तरार्थ:-अस्य कामस्य पुष्पाणि इषुर्बाणः, पुष्पाण्येव चापं धनुः, पुष्पाण्येव वाऽस्त्रमायुधम्, तेन पुष्पेषुः, कुसुमबाणः, पुष्पचापः, कुसुमध्वा,
पुष्पास्त्रः, कुसुमायुधः कामः स्यात्, इषुचापयोः सत्यप्यस्त्रत्वे
१० भेदेन ग्रहणम्, लोके तथाव्यवहारात्। कामस्यारी शम्बरशूर्पकौ। दैत्यानां शं कल्याणं वृणोत्याच्छादयतीति, 'शमि धातोः' ३।२।१४॥ इत्यादिना अच्, शम्ब(म्व)र: तालव्यादिः । 'शम्ब (म्व)रं सलिले पुंसि मृगदैत्यविशेषयोः"[मेदिनी, रान्तवर्गः, यो-२१९] इति तालव्यादौ मेदिनिः । तस्यारिः शम्ब(म्व) रारिः । संवरणं वा संवरः । यद्वा सं सम्यग् वृणोत्याच्छादयति जनानां सुखमिति वा संवरः । सम्पूर्वाद् ‘वृञ् आच्छादने' (स्वा.उ.से.)इत्यस्मात् पचाद्यच् ।
"क्लीबं तु सम्ब(म्व)रं नीरबौद्धव्रतविशेषयोः ।
विशेषे पुंसि मत्स्यस्य दैत्यस्य हरिणस्य च ॥१॥"
२० []इति दन्त्यादौ रभसः। संवरनाम्नो दैत्यस्यारिः सम्वरारिरिति
दन्त्यादिरपि । वर्णदेशनायां पक्षद्वयं दर्शितम्, तस्मात् तालव्यादिरयमित्येव येन केनचिद्वयाख्यातम्, तन्निरस्तम्। शूर्पयति कलयति परवीर्याणि शूर्पकः। 'शूर्प माने'(चु.उ.से.), चुरादिः, ‘ण्वुल्तृचौ'३।१।१३३॥ इति ण्वुल्। शूर्पकस्यारिः शूर्पकारिः, तालव्यादिः ॥२२८॥
केतनं मीनमकरौ
१-२ कामस्य मीनमकरौ केतनं ध्वजः, मीनश्च मकरश्च मीनमकरौ, तेन मीनकेतनः, झषध्वजः, मकरकेतनः, मकरध्वजः । मकरो जलजन्तुविशेषः, कच्छपो वा ॥
३० बाणाः पञ्च
कामबाणाः पञ्च
"उन्मादस्तापनश्च शोषणः स्तम्भनस्तथा ।
संमोहनश्च कामस्य पञ्च बाणाः प्रकीर्तिताः ॥१॥"
[ ]। तेन पञ्चबाणः, विषमेषुः। “पञ्चेन्द्रियार्थाः बाणा अस्य"[ ]इत्यन्ये ॥
रतिः प्रिया ।
१ कामस्य प्रिया रतिः, तेन रतिवरः, रतिपतिः॥
मनःशृङ्गारसङ्कल्पात्मानो योनिः ।
१-४ कामस्य मनःशृङ्गारसङ्कल्पात्मानो योनिः, मनश्च शृङ्गारश्च सङ्कल्पश्च आत्मा च मनःशृङ्गारसङ्कल्पात्मानः, तेन
४० मनोयोनिः, चेतोभवः, शृङ्गारयोनिः, शृङ्गारजन्मा, सङ्कल्पयोनिः, स्मृतिभूः, आत्मयोनिः, आत्मभूः॥
सुहृन्मधुः ॥२२९॥
१ कामस्य सुहृद् मित्रं मधुः चैत्रः, तेन मधुसुहृत्, चैत्रसखः ॥२२९॥
सुतोऽनिरुद्ध ऋष्याङ्क उषेशो ब्रह्मसूश्च सः ।
१ कामस्य सुतः, रणे केनापि न निरुद्ध इति अनिरुद्धः। युद्धे केनापि न निरुध्यते स्मेति वा । २ ऋष्यनामा मृगोऽङ्कश्चिह्न मस्य ऋष्याङ्कः, सप्तमस्वरादिः, मूर्धन्यस्वरादिमूर्धन्यान्तस्था द्यमध्यश्चायम्। क्वचिद् ‘वृश्यकेतुः (ऋश्यकेतुः)' इति पाठः।
५० "खड्गायुधोऽनिरुद्धः स्यात् तथा वै वृश्यकेतनः (चैवय॑केतनः)" ["]इति शाम्बपुराणात्। “एणः कुरङ्गमो वृश्यः सादृश्यश्चानुलोचन (रिश्यः स्यादृश्यश्चारुलोचनः)"[त्रिकाण्डशेषः २।५।६॥] इति पुरुषोत्तमैः । क्वचिच्च 'विश्वकेतुः' इति पाठः । तत्र विश्वव्यापी केतुर्कोतिरस्येति व्युत्पत्तिः । तथा च "पताकायां द्युतौ केतुर्ग्रहो त्पातादिलक्ष्मसु"["]इति रभसः। यौगिकत्वाद् ऋष्यकेतुः । ३ उषा बाणपुत्री, तस्या ईशः उषेशः, मूर्धन्यमध्यः । "उषा बाणस्य पुत्री स्यादनिरुद्धगृहिण्यूषा''["]इत्यजयकोषदर्शनाद् दीर्घादिरपि। ४ ब्रह्मतपः सुवति चालयति, बह्माणं सुवति प्रेरयति वा ब्रह्मसूः। 'पू प्रेरणे'(तु.प.से.), 'सत्सूद्विष-'३।२।६१॥ इति क्विप्,
६०
१. 'इति' इति१.३। २. '-प्यस्त्रभेदे-' इति३.४॥ ३. '-यति' इति३॥ ४. स्वादौ 'वृञ् वरणे' इति स्वामिसायणौ ॥ ५. द्र. टीकासर्वस्वम्, भा १, १।१।२६॥, पृ.२१॥, पदचन्द्रिका, भा-१, स्वर्गवर्गः, शो-२१, पृ.३९॥, रामाश्रमी १।१।२६॥, पृ.१५॥ तासु 'नीर' इत्यस्य स्थाने टीकासर्वस्वे 'नीरे' इति, पदचन्द्रिकारामाश्रम्योः 'नीवौ' इति दृश्यते, तथा सर्वासु टीकासु 'मत्स्यस्य दैत्यस्य' इत्यस्य स्थाने 'दैत्यस्य मत्स्यस्य' इति दृश्यते ॥ ६. '-नाया' इति ॥ ७. 'परिकीर्तितः' इति३॥ ८. १.२प्रतौ न दृश्यते ॥ ९. '-रादिद्र्ध-' इति२.४॥ १०. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, श्री २२, पृ.४० ॥, रामाश्रमी ११।२७॥, पृ.१५॥ ११. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, श्रो-२२, पृ.४० ॥, रामाश्रमी ११२६-२७॥, पृ.१५॥
('अन्येभ्योऽपि'३।२।१७८ ॥)वा क्विप्। चत्वारि कामपुत्रस्य। केचित्तु "उषेशमन्तरेणान्यानि त्रीणि नामानि कामस्य"[ ]इत्याहुः, तन्मन्दम्, “अनिरुद्धो विश्वकेतुर्ब्रह्मसूरप्युषापतिः"[]इति बृहदमरकोषात्, "ब्रह्मसूस्त्वनिरुद्धः स्यात्"[]इति शब्दार्ण वाचं कामपुत्रस्यैव नामानि । “आत्मभूः ब्रह्मसूः कामः" []इत्यमरमालायां कामदेवस्यैव नामानि"[ ]इत्यपरे ॥
गरुडः शाल्मल्यरुणांवरजो विष्णुवाहनम् ॥२३०॥
सौपर्णेयो वैनतेयः सुपर्णः
सारातिर्वजिजिद् वज्रतुण्डः ।
१० पक्षिस्वामी काश्यपिः स्वर्णकाय
स्तायः कामायुर्गरुत्मान् सुधाहृत् ॥२३१॥
१ गरं विषं हन्ति, गरुद्भिः पक्षैर्डयते वा, गिलति नागान् वा गरुडः । 'डीङ् विहायसां गतौ'(भ्वा.आ.से.), पृषोदरादिः । डस्य लत्वे गरुलोऽपि । २ कूलशाल्मलो नामा गरुडस्य राजधानी पर्वतः, शाल्मलस्तु भीमवत् पदैकदेशः, सोऽस्यास्ति शाल्मली । अत इनिठनौ' ५।२।११५ ॥ इतीनिः। ३ अरुणस्यावरजः अरुणावरजः । ४ विष्णोर्वाहनं विष्णुवाहनम् ॥२३०॥ ५ सुपर्णा या अपत्यं सौपर्णेयः। 'स्त्रीभ्यो ढक्'४।१।१२० । । ६ विनताया अपत्यं वैनतेयः। 'स्त्रीभ्यो
२० ढक्'४।१।१२०॥ । ७ शोभनानि सुवर्णमयत्वात् पर्णान्यस्य सुपर्णः । ८ सर्पाणामरातिः सर्पारातिः । ९ वज्रिणं जितवा निति वनिजित् । गरुडेन अमृतहरणकाले हि इन्द्रो जित इति प्रसिद्धिः । १० वज्रवत् तुण्डमस्य वज्रतुण्डः । ११ पक्षीणां स्वामी पक्षिस्वामी । न चात्र 'प्रतिपदविधाना षष्ठी न समस्यते' (वा-२।२।१०॥) इति समासनिषेधः शङ्कनीयम्, यावता शेषलक्षणैवेयम् । न हि 'स्वामी-'२।३।३९॥ इत्यादिसूत्रेण षष्ठी विधीयते, किन्तु सप्तम्यनेन विधीयमाना षष्ठ्या बाधिका मा भूदिति चकारेण षष्ठ्याः प्रतिप्रसवः क्रियते । न तु अपूर्व रूपतया विधानम्, एवंविधविषये च समासः स्यादेव, 'न निर्धारणे'
३० २।२।१०॥ इति ज्ञापकात्, अन्यथा प्रतिपदविहितत्वात् षष्ठ्या: समासो न भविष्यति, किं निषेधेनेति । १२ कश्यपस्यापत्यं
काश्यपिः। अत इञ्' ४।१।९५॥ इति इञ् । १३ स्वर्णरूपः कायोऽस्य स्वर्णकायः। १४ तृक्ष स्तृक्ष णक्ष गतौ'(भ्वा.प.से.), तृक्षतीति तृक्षः। 'इगुपधज्ञा-' ३।१।१३५ ॥ इति कः । तृक्षस्य मुनेरपत्यं तायः । गर्गादिभ्यो यञ्' ४।१।१०५॥ इति यञ् । एकस्मिन् कल्पे तृक्षस्य मुनेरपत्यमासीत्, बहुवचने 'यबि (ब)जोश्च २।४।६४॥ इति लुकि तृक्षाः ।१५ कामेनेच्छया आयुरस्य कामायुः । १६ प्रशस्ता अतिशयिता वा गरुतः पक्षा अस्य सन्तीति गरुत्मान् । तदस्यास्त्यस्मिन्निति मतुप्' ५।२।९४॥, यवादिपाठाद् ‘झयः'८।२।१० ॥ इति सूत्रेण मस्य वत्वं न भवति।
४० १७ सुधां हृतवानिति सुधाहृत्। सप्तदश गरुडस्य । शेषश्चात्र
"गरुडे तु विषापहः ।
पक्षिसिंहो महापक्षो महावेगो विशालकः ।
ज्वतीशश्च सुखसू शिलानीहोऽहिभुक् च सः॥१॥"
[शेषनाममाला २।८०॥ ॥२३१॥ बुद्धस्तु सुगतो धर्मधातुस्त्रिकालविर्जिनः ।
बोधिसत्त्वो महाबोधिरौर्यः शास्ता तागतः॥२३२॥
पञ्चज्ञानः षडभिज्ञो दशार्हो दशभूमिगः ।
चतुस्त्रिंशजातकज्ञो दशपारमिताधरः ॥२३३॥
द्वादशाक्षो दशबैलस्त्रिकायः श्रीर्घनाऽद्वैयौ ।
५० समन्तभद्रः संगुप्तो दयाकू! विनायकः॥२३४॥
मारलोकबंजित् धर्मरीजो विज्ञानमातृकः ।
महामैत्रो मुनीन्द्रश्च
१ प्रशस्ता बुद्धिरस्य बुद्धः । 'अर्शआदिभ्योऽच्' ५।२।१२७॥ इत्यच् । बुध्यते ध्यायिभिर्वा । 'बुध बोधने' (भ्वा.-प.से.), 'मतिबुद्धिपूजार्थेभ्यश्च'३।२।१८८ ॥ इति वर्तमाने क्तः । बुध्यते जानाति तत्त्वानि वा । 'बुध अवगमने'(दि. आ.अ.) अस्माद् दैवादिकात् ‘मतिबुद्धि-'३।२।१८८॥ इति क्तः । 'इगुपधज्ञा-'३।१।१३५॥ इति कप्रत्यये बुधोऽपि ।
१. '-केतुब्रह्म-' इति३॥ २. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, शो-२२, पृ.४० ॥, रामाश्रमी १।१।२६-२७॥, पृ.१५॥ ३. इतोऽग्रे ३प्रतौ 'पञ्च' इति दृश्यते ॥ ४. '-यसा' इति४॥ 'विहायसा' इति धातुप्रदीपमा.धातुवृत्त्योः ॥ ५. 'तृक्' इति३॥ ६. 'गुरु-' इति१॥ ७-१. 'गरुडस्तु' इति, ७-२ 'उन्नतीशः' इति च शेषनाममालास्वोपज्ञटीकयोः ॥ ८. 'सुखभूः' इति१, '-तीशः श्वमुखसूः' इति३॥ ९. 'शिलीना-' इति१.२.४॥ १०. १प्रतौ नास्ति।
“अथ बुद्धो जिनो योगी सर्वज्ञः सुगतो बुधः''[' ]इति व्याडिः । २ शोभनं गतं ज्ञानमस्य सुगतः । सर्वे गत्यर्था ज्ञानार्था इति । सुष्ठु अपुनरावृत्तये गत इति वा । "सुखेन संसाराद् गतः''[ ]इत्यन्ये । ३ धर्मः सत्त्वोद्धरणादिः, तेन अनुविद्धा धातवोऽस्य धर्मधातुः । ४ त्रीन् कालान् वेत्ति त्रिकालवित् । 'विद ज्ञाने'(अ.प.से.)अस्मात् सम्पदादि त्वात् क्विप् । ५ जयति रागद्वेषौ, जिनाति वा जिन: । 'जि जये '(भ्वा.प.अ.), 'इण्षि(सि)ञ्जिदिषि(ष्यि)विभ्यो नक्' (उणा-२८२)इति नक् । ६ बोधिः सत्त्वमस्य बोधिसत्त्वः।
१० यद् व्याडि:-"बोधिः स्वबोधिजें ज्ञानं तन्मयो बोधिसत्त्वकः" [] । ७ महती बोधिरस्य महाबोधिः । ८ अर्यते अभिगम्यते आर्यः । 'ऋ गतौ'(जु.प.अ.), 'ऋहलोर्ण्यत्'३।१।१२४॥ इति ण्यत् । आरात् पापेभ्यः कर्मभ्यो यात इति [वा], पृषो दरादिः । ९ शास्ति विनेयान् शास्ता । 'शासु अनुशिष्टौ' (अ.प.से.), 'शासकृदादिभ्यः संज्ञायां चानिट् च '(उणा २५०) इति तृन्प्रत्ययः । शास्तरौ, शास्तरः इत्यादि पितृशब्द वत् । अव्युत्पत्तिपक्षे 'अप्तृन्-'६।४।११ ॥ आदिसूत्रेऽनुपादा नाद् न दीर्घः । व्युत्पत्तिपक्षे तु ननादिग्रहस्य नियमार्थ त्वात् । " 'शासेः क्तिचि शिष्टि: '(चान्द्रसूत्रम् ) इत्यत्र
२० शास्ता इति प्रत्युदाहरणेऽनौणादिकतृच एव रत्नमतिना दर्शित त्वाद् बुद्धवाचिनोऽपि दीर्घः''[ ]इति सुभूतिः । १० तथा इति सत्यं गतं ज्ञानमस्य तथागतः । यद्वा "यथागतास्ते मुनयः शिवां गतिं तथागतः सोऽपि ततस्तथागतः''[ ]इति बौद्धागमः । यथा पुनरावृत्तिर्न भवति, तथा तेन प्रकारेण गत इति तथागतः । 'सुप्सुपा'२।१।४॥ इति समासः ॥२३२॥ ११ पञ्चानां विज्ञानवेदनासंज्ञासंस्काररूपलक्षणानां स्कन्धानां ज्ञान मस्य पञ्चज्ञानः । १२ दिव्यं चक्षुः, दिव्यं श्रोत्रम्, परचित्त ज्ञानम्, पूर्वनिवासानुस्मृतिः, आत्मज्ञानम्, विप (य?)द्गमन कायव्यूहादिलक्षणा ऋद्धिश्चेति षट्, षड् अभिज्ञा आद्यज्ञान शक्तयोऽस्य षडभिज्ञः । यद्वा 'षट्सु दानशीलक्षान्ति-
३० वीर्यध्यानप्रज्ञासु अभिज्ञा आद्यज्ञानमस्येति षडभिज्ञः'[] इति तु सर्वधरः । दिव्यं चक्षुः, दिव्यं श्रोत्रम्, पूर्वनिवासानु स्मृतिः, परचित्तज्ञानम्, आश्रवक्षयः, ऋद्धिश्चेति षड् अभिज्ञा अस्येति वा । १३ दशभूमीर्बलानि पारमिता वा अर्हति दशार्हः । १४ दशभूमीगच्छति दशभूमिगः । यद् व्याडि:
"भूमयस्तु प्रमुदिता विमला च प्रभाकरी ।
अर्चिष्मती सुदुर्जेयाऽभिमुखी च दुरङ्गमा ॥१॥
अबला माधुमती च धर्ममेघेति च क्रमात् ।''[]
१५ चतुस्त्रिंशद् जातकानि व्याघ्रीप्रभृतीनि जानातीति चतुस्त्रिं शजातकज्ञः, अष्टाक्षरात्मकमखण्डं नाम । चतुस्त्रिं-
४० शज्जातकानि त्वमूनि, यद् व्याडि:
"जातकानि पुनर्व्याघ्री शितिः श्रेष्ठा शशो विशम् ।
हंसो विश्वन्तरः शक्रो मैत्रीबलसुपारगौ ॥२॥
अफुत्रो ब्राह्मण: कुम्भ: कल्माष: पिण्डिजातकम् ।
अधिमुह्य( -ह्यं) श्रेष्ठिजातं दमयन्ती महाकपिः ॥३॥
बोधिर्बह्मा महाबोधिर्वानरः शरभो रुरु: ।
क्षान्तिवादी च हस्ती च कुञ्चश्चेत्येवमादयः ॥४॥"
["] । १६ दश पारमिताः प्रज्ञाद्या धरति दशपारमिता
धरः । यद् व्याडि:
"प्रज्ञा पारमिता तारा वृन्दा च जिनशक्तयः ।।
५० मारीची वतुदुर्वासा मारावी वज्रकाल्यपि ॥५॥" ।
["] ॥२३३॥ १७ द्वादशाऽक्षीण्यस्य द्वादशाक्षः । बहुव्रीहौ सक्थ्यक्ष्णोः षच्। १८ दश बलानि दानशीलक्षान्तिवीर्यध्यानशान्ति बलोपायप्रणिधानलक्षणान्यस्य दशबलः ।१९ त्रयः काया निर्माणाद्या
१. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, श्री-८, पृ.२४ ॥, रामाश्रमी १।१।१३ ॥, पृ.९ ॥ २. '-धिकं' इति२ ॥ ३. द्र. स्वोपज्ञटीका २१२३२ ॥, पृ.५७॥ ४. 'तृन्तृचौ शंसिक्षदादिभ्यः संज्ञायां चानिटौ'(उणा-२५०)इत्युणादिगणे ॥ ५. '-सूत्रेष्वनु-' इति२ ॥ ६. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्ग:, शो-९, पृ.२५ ॥, तत्र '-प्रत्युदाहरणेन औणादिकतृच' इति दृश्यते ॥, रामाश्रमी १।१।१४ ॥, पृ.९ ॥ ७. 'बोद्धा-' इति२.३ ।। ८. 'विज्ञानवेदानां' इति१, 'विज्ञानवेदाना-' इति२ ॥ ९. 'स्तोत्रम्' इति३ ॥ १०. द्र. टीकासर्वस्वम्, भा-१, १।१।१४ ॥, पृ.१३॥, पदचन्द्रिका, भा-१, स्वर्गवर्गः, श्री-९, पृ.२४॥, तत्र '-प्रज्ञासु आद्यं ज्ञान-' इति दृश्यते ॥ ११. 'तीर्थधरः' इति१ ॥ १२. 'तुरङ्गमा' इति३ ॥ १३. द्र. स्वोपज्ञटीका २ २३३ ।।, पृ.५७ ।।, तत्र 'सुदुर्जेया-' इत्यस्य स्थाने 'सुदुर्जया-' इति, 'अबला माधुमती' इत्यस्य च स्थाने 'अचला साधुमती' इति दृश्यते ॥ १४. 'अपत्रो' इति२ ॥ १५. 'शरुः' इति१ ॥ १६. 'कुम्भ-' इति३॥ १७. द्र. स्वोपज्ञटीका २१२३२ ॥, पृ.५७ ॥, तत्र 'कुञ्च-' इत्यस्य स्थाने 'कुन्थु-' इति दृश्यते ॥ १८. 'वृन्दी' इति१ ॥ १९. 'मारीचि' इति३ ॥ २०. 'माराची' इति३ ।। २१. द्र. स्वोपज्ञटीका २।२३२।।, पृ.५७ ॥, तत्र "मारीची चतुदुर्वासा मारीचा वज्रकाल्यपि" इत्युत्तरार्धः ।।
अस्य त्रिकायः । २० श्रिया योगविभूत्या घनो निबिडः, श्रिया घन इव वर्षिता वा श्रीधनः । ज्ञानपुण्यसंभारः श्रीः, तया घनः पूर्ण इति वा । सर्वत्र 'तृतीया'२।१३०॥ इति योगविभागात् समासः । २१ न विद्यते द्वयं ज्ञानार्थी, किन्तु एकमेव ज्ञानमस्येति अद्वयः । २२ समन्तं सम्पूर्णं भद्रमस्य समन्तभद्रः । पृषोदरादित्वात् साधुः । २३ सम्यग् गुप्तः संगुप्तः, योगिनामप्यगम्यत्वात् । २४ दया एव कूर्चः, कोष्ठागारो निधिर्वाऽस्येति दयाकूर्चः । यद् व्याडि: "कोष्ठागारोऽभवत् कूर्ची निधिर्वा तेन तादृशः"[] । २५
१० विनयति हितमर्थमनुशास्ति विनायकः । ‘णी प्रापणे' (भ्वा.उ.अ.), 'ण्वुल्तृचौ'३।१।१३३॥ इति ण्वुल् णित्त्वाद् वृद्धिः । २६-२८ मारान् कामक्रोधादीन्, लोकान् भूरा दीन्, खानि इन्द्रियाणि जयति, तेन मारं कामं क्लेशं वा जयति मारजित् । तपसा लोकं भुवनं जयति लोकजित् । लोकान् जनान् जयति उपरमयति संसाराद्वा । खानि इन्द्रि याणि जयति खजित् । 'जि जये'(भ्वा.प.अ.), त्रयोऽपि क्विबन्ताः, 'हूस्वस्य पिति कृति-'६।१७१॥ इति तुक् । बौद्धास्तु स्कन्धमारः, क्लेशमारः, मृत्युमारः, देवपुत्रमारश्च
इति चतुरो मारानाहुः । २९ धर्मेण राजते धर्मराजः ।
२० 'राजू दीप्तौ'(भ्वा.उ.से.), पचाद्यच् । धर्मस्य राजेति वा । 'राजाह : सखिभ्यष्टच्'५।४।९१॥ इति टच्, 'नस्तद्धिते' ६।४।१४४॥ इति टिलोपः । ३० विज्ञानं मातृकाऽस्य विज्ञानमातृकः । ३१ महांश्चासौ मैत्रश्च महामैत्रः । ३२ मुनिषु इन्द्रः श्रेष्ठो मुनीन्द्रः, मुनिस्तु भीमवत् पदैकदेशः । सामान्यतो द्वात्रिंशद् बुद्धस्य । शेषश्चात्र
"बुद्धे तु भगवान् योगी बुधो विज्ञानदेशन: ॥
महासत्त्वो लोकनाथो बोधिरर्हन् सुनिश्चितः ॥
गुणाब्धिर्विगतद्वन्द्वः" [शेषनाममाला २८१॥] ॥
बुद्धाः स्युः सप्त ते त्वमी ॥२३५॥
३० विपश्यी शिखी विश्वभूः क्रकुच्छन्दश्च काञ्चनः ।
काश्यपश्च
१ विशेषेण पश्यति विपश्यं ज्ञानम्, तदस्यास्ति विपश्यी, तालव्यान्तस्थाद्यतृतीयस्वरमध्यो व्यञ्जनान्तः । 'अत इनिठनौ'५।२।११५॥ इतीनिः । २ शिखाऽस्यास्ति शीखी । 'व्रीह्यादिभ्यश्च'५।२।११६॥ इतीनिः, दण्डिन्वत् । ३ विश्वं भवत्यस्माद् विश्वभूः, क्विबन्तः । ४ क्रमेण कौ पृथिव्यां छन्दोऽभिलाषोऽस्य क्रकुच्छन्दः, पृषोदरादित्वात् साधुः । ५ काञ्चनवर्णत्वात्काञ्चनः ।६ कश्यपस्यापत्यं [काश्यपः] ।विदा दिभ्यो गोत्रापत्येऽञ् ।विपश्याद्याः काश्यपान्ता: पबुद्धविशेषाः ।।
सप्तमस्तु शाक्यसिंहोऽर्कबान्धवः ॥२३६॥
४० तथा राहुलसूः सर्वार्थसिद्धो गोर्तमान्वयः ।
मायाशुद्धोदनसुतो देवदत्ताप्रजश्च सः ॥२३७॥
१ सप्तानां संख्यापूरणः सप्तमः, 'पञ्चादेर्म:(नान्ता दसंख्यादेर्मट्'५ ।२६४९ ॥)इति मः । सप्तमो बुद्धः शाक्यसिंहः इक्ष्वाकुराजपुत्राः केऽपि पित्रा वनवासाय दत्ताज्ञा गौतमवंशस्य कपिलस्याश्रमे शाकच्छत्रे वसतिं कृतवन्तः शाक्या:"[ ] इत्यागमः। शाकवनवासित्वात् शाक्या: । 'दिगादिभ्यो यत्' ४।३।५४ ॥ । तथा च सुरानन्दचरितें
"शाकवृक्षप्रतिछत्रं(-छन्नं) वासं यस्माच्च चक्रिरे ।
तस्मादिक्ष्वाकुवंश्यास्ते शाक्या इति भुवि श्रुताः ॥१॥"
५० []इति । तद्वंशावतीर्णो मुनिः । शाक्यश्चासौ सिंहश्चेति। तथा यस्तु शाक्यमुनिः, स शाक्यसिंहः, शाक्यः सिंह इवेति । 'उपमितं व्याघ्रादिभिः सामान्याप्रयोगे'२।१ ॥५६॥ इति समासः। सिंहादिशब्दा हि उत्तरपदभूताः पूर्वपदस्य श्रेष्ठतां गमयन्ति । शका अभिजनो निवासोऽस्येति वा । शाक्य इत्यपि, भीमव पदैकदेशः । २ अर्कस्य बान्धर्व : अर्कबान्धवः, सूर्यवंश्यत्वात् ॥२३६॥ ३ राहुलं सूते राहुलसूः। 'षूङ् प्राणिगर्भविमोचने'(अ.आ.वे.), 'सत्सूद्विषद्रुह-'३।२।६१ ॥ इत्यादिना क्विप् । ४ सर्वार्थेषु सिद्धो __ निष्पन्नः सर्वार्थसिद्धः। 'सिद्धशुष्कपक्वबन्धैश्च'२।१।४१॥ इति सप्तमीसमासः । "सर्वोऽर्थः सिद्धोऽस्येति त्रिपदो बहुब्रीहिः"
६० [टीकासर्वस्वम् १११।१५॥]इति तु सर्वानन्दः । अत एव सिद्धार्थोऽपि । यच्छाश्वत:-"सिद्धार्थौ बुद्धसर्षपौ"[शाश्वतः, श्री
१. 'घना' इति३॥ २. '-स्येति' इति१॥ ३. द्र. स्वोपज्ञटीका २२३४॥, पृ.५८॥ ४. 'लोपः' इति३॥ ५. '-देशः' इति३, '-देशकः' इति४॥ ६. 'पित्त्या' इति३॥ ७. '-वंश्यस्य' इति२॥ ८. '-रचिते' इति१.४॥ टीकासर्वस्वेऽभिधानोदृङ्कनं तु 'सुन्दरानन्दचरिते' इति दृश्यते ॥ ९. द्र. टीकासर्वस्वम् १।११५॥, पृ.१४ ॥, रामाश्रमी १११५॥, पृ.९॥ १०. इतोऽग्रे १प्रतौ 'समासः' इति दृश्यते ॥ ११. 'तद्वंश्याव-' इति२॥ १२. '-वदेकदेशः' इति३॥ १३. '-न्धवो इति' इति१॥ १४. सर्वानन्दकृतटीकासर्वस्वे-"सर्वार्थसिद्ध इति त्रिपदोऽयं बहुव्रीहिः" इति दृश्यते, टीकासर्वे १११५॥, पृ.१४॥
५९८] । ५ गोतमःअन्वयोऽस्य गोतमान्वयः, त्रयोदशस्वरा दिरयम् । गौतम इत्यपि। गोतमवंशस्य मुनेरयं शिष्यः गौतमः। 'तस्येदम्' ४।३।१२० ॥ इत्यण्। "गौतमस्यैव शिष्यः''[ ]इति तु माधवी।६-७ मायाशुद्धोदनाभ्यां अग्रे सुतः, तेन मायाया देव्याः सुतो मायासुतः । शुद्ध ओदनोऽस्येति शुद्धोदनः, शकन्ध्वादिः। शुद्धोदनस्य राज्ञः सुतः शुद्धोदनसुतः, तालव्यादिः। यौगिकत्वात् शौद्धोदनिः इत्यादि । ८ देवदत्ता प्रजाऽपत्यं यस्य स देवदत्ताप्रजः। सप्तमशाक्यसिंहनाम्नो विशेषस्य अष्ट नामानि ॥२३७॥
असुरा दितिदनुजाः पातालौकः सुरारयः ।
१० पूर्वदेवाः शुक्रशिष्याः
१ अस्यन्ति प्रेरयन्ति युद्धाय दैत्यानिति असुराः । 'असु क्षेपणे'(दि.प.से.), 'असेरुरन् '(उणा-४२) इत्युरन् । अविद्यमानां सुरा एषामिति वा । सुरविरुद्धत्वादनर्थवदिति वा। सुराया अपानाद्वा । प्रज्ञाद्यणि आसुराश्च । २-३ दितिः, दनुश्चा ऽसुरमातरौ, ताभ्यां जाताः दितिजाः, दनुजाः च, यौगिकत्वाद् दैतेयाः, दानवाः इत्यादयः । दनोरपत्यानि दानवाः। तस्यापत्यम्' ४।१।१२॥ इत्यण् । ४ पाताले ओकांसि येषां ते पातालौकसः, सकारान्तोऽयम् । ५ सुराणामरयः सुरारयः । ६ पूर्वे च ते देवाश्च पूर्वदेवाः। 'पूर्वापरप्रथम-'२।१५८॥ इत्यादिना समासः।
२० पूर्वं देवा इति वा । 'सह सुपा'२।१४॥ इति योगविभागात् समासः। एते हि पूर्वं देवा आसन् अन्यायाद् विदेवत्वाद् भ्रष्टा इति भावः। ७ शुक्रस्य शिष्याः शुक्रशिष्याः। सप्त दैत्यस्य ॥
विद्यादेव्यस्तु षोडश ॥२३८॥ रोहिणी प्रज्ञप्तिर्वजशृङ्खला कुलिशाङ्कशा ।
चक्रेश्वरी नरदत्ता काल्यथाऽसौ महापरा ॥२३९॥
गौरी गान्धारी सर्वास्त्रमहाज्वाला च मानवी।
वैरौंट्याऽच्छुप्ता मानसी महामानसिकेति ताः॥२४०॥
१ रोहत्यवश्यं रोहिणी । 'रुह बीजजन्मनि'(भ्वा. प.अ.), आवश्यकाधमर्ययोर्णिनिः' ३।३।१७० ॥ इति णिनिः,
३० 'ऋन्नेभ्यो डीप्' ४।१।५॥ इति ङीप् । २ (प्रकृष्टा ज्ञप्तिरस्या) प्रज्ञप्तिः । रोहिणी प्रज्ञप्तिरित्यत्र पृथक् पृथक् विभक्त्यन्तं पदं
ज्ञेयम्, अथवा रोहिणी च प्रज्ञप्तिश्चेति द्वन्द्वे 'रोहिणीप्रज्ञप्ती' इति प्रथमाद्विवचनम्, न च प्रज्ञप्तीति ड्यन्तो नदीवदिति । ३ वज्रमयी शृङ्खलाऽस्याः वज्रशृङ्खला । ४ कुलिशमयमङ्कुशमस्याः कुलिशाङ्कशा । ५ चक्रस्य ईश्वरी चक्रेश्वरी । ६ नरेषु दत्तम स्याः नरदत्ता । ७ कालवर्णत्वात् काली । 'जानपदकुण्ड-' ४।१।४२ ॥ इत्यादिना ङीष् । ८ अथासौ महापरेति, असौ काली महाशब्दपरा, महाकाली इत्यर्थः ॥२३९॥९ गौरवर्णत्वात् 'षिद्गौरादिभ्यश्च'४।१।४१॥ इति ङीष् । १० गां धारयति गान्धारी, पृषोदरादित्वात् । ११ सर्वेषामस्त्राणां महत्यो ज्वाला
४० अस्याः सर्वास्त्रमहाज्वाला, सप्ताक्षरमखण्डं नाम। १२ मनोरयं मानवी । टिड्डाणञ्-' ४।१।१५॥ इत्यादिना डीप् । १३ वैरोप शान्त्यै अट्याऽस्या वैरोट्या, पृषोदरादित्वात् साधुः । १४ न पापेन छुप्यते स्पृश्यते अच्छुप्ता । 'छुप स्पर्शने'(तु.प.अ.), वर्तमाने क्तः । १५ मनसि भवा मानसी । १६ मासस्येव मानसिका, महती चासौ मानसिका च महामानसिका । रोहिण्या दीनां षोडशानां नामैकं विद्यादेव्य इति ॥२४०॥
वाग् ब्राह्मी भारती गौर्गीर्वाणी भाषा सरस्वती।
श्रुतदेवी
१ वक्त्यनया वाक् । 'वच परिभाषणे'
५० (अ.प.अ.), 'क्विब्वचिप्रच्छ्यायत-'(वा-३।२।१७८॥ इति 'क्विप्दीक़ असम्प्रसारणं च । २ ब्रह्मण इयं ब्राह्मी। 'ब्राह्मोऽजातौ'६।४।१७१॥ इति टिलोपः, 'टिड्डाणञ्-४।१।१५ ॥ इति ङीप् । ३ भरतानां नटानामियं भारती । 'तस्येदम्' ४।३।१२०॥ इत्यणि डीष् (ङीप्) । “भरतानां ऋत्विजां स्तुतिलक्षणा तैरवतारित्वात्"[]इति याज्ञिकाः । बिभर्ति वा भारती, पृषोदरादिः । ४ गच्छति गौः, पुंस्त्री। 'गम्लु गतौ' (भ्वा.प.अ.), 'गमेझै:'(उणा-२२५)इति डोः, 'गोतो णित्' ७।११०॥ । ५ गृणन्ति उद्गिरन्ति तामिति गी: । 'गृ शब्दे' (त्र्या.प.से.), 'गृ निगरणे'(तु.प.से.) वा, सम्पदादित्वात्
६० क्विप्, 'ऋत इद्धातोः७।१।१००॥, 'उरण रपरः१।१।५१॥, 'र्वोरुपधाया दीर्घ इकः'८।२७६॥ । गिरौ, गिरः इत्यादि।
१. 'गौतमः' इति२.३॥ २. 'गोतम' इति३॥ ३. 'युद्धाय' इति १प्रतौ नास्ति ॥ ४. '-मानाः' इति३ ।। ५. 'दनुजश्चा-' इति१.२॥ ६. 'तस्येदमित्यण्' इति३.४॥ ७. 'प्रज्ञप्ती' इति२ ॥ ८. कोष्ठान्तर्गतपाठः २.४प्रतौ दृश्यते ॥ ९. इतोऽग्रे रप्रतौ 'प्रज्ञद्ध्यतो नदीवत्' इति दृश्यते ॥ १०. १.२.३नास्ति। ११. रोहिणी' इति रप्रतौ नास्ति ॥ १२. '-बहुवचनम्' इति३॥ १३. '-तीति' इति३॥ १४. 'षोडशानामेकं' इंति१.३॥ १५. 'क्विप् दी| असम्प्र-' इति१.२॥ १६. द्र. स्वोपज़टीका २२४१॥, पृ.५९॥
१० भाष्यते भाषा। 'भाष व्यक्तायां वाचि'(भ्वा.आ.से.), 'गुरोश्च हलः'३।३।१०३॥ इत्यप्रत्ययः, टाप् । ८ सरतीति सरः ज्ञानम्, तदस्त्यस्यां सरस्वती । 'सृ गतौ'(भ्वा.प.अ.), '-असुन्' (उणा-६२८)इत्यसुन्, ततो मतुप्, 'उगितश्च'४।१।६॥ इति ङीप्। प्रसरणमस्त्यस्या इति वा । यद्वा सरोऽस्या आश्रय त्वेनास्तीति मतुपि सरस्वती । इयं ब्रह्मलोके ब्रह्मसरः समाश्रित्य शापात् नदी भूत्वा लोकमवतीर्णा, अत्रं शक्तिशक्तिमतोर भेदोपचाराद् वचनमपि सरस्वतीशब्दवाच्यम् । ९ श्रुतस्य प्रवचनस्याधिष्ठात्री देवी श्रुतदेवी । एते वच:पर्याया अपि । नव सरस्वत्याः । 'वाणी' इति भाषा॥
२० वचनं तु व्याहारो भाषितं वचः ॥२४१॥
१ उच्यते तद् वचनम् । 'वच परिभाषणे'(अ.प.अ.), 'ल्युट् च'३।३।११५॥ इति ल्युट् । २ व्याह्रियते इति व्याहारः। उपसर्गवशाद्धातोरर्थस्यान्यथात्वम्। 'हृञ् हरणे' (भ्वा.उ.अ.), घञ्। ३ भाष्यते भाषितम् । कर्मणि क्तः, आर्धधातुकस्य-'७।२।३५॥ इति इट् । ४ उच्यते इति वचः। 'वच परिभाषणे' (अ.प.अ.), '-असुन्'(उणा-६२८)इत्यसुन् । चत्वारि वचनस्य ॥
शेषश्चात्र-“वचने स्यात् तु जल्पितम् ।
लपितम्, भणितम्, उदितम्, अभिधानम्, गदितम्, (लपितोदित भणिताभिधानगदितानि च)"[शेषनाममाला-२८२]इति ॥२४१॥ सविशेषणमाख्यातं वाक्यम्
३० प्रयुज्यमानाख्याताऽप्रयुज्यमानाख्यातयो म एकं वाक्यम्। तदाख्यातं प्रयुज्यमानं अप्रयुज्यमानं वा सविशेषणम्, प्रयुज्य मानैरप्रयुज्यमानैर्वा कादिभिर्विशेषणैः सहितं वाक्यमुच्यत इत्यर्थः । प्रयुज्यमानमाख्यातम्, यथा-जिनो वो रक्षतु । अप्रयुज्यमानमाख्यातम्, यथा-विद्या ते स्वम्, अनास्तीति गम्यते । अप्रयुज्यमानं विशेषणम्, यथा-प्रविश, अत्र गृहमिति गम्यते । अनयोरर्थात् प्रकरणाद्वा आख्यादेरवगमादप्रयोगाः । आख्यातमित्यत्र चैकत्वस्य विवक्षित्वात्, ‘ओदनं पच तव भविष्यति' इत्यादौ वाक्यभेदः। उच्यते वाक्यम् । 'वच परिभाषणे'(अ.प.अ.), 'ऋहलोर्ण्यत्'३।१।१२४॥, 'चजोः कु
४० घिण्ण्यतोः'७।३ १५२॥ इति कुत्वम् ॥
स्त्याद्यन्तकं पदम् ।
स् इत्युत्सृष्टानुबन्धस्य सोर्ग्रहणम्, तिइत्युत्सृष्टानु बन्धस्य तिपो ग्रहणम्, स च तिश्च स्ती, तावादी येषां प्रत्ययानां ते स्त्यादयः, आदिशब्दः प्रत्येकमभिसम्बध्यते, तेन स्वादयः सुप्पर्यन्ताः, त्यादयस्तिङ्पर्यन्ता गृह्यन्ते, ते अन्ते यस्य तत् स्त्याद्यन्तकम् , पद्यते गम्यतेऽर्थोऽनेनेति पदम् । 'पद गतौ'(दि.आ.अ), कर्मणि घञ् ॥
राद्धसिद्धकृतेभ्योऽन्त आप्तोक्तिः समयागंमौ॥२४२॥
१-३ राद्धसिद्धकृतेभ्यः शब्देभ्योऽन्त इति शब्दो योज्यः,
५० तेन राद्धः सिद्धः अन्तो निश्चयो येन, यस्य वा, स राद्धान्तः। सिद्धोऽन्तो निश्चयो येन, यस्य वा सिद्धान्तः। कृतोऽन्तो निश्चयो येन, यस्य वा कृतान्तः। “अन्तः स्वरूपे निकटे प्रान्ते निश्चयनाशयोः"[अनेकार्थसङ्ग्रहः २।१५५] इत्यनेकार्थः । ४ वचनमुक्तिः, आप्तास्तुं यथाभूतार्थस्योपदेष्टारः । आप्तानामुक्तिः
१. तत्सम्बन्धिनीयं कारिका-"वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः । आपं चैव हलन्तानां यथा वाचा निशा दिशा॥" २. द्र. रामाश्रमी १।६।१॥, पृ.८०॥ ३. 'ब्रह्मणीति ब्राह्मणो व्रव-' इति२॥ ४. हुस्वेकारान्तोऽपि वाणिशब्दः । तथा चोक्तमनेकार्थसङ्ग्रहे-"वाणिरम्बुदे । व्यूतौ मूल्ये सरस्वत्याम्" [२।१५१॥]। विश्वेऽपि च-"वाणिः स्याद् दूतिभारत्योणिमूल्ये बलाहके" [णान्तवर्गः, -२४] । “वण्यतेऽसावनया वा, इञ् , वाणिः वाणी" इति स्वामी, क्षीरतरङ्गिणी, पृ.७१॥ ५. काशिकावृत्त्यादौ 'इणजा-' इति दृश्यते, अयं पाठः भाषावृत्तिसम्मतः, द्र. ३।३।१०८॥, पृ.१३३॥ ६. स्वामिमते नवधात्वात्मकः तथा सायणमते दशधात्वात्मकोऽयं दण्डः ॥ ७. मा. धातुवृत्तौ तु-"इज्वपादिभ्यः' इति इञन्तात् सर्वतोऽक्तिन्नादित्येके इति डोष्" इति दृश्यते, भ्वादिः, धातुसं-२९७, पृ.१३१॥ ८. 'अत्र' इति३.४प्रतौ नास्ति ॥ ९. 'आप्तस्तु यथार्थवक्ता' इति तर्कसङ्ग्रहः ॥ ।
आप्तोक्तिः । ५ समेति सङ्गच्छतेऽभिमतार्थमनेनेति समयः। 'इण् गतौ'(अ.प.अ.), संपूर्वः, ‘एरच्'३।३।५६ ॥ इत्यच्। ६ आगम्यन्ते ज्ञायन्ते जीवादयः पदार्था अनेनेति आगमः । 'गम्लु गतौ' (भ्वा.प.अ.)। सामान्यतः षट् सिद्धान्तस्य ॥२४२॥ आचाराङ्गं सूत्रकृतं स्थानाङ्गं समवाययुक्।
पञ्चमं भगवत्यङ्गं ज्ञाताधर्मकथापि च ॥२४३॥
उपासकान्तकृदनुत्तरोपपातिकाद् दशाः ।
प्रश्रव्याकरणं चैव विपाश्रुतमेव च ॥२४४॥
इत्येकादश सोपाङ्गान्यङ्गानि
१० १ आचरणमाचारः । 'चर गतिभक्षणयोः'(भ्वा.प.से.), 'भावे'३।३।१८॥ इति घञ् । आचर्यते सेव्यतेऽ सावित्याचार इति वा, शिष्टाचरितो ज्ञानाद्यासेवनविधिरित्यर्थः, तत्प्रतिपादको ग्रन्थोऽप्याचारः, स चासावङ्गं च आचाराङ्गम्। २ सूचनात् सूत्रम्, सूत्रेण स्वसमयपरसमयसूचनेन कृतं सूत्रकृतम् । ३ तिष्ठन्त्यस्मिन् प्रतिपाद्यतया जीवादयः पदार्था इति स्थानम् । ष्ठा गतिनिवृत्तौ' (भ्वा.प.अ.), ‘करणाधिकरणयोश्च'३ ।३।११७ ॥ इत्यधिकरणे ल्युट् । एकादिदशान्तसंख्याभेदो वा स्थानम्, तत्प्रतिपादको ग्रन्थोऽपि स्थानम्, तच्च तदङ्गं च स्थानाङ्गम् । ४ समवयनं समवायः, एकादिशतान्तसंख्यासमविष्टानां पदार्थानां संग्रहः,
२० तद्धेतुर्ग्रन्थोऽपि समवायः, समवायं युनक्तीति समवाययुक्। ५ भगवतीति पूज्याभिधानं व्याख्याप्रज्ञप्तेः पञ्चमाङ्गस्य, भगवती चासावङ्गं च भगवत्यङ्गम् । ६ ज्ञातानि उदाहरणानि, तत्प्रधाना धर्मकथा ज्ञाताधर्मकथा, तत्प्रधानः ग्रन्थोऽपि तथा। ज्ञाताधर्म कथा इत्यत्र तकारस्य दीर्घत्वं संज्ञात्वात्''[ ]इति समवायाङ्ग वृत्तिकारः ॥२४३॥७-९ उपासकाश्च अन्तकृतश्च अनुत्तरोप पातिकाश्चेति समाहारद्वन्द्वः, तस्माद् उपासकान्तकृदनुत्तरोप पातिकादशा इति, उपासकशब्दात्, अन्तकृच्छब्दात्, अनुत्तरोप पातिकशब्दाद् दशा इति शब्दोऽग्रे योज्यते, तत उपासकदशाः, उपासन्ते सेवन्ते साधूनित्युपासकाः श्रावकास्तद्गतक्रियाकला
पप्रतिबद्धा दशाः दशाध्ययनरूपा उपासकदशा: । अन्तो विनाशः,
३० स च कर्मणाम्, तत्फलभूतस्य वा संसारस्यान्तं कुर्वन्ति ये तीर्थकरादयः, तेऽन्तकृतः, तेषां दशाः प्रथमवर्गे दशाध्ययनानि इति तत्संख्यया अन्तकृद्दशाः । न विद्यते उत्तरः प्रधानोऽस्माद् इत्यनुत्तरः, स चासावुपपातश्च अनुत्तरोपपातः प्रधानं जन्म, सोऽस्त्येषामनुत्तरोपपातिक: सर्वार्थसिद्धादिविमानपञ्चकोपपातिनों देवा इत्यर्थः, तद्वक्तव्यताप्रतिबद्धा दशा दशाऽध्ययनोपलक्षिता अनुत्तरोपपातिकदशाः । एषां त्रयाणां ग्रन्थानां नाम बहु वचनान्तम् । १० प्रश्नः पृच्छा, तन्निर्वचनं व्याकरणं प्रश्नव्या करणम्, तत्प्रतिपादकग्रन्थोऽपि प्रश्रव्याकरणम्। ११ विपचनं विपाक: शुभाशुभकर्मपरिणामः, तत्प्रतिपादकं श्रुतं विपाकश्रुतम्
४० ॥२४४॥ इत्येकादश प्रवचनपुरुषस्य अङ्गानीव अङ्गानि, कीदृशि ? सहोपाङ्गैरौपपातिकादिभिादशभिर्वर्तन्ते यानि तानि सोपाङ्गानि ॥
द्वादशं पुनः । दृष्टिवादः
१ दृष्टयो दर्शनानि, तासां वदनं दृष्टिवादः, द्वादश स्याङ्गस्य नाम दृष्टिवाद इति । दृष्टिपात इत्यपि । दृष्टीनां पातो यत्रासौ दृष्टिपातः, सप्तनयदृष्टय इहाख्यायन्त इत्यर्थः । तथा चाह-"दृष्टिवादेन दृष्टिपातेन वा सर्वभावप्ररूपणा आख्यायते "[ ]इति ॥
५० द्वादशाङ्गी स्याद् गणिपिटकाह्वया ॥२४५॥
द्वादशानामाचारादीनां दृष्टिवादान्तानां समाहारो द्वादशाङ्गी । गुणानां साधूनां वा गणः सङ्घो विद्यतेऽस्य गणी आचार्यः, गणिर्वा साङ्गप्रवचनाध्येता, तस्य प्रवचनमिव सर्वार्थ रत्नाधारत्वाद् गणिपिटकं तदाह्वया द्वादशाङ्गी गणिपिटकम् उच्यत इत्यर्थः ॥२४॥
तत्र दृष्टिवादभेदानाह
परिकर्मसूत्रपूर्वानुयोगपूर्वगतचूलिकाः पञ्च । .
स्युर्दृष्टिवादभेदाः
१. 'समं' इति१ ।। २. 'कथा' इति२ ।। ३. 'तत्र' इति१ ॥ ४. 'कुर्वति' इति४ ॥ ५. 'तत्संख्याया' इति४ ।। ६. '-पातिको' इति२ ।। ७. '-पादको ग्रन्थो-' इति३ ॥ ८. आदिना राजप्रश्नीय-जीवाभिगम-प्रज्ञापना-जम्बूद्वीपप्रज्ञप्ति-चन्द्रप्रज्ञप्ति-सूर्यप्रज्ञप्ति-निरयावलिका-कल्पावतंसिका-पुष्पिका-पुष्पचूलिका-वृष्णिदशेति ग्राह्यम्॥ ९. 'दृष्टयोर्दर्श-' इति३.४॥ १०.'-न्ते' इति४ ॥११.'-ह्वयः' इति३, -ह्वयाः' इति४॥ १२. 'गणा-' इति३॥ १३. '-लिका' इति१.३.४ ॥
- १ परिकर्म च सूत्र च पूर्वानुयोगश्च पूर्वगत च चूलिका चेति द्वन्द्वः । सूत्रादिग्रहणयोग्यतासम्पादनसमर्थानि परिकर्माणि, गणितपरिकर्मवत् । २ सर्वद्रव्यपर्यायनयाद्यर्थ सूचनात् सूत्राणि । ३ अनुरूपोऽनुकूलो वा योगः अनुयोगः। सूत्रस्य निजेन अभिधेयेन सार्द्धमनुरूपः सम्बन्धः, स च मूलप्रथमानुयोगो (गण्डिकानुयोगश्चेति द्विविधः, इह धर्म प्रणयनान् मूलं तावत् तीर्थकराः, तेषां प्रथमसम्यक्त्वावाप्ति लक्षणपूर्वभवादिगोचरोऽनुयोगो) मूलप्रथमानुयोगः, स एव पूर्वानुयोगः, स च गण्डिकायोगोऽस्य लक्षणम्, इह शास्त्रे
१० एकवक्तव्यतार्थाधिकारानुगता गण्डिका उच्यन्ते, तासामनु योगोऽर्थकथनविधिः गण्डिकानुयोगः । ४ पूर्वाणां गतं ज्ञान मस्मिन् पूर्वगतम् । ५ इह दृष्टिवादे परिकर्मसूत्रपूर्वानुयोगो क्तानुक्तार्थसङ्ग्रहपरा ग्रन्थपद्धतयः चूला इव चूलिकाः, एताश्चाद्यानां चतुर्णा पूर्वाणां भवन्ति, न शेषाणाम् । एते परिकर्मादयः पञ्चापि दृष्टिवादभेदाः द्वादशाङ्गयां द्वादशदृष्टि वादनाम्नोऽङ्गस्य भेदाः प्रकाराः पञ्च भवन्ति ॥
पूर्वाणि चतुर्दशाऽपि पूर्वगते॥२४६॥ उत्पादपूर्वमग्रायणीयमथ वीर्यतः प्रवादं स्यात् ।
अस्ते नात् सत्यात् तदात्मनःकर्मणश्च परम्॥२४७॥
२० प्रत्याख्यानं विद्याप्रवादकल्याणनामधेये च।
प्राणावायं च क्रिया विशालमथ लोकबिन्दुसारमिति ॥२४८॥
१ एतानि वक्ष्यमाणानि चतुर्दशापि पूर्वाणि पूर्वगते चतुर्थे पूर्वगतनाम्नि दृष्टिवादभेदे भवन्तीति शेषः, तन्नामान्याह 'सर्वाङ्गेभ्यः पूर्वं तीर्थकरैरभिहितत्वात् पूर्वाणि ॥२४६॥ तानि यथा-सर्वद्रव्याणां पर्यायाणां चोत्पादप्रज्ञप्तिहेतुः उत्पादम् । २ सर्वद्रव्याणां पर्यायाणां सर्वजीवविशेषाणां च अग्र्यं परिमाणं वर्ण्यते यत्र तद् अग्रायणीयम् । ३ अथ वीर्यतः वीर्यशब्दात्
प्रवादम्, तेन वीर्यप्रवादम्, जीवानामजीवानां च सकर्मेतराणां
३० वीर्य प्रवदति वीर्यप्रवादम् । ४ तदिति प्रवादम्, अस्तेर्ज्ञानात् सत्याद् आत्मनः कर्मणः च परम्, अस्तीति नास्तेरप्युप लक्षणम्, ततो यल्लोके यथास्ति तथा वा नास्ति, अथवा स्याद्वाद्यभिप्रायेण तदेवास्ति नास्तीति वा प्रवदति अस्तिनास्ति प्रवादम् । ५ मतिज्ञानादिपञ्चकं सप्रभेदं प्रवदतीति ज्ञान प्रवादम् । ६ सद्भ्यो हितं सत्यं संयमः, तत् सप्रभेदं सप्रतिपक्षं च यत् प्रवदति तत् सत्यप्रवादम् । ७ नयदर्शनैरात्मानं प्रवदति आत्मप्रवादम् । ८ ज्ञानावरणाद्यष्टविधकर्मप्रकृतिस्थित्यनुभाग प्रदेशादिभेदैरन्यैश्चोत्तरोत्तरभेदैभिन्न प्रवदति कर्मप्रवादम् ॥२४७॥ ९ सर्वप्रत्याख्यानस्वरूपं प्रवदति प्रत्याख्यानप्रवादम्, तदेकदेशं प्रत्याख्यानम्, भीमवत् । १० विद्यातिशयान् प्रवदति विद्या-
४० प्रवादम् । ११ कल्याणफलहेतुत्वात् कल्याणम्, अवन्ध्यमिति चोच्यते । १२ आयुः प्राणविधानं सर्वं सभेदम्, अन्ये च प्राणा वर्णिता यत्र तत् प्राणावायम् । १३ क्रियाः कायिक्यादयः संयमाद्याश्च विशालाः सभेदा यत्र तत् क्रियाविशालम् । १४ इहलोके श्रुतलोके वा बिन्दुरिवाक्षरस्य सर्वोत्तमं सर्वाक्षर संयोगपरिनिष्ठितत्वेन लोकबिन्दुसारम् । सार्द्धद्वादशकोटिपदम्, इह पदं तु तथाविधसम्प्रदायगम्यम् । नन्दिसमवायाङ्गवृत्तौ पद परिमाणविषये किञ्चिदन्यथात्वमपि दृश्यते । पूर्वेषु तु दशादीनि वस्तून्यपि सन्ति । यदुक्तम्
"क्रमाद् वस्तूनि विधित्वमाद्ये दश चतुर्दश ।
५० अष्टादश तुर्ये हि द्वादश द्वौ च षोडश ॥१॥
त्रिंशत्तु विंशतिः पञ्चदश द्वादश वै तथा ।
त्रयोदश ततस्त्रिंशत् पञ्चविंशतिरन्तिमे ॥२॥
उत्पादादिषु पूर्वेषु ह्यन्तर्वर्ती प्रकारतः ।
अधिकारविशेषस्तु वस्तुविज्ञैः प्रकीर्तितम् ॥३॥"[ ]इति॥
स्वाध्यायः श्रुतिराम्नायश्छन्दो वेदः
१ सुष्ठु आ समन्ताद् अधीयते स्वाध्यायः। 'इङ् अध्ययने'(अ.आ.अ.), अधिपूर्वः, 'इङश्च'३।३।२१॥ इति घञ्, 'अचो णिति'७।२।११५॥ इति वृद्धिः । २ श्रूयते धर्मोऽनया श्रुतिः । श्रुश्रवणे'(भ्वा.प.अ.), श्रुअञ्जिमिभ्यः करणे (वा-
६० ३।३९४॥)इति क्तिन्। ३ आम्नायते उपदिश्यते धर्माधर्मावनेनेति
१. '-तया-' इतिर ॥ २. कोष्ठान्तर्गतपाठः १प्रतौ न दृश्यते ॥ ३. '-ऽर्थः' इति३॥ ४. 'पूर्वे' इति३॥ ५. 'सर्वाङ्गि-' इति३॥ ६. 'सा' इतिश्॥७. '-गम्य' इति१॥ ८. अष्टाध्याय्यां 'श्रुयजिस्तुभ्यः करणे' इति वार्तिकस्वरूपं दृश्यते ॥
आम्नायः । 'म्ना अभ्यासे'(भ्वा.प.अ.), करणे घञ्, 'आतो युक् चिण्कृतोः'७।३।३३॥ इति युक्, आपूर्वो म्नायतिरुप देशार्थः । आमनति उपदिशति इतो वा । 'श्याद्वधा-' ३।१।१४१॥ इति णः । ४ छादयति श्रोतुरन्त:करणमिति छन्दः, क्लीबे । 'छदि अपवारणे'(चु.उ.से.), '-असुन्'(उणा-६२८) इत्यसुन्, ‘इदितो नुम्'७।१।५८॥ इति नुम् । "छन्दति रर्चति कर्मा ततोऽसुन्"[ ]इति भाष्यम् । चन्दति आह्लादयति स्तोत्र रिति वा । 'चदि आह्लादनदीप्त्योः '(भ्वा.आ.से.), चदे(न्दे)रादेश्च
छ:'(उणा-६५८)इत्यसुन्निति वा। छन्दसी, छन्दांसि इत्यादि । ५
१० विदन्त्यनेन धर्मं वेदः । 'विद ज्ञाने'(अ.प.से.), बाहुलकात् कर्मणि घञ् । सामान्यतः पञ्च वेदस्य ॥
त्रयी पुनः । ऋग्यजुःसामवेदाः स्युः
१ ऋग्यजुःसामलक्षणास्त्रयोऽवयवा यस्याः सा त्रयी। त्रिशब्दात् 'संख्याया अवयवे तयप्'५।२।४२॥ इति तयप, तस्य 'द्वित्रिभ्यां तयस्या[य]ज्चा'५।२।४३॥ इत्ययजादेशः, 'यस्येति च' ६४.१४८॥ इतीकारलोपः, 'टिड्डाणब्-' ४।१।१५॥ इति ङीष् (ङीप्) । १ ऋच्यन्ते स्तूयन्ते देवा अनयेति ऋक्, स्त्रीलिङ्गः। 'ऋच स्तुतौ'(तु.प.से.), 'क्विप्'(वा-३३१४॥)इति क्विप्।
२० २ इज्यतेऽनेन यजुः, क्लीबे । 'यज देवपूजादौ'(भ्वा.उ.अ.), 'धनर्तिचक्षिङ्पवपितपिजनि-'(उणा-२७४)इत्यादिना उस् । ३ स्यति पापं साम, क्लीबे । 'षोऽन्तकर्मणि'(दि.प.अ.), 'नामन्सामन्-'(उणा-५९०)इत्यादिना साधुः। सामनी, सामानि इत्यादि। ऋक् च यजुश्च साम च ऋग्यजुःसामानि, ते च वेदाश्च ऋग्यजु:सामवेदाः, स्युः भवेयुः। एते त्रयो वेदा रुगाद्याः त्रयी उच्यते इत्यर्थः । एकं वेदत्रय्याः ॥
अथर्वा तु तदुद्धृतिः ॥२४९॥
१ न थर्वति कमपि न हिनस्ति अथर्वा, पुंसि, नकारान्तः। 'थर्व हिंसायाम्'( ), बाहुलकात् कनिन्। न
३० खर्वति वा । 'खर्व गतौ'(भ्वा.प.से.), बाहुलकात् कनिन्, धातोरादेश्च थः। तेभ्य ऋग्यजुःसामभ्य उद्धृतिः उद्धारः तदुद्धृतिः। एकमथर्वणः ॥२४९॥
वेदान्तः स्यादुपनिषद्
१ वेदस्यान्तो निश्चयः वेदान्तः। २ उप समीपे ब्रह्मणो निषीदन्त्यनया उपनिषद्, स्त्रीलिङ्गः । 'षद्ल विशर णगत्यवसादनेषु'(भ्वा.प.अ.), 'सत्सूद्विषद्रुह-'३।२।६१ ॥ इत्यादिना क्विप् । द्वे वेदान्तस्य ॥
ओङ्कारप्रणवौ समौ ।
१ अवति पापेभ्यो रक्षति भूतानि 'ओम्' अव्ययम्। ___ 'अव रक्षणादौ'(भ्वा.प.से.), 'अवतेष्टिलोपश्च'(उणा-१३९)
४० इति मन्टिलोपौ, टिलोपसामर्थ्यात् प्रत्ययस्यैव, अन्यथा हि डिदित्येवोच्येत , 'ज्वरत्वर-'६।४।२०॥ इत्यूट(-), 'आद्गुणः' ६।१८७॥, ततो बाहुलकाद् ‘वर्णात् कारः'१।२।३५॥ । २ प्रकृष्टो नवः स्तुतिः प्रणवः । प्रणूयते वा प्रणवः । 'णु स्तुतौ' (अ.प.अ.), 'ऋदोरप्'३।३५७॥ इत्यप्, 'उपसर्गादसमासेऽपि' ८।४।१४॥ इति णत्वम् । द्वे ओंकारस्य॥
शिक्षा कल्पोव्याकरणंछन्दोज्योतिर्निक्तयः॥२५०॥
षडङ्गानि
१अकारादिवर्णानां स्थानकरणप्रयत्नबोधिका अकु विसर्जनीयाः कण्ठ्या इत्यादिका शिक्षा । शिक्ष्यते वर्णविशेषोऽ-
५० नयेति वा। 'शिक्ष विद्योपादाने'(भ्वा.आ.से.), 'गुरोश्च-' ३।३।१०३॥ इत्यकारः, 'अजाद्यतष्टाप्'४।१४॥, भले इति भाषा। यद् वाचस्पतिः-'शिक्षा वर्णविवेचिका'[ ] । २ कर्मणां सिद्धरूपः प्रयोगः कल्पः । अथवा योगक्रियाणामुपदेशः कल्पः। कल्प्यतेऽवगम्यतेऽनेनेति कल्पः । 'कृपू सामर्थ्य' (भ्वा.आ.वे.), करणे घञ्, 'कृपे(कृपो) रो लः'८।२।१८॥ इति लत्वम् । यद् वाचस्पति:
"सिद्धरूपः प्रयोगो यैः कर्मणामवगम्यते ।।
ते कल्पा लक्षणार्थानि सूत्राणीति प्रचक्षते॥१॥"[]
इति । ३ व्याक्रियन्ते व्याख्यायन्ते शब्दा अनेन व्याकरणम्।
६० व्यापर्वात् करोतेः 'करणाधिकरणयोश्च'३।३।११७॥ इति करणे
ल्युट् । यदाह
-१. धातुवृत्त्यादौ चुरादिगणे 'छद' इति दृश्यते ॥ २. 'कर्माणि' इति२॥ ३. 'ऋष्यम्' इति३॥ ४. उणादिगणे तु 'अतिपवपियजितनिधनितपिभ्यो नित्'(उणा-२७४)इति सूत्रं दृश्यते ॥ ५. उणादिगणे तु '-सीमन्-' इति दृश्यते, अतः 'साम' इति कथं सिद्धिः?, '-मनिन्'(उणा-५८४)इत्यनेन समाधेयम् ॥ ६. क्षीरतरङ्गिण्यादावयं धातुर्न दृश्यते ॥ ७. 'रक्षति पापेभ्यो भूतानिति' इतिर ॥ ८. '-वोच्यत' इतिर, '-वोच्यते' इति३.४॥ ९. 'आका-' इति ॥ १०. 'विद्या-' इति३॥ ११. '-हुः' इति१॥
"प्रकृतिप्रत्ययोपाधिनिपातादिविभागशः ।
पदान्वाख्यानकरणं शास्त्रं व्याकरणं विदुः ॥ २॥"
[ ] । ४ छाद्यतेऽनेन प्रस्ताराद् भूरिति छन्दः । 'छर्दि अपवारणे'(चु.उ.से.), '-असुन्'(उणा-६२८)इत्यसुन्, ‘इदितो नुम्'७।१।५८॥ । ५ ज्योतिषां ग्रहाणां गतिज्ञानहेतुर्ग्रन्थो ज्योतिषम् । ६ “वर्णागमो वर्णविपर्ययश्च''[ ]इत्यादि भिर्निर्वचनं निरुक्तिः । 'वच परिभाषणे'(अ.प.अ.), "स्त्रियां क्तिन्'३।३।९४॥, 'गहिज्या-' ६।१।१६॥ इति सम्प्रसारणम् ।
१ अङ्यते ज्ञायते अमीभिरिति अङ्गानि, उपकारकाणीत्यर्थः ।
१० शिक्षादीनां षण्णां नामैकं 'षडङ्गम्' इति ॥२५०॥
धर्मशास्त्रं स्यात् स्मृतिधर्मसंहिता ।
१ धर्मप्रतिपादकं शास्त्रं धर्मशास्त्रम् । २ महर्षि भिर्वेदार्थस्मरणं स्मृतिः, तद्योगाद् ग्रन्थोऽपि स्मृतिः । ३ धर्मः
सन्धीयतेऽस्यां धर्मसंहिता । त्रीणि स्मृतेः ॥
आन्वीक्षिकी तर्कविद्या .
१ प्रत्यक्षागमाभ्यामीक्षितस्य पश्चादीक्षणमन्वीक्षा । 'ईक्ष दर्शनाङ्कनयों:'(अ.आ.से.), गुरोश्च-'३।३।१०३ ॥ इत्यकारः। सा प्रयोजनमस्या आन्वीक्षिकी। 'तदस्य प्रयोजनम्'५।१।१०९ ।। इति ठक्, 'ठस्येकः '७।३।५० ॥, 'किति च'७।२।११८॥
२० इत्यादिवृद्धिः । “आगमप्रतिपादितानां वस्तुतत्त्वानाम् अनु पश्चाद् ईक्षणं परीक्षणमन्वीक्षा, ‘तदस्य प्रयोजनम्'५ ।२।१०९॥ इति ठक्''[ ]इति मिश्राः । २ तर्काः षोडशपदार्थाः प्रमाणादय स्तत्प्रधाना विद्या तर्कविद्या। द्वे तर्कविद्यायाः ॥
मीमांसा तु विचारणा ॥२५१॥
१ मीमांस्यतेऽनया मीमांसा । 'मान विचारणे' (भ्वा.आ.से.), 'मान(न्) बधदाण्(न्)शान्भ्यो दीर्घश्चाभ्यासस्य' ३।१६॥ इति सन्, 'सन्यङोः '६।१।९॥ इति द्वित्वम्, 'अं प्रत्ययात्'३।३।१०२॥ इत्यः । २ विचार्यतेऽनया विचारणा। 'चर गतिभक्षणयो:'(भ्वा.प.से.)अस्माण्णिजन्तात् करणे ल्युट् ।
द्वे मीमांसायाः ॥२५१॥
३० सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ।
वंशानुवंशचरितं पुराणं पञ्चलक्षणम् ॥२५२॥
१ सर्जनं सर्गः । 'सृज विसर्गे'(दि.आ.अ.), भावे घञ्, 'पुगन्तलगघूपधस्य'७।३।८६ ॥ इति उपधायाँ गुणः, 'चजोः कु-'७।३।५२ ॥ इति कुत्वम् । सर्गः सृष्टिः । २ एवं प्रतीप: सर्गः प्रतिसर्गः , प्रलय इत्यर्थः । ३ वंशः सूर्यवंशादिः । ४ मन्वन्तराणि स्वायम्भुवचाक्षुषवैवस्वतादीनि चतुर्दशं । ५ वंशादनु वंशो वंशानुवंश सूर्यवंशादिः, तस्य चरितं वंशानुवंशचरितम्। १ पूरा पूर्वस्मिन् भूतं पुराणम्। 'पूर्वकालैकसर्वजरत्पुराण-' २१।४९ ॥ इति निर्देशादेव साधु । "पुराऽनिति प्राणिति पुराणम्"
४० [ ]इति स्वामी ॥ पञ्चसर्गादीनि लक्षणानि चिह्नानि यस्य तत् पञ्चलक्षणम् । पञ्चानां सर्गादीनां लक्षणं शास्त्रं वा । एकं सर्गादिपञ्चोपलक्षितशास्त्रस्य ॥२५२॥
षडंङ्गी वेदांश्चत्वारो मीमांसाऽऽन्वीक्षकी तथा।
धर्मशास्त्रं पुराणं च विद्या ऍताश्चतुर्दश ॥२५३॥
१ षडङ्ग्यादीनां पुराणान्तानां चतुर्दशानां नामैकं विद्या इति ॥२५३॥
सूत्रं सूचनकृत्
१ सूत्र्यते ग्रथ्यते सूत्रम्, पुंक्ली. । 'सूत्र ग्रन्थने (भ्वा. उ.से.), घञ् । सूचनाद्वा सूत्रम्, पृषोदरादिः। सूतेऽर्थमिति वा।
५० ___ 'षूङ् प्रसवे'(अ.आ.वे.), 'सर्वधातुभ्यः ष्ट्रन्'(उणा-५९८)इति ष्ट्रन्। सूचनं करोति सूचनकृत्। एकं सूत्रस्य ।
भाष्यं सूत्रोक्तार्थप्रपञ्चकम् ।
१. 'छद-' इति धातुवृत्त्यादौ ॥ २. 'ईक्ष दर्शने' क्षीरतरङ्गिण्यादौ ॥ ३. 'प्रतिपादिकानां' इति१ ॥ ४. 'विदा-' इति२ ॥ ५. 'मानेर्जिज्ञासायाम्' इति वार्तिकेन जिज्ञासायां सन् भवति ॥ ६. 'अः' इति१.२.४ ॥ ७. 'उपधागुणः' इति१.२॥ ८. 'प्रतीतः' इति१ ॥ ९. विष्णुपुराणे चतुर्दश मनव उक्तास्तन्नामानि यथा
"मनुः स्वायम्भुवो नाम मनुः स्वारोचिषस्तथा । औत्तमिस्तामसिश्चैव रैवतश्चाक्षुषस्तथा ॥१॥
एते तु मनवोऽतीताः सप्तमस्तु रवेः सुतः । वैवस्वतोऽयं यस्यैतत् सप्तमं वर्तते युगम् ॥२॥
सावर्णिर्दक्षसावर्णो ब्रह्मसावर्ण इत्यपि । धर्मसावर्णरुद्रस्तु सावर्णो रौच्यभौम्यवत् ॥३॥'' इति ॥ १०. इतोऽग्रे १.२प्रतौ 'तु' इति दृश्यते ॥ ११. स्वामिकृतामरकोशोद्धाटने न दृश्यते ॥ १२. 'ह्येता-' इति३.४॥ १३. '-विमोच.' इति स्वामी, '-वेष्टने' इति सायणः ॥ १४. 'सूत्रे-' इति१ ॥ १५. विग्रहे 'सूते' इति विगृहीतत्वात् '-प्राणिगर्भविमोचने' इति युक्तोऽर्थः ॥
१ भाष्यते भाष्यम् । सूत्रे उक्तमर्थं प्रपञ्चयति विस्तारयति यत्, तत् सूत्रोक्तार्थप्रपञ्चकम् । 'पचि विस्तारे' (चु.उ.से.), ‘ण्वुल्तृचौ'३।१।११३॥ इति ण्वुल् । एकं सूत्रो क्तार्थप्रपञ्चकस्य ॥
प्रस्तावस्तु प्रकरणम्
१ 'प्रस्तूयते प्रस्तावः । 'ष्टुञ् स्तुतौ'(अ.उ.अ.), 'प्रद्रुस्तु(प्रेद्रुस्तुस्रुवः) '३।३।२७॥ इति] घञ् । २ प्रक्रियतेऽस्मिन् प्रकरणम् । 'करणाधिकरणयोश्च' ३।३।११७॥ इत्यधिकरणे ल्युट् । तार्किकास्तु
१० "शास्त्रैकदेशसम्बद्धं शास्त्रकार्यान्तरस्थितम् ।
प्राहुः प्रकरणं नाम शास्त्रभेदं विपश्चितः ॥१॥"
[ ]इति । द्वे प्रकरणस्य ॥
निरुक्तं पदभञ्जनम् ॥२५४॥
१ वर्णागमादिभिः पदानां निर्वचनं निरुक्तम्। 'वच परिभाषणे'(अ.प.अ.), 'स्त्रियां क्तिन'३३१४॥, (भावे क्तः), 'ग्रहिज्या-'६।१।१६॥ इति सम्प्रसारणम् । २ पदानि भज्यन्तेऽत्र पदभञ्जनम् । 'भञ्ज (भञ्जो) आमर्दने'(रु.प.अ.), अधिकणे ल्युट् । द्वे निरुक्तस्य ॥ २५४॥
अवान्तरप्रकरणविश्रामे शीघ्रपाठतः।
२० आह्निकम्
१ अवान्तरप्रकरणानां विश्रामः अवान्तरप्रकरण विश्रामः, तत्र, शीघ्रपाठतः अह्ना निवृत्तम् आह्निकम् । 'तेन निर्वृत्तम्' ५।१७९॥ इति ठक् । अवान्तरप्रकरणानां विश्रामो ग्रन्थावयव इत्यर्थः, तन्नामैकमालिकम् । एकस्मिन्नेव वासरे पठनाहमेतत्, नान्यस्मिन् । यदनेकार्थः
"आह्निकं स्यात् पुनरहनिर्वत्र्ये नित्यकर्मणि ॥
भोजने ग्रन्थभागे च"[अनेकार्थसङ्ग्रहः २१८९॥] ।
ग्रन्थभागे इति ग्रन्थावयव इत्यर्थः ॥
अधिकरणं त्वेकन्यायोपपादनम् ॥२५५॥
३० १ अधिक्रियतेऽस्मिन्निति अधिकरणम् । 'करणा धिकरणयोश्च'३।३।११७॥ इत्यधिकरणे ल्युट् । एकं न्यायमुप पादयति एकन्यायोपपादनम् । नन्द्यादित्वात् ल्युः। एकम धिकारस्य ॥२५५॥
उक्तानुक्तदुरुक्तार्थाचन्ताकार तु वात्तिकम् ।।
१ उक्तानामनुक्तानां दुरुक्तानां चार्थानां चिन्तां ज्ञानं करोतीत्येवंशीलं उक्तानुक्तदुरुक्तार्थचिन्ताकारि । 'सुष्यजातौ-' ३।२७८॥ इति ताच्छील्ये णिनिः । एवंविधं यच्छास्त्रं तन्नामैकं वार्तिकम् इति । वृत्तिः प्रयोजनमस्य । 'तदस्य प्रयोजनम्' ५।१।१०९॥ इति ठक् ॥
टीका निरन्तरव्याख्या
४० १ टीकयति प्रापयत्यर्थमिति टीका । 'टीकृ गतौ' (भ्वा.आ.से.), पचाद्यच्, अजादित्वाट्टाप् । सुगमानां दुर्गमानां चार्थानां निरन्तरमन्तराभावेन व्याख्या यस्यां सा, एतादृशो यो ग्रन्थस्तन्नामैकम् ॥
पञ्जिका पदभञ्जिका ॥२५६॥
१ पञ्च्यन्ते व्यक्तीक्रियन्ते पदार्था अनयेति पञ्जिका। 'पचि व्यक्तीकरणे'(भ्वा.आ.से.), 'धात्वर्थनिर्देशे ण्वुल्वाच्यः' (वा-३।३।१०८॥), 'युवोरनाकौ'७।१।१॥, पृषोदरादित्वात् जत्वम् । अर्थाद् विषमाण्येव पदानि भनक्ति पदभञ्जिका । 'भञ्जू(भञ्जो) आमर्दने', 'ण्वुल्तृचौ'३।१।१३३ ॥ इति ण्वल् ।
५० एवंविधग्रन्थस्य नामैकं पञ्जिकेति ॥२५६॥
निबन्धवृत्ती अन्वर्थे
१ निबद्ध्यते विशेषोऽस्मिन् निबन्धः। 'बन्ध बन्धने' (त्र्या.प.अ.), अधिकरणे घञ् । २ वर्ततेऽर्थावगमोऽत्रेति वृत्तिः। 'वृतु वर्तने'(भ्वा.आ.से.), 'स्त्रियां क्तिन्'३।३।१४।। निबन्ध इति शास्त्रविशेषनाम, वृत्तिरित्यपि शास्त्रविशेषनाम । निबन्धश्च वृत्तिश्च निबन्धवृत्ती । कीदृशौ एते ?, अन्वर्थे, अनुगतो मिलितोऽर्थोऽनयोरिति । अन्वर्थे एतौ द्वावपि शास्त्र विशेषवाचकौ शब्दौ भिन्नौ । यन्माघ:
"अनुत्सूत्रपदन्यासा सद्वृत्तिः 'सन्निबन्धना ।
६० शब्दाविद्येवं नो भाति राजनीतिरपस्पशा ॥१॥"
[शिशुपालवधम् २।११२॥]इति । अत्र हि शब्दविद्याया विशेषणे निबन्धनशब्दो निबन्धस्य पर्यायत्वेन प्रोक्त इति । "द्वेऽपि भिन्ने शास्त्रे ज्ञेये निबन्धनं भाष्यम्''[ ]इति केचित् ॥
१. 'विस्तारवचने' इति स्वामिसायणौ ॥ २. '-क्तिः' इति१.३, '-क्तः' इतिर ॥ ३. सर्वादशेष्विदं सूत्रं दृश्यते, ४प्रतौ 'भावे क्तः इति पाठो युक्तः' इत्युट्टङ्किता एका टिप्पणी दृश्यते ॥ ४. '-रहन्नि-' इति४॥ ५. '-भागो' इति२॥ ६. 'चिन्ता' इति१.३॥ ७. 'व्याख्यां' इति१.४॥ ८. 'पच्यन्ते' इति३.४॥ ९. 'अन्वर्थो' इति ॥ १०. 'सद्वन्धना' इति३॥ ११. '-विद्यैव' इति१.२.३ ॥
सङ्ग्रहस्तु समाहतिः ।
१ सङ्गृह्यते वाच्यविशेषोऽनेन सङ्ग्रहः । ‘ग्रह वृदृ-'३।३।५८॥ इत्यप् । २ समाह्रियन्तेऽर्थविशेषा अनया समाहृतिः । 'हृञ् हरणे'(भ्वा.उ.अ.), 'स्त्रियां क्तिन्' ३३१४॥ । द्वे सङ्ग्रहस्य ॥
परिशिष्टपद्धत्यादीन् पथाऽनेन समुन्नयेत् ॥२५७॥
१ परिशिष्यत इति परिशिष्टम् । 'शिष्ल विशेषणे' (रु.प.अ.), 'निष्ठा'३।२।१०२॥ । २ अनवच्छिन्नक्रमत्वात्
पद्धतिरिव पद्धतिः । आदिग्रहणाद् उच्छ्वासाङ्कसर्गादयो
१० गृहयन्ते। अनेन पथा अनेन मार्गेणाऽन्वर्थमार्गेणैव। परिशिष्टश्च पद्धतिश्च परिशिष्टपद्धती, ते आदी येषां ते, तथा, तान्, समुन्नयेद् जानीयात् । परिशिष्टादयो ग्रन्थावयवविशेषा ज्ञेया इत्यर्थः ॥२५७॥
कारिका तु स्वल्पवृत्तौ बहोरर्थस्य सूचनी ।
१ पदार्थान् गम्यान् करोति कारिका । ‘ण्वुल्तृचौ' ३।१।१३३॥, 'प्रत्ययस्थात्-'७।३।४४॥ इतीत्वम् । स्वल्पा चासौ वृत्तिश्च स्वल्पवृत्तिः, तत्र । कीदृशी कारिका ?, बहोरर्थस्य सूचनी । सूचयती सूचनी । 'सूचे पैशुन्ये' (चु.उ.से.), नन्द्यादि
त्वात् ल्युः । “कारिका विवृत्तिः शोकैः (विवृतिश्के)"[विश्व
२० लोचनकोशः, कान्तवर्गः, शो-५४]इति तु श्रीधरः । लघुवृत्ति नामैकं कारिकेति ॥
कलिन्दिका सर्वविद्या
१ कलिन्दी भाजनविशेषः, तत्प्रतिकृतिः कलिन्दिका। 'इवे प्रतिकृतौ' ५।३।९६॥ इति कः । डलयोरैक्ये कडिन्दिका अपि । सर्वा आन्वीक्षिक्याद्या विद्या अस्यां सर्वविद्या । सर्वविद्यानामैकं कलिन्दिका ॥
निघण्टुर्नामसङ्ग्रहः॥२५८॥
१ नितरां घण्ट्यन्ते एकत्र भाष्यन्ते शब्दा अनेन निघण्टुः । ‘घटि चेष्टायाम्'(भ्वा.आ.से.), बाहुलकात् 'भृमृ
शीतृचरि-'(उणा-७)इत्यादिना उः । पुंस्ययम्, यद् वैजयन्ती-
३० "नामशास्त्रे निघण्टुर्ना]"[वैजयन्तीकोषः ३६।३१॥]। क्लीबेऽयम् । यद्व्याडि:
"अर्थान् निघण्टयत्यस्मान्निघण्टुः परिकीर्तितः ॥
पुनपुंसकयोः स स्यात्'[*]इति ।
अकारान्तोऽप्ययं रामवत् । यच्चामुण्ड:-"इति वर्णनिघण्टोऽयं बीजानां वच्मि किञ्चन"[ ]इति । २ नाम्नां सङ्ग्रहो नाम सङ्ग्रहः । द्वे नाम कोषस्य। 'नाममाला नाम' इति भाषा ॥२५८॥
इतिहासः पुरावृत्तम्
इतिहशब्द: पारम्पर्योपदेशेऽव्ययम् । इतिह आस्तेऽत्रेति। 'आस उपवेशने'(अ.आ.से.), 'हलश्च' ३।३।१२१॥ इति घनि,
४० इतिहासः । यद्वा इति एवमर्थे, ह किलार्थे, इतिह आसीदति। 'असु भुवि'(अ.प.से.), पचाद्यच् । २ पुरावृत्तोपनिबन्धन प्रायत्वात् पुरावृत्तम् । "पुरावृत्तं पूर्वचरितम्"[अम.क्षीर. १।५।४॥]इति तु स्वामी । द्वे नामनी" पूर्ववृत्तप्रतिपादकस्य व्यासादिप्रणीतग्रन्थस्य ॥
प्रवहिका प्रहेलिका ।
१ प्रवल्हते प्राधान्यं भजति प्रवह्निका । 'वर्ह वल्ह परिभाषणहिंसादानेषु '(भ्वा.आ.से.), ण्वुल् । २ प्रहेल यत्यभिप्रायं सूचयति प्रहेलिका । 'हिल हावकरणे'(तु.प.से.), ण्वुल्, 'युवोरनाकौ'७।१।१॥, 'प्रत्ययस्थात्-'७।३।४४॥
५० इतीत्वम् । प्रवल्हतेः 'सर्वधातुभ्य इन्'(उणा-५५७)इतीन्, ततः 'कृदिकारात्-'(गणसू-४।११४५ ॥ इति डीष्, 'प्रवल्ही' इत्यपि। ___ "प्रहेलिका प्रवल्ही च प्रश्रदूती विपादिका"["]इत्युत्पलिनी।
१. '-शिष्टाश्च' इति१ ॥ २. 'सूचि' इति१.२.३॥ ३. ३नास्ति ॥ ४. 'कारिकोत्यादि' इति२॥ ५. "सर्वविद्या कदनिका''[३६॥३१॥इति वैजयन्ती, पृ.६१ ।। ६. '-कृता' इति१.२॥ ७. 'भृस्तृशी-' इतिर ।। ८. द्र. स्वोपज्ञटीका २।२५८ ॥, पृ.६२ ॥ ९. "पारम्पर्योपदेशे स्यादैतिह्यमितिहाव्ययम्" इत्यमरः, अमरकोशः२।७।१२॥, "इतिह स्यात् सम्प्रदाये" इति हैमः, अभि.चिन्ता. भू-१५३७॥ १०. 'पुरोवृ-' इति१ ॥ ११. 'नाम्नी' इति३॥ १२. स्वामी 'वर्ह इत्येव पठति, सायणो द्वौ ॥ १३. '-भावकरणे' इति सायणः ॥ १४. द्र. रामाश्रमी १।६।६॥, पृ.८४॥
एवं हिलेरिनि प्रहेली च । सा प्रहेलिका शाब्दी आर्थी च, शाब्दी यथा
“पयस्विनीनां धेनूनां बाह्मणः प्राप्य विशंतिम् ।
ताभ्योऽष्टादश विक्रीय गृहीत्वैकां गृहं गतः ॥१॥"
[] । आर्थी यथा -
"जई सासुआइ भणिया पियवासघरंमि दीवयं देसु । ___
ता कीस मुद्धडमुही हिययंमि निवेसए दिठिं॥२॥"
[] । द्वे हियालीति ख्यातायाः ॥
जनश्रुतिः किंवदन्ती
१० १ जनेभ्यः श्रुतिः जनश्रुतिः । जनेभ्यः श्रूयते इति वा। २ किं वदति जनोऽत्रेति किंवदन्ती । 'वद व्यक्तायां वाचि'(भ्वा.प.से.), 'भूदृवहिवासिवदि-'(उणा-४०८)इत्यादिना झच्, 'झोऽन्तः'७।१।३॥, गौरादित्वाद् ङीष् “भुवो झन् (झि)'(उणा-३३०)बाहुलकाद् वदेश्च, ततः किंवदन्तिः"[ ] इति हट्टचन्द्रो हुस्वान्तमाह। यद्वा उद्यते कथ्यते सा वदन्तिः कथा 'वद्यवि-'(हैमोणा-६६५)इत्यन्तिप्रत्ययः, कुत्सिता वदन्तिः किंवदन्ती, 'कृदिकारात्-'(गणसू-४।१।४५॥)इति डीए । द्वे सत्यानृतसाधारणलोकवार्तायाः ॥
वातैतिचं पुरातनी ॥२५९॥
१ पुरातनी वार्ता 'ऐतिह्यम्' उच्यते । 'इतिह' इति
२० निपातसमुदाय उपदेशपारम्पर्ये वर्तते । इतिहेत्येव ऐतिह्यम्, भेषजादित्वात् ट्यण। एकं पुरातनवार्तायाः ॥२५९॥
वार्ता प्रवृत्तिर्वृत्तान्त उदन्तः
१ वृत्तिर्लोकवृत्तं विद्यतेऽस्यां वार्ता। 'प्रज्ञाश्रद्धार्चा वृत्तिभ्योः ण:५२१०१॥ । २ प्रवर्तते जनोऽनया प्रवृत्तिः। 'वृतु वर्तने '(भ्वा.आ.से.), 'स्त्रियां क्तिन्'३।३।९४॥ । यद्वा प्रमाणेन वर्तनं प्रवृत्तिः । ३ वृत्तस्य चरितस्यान्तोऽत्र वृत्तान्तः। ४ उद्यतेऽसौ उदन्तः। 'वद व्यक्तायां वाचि'(भ्वा.प.से.), 'सीमन्तहेमन्त-'(हैमोणा-२२२)इत्यादिना साधु । उदत्यर्थ
मन्तोऽस्येति वा। पञ्चमस्वरादिः । चत्वारि सामान्यतो वार्तायाः॥
३०
१. अष्टौ शोकान् कुरुष्वेति पुत्रः पित्रा नियन्त्रितः । सप्त शोकाः कृतास्तेन पितुराज्ञा न लविता ॥ अत्र अष्टिरिति वृत्तनाम, अन्यथा शोका सङ्गतिः ॥ तरुण्यालिङ्गितः कण्ठे नितम्बस्थलमाश्रितः । गुरूणां सन्निधानेऽपि क: कूजति मुहुर्मुहुः॥ अत्र 'पानीयकुम्भः' इत्यर्थे शोकसङ्गतिः ॥
वृक्षाग्रवासी न च पक्षिराजस्त्रिनेत्रधारी न च शूलपाणिः ।
त्वग्वस्त्रधारी न च सिद्धयोगी जलं बिभ्रन्न घटो न मेघः ॥ अत्र नालिकेरफलमित्यर्थे शोकसङ्गतिः ।
सर्वस्वापहरो न तस्करगणो रक्षो न रक्ताशनः, सर्पो नैव बिलेशयोऽखिलनिशाचारी न भूतोऽपि च । अन्तर्धानपटुर्न सिद्धपुरुषो नाप्याशुगो मारुत
स्तीक्ष्णास्यो न च सायकस्तमिह ये जानन्ति ते पण्डितः ॥ अत्र 'मत्कुण' इत्यर्थस्वीकारे शोकसङ्गतिः ।
पानीयं पातुमिच्छामि त्वत्तः कमललोचने ।
यदि दास्यसि नेच्छामि नो दास्यसि पिबाम्यहम् ॥ अत्र दास्यसि दातुमिच्छसि इति व्यक्तोऽर्थः, दास्यसि-दासी-असि इति गूढोऽर्थः, अथ च गूढाऽर्थस्वीकारे शोकसङ्गतिः।
राघवस्य शरैघोरै|ररावणमाहवे ।
अत्र क्रियापदं ज्ञातुं मर्यादा दश वार्षिकी ॥ अत्र 'राघव' इति सम्बोधने, 'स्य' इत्यस्य च 'षोऽन्तकर्मणि' इति धातोर्लोट्लकारस्य (आज्ञार्थस्य) मध्यमपुरुषैकवचनस्वीकारे सङ्गतिः।
बिम्बाकारं सुधाकारं कान्तावदनपङ्कजम् । . अत्र क्रियापदं ज्ञातुं मर्यादा दश वार्षिकी ॥ अत्र 'दश' इत्यस्य 'चुम्ब' इत्यर्थे तथा 'मर्यादा (एका) वार्षिकी' इत्यर्थे शोकसङ्गतिः ॥ एवमन्यत्रापि ज्ञेयम् ॥ २. एकोनानां धेनूनां पयस्विनीनामित्यर्थे शोकसङ्गतिः ॥ ३. द्र. स्वोपज्ञटीका २।२५९ ॥, पृ.६२ ॥ ४. "यदि श्वश्र्वा भणिता प्रियवासगृहे दीपकं देहि । ततः कस्माद् मुग्धमुखि! हृदये निवेशयेः दृष्टिम् ॥" इति संस्कृतच्छाया॥ ५. 'तृभूवहिवसिभासिसाधिगडिमण्डिजिनन्दिभ्यश्च' इत्युणादिगणसूत्रम्, मुद्रितोणादिसूत्रे वदधातोरुल्लेखो न दृश्यते ॥ ६. 'वुक्' इति१॥ ७. 'उत्पद्यते' इति१.२॥ ८. '-लोपोवार्ता-' इति १;-लोकावार्ता-' इतिर ।। ९. तुलनीयोऽमरकोषः १६७॥ १०. 'चारि-' इति१ ॥
अथाऽऽह्वयोऽभिधा । गोत्रसंज्ञानामधेयाऽऽख्या
___ऽऽहाऽभिख्याश्च नाम च ॥२६०॥
१ आहूयतेऽनेनेति आह्वयः । 'ह्वेञ् स्पर्धायां शब्दे च' (भ्वा.उ.अ.), 'पुंसि संज्ञायाम्'३।३।११८ ॥ इति घ:, बाहुलकाद् 'आदेच उपदेशे-'६।१।४५ ॥ इत्यात्वाभावः, ‘एचोऽयवायावः' ६।१७८ ॥ । स्वामी तु बाहुलकात् शप्रत्ययमाह, तदा 'आदेच उपदेशेऽशिति' ६।१।४५ ।। इति निषेधादात्वं न । २ अभिधीयतेऽ नया अभिधा । अभिपूर्वाद् दधाते: 'आतश्चोपसर्गे'३।३।१०६॥
१० इति सूत्रेणाङ् । ३ गूयते शब्दयतेऽनेन गोत्रम् । 'गुङ् अव्यक्त शब्दे'(भ्वा.आ.अ.), 'गुधृवीपचिवचियमिमनितनिसदिक्षदिभ्य स्त्रन'(उणा-६०६)इति त्रन् । ४ संज्ञायतेऽनया संज्ञा । सम्पूर्वाजा नाते: 'आतश्चोपसर्गे' ३३।१०६।। इत्यङ् । ५ नाम एव नामधेयम्। 'नामरूपभाग-'(वा-५।४।३६॥)इति धेयः । ६ आख्यायतेऽ नया आख्या । [आपूर्वः] 'ख्या प्रकथने '(अ.प.अ.), 'आतश्चोपसर्गे' ३।३।१०६ ॥ इत्यङ् । [यद्वा] 'चक्षि व्यक्तायां वाचि'(अ.आ.से.), आयूर्वः ‘चक्षिङ: ख्याञ्' २।४।५४॥ इति ख्यादेशः, 'आतश्चोपसर्गे' ३।३।१०६॥ इत्यङ् । (७ आहूयतेऽनया आह्वा) । ८ अभिख्यायतेऽनया अभिख्या, आख्यावत् । ९ नम
२० त्यनेन, नयत्यर्थमिति वा नाम, पुंक्ली. । 'णमु प्रह्वत्वे शब्दे च' (भ्वा.प.अ.), ‘णी प्रापणे'(भ्वा.प.अ.)इत्यस्य वा, ‘नामन् सामन्स्तोमन्होमन्रोमम्लोमन्व्योमन्विधर्मन्पाप्मन्व्येमन' (उणा ५९०)इति सााधु । नामनी, नामानि इत्यादि । नव नाम्नः ॥२६०॥ सम्बोधनमामन्त्रणम्
१ सम्बोध्यतेऽनेन सम्बोधनम्। 'बुध अवगमने' (भ्वा.प.से.), 'बुध बोधने'(दि.आ.अ.) अस्माद्वा ‘करणाधि करणयोः- '३।३।११७॥ इति करणे ल्युट् । २ आमन्त्र्यतेऽनेन आमन्त्रणम् । 'मत्रि गुप्तभाषणे '(चु.आ.से.), 'करणाधि करणयो:- '३।३।११७ ॥ इति करणे ल्युट् । द्वे आमन्त्रणस्य॥
आह्वानं त्वभिमन्त्रणम् ।
३० आकारणं हवो हूँतिः
१ आहूयतेऽनेन आह्वानम् । 'ह्वेञ् स्पर्धायां शब्दे च' (भ्वा.उ.अ.) । २ अभिमन्त्र्यत इति अभिमन्त्रणम् । मत्रि [गुप्त] भाषणे'(चु.आ.से.), उभयत्र ल्युट् । ३ आकार्यत इति आकारणम्। ‘ण्यासश्रन्थ-'३।१।२६॥इति युच् । आकारयति राह्वाने वर्तते । तथा च माघ:-"अहिंकारयितुं महीभुजा''["]इति । ४हवनंहवः। हु दानादनयो: '(जु.प.अ.), 'ऋदोरप्'३।३।५७ ॥ ५ ह्वानं हूतिः । ह्वेञ्स्पर्धायां शब्दे च'(भ्वा.उ.अ.), स्त्रियां क्तिनि, 'ग्रहिज्या-'६।१।१६ ॥ इति सम्प्रसारणम्, 'हलः'६।४।२॥ इति दीर्घः । पञ्च आकारणस्य । तेडवू, निहुंतर, इत्यादि भाषा।
४० [शेषश्चात्र-"हूतौ हक्कारकाऽऽकारौ''[शेषनाममाला२।८३]] ॥
संहूतिर्बहुभिः कृतः ॥२६१॥
१ संभूय संयुज्य ह्वानं संहूतिः, बहुभिः प्रचुरैः संभूय या हूतिः, तस्या एकम् ॥ २६१॥
उदाहार उपोद्घात उपन्यासश्च वाङ्मुखम् ।
१ उद्धृत्याहियते उदाहारः । 'हृञ् हरणे'(भ्वा.उ.अ.), भावे घञ्। २ उप समीपे उद्धृत्य हन्यते उपोद्घातः। 'हन्(हन) हिंसागत्यो:'(अ.प.अ.), भावे' ३।३।१८ ॥ इति घञ्, 'हनस्तोऽ चिण्णलो: '७।३।३२॥ इति तोन्तादेशः, 'अत उपधाया: '७।२।११६।।। यदाहु:-“चिन्तां प्रकृतसिद्धयर्थामुपोद्घातं प्रचक्षते"[ ]इति। ३
५० उपन्यस्यत इति उपन्यास: । उपनिपूर्व: ‘असु क्षेपणे'(दि.प.से.), भावे घञ् । ४ वाचो मुखं प्रारम्भः वाङ्मुखम्। “मुखमुपाये प्रारम्भे''[अनेकार्थसंग्रहः २।२४॥] इत्यनेकार्थः । “चत्वारि वाक्य-प्रारम्भस्य''[ ]इति कश्चित् परम्, तन्न सङ्गच्छते, आद्यनामद्वयं प्रकृतोपपादकस्य दृष्टान्तादे:, अन्त्यद्वयं तु वचनोपक्रमस्य सर्वत्र तथैव दर्शनात् ॥ व्यवहारो विवादः स्यात्
१ व्यवहरणं व्यवहारः। व्यवपूर्वाद् हरते वे घञ्।
१. स्वामिकृतटीकायां तु 'घः' इति दृश्यते ॥ २. 'गुधुवी-' इति१.३.४॥ ३. '-क्षुदि-' इति४॥ ४. 'गुधृवीपचिवचियमिसदिक्षदिभ्यस्त्रः' इत्युणादिगणे॥ ५. ---भागभ्यो धेयः' इति३, 'भागरूपनामभ्यो धेयः' इति वार्तिकस्वरूपं दृश्यते ॥ ६. कोष्ठान्तर्गतपाठः १.२.४ न दृश्यते ॥ ७. ३प्रतौ नास्ति ॥ ८. 'नामन्सीमन्व्योमनोमन्लोमन्पाप्मन्धामन्' इत्युणादिगणसूत्रम् ॥ ९. 'भाषणे' इति१.२.४ ॥ १०. द्र. टीकासर्वस्वम्, भा-१, १।६।८॥, पृ.१२१ ॥, तत्र
"प्रहित: प्रधनाय माधवानहमाकारयितुं महीभुजा" इति दृश्यते ॥ ११. तुलनीयोऽमरकोषः १६८॥ १२. 'वाक्प्रार-' इति३॥
पारस
"वि नानाऽर्थेऽव सन्देहे हरणं हार उच्यते ।
नाना सन्देहहरणाद् व्यवहारः प्रकीर्तितः ॥१॥" [ ]इति । २ वदनं वादः, विरुद्धो वादो विवादः। द्वे विवादस्य । ‘झगडा' इति भाषा ॥
शपथः शपनं शपः ॥२६२॥
१ शपन्ति तेन, शपनं वा शपथः । 'शप आक्रोशे' (दि.उ.अ.), 'शीशपिरुगमिवन्दिजीविप्राणिभ्योऽथ: '(उणा
३९३)इत्यथप्रत्ययः । २ शप्यत इति शपनं । 'ल्युट च'३।३।११५॥
१० इति ल्युट् । ३ शप्यतेऽनेन शप: । 'पुंसि संज्ञायां घः'३।३।११८ ॥ इति घ: । त्रीणि शपथस्य । 'सम' इति भाषा ॥२६२॥
उत्तरं तु प्रतिवचः
१ उत्तरन्त्यनेन, अस्माद्वा उत्तरम् । ‘ता प्लवन तरणयो: '(भ्वा.प.से.), 'ऋदोरप्'३ ।३।५७ ॥ इत्यप, बाहुलकात् क्लीबत्वम् । २ प्रतीपं वचः प्रतिवचः। 'कुगतिप्रादयः' २।२।१८॥ इति समासः । द्वे उत्तरस्य। 'उतर' इति भाषा॥
प्रश्रः पृच्छाऽनुयोजनम् । कथंकथिकता च
१ प्रच्छनं प्रश्नः। 'प्रच्छ जीप्सायाम्'(तु.प.अ.),
२० 'यजयाचयतविच्छप्रच्छरक्षिभ्यो नङ्'३।३।९० ॥ इति भावे नङ्, 'च्छ्वोः शूडनुनासिके च'६।४।१९ ॥ इति छकारस्य शः, 'प्रश्ने चासन्नकालयौं : '३।२।११७॥ इति निर्देशाद् ‘ग्रहिज्या-६।१।१६ ॥ इत्यादिना न सम्प्रसारणम् । २ प्रच्छनं पृच्छा । 'प्रच्छ ज्ञीप्सायाम्'(तु.प.अ.), 'षिद्भिदादिभ्योऽ३।३।१०४॥ इत्यङ् भिदादिपाठात् ।३[ अनुयुज्यते] अनुयोजनम्अनुयोगः। 'युजिर् योगे' (रु.प.अ.),भावे घञ्, 'चजोः कु घिण्ण्यतो: '७।३।५२ ।। इति गत्वम्। ४ कथं कथमिति जल्पोऽस्यामिति कथंकथि कता। 'मयूरव्यंसकादयः-'२।१।७२ ॥ इति सूत्रेण समासे निपातनात् टाप्प्रत्ययलोपे तागमे टाप्प्रत्यये साधु। षडक्षरो
३० ऽयमखण्ड: गङ्गावत् । चत्वारि प्रश्नस्य ॥
अथ देवप्रश्न: उपद्रुतिः ॥२६३॥
१ देवेभ्यः प्रश्नः देवप्रश्नः । २ उप समीपे श्रूयत इति उपश्रुतिः । श्रु श्रवणे'(भ्वा.प.अ.), 'स्त्रियां क्तिन्' ३।३।९४।। द्वे देवप्रश्नस्य । आसोईशकुन' इति भाषा ॥२६३॥
चाट चटु प्रियप्रायम्
१-२ चटति चटु, चाटु । 'चट भेदने'(चु.उ.से.), 'दृ(दृ)सनिजनिचटिरहिभ्य उण' (उणा-३)इत्युण, स च णिद्वा, णित्पक्षे वृद्धिः । “चटु इति बाहुलकाद् उ:"[ ]इति माधवः । ३ प्रियं प्रायेण बाहुल्येनात्र प्रियप्रायम्। त्रीणि प्रियवचनस्य ॥
प्रियसत्यं तु सूनृतम् ।
४० १ ‘इन्द्रो भवान्' इति प्रियं परं न सत्यम्, ‘काणो भवान्' इति सत्यम्, न प्रियम्, यद्वचः प्रियं सत्यं च तत् सूनृतम् इति प्रोच्यते। सुष्टु नृत्यति सज्जनमनोऽनेन सूनृतम्। 'नृती गात्रविक्षेपे'(दि.प.से.), 'मूलविभुजादेश्च'(वा-३।२।५॥) इति कः, 'अन्येषामपि दृश्यते'६।३।१३७॥ इति सु इत्यस्य दीर्घत्वम्। “सुष्ठु ऋतं सूनृतम्, पृषोदरादिः''[ ]इत्यन्ये। “अपि ते सखि ! वल्लभः असूनृतं दधदपि सूनृतभाषी'["]इति वासवदत्ता विरुद्धालङ्कारदन्त्यश्रूषाद् असून् प्राणान् ऋतं सत्यं दधदपीत्यर्थः। प्रियं सत्यं च यद्वचनम्', तस्यैकम् ॥
सत्यं सम्यक् समीचीनमतं तथ्यं यथातथम् ॥२६४॥
५० यथास्थितं च सद्भते
१ सति साधु, सद्भ्यो हितं वा सत्यम् । दिगादित्वाद् यत् । २ अर्थेन सह समञ्चति सङ्गच्छते सम्यक् । 'अञ्च गतिपूजनयो:'(भ्वा.प.से.), 'ऋत्विक्-'३।२।५९॥ आदिना क्विन्, 'समः समि'६।३।९३ ॥ इति सम्यादेशः। सम्यञ्ची, सम्यञ्चि इत्यादि क्लीबे। पुंसि तु सम्यङ् , सम्यञ्चौ, सम्यञ्चः इत्यादि। शसाद्यचि 'अच:'६।४।१३८॥ इत्यकारलोपे, 'चौ' ६।३।१३८॥ इति दीर्घत्वे समीचः इत्यादि। स्त्रियां 'अञ्चतेश्चोप संख्यानम्'( )इति डीपि समीची। ३ सम्यगेव समीचीनम्। 'विभाषाञ्चेरदिस्त्रियाम्'५।४।८॥ इति खः, 'आयनेयी-'
६० ७।१।२॥ इति खस्य ईनादेशः । ४ इयर्ति गच्छति जनमन:
१. द्र. टीकासर्वस्वम्, भा-१, १।६।९॥, पृ.१२२॥, रामाश्रमी १६।९॥, पृ.८५ ॥ २. '-वञ्चि-' इत्युणादिगणे ॥ ३. 'प्रच्छ जीप्सायां प्रच्छनं प्रश्नः' इति३॥ ४. '-रक्षो नङ् इत्यष्टाध्याय्याम् ॥ ५. '-काले' इत्यष्टाध्याय्याम् ॥ ६. 'असो-' इति४॥ ७. '-चरिचटिभ्यो जुण' इत्युणादिगणे॥ ८. मा.धातुवृत्तौ न दृश्यते ॥ ९. 'दधति' इति१ ॥ १०. द्र. टीकासर्वस्वम्, भा-१, १६ १९ ॥, पृ.१२८ ॥ ११. 'यद्वचः' इति१ ॥ १२. 'यः' इति३ ॥ १३. 'डोषि' इति३ ॥
प्रत्ययमत्रेति ऋतम् । 'ऋ गतौ '(जु.प.अ.), वर्तमाने क्तः । ५ तथाशब्दोऽयमृतपर्यायः, तत्र साधु तथ्यम् । 'तत्र साधु[:]' ४।४।१८॥ इति सूत्रेण यत्। ६ यथावत् तथाऽत्र यथातथम्। ॥२६४॥ ७ यथावत् स्थितमत्र यथास्थितम् । ८ सच्च तद्भूतं च सद्भूतम् , तत्र । अष्ट सत्यवचसः ॥
अलीके तु वितथानृते ।
१ अलति वारयति सद्गतिमिति अलीकम् । अलं' (-ल)(-लाँ)(-लब्) भूषणपर्याप्तिवारणेषु'(अ.प.से.), अली
कादयश्च'(उणा-४६५)इति ईक्(कीकन्)प्रत्यये साधुः, तत्र । २
१० विगतं तथा सत्यमत्रेति वितथम्। ३ न ऋतम् अनृतम्। यौगिकत्वाद् न सत्यम् असत्यम्, सत्येतरद् इत्यादि । मृषा मिथ्या च अव्ययेषु [अभि-, श्रो-६।१५३४।। त्रीणि असत्यवचसः ॥
अथ क्लिष्टं सङ्कलं च परस्परपराहतम् ॥२६५॥
१ क्लिश्यते क्लिष्टम्। 'क्लिश उपतापे'(दि.आ.से.), 'क्लिशू विबाधने '(त्र्या.प.वे.) वा, वर्तमाने क्तः, 'यस्य विभाषा'७।२।१५॥ इतीडभावः। २ सङ्कोलति सङ्कलम् । 'कुल संस्त्याने'(भ्वा.प.से.), 'इगुपधज्ञा'३।१।१३५॥ इति कः । "फलिसङ्कलतालगुहम्"[ ]इत्यादिभट्टिभाषासमावेशः । पर स्परपराहतम् अन्योऽन्यविरुद्धवचनम् । यथा
२० "अन्धो मणिमुपाविध्यत् तमनङ्गुलिरावयत् ।
तमग्रीवः प्रत्यमुञ्चत् तमजिह्वोऽभ्यपूजयत् ॥१॥"
[] । द्वे 'अणमिलतुं वचन' इति भाषायाः ॥२६५॥
सान्त्वं सुमधुरम्
- १ सान्त्वयति सान्त्वम्। 'सान्त्व सामप्रयोगे' (चु.प.से.), चुरादिः, परस्मैपदी, पचाद्यच् । सुष्टु मधुरम्, सुतरामतिशयेन वा मधुरं सुमधुरम्। एकमत्यन्तमधुरवचसः॥
ग्राम्यमशीलम्
१ ग्रसति बुद्ध्यादिगुणानिति ग्रामः, तत्र भवं ग्राम्यम्। 'ग्रामाद्यखजी शेषे"४।२।९४॥ इति यः। २ न श्रियं लाति
अश्लीलम् । 'ला दाने'(अ.प.अ.), 'आतोऽनुपसर्गे कः'
३० ३।२।३॥, कपिलिकादित्वाल्लत्वम् । न श्रीरस्यास्तीति वा सिध्मादित्वालः, 'कपिलिकादीनामुपसंख्यानम्'(वा-८।२।१८॥) इति श्रीशब्दस्य रस्य लत्वम्, तत्तु अव्रीडाजुगुप्साऽमङ्गल- . व्यञ्जकत्वेन त्रेधा । अलङ्कारशास्त्रकृती तु ग्राम्यमशीलं च पृथगेव । द्वे ग्राम्यवचनस्य । 'गमारवचन' इति भाषा ॥
म्लिष्टमस्फुटम् ।
१ म्लेच्छति स्म म्लिष्टम्। 'म्लेच्छ अव्यक्ते शब्दे' (भ्वा.प.से.), 'निष्ठा'३।२।१०२॥ इति क्तः, 'क्षुब्धस्वान्त ध्वान्तलग्नम्लिष्टविरिब्ध-७।२।१८॥ इत्यादिना साधुत्वम्। न स्फुटमस्फुटम्, अप्रकटवर्णमित्यर्थः। एकमप्रकटाक्षरवचनस्य॥
४० लुप्तवर्णपदं ग्रस्त
१ लुप्ता वर्णाः पदानि च यत्र तद् लुप्तवर्णपदम्। अशक्त्या लुप्तवर्णपदं यद्वचोऽसम्पूर्णमिति यावत्, तद् ग्रस्तम्। "लुप्तोच्चारितः वर्णः पदं वा यत्र तद्वाक्यं ग्रस्तम्"[ ]इति तु कौमुदी। ग्रस्यते स्म ग्रस्तम्। 'ग्रसु अदने'(भ्वा.आ.से.), 'निष्ठा'३।२।१०२॥ इति क्तः । अयमत्राशयः अनुच्चारिताक्षर पदवचननामैकं ग्रस्तम्, कीदृग् ग्रस्तम् ? लुप्ता उच्चरत एव लोपं प्राप्ता वर्णा अक्षराणि पदानि चात्र लुप्तवर्णपदम्, असम्पूर्णोच्चारितमित्यर्थः॥
__अवाच्यं स्यादनक्षरम् ॥२६६॥
५० १ न वाच्यम् अवाच्यम् । ‘वच परिभाषणे’(अ. प.अ.), ‘ऋहलोर्ण्यत् ‘३।१।१२४॥ इति ण्यत्, ‘वचोऽशब्द संज्ञायाम्’७।३।६७॥ इति न कुत्वम् । २ निन्दितान्यक्षराणि यत्र, तद् अनक्षरम् । निपातानामनेकार्थत्वाद् नञोऽत्र निन्दार्थता । द्वे अवाच्यवचनस्य ॥२६६॥
अम्बूकृतं सथूत्कारम्
१. 'अलयति' इति३॥ २. '-गतमि-' इति१॥ ३. " 'अल' इति सायणादयः । क्षीरस्वामिमते तु आदित्वे 'आदितश्च'(७।२।१६॥)इतीनिषेधे 'अल्तः' । सायणादिमते 'अलितः' इति भेदः । काशकृत्स्नस्तु 'अलज्'(१।६८९, पृष्ठ.११४)इति पठति । तेन अलति अलते इत्युभयं भवति । लकारोत्तरवर्तिन उदात्ताकारस्येत्वात् इट् अलितः । एवमेव कातन्त्रधातुपाठेऽपि पठ्यते' इति क्षीरतरङ्गिणीटिप्पणी-७, पृ.८१॥ ४. 'क्लिश्यति' इतिर। ५. 'क्लिशु' इति१.४॥ ६. "कपिसङ्कलभीमगुहम् इत्यादिभट्टिभाषासमावेशः" इति टीकासर्वस्वे, भा-१, १।६।१९॥, पृ.१२८॥ ७. '-रासदत्' इति स्वोपज्ञटीकायाम्, २२६५॥, पृ.६४॥ ८. 'अस्तवत्' इति १टिप्पणी ॥ ९. द्र. स्वोपज्ञटीका २।२६५॥, पृ.६४॥, अमरक्षीरस्वामिटीका १।५।१९॥, पृ.४६॥ १०. अष्टाध्याय्यां नास्ति ॥ ११. तुलनीयोऽमरकोषः १।६।२०॥ १२. 'लोपप्राप्ता' इति४॥
१ निष्ठीवसम्पर्काद् अनम्बुनः अम्बुनः करणम् अम्बू कृतम् । 'च्चौ-'७।४।२६॥ इति दीर्घः । थूदिति करणं थूत्कारः, तेन सह वर्तमानं सथूत्कारम् । एकं थूत्कृतसहितवचसः ॥
निरस्तं त्वरयोदितम् ।
१ निरस्यते स्मेति निरस्तम्। निपूर्वाद् ‘असु क्षेपणे' (दि.प.से.)अस्मात् क्तः। त्वरया उदितं त्वरयोदितम् । एकं त्वरोक्तवचनस्य॥
आमेडितं द्विस्त्रिरुक्तम्
१ आनेड्यते स्म आमेडितम् । 'प्रेड म्लेई
१० उन्मादे'(भ्वा.प.से.), 'निष्ठा'३।२।१०२ ॥, 'आर्धधातुकस्य-' ७।२।३५॥ इतीट् । द्वौ वारौ, त्रीन् वारान् वा उक्तं द्विस्त्रि रुक्तम् । 'द्वित्रिचतुर्थ्यः सुच्' ५।४।१८॥ इति सुच् । एकं द्विवारत्रिवारोक्तवचनस्य ॥
अबद्धं तु निरर्थकम् ॥२६७॥
१ अनर्थकं समुदायार्थस्य वचनम् अबद्धम्। यथा "जरद्वः कम्बलपादुकाभ्यां द्वारि स्थितो गायति मङ्गलानि। तं ब्राह्मणी पृच्छति पुत्रकामा राजन्नुमायां लशुनस्य कोऽर्थ ? ॥१॥" इत्यत्र समुदायेन एकार्थो नास्ति । अबद्धं, 'बन्ध
बन्धने'(त्र्या.प.अ.), क्तः, 'अनिदिताम्- '६।४।२४॥ इति
२० न्लोपः, 'झषस्तथोः'८।२।४०॥ इति धत्वम्, नसमासः। निर्गतोऽर्थो यस्मात्, तद् निरर्थकम् । 'उरःप्रभृतिभ्यः कप्' ५।४।१५१॥ इति कप्समासान्तः । 'अबध्यम्' इति यकारो पधमपि । “अबध्यमवधाहे स्यादनर्थकवचस्यपि"[अनेकार्थ ३।४६९, मेदिनी, यान्तवर्गः, शो-७१]इति कोषदर्शनात् । एकं निरर्थकवचनस्य ॥२६॥
पृष्ठमांसादनं तद् यत् परोक्षे दोषकीर्तनम् ।
१ परोक्षेऽप्रत्यक्षे परदोषाणां कीर्तनं कथनं यत्, तत् पृष्ठमांसादनम् । पृष्ठमांसस्यादनमिव पृष्ठमांसादनम् । एकं
परोक्षे दोषकथनस्य ॥
३० मिथ्याऽभियोगोऽभ्याख्यानम्
१ शतं द्रव्यं मे धारयसीत्यादिरभियोगः, मिथ्या चासावभियोगश्च मिथ्याभियोगः, असत्याक्षेपः। अभ्याख्यायते अभ्याख्यानम्। अभिपूर्वः ‘ख्या प्रकथने'(अ.प.अ.), अस्माद् ल्युट। "अध्ययनत्वराभियोगः, स च दाम्भप्रयुक्तोऽभ्या ख्यानम्''[]इति सुभूतिवचनमनागमम्, वाक्यप्रक्रमनिबन्धात्। एकमसद्दोषारोपस्य ॥
सङ्गतं हृदयङ्गमम् ॥२६८॥
१ सङ्गच्छते स्म सङ्गतम्। सम्पूर्वः 'गम्लु गतौ' (भ्वा.प.अ.), कर्तरि क्तः, 'अनुदात्तोपदेश-६।४।३७॥ इति न्लोपः । २ हृदयं गच्छति हृदयङ्गमम् । 'गमश्च'३।२।४७॥
४० इति खच्, अरुर्द्विषत्-'६।३।६७॥ इति मुम् । द्वे मन: प्रियवचनस्य ॥२६८॥
परुषं निष्ठुरं रूक्षं विQष्टम्
१ पृणाति पूरयति परं कोपेनेति परुषम् । 'पृ पालनपूरणयोः (जु.प.से.), 'वृहिनिपृकलिवदित्रपिपूरिभ्य उपन्' (उणा-५१५)इत्युषन् । २ निशिते तीक्ष्णे तिष्ठति निष्ठुरम् । निपूर्वः 'ष्ठा गतिनिवृत्तौ'(अ.प.अ.), 'मद्गुरादयश्च'(उणा-४१) इति कुरच्, कित्त्वाद् 'आतो लोप इटि च'६।४।६४॥ इत्या लोपः, 'उपसर्गात् सुनोतिसुवतिस्यतिस्तोभति-'८३६५॥ इत्या दिना षत्वम् । ३ रूक्षयति रूक्षम् । 'रूक्ष वाक्पारुष्य (चु.-
५० उ.से.), अच्। ४ विक्रुश्यते विक्रुष्टम्। 'क्रुश आह्वाने रोदने च'(भ्वा.प.अ.), निष्ठा। निकृष्टमपि। चत्वारि कठिनवचनस्य ॥
अथ घोषणा।
उच्चैर्युष्टम्
१ घोषणं घोषणा। 'घुष स्तुतौ'( ), घुषेय॑न्ताद्, ‘ण्यासश्रन्थ-'३।३।१०७॥ इति युच् । २ उच्चैस्तारं यथा स्यात् तथा घोषणं उच्चैर्युष्टम् । 'घुष स्तुतौं'( ),भावे क्तः, 'घुषि रविशब्देन'७।२।२३॥ इतीडभावः । द्वे बहुजनज्ञापनार्थ मुद्घोषणस्य ॥
वर्णनेडा स्तवः स्तोत्रै स्तुतिर्नुतिः ॥२६९॥
६० श्रुघा प्रशंसार्थवादः
१ वर्णनं वर्णना । 'वर्ण वर्णक्रियागुणविस्तारेषु' (चु.उ.से.), ‘ण्यासश्रन्थ-'३।३।१०७॥ इति युच् । २ ईडनं
१. 'थूत्कारेण' इति ४प्रतेष्टिप्पणी ॥ २. '-वचसः' इति३॥ ३. तुलनीयोऽमरकोषः १।६।१३॥ ४. 'प्रेढ म्लेढ-' इतिर, 'प्रेड म्लेट-' इति स्वामी, 'ग्रेट ग्रेड म्लेट-' इति सायणः, वस्तुतः काशकृत्स्नसम्मतोऽयं धातुपाठः, द्र. क्षीरतरङ्गिणीटिप्पणी-२, पृ.५४॥ ५. '-स्येट्' इति२ ॥ ६. उणादिगणे तु 'पृनहिकलिभ्य उषच्' इति दृश्यते ॥ ७. 'पारुष्ये' इति क्षीरतरङ्गिण्यादौ ॥ ८. '-श्यति' इति२ ।। ९. क्षीरतरङ्गिण्यादौ 'घुषिर् विशब्दने' इति दृश्यते ॥
ईडा । 'ईड स्तुतौ'(अ.आ.से.), 'गुरोश्च हलः'३।३।१०३॥ इत्यङ्, टाप् । ३ स्तूयतेऽनेन स्तवः । 'ष्टुञ् स्तुतौ' (अ.उ.अ.), 'ऋदोरप्'३३५७॥ इत्यप् । ४ स्तूयतेऽनेन स्तोत्रम् । 'ष्टुत्र स्तुतौ '(अ.उ.अ.). 'दाम्नीशसु(शस) यु युजस्तु'३।२।१८२॥ इति ष्ट्रन् । ५ स्तूयतेऽनया स्तुतिः । 'अजिपिजिस्तुभ्यः करणे'(वा-३।२३।९४॥)इति क्तिन् । ६ नूयतेऽनया नुतिः । 'णु स्तुतौ'(अ.प.अ.), बाहुलकात् करणे क्तिन् ॥२६९॥ ७ शुधनं श्राधा। 'घु कत्थने'(भ्वा.आ.से.)। ८ प्रशंसनं प्रशंसा । 'शंस(शंसु) स्तुतौ'(भ्वा.प.से.),
१० "षिद्भिदादिभ्योऽ'३।३।१०४॥ । ९ अर्थस्य प्रशस्यवदनम् अर्थवादः । 'वद (वदि) अभिवादनस्तुत्यो:'(भ्वा.आ.से.), भावे घञ्। नव प्रशंसायाः ॥
___ सा तु मिथ्या विकथनम् ।
१ सा वर्णना मिथ्या असत्यार्था विकत्थनम् उच्यते। विरुद्धं कत्थनं विकत्थनम् । 'कत्थ घने '(भ्वा.आ.से.), 'ल्युट च'३।३।११५॥ इति ल्युट्। एकं मिथ्यास्तुतेः ॥
जनप्रवादः कौलीनं विगानं वचनीयता ॥२७०॥
१ जनस्य प्रतीपो वादः जनप्रवादः । २ कुलस्य इदं कौलीनम् । 'कुलात् खञ्'४।१।१३९॥ । ग्रन्थकृत्तु
२० "कुलस्य जल्पः"[स्वोपज्ञटीका २।२७०]इति व्युत्पत्तिमाह ।
३ विरुद्धं गीयत इति विगानम् । 'गै शब्दे'(भ्वा.प.अ.), ल्युट् । ४ वचनीयस्य भावो वचनीयता । चत्वारि लोका पवादस्य ॥२७०॥
स्यादवर्ण उपक्रोशो वादी निष्पर्यपात् परः।
गर्हणा धिक्क्रिया निन्दा कुत्सा क्षेपो जुगुप्सनम् ॥२७॥
१ वर्णः स्तुतिः, तद्विरुद्धः अवर्णः । विरुद्धार्थेऽत्र नम्। २ उपक्रोशनम् उपक्रोशः। 'क्रुश आह्वाने'(भ्वा.प.से.), भावे घञ् । ३-५ निरः परेरपाच्च उपसर्गात् परोऽग्रे वादः, तेन निर्वादः, परिवादः । 'उपसर्गस्य घञ्यमनुष्ये बहुलम्'
३० ६।३।१२२॥ इति विकल्पेन दीर्घत्वे परीवादोऽपि। अपवदनम् अपवादः । ६ गर्हणं गर्हणा । 'गर्ह गल्ह कुत्सायाम्' (भ्वा.आ.से.), ल्युट्। गर्होऽपि । ७ धिक्करणं धिक्क्रिया । धिक्पूर्वात् कृजः 'कृत्रः श च'३।३।१००॥ इति भावे शः, शित्त्वाद् भावे यक्, 'रिङ् शयग्लिक्षु'७।४।२८॥ इति रिङादेशः, शप्रत्ययस्तु स्त्रियामेव । ८ निन्दनं निन्दा । 'णिदि कुत्सायाम्'(भ्वा.प.से.), भिदादित्वादङ् । ९ कुत्सनं कुत्सा। 'कुत्स आक्षेपें '(चु.आ.से.), भिदादित्वादङ् । १० क्षेपणं क्षेपः। ‘क्षिप प्रेरणे'(तु.उ.से.), भावे घञ् । व्यक्षरोऽयम्, यन्महेश्वरः "क्षेपो विलम्बे निन्दायाम्''विश्वप्रकाशकोशः, पान्तवर्गः, शो-
४० ___७], यथा-"आत्माघां परक्षेपं न काङ्क्षन्ति विचक्षणाः" ["]इति । ११ जुगुप्स्यते जुगुप्सनम् । 'गुप गोपनकुत्सनयोः' (भ्वा.आ.से.), 'गुप्तिज्किद्भयः सन्'३।१५॥ इति सन्, 'सन्यङो:'६।१।९॥ इति द्वित्वम्, 'ल्युट च'३।३।११५॥ इति ल्युट् । 'अ:(अ) प्रत्ययात्'३।३।१०२॥ इत्यप्रत्यये जुगुप्साऽपि। एकादश निन्दायाः ॥२७१॥
आक्रोशाऽभीषङ्गाक्षेपाः शापः
१ आक्रोशनम् आक्रोशः । 'क्रुश आह्वाने रोदने ' (भ्वा.प.से.), भावे घञ् । २ अभिषञ्जनं पराभिमुख्येन वाक्ये" योजनम् अभीषङ्गः । षञ्ज सङ्गे'(भ्वा.प.अ.), भावे घञ्,
५० 'चजोः-७।३।५२॥ इति कुत्वम्, 'उपसर्गस्य घजि-'६।३।१२२॥ ___ इति दीर्घः । ३ आक्षेपणम् आक्षेपः । क्षिप प्रेरणे'(तु.उ.से.), भावे घञ् । ४ शपनं शापः । 'शप आक्रोशे'(भ्वा.उ.अ.), भावे घञ्, 'अत उपधायाः' ७।२।११६॥, चत्वारि शापस्य ॥
स क्षारणा रते ।
१ स शापो रते मैथुनविषये क्षारणा उच्यते, मैथुनमुद्दिश्य गालीत्यर्थः । स्त्रीनिमित्तं पुंनिमित्तं वा मैथुनं प्रति
य आक्रोश उद्घोषणा, सा क्षारणेति भावः । 'क्षर सञ्चलने' __ (भ्वा.प.से.), प्रयोजकण्यन्ताद् ‘ण्यासश्रन्थ-'३।३।१०७॥ इति
१. 'इत्यः' इति२॥ २. वस्तुतस्तु 'श्रुयजिस्तुभ्यः करणे' इति वार्तिकस्वरूपम् ॥ ३. '-घायाम्' इति क्षीरतरङ्गिण्यादौ ॥ ४. अष्टाध्याय्यां 'कुलात् खः' इति सूत्रं दृश्यते, अतो वृद्ध्यभावः स्यात्, निमित्ताभावात्, तेन "कुलस्यापत्यं कुलीनः, 'कुलात् खः४।१।१३९॥ इति खः, खस्य ईनादेशः । तस्येदं कौलीनम् । 'तस्येदम्'४।३।१२०॥ इत्यण, आदिस्वरवृद्धिः" ईदृग्रीत्याऽपि साधनीयम् ॥ ५. '-आह्वाने रोदने च' इति क्षीरतरङ्गिण्यादौ ॥ ६. २.४नास्ति ॥ ७. शित्त्वात् 'तिशित् सार्वधातुकम्'३।४।११३॥ इति सार्वधातुकसंज्ञा, 'सार्वधातुके यक्'३।१।६७॥ इति यक् इत्याशयः ॥ ८. '-अवक्षेपणे' इति क्षीरतरङ्गिण्यादौ ॥ ९. 'काङ्क्षति' इति३.४॥ १०. '-क्षणः' इति३॥ ११. द्र. अनेकार्थसंग्रहकैरवाकरकौमुदीटीका, भा-१,
२।२८९॥, पृ.१६९ ॥ १२. '-रोदने च' इति २.३.४नास्ति ॥ १३. 'वाक्ययो-' इति१॥ १४. '-मुपदिश्य' इति३॥
युच् । क्षरणाऽपि, "क्षरणाक्षारणाक्रोशाः साभिशापाभि मैथुनम्"[] । क्लीबमपि, "नीचमाक्षारणं यः स्यादाक्षेपो मैथुनं प्रति"[]इति शब्दार्णवात् । नीचमिति पुंविहीनस्य संज्ञा । आक्षारणाऽपि । परपुरुषनिमित्तं स्त्रियाः परस्त्रीनिमित्तं वा पुंस आक्रोशस्य एकम्, अथवा दूषणनामैकम् ॥
विरुद्धशंसनं गालिः
१ विरुद्धं शंसनम् अवद्योद्भावनम्, गालयते गुणान् गालिः, स्त्रियाम् । ‘गल भक्षणे'(चु.आ.से.), इन् । विरुद्ध कथननामैकं गालिरिति ॥
१०___ आशीर्मङ्गलशंसनम् ॥२७॥
१ आशासनम् आशीः, स्त्रीलिङ्गः । आपूर्वः 'शासु इच्छायाम्'(अ.आ.से.) अस्मात् 'क्विप् च'३।२७६ ॥ इति क्विप्, 'शास आशासश्च क्वावुपधाया इत्त्वं वाच्यम् (वा ३।३।१०८॥) इत्याकारस्य इत्त्वम्, 'ससजुषो रुः'८।२६६॥, 'र्वोरुपधाया-'८।२७६ ॥ इति दीर्घः । मङ्गलस्य शंसनं मङ्गल शंसनम् । एकमाशिषः ॥२७२॥
शोकः कीर्तिर्यशोऽभिख्या समाज्ञा
१ श्रोक्यते श्रोकः । श्रीक सङ्घाते'(भ्वा.आ.से.), भावे घञ् । २ कीर्त्यते कीर्तिः । 'कृत संशब्दने'(चु.
२० प.से.), 'ऊतियूति[जूति] हेतिसातिकीर्तयश्च'३।३।९७॥ इति साधु । ३ अश्नुते व्याप्नोति दिश इति यशः, क्लीबे । 'अशूझें व्याप्तौ'(स्वा.आ.से.), 'अशेर्यश्चादे:(-दिः) '(हैमोणा ९५८)इत्यस् । यद्वा ई लक्ष्मीमश्रुते व्याप्नोति । 'अशूङ व्याप्तौ'(स्वा.आ.से.), अस्मात् '-असून्'(उणा-६२८)इत्य सुन् । “याति गच्छत्यर्थिजनेषूपकारित्वमिति यशः, पृषोद रादिः"[]इति तु भट्टः । ४ अभिख्यानम् अभिख्या । 'ख्या प्रकथने (अ.प.अ.), 'आतश्चोपसर्गे'३।३।१०६॥ इत्यङ् स च स्त्रियाम् । ५ समैः सर्वैराज्ञायते समाज्ञा । 'ज्ञा अवबोधने' (या.प.से.), 'आतश्चोपसर्गे'३।३।१०६॥ इत्यङ् । "समैः सर्वैर्ज्ञायते, घबर्थे कः 'समज्ञा"[]इति पुरुषोत्तमो हुस्व-
३० मध्यमाह । समाङ्पूर्वो जानातिः ख्यातौ । अत एव "ख्यातो विश्रुतः समाज्ञाते "[]इति रत्नकोषः । "ततोऽङि समाज्ञा" []इति तु कौमुदी । "समाख्या'[]इति भागुरिः । “अज गत्यादौ'(भ्वा.प.से.), 'समज्या-'३।३।९९॥ इत्यादिना क्यपि, 'क्यपि प्रतिषेधः (वा-२४५६॥)इत्यजेर्न वीभावः, समज्या कीर्तिः"[]इति तु मैत्रेयः । पञ्च कीर्तेः ॥
रुशती पुनः । अशुभा वाक्
१ रुशति हिनस्ति परमिति रुशती । 'रुश रिश हिंसायाम्'(तु.प.अ.), 'लटः शतृशानचौ-'३।२।१२४॥ इति
४० शतरि, 'उगितश्च'४।१६॥ इति ङीष् (डीप) 'आच्छीनद्योर्नुम्' ७।१८० ॥ इति विकल्पान्नुमोऽभावः । रुशती हिंस्रेत्यर्थः । आश्रयलिङ्गश्चायम्, तेन रुशन् शब्दः, रुशद् वच इत्यपि, त्रिलिङ्गोऽयमिति हृद्यम् । "रिशती"[]इत्येके । अमरस्तु 'उषती'[अमरकोषः १।६।१८॥] इति मूर्धन्यमध्यमाह । "उष दाहे '(भ्वा.प.से.) शतृप्रत्ययः, “आगमशासनमनित्यम्" [परिभाषा-९३ २]इति 'शप्श्यनोनित्यम् ७।१।८१॥ इति शतु नुमभावः । "उषत्यादेः स्त्रीलिङ्गत्वादेव कामचारात् स्त्रीत्वम्" [टीकासर्वस्वम् १।६।१८॥] इति भट्टः। "स्त्रीनिर्देशः स्त्रियां प्रायः प्रयोगदर्शनात् शत्रन्तत्वप्रदर्शनार्थं च"[]इति तु कौमुदी।
५० अशुभा अकल्याणी, निन्दार्था वाग् रुशतीत्यर्थः, यथा-'ब्राह्मणो हन्तव्यः' इति । एकमशुभवाचः ॥
शुभा कल्या
१ शुभस्वभावा वाक्, कलासु साधुः कल्या । 'तत्र साधुः ४।४।९८॥ इति यत् । अन्तस्थातृतीयप्रथमोपधोऽयम् । एकं शुभवचनस्य ॥
चर्चरी चर्भटी समे ॥२७३॥
१ चारु चर्यतेऽनया चर्चरी । २ चारु भट्यतेऽनया
१. द्र. रामाश्रमी १६।१५॥, पृ.८७॥ २. 'इति' इति १.२.४नास्ति ॥ ३. 'आशास: क्वावुपधाया इत्त्वं वाच्यम्' इति वार्तिकस्वरूपं दृश्यते ॥ ४. '-सातिहेति-' इत्यष्टाध्याय्याम् ॥ ५. क्षीरतरङ्गिण्यादौ डकारानुबन्धो न दृश्यते ॥ ६. अत्र हैमसूत्रग्रहणं विचारणीयम्, पाणिनीये 'अशेर्देवने युट् च'(उणा-६३०)इत्यस्य सत्त्वात् ॥ ७. द्र. टीकासर्वस्वम्, भा-१, १६११॥, पृ.१२३ ॥, तत्र 'घबर्थे कः' इत्यस्य स्थाने 'घबर्थे कविधानं कर्तव्यम्' इति दृश्यते ॥ ८. द्र. टीकासर्वस्वम्, भा-१, १६११ ॥, पृ.१२३ ॥, तत्र 'ख्यातो' इत्यस्य स्थाने 'प्रख्यातो' इति दृश्यते ॥ ९. १.२.३नास्ति ॥ १०. टीकासर्वस्वसम्मतः पाठः । रामाश्रमीकारस्तु 'रुशती' इति तालव्यमध्यस्वरादिरहितमाह ॥ ११. 'इत्याह मूर्धन्यमध्यं मूर्धन्यान्तं' इति३॥ १२. ४प्रतौ नास्ति ॥
चर्भटी । उभावपि पृषोदरादित्वात् साधू । 'चर्चरिः' इति तृतीयस्वरान्तोऽपि । चाचरीनाम्नी द्वे । हर्षक्रीडादिवचन पर्यायावेतौ ॥२७३॥
यः सनिन्द उपालम्भस्तत्र स्यात् परिभाषणम् ।
१ उपालम्भो द्विविधः-गुणाविःकरणपूर्वको निन्दा पूर्वकश्च। आद्यो यथा-महाकुलजस्य भवतः किमुचितमिदम्। द्वितीयो यथा-बन्धकीसुतस्य तवोचितमेवेदमिति । तयोर्मध्ये यः सनिन्द उपालम्भस्तत्र परिभाषणम् । परिभाष्यते तत् परि
भाषणम् । भाष व्यक्तायां वाचि'(भ्वा.आ.से.), ल्युट्। तथा च
१० भागुरि:-"निन्दापूर्व उपालम्भः परिभाषणमुच्यते"[]इति । मैवं कृथा इति वाच्यता इत्यर्थे परिभाषणम् । आलापनियमयोरपि पर्यायोऽयम् । यन्महेश्वरः
"परिभाषणमालापे नियमे परिभाषणम् ।
नन्दोपालम्भवचने परिभाषणमिष्यते ॥१॥"
[विश्वप्रकाशकोशः, णान्तवर्गः, श्रो-१०६-७]इति । त्रिष्वपि यथा-"बाला इव प्रवर्तन्ते कृतेऽपि परिभाषणे ॥"[*]इति ॥ आपृच्छाऽऽलोप: सम्भाषः
१ आपृच्छनम् आपृच्छा । 'प्रच्छ जीप्सायाम्' (तु.प.अ.), 'षिद्भिदादिभ्योऽङ्'३।३।१०४॥, 'ग्रहिज्या-'
२० ६।१।१६॥ इति सम्प्रसारणम् । २ आलपनम् आलापः । 'लप परिभाषणे'(भ्वा.प.से.), भावे घञ् । ३ सम्भाषणं सम्भाषः । 'भाष व्यक्तायां वाचि'(भ्वा.आ.से.), भावे घञ्। एकवारवचनमालापः, तस्य त्रीणि॥
अनुलापः स्यान्मुहुर्वचः ॥२७४॥
१ मुहुः असम्भ्रमेण पुनः पुनर्वचनम्, अनुलपनम् अनुलापः । 'लप परिभाषणे '(भ्वा.प.से.), भावे घञ् । एकं पौनःपुन्योक्तेः ॥२७४॥
अनर्थकं तु प्रलापः
१ अनर्थकं प्रयोजनशून्यमुन्मत्तादिवचनं प्रलापः ।
३० प्रलपनं प्रलापः । भावे घञ् ॥
विलापः परिदेवनम् ।
१ विलपनं विलापः । परिदीव्यते परिदेवनम् । 'दिवु परिदेवने'(चु.आ.से.), चुरादिः, ल्युट् । २ परिदेवनमनुशोचनम्, तद्वाचकं वचनमपि परिदेवनम् । द्वे शोकवचनस्य ॥
उल्लापः काकुवाक्
१ उल्लपनम् उल्लापः। भावे घञ् । कक्यत इति काकुः। 'कर्क लौल्योपतापयोः (भ्वा.आ.से.), 'स्वादय:' इत्युप्रत्यये दीर्घत्वम्। काक्वा वचनं काकुवाक् । शोकभयादि भिनेर्विकारः काकुः । यदमर:-"काकुः स्त्रियां विकारो यः
शोकभीत्यादिभिर्ध्वने:"[अमरकोषः१६।१२॥] । “ध्वनेः शब्दस्य
४० शोकभीत्यादीना यो विकारो विकृतिः, सा काकुः"[] इति तट्टीका । एकं शोकभयादिभिः शोषितकण्ठवचनस्य ॥
अन्योऽन्योक्तिः संलापसंकथे ॥२७५॥
१ अन्योऽन्येन उक्तिः अन्योन्योक्तिः । सम्मुखं लपनं संलापः । "रहसि भाषणं संलाप:"[]इति तु कौमुदी। २ संकथनं संकथा । 'कथ वाक्यप्रबन्धे'(चु.उ.से.), भिदादित्वादङ् । द्वे अन्योन्यं उक्तिप्रत्युक्त्योः ॥२७५॥
विप्रलापो विरुद्धोक्तिः
१ विरुद्धं प्रलपनं विप्रलापः । भावे घञ् । विरुद्धा उक्तिः विरुद्धोक्तिः । एकं विरुद्धोक्तेः ॥
५० अपलापस्तु निह्नवः ।
१ अपलपनम् अपलापः । भावे घञ् । २ निहवनं निह्नवः। 'हृङ् अपनयने'(अ.आ.अ.), 'ऋदोरप्'३।३१५७॥
इत्यप्। द्वे अपलापस्य । 'ओलवियूँ ' इति भाषा ॥
सुप्रलापः सुवचनम्
१ सुष्ठु प्रलपनं सुप्रलापः । सुष्ठूच्यते सुवचनम्। एकं शोभनोक्तेः ॥
सन्देशवाक् तु वाचिकम् ॥२७६॥
१ सन्दिश्यतेऽसौ सन्देशः, तस्य वाक् सन्देशवाक् । यया सन्दिष्टोऽर्थ उच्यत इत्यर्थः । वाचिकम् । 'वाचो
६० व्याहृतार्थायाम्'५।४।३५॥ इति ठक्, 'ठस्येक: ७।३।५०॥, 'किति च७।२।११८॥ इति वृद्धिः । अन्येन अन्योऽन्यस्मै
१. 'चाचरि-' इति१.२.४॥ २. 'हर्षक्वाद्यव-' इति१, 'हर्षकाद्यव-' इतिर, 'हर्षक्रीडाद्यव-' इति४॥ ३. तुलनीयोऽमरकोष १६।१४॥ ४. द्र.. टीकासर्वस्वम्, भा-१, १६१४॥, पृ.१२५॥ ५. द्र. अनेकार्थसङ्ग्रहकैरवाकरकौमुदीटीका, भा-२, ५।१४॥, पृ.४१७॥ ६. 'अनुलेप-' इतिर ॥ ७. 'रप लप व्यक्तायां वाचि' इति क्षीरतरङ्गिण्यादौ ॥ ८. तुलनीयोऽमरकोषः १६१६॥ ९. 'ककि-' इति३, क्षीरतरङ्गिण्यादौ 'कक लौल्ये' इति दृश्यते॥ १०. मूलं मृग्यम्, अथवा बाहुलकादुण् ॥ ११. 'लापनं' इति ।। १२. 'उक्तप्रत्युक्तेः' इतिर, '-क्तोः' इति१॥ १३. तुलनीयोऽमरकोषः १६॥१७॥ १४. 'उलविवउं' इति१.२॥ १५. 'व्याप्तता-' इति३॥
यदाह-त्वयैवं कर्त्तव्यमिति सन्देशस्तस्य एकं वाचिकमिति। "लेखादिनाऽधिगतेऽर्थे मुखस्वरूपं वाचिकम्'[अम.क्षीर. १।५।१८॥]इति क्षीरस्वामी ॥२७६॥
आज्ञा शिष्टिनिरौनिभ्यो देशो नियोगशासने ।
अववादोऽपि
१ आज्ञापनम् आज्ञा । आपूर्वः 'ज्ञा अवबोधने' (त्र्या.प.से.), 'आतश्चोपसर्गे'३।३।१०६॥ इत्यङ्, अनित्य त्वाच्चुरादिणिजभावः । २ शासनं शिष्टिः । 'शासु अनुशिष्टौ' (अ.प.से.), 'स्त्रियां क्तिन्'३।३।९४॥, 'शास इदङ्हलोः'
१० ६४।३४॥ इत्युपधाया इत्वम्, 'तितुत्र-७।२।९॥ इतीनिषेधः। ३-५ निरानिभ्य उपसर्गेभ्योऽग्रे देशः, तेन निःशेषेण सम न्ताद् नितरां देशनं निर्देशः। 'दिश अतिसर्जने'(तु.प.अ.), भावे घञ् । एवम् आदेशः, निदेशः । ६ नियोजनं नियोगः। 'युजिर् योगे'(रु.उ.अ.), भावे घञ्, 'चजो:-'७।३।५२॥ इति कुत्वम् । ७ शिष्यतेऽनेन शासनम् । 'शासु अनुशिष्टौ' (अ.प.से.). "करणाधिकरणयोश्च'३३१११७॥ इति करणे ल्यट । ८ अवनम्य वदनम् अववादः । अष्टौ आज्ञायाः ॥
अथाऽऽहूय प्रेषणं प्रतिशासनम् ॥२७७॥
१ आहूय आकार्य यत्प्रेषणं मोचनं, तस्य नामैकं
२० प्रतिशासनम् । 'शासु अनुशिष्टौ'(अ.प.से.), ल्युट् ॥२७७॥ संवित् सन्धाऽऽस्थाऽभ्युपायः सम्प्रत्याङ्भ्यः परः श्रवः। अङ्गीकारोऽभ्युपंगमः प्रतिज्ञाऽऽगूश्च सङ्गरः॥२७॥
१ प्रकृताङ्गीकारः पक्षोक्तिश्चेत्युभया हि प्रतिज्ञा । संवेदनं संवित् । 'विद ज्ञाने'(अ.प.से.), सम्पदादित्वात् क्विप्। २ सन्धानं सन्धा। 'डुधाब् धारणपोषणयोः (जु.उ.अ.), 'आत चोपसर्गे'३।३।१०६॥ इत्यङ् । ३ आस्थानम् आस्था। 'ष्ठा गतिनिवृत्तौ'(भ्वा.प.अ.), 'आतश्चोपसर्गे' ३।३।१०६॥ इत्यङ् । ४ अभ्युपायनम् अभ्युपायः । अभ्युपपूर्वाद् ‘इङ् अध्ययने'
(अ.आ.अ.)अस्माद् ‘इङश्च'३।३।२१॥ इति घञ् । 'अय गतौ
३० (भ्वा.आ.से.)इत्यस्माद्वा, भावे घञ् । ५-७ सम्प्रत्याक्ष्य उप सर्गेभ्यः परः श्रवः, तेन संश्रवः, प्रतिश्रवः, आश्रवः। समाङ्
प्रतिपूर्वः शृणोतिरङ्गीकारे, तस्माद् ‘ऋदोरप्'३।३।५७॥ इत्यप्। एते त्रयस्तालव्यरेफमध्याः । ८ अङ्गीकरणं अङ्गीकारः । भावे घञ् । ९ अभ्युपगमनम् अभ्युपगमः। भावे घञ्, 'नोदात्तोप देश-'७।३।३४॥ इति न वृद्धिः । १० प्रतिज्ञानं प्रतिज्ञा । 'आतश्चोपसर्गे'३।३।१०६॥ इत्यङ् । ११ आगच्छति पौरुषमनया आगूः, स्त्रीलिङ्गः । आङ्पूर्वो 'गम्लु गतौ'(भ्वा.प.अ.)अस्माद् 'भ्रमेश्च डूः'(उणा-२२६)इति सूत्रे चकारो 'गमे?:'(उणा-. २२५)इत्यतो 'गमेः' इत्याकर्षणार्थः । यदा च 'ऊङ्] च गमादीनाम्'(वा-६।४।४०॥)इति क्विप् ऊङ् च, तदा खल-
४० पूवत्। "आगूर्यतेऽनया आगूः । 'गुरी उद्यमे'(तु.आ.से. अथवा चु.उ.से.), क्विप्, रेफान्तोऽयम्"[]इति लिङ्गसूरिः । १२ सङ्गरणम् सङ्गरः। 'गृ निगरणे'(तु.प.से.), 'ऋदोरप्'३।३।५७॥ इत्यप् । द्वादश प्रतिज्ञायाः । नियमसमाधी अपि ॥२७८॥ गीतनृत्यवाद्ययं नाट्यं तौर्यत्रिकं च तत् ।
१-२ गीतनृत्यवाद्यानां त्रयं समुदितं नाट्यम्, तौर्य त्रिकं चोच्यते । नटस्येदं नाट्यम् । 'छन्दोगौ किथवक (छन्दोगौक्थिक) याज्ञिकबचनटायः४।३।१२९॥, 'यस्येति च'६।४।१४८॥, 'अत उपधायाः'७।२।११६॥ । 'तुरी त्वरायाम् '(जु.प.से.), 'ऋहलोर्ण्यत् '३।१।१२४ ॥, 'हलि
५० च'८।२७७॥ इति दीर्घत्वं च। तूर्यं मूरजादिः, तत्र भवं तौर्य शब्दरूपम् । त्रयोंऽशा अस्य त्रिकम् । 'संख्याया अतिशदन्तायाः कन्'५।१।२२॥ । तौर्येण त्रिकं तौर्यत्रिकम् 'तृतीया'२।१३०॥ इति योगविभागात् समासः । "तौर्यं च तत् त्रिकं चेति कर्मधारयः"[]इति तु पञ्जिका । द्वे समुदितगीतनृत्यवाद्यत्रयस्य॥
सङ्गीतं प्रेक्षणार्थेऽस्मिन्
१ अस्मिन्निति गीतनृत्यवाद्यत्रये प्रेक्षणार्थे प्रेक्षण निमित्तं प्रारब्धे सङ्गीतम् उच्यते । सम्भूय गीयतेऽत्रेति सङ्गीतम्। 'गै शब्दै'(भ्वा.प.अ.), वर्तमाने क्तः, 'आदेच:-'६।१४५॥ इत्यात्वम्, 'घुमास्था-'६।४।६६॥ इतीत्वम् । सभ्यानां प्रेक्षण-
६० निमित्तं प्रारब्धगीतनृत्यवाद्यत्रयस्यैकम् ॥
__ शास्त्रोक्ते नाट्यधर्मिका ॥२७९॥
१ शास्त्रोक्ते भरतादिशास्त्रनिर्दिष्टं गीतनृत्यवाद्य ___ त्रयं तन्नामैकम् , [नाट्यं धर्मोऽस्या] नाट्यधर्मी', स्त्रीलिङ्गः।
१. "निर्देशः' इति३.४॥ २. लिङ्गयसूरिकृतामरपदविवृतिटीकायाम्-"आगमनं संवेदनम् आगूः । ऊकारान्तः । आगुरते वा आगूः । 'गूरी उद्यमने'। रेफान्तः स्त्रीलिङ्गः ।" इति दृश्यते, अमरकोषः, भा-१, १।५।५॥, पृ.९४ ॥ ३. '-साधी' इति१.२॥ ४. '-क्तं' इतिर॥ ५. '-धर्मा' इति३॥
यद्वाचस्पति:-"नाट्यधर्मी तु स्त्रियाम्"[] | 'नाट्यधर्मीति पारिभाषिको धर्मीशब्दः । नाट्यधर्येव नाट्यधर्मिका । स्वार्थे कनि, 'केऽणः'७।४।१३॥ इति हुस्वत्वम् ॥२७९॥
अथ गीतादिभेदाननुक्रमेणाह
गीतं गानं गेयं गीतिर्गान्धर्वम्
१ गीयत इति गीतम् । 'गै शब्दे'(भ्वा.प.अ.), वर्तमाने क्तः, 'आदेच उपदेशेऽशिति'६।१।४५ ॥ इत्यात्वम्, 'घुमास्था-'६४६६॥ इतीत्वम् । २ गीयत इति गानम् । 'गै शब्दे (भ्वा.प.अ.), ल्युट्, 'आदेच:-'६।१४५॥ इत्यात्वम्।
१० ३ गीयते गेयम् । ४ गानं गीतिः। 'गै शब्दे'(भ्वा.प.अ.), 'स्त्रियां क्तिन्'३।३।९४॥, 'आदेचः-'६।११४५॥ इत्यात्वम्, 'घुमास्था-'६।४।६६॥ इतीत्वम् । ५ गन्धर्वैः कृतं गान्धर्वम् । कृतेऽर्थेऽण् । “रागगीत्यादिकं गीतम्, प्राविशिक्यादिध्रुवारूपं गानम्, पदस्वरतालावधानात्मकं गान्धर्वम्"[]इति भैरतायुक्तो विशेषोऽत्र नाश्रितः । पञ्च गीतस्य
___अथ नर्त्तनम् ।
नंटनं नृत्यं नृत्तं च लास्यं नाट्यं च ताण्डवम् ॥२८०॥
१ नृत्यत इति नर्त्तनम् । 'नृती गात्रविक्षेपे'(दि.प.से.),
२० ल्युट्, 'युवोरनाकौ'७।१।१॥, 'उपधाया लघोर्गुणः। २ [नट्यते नटनम् । 'नट नृत्तौ'(भ्वा.प.से.), ल्युट् । ] ३ नृत्यते नृत्यम्। 'नृती गात्रविक्षेपे'(दि.प.से.), 'ऋदुपधत्वाच्चाक्लुपितेः' ३।१।११०॥ इति क्यप् । ४ नर्तनं नृत्तम् । 'नृती गात्रविक्षेपे' (दि.प.से.), भावे क्तः । ५ लस्यते लास्यम् । लस संश्रेषण क्रीडनयोः'(भ्वा.प.से.), ऋहलोर्ण्यत्'३।१।१२४॥ । ६ नट्यत इति नाट्यम् । 'नट अवस्पन्दने'(चु.उ.से.), 'ऋहलोर्ण्यत्' ३।११२४॥ । ७ ताण्ड्येन मुनिना प्रोक्तम्, 'कलापिवैशम्पाय नान्तेवासिभ्यश्च'४।३।१०४॥ इति णिनिः, आपत्यस्य च तद्धितेऽ नाति' ६४१५१॥ इति यलोपः, ताण्डिं नृत्यशास्त्रम्, तदस्यास्तीति,
३० 'अन्येभ्योऽपि दृश्यते'(वा-५।२।१०९॥)इति वः, पृषोदरादित्वा दिकारस्याकारः ताण्डवम् । “तण्डुना मुनिना प्रोक्तं ताण्डवम्" [अम.क्षीर.१।६।१०॥]इति तु स्वामी । "तडिधातोस्ताण्डवम्" [ ]इति तु कौमुदी । पुंक्लीबलिङ्गोऽयम् । नाट्यशास्त्रे नृत्तलास्यनाट्यताण्डवानां भेदोऽस्ति, स नेहाश्रितः, तथा हि "अङ्गविक्षेपमात्रं विवाहाभ्युदयादौ नृत्यम् । ललितकरणाङ्ग हाराभिनय(-1) कौशिकीवृत्तिप्रधानं वासकसज्जाचरितं डोविलिकादिनिबद्धं लिष्टत्वाद् लास्यम्। सर्वरसं पञ्चसन्धि चतुर्वृत्ति दशरूपकाश्रयं नटकर्म नाट्यम् । उद्धतकरणाङ्ग हारनिर्वयंमारभटीवृत्तिप्रधान(-नं) गीतकासारितकादौ तण्डुना प्रोक्तं ताण्डवम्"["]इति ॥२८०॥
४० विशेषत आह
मण्डलेन तु यन्नृत्यं स्त्रीणां हल्लीसकं हि तत् ।
१ स्त्रीणां यन्मण्डलेन मण्डलाकारेण नृत्यं तत् हल्ली सकम् । हेलया लस्यतेऽस्मिन्निति हल्लीसकम्, क्लीबेऽयम्। वाचस्पतिस्तु-"हल्लीसकोऽस्त्रियाम्"["] इत्याह । (घूमरीति भाषा नामैकम्)॥
पानगोष्ठ्यामुच्चतालम् ।
१ पानगोष्ठ्याम् आपाने नृत्यम्', उच्चस्तालोऽत्रेति उच्चतालम् ॥
रणे वीरजयन्तिका ॥२८१॥
५० १ रणे सङ्ग्रामे यद् नृत्यं तन्नामैकं वीरजयन्तिका। जयन्ती पताका, जयन्त्येव जयन्तिका, वीराणां जयन्तिका वीरजयन्तिका ॥२८१॥
स्थानं नाट्यस्य रङ्गः स्यात्
स्थीयतेऽस्मिन् स्थानम्, 'ष्ठा गतिनिवृत्तौ'(भ्वा. प.अ.), 'करणाधिकरणयोः-'३।३।११७॥ इत्यधिकरणे ल्युट् । नाट्यस्य स्थानं प्रदेशः रङ्गः उच्यते । रमन्ते जनमनांस्यत्रेति रङ्गः । 'रमु क्रीडायाम्'(भ्वा.आ.अ.), गन्गम्यादेः '(उणा-१२०)इति गन्। रज्यत्यस्मिन् जन इति वा । 'रञ्ज रागे'(भ्वा.उ.अ.), घञ् । नृत्यस्थाननामैकम् ॥
१. द्र. स्वोपज्ञटीका २१२७९ ॥, पृ.६६॥ २. '-भाषको' इति३॥ ३. '-धर्मेव' इति३॥ ४. द्र. स्वोपज्ञटीका २२८०॥, पृ.६६॥ ५. 'भार-' इति४॥ ६. 'लस द्वेष-' इति१, क्षीरतरङ्गिण्यादौ 'लस भूषणक्रीडनयोः' इत्येव दृश्यते ॥ ७. १.३.४नास्ति ॥ ८. 'ताण्डिः ' इति३.४॥ ९. स्वामिकृतामरकोशटीकायां "तण्डु(मुनि)ना प्रणीतं ताण्डवम्" इति दृश्यते, अम.क्षीर. १६१०॥, पृ.५०॥ १०. 'नृत्य-' इति२.३॥ ११. 'नृतम्' इति१ ॥ १२. 'कौमुदी-' इति२ ॥ १३. 'गोवलि-' इति३॥ १४. 'उद्धती-' इति२॥ १५. द्र. क्षीरस्वामिकृतटीका १६१०॥, पृ.५०॥, स्वोपज्ञटीका २।२८०॥, पृ.६६॥ १६. 'यन्नृत्तं' इतिर, तथा मुद्रितकोशे ॥ १७. द्र. स्वोपज्ञटीका २१२८१॥, पृ.६६॥ १८. कोष्ठान्तर्गतपाठः १.३.४नास्ति ॥ १९. 'नृत्तम्' इति१॥ २०. 'गन्गम्यद्योः' इत्युणादिगणसूत्रम् ॥ २१. १.३.४नास्ति ॥
पूर्वरङ्ग उपक्रमः ।
१ नाट्यस्येत्यत्राप्यनुकृष्यम्, नाट्यस्योपक्रमः प्रारम्भः पूर्वरङ्गः, रजत्यस्मिन् जन इति रङ्गः, मण्डपो नाट्यं वा बुद्धिस्थम्, पूर्वो रङ्गे पूर्वरङ्गः प्रत्याहारादिः, रङ्गात् पूर्व इति वा, राजदन्तादित्वात् पूर्वनिपातः । श्रीहर्षस्तु- "रङ्गशब्देन तौर्यत्रिकं ब्रुवन् नाट्ये रङ्गप्रयोगस्य पूर्वतां मन्यमानः पूर्वश्चासौ रङ्गश्च"[]इति समासममंस्त । गीतनृत्यवाद्यानां त्रयाणां प्रारम्भस्यैकोक्त्या नामैकं पूर्वरङ्गः, उपक्रमो नाम गीतनृत्य वाद्यानां प्रारम्भ इत्यर्थः ॥
१० अङ्गहारोऽङ्गविक्षेपः
१ अङ्गानां हरणं स्थानात् स्थानान्तरनयनम् अङ्गहारः। 'हृञ् हरणे'(भ्वा.उ.अ.), भावे घब् । २ अङ्गानां हार इव, शोभाजनकत्वात्, अथवा हरस्यायं हारः, हरेणाभिनीतत्वात्, अङ्ग प्रधानो हारः अङ्गहारः स्थिरहस्तादित्वात् त्रिंशद्भेदः। “वृश्चिक भ्रमरादित्वात् त्रिंशत्प्रकारोऽङ्गुर्या(ल्या)दिविन्यासरूपोऽङ्गहारः" []इति तु कौमुदी । "अङ्गहारस्त्वङ्गहारिद्धिादिमाम्बिका [म्बिका]"[]इति शब्दार्णवः । २ अङ्गानां विक्षेपः अङ्गविक्षेपः। द्वे अङ्गहारस्य । अङ्गचालन' इति भाषा ॥
व्यञ्जकोऽभिनयः समौ ॥२८२॥
२० १ व्यनक्ति भावान् इति व्यञ्जकः । 'अञ्जू व्यक्ति म्रक्षणकान्तिगतिषु'(रु.प.से.)अस्मात् ‘ण्वुल्तृचौ'३।१।१३३॥ इति ण्वुल् । २ आभिमुख्यं नीयतेऽर्थोऽनेनेति अभिनयः । ‘णीञ् प्रापणे'(भ्वा.उ.अ.), ‘एरच्'३।३।५६॥ इत्यच् । हृद्गतक्रोधादिभावाभिव्यञ्जकस्य द्वे ॥२८२॥
स चतुर्विध आहार्यों रचितो भूषणादिना ।
वचसा वाचिकोऽङ्गेनाऽऽङ्गिकः सत्त्वेन सात्त्विकः ॥२८३॥
१ सोऽभिनयः हस्तादिभिः पदार्थसूचकः चतुर्विधः आहार्यादिभेदात् चतुःप्रकारः, तेषु भूषणादिना रचितोऽभिनयः
३० आहार्यः । २ वचसा निर्वृत्तो वाचिकः। ३ अङ्गेन निर्वृत्तः आङ्गिकः, भ्रूविक्षेपादिः । ४ सत्त्वं मनोगुण आशयो वा, तेन निवृत्तः सात्त्विकः । यदाह-"सत्त्वोत्कटे मनसि ये प्रभवन्ति भावास्ते सात्त्विकाः"[ ]इति । त्रिष्वपि अध्यात्मा
दित्वाट्ठञ्, 'निर्वृत्तेऽत्तु(क्ष)धुतादिभ्यः'४।४।१९॥ इति योग विभागा[त् ठक् वा]। अभिनयस्य चतुःप्रकारनामानि ॥२८३॥ स्यान्नाटकं प्रकरणं भाणः प्रहसनं डिमः।
व्यायोगसमवकारौ वीथ्यलेहामृगा इति॥२८४॥
अभिनेयः प्रकाराः स्युः
१ नाटयति नर्त्तयति सामाजिकमनांसीति नाटकम्। 'नट नृत्ये '(भ्वा.प.से.), णिजन्तः, ‘ण्वुल्तृचौ'३।१।१३३॥ इति
४० ण्वुल्। २ वस्त्वादिकं काव्याभिधेयमात्मशक्योत्पाद्य प्रकुरुते यत्र काव्येन तत् प्रकरणम् । 'करणाधिकरणयोश्च'३।३।११७॥ इत्यधिकरणे ल्युट् । ३ भण्यन्ते उक्तिमन्तः क्रियन्ते अप्रविष्टा अपि पात्रविशेषा अत्रेति भाणः, पुंक्लीबलिङ्गः । ४ एकस्य बहूनां वा चरितं प्रहस्यते यत्र तत् प्रहसनम् । 'हस(हसे) हसने'(भ्वा.प.से.), अधिकरणे ल्युट् । ५ "डमो(डिमो) डिम्बो विद्रवः'[ ]इति पर्यायास्तद्योगादयं डिमः । ६ व्यायामे युद्धनियुद्धप्राये युज्यन्ते पुरुषा अत्रेति व्यायोगः । 'युजिर् योगे'(रु.उ.अ.), अधिकरणे घड् । ७ समवक्रियन्ते सङ्गाती क्रियन्ते नेतारोऽत्रेति समवकारः । बाहुलकादधिकरणे घञ् ।
५० ८ सर्वेषां रसानां लक्षणानां च वीथी श्रेणीव वीथी । ९ उत्क्रमेणोन्मुखी सृष्टिर्जीवितं प्राणा यासां उत्सृष्टिकाः शोचन्त्यः स्त्रियः, ताभिरऽङ्कोऽङ्कनं यस्य स उत्सृष्टिकाङ्कः, तदेकदेशः अङ्कः, भीमवत् । १० ईहा चेष्टा मृगस्येव स्त्रीमात्रार्था यत्र स ईहामृगः ॥२८४॥ एते नाटकाद्या दश अभिनेयस्य प्रबन्धस्य प्रकारा भेदाः स्युः, एतानि दशरूपकानीत्यर्थः । (नाटकादीनि दशप्रबन्धभेदनामानीति । अत्र अभिनेयशब्दः चतुर्थवर्गपञ्चमैकादशस्वरमध्यः)॥
भाषाः षट् संस्कृतादिकाः।
१ भाष्यन्ते भाषाः। 'भाष व्यक्तायां वाचि'(भ्वा.आ.से.),
६० कर्मणि घञ् । षडिति षट् सङ्ख्याः संस्कृतादिकाः संस्कृत१ प्राकृतरमागधीइसौरसेनी पैशाची५अपभ्रंश६लक्षणाः । संस्कृतादीनां षण्णामेकोक्त्या नामैकं भाषा इति ॥
भारती सात्वती कैशिक्यारभेट्यौ च वृत्तयः ॥२८५॥
१. 'रज्यत्य-' इति२.४॥ २. द्र. स्वोपज्ञटीका २२८२॥, पृ.६७॥ ३. तुलनीयोऽमरकोषः १७१६॥ ४. द्र. रामाश्रमी १७॥१६॥, पृ.९९ ॥ ५. 'व्यक्ति' इति २.३.४नास्ति ॥ ६. द्र. अमरकोशक्षीरस्वामिटीका १६१७॥, पृ.५१॥ ७. 'नृत्तौ' इति क्षीरतरङ्गिण्यादौ॥ ८. 'शोच्यन्त्यः' इति३.४॥
९. कोष्ठान्तर्गतपाठः ३.४नास्ति ॥
१ भारती वाणी, तत्प्रधाना वृत्तिरपि भारती, तत्र वाचिकाभिनयप्राधान्यात् । २ सदिति प्रत्याख्यानरूपं संवेदनम्, तद् यत्रास्ति तत् सत्वत् मनः, तस्येयं सात्वती, सात्विकाभिनये प्राधान्यात् अथवा सत् सत्वं रूपं विद्यते येषां ते सत्वन्तः, तेषामियम्, सत्वं च तत्र परिच्छिद्रान्वेषणोपायप्रतिभानं वैचित्र्योत्प्रेक्षणलक्षणप्रकाशलाघवात्मकम् । ३ केशाः किञ्चि दप्यर्थक्रियाजातमकुर्वन्तो यथा देहशोभोपयोगिनः, तद्वत् सौन्दर्योपयोगो व्यापारः कैशिकी, आहार्याभिनयप्राधान्यात् । यद्वा विष्णोः केशेषु बध्यमानेषु भवा कैशिकी । अध्यात्मादि
१० त्वाट्ठक् । यदाह
"विचित्रैरङ्गहारैश्च देवो लीलासमन्वितैः ।
बबन्ध यच्छिखापाशं कैशिकी तत्र निर्मिता ॥१॥" []इति । ४ इयतीति अराः, भटाः सोत्साहाः अनलसाः, अराश्च ते भटाश्च अरभटाः, तेषामियम् आरभटी, अङ्गिकाभि नयप्राधान्यात् । भारत्यादीनामारभट्यान्तानां चतसृणामेकोक्त्या नामैकं वृत्तयः। बहुवचनं चात्र चतुरपेक्षया ॥२८५॥
वाद्यं वांदित्रमातोद्यं तूर्यं तूंरं स्मरंध्वजः ।
१ वादयति ध्वनयति तद् वाद्यम् । वर्ण्यन्तात् कर्मणि 'अचो यत्'३।१९७॥ । वदति वा वाद्यम्। 'ऋहलोर्यत्'
२० ३।१।१२४॥।२ वदति आहन्यमानमिति वादित्रम्। 'वद व्यक्तायां वाचि'(भ्वा.प.से.), भूव(वा)दिगृभ्यो णित्रन्'(उणा-६१०)इति णित्रन्, णित्त्वाद् वृद्धिः । ३ आ समन्तात् तुद्यते ताड्यत इति आतोद्यम् । 'तुद व्यथने'(तु.उ.अ) कर्मणि 'ऋहलोर्ण्यत्' ३।१।१२४॥ । ४ तूर्यत इति तूर्यम्, पुंक्ली . । 'तूरी गतित्वरण हिंसनयोः'(दि.आ.से.), 'ऋहलोर्ण्यत्'३।१।१२४॥ । ५ तूर्यत इति तूरम् । 'इगुपधज्ञा-'३।१।१३५॥ इति कः । ६ स्मरस्य ध्वज इव स्मरध्वजः । षट् सामान्यतो वादित्रस्य ॥
ततं वीणाप्रभृतिकम्
१ वीणादिकं वाद्यं ततम् । 'तनु विस्तारे'(त.उ.से.),
३० 'तनिमृङ्भ्यां किच्च'(उणा-३६८)इति तन्, 'अनुदात्तोपदेश-' ६।४।३७॥ इति न्लोपः । ततं तन्त्र्यादिकं वीणाप्रभृतिरादिर्यस्य तद्वीणाप्रभृतिकम् । सामान्यत एकं तान्तिवाद्यस्य ॥
तालप्रभृतिकं घनम् ॥२८६॥
१ कास्यमयं वादिनं तालस्तत्प्रभृतिकं प्रभृतिग्रहणात् कांस्यतालादि । हन्यते धनम् । 'हन्(हन) हिंसागत्योः' (अ.प.अ.), घञ्, 'मूर्ती घनः'३।३।७७॥ इति घनः । एकं तालादेः ॥२८६॥
वंशादिकं तु शुषिरम्
१ वंशो वेणुस्तदादिकं वादित्रं शुषिः छिद्रमस्त्यस्य शुषिरम्। ऊषशुषिमुष्कमधो र:५२।१०७॥ । “शुषीरं शुषिरं
४० शिष्यं शीर्षं तालव्यादयः"["]इति शभेदैः । सामान्यतो वेणुवाद्यस्यैकम् ॥
आनद्धं मुरजादिकम् ।
१ आनह्यते स्म आनद्धम् । 'नह(णह) बन्धने' __ (दि.उ.अ.), भावे क्तः, 'झषस्तथो:-'८।२४० ॥ इति धत्वम्।
मुखे चर्मणा यद्बद्धं तदानद्धमित्यर्थः । मुरजादिकमित्यादिशब्दात् पटहादिग्रहः । सामान्यत एकं मढितवाद्यस्य ॥
वीणा पुनर्घोषवती विपञ्ची कण्ठकूणिका॥२८७॥
वल्लंकी
१ वेति प्रजायते स्वरोऽस्यामिति वीणा । 'वी
५० गति-प्रजनकान्त्यादिषु (अ.प.अ.) अस्माद्धातोः 'रास्नासास्ना [स्थूणा]-वीणाः'(उणा-२९५)इत्यनेन नप्रत्यये णत्वे गुणाभावे च रूपम्। २ घोषोऽस्त्यस्यां घोषवती । 'तदस्यास्ति'५।२।१४॥ इति मतुप्, '[मादुपधायाश्च] मतोर्वोऽयवादिभ्यः'८।२।९॥ इति मस्य वत्वम्, 'उगितश्च'४।१।६॥ इति ङीष् (ङीप्)। ३ विपञ्चयति विस्तारयति स्वरानिति विपञ्ची। 'पचि विस्तारे चलने चै'(चु.प.से.), णिजन्तात् पचाद्यच्, गौरादिः । ४ कण्ठं कूणयते कण्ठकूणिका। 'कूण सङ्कोचे'(चु.उ.से.), ण्वुल् ॥२८७॥ ५ वल्लते स्वरोऽस्यां वल्लकी । 'वले वल्ल संवरणे (भ्वा.आ.से.), 'क्वुन् शिल्पिसंज्ञयोरपूर्वस्यापि'
६० __(उणा-१९०)इति क्वुन्, गौरादिः। सामान्यतः पञ्च वीणायाः॥
१.-भावनं' इति३॥ २. द्र. स्वोपज्ञटीका २२२८५॥, पृ.६७॥ ३. 'अङ्गिक-' इतिर॥ ४. ३नास्ति ॥ ५. '-हिंसयोः' इति१.२॥ ६. इतोऽग्रे प्रतौ 'तन्त्रीतननात् तते' इति दृश्यते ॥ ७. 'कांश्य-' इति३.४॥ ८. 'कांश्य-' इति३॥ ९. तुलनीयोऽमरकोषः १७४॥ १०. 'उष-' इतिर.३॥ ११. द्र. टीकासर्वस्वम्, भा-१, १७४॥, पृ.१३६॥, तत्र "शिरीषं शुषिरं शिष्यं शीर्ष तालव्यशादयः" इति दृश्यते ॥ १२. 'शब्दप्रभेदः' इति४॥ १३. तुलनीयोऽमरकोषः १७४॥ १४. 'वी गतिप्रजनकान्त्यसनखादनेषु' इति धातुपाठस्वरूपम् ॥ १५. 'पचि विस्तारवचने' इति क्षीरतरङ्गिण्यादौ॥ १६. 'वल्ल-' इति१.२॥ १७. '-संवरणे सञ्चरणे च' इति मा.धातुवृत्तिः, 'वल संवरणे' इति क्षीरतरङ्गिणी॥
साऽथ तन्त्रीभिः सप्तभिः परिवादिनी ।
१ सा वीणा सप्तभिः तन्त्रीभिः स्वरान् परिस्फुटं वदतीत्येवंशीला परिवादिनी । सम्पृचादित्वाद् घिनुण् । यद्वा परितो वादः परिवादः, तद्योगाद् ‘अत इनिठनौ'५।२।११५ ॥ इतीनि:, 'ऋन्नेभ्यो ङीष् (ङीप्)'४।१।५॥ । यस्यां वीणायां सप्त तन्त्र्यो भवन्ति, तस्या एकं परिवादिनीति । अन्येऽपि तन्त्रीभेदाद् वीणाभेदाः एकतन्त्र्याद्या एकविशंतितन्त्र्यन्ता ज्ञेयाः ॥
शिवस्य वीणाऽनालम्बी
१ न आलम्बते अनालम्बी । 'लबि अवस्रेसने
१० [च] '( भ्वा.आ.से.), पचाद्यच्, गौरादिः ॥
सरस्वत्यास्तु कच्छपी ॥२८८॥
१ कच्छपसदृक्त्वात् कच्छपी ॥२८८॥
नारदस्य तु महती
१ महत्त्वाद् महती । 'ऋन्नेभ्यः- '४।१।५ ॥ इति ङीष् (डीप) ॥
गणानां तु प्रभावती ।
१ गणा ईश्वरसेवकास्तद्वीणा प्रभाऽस्त्यस्यां प्रभावती। 'तदस्यास्ति-'५।२।९४ ॥ इति मतुप्, 'उगितश्च'४।१।६॥ इति
ङीप्॥
२० विश्वावसोस्तु बृहती
१ विश्वावसोर्गन्धर्वविशेषस्य वीणा बृहत्त्वाद् बृहती॥
तुम्बुरोस्तु कलावती ॥२८९॥
१ तुम्बुरोर्देवविशेषस्य वीणा कला रूपमस्त्यस्यां कलावती ॥२८९॥
चण्डालानां तु कटोलवीणा चाण्डालिका च सा।
१ कट्यते तन्त्रीभिरावियते कटोलः । 'कटे वर्षा वरणयो: '(भ्वा.प.से.), 'कटिपटि-'(हैमोणा-४९३) इत्योलः । कटोलाख्या वीणा कटोलवीणा । २ चण्डालैः कृता चाण्डालिका। ठक् । चण्डालवीणायाः द्वे । 'रबाब' इति
३० भाषा । शैषिकाणि-“वल्लकी काण्डवीणा कुवीणा चं डक्कारी किन्नरी [तथा], सारिका खुडणी"[शेषनाममाला८३-८४॥] । हरादिचण्डालान्तवीणानामानि ॥
कायः कोलम्बकस्तस्याः
१ तस्याः वीणायोः कायः अलाबुदण्डककुभसमुदाय स्तन्त्री[र] हित: कोलम्बकः। के मूर्ध्नि अवलम्बन्ते तन्त्र्योऽत्रे ति कोलम्बकः । 'लबि अवलम्बने'( ), पृषोदरादिः । कुल्यते सम्यक् स्त्यायतेऽनेन शब्द इति वा। 'कुल संस्त्याने' (भ्वा.प.से.), बाहुलकादम्बकच् । एकं वीणाङ्गनिष्पन्नसमुदायस्य ॥
उपनाहो निबन्धनम् ॥२९०॥
१ उपनह्यतेऽनेन उपनाहः । 'नह(णह) बन्धने'
४० (दि.उ.अ.), 'हलश्च'३।३।१२१ ॥ इति करणे घञ् । वीणाया निबन्धनं येन चर्मणा क्रियते तन्नाम, 'खूटी' इति भाषा । प्रान्ते यत्र तन्त्र्यो निबध्यन्ते, तन्नाम वा ॥२९०॥
दण्डः पुनः प्रवाल: स्यात्
१ वीणायाँ दण्डः प्रवलति प्रवालः, पुंक्ली. । 'वल वल्ल संवरणे ( भ्वा.प.से.), 'ज्वलितिकसन्तेभ्यो णः' ३।१।१४० ॥, कर्मणि घञ् वा ('नालि' इति भाषा )।
ककुभस्तु प्रसेवकः ।
१ कं वातं स्कुभ्भाति ककुर्भ: । स्कुभे: सौत्रान्मूल विभुजादित्वात् कः, पृषोदरादित्वात् सलोपः । कक्यते वा ककुभैः।
५० 'कक लौल्ये'(भ्वा.आ.से.), 'ककेरुभ:'(हैमोणा-३३३)इत्युभः । "ककुभः प्रसेवक उक्त: '[ ]इति रत्नकोषः । २ ( प्रसीव्यत इति प्रसेवः, स्वार्थे के प्रसेवकः) । 'सेवं पेव मेवृ सेवने । (भ्वा.आ.से.), दन्त्यादिः, 'क्वुन् संज्ञायामपूर्वस्यापि '(उणा १९०) इति क्वुन् [वा] । यद्वा 'षिवु तन्तुसन्ताने'(दि.प.से.), 'अकर्तरि च कारके-'३।३।१९ ॥ इति घञन्तात संज्ञायां कन, 'हलश्च' ३।३।१२१ ॥ इति घबन्ताद्वा कन्प्रत्ययो द्रष्टव्यः । वीणाप्रान्ते ककुभप्रसेको वर्तेते इत्यन्वयः । वीणादण्डाध:स्थितं शब्द गाम्भीर्याय दारुमयं भाण्डं यच्चर्मणाऽऽच्छाद्यते, तन्नाम्नी द्वे । 'मोरणां' इति भाषा ॥
६० मूले वंशशलाका स्यात् कलिका कूणिकाऽपि च ॥२९॥
१. '-सदृशत्वात्' इति३ ।। २. --ऽस्त्यस्याः' इति ॥ ३. 'तुम्ब-' इति३.४॥ ४. १.२.४नास्ति ॥ ५. इतोऽग्रे २प्रतौ 'काण्डवीणायाः' इति दृश्यते ॥ ६. तुलनीयोऽमरकोषः १७७॥ ७. 'वीणादण्डः' इति१ ।। ८. '-संवरणे सञ्चरणे च' इति मा.धातुवृत्तिः, 'वल संवरणे' इति क्षीरतरङ्गिणी ॥ ९. कोष्ठान्तर्गतपाठ: १.३.४नास्ति ॥ १०. इतोऽग्रे रप्रतौ 'पुंक्लीः ' इति दृश्यते ॥ ११. १.३.४नास्ति ॥ १२. कोष्ठान्तर्गतपाठः १.३.४नास्ति ॥ १३. 'एव शेवृ षेवृ सेवृ केव खेव ग्लेवृ पेव प्लेव म्लेव सेवने' इति क्षीरतरङ्गिणी, 'षेवृ गेवृ ग्लेवृ प्लेव म्लेव सेचने' इति मा.धातुवृत्तिः ॥ १४. '-षेवृ-' इति४॥ १५. '-सेचने' इति२ ॥ १६. 'क्वुन् शिल्पिसंज्ञयोरपूर्वस्यापि' इत्युणादिगणसूत्रम् ॥ १७. 'मौरणा' इति१ ॥
वीणाया मूले या वंशशलाका सा कलयति तन्त्री कलिका । 'कल शब्दसंख्यानयोः (भ्वा.आ.से.) । "संज्ञायां क्वुन् [प्रत्ययः]''[मा.धातुवृत्तिः, भ्वादिः, धातुसं-३२५] इति माधवः । यद्वा 'कल संख्याने '(चु.उ.से.), णिजन्तः, कलयति कलिः । 'अच इ:'(उणा-५७८), ततो डीषि कली, स्वार्थे कन्, 'केण:'७।४।१३॥ इति हुस्वत्वे टापि कलिका। २ कूणयते तन्त्रों कूणिका । 'कूण शब्द '(चु.उ.से.), संज्ञायां क्वुन्, ‘प्रत्ययस्थात्-१७।३।४४॥ इतीत्वम् । 'खीली' इति भाषा ॥२९१॥
१० ततनामवाद्यभेदानुक्त्वा घननामवाद्यभेदानाह
कालस्य क्रियया मानं ताल:
१ क्रियया आवापनि क्रमनादिकया कालस्य निमेषा देर्मानं परिच्छेदकं प्रतिष्ठाहेतुस्तन्नामैकं तालः, चच्चपुटादिः।
यदाह
"चच्चपुटश्चाचपुटः पितापुत्रकस्तथा ।
उद्यतो वस्तुकश्चापि तालाः पञ्चविधाः स्मृताः॥१॥" []इति । अयं स्वर इयत्कालं गेयः, इयत्कालं विलम्बितः, इयत्कालं द्रुतम्, इयत्कालं मध्यमिति बोधयितुमीदृशैर्हस्तैरङ्गुल्या कुञ्चनप्रसारणादिक्रियाभिर्नर्तितव्यं गातव्यं चेति कालः क्रियायाः
२० प्रमाणमिति । तल्यते प्रतिष्ठीयतेऽनेनेति तालः। तल प्रतिष्ठा करणयोः'(चु.प.से.), चुरादिः, घञ् । हलायुधटीका तु-"कालो निमेषादिः, क्रिया आवापनिःक्रमाह्वयादिका, तयोर्माने परिच्छेदे तालः"[ ]इति भिनत्ति ॥
साम्यं पुनर्लयः ।
१ सामान्यतः साम्यं कालक्रिययोः समत्वं तस्यैकं लयः। लीयतेऽत्र लयः । 'लीथ्रेषणे'(दि.आ.अ.), एरच्' ३।३।५६॥ इत्यच् । गानगेययोरन्यूनाधिक्ये शृिष्टता लयः, स च द्रुतविलम्बित मध्यलक्षणः ॥
अथ विशेषेणाह
३० द्रुतं विलम्बितं मध्यमोघस्तत्त्वं घनं क्रमात्॥२९२॥
१ द्रवन्ति गच्छन्ति समुदायगतिप्रदर्शनार्थं करादयोऽत्रेति द्रुतम् । १ विलम्बन्ते करचरणादयः प्रत्येकं गतिविशेषप्रदर्शनाय अत्रेति विलम्बितम् । १ द्रुतविलम्बितयोर्मध्यभवत्वाद् मध्यम्। 'अ साम्प्रतिके'४।३।९॥ इति मध्यशब्दादकारप्रत्ययः । एषु यथाक्रममोघादित्रयम् । 'उच समवाये'(दि.प.से.), घञ्, पृषो दरदित्त्वाद् घत्वम्, तत्वम् । करचरणानां तननं तत् । 'तनु विस्तारे'(त.उ.से.), सम्पदादित्वाद् क्विप्, तद्योगाद् ‘अन्ये भ्योऽपि-'(वा-५।२।१०९॥)इति वः । घनः प्रागुक्तः-(शो २८६) । द्रुतादीनां लयानामोघाद्याः क्रमेण पर्यायाः क्रमाद् अनुक्रमेण ज्ञेयाः। तद्यथा-१ द्रुतलयस्य नाम ओघ: । २
४० विलम्बितलयस्य नाम तत्त्वम् । १ मध्यलयस्य नाम घनम् । भागुरिस्तु घनस्थानेऽनुगतमाह, यत्पाठः-"लम्बितद्रुतमध्यानि तत्त्वौघानुगतानि तु । अभिधानकृतामेष समयः"[१] । नाट्ये तु द्रुतादिलयानुसारेण क्रमादोघाद्या वाद्यप्रकाराः ॥२९२॥
घननामवाद्यभेदमुक्त्वा व्यत्ययेन आनद्धनामवाद्यमाह
मृदङ्गो मुरजः
१ मृद् अङ्गमस्य मृदङ्गः। मृदयत इति वा । 'मृद क्षोदे' (त्र्या.प.से.), 'त्रादिभ्यश्च'(उणा-)इत्यौणादिकोऽङ्गच्, बाहुल काद् गुणाभावः । २ मुरति मुर: चर्मपट्टिकावेष्टनम् । 'मुर वेष्टने' (तु.प.से.), 'इगुपध-'३।१।१३५॥ इति कः। मुरात् संवेष्टना-
५० ज्जातो मुरजः । ['पञ्चम्याम्-'३।२।९८॥ इति डः] ।मुळते बध्यत इति वा । 'मुर्व बन्धने '(भ्वा.प.से.), 'मुर्वेमुर्चेरजक् (हैमोणा १३२)इत्यजक् । सामान्येन द्वे मईलस्य ॥
अथ मृदङ्गभेदत्रयनामान्याह __
सोऽङ्क्यालिफ्यूर्ध्वक इति विधा ।
१ स इति मृदङ्गः, अङ्कोऽस्त्यस्याम् अङ्की, इनन्तः, उत्सङ्गस्थत्वात् । २ आलिङ्गोऽस्यास्ति आलिङ्गी, इनन्तः,
१. 'कल गतौ संख्याने च' इति क्षीरतरङ्गिण्यादौ ॥ २. 'सङ्कोचने' इति क्षीरतरङ्गिण्यादौ ॥ ३. 'विलम्बते' इति३॥ ४. 'तत्वोधा' इति१.२.४॥ ५.. द्र. स्वोपज्ञटीका २।२९२ ॥, पृ.६९॥ ६. 'तरत्यादिभ्यश्च'(उणा-११७)इत्युणादिगणसूत्रम्, वस्तुतस्तु विडादिभ्यः कित् (उणा-११८)इत्यनेनाऽङ्गच् युक्तः, तेन कित्त्वाद् गुणाभावः सुकरः ॥ ७. 'संवेष्टने' इति क्षीरतरङ्गिणी, 'परिवेष्टने' इति मा.धातुवृत्तिः ॥ ८. 'मुवी बन्धने' या क्षीरतरङ्गिण्यादौ॥ ९. ' 'मूर्वेर्मुर च' इति हैमोणादिगणसूत्रम् ॥
आलिङ्ग्य वादनात् । ३ ऊर्वीकृत्यैकेन मुखेन वादनाद् ऊर्ध्वं कायति ऊर्ध्वकः । अन्ये तु अङ्ग्यं यकारोपधमाहुः । तद्यथा
"सार्धतालत्रयायामचतुर्दशाङ्गलाननः ।
हरितक्याकृतिः स स्यादर्दयोङ्के स्थो हि वाद्यते ॥१॥" [ ] । आलिङ्ग्यमपि यकारोपधमूचुः । यथा
"चतुरङ्गलहीनोऽङ्क्यान्मुखे चैकाङ्गलेन यः ।
यवाकृतिःस आलिङ्ग्य आलिङ्ग्य स हि वाद्यते ॥२॥"[ ] |
"ऊर्ध्वको गोपुच्छवत् स त्रितालोऽष्टाङ्गुलो मुखे ।
धृत्वोचं वाद्यतेऽन्येषां वादनादूर्ध्वकम् ॥३॥"
१० [ ]इति शब्दार्णवः । अङ्के उत्सङ्गे साधुः अङ्क्यः । तत्र साधुः' ४।४।९८॥ इति यत् । वाद्यमान आलिङ्ग्यत इति आलिङ्ग्यः । आपवाल्लगेर्गत्यर्थात् कर्मणि ण्यत् । वादनार्थम् ऊर्धं (ऊर्धः सन्) कायति शब्दायते ऊर्धकः । ऊर्धशब्दोऽयम्, [अतो] निर्वकारः। तदुक्तं वर्णदेशनायाम्-"उजिहीते उद्गच्छतीति ऊर्धः। उत्पूर्वाद् आदेरुरोहतेः (ओहाङः) डप्रत्ययः उदुपसर्गस्य ऊरादेशे नैरुक्ते वकाररहित ऊर्धशब्दः । (यन्त्रपर्याय आश्रयपरे तन्त्रसमव कारोऽव्ययम्, वकारवांश्च)। तथा च भवभूति:-'ऊर्ध्वं धुनोति वायुः'[ ]इति । उपरि ध्वन्यत इति ऊर्ध्वम् । तन्त्रान्तरे ऊर्ध्व (ऊर्ध्वं)समानार्थ ऊर्ध्वशब्दोऽप्यनव्ययमदन्तोऽस्ति । ऊर्ध्वदेहे
२० भवमौर्ध्वदेहिकमिति अदन्तः, '-पूर्वपदाट्ठञ्'४।३।६०॥ इति जयादित्यः।
"कुर्वतीरुपलैस्तुङ्गैर्भुवनानीव मूर्ध्वजैः ।
तस्या वनालीरर्थेति चित्रनागजमूर्ध्वजैः ॥४॥"
[]इति कीचकवधे यमकाद् वकारवत्वमूवंशब्दस्येति ।
"हरीतक्याकृतिस्त्वङ्क्यो यवमध्यस्तथोर्ध्वकः ।
आलिङ्ग्यश्चैव गोपुच्छो मध्यदक्षिणवामगाः ॥५॥"
[*]इति नाट्ये चैते भेदाः ॥
स्याद् यशःपटहो ढक्का
१ यात्रादौ यशोऽर्थः पटहो यशःपटहः । २ __ ढगित्यव्यक्तं कायति वक्ति ढक्का । 'कै शब्दे'(भ्वा.प.अ.),
३० 'आतोऽनुपसर्गे कः'३।२३॥ । द्वे 'ढोल' इति ख्यातस्य॥
आनद्धनामवाद्यभेदमुक्त्वा शुषिरनामवाद्यभेदमाह
भेरी दुन्दुभिरानकः ॥२९३॥
पटहः
१ बिभेत्यस्याः शब्दादिति भेरी । 'बिभी भये' (जु.प.से.), ऋजेन्द्र-'(उणा-१८६)इति रक्, गौरादिः । भेरि स्तृतीयस्वरान्तोऽपि । "रवः प्रगल्भाहतभेरिसम्भवः, प्रकाशयामास समन्ततस्ततः"[ ]इति कुमारदासः। २ दाम्यति अन्यशब्दानिति दुन्दुभिः, पुंसि । “भेरी स्त्री दुन्दुभिः पुमान्"[अमरकोषः १६६॥] इत्यमरः। 'दमु उपशमे'(दि.प.से.), 'दर्मेंदुभिदु(१)म्
४० च'(हैमोणा-६८)इति साधुः । यद्वा दुन्दुशब्देन उभिः पूरणं यत्र स दुन्दुभिः। 'उभ उंभि(उन्भ) पूरणे'(तु.प.से.), औणादिक इ:, शकन्ध्वादिः।" 'दुन्द अव्यक्ते शब्दे' उभति औणादिकः"[ ] इति तु कौमुदी। "स्याद् भेाँ दुन्दुभिः पुंसि"[अमरकोषः ३।३।१३६ ॥] इत्यनेकार्थः । दुन्दुशब्देन भाति भाययति वा । दुन्दुं शब्दं भाषत इत्यन्ये । ३ आ अनिति अनेन वादितेन योद्धेति आनकः, पुंसि । “आनकोऽस्त्रियाम्''["]इति तु वाचस्पतिः। आयूर्वः ‘अन प्राणने '(अ.प.से.), 'कृञादिभ्यः संज्ञायां वुन्'(उणा-७१३), 'युवोरनाकौ ७।१।१॥, आ अनिति इति ण्वुल् वा ॥२९३॥ ४ पटच्छब्दं जहाति पटहः, पुंक्ली.। पृषोदरादि-
५० त्वात् तकारलोपः । पटन्ति हर्षं गच्छन्त्यत्रेति वा । 'पट गतौ' (भ्वा.प.से.), कृपृकटिकीकर्टि-(हैमोणा-५८९)इत्यहः प्रत्ययः। पटे हन्यत इति वा । चत्वारि भेर्याः । अपरे तु आद्ये द्वे भेर्या
नाम्नी, तत्रापि भिन्दन्ति भेरी' ढक्का कारा काहला मदनभेरी ___'बरघू' इति भाषा । दुन्दुभिस्तु भेर्याकारा सङ्कटमुखी
१. '-ङ्कस्थो' इति४॥ २. '-क्योन्मु-' इति४॥ ३. कोष्ठान्तर्गतपाठश्चलितस्तेन टीकासर्वस्वस्थोऽयम् “यस्तूपरिपर्याय आश्रयपरतन्त्रः, स मकारान्तोऽव्ययं वकारवांश्च" इति पाठो युक्तः, टीकासर्वस्वम्, भा-१, १७५ ॥, पृ.१३७॥ ४. द्र. टीकासर्वस्वम् , भा-१, १७।५॥, पृ.१३८ ॥, तत्र "कुर्वतीरुपलैस्तुङ्गैर्भुवनं नीचमूर्ध्वजैः । तस्याचलालीरन्वेति चित्रा नागचमूर्ध्वजैः ॥" इति दृश्यते ॥ ५. द्र. अमरकोशक्षीरस्वामिटीका १।६।६॥, पृ.४९॥ ६. द्र. अमरकोश १७६॥ ७. 'भेर्यानकदुन्दुभी' इति रामाश्रमीसम्मतः पाठः १७।६॥, पृ.९४ ॥ ८. 'दम-' इति१.२.४॥ ९. 'दुन्दुशब्दं' इति१ ॥ १०. द्र. स्वोपज्ञटीका २।२९३॥, पृ.६९॥ ११. '-कीकटि-' इत्यस्य स्थाने मुद्रितहैमोणादिगणेऽपि '-कीकटि-' इत्येव दृश्यते, तत्तु अशुद्धमेव, तत्स्थाने, अत्रापि च '-पटिमटि-' इत्येव योग्यम् ॥ १२. '-भेरि' इति २.३॥
नफेरीति भाषा । केचित्त्वग्रेतने द्वे दमामानाम्नी इत्याहुः। वाद्य विशेषाश्चात्र--
"अथ दर्दरे कलसीमुखः ।
सूत्रकोणो डमरुकं समौ पणवकङ्किणौ ॥१॥
शृङ्गवाद्ये शृङ्गमुखं हुडुक्कस्तालमर्दलः ।
काहला तु कुहाला स्याच्चण्डकोलाहला चसा ॥२॥
संवेशप्रतिबोधार्थं द्रगडद्रकटावुभौ ।
देवतार्चनतूर्ये तु धूमलो बलिरित्यपि ॥३॥
क्षुण्णकं मृतयात्रायां मङ्गलप्रियवादके ।
१० रणोद्यमे त्वर्धतूरो वाद्यभेदास्तथाऽपरे ॥४॥
डिण्डिमो झर्झरो मञ्चुस्तिमिला किरिकिच्चिका।
लुम्बिका दर्दरी वेध्या कलापूरादयोऽपि च ॥ ५॥"
[शेषनाममाला २।८४-८८ ॥] इति ॥
अथ शारिका स्यात् कोणो वीणादिवादनम् ।
१ शृणाति ताडयति वाद्यं शारिका । 'शू हिंसायाम्' (व्या.प.से.), ण्वुल्, 'युवोरनाकौ'७।१।१॥, टाप्, 'प्रत्ययस्थात् '७।३।४४ ॥ इतीत्वम् । २ कुणति शब्दायते वाद्यमनेन कोणः, पुंसि । 'कुण शब्दोपकरणयो: '(तु.प.से.), पचाद्यच् । “द्वयोस्तु
कोणो वीणादेर्वादनं शारिका च सा''[ ]इति शब्दार्णवे वाचस्पतिः ।
२० वीणादिर्वाद्यतेऽनेन वीणादिवादनम् । वर्णिजन्तात् करणे ल्युट। वादित्रवादनोपकरणस्य द्वे । पटहादिवादनोपकरणं दण्डः । वीणा दिवादिनी 'शिलाका' इति भाषा ॥
शारहास्यकरुणा रौद्रवीरभयानकाः ॥२९४॥
बीभत्साद्भुतशान्ताश्च रसाः
१ शृङ्गरसेषूत्तमत्त्वमियर्तिशृङ्गारः, पुंक्ली. ।'ऋगतौ' (जु.प.अ.), पचाद्यच्, 'सार्वधातुका-'७।३।८४ ।। इति गुणः । शृङ्गं काममाराति वा । 'राला दाने'(अ.प.अ), आतोऽनुसर्गे कः' ३।२।३ ।। । श्रयत्येनं जन इति वा । श्रिञ्सेवायाम्'(भ्वा.उ.से.), 'शृङ्गारभृङ्गारौ'(उणा-४१६)इत्यारनि साधुः । २ हासे साधुः हास्यः। 'तत्र साधुः' ४।४।९८ ॥ इति यत् । हास एव वा । सामाजिकानां
३० च वर्णागोचरतां गतो हास्यः, [यदाह-] "स्थाय्येवं तु रसो भवेत्''[ ] ।३ किरति विक्षिपति लोकचित्तानि करुणः । कृ विक्षेपे'(तु.प.से.), कृवृदारिभ्य उनन्'(उणा-३३३), टाप् । ४ रुद्रो देवताऽस्य रौद्रः । सास्य देवता'४।२।२४॥इत्यण् । यदुक्तम्
"शृङ्गारो विष्णुदेवः स्याद् वासः प्रथमदैवतः ।
करुणो यमदेवस्तु स्याद् रौद्रौ रुद्रदैवतः ॥१॥"
[ ]इति । ५ अजति गच्छति सत्त्ववृद्धिमनेनेति वीरः। 'अज गतौ क्षेपणे च'(भ्वा.प.से.), 'ऋजेन्द्र-'(उणा-१८६)इति रक् 'अजेय॑घञपो:'२।४।५६ ॥ इति वी आदेशः । वीरयन्ते विक्रा मन्ति जना अनेनेति वा । 'शर वीर विक्रान्तौ (च.आ.से.).
४० चुरादी, करणे घञ् । ६ बिभेत्यस्मादिति भयानकः । 'विभी भये'(जु.प.अ.), 'आनक: शीभियः '(उणा-३६२)इति सूत्रेण आनकप्रत्ययः ॥२९४॥ ७ बधेर्निन्दायां सन्, 'सन्यङोः' ६।१।९॥ इति द्वित्वम्, ['अ प्रत्ययात्'३।३।१०२ ॥ इत्यः, टाप् बीभत्सा] । बीभत्सा अस्त्यत्र बीभत्सः । अर्शआदित्वादच् । ८ 'अत्' इति आश्चर्यार्थेऽव्ययम् , तस्य भवनम् अद्भुतम्। 'अदि भुवो डुतन् '(उणा-६७९)इति डुतन् । ९ शाम्यते स्म शान्तः । ‘वा दान्तशान्तपूर्ण-'७।२।२७॥ इति निपातनात् साधुः । हास्यादयः शब्दाः पुंसि । गौडस्तु
"शृङ्गारवीरौ बीभत्सं रौद्रं हास्यं भयानकम् ।
५० करुणा चाद्भुतं शान्तं वात्सल्यं च रसा दश ॥२॥" ।
["]इति शृङ्गारवीरौ पुंस्युक्त्वा लिङ्गनिर्णयमाह । ग्रन्थान्तरेषु तु शृङ्गारादीनां लक्षणानि यथा-"प्रोज्ज्वलो धृतिहेतुर्भावः शृङ्गारः । सर्वाभिभाविता रौद्रः । यथा रावणचरितादिदानधर्म युद्धेषु । जीवानेकपक्षोत्साहकारी रसो वीरः । असम्भावि तमान्तरिक्षगमनादि[-जो विस्मयोऽद्भुतः । क्रुध्यद्राक्ष सादि-]भयजन्यो भयानक: । घृणाकरपूयवसादिजो बीभत्सः" । सामाजिकै रस्यन्ते चय॑न्ते रसाः, पुक्ली. । यदाह
"विभावैरनुभावैश्च मुक्तो वाच्यभिचारिभिः ।
आस्वाद्यत्वात्प्रधानत्वात्स्थाय्येवतुरसोभवेत् ॥३॥"[ ]इति।
६०
१. 'नपेरी-' इति२ ॥ २. 'कलशीमुखः' इति शेषनाममालास्वोपज्ञटीकयोः ॥ ३. '-झंकिणौ' इतिर, '-किङ्कणो' इति शेषनाममालास्वोपज्ञटीकयोः ॥ ४. '-मर्दकः' इति शेषनाममालास्वोपज्ञटीकयोः ॥ ५. 'माङ्गले प्रियवादिका' इति शेषनाममालास्वोपज्ञटीकयोः ॥ ६. 'मद्रु-' इति३, 'मड्ड - ' इति शेषनाममालास्वोपज्ञटीकयोः ॥ ७. द्र. रामाश्रमी १७ ॥६॥, पृ.९५ ॥ ८. 'वीणादि वाद्यते' इति१ ॥ ९. 'श्रयन्त्येनं' इति२ ॥ १०. 'स्थाय्यैव' इति१.२॥ ११. द्र. स्वोपज्ञटीका २।२९४ ॥, पृ.६९ ॥ १२. 'रौद्रौ' इति२.३, 'रौद्रे' इति४॥ १३. '-डुतच्' इत्युणादिगणे ॥ १४. द्र. स्वोपज्ञटीका २।२९५ ॥, पृ.७० ॥ १५. ३.४नास्ति ॥ १६. अम.क्षीरस्वामिटीका १।६।१७।।, पृ.५१॥, अमरकोषकृष्णमित्रटीका १७॥१७॥, पृ.८२ ॥
शृङ्गारादीनां शान्तान्तानामेकोक्त्या नामैकं रसाः इति ॥
भावाः पुनस्त्रिधा । स्थायिसात्त्विकसञ्चारिप्रभेदैः
१ भावयन्ति कुर्वन्ति रसानिति भावाः । स्वकारणाद् भवन्तीति वा । भावयन्ति व्याप्नुवन्ति सामाजिकमनांसीति वा। "मनोविकारो रत्यादिर्भावः''[ ] इति बृहस्पतिः । यदुक्तं भरतेन
"नानाभिनयसम्बन्धाद् भावयन्ति रसानिमान् ।
यस्मात्तस्मादमी भावा विज्ञेया नाट्ययोक्तृभिः ॥१॥" []इति । पुनः भावास्त्रिधा त्रिप्रकाराः । १ सामाजिकानां
१० वासनारूपेण तिष्ठन्ति स्थायिनः । ‘ष्ठा गतिनिवृत्तौ'(भ्वा. प.अ.), 'नन्दिग्रहिपचादिभ्यः-'३।१।१३४॥ इति णिनिः, 'आतो युक् चिण्कृतोः' ७।३।३३॥ इति युक्। २ सीदत्यस्मिन् मन इति सत्त्वम्, गुणोत्कर्षात् साधुत्वाच्च प्राणात्मकं वस्तु सत्त्वम्, तत्रं भवाः सात्त्विकाः । ३ सञ्चरन्ति न सततमवतिष्ठन्त इति सञ्चारिणः, व्यभिचारिणः, ते च ते प्रभेदाश्च स्थायिसात्त्विक प्रभेदाः, तैः स्थायिसात्त्विकसञ्चारिप्रभेदैः । स्थाय्यादीनां त्रयाणां साधारण्येनैकं 'भावाः' इति ॥
नवभेदम्, प्रथमं स्थायिनं भावं निरूपयति
स्याद् रतिः पुनः ॥२९५॥
२० रागोऽनुरागोऽनुरतिः
१ रमणं रतिः, परस्परास्थाबन्धः । 'रमु क्रीडायाम्' (भ्वा.आ.अ.), 'स्त्रियां क्तिन्'३।३।९४॥, 'अनुदात्तोपदेश-' ६।४।३७॥ इति म्लोपः ॥२९५॥२ रञ्जनं रागः । रज्यतेऽनेनेति वा। रञ्ज रागे'(दि.उ.अ.), भावे करणे वा घन्, 'घजि च भाव करणयोः '६।४।२७॥ इति न्लोपः, 'चजो:- '७।३।५२ ॥ इति कुत्वम्, 'अत उपधायाः '७।२।११६ ।।। ३ एवमनुरञ्जनम्
अनुरागः । ४ अनुरमणम् अनुरतिः । चत्वारि रागस्य ॥
हासस्तु हसनं हसः ।
घर्घरो हासिका हास्यम्
१ हसनं हास: । हस(हसे) हसने'(भ्वा.प.से.), भावे
३० __ घञ् । [२ हस्यते हसनम् । 'हसे हसने'(भ्वा.प.से.), ल्युट्] । ३ हसनं हसः । 'हस(हसे) हसने (भ्वा.प.से.), 'स्वनर्ह (ह) सोर्वा'३ ३ ६२ ॥ इत्यच्(-प्) । ४ घर्घरहेतुत्वाद् घर्धरः, सघोषा अव्यक्तवाक् । ५ हसनं हासिका। धात्वर्थनिर्देशे ण्वुल् वक्तव्यः' (वा-३।३।१०८॥इति ण्वुल् । ६ हसनीयं हास्यम् । 'ऋहलोर्ण्यत्' ३।१।१२४॥ । षट् सामान्येन हासस्य ॥
अथ हास्यभेदानाह
तत्रादृष्टदे स्मितम् ॥२९६॥ वक्रोष्ठिका
१ तत्रेति हासे अदृष्टरदे, न दृष्टा रदा दन्ता यत्र स
४० अदृष्टरदः, तत्र ।
"ईषद्विकसितैर्दन्तैः कटाक्षैः सौष्ठवान्वितः ।
अलक्षितद्विजद्वारमुत्तमानां स्मितं भवेत् ॥१॥"[] इति। स्मिङ् ईषद्धसने'(भ्वा.आ.अ.), क्त: [स्मितम्]॥२९६॥२ वक्र ओष्ठोऽस्यां वक्रोष्ठी, स्वार्थे के वक्रोष्ठिका, स्त्रीक्ली. । यद्गौड:-"स्मिते वक्रोष्ठिका नंना''[ ] द्वे ।अदृष्टदन्तहासस्य।
अथ हसितं किञ्चिद् दृष्टरदाङ्करे ।
१ हस्यते स्म हसितम्, किञ्चिदृष्टा रदा दन्ता __ एवाङ्करा यस्मिन् सः, तस्मिन् । एकं किञ्चिदृष्टदन्तहासस्य॥
किञ्चिच्छ्रुते विहसितम्
५० १ सशब्दत्वात् किञ्चित् श्रुते हासे विहसितम् । यद्भरत:
"आकुञ्चिताक्षिगण्डं यत् सस्वनं मधुरं तथा ।।
कालागतं साऽऽस्यरागं तद्वै विहसितं भवेत् ॥१॥"
[] | पुन:
"आकुञ्चितकपोलाक्षं सस्वनं नि:स्वनं तथा ।
प्रस्तावोत्थं सानुरागमाहुर्विहसितं बुधाः ॥२॥"
[]इति । एकं सशब्दनिरन्तरहासस्य ॥
१. द्र. अम.क्षीरस्वामिटीका १६ ॥२२॥, पृ.५२ ।। २. 'ततो' इति३ ॥ ३. 'हास्यस्य' इति१ ॥ ४. 'अदृष्टि-' इति४ ॥ ५. द्र. रामाश्रमी १७।३४ ॥, पृ.१०९ ।।, टीकासर्वस्वे 'ईषद्विकसितैर्गण्डैः कटाक्षैः सौष्ठवान्वितैः । अलक्षितद्विजं धीरमुत्तमानां स्मितं भवेत् ॥" भा-१, १७।३४॥, पृ.१६२ ॥ ६. पुमान्नेत्यर्थः ॥ ७. 'हास्यस्य' इति२ ।। ८. द्र. स्वोपज्ञटीका २।२९७ ।।, पृ.७० ॥, टीकासर्वस्वम्, भा-१, १७।३५ ॥, पृ.१६३ ॥ ९. द्र. रामाश्रमी १७।३५ ।।, पृ.१०९ ।।
अट्टहासो महीयसि ॥२९७॥
१ अट्टेति हसनम् अट्टहासः, महाशब्दत्वाट् महीयसि अतिवृद्धे हास्ये । 'खडखडहासे' इति भाषा ॥२९७॥ अतिहासस्त्वनुस्यूते
१ अनुस्यूतेऽनवच्छिन्नहासे, अतिशयेन हसनम् अतिहासः। भावे घञ् । एकं प्रचुरहासस्य ॥
अपहासोऽकारणात् कृते ।
१ अकारणात् कारणमन्तरेण कृते हासे, अपकृष्टं हसनम् अपहासः ॥
१० सोत्प्रासे त्वाच्छुरितकम्
१ ऊर्ध्वं प्रकर्षेणाऽसनं गमनमुत्प्रासः आधिक्यम् । 'अस गतिदीप्त्यादानेषु'(भ्वा.उ.से.), भावे घञ् । ततः सव्रितः (सहितः) सोत्प्रासः, अधिको महान् हासः । यद्वा उत्प्रास्यते सामर्षोऽन्यः क्रियतेऽनेन उत्प्रास उपहासः, सह उत्प्रासेन वर्तते यः स सोत्प्रासः, तस्मिन्, । आच्छुरणम् आच्छुरितकम् । 'छुर छेदने'(तु.प.से), भावे क्तः, 'आर्धधातुकस्य-'७।२।३५॥ इतीट्, ततः स्वार्थे कः, आ समन्तादनवच्छिन्नमित्यर्थः, द्वितीय स्वरादिरयम् । एकं मस्करीसहितहासस्य ।।
हसनं स्फुरदोष्ठके ॥२९८॥
२० १ स्फुरन् चलन् ओष्ठो यस्मिन् स्फुरदोष्ठके । हस्यत इति हसनम् । हस हसने'( ), ल्युट् । एकं होठफुरकण हासस्य ॥२९८॥
शोकः शुक् शोचनं खेदः
१ शोचनं शोकः । 'शुच शोके '(भ्वा.प.से.), भावे घञ्, 'चजोः-७।३।५२॥ इति कुत्वम् । २ शोचनं शुक् । सम्पदादित्वात् क्विप्, चान्तोऽयम्, स्त्रीलिङ्गः । ३ शुच्यते शोचनम् । ल्युट् । ४ खेदनं खेदः । 'खिद दैन्ये'(दि.आ.अ.), भावे घञ् । चत्वारि शोकस्य ॥
क्रोधो मन्युः क्रुधा रुषा ।
३० कुत् कोपः प्रतिघो रोषः रुट च
१ क्रोधनं क्रोधः । 'क्रुध कोपे'(दि.प.अ.), भावे घञ् । "तीक्ष्ण प्रबोधः क्रोधः"[ ]इति लक्षणम् । २ मन्यते विपरीतलक्षणया मन्युः, पुंसि । 'मन ज्ञाने'(दि.आ.अ.), 'यु(य)जिमनिशुन्धिजनिभ्यो युच'(उणा-३००)इति युच्, बाहुलकान अनादेशः । ३ क्रोधनं कुधा । भिदादित्वाद, टाप। ४ रोषणं रुषा । 'रुष रोषे'(दि.प.से.), भिदादित्वाद, [टाप्] । "कोपो भामः क्रुधा रुषा"[]इति शब्दार्णवः। ५ क्रोधनं क्रुत्, स्त्रीलिङ्गः। 'क्रुध कोपे'(दि.प.अ.), सम्पदा दित्वात् क्विप् । क्रुधौ, क्रुधः इत्यादि । ६ कोपनं कोपः। 'कुप कोपे'(दि.प.से.), भावे घञ् । ७ प्रतिहन्यत इति
४० प्रतिघः । 'हन्(हन) हिंसागत्योः'(अ.प.अ.), बाहुलकात् 'परौ घः'३३८४॥ इत्यप्, घत्वं च । "प्रतिहन्ति, 'अन्य त्रापि-'(वा-३२४८॥) डे प्रतिघः, न्यङ्क्वादिः"[ ]इति तु कौमुदी । ८ रोषणं रोषः । भावे घञ् । ९ रोषणं रुट्। 'रुष रोषे'(दि.प.से.), सम्पदादिः, स्त्रीलिङ्गः । रुषौ, रुषः
इत्यादि । नव क्रोधस्य ॥
उत्साहः प्रगल्भता ॥२९९॥ अभियोगोद्यमौ प्रौढिरुद्योगः कियदेतिका । अध्यवसाय ऊर्जः
१ उत्सहनम् उत्साहः । षह मर्षणे'(भ्वा.आ.से.),
५० भावे घञ्। स्थेयान् संरम्भ उत्साहः । २ प्रगल्भस्य भावः प्रगल्भता ॥२९९॥ ३ अभियोजनम् अभियोगः । 'युजिर् योगे'(रु.उ.अ.), भावे घञ् । ४ उद्यमनम् उद्यमः, पुंक्ली.। 'यम नियमने '(भ्वा.प.से.), घजि 'उद्यमोपरमौ'(हैमसू ४।३।५७॥) इति साधुः। ५ प्रवहणं प्रौढिः। प्रपूर्वाद् 'वह प्रापणे '(भ्वा.उ.अ.), अस्मात् स्त्रियां क्तिनि 'ग्रहिज्या-' ६।११६॥ इति सम्प्रसारणे 'प्रादूहोढौ(ढो)ढये-(वा-६।१।८९॥) इति वृद्धिः । ६ उद्योजनम् उद्योगः। ७ कियद् एतदित्य भिप्रायोऽस्यां कियदेतिका । मयूरव्यंसकादित्वात् साधुः। ८ अध्यवसीयते अध्यवसायः । षोऽन्तकर्मणि'(दि.प.अ.), भावे
६० घञ्, 'आदेच :- '६।१।४५ ॥ इत्यात्वम्, 'आतो युक् चिण्कृतोः ७।३।३३।। ९ ऊर्जनम् ऊर्जः । 'ऊर्ज बलप्राण नयोः'(चु.उ.से.), भावे घञ्। नव सामान्येन उद्यमस्य॥
अथ वीर्यं सोऽतिशयान्वितः ॥३०॥
१ स उत्साहः सातिशयः प्रकृष्टशक्तिभाग् वीर्यम् उच्यते । वीरे साधु वीर्यम् । 'तत्र साधुः'४।४।९८ ॥ इति यत् । वीर्यते विक्रम्यत इति वा । 'वीर विक्रान्तौ' (चु.आ.अ.), बाहुलकाद् भावे यः । “वीरस्य कर्म"[ ] इत्यन्ये । “अतिशयशक्तिर्वीर्या"[ ]इत्यमरमालायां स्त्रीत्वम् । एकमतिशयिताध्यवसायस्य ॥३००॥
७०
१. 'खडखड' इति३ ।। २. '-हास्ये' इति४॥ ३. 'अच्छुरणम्' इति१॥ ४. 'लक्षणे' इति२॥ ५. 'भीमः' इति३.४॥ ६. द्र. रामाश्रमी १७२६॥, पृ.१०४॥ तत्र "क्रोधो भामः क्रुधा रुषा" इति दृश्यते ॥ ७. '-नियमे' इति३, क्षीरतरङ्गिण्यादौ नियमनार्थकयमधातुर्न दृश्यते ॥ ८. 'उच्यन्ते' इति२॥ ९. रामाश्रमी १७।२९ ॥, पृ.१०५॥
भयं भी तिरातङ्क आशङ्का साध्वंसं दरः। भिया च
. १ भीतिः भयम् । 'विभी भये'(जु.प.अ.),"अज्विधौ भयादीनामुपसंख्यानम्' नपुंसके क्तादिनिवृत्त्यर्थम्'( )इति क्तल्युटौ बाधित्वा अज् भवति । पारायणे तु वासरूपेण क्तोऽपि दर्शितः, तदसत्, क्तल्युट्तुम(मु)न्खलर्थेषु वासरूपविधेः प्रतिषेधात्''[मा. धातुवृत्तिः, जुहोत्यादिः, धातुसं-२]इति माधवः । २ भीतिः भी:, स्त्रीलिङ्गः । सम्पदादित्वात् क्विप्। ३ भीतिः, 'स्त्रियां क्तिन्'
३।३।९४॥ । ४ आतङ्कनम् आतङ्कः । 'तकि कृच्छ्रजीवने'
१० (भ्वा.प.से.), भावे घब् । ५ आशङ्कनम् आशङ्का । 'शकि शङ्का याम्'(भ्वा.आ.से.), भिदादित्वादङ्, टाप् । ६ साधून् अस्यति साध्वसम् । असु क्षेपणे'(दि.प.से.), पचाद्यच्। ७ दरणं दरः, पुंक्ली. । 'दृ भये '(भ्वा.प.से.), ऋदोरप्'३।३।५७॥ १८ भिया। भिदादित्वादङ्, 'अचि श्नुधातु-'६।४७७ ॥ इतीयङ्, टाप् । अष्टौ सामान्येन भयस्य ॥
अथ भयविशेषानाह
तच्चाहिभयं भूपतीनां स्वपक्षजम् ॥३०॥
१ तच्छब्दस्य पूर्वपरामर्शित्वात् तदिति भयम्, भूपतीनां राज्ञाम्, स्वपक्षाद् राजपुत्रादेर्जातं स्वपक्षजम् अहिभयम् इत्यु
२० च्यते । अहेरिव गृहस्थिताद् भयम् अहिभयम् इत्येकं नाम,
'ग्रासियार्नु भय' इति भाषा ॥३०१॥
अदृष्टं वह्नितोयादेः
१ वह्नितोयाभ्याम्,आदिशब्दाद्अशनिपिशाचादेर्यद्रयम्, तद् अदृष्टम् इति प्रोच्यते ॥
दृष्टं स्वपरचक्रजम् ।
१ स्वदेशचौराटव्यादिभयं परदेशाद् दाहविलोपादिभयम्, तयो मैकं दृष्टम् इति ॥
भयङ्करं प्रतिभयं भीमं भीष्मं भयानकम् ॥३०॥ भीषणं भैरवं घोर दारुणं च भयावहम् ।
३० १ भयं करोति भयङ्करम् । 'मेघर्तिभयेषु कृषः'३।२। ४३॥ इति खच् । २ प्रतिगतं भयेन प्रतिभयम् । प्रादि समासः । ३ बिभेत्यस्माद् भीमम् । ४ बिभेत्यस्मादिति भीष्मम्। 'बिभी भये'(जु.प.अ.), उभयत्र 'भियः षुग्वा'(उणा-१४५)इति मक्षुको। "तथा 'भीमादयोऽपादाने'३।४।७४॥ इति भीमभीष्मो साधू"[ ]इति सर्वधरः । ५ बिभेत्यस्माद् भयानकम्। 'आनकः शिभियः'(उणा-३६२)इत्यानकः ॥३०२॥ ६ भीषयति भीषणम्। 'जिभी भये'(जु.प.अ.), अस्माण्णिजन्ताद् नन्द्यादित्वाद् ल्युः । ७ भीरोरिदम् त्रासकृदिति भैरवम् । तस्ये दम्'४।३।१२०॥ इत्यण् । ८ घुरत्यस्माद् घोरम् । 'घुर भीमार्य (र्थ)शब्दयोः'(तु.प.से.), पचाद्यच् । हन्ति वा घोरम् । 'हन्ते-
४० घुर्च'(उणा-७४२)इति अच्। “हन्तेपुरजादेशश्च"[ ]इति तु कौमुदी । ९ दारयति चित्तमिति दारुणम् । 'द विदारणे' (त्र्या.प.से.), कृवृत॒दारिभ्य उनन्'(उणा-३३३)इत्युनन् । १० भयमावहति भयावहम् । 'वह प्रापणे'(भ्वा.उ.अ.), पचाद्यच् । दश भयङ्करस्य । "भयङ्करे तु डमरमाभीलं भासुरम्''[शेष नाममाला २४९॥]शैषिकाणि ॥
जुगुप्सा तु घृणा
१ जुगुप्सनं जुगुप्सा, चित्तसङ्कोचः । 'गुप्(गुप) कुत्सर्ने '(भ्वा.आ.से.) गप्तिज्किद्भयः सन्'३।१।५॥, 'सन्यङोः' ६१९॥ इति द्वित्वम्, 'अ प्रत्ययात्'३।३।१०२॥ इति अप्रत्ययः
५० तदन्तश्च, स्त्रियां [टाप्] । २ जिघर्ति क्षरति मनोऽनया घृणा। 'घृ क्षरणदीप्त्योः (जु.प.अ.), [बाहुलकानक्] । द्वे चित्त
सङ्कोचस्य ॥
अथ स्याद् विस्मयश्चित्रमद्भुतम् ॥३०३॥ चौद्यार्थर्ये
१ विस्मयनं विस्मयः । विपूर्वः 'स्मिङ् ईषद्धसने' (भ्वा.आ.अ.), अद्भुतार्थः, दन्त्यमध्यः, 'सात्पदाद्यो:'८।३।१११॥ इति षत्वप्रतिषेधः । २ चीयत इति चित्रम्। 'चिञ् चयने' (स्वा.उ.अ.), 'अमिचिमिदिशासिभ्यस्वन् '(उणा-६०३)इति बन्। चित्रयति चित्रमिति वा । चित्रिधातोः पचाद्यच् । ३ अदित्या-
६० श्चर्यार्थेऽव्ययम्, तस्य भवनम् अद्भुतम्। 'अदि भुवो डुतन् ' (उणा-६७९)॥३०३॥४.चोद्यत इति चोद्यम् । 'चुद प्रेरणे' (चु.उ.से.), 'ऋहलोर्ण्यत्'३।१।१२४॥ । ५ आचरणीयम्
१. अजेव' इति मा.धातुवृत्तिः, पृ.३८५ ॥ २. जिभी-' इति१ ॥ ३. '-यानो भय' इति४॥ ४. '-विलाप-' इति१.२ ।। ५. 'हन्तेरच् घुर् च' इत्युणादिगणसूत्रम्॥ ६. ३नास्ति ॥ ७. -वृदारि-' इत्युणादिगणे ॥ ८. 'भयङ्करे तु' इति१.२.४नास्ति ॥ ९. -साऽथ' इति१ ॥ १०. 'गोपने' इति क्षीरतरङ्गिण्यादौ ॥ ११. 'षत्वं प्रति-' इति१.४॥ १२. '-शसिभ्यः कत्रः' इत्युणादिगणे ॥ १३. '-डुतच्' इत्युणादिगणे॥ १४. 'सञ्चोदनम्' इति क्षीरतरङ्गिण्यादौ ॥
आश्चर्यम् । 'चर गतौ'(भ्वा.आ.से.), '[आश्चर्यम्] अनित्ये' ६।१।१४७॥ इति साधुः । एते पञ्चापि चेतोविस्तारपर्यायाः। पञ्च आश्चर्यस्य, 'तमासा' इति भाषा ॥ "फुल्लकं मोहो वीक्ष" [शेषनाममाला २।८९॥]शैषिकाणि॥
शमः शान्तिः शमथोपशमावपि । तृष्णाक्षयः
१ शमनं शमः । 'शर्मु उपशमे'(दि.प.से.), भावे घन्, 'नोदात्तोपदेशस्य-'७३३४॥ इति वृद्धिनिषेधः । २ शमनं
शान्तिः । 'शमु उपशमे '(दि.प.से.), 'स्त्रियां क्तिन्'३।३।
१० ९४॥, 'अनुनासिकस्य क्विझलो:-'६।४।१५॥ इति दीर्घः, 'तितुत्र-'७।२।९॥ इतीनिषेधः, 'नश्चापदान्तस्य-'८।३।२४॥ इत्यनुस्वारः, [ अनुस्वारस्य-'८४५८॥ इति परसवर्णः] । ३ शमनं शमथः । बाहुलकादथच् । ४ उपशमनम् उपशमः। घजि 'नोदात्तोपदेश-'७।३।३४॥ इति न वृद्धिः । ६ तृष्णायाः गर्धस्य क्षयः तृष्णाक्षयः। शान्तः पञ्च ॥
अथ स्थायिभावानामुपसंहारमाह
स्थायिनोऽमी रसानां कारणं क्रमात् ॥३०४॥
अमी रत्यादयः शान्तिपर्यन्ताः रसानां शृङ्गारादीनां नवानां क्रमादनुक्रमेण कारणं कारणभूता इत्यर्थः ॥३०४॥
२० __ अथाष्टविधं सात्त्विकभावं प्रकटयति
स्तम्भो जाड्यम्
१ स्तम्भनं स्तम्भः । स्तम्भु रोधने'(सौत्रः व्या.प.से.), भावे घञ् । २ जडस्य भावो जाड्यम् । गुणवचनब्राह्मणादिभ्यः कर्मणि च'५।१।१२४ ॥ इति ष्य। द्वे विष्टब्धत्वस्य ॥
स्वेदो घर्मनिदाघौ
१ स्वेदनं स्वेदः । 'जिष्विदो गात्रप्रक्षरणे'(दि.प. से.), भावे घञ् । २ घरति सिञ्चत्यङ्गं धर्मः । 'घृ सेचने' (भ्वा.प.अ.), 'धर्मः'(उणा-१४६)इत्युणादिसूत्रेण निपातः । ३ निदह्यतेऽनेनाङ्गमिति निदाघः । 'दह भस्मीकरणे'(भ्वा.प.अ.), घञि, 'संज्ञायां मघमेघानिदाघावदाघो- '(गणसू-७।३।५३॥) ३० इति साधुः । निदध्यतेऽनेनेति वा। 'दघ घातने पालने च' (स्वा.प.से.), करणे घञ् । त्रीणि प्रस्वेदस्य ॥
पुलकः पुनः ।
रोमाञ्चः कण्टको रोमविकारो रोमहर्षणम् ॥३०५॥
रोमोद्गम उर्दूषणमुल्लुकसनमित्यपि ।
१ पोलति महद् भवत्यङ्गमनेन पुलकः, पुंक्ली. । 'पुल महत्त्वे'(भ्वा.प.से.), संज्ञायां क्वुन् । २ रोम्णामञ्चनं रोमाञ्चः। 'अञ्च गतिपूजनयोः'(भ्वा.प.से.), भावे घञ्। "न क्वादे :'७।३।५९॥ इति योगविभागान कुत्वम्"["]इति भाषावृत्तिः। ३ कण्टतीति कण्टकः, पुंक्ली. । 'कटिं गतौ'
४० (भ्वा.प.से.), संज्ञायां, क्वुन् । कण्टकतुल्यत्वाद् वा । ४ . रोमाणि विक्रियन्तेऽनेन रोमविकारः । 'डुकृञ् करणे' (त.उ.अ.), करणे घञ् । ५ रोमाणि हृष्यन्त्यनेन रोमहर्षणम्। 'हर्ष हर्षे'(भ्वा.प.से.), 'करणाधिकरणयोश्च'३।३।११७॥ इति करणे ल्युट् ॥३०५॥ ६ रोमाणि उद्गच्छ्न्त्य नेन रोमोद्गमः । घञ् । ७ उद्धृषति उच्छ्वसित्यङ्गमनेन उद्भुषणम् । 'धुर्षे कान्तिकरणे'(चु.उ.से.), करणे ल्युट् । ८ उल्लुकसति उच्छ्वसित्यनेनाङ्गमिति उल्लुकसनम् । 'उद्धृष उल्लुक[स] उच्छ्वसने ' वाक्यकरणीयावेतौ, आद्यस्तुदादौ कुटादिः, कुटा दित्वादेवोपधाया लघोः ['गाङ्कयादिभ्योऽणिन्डित्' १२।१॥]इति
५० गुणाभावः । उल्लुकसनमित्यत्र संयुक्तवर्णपरत्वादुकारस्य दीर्घत्वान्न गुणः । एतौ पञ्चमस्वरादी करणार्थल्युडन्तौ । अष्ट रोमाञ्चस्य ॥
स्वरभेदस्तु कल्लत्वं स्वरे
१ स्वरस्य भेदः स्वरभेदः स्वरोपघातनामैकम्, 'गल गर्नु, स्वरभङ्ग' इत्यादिभाषा, स्वरे स्वरविषये कल्लत्वम् अव्यक्तत्वम् । यदाह पथ्यापथ्यकार:-"स्वरभेदः स्वररुजा स्वरघातः स्वरक्षयः स्वरोपघातः"[ ]इत्यादि ॥
१. 'वीक्ष्यं' इति४, तथा शेषनाममालास्वोपज्ञटीकयोः ॥ २. 'शम' इति३.४॥ ३. 'क्षयं' इति१॥ ४. 'ष्यन्' इति३.४॥ ५. क्षीरतरङ्गिण्यादौ जिरहितः पाठः ॥ ६. 'संज्ञायां मेघनिदाघावदाघार्घाः' इति गणसूत्रम् ॥ ७. 'पालने च' इति क्षीरतरङ्गिण्यां नास्ति ॥ ८. 'उल्लकसन-' इत्याचार्याः प स्वोपज्ञटीकाऽपि तमाश्रित्यैव कृता ॥ ९. 'न्यवादेः' इति३.४॥ १०. भाषावृत्तौ " 'न' इति योगविभागान्नेह-रोमाञ्चः, शोच्यम्" इति दृश्यते, भाषावृत्तिः ७।३।५९॥, पृ.३४५॥ ११. इ ई वा प्रशिष्टः स्यात् तर्हि 'कटी' इति, अत्र मा. धातुवृत्तिरवलोकनीया, पृ.१११ ॥ १२. 'विक्रियतेऽनेनेति' इति१ ॥ १३. 'हषु अलीके' इति क्षीरतरङ्गिण्यादौ, "अलीकमानन्द इति काशकृत्स्नधातुव्याख्यानम् (पृष्ठ.४५)" इति क्षीरतरङ्गिणीटिप्पणी, पृ.१०२॥, टि-२॥ १४. क्षीरतरङ्गिण्यादौ 'धूष' इति षष्ठस्वरवान् धातुदृश्यते ॥ १५. हेमचन्द्राचार्यकृतधातुपारायणतृतीयपरिशिष्टे धातुपारायणे ये लोकिका : वाक्यकरणीया आगमिकाश्च धातवो न सङ्ग्रहीतास्ते ग्रन्थान्तरेभ्य उद्धृत्य सम्पादकेन स्थापितास्तत्र "५ उद्धषत् ६ उल्लकसत् उच्छ्वसने । उद्धृषति उच्छ्वसति । [रोमोद्गम उद्धषणमुल्लकसनमित्यपि अ.चि. २२२०] ॥" इति दृश्यते पृ.३६४॥ १६. "उल्लक-' इति१.२.४॥ १७. '-गलूं' इति४॥
कम्पस्तु वेपथुः ॥३०६॥
१ कम्पनं कम्पः । कपि चलने'(भ्वा.आ.से.), भावे घञ्। २ वेपनं वेपथुः । 'टुवेप कम्पने '(भ्वा.आ.से.), 'ट्वितोऽथुच्'३।३८९ ॥, पुंसि । द्वे कम्पस्य ॥३०६॥
वैवर्यं कालिका
१ विरुद्धो वर्णो विवर्णः, विवर्णस्य भावो वैवर्ण्यम् । २ कालस्य भावः कालिका | चौरादित्वाद् वुन् । कालयतीति वा । 'काले वर्णे'(चु.उ.से.), ण्वुल् । द्वे विरुद्धवर्णस्य । वर्णविपर्यय वर्णपालटु इति भाषा ॥
१० __ अथाश्रु बाष्पो नेत्राम्बु रोदनम् । अस्त्रमनुः
१ अश्नुते व्याप्नोति कण्ठमिति अश्रु, क्लीबे । 'अशू व्याप्तौ'(स्वा.आ.वे.), अश्वादयश्च'(उणा-७०७) निपात्या इति साधु । २ बाधते नेत्रमिति बाष्यः, पुंक्ली.। 'बाधृ लोडने' (भ्वा.आ.से.), 'खष्पशिल्पशष्पबाष्परूपतर्पतल्पा:'(उणा ३०८)इति साधु । ३ नेत्रस्याम्बु नेत्राम्बु । ४ रुद्यते रोदनम्। 'रुदिर् अश्रुविमोचने'(अ.प.से.), ल्युट च'३।३।११५ ।। इति ल्युट् । ५ अस्यते अस्त्रम् । असु क्षेपणे'(दि.प.से.), बाहुलकाद् रक् । ६ अस्यते अस्त्रु, क्लीबे, दन्त्यसः । 'असु क्षेपणे'
२० (दि.प.से.), 'अश्वादयश्च'(उणा-७०७)इति साधु । षट् अश्रुणः "लात:(लोत:)"[शेषनाममाला २१८९॥]इति शैषिकम् ॥
प्रलयस्त्वचेष्टता
१ प्रलीयते क्रिया अत्र प्रलयः। 'लीङ् विलयने' (दि.आ.अ.), अधिकरणे घञ् । २ अचेष्टता गतचेतनत्वम्। यदाहु:-"स्तम्भे विचेतनत्वम्, प्रलये गतचेतनत्वम्, अत एव सहसैव निपतनं भुवि भवति, महाभूतशैथिल्यात्''[]। द्वे मूर्छायाः ॥
अथोपसंहरति
इत्यष्ट सात्त्विकाः ॥३०७॥
३० इत्येते पूर्वोक्ता अष्टौ सात्त्विकाः । यदुक्तम्
"स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभेदोऽथ वेपथः ।
वैवर्ण्यमथुप्रलयावित्यष्टौ सात्त्विका गुणाः ॥१॥" []इति ॥
धृतिः सन्तोषः स्वास्थ्यं स्यात्
१ धरणं धृतिः। 'धृञ् धारणे'(भ्वा.उ.अ.), 'स्त्रियां क्तिन्'३।३१४॥ १२ सन्तोषणं सन्तोषः । 'तुष तुष्टौ' (दि.प.अ.), भावे घञ् । ३ स्वस्थस्य भावः स्वास्थ्यम् । त्रीणि सन्तोषस्य ॥
आध्यानं स्मरणं स्मृतिः ।
१ आध्यायते आध्यानम् । 'ध्यै चिन्तायाम्'(भ्वा.प. अ.), ल्युट च'३।३।११५॥ इति ल्युट् । २ स्मर्यते स्मरणम्।
४० 'स्मृ चिन्तायाम्'(भ्वा.प.अ.), ल्युट् । ३ स्मरणं स्मृतिः। 'स्त्रियां क्तिन्'३।३९४॥ । "आध्यानमुत्कण्ठायामपि"[ ]इत्येके । तथा च काशिकायाम्-"आध्यानमुत्कण्ठापूर्वकं स्मरणम्"["] । त्रीणि पूर्वानुभूतचिन्तनस्य ॥
मंतिर्मनीषा बुद्धि/र्धिर्षणाप्तिचेतनाः ॥३०८॥
प्रतिभाप्रतिपत्प्रज्ञाप्रेक्षाचिदुपलब्धयः
संवित्तिः शेमुषी दृष्टिः
१ मन्यतेऽनया मतिः, अर्थनिश्चयः । 'मन ज्ञाने' (दि.आ.अ.), 'स्त्रियां क्तिन्'३।३।९४॥, 'अनुदात्तोपदेशवनति तनोत्यादीनामनुनासिकलोपो झलि क्ङिति'६।४।३७॥ इत्यनु-
५० नासिकलोपः । २ 'ईष गतिहिंसादाने '(भ्वा.आ.से.), 'गुरोश्च' ३।३।१०३॥ इत्यप्रत्ययः । मनसे ईषा मनीषा । 'शकन्ध्वादिषु सिद्ध्यनुगुणं पररूपं वाच्यम्, तच्च क्वचिट्टेः, क्वचिदकारस्य' []इति उक्तेरत्र टेः । ३ बुध्यतेऽनया बुद्धिः । 'बुध अवगमने' (दि.आ.अ.), 'स्त्रियां क्तिन्'३।३।१४।। ४ ध्यायति धीः । 'ध्यै चिन्तायाम्'(भ्वा.प.अ.), 'ध्यायतेः सम्प्रसारणं च'(वा ३।२।१७८ ॥)इति क्विप्, सम्प्रसारणम् । ५ धृष्णुवन्ति प्रगल्भ न्तेऽनया धिषणा। 'जिधृषा प्रागल्भ्ये' (स्वा.प.से.), 'धृषेर्धिष, संज्ञायाम्'(उणा-२४०)इति युच् । प्रगल्भा समर्था रक्षितुं जगद्धर्षप्रदानेनेत्यर्थः । यद्वा स्कन्दस्वामिना पठिताद्
६०
१. धातुप्रदीपे 'वेल कालोपदेशे' इत्यत्र "काल इत्यपि धातुरित्येके" इति (चुरादिः, पृ.१५९, धातुसं-२६२) तथा मा. धातुवृत्तौ " 'काल इत्यपि धातुः' इति मैत्रेयः" इति च दृश्यते (मा.धातुवृत्तिः, पृ.५७०, धातुसं-२६७) ॥ २. '-वचनस्य' इति२॥ ३. '-लढूं' इति४, '-लटवौ' इति३॥ ४. क्षीरतरङ्गिण्यादौ ङकारानुबन्धो न दृश्यते ॥ ५. '-पर्पतल्पाः' इत्युणादिगणे ॥ ६. 'आस्राद-' इति१.२ ।। ७. 'लीज्' इति२.३.४ ॥, 'लीङ् श्रेषणे' इति क्षीरतरङ्गिण्यादौ ॥ ८. द्र. स्वोपज्ञटीका २।३०७॥, पृ.७२ ॥, तथा अम.क्षीरस्वामिटीका १६३४॥, पृ.५६।। ९. द्र. टीकासर्वस्वम्, भा-१, १।७।१६॥, पृ.१४५ ॥, रामाश्रमी १७।१६॥, पृ.९९ ॥ १०. अम.क्षीरस्वामिटीका १।६।३०॥, पृ.५४॥ ११. '-हिंसादर्शनेषु' इति क्षीरतरङ्गिण्यादौ ॥ १२. 'मनस्' इति१.२.३॥ १३. 'धृषेर्धिष्-' इत्युणादिगणसूत्रम् ॥
'धिषि धारणे' इत्यस्मात् क्युः । यद्वा धारयत्यर्थमिति धी: बुद्धिः, धारयति कर्तारं प्रदानेनेति धीकर्म, सनोति संभजत इति सनोतेः पचाद्यचि पृषोदरादित्वाद् ह्रस्वत्वे धिषणा, णकारान्त त्वान्मूर्धन्यमध्या, अन्यथा षत्वाभावाद् धिसना । “धिष शब्दे (जु.प.से.)"[अम.क्षीर. १४।१॥]इति तु स्वामी । ६ ज्ञपनं ज्ञप्तिः । 'ज्ञपेर्मिच'(चु.प.से.)इति गौरादित्वात् क्तिन्, 'तितुत्र-'७।२।९॥ इतीनिषेधः, 'मितां हुस्वः'६।४।९२॥ । ६ चेतनं चेतना । 'चिती संज्ञाने'(भ्वा.प.से.), ल्युट्, युच् वा ॥३०८॥ ७ प्रतिभानं प्रतिभा । 'भा दीप्तौ'(अ.प.अ.),
१० 'आतश्चोपसर्गे'३।३।१०६॥ इत्यङ् । ८ प्रतिपत्तिः प्रतिपत् । प्रतिपूर्वः ‘पद गतौ'(दि.आ.अ.), सम्पदादित्वात् क्विप् । ९ प्रज्ञानं प्रज्ञा । 'ज्ञा अवबोधने'(त्र्या.प.अ.), 'आतश्चोपसर्गे' ३।३।१०६॥ इत्यङ् । १० प्रकर्षण ईक्ष्यते ज्ञायतेऽनया प्रेक्षा। 'ईक्ष दर्शनाङ्कनयोः (भ्वा.आ.से.), 'आतश्चोपसर्गे'३।३।१०६॥ इत्यङ् । ११ चेतनं चित्, स्त्रियाम् । 'चिती संज्ञाने'(भ्वा. प.से.) सम्पदादित्वात् क्विप। १२ उपलम्भनम् उपलब्धिः । 'डुलभष् प्राप्तौ'(भ्वा.आ.अ.), 'स्त्रियां क्तिन् '३।३।९४॥, 'झषस्तथो:-'८।२।४० ॥ इति धत्वम् । १३ संवेदनं संवित्तिः। 'विद ज्ञाने'(अ.प.से.), 'स्त्रियां क्तिन्'३।३।९४॥ । संवेदन
२० मपि, विदाऽपि । "प्रज्ञा श्रद्धा धरा ज्ञप्तिः पण्डा संवेदनं विदा"[ ]इति शब्दार्णवः। १४ शेत इति शेः मोहः संशयो वा, तं मुष्णाति । 'मुष स्तेये'(त्र्या.प.से.), मूलविभुजादित्वात् के, गौरादित्वाद् ङीषि शेमुषी, तालव्यादिमूर्धन्यान्ता । "शमेः क्वसौ एत्वाभ्यासलोपे शेमुषी"[ ]इति तु कौमुदी । १५ दर्शनं दृष्टिः । 'दृशिर् प्रेक्षणे'(भ्वा.प.अ.), 'स्त्रियां क्तिन्' ३।३।९४॥ । सामान्येन षोडश बुद्धेः ॥
अथ बुद्धिविशेषनामान्याह
सा मेधा धारणक्षमा ॥३०९॥
१ सा मतिर्धारणसमर्था मेधा इत्युच्यते । मेधते
३० सङ्गच्छतेऽस्यां सर्वमिति मेधा । 'मेधृ सङ्गमे'(भ्वा.उ.से.), भिदादित्वादङ्, 'गुरोश्च-'३।३।१०३॥ इत्यकारो वा । 'मिह मेहे मेधाहिंसनयोः' (भ्वा.उ.से.), "भिदादिसूत्रे मेधाशब्दं व्युत्पा दयन् न्यासकारो धान्तावाहँ"[माधवीयधातुवृत्तिः, भ्वादिः, धातुसं-६००]इति माधवः । अन्ये तु
"मतिरागामिकी ज्ञेया बुद्धिस्तत्कालदर्शिनी ।
प्रज्ञा चातीतकालज्ञा मेधा कालत्रयात्मिका ॥१॥" __
[ ]इति भेदं वदन्ति ॥
पण्डा तत्त्वानुगा
१ तत्त्वानुगामिनी मतिः पण्डा उच्यते । पण्यते स्तूयते पण्डा। ‘पण व्यवहारे स्तुतौ च'(भ्वा.व्य.आ.,स्तु. पर.
४० से.), 'जमन्तात् डः' (उणा-१११) ॥
मोक्षे ज्ञानम्
१ मोक्षविषये मोक्षफला वा मतिः ज्ञानम् । मोक्षे इति निमत्तसप्तमी वा, मोक्षनिमित्तमित्यर्थः॥
विज्ञानमन्यतः ।
१ मोक्षशास्त्रादन्यत्र शास्त्रे शिल्पे च चित्रादौ मतिः विज्ञानम् उच्यते । विरूपं ज्ञानं विज्ञानम् । एकं शिल्पशास्त्रं ग्राहिण्या मतेः ॥
शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा॥३१०॥
ऊहोऽपोहोऽर्थविज्ञानं तत्त्वज्ञानं च धीगुणाः ।
५० १ श्रोतुमिच्छा शुश्रूषा । श्रु श्रवणे' (भ्वा.प.अ.), धातोः कर्मणः समानकर्तृकादिच्छायां वा'३।१।७॥ इति सन्, 'सन्यङोः' ६।१८॥ इति द्वित्वम् । २ श्रूयते श्रवणम्, ल्युट्। ३ गृह्यते ग्रहणम् । ग्रह उपादाने'(त्र्या.उ.से.), ल्युट् । ४ धार्यते धारणम्, अविस्मरणम् । धारेणिजन्ताल्ल्युट् ॥३१०॥५ ऊहनम् ऊहः, युक्तिगम्यस्तर्कः । 'ऊह वितर्के'(भ्वा.आ.से.), भावे घञ् । ६ अपोहनम् अपोहः, असत्पक्षनिराकरणम् । अपपूर्व ऊह वितर्के' (भ्वा. आ.से.), भावे घञ् । ७ अर्थस्य यथावस्थिततया विज्ञानम् अर्थविज्ञानम् । ८ तत्त्वस्येहेतरभिन्नत्वस्य ज्ञानं तत्त्वज्ञानम्। धियो गुणाः धीगुणाः । बुद्धिगुणा अष्ट ॥
६० व्रीडा लज्जा मन्दाक्षं हीस्त्रपा
१ वीडनं व्रीडा, पुंस्त्री, चित्तसङ्कोचः । 'व्रीड चोदने' (दि.प.से.), चोदनं लज्जा, 'गुरोश्च-'३।३।१०३॥ इत्यकारः। व्रीड इति पचाद्यचि अदन्तोऽपि । "व्रीडजात्यमभजन्मधुपासा'"[ ]इति
माघः। २ लज्जनं लज्जा । 'ओलस्जी वीडने '(तु.प.से.), ___ 'गुरोश्च-'३।३।१०३॥ इत्यकारः, 'झलां जश् झसि (झशि)'
१. 'ज्ञप मिच्च' इति मा.धातुवृत्तिः, 'ज्ञप मारणतोषणनिशामनेषु मिच्च' इति स्वामी ॥ २. 'चिति-' इति३॥ ३. '-दर्शने' इति क्षीरतरङ्गिण्यादौ ॥ ४. द्र. रामाश्रमी ११५।१॥, पृ.७१।। ५. 'शेर्मोहः' इति३ ।। ६. 'मिध मेध-' इति३॥ ७. 'धोन्ता-' इति१॥ ८. १.२.४नास्ति ॥ ९. '-शास्त्रे ग्राहि-' इति१ ।। १०: असत्यनिराकरणम्' इति१ ॥ ११. 'तत्त्वस्य हेतुरभि-' इति४॥
८।४।५३॥ इति दत्वम्, 'स्तोः श्चुना थुः'८।४।४०॥ । ३ मन्दमक्षं यत्र मन्दाक्षम्, स्वोत्थलज्जावशाद्धि चक्षुरञ्चनमिति । "शूका मन्दाक्षम्"[*] इत्येके । ४ हीयते हीः । 'ही लजायाम्'(जु. प.अ.), सम्पदादित्वात् क्विप्, स्त्रीलिङ्गः । ५ त्रप्यते त्रपा । 'त्रपूष् लजायाम्'(भ्वा.आ.से.), 'षिद्भिदादिभ्योऽङ्'३।३। १०४॥ । पञ्च लज्जायाः ॥
साऽपत्रपाऽन्यतः ॥३१॥
१ सा लज्जाऽन्यतः परस्माद् यदि स्यात् तदा अपनपा । अपत्रप्यतेऽपत्रपा । "हीर्लज्जाऽपत्रपा व्रीडा"[]
१० इति रत्नकोषाद् हीमात्रेऽप्यत्रपा प्रोक्ता। एकं पित्रादिपुरतो
जातलज्जायाः ॥३११॥
जाड्यं मौख्यंम्
१ जडस्य भावः कर्म वा जाड्यम् । २ मूर्खस्य भावः कर्म वा मौख्यम् । उभयत्र 'गुणवचनब्राह्मणादिभ्यः- '६।१।१२४॥ इति ष्यन् । द्वे मूर्खत्वस्य ॥
विषादोऽवसादः साँदो विषण्णता ।
१ विषदनं विषादः । २ अवसदनम् अवसादः। ३ सदनं सादः । विष्वपि 'षद्लुविशरणगत्यवसादनेषु'(भ्वा.प.अ.),
भावे घन् । ४ विषण्णस्य भावो विषण्णता । चत्वारि विषादस्य॥
२० मंदो मुन्मोहसम्भेदः
१ मुन्मोहयोः आनन्दसम्मोहयोः सम्भेदः सङ्गमो मदः, मत्ततेत्यर्थः । माद्यति मदः । 'मदी हर्षे '(दि.प.से.), 'मदोऽनुपसर्गे'३।३।६७॥ इत्यप् । " 'व्यधि जपोरनुपसर्गे' ३३६१॥ इत्यत्रैव मदिग्रहणकर्त्तव्ये पृथक्सूत्रारम्भकरणाद् 'माद' इत्यपि घनि"[न्यासः ३।३।६७॥ इति न्यासः ॥
व्याधिस्त्वाधी रुजाकरः ॥३१२॥
१ रुजां रोगं करोति रुजाकरः, एतादृशो य आधि मन:-पीडा, सा व्याधिः उच्यते । व्याधीयत इति व्याधिः ।
- व्यापर्वः 'डुधाञ् धारणादौ '(जु.उ.अ.), 'उपसर्गे घोः किः' । ३।३।९२॥ । एवमाधिः, पुंसि । यदमर:-"पुंस्याधिः"
३० [अमरकोषः १।७।२८॥]इति ॥३१२॥
निद्रा प्रमीला शयनं संवेशस्वापसंलयाः ।
नन्दीमुखी श्वांसहेतिस्तन्द्रा
१ नियतं द्रान्तीन्द्रियाण्यस्यां निद्रा । निपूर्वः 'द्रा कुत्सायां गतौ'(अ.प.अ.), 'आतश्चोपसर्गे'३।३।१०६॥ इत्यङ्। २ प्रमीलन्तीन्द्रियाण्यस्यां प्रमीला। 'मील निमीलने'(भ्वा.प.से.), 'गुरोश्च-'३।३।१०३॥ इत्यकारः। ३ शय्यते शयनम् । 'शीङ् स्वप्ने'(अ.आ.से.), ल्युट् । ४ संवेशनं संवेशः । संपूर्वो 'विश् (विश) प्रवेशने '(तु.प.अ.), निद्रार्थः, भावे घञ् । ५ स्वपनं स्वापः । 'जिष्वप् शये'(अ.प.अ.), भावे घञ् । ६
४० संलीयन्ते इन्द्रियाण्यत्र संलयः। 'लीचें विलयने'(दि.आ.अ.), 'एरच्'३।३।५६॥ । ७ नन्दीव मुखमस्यां नन्दीमुखी, गौरादिः। ८ श्वासा हेतयोऽस्यां श्वासहेतिः। एतौ स्वप्नवाचकावित्यन्ये । ९ तन्द्रयते तन्द्रा । 'तन्द्रि सादमोहनयो:'( ), सौत्रः, 'घबर्थे कविधानम् '(वा-३।३।५८॥)इति कः । इन्द्रियाणां तननं द्रात्यस्यां वा । तन्द्रिधातोः सौत्रान्मूर्छार्थात् 'तन्त्रेविदिती' इतीनौ ('तन्द्रेरिदीतौ' इति) हुस्वकारप्रत्यये तन्द्रिः, ततो वा ङीषि । "विभज्य नक्तन्दिवमस्ततन्द्रिणा"[किरातार्जुनीयम् १।९॥]इति भारविः । दीर्घकारप्रत्यये तन्द्रीः, लक्ष्मीवत् । "यामेकतस्तव बिभर्ति गुरुर्वितन्द्रे:[रघुवंशम् ५६६॥]इति रघुः । 'स्पृहि-
५० गृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आलुच्'३।३।१५८॥इति पाणिनि निर्देशाद्वा तन्द्रा शब्दः । एवं तन्द्रिः तन्द्री तन्द्रीः तन्द्रा' इति रूपचतुष्कम् । नव सामान्येन निद्रायाः । “तामसी''[शेषनाम माला २।९०॥इति शैषिकम् ॥
सुप्तं तु साऽधिका ॥३१३॥
१ सा निद्रा अधिका साऽतिशया सुप्तं प्रोच्यते । स्वपन सुप्तम् । 'जिष्वप् शये'(अ.प.अ.), क्तः, सम्प्र सारणम् । "सुष्वापः सुखसुप्तिका"[शेषनाममाला २।९०॥] इति शैषिके । 'अघोर निद्रा' इति भाषा ॥३१३॥
१. द्र. स्वोपज्ञटीका २।३११॥, पृ.७३ ॥ २. द्र. रामाश्रमी १७।२३ ॥, पृ.१०३॥ ३. 'विषन्नता' इति१॥ ४. '-विशरणादौ' इति१.२.३ ।। ५. 'निषण्णस्य भावो निषण्णता' इति१॥ ६. 'विषन्नता' इति४॥ ७. न्यासे "उन्माद इति । अत्रापि 'कुगतिप्रादयः' इति 'व्यधजपोरनुसर्गे' इत्यत्रैव मदिग्रहणे कर्त्तव्ये 'मदोऽनुपसर्गे' इति सूत्रप्रणयनमस्य विधेरनित्यत्वज्ञापनार्थम्, तेन माद इति सिद्धं भवति ॥" इति दृश्यते, भा-३, ३३६७॥, पृ.५५ ॥, दिवादौ 'मदी हर्षे' इत्यत्र मा.धातुवृत्तिरपि द्रष्टव्या, पृ.४३६ ॥ ८. 'रुजा' इति४॥ ९. 'लीङ्' इति३, क्षीरतरङ्गिण्यादौ श्रेषणार्थो न दृश्यते॥ १०. '-मस्तु-' इति४॥ ११. '-तन्द्रीः' इति१.२.४॥ रघुवंशकाव्ये मुख्यपाठे 'तामेक-' इति तथा 'विनिद्र-' इति दृश्यते, तत्रैव पाठान्तरे क्रमेण 'याम्' 'वितन्द्रः' इति दृश्यते । एवं '-तन्द्रीः ' इत्यस्याभाव एव ॥ १२. 'सुपनम्' इति१॥
औत्सुक्यं रणरणकोत्कण्ठे आयल्लकारती ।
हल्लेखोत्कलिके च
१ उत्सुकस्य भावः औत्सुक्यम् । 'गुणवचन-' ५।१।१२४॥ इति ष्यञ् । २ अतिशयेन चित्तं रणत्यत्रेति रणरणकः । 'अण रण वण भणेत्यादयः शब्दार्थाः'(भ्वा. प.से.), 'घबर्थे कविधानम् '(वा-३।३।५८॥)इति कः, 'कृञादीनां के द्वे भवत:'( )इति द्विवचनम्, संज्ञायां कन्, पृषोदरादित्वाद् हलादिशेषाभावोऽभ्यासाकारश्च । ३ उत्कण्ठनम् उत्कण्ठा । 'कठि शेषे'(भ्वा.आ.से.), उत्पूर्वाद् 'गुरोश्च-'
१० ३।३।१०३॥ इत्यकारप्रत्ययः । उत्कण्ठ इत्यकारान्तोऽपि । ४ आयत आगच्छतो लकति आस्वादयति आयल्लकम् । 'लक आस्वादने (चु.उ.से.), पचाद्यच्। ५ इयर्ति सुखमस्यां अरतिः स्त्रियाम् । 'ऋ गतौ'(जु.प.अ.), 'वहिवस्यतिभ्यश्चित्'(उणा ५००)इति सूत्रेण अतिप्रत्ययः । न रतिररति वा । ६ हृदयं लिखति हल्लेखः । 'लिख अक्षरविन्यासे'(तु.प.से.), कर्मण्यण, 'हृदयस्य हृत् लेखयदण्लासेषु'६।३।५०॥ इति हृदादेशः । 'लेख' इत्यणन्तस्य ग्रहणाद् घजन्ते लेखशब्दे उत्तरपदे 'हृदयलेख' इति भवति। ७ उत्कलनम् उत्कलिका । संज्ञायां वुन् । सप्त औत्सुक्यस्य । 'ऊतावलि' इति भाषा ॥
२० अथाबहित्थाऽऽकारगोपनम् ॥३१४॥
१ न बहिःस्थं चित्तमस्याम् अबहित्था, स्त्रीक्ली. । यत् क्षीरस्वामी-"अबहित्था स्त्रीक्लीबयोः"[] । अव(ब) हीयते गोप्यते आकारोऽत्रेति वा, पृषोदरादिः । आकारस्य भूविकारमुखरागादेर्गोपनम् आच्छादनम् आकारगोपनम् , तस्यै कम् । “[आकारगृहने च] आवकुटिकाऽवकुटारिका गृहजालिका''[ शेषनाममाला २।९० ॥] शैषिकाणि ॥३१४॥
शङ्काऽनिष्टोत्प्रेक्षणं स्यात्
१ अनिष्टस्योत्प्रेक्षणं शङ्कनं सम्भावनमिति यावत् __ शङ्का ॥
३० . चापलं त्वनवस्थितिः ।
१ चपलस्य भावः कर्म वा चापल्यालम् । ['हायनान्तयुवादिभ्योऽण्'५।१।१३०॥ इत्यण्] । २ अनवस्थानम्
अनवस्थितिः । ष्ठा गतिनिवृत्तौ'(भ्वा.प.अ.) 'स्त्रियां क्तिन्' ३।३।९४॥ ‘द्यतिस्यतिमास्थाम्- '७।४।४० ॥ इतीत्वम् । द्वे चपलत्वस्य ॥
आलस्यं तन्द्रा कौसीद्यम्
१ लसतीति लसः । 'लस श्रेषणक्रीडनयोः' (भ्वा. प.से.), पचाद्यच् । न लसोऽलसः, अलसस्य भाव आल स्यम् । 'न नपूर्वात् तत्पुरुषादचतुरसङ्गतलवणवड(ट)युध कतरसलसेभ्यः'५।१।१२१॥ इति नपूर्वात् तत्पुरुषादचतुरसङ्ग-
४० तलवणाद्युत्तरपदे भावप्रत्यया न भवन्तीति निषेधश्चतुरादिपर्युदा सादिह नेति ष्य भवति । २ तन्द्रणं तन्द्रा । 'तन्द्रिः साद मोहनयो:'( ), सौत्रः, भावे घञ् । ३ कुसीदस्य अलसस्य भावः कौसीद्यम् । त्रीणि आलस्यस्यं ॥
हर्षश्चित्तप्रसन्नता ॥३१५॥ ह्लादः प्रमोदः प्रमदो मुंत्प्रीत्यामोद॑सम्मंदाः।
आनन्दानन्दथू
१ हर्षणं हर्षः । 'हषु तुष्टौ'(भ्वा.दि.वा,प.से.), भावे घञ् । “हरिषोऽपि"[ ]इति शब्दप्रभेदः । २ चित्तस्य मनसः प्रसन्नता प्रसादः चित्तप्रसन्नता ॥३१५॥३ ह्लादनं हादः ।
५० 'ह्लादी हर्षे (भ्वा.आ.से.), घञ् । ४ प्रमोदनं प्रमोदः । ___ 'मुद हर्षे (भ्वा.आ.से.), भावे घञ् । ५ प्रमदनं प्रमदः। 'मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु'(भ्वा.आ.से.), 'प्रमद सम्मदौ हर्षे '३।३।६८॥ इति निपातितौ । ६ मोदनं मुद् (मुत्) । 'मुद हर्षे '(भ्वा.आ.से.), सम्पदादित्वात् स्त्रियां क्विप् । ७ प्रीयते मनोऽस्यां प्रीतिः । 'प्रीङ् प्रीतौ'(दि. आ.अ.), 'स्त्रियां क्तिन्'३।३।९४॥ । ८ आमोदनम् आमोदः । 'मुद हर्षे'(भ्वा.आ.से.), भावे घञ् । ९ सम्मदनं सम्मदः । १० आनन्दनम् आनन्दः । 'टुणदि(टुनदि) समृद्धौ'(भ्वा. प.से.), भावे घब् । ११ आनन्दनम् आनन्दथुः । 'टुणदि
६० (टुनदि) समृद्धौ'(भ्वा.प.से.), 'ट्वितोऽथुच्'३।३८९॥ इत्य थुच्, पुंस्ययम् । एकादश हर्षस्य ॥
गर्वस्त्वहङ्कारोऽवलिप्तता ॥३१६॥
१. इतोऽग्रे २प्रतौ 'हलादित्वाद्' इति दृश्यते ॥ २. 'कण्ठ विशेषे' इति१॥, 'कण्ठि-' इति२.३॥ ३. 'इत्यणान्त-' इति३॥ ४. अम. क्षीरस्वामिटीकायां न दृश्यते ॥ ५. 'अवकटिका' इति शेषनाममालास्वोपज्ञटीकयोः ॥, 'आवकुठिका' इति४॥ ६. 'चापल्यम्' इति३.४॥ ७. "युवादेरण'(हैमसू ७।१।६७॥)इत्यण इति स्वोपज्ञवृत्तौ" इति ४प्रतौ टिप्पणी ॥ ८. 'कौशी-' इति१.४॥ ९. इतोऽग्रे सर्वादशेषु 'न' इति दृश्यते, स त्वनावश्यकः, अन्यथाऽनिष्टरूपापत्तिः, अपरञ्चात्र माधवीयधातुवृत्तिस्तुलनीया, भ्वादिः, धातसं-४५८, पृ.१७८ ॥ १०. 'आलसस्य' इति३॥ ११. 'हृष-' इति४, यदि उदिदेव तदा 'अलीके' इत्यर्थो योग्यः, यदि च 'तुष्टौ' इत्येवार्थ: स्यात् तर्हि 'हष' इति धातुर्युक्तः ॥ १२. 'ह्लादी सुखे च' इति क्षीरतरङ्गिण्यादौ॥ १३. 'मद-' इति१.२.३॥
दर्पोऽभिमानो ममता मानश्चित्तोन्नतिः स्मयः ।
१ गर्वणं गर्वः । कर्व खर्व गर्व दर्प'(भ्वा.प.से.), भावे घञ् । गिरतीव परमिति वा गर्वः । गृ निगरणे'(तु.प.से.), 'कृगृशृभ्यो वः'(उणा-१५३)इति वः, पुंस्यम्। वैजयन्तीकारस्तु "अभिमानस्त्वहङ्कारो गर्वोऽस्त्रीं"[वैजन्तीकोशः ३।६।१६९॥] इत्याह। २ करणं कारः, अहं प्रधानः कारः अहङ्कारः । ३ अवलिप्तस्य भावः अवलिप्तता ॥३१५॥ । ४ दर्पणं दर्पः। 'हप हर्षणमोचनयों:'(दि.प.अ.), 'दर्प गर्वे'( )अस्माद्वा भावे घञ् । ५ अभि सर्वतः मानः अभिमानः । ६ ममेत्यस्य
१० भावो ममता ।७ मत्समो अन्यो नास्तीति मननं मानः, पुंक्ली.। ८ चित्तस्य उन्नत्तिः चित्तोन्नतिः । ९ स्मयनं स्मयः । 'स्मिङ् ईषद्धसने'(भ्वा.आ.अ.), ‘एरच्'३।३।५६॥ । नव गर्वस्य ॥
स मिथोऽहमहमिका
१ स गर्वो मिथः परस्परमहं शक्तोऽहं शक्त इत्यस्याम् अहमहमिको । मयूरव्यंसकादित्वात् साधुः । अहमिति मान्त मव्ययमहङ्काराऽर्थे ॥
या तु सम्भावनाऽऽत्मनि ॥३१७॥ दर्पात् साऽऽहोपुरुषिका स्यात्
___ १ दर्पाद् गर्वाद् या आत्मनि स्वविषये सम्भावना,
२० तस्या एकम् आहोपुरुषिका । अहो अहं पुरुष इत्यस्याम् आहोपुरुषिका, द्वितीयस्वरादिः ॥३१७॥
अहंपूर्विका पुनः । अहं पूर्व अहं पूर्वमिति
१ अहं पूर्व इत्यस्याम् अहंपूर्विका । स्वार्थे कन्। एवमहंप्रथमिका, अहमग्रिका च । 'हुं पहिलु' इति भाषा॥
उग्रत्वं तु चण्डता ॥३१८॥
१ उग्रस्य भाव उग्रत्वम् । २ चण्डस्य भावः चण्डता। द्वे उग्रत्वस्य । 'आकरापणउं' इति भाषा ॥३१८॥
प्रबोधस्तु विनिंद्रत्वम्
१ प्रबोधनं प्रबोधः । 'बुध बोधने'(भ्वा.प.से.), भावे
३० घञ् । २ विनिद्रस्य भावो विनिद्रत्वम् । द्वे प्रबोधस्य। 'जागवापणउं' इति भाषा ॥
ग्लानिस्तु बलहीनता ।
१ ग्लानं ग्लानिः । 'ग्लै हर्षक्षये'(भ्वा.प.अ.), 'म्लाग्लाज्याहात्वरिभ्यो निः' (वा-३।३।९४ ॥), स्त्रीलिङ्गः। बलहीनस्य भावो बलहीनता बलापचयः । एकं बलहीनतायाः॥
दैन्यं कार्पण्यम्
१ दीनस्य भावो दैन्यम् । 'गुणवचन-'५।१।१२४॥ इति ष्यञ्। एवं कृपणस्य भावः कार्पण्यम् । द्वे कृपणत्वस्य॥
. श्रमस्तु क्लमः क्लेशः परिश्रमः ॥३१९॥
४० प्रयांसायांसव्यायामाः
१ श्रमणं श्रमः । श्रम तपर्सि खेदे च'(दि.प.से.), भावे घञ्, 'नोदात्तोपदेशस्य- ७।३।३४॥ इति न वृद्धिः । २ क्लमनं क्लमः । 'क्लमु ग्लानौ'(दि.प.से.), भावे घञ् । ३ क्लेशनं क्लेशः । "क्लिविबाधने'(त्र्या.प.वे.), भावे घञ्। ४ परिश्रमणं परिश्रमः । श्रमु तपसिं खेदे च'(दि.प.से.), भावे घञ् ॥३१९॥ ५ प्रयसनं प्रयासः । 'यसु प्रयत्ने'(दि.प.से.), भावे घञ् ।६ एवमायसनम् आयासः। 'यसु प्रयले'(दि.प.से.), घञ् । ७ व्यायमनं व्यायामः । 'यमु(यम) उपरमे'(भ्वा.प.अ.), घञ् । सप्त श्रमस्य ॥
.
५० उन्मादश्चित्तविप्लवः ।
१ उन्मदनम् उन्मादः । 'मद(मदि) स्तुत्यादौ । (भ्वा.आ.से.), भावे घञ् । २ चित्तस्य विप्लुतिः चित्त विप्लवः । 'प्लुङ् गतौ'(भ्वा.आ.अ.), 'ऋदोरप्'३।३।५७॥। द्वे वातभूतादिदोषात् चित्तानवस्थिते ॥
मोहो मौढ्यम्
१ मोहनं मोहः । 'मुह वैचित्ये'(दि.प.से), भावे __ घज । २ मढस्य भावो मौढ्यम । मोहो नाम मा ।
१. मा. धातुवृत्तिसम्मतोऽयं पाठः, 'गर्व खर्व दर्पे' इति क्षीरतरङ्गिणी ॥ २. द्र. स्वोपज्ञटीका २।३१५॥, पृ.७४ ॥, वैजयन्तीकोशे तु "-अभिमानोऽहङ्कारो गर्वः स्त्री-" इति दृश्यते, पृ.७० ॥ ३. धातुप्रदीपसम्मतोऽयं धातुपाठः, 'दृप हर्षणमोहनयोः' इप्ति क्षीरतरङ्गिण्यादौ ॥ ४. क्षीरतरङ्गिण्यादावयं धातुर्न दृश्यते ॥ ५. "अहमहमिका तु सा स्यात् यत् क्रियते स्पर्धनादिकं (स्पर्धयाधिक) किचित्" [हलायुधकोशः ४१७८४॥]इति परस्परं गर्वकरणाख्यम्" इति २प्रतेः टिप्पणी॥ ६. 'विषये' इति१॥ ७. "गर्वादात्मसम्भावना १ 'खा हुं मांटी' इति भाषा 'यत्र वृथाभिनिवेशस्तामाहोपुरि(रु)षिकां विदुः प्राज्ञाः' [हलायुधकोशः ४।७८४॥] इति हलायुधः, यत्सौन्दर्यलहरी-"पुरस्तादास्तां नः पुरमथितुराहोपुरि(रु)षिका" इति २प्रतेः टिप्पणी ॥ ८. इतोऽग्रे रप्रतौ 'हुं मांटी इति भाषा' इति दृश्यते ॥ ९. इतोऽग्रे ४प्रतौ 'अहं पूर्वः' इति दृश्यते ॥ १०. 'पहिलउ' इति३, 'पिहिलं' इतिर ॥ ११. 'आकरपणो' इति३ ॥ १२. '-पणौ' इति४, '-पणुं' इति३॥ १३. 'ग्लाम्लाज्याहाभ्यो निः' इति वार्तिकस्वरूपं दृश्यते ॥ १४. 'खेदे तपसि च' इति१.२.३ ।। १५. 'क्लिशु-' इति१.४॥ १६. 'स्तुतौ' इति३.४॥ १७. '-स्थितौ' इति४, '-स्थितः' इति२॥ १८. 'मोहस्य' इति१॥
यन्महेश्वर:-"मोहमिच्छन्ति मूर्छायामविद्यायां च सूरयः" [विश्वप्रकाशकोशः, हान्तवर्गः, श्रो-५]इति । मूर्छायां यथा "अथ मोहपरायणा सती''[]इत्यादि । अविद्या विपर्ययस्तत्र यथा-"न मुञ्चामः कामानहह गहनो मोहमहिमा"[ ]इत्यादि । द्वे मोहस्य ॥
चिन्ता ध्यानम्
१ चिन्तनं चिन्ता। 'चिति स्मृत्याम्'(चु.प.से.), चुरादौ, 'चिति(चिन्ति) पूजिकथिकुम्बि-'३।३।१०५॥ इत्यादि
नाऽङ् । अप्प्रत्यये कार्ये 'चिन्तिपूजि-'३।३।१०५॥ इत्यङ्
१० विधानं गुणाभावार्थम्, तत्सामर्थ्याण्णिलोपाभावोऽपि, इति 'चिन्तिय (चिन्तिया)' इत्यपि। इति स्मृतिः क्तिन्नन्तां । २ ध्यायते ध्यानम् । 'ध्यै चिन्तायाम्'(भ्वा.प.अ.), ल्युट् । द्वे चिन्तनस्य ॥
अमर्षः क्रोधसम्भवः ॥३२०॥ गुणो जिगीषोत्साहवान्
१ क्रोधाज्जातो जिगीषोत्साहगुणयुक्तो गुणः अमर्षः प्रोच्यते । क्रोधात् सम्भव उत्पत्तिर्यस्य स क्रोधसम्भवः, [जेतुमिच्छा] जिगीषा, उत्साह उद्यमस्तौ विद्येते यस्मिन् स जिगीषोत्साहवान् । न मर्षणम् अमर्षः । 'मृष तितिक्षायाम्'
२० (दि.उ.से.), भावे घञ् । अमर्षो हुस्वादिः । “किम[प्य] मर्षोऽनुनये भृशायते"[किरातार्जुनीयम् ८५४॥]इति भारविः। 'अन्येषामपि-'(वा-३।२।१०१॥) इति दीर्घत्वे दीर्घादिरपि । "निरुद्योग(निरुद्योगं) निरामर्षं निर्वीर्यम् "[]इति विशाखः॥
त्रासस्त्वाकस्मिकं भयम् ।
१ वसनंत्रासः, निर्घातादिभ्यश्चित्तचमत्कृतिरूपः। त्रसी उद्वेगे'(दि.प.से.), भावे घञ् ।अकस्माद् भवमाकस्मिकं भयम्, अत्र भयेन पूर्वापरविचार इति भयाद्भेदः। 'उद्रक' इति भाषा॥
अपस्मारः स्यादावेशः
१ अपस्मरणम् अपस्मारः । 'स्मृ चिन्तायाम्'
३० (भ्वा.प.अ.), भावे घञ् । आवेशनमावेशः । भावे घञ् । वाई नामैकम् ‘अपस्मार' इति । धातुवैषम्यादेरावेशः । यदात्रेयः
"पित्तं रक्तं मरुत् श्रेष्मा उदानः कुपितो भृशम् ।
प्राणः शिरसि संकुप्य कुरुते नष्टचेष्टताम् ॥१॥
प्राणान् नयत्यचेतनत्वं नाडिं चेन्द्रियरोधनात् ।
पतेच्च काष्ठवच्छीघ्रं मुखे लालां विमुञ्चयेत् ॥२॥
कण्ठश्च घुघुरायेत फेनमुद्गिरतेऽथवा ।
कम्पेते हस्तपादे च रक्तव्यावर्तलोचनः ॥३॥
अपस्मारे तु लिङ्गानि जायन्ते च भिषग्वर ! ।"[]इति॥
निर्वेदः स्वावमाननम् ॥३२॥
१ निवेदनं निर्वेदः । 'विद विचारे (रु.आ.अ.),
४० भावे घञ् । स्वस्यात्मनः अवमाननम् अवगणनम्, तस्य एकम् ॥३२१॥
आवेगस्तु त्वरिस्तूर्णिः संवेगः सम्भ्रमस्त्वरा ।
१ आवेजनम् आवेगः । 'ओविजी भयचलनयोः' (तु.आ.से., रु.प.से.), भावे घञ्, 'चजो:- '७।३५२ ॥ इति कुत्वम् । २ त्वरणं त्वरिः । 'जित्वरा सम्भ्रमे'(भ्वा.आ.से.), '-इन्'(उणा-५५७)इति इन् । ३ तूरणं तूर्णिः । एतौ स्त्री लिङ्गौ। 'तूरी गतित्वरणहिंसनयो:'(दि.आ.से.), औणादिको निप्रत्ययः । ४ संवेजनं संवेगः । 'ओविजी भयचलनयोः' (तु.आ.से.,रु.प.से.), भावे घञ् । ५ सम्भ्रमणं सम्भ्रमः ।
५० 'भ्रम अनवस्थाने'(दि.प.से.), भावे घञ् । ६ त्वरणं त्वरा। 'जित्वरा सम्भ्रमे '(भ्वा.आ.से.), भिदादित्वादङ् । षड् भयादिहेतुना कार्यत्वराकरणस्य । उतावलि' इति भाषा ॥
वितर्कः स्यादुन्नयनं परामर्शो विमर्शनम् ॥३२२॥
अध्याहारस्तर्क ऊहः
१ वितर्कणं वितर्कः । 'तर्क विचारणे (चु.प.से.), भावे घञ् । २ उन्नीयत उन्नयनम् । णी प्रापणे'(भ्वा.उ.अ.), अस्माद्ल्यु ट् ।३ परामर्शनं परामर्शः। मृश आमर्शने' (तु.प.अ.), भावे घञ् । ४ विमृश्यते विमर्शनम् । ल्युट् ॥३२२॥ ५ अध्याहरणम् अध्याहारः। हृञ् हरणे'(भ्वा.उ.अ.), भावे घञ्।
६० "न्यूनपदपूरणार्थमधिकपदोपादानमध्याहारः"["]इति सर्वधरः।
१. द्र. अनेकार्थसङ्ग्रहकैरवाकरकौमुदीटीका, भा-१, २५८७॥, पृ.३३६॥ २. 'अप्रत्यये' इति१॥ ३. अत्र मा.धातुवृत्तिद्रष्टव्या, तत्र हि "अत्र मैत्रेयः-'अकारे विधातव्येऽङो विधानं गुणाभावार्थम्, तत्सामर्थ्यात् कदाचिण्णिलोपो नास्ति' इति तत्र चिन्तिया इतीयकुदाहर्त्तव्यः"[मा.धातुवृत्तिः, चुरादिः, धातुसं-२, पृ.५३९]इति दृश्यते ॥ ४. 'इति स्मृतिः क्तिनन्ता' इति ग्रन्थः प्रकृतप्रकरणासङ्गतः प्रतिभाति ॥ ५. १.२.३नास्ति ॥ ६. '-नयं' इति१, ‘-भयं' इति४॥ ७. 'निर्वापम्' इति४॥ ८. द्र. टीकासर्वस्वम्, भा-१, १७।२६॥, पृ.१५५ ॥ ९. 'अउद्रक' इति४॥ १०. 'नष्टचेतनाम्' इति३॥ ११. 'यथा' इति१ ॥ १२. 'विचारणे' इति क्षीरतरङ्गिण्यादौ । '-विस्तारे' इति२॥ १३. 'ऊता-' १.२॥ १४. क्षीरतरङ्गिण्यादौ भाषार्थकतर्कधातुर्दश्यते ॥ १५. 'विमर्श्यते' इति२.४॥ १६. द्र. टीकासर्वस्वम्, भा-१, १५३॥, पृ.१०२॥
६ तर्कणं तर्कः ।' तर्क विचारणे'(चु.प.से.) ।७ ऊहनम् ऊहः । 'ऊह विचारणे '(भ्वा.प.से.), उभयत्र भावे घञ् । सप्त विमर्शनस्य । 'विमासवउं' इति भाषा ॥
असूयाऽन्यगुणदूषणम् ।
१ असूयनम् असूया । 'असु मानसोपताऐं', कण्ड् वादिः । असूङ् दोषावि:कृतौ'[ ] इत्यन्ये । अ:(अ) प्रत्ययात्' ३।१।२७ ॥ इत्यप्रत्ययः, बाहुलकाद् यक् । गुणेषु दोषाविष्कर णमसूया । अन्यगुणानां दूषणमन्यगुणदूषणम् ॥
मृतिः संस्था मृत्युकालौ परलोकगमोऽत्ययः ॥३२३॥
१० पञ्चत्वं निधनं नाशो दीर्घन्द्रिा निमीलनम् ।
दिष्टान्तोऽस्तं कालधर्मोऽवसानम्
१ मरणं मृतिः । [ मृङ् पाणत्यागे'(तु.आ.प.अ.),] 'स्त्रियां क्तिन्'३।३।९४॥ । २ संस्थानं संस्था । 'ष्ठा गति निवृत्तौ'(भ्वा.प.अ.), 'आतश्चोपसर्गे'३।३।१०६॥ अङ् । ३ मरणं मृत्युः, पुंस्त्री । 'मृङ् पाणत्यागे'(तु.आ.प.अ.), 'भुजि मृङ्भ्यां युक्त्युकौ'(उणा-३०१)इति त्युक् । ४ कालयति क्षिपत्यायुः कालः । 'कलण् क्षेपणे '(चु.उ.से.), चुरादिः, पचाद्यच् । ५ परलोके गमनं परलोकगमः । भावे घञ् । ६ अत्ययनम् अत्ययः । अतिपूर्वाद् ‘इण् गतौ'(अ.प.अ.),
२० अस्माद् ‘एरच्'३ ।३।५६ ॥ ॥३२३॥ ७ देहस्तावत् पञ्च भूतारब्धः, मरणे त्वेतस्य पञ्चानामप्यभावः पञ्चत्वम्, प्रत्येकं स्वांशसङ्क्रमात् । ८ निवृत्तं धनमत्रेति निधनम्, पुंक्ली. । यद्वा निपूर्वः 'डुधाञ् धारणपोषणयो:'(जु.उ.अ.), 'कपि वृजिमन्दिनिधाञ्भ्यः क्युन् '(उणा-२३९)इति क्युनि निधनम् । निपूर्वो धनशब्दो मरणार्थ इति सभ्याः । ९ नशनं नाशः । 'णश अदर्शने'(चु.प.से.), भावे घञ् । १० दीर्घा चासौ निद्रा च दीर्घनिद्रा । ११ निमील्यतेऽस्मिन्निन्द्रियैरिति निमीलनम् । 'मील निमीलने '(भ्वा.प.से.), 'करणाधि करणयोश्च'३।३।११७ ॥ इत्यधिकरणे ल्युट् । १२ दिष्टस्य कालस्य जीवितावधेरन्तो दिष्टान्तः । १३ अस्यते अस्तम्।
३० ‘असु क्षेपणे’(दि.प.से.), दिवादौ । अस्तंगत्य-‘अस्तं च’ १।४।६८॥ इति क्रियायोगे गतित्वाद् अस्तंशब्द[स्य] समासः, “अस्मादेव निर्देशाद् अस्तंशब्दस्य मान्तत्वम्”[ ] इत्यात्त्रेयः, “अव्युत्पन्नोऽव्ययम्”[ ]इति न्यासपदमञ्जर्यादौ । १४ कालो मृत्युद्यू(दू)तः, क्षणत्रुट्याद्यात्मको वा । कालस्य धर्मः कालधर्मः, “कालः संहरति प्रजाः’’[हारीतस्मृति: ] इत्युक्तेः । १५ अवसीयते अवसानम् । ‘षोऽन्तकर्मणि’(दि.प.अ.), ल्युट । पञ्चदश मरणस्य ॥
सा तु सर्वगा ॥३२४॥
मरको मारिः
४० १ सा मृतिः सर्वगा सकलव्यापिनी, ॥३२४॥ मरणं मरकः, पुंक्ली. । यद्गौड:-"मरकोऽस्त्रियाम्''[ ] । 'मृङ् प्राणत्यागे'(तु.आ.प.अ.), संज्ञायां क्वुन् । २ मारणं मारिः । 'मृङ् प्राणत्यागे'(तु.आ.प.अ.), अस्माण्णिजन्तादिन् । द्वे 'मरगी' इति भाषायाः ॥
त्रयस्त्रिंशदमी स्युर्व्यभिचारिणः ।
अमी पूर्वोक्ता धृत्यादयस्त्रयस्त्रिंशत्संख्याकाः विविध माभिमुख्येन चरन्ति व्यभिचारिणः ॥
यथोक्तम्
"धृतिः स्मृतिर्मतिर्वीडा विषादो जडता मदः ।
५० व्याधिर्निद्रौत्सुक्यशङ्काबहित्थाः सुप्तचापले ॥१॥
हर्षालस्ये ग्लानिर्गर्वप्रबोधा:(-ध:) श्रम उग्रता ।
दैन्यमुन्मादमोहौ च चिन्तामर्षों मृतिस्तथा ॥२॥
तर्कावेगावपस्मारोऽसूया निर्वेद एव च ।
त्रासश्चेति त्रयस्त्रिंशद् भावाः स्युर्व्यभिचारिणः ॥३॥
स्थायिनो नव रत्याद्याः स्तम्भाधा अष्ट सात्त्विकाः ।
भावाः पञ्चाशदित्थं स्युः संयुता व्यभिचारिभिः ॥४॥"[]
स्युः कारणानि कार्याणि सहचारीणि यानि च ॥३२५॥
रत्यादेः स्थायिनो लोके तानि चेत् काव्यनाट्ययोः ।
१. 'विस्तारे' इति३, 'विचारणे' इतिर, 'ऊह तर्के' इति क्षीरतरङ्गीणी, 'ऊह वितर्के' इति मैत्रेयसायणौ ॥ २. 'विमाशिवो' इति३ ॥ ३. कण्ड्वादिगणे 'उपतापे' इत्येवार्थो दृश्यते ॥ ४. 'यच्' इति३॥ ५. 'कल किल पिल क्षेपे' इति क्षीरतरङ्गिणी, 'कल विल क्षेपे' इति मा.धातुवृत्तिः ॥ ६. 'निवृत्त' इति३ ॥ ७. '-धारणादौ' इति१.२.३ ।। ८. '-निधात्रः क्युः' इत्युणादिगणे ॥ ९. 'मील श्मील निमेषणे' इति क्षीरतरङ्गिणी, 'मील श्मील स्मील क्ष्मील निमेषणे' इति मा.धातुवृत्तिः ॥ १०. 'अस्तंगच्छत्यस्तं च' इति ॥ ११. माधवीयधातुवृत्तिस्तुलनीया, दिवादिः, धातुसं-१०८, पृ.४३७॥ १२. द्र. स्वोपज्ञटीका २१३२४ ॥, पृ.७५ ॥ १३. 'मरणं' इति१.३ ।।
.
विभावा अनुभावाश्च व्यभिचारिण एव च ॥३२६॥
व्यक्तः स तैर्विभावाद्यैःस्थायी भावो भवेद्सः।
- रत्यादेरिति, 'रागोऽनुरागः'[ो-२।२९६॥] इत्यादिनवविधस्य स्थायिभावस्य लोके यानि कारणानि आलम्बनो द्दीपनस्वभावानि ललनोद्यानादीनि स्युः, तानि काव्यनाट्ययो रिति काव्ये नाट्ये च विभावा उच्यन्ते, रागादिनवविध स्थायिभावस्य कारणानामालम्बनोद्दीपनस्वभावानां ललनोद्याना दीनां नाम काव्यशास्त्रे नाट्यशास्त्रे विभाव इत्यर्थः । च पुनरेवं कार्याणि कार्यभूतानि कटाक्षभुजक्षेपादीनि अनुभावाः
१० प्रोच्यन्ते । (रांगादिनवविधस्थायिभावस्य कारणभूतानामा लम्बनोद्दीपनस्वभावानां ललनादीनां कार्यभूतकटाक्षभुजक्षेपादीनां नाम अनुभाव इत्यर्थः। ) तथा सहचारीणि धृत्यादीनि “धृतिः सन्तोषः स्वास्थ्यं स्यात्'(श्री-२।३०८)इत्यादीनि "मरको मारिः''(शो-२।३२५)इत्यन्तानि व्यभिचारिणो व्यभिचारि नामानो भावा उच्यन्ते, तैर्विभावाद्यैर्विभावैः नवविधस्थायि भावस्य कारणभूतैर्ललनादिभिः आद्यशब्दादनुभावैः नवविध स्थायिभावस्य कारणभूतललनादिकस्य कार्यभूतैः कटाक्षादिभिः सात्त्विकैः "स्तम्भो जाड्यं स्वेदो धर्म:'(-२३०५॥) इत्यादिरष्टभिः व्यभिचारिभिश्च धृत्यादिमारिपर्यन्तैस्त्रयस्त्रिंशद्भिः
२० व्यक्तः प्रकटः सभास्थितजनानां वासनारूपेण स्थितः, स स्थायी भावः रसः कथ्यते इत्यर्थः । यदुक्तम्
"विभावैरनुभावैश्च सात्त्विकैर्व्यभिचारिभिः ।
आरोप्यमाण उत्कर्ष स्थायी भावो रसः स्मृतः ॥१॥" []इति । पूर्वोक्ताः स्थायिभावा रत्यादयो नव विभावानु भावसात्त्विकव्यभिचारिभिः प्रकटीकृताः सन्तो रसाः शृङ्गारादयो नवापि भवन्तीति भावः ॥३२५-३२६॥
पात्राणि नाट्येऽधिकृताः
१ नाट्ये नाट्यविषयेऽधिकृता अधिकारिणः पात्राणि उच्यन्ते । पान्ति स्वभूमिकामिति पात्राणि । 'पा रक्षणे'
३० (अ.प.अ.), 'दादिभ्यश्छन्दसि'(उणा-६०९) इति सूत्रे बहुलाधिकाराद् भाषायामपि त्रन् ॥
तत्तद्वेषस्तुभूमिका ॥३२७॥
१ तेषां तेषां रामरावणादीनां वेषो रूपपरिग्रहस्त द्वेषः रूपान्तरपरिग्रहाधारभूतत्वाद् भूमिप्रतिकृतिः भूमिका । 'इवे प्रतिकृतौ'५।३।९६॥ इति कः । एकं पात्राणां रूपान्तर परिग्रहस्य ॥३२७॥
शैलूषो भरतः सर्वकेशी भरतपुत्रकः।
धर्मीपुत्रो रङ्गजायाऽऽजीवो रङ्गावतारकः ॥३२८॥
नटः कृशाश्वी शैलाली
१ शिलूषस्य ऋषेरपत्यं शैलूषः । 'ऋष्यन्धक-
४० वृष्णि-'४।१।११४॥ इत्यण् । शरति(शलति) वेषान्तरमिति वा । 'का(को)रटू(दू)षाटरूष- (हैमोणा-५६१)इत्यादिना ऊषान्तो निपातः । २ तां तां भूमिकां बिभर्ति भरतः । 'डुधाञ् धारणादौ'(जु.उ.अ.), 'भृदृशीङ्यजिपर्विपच्यमि नमितमिहर्येभ्योऽतच्'(उणा-३९०) । ३ सर्वे केशा रूपा न्तराण्यस्य सर्वकेशी । अत इनिठनौ'५।२।११५॥ इतीनिः। ४ भरतस्य पुत्रो भरतपुत्रकः । ५ धर्मी द्विधा, नाट्यधर्मी लोकधर्मी च, तस्य पुत्रो धर्मीपुत्रः, तदुपजीवकत्वात् । ६ ७ रज्यन्ते प्रेक्षकाणां मनांसि यत्रेति रङ्गः। 'रञ्ज रागे'(भ्वा. दि.उ.अ.), 'हलश्च'३।३।१२१॥ इति घञ्, भावकरणार्था-
५० भावान्न न्लोपः, घित्त्वात् कुत्वम् । रङ्गश्च जाया च रङ्गजाये, ताभ्यामग्रेऽऽजीवः रङ्गाजीवः, जायाजीवः । ८ रङ्गत्यस्मिन् प्रेक्षकाणां मनांसि रङ्गम् । 'रगि गतौ'(भ्वा.प.से.), दण्डक धातुः, 'हलश्च'३।३।१२१॥ इति संज्ञायामधिकरणे घञ्। रञ्जेर्वाऽयं द्रष्टव्यः । रङ्गं नाट्यमवतारयति रङ्गावतारकः । 'तृ प्लवनतरणयो:'(भ्वा.प.से.), णिजन्तः, ण्वुल् ॥३२८॥ ९ नटति नृत्यति नटः, पुंक्ली . । 'नट नर्तने '(भ्वा.प.से.), पचाद्यच् । १० कृशाश्वेन प्रोक्तं नटशास्त्रं वेत्त्यधीते वा कृशाश्वी । 'कर्मन्दकृशाश्वादिनिः'४।३।१११॥ इतीनिः । १२ शिलालिना प्रोक्तं नटसूत्रमधीते शैलाली । 'पाराशर्यशिला-
६० लिभ्यां भिक्षुनटसूत्रयोः'३।३।११०॥ इति णिनिः । सामान्येन एकादश नटस्य। 'नाटकिया' इति भाषा ॥
१. इतोऽग्रे २प्रतौ-"रागाद्यभिनयसहिताः स्थायिव्यभिचारिलक्षणाश्चित्तवृत्तयः, विभाव्यन्ते विशिष्टतया ज्ञायन्ते यैरिति कृत्वा" इति दृश्यते॥ २. कोष्ठान्तर्गतपाठस्थाने २प्रतौ "स्थायिव्यभिचारिलक्षणं चित्तवृत्तिविशेषं सभ्यजनोऽनुभवत्रनुभाव्यन्ते यैरिति कृत्वा रागादिनवविधस्थायिभावस्य कारणभूतानामालम्बनोद्दीपनस्वभावानां कार्यभूतकटाक्षभुजाक्षेपादीनां इत्यर्थः" इति पाठो दृश्यते॥ ३. 'प्रगटः' इति२ ॥ ४. अमरकोषे रामाश्रमीकारेण "-दादिभ्यः ष्ट्रन्-इति मुकुटश्चिन्त्यः, तादृशसूत्रादर्शनात्"[अ.२७।२४॥] इत्युक्तम्, तत्तु विचारणीयम्, उणादिगणे चतुर्थपादे दर्शनात्, 'दादिभ्यश्छन्दसि' इति सूत्रस्यैव फलितार्थकथनं 'दादिभ्यः ष्ट्रन्' इत्यप्यवधेयम् ॥ ५. ३प्रतौ नास्ति ॥ ६. 'भृमृघशियजिपर्विपच्यमितमिनमि-' इत्युणादिगणे ॥ ७. '-णार्थो भावा-' इति१.२, '-णार्थ भावा-' इति३॥ ८. 'वर्तने' इति१ ॥, 'नृत्तौ' इति क्षीरतरङ्गिण्यादौ ॥
चारणस्तु कुशीलवः ।
१ चर्यत इति चरणं भ्रमणम्, चरणस्यायं चारण:, यतो देशान्तरभ्रमणाजीवति । २ कुत्सितं शीलं कुशीलम्, कुशीलं वाति कुशीलवः । ‘वा गतिगन्धनयोः '(अ.प.अ.), 'आतोऽनुपसर्गे कः'३।२।३॥ । द्वे चारणस्य । 'बजाणीया गोडीया' इति भाषा ॥ भ्र(भ्रू भृपर: कुंशो नटः स्त्रीवेषधारकः ॥३२९॥
१-४ 'पट पुट'(चु.उ.से.)इति दण्डकात् तस्य कुशिधातोर्भाषणार्थस्यैव विभ्रुवोः (भाषणार्थस्य एरचि, भ्रुवोः)
१० कुंशो भाषणमस्य ‘बहुव्रीहौ भ्रकुंशादीनामकारो वक्तव्यः'(वा ६।३।६१ ॥) इति भ्रूशब्दात् परस्याकारः भ्रकुंशः । “भ्रुवौ कुंशति, कर्मण्यण''[ ]इति कौमुदी । ‘इको ह्रस्वोऽड्यो गालवस्य'६।३।६१॥ इति वा हुस्वत्वे भ्रुकुंशः, भ्रूकुंशः, ऋकारोऽन्तादेशो वा भृकुंशः, एतौ तु मन्तान्तराश्रयणेन । यद्वाचस्पति:
"स्त्रीभूमिकां तु यः प्राप्तश्चत्वारस्तस्य वाचकाः ।
भ्रकुंशश्च भ्रुकुंशश्च भ्रूकुंशश्च भृकुंशवत् ॥१॥"
[] इति । “स्वप्नहिंस्रभ्रकुंशा:(-साः)"[ ]इति सभेदाद् दन्त्यान्तोऽपीति ।स्त्रीवेषं धारयतिस्त्रीवेषधारकः, ण्वुल् ।स्त्रीवेषधारी
२० यः पुमान् नृत्यति, तन्नामानि चत्वारि । भवाईया' इति भाषा ॥३२९॥
वेश्याऽऽचार्यः पीठमर्दः
१ वेश्याचार्यो वेश्यानां नृत्तोपाध्यायः पीठं नर्तनस्थलं पादैर्मुद्नाति पीठमर्दः । मृद क्षोदे'(त्र्या.प.से.), कर्मण्यण् । एकं वेश्यानां नृत्तोपाध्यायस्य । वृद्धो नटोऽयमित्यर्थः ।
सूत्रधारस्तुसूचकः।
१ सूत्रं धारयति सूत्रधारः । 'धृञ् धारणे'(भ्वा. उ.अ.), णिजन्तः, पचाद्यच्। सूचयति भाविनमर्थं सूचकः । 'सूचि पैशुन्य'(चु.उ.से.), ‘ण्वुल्तृचौ'३।१।१३३ ॥ इति ण्वुल् । स्थापकोऽपि । एकं नाट्यविधेरुपदेशकस्य । शैषिकम्
३० "दीर्घदर्शकः''[शेषनाममाला २।९१॥] ॥
नन्दी तु पाठको नान्द्याः
___ १ नन्दत्यवश्यं नन्दी । 'टुणदि(टुनदि) समृद्धौ' (भ्वा.प.से.), आवश्यकाधमर्ययोर्णिनि: '३।३।१७० ॥ । नन्दनं नन्दः, तत्र भवा नान्दी, तत्प्रयोजनत्वाद् नान्दी पूर्वरङ्गम्, तस्याः पाठकः, द्वादशतूर्यनिर्घोषनाम्नः पाठकोऽध्यापकः, तस्यैकम् । "नन्दी भम्भा-मइंग-मद्दल-कडम्ब-झल्लरि-हुडुक्क-कंसाला। काहल-तिलिमा-वंसो संखो पणवो य नाडए नन्दी ॥१॥"[ ] इयं नाटकनन्दी, रणनन्दी त्वियम्
"डक्का-ढक्का-डमरुय-काहल-बुक(बुक्क)-भेरि-भाणगं पडहो। जुगसंख-करडि(डी)-पुग्गय-मद्दल-कंसाल रणनन्दी॥२॥"[ ] ॥
४० ___ पार्श्वस्थः पारिपार्श्विकः ॥३३०॥
१ पार्श्वे तिष्ठति पार्श्वस्थः । 'आतोऽनुपसर्गे कः' ३।२।३ । । २ परिपार्श्व वर्तन्त इति पारिपार्श्विकः । ‘परेर्मुखं चे'४।४।२९॥ इति ठक्, ['ठस्येकः'७।३।५० ॥], 'किति च' ७।२।११८॥ इति वृद्धिः । द्वे पार्श्वस्थस्य । 'पासवाणं' इति भाषा ॥३३०॥ वासन्तिकः केलिकिलो वैहासिको विदूषकः ।
प्रहासी प्रीतिदश्च
१ वसन्तेन चरति वासन्तिकः । वसन्तादित्वाट्ठक् । २ केल्या किलः केलिकिलः । केलीकिलोऽपि । ३
५० विचित्रो हासो विहासः, तेन चरति वैहासिकः । ४ सन्धिं विग्रहेण विग्रहं च सन्धिना विदूषयति विदूषकः । 'दुष वैकृत्ये'(दि.प.अ.), णिजन्ताद् ण्वुल् । ५ प्रहसतीत्येवंशील: प्रहासी । 'हस(हसे) हसने '(भ्वा.प.से.), 'सुष्यजातौ-' ३।२ १७८ ॥ इति णिनिः । ६ प्रीतिं ददाति प्रीतिदः । 'डुदाञ् दाने '(जु.उ.अ.), 'आतोऽनुपसर्गेकः'३ ।२।३ ।। षट् क्रीड नीयपात्रस्य । 'रामतीयाल' इति भाषा ॥
अथ षिड्गः पल्लवको विटः ॥३३१॥
१ सेटनं सिट अनादरः । 'षिट अनादरे'(भ्वा.प.से.), सम्पदादित्वात् क्विप् । सिटा गायति गच्छति वा षिड्गः ।
६० पृषोदरादित्वात् षत्वम् । २ पल्लति चतुरं गच्छति पल्लवः । 'पल्ल गतौ (भ्वा.प.से.), बाहुलकादवः, ततः स्वार्थे के पल्लवकः । पल्लवयति वा । ण्वुत् । ३ वेटति शब्दायते विटः । 'विट शब्दे'(भ्वा.प.से.), 'इगुपधज्ञा-'३।१।१३५ ।। इति
कः, पुंक्ली. । त्रीणि विटस्य । 'ठींगा' इति भाषा ॥३३१॥
१. 'गुडीया' इति१ ॥ २. आचार्यै: 'कुंसः' इति शब्दो स्वीकृतः, अमरकोशेऽपि 'कुंसः' एव, द्र. १७।११॥ ३. 'घटपुट-' इति१.२ ।। ४. 'कुशति' इति१.२.४॥ ५. द्र. स्वोपज्ञटीका २३२९ ॥, पृ.७६ ॥, तत्र दन्त्यसकारो दृश्यते ॥ ६. द्र. टीकासर्वस्वम्, भा-१, १७।११ ॥, पृ.१४२ ॥ ७. 'सूच पैशुन्ये' इति क्षीरतरङ्गिण्यादौ ॥ ८. 'बीजदर्शकः' इति शेषनाममालास्वोपज्ञटीकयोः ॥ ९. इतोऽग्रे ३प्रतौ 'वा' इति दृश्यते ॥ १०. इतोऽग्रे ४प्रतौ 'इति' इति दृश्यते ॥ ११. 'परेर्मुख' इति२.४॥, 'परिमुखं च' इत्यष्टाध्याय्याम् ॥ १२. 'पासवण' इति२ ॥ १३. 'केलिकिलौ' इति१.२.३ ॥ १४. 'केलः' इति४, 'किलिः' इति ॥ १५. 'केलीकेलो' इति ॥ १६. धातपारायण एवायं धातर्दृश्यते, द्र. धातूपारायणम,
पिता त्वावुकः
१ अवतीति आवुकः । अव रक्षणादौ'(भ्वा.प.से.), बाहुलकाद् ‘मृकणिभ्यामु(मू)कोकणौ'(उणा-४७९)इत्युकण्, 'अत उपधायाः ७।२।११६॥ । एकं नाट्योक्तौ पितुः ॥ ।
आवुत्तभावुकौ भगिनीपतौ।
१ अवतीति आवुत्तः । बाहुलकादुत्तण् । २ भव तीति भावुकः। भवतेश्चोपसंख्यानम्'( )इति उकण्। भगिन्याः पतिः भगिनीपतिः, तत्र । नाट्योक्तभगिनीपतेः नाम्नी द्वे ॥
भावो विद्वान्
१० १ भावयतीति भावः । 'भवतेश्चोपसंख्यानम्'( ) इति णः । एकं नाट्योक्तौ पण्डितस्य ॥
युवराजःकुमारोभर्तृदारकः ॥३३२॥ १ युवा चासौ राजा च युवराजः । 'राजाहः-सखि भ्यष्टच्'५।४।९१॥, 'नस्तद्धिते'६।४।१४४॥ इति टिलोपः । कुमारयति क्रीडयति कुमारः । 'कुमार क्रीडायाम्'(चु.उ.से.), चुरादिः, पचाद्यच् । भर्तुर्दारकः भर्तृदारकः । एकं नाट्योक्तौ युवराजकुमारस्य ॥३३२॥ बाला वासूः
१ वसति पितृगृहे, वास्यते प्रीत्या वा वासूः। वस
२० तेर्णिन्ताद् बाहुलकादूः । वस्वौ, वस्वः इत्यादि, स्त्रीलिङ्गः। नाट्योक्तौ बाला कुमारी, तस्या एकम् ॥
मार्ष आर्यः
१ मर्षणात् सहनाद् मार्षः । मारिषोऽपि । “मारिषः शाकभीत्यार्ये नाट्योक्तौ पुंसि भाषितः"[]इति मूर्द्धन्यान्ते रभसः । २ आरात् पापेभ्यो यातो निःसृत आर्यः, पृषो दरादिः । अरणीयोऽभिगम्यो वा । द्वे नाट्योक्तौ स्वामिनः ॥
देवो भट्टारको नृपः।
("१-२ नाट्योक्तौ यो नृपो राजा, तस्य नाम्नी द्वे। दीव्यतीति देवः ।भटति भट्टारः। भट भृतौ'(भ्वा.प.से.),आरनि
३० साधुः, स्वार्थे कनि भट्टारकः)॥
राष्ट्रियो नृपतेःश्यालः
१ राष्ट्रे भवो राष्ट्रियः । राष्ट्रेऽधिकृतो वा । 'राष्ट्रा वारपाराद्घखौ'४।२।९३॥ इति भवादौ शैषिक: छोऽपवादो घः, 'आयनेयी-७॥१२॥इतिघस्येयादेशः, 'यस्येति च'६।४।१४८।। नाट्योक्तौ नृपतेर्य:श्यालः, तस्यैकम् । शालो' इति भाषर्षी ॥
दुहिताभर्तृदारिका ॥३३३॥
१ नाट्योक्तौ नृपतेर्दुहिता सुता, तन्नामैकम् । भर्तु दारिका भर्तृदारिका ॥३३३॥
देवीकृताभिषेका
१ दीव्यति देवी, श्रीमहादेवी वासवदत्तादिः । कृता-
४० भिषेका बद्धपट्टा । नाट्योक्तौ कृताभिषेका राज्ञी, तस्या एकम्॥
अन्या भट्टिनी
१ अन्येति अकृताभिषेका राज्ञी भट्टिनी इत्युच्यते । भट्टो नृपोऽस्त्यस्या भट्टिनी । यन्महेश्वरः-"भट्टिनी द्विजभार्यायां नाट्योक्तौ राजयोषिति''[विश्वप्रकाशकोशः, नान्तवर्गः, श्री १३१]। एकं नाट्योक्तौ अकृताभिषेकाया राश्याः ॥,
___ गणिकाजुको ।
१ नाट्ये गणयति ईश्वरानीश्वराविति गणिका । 'गण संख्याने'(चु.उ.से.), चुरादिः, ण्वुल् ।अर्जयति धनम् अजुका। 'अर्ज सर्ज अर्जने '(भ्वा.प.से.), बाहुलकात् 'समि कसे
५० डकन् (डुकन्)'(उणा-१८७)इति डुकत, रलोपश्च। "अज्जुकाद्या असत्प्रकृतिप्रत्ययविभागा देशा इत्यपि"[ ]इति केचित्। एकं नाट्योक्तौ वेश्यायाः॥
नीचाचेटीसखीहूतौ हण्डेह हला:क्रमात् ॥३३४॥
१-३ नीचा च चेटी च सखी च नीचाचेटीसख्यः, तासां हूतिरामन्त्रणम्, तस्याम् । क्रमाद् अनुक्रमेण हण्डे, हले, हला ज्ञेयाः। तद्यथा नीचा अधमा, तस्या आह्वानं हण्डे, चेटी दासी, तस्या आह्वानं हजे, सख्या आह्वानं हला इति । एत त्यमप्यव्ययम् । तथा 'हला शकुन्तला'[ ]इत्यादिसखीपर्यायो हलाशब्दस्तु टाबन्तः, "बाला वासूः सखी हला"["] इति
६० स्त्रीकाण्डे वोपालितः । एकैकं क्रमेण अधमादासीसखी नामाह्वानस्य ॥३३४॥
अब्रह्मण्यमवध्योक्तौ"
१ वधं नार्हति अवध्यः, अवध्यस्य उक्तिः अव ध्योक्तिः, तत्र । अब्रह्मण्यं वर्तते। ब्रह्माणमर्हतीति । अर्थ
१. मृग-' इति १.२.४ ॥ २. इतोऽग्रे प्रतौ 'भगनी' इति २॥३. एकं नाट्योक्तौ भगिनीपतेः' इति १.३.४॥ ४. तुलनीयोऽमरकोषः १७।१२॥ ५. क्रीडयन्ति' इति२॥६.इतोऽग्रे प्रतौ 'वासूः षष्ठः स्वरान्तोऽयम्' इति दृश्यते ॥ ७. द्र. रामाश्रमी १७॥१४॥, पृ.९९॥ ८. 'निसृतः' इति३॥ ९.'आरणीयः' इति१॥१०. कोष्ठान्तर्गतपाठः १प्रतौ, तथा तत्स्थाने ३.४प्रतौ-"दीव्यति ('दीव्यतीति' इति ३) देव । 'दिवु क्रीडादौ, पचाद्यच् । भटतीति (भट्टतीति इति ३) भट्टारकः । 'वट ('वट' इति ३नास्ति)भट (भट्ट इति ३) परिभाषणे, क्विप्, मठ वासे तारकश्चेति, पृषोदरादित्वात् टुत्वम् । नाट्योक्तो नृपो राजा, तस्य नाम्नी द्वे" इति दृश्यते ॥ ११. 'शालो इति भाषा' इति १.३.४ नास्ति ॥१२.'-देव्या' इति १.२.४॥ १३. नाट्योक्ता' इति १.२.४॥ १४. एको' इति१ ॥१५. तुलनीयोऽमरकोषः १७।११ ॥ १६. 'सम किस' इति ३॥ १७. 'डुकञ्' इति३॥ १८."अजुकाद्या असत्प्रकृतिप्रत्ययविभागा देशीपदप्रायाः" इति स्वोपज्ञटीका २३३४॥, पृ.७७॥१९. द्र. रामाश्रमी १७।१५॥, पृ.९९॥२०. तुलनीयोऽमरकोषः १७।१४॥२१. इतोऽग्रे ४प्रतौ 'अबध्योक्तौ' इति दृश्यते ॥
दण्डादिभ्यो यः, 'तत्र साधुः४।४।१८॥ इति वा यत् । ततो नसमासः । "वधानर्हस्य ब्राह्मणस्य पूत्करणे अवधयाच नार्थम्''[ ]इत्येके । एकं वधं नार्हतीति वचसः ॥
ज्यायसी तु स्वसाऽत्तिका ।
१ अत्ता मातेव अत्तिका। 'इवे प्रतिकृतौ'५।३।९६॥ इति कः, 'प्रत्ययस्थात्-७।३।४४॥ इतीत्वम् । "द्वितकारकः पाठः"[ ]इति सर्वधरः ।" 'अन्तिकं निकटे नाट्योक्त्या ज्येष्ठस्य भार्यापि'[ ]इति नानार्थकोषदर्शनाद् द्वितकारः
प्रामादिकः"[ ]इति तु कलिङ्गः । वयं तु "अत्तिका चान्तिका
१० तथा''[]इति द्विरूपकोषाद् द्वितकारः पाठः, तथैकतकार पाठोऽपीत्याचक्ष्महे । एकं नाट्योक्तौ ज्येष्ठभगिन्याः ॥
भर्ताऽऽर्यपुत्रः
१ नाट्योक्तौ भर्ता पतिः, (तन्नामैकम् आर्यपुत्रः। आर्यस्य पुत्रः)इति समासः ॥
___ माताऽम्बा
१ नाट्योक्तौ माता जननी, सा अम्बा इत्युच्यते । अम्ब्यते शब्दयते बालैरित्यम्बा । 'अवि(अबि) शब्दने' (भ्वा.आ.से.), कर्मणि घञ् । अमति गच्छति वात्सल्यमिति वा । 'अम् गतौ '(भ्वा.प.से.) 'शम्यमी(शम्यमेः)-'(हैमोणा
२० ३१८)इति बः, टाप् । अम्बत अपत्यं जल्पतीति वा । 'अबि गतौ (शब्दे)'(भ्वा.आ.से.), पचाद्यच् । ननु कथं "ताते नाम्बविहीनोऽस्मि बालभावेऽहमम्बया"[ ]इत्यादावनाट्यो तावप्यम्बादिप्रयोगः, तत्र जातौ कादयस्त्वाहुः । नाट्योक्तौ अज्जुकादय एव प्रयुज्यन्ते, न गणिकामात्रादय इत्ययं नियमः। ननु "मातः किमप्यसदृशं करुणं वचस्ते "[ ]इति वेणी संहारादौ मात्रादीनामपि प्रयोगात् तस्मादम्बादीनां नाट्ये प्रायशः प्रयोगाद् विधिरयम् । अजुकादीनां त्वन्यत्राऽप्रयोगात्रियमं फल तीति । एतदेवाह शब्दार्णवकार:
"अथैतेषां रूपकाणामुक्तीर्वक्ष्याम्यशेषतः ।
३० कासुचिन्नियमस्तत्र विधिरेव च कासुचित् ॥१॥"[]इति॥
भदन्ताः सौगतादयः॥३३५॥ १ नाट्योक्तौ सौगतादयः, सौगत आदिरेषामिति सौगतादयः, आदेर्निर्ग्रन्थादयो भदन्ताः प्रोच्यन्ते । भन्दन्ते कल्याणिनो भवन्ति भदन्ताः । 'भदि कल्याणे सुखे च'(भ्वा.-
४० आ.से.), 'भन्देर्नलोपश्च '(उणा-४१०)इत्यतचं' 'सामन्त (सीमन्त)हेमन्तभदन्त-'(हैमोणा-२२२)इत्यादिना साधुर्वा ॥
पूज्ये तत्रभवानत्रभवांश्च भगवानपि ।
१-२ स भवान् तत्रभवान्, एष भवान् अत्र भवान् । 'इतरे(इतरा)भ्योऽपि दृश्यन्ते'५।३।१४॥इत्यनेन सर्व विभक्त्यन्तेभ्यः किम्सर्वनाम बहुभ्यो व्यादिभ्यों भवदीर्घा ऽऽयुरायुष्मच्छब्दयोगे तसिलादयो विहिताः । तेष्वत्रतत्रशब्द विशिष्टो भवच्छब्दः पूज्यतां द्योतयति[ ]इति प्राञ्चः । एवं तु अत्रभवन्त इत्यादौ भवच्छब्दार्थो विवक्षित एव पूजा परम धिका गम्यत इत्येतावत्, न त्वेतद् युक्तम्- "यन्मां विधेय-
५० विषये सभवान्नियुङ्क्ते स्नेहस्य तत्फलमसौ प्रणयस्य सारः" [मालतीमाधवम्, प्रथमोऽङ्कः, श्री-१०]इति मालतीमाधवे, "वरवती खलु तत्रभवन्ती शकुन्तला''[ ]इति शाकुन्तले, "कथमत्रभवान् विश्वामित्रः"[ ]इति अनर्घ्यराघवादिष्वसम्बोध्ये परोक्षेऽपि प्रयोगदर्शनात् । न चात्र कश्चिदवयवानां पृथगर्थो गम्यते, तस्मात् पूज्यतामात्रवचनौ समुदायावेवात्रभवत्तत्रभवच्छब्दौ उदनुबन्धौ प्रकृतिप्रत्ययविभागेन कल्प्यौ, उपलक्षणं चैतत्, स भवान् तं भवन्तं ततो भवन्तमित्याद्यपि दृश्यते [ ]इति कृष्ण मिश्राः । ३ भगो ज्ञानमस्यास्ति भगवान् । त्रीणि पूज्यस्य ॥
पादा भट्टारको देवः प्रयोज्यः पूज्यनामतः ॥३३६॥
६० ___ पादाद्यास्त्रयः शब्दाः पूज्यनामतोऽग्रे योज्याः । यथा गुरुपादाः, अर्हद्भट्टारकः, कुमारपालदेवः, एवमन्येभ्योऽप्येते प्रयोज्याः । “भरटकः, भट्टः"[शेषनाममाला२।९१॥] इति शैषिके ॥३३६॥
॥ इत्याचार्यश्रीहेमचन्द्रविरचितायामभिधानचिन्तामणौ नाममालायां देवकाण्डो द्वितीयः ॥
सर्वाङ्गीणकलाविलासनिलयः कल्पद्रुमाभः कलौ जाग्रत्सर्वजनीनमञ्जुमहिमो मित्रप्रतापोदयः ।
श्रीमच्छीविधिपक्षगच्छगणभृद् भूभृन्नताङ्घ्रिद्वयः श्रीकल्याणसमुद्रसूरिसुगुरुः सूरीन्द्रचूडामणिः ॥१॥ तन्निर्देशविधायिवाचकवरश्रेणीकिरीटोपमा भास्वत्साधुगुणौघशालिविनयाच्चन्द्राभिधावाचकाः ।
तच्छिष्या रविचन्द्रइत्यभिधया तेषां विनेयो व्यधादेनं वाचकदेवसागरगणिर्युत्पत्तिरत्नाकरम् ॥२॥
॥ इति श्रीवाचकवरदेवसागरविरचितायामभिधानचिन्तामणिनाममालायां व्युत्पत्तिरत्नाकरटीकायां देवकाण्डो द्वितीयः॥
१. द्र. टीकासर्वस्वम्, भा-१, १७॥१५॥, पृ.१४४॥, रामाश्रमी १७॥१५॥, पृ.९९॥ २. कोष्ठान्तर्गतपाठस्थाने २प्रतौ "तस्याभिधानम् आर्यपुत्रः, आर्यस्य पुत्र आर्यपुत्रः" इति दृश्यते ॥३. 'अम गत्यादिषु' इति क्षीरतरङ्गिण्यादौ॥ ४. '-सदृश' इति३ ॥ ५. 'वचसे' इतिर ॥ ६. 'रूपकारणा इति२ ॥ ७. 'न्लोपश्च' इति१.२.४॥ ८. 'इत्यतच्' इति १.२नास्ति ॥ ९. १प्रतौ नास्ति ॥ १०. '-नियुक्ते' इतिर अत्र ३प्रतौ-" 'भट ज्ञाने' धातुः, भटतीति भट्, क्विपि सिद्धे भट् चासौ तारकश्च भट्टारकः, ष्टुभिः ष्टुः इति धातुरत्नाकरे माधवीयवृत्तितोऽपि गृह्यते" इति टिप्पणी दृश्यते ॥ १३. इतोऽग्रे ३प्रतौ 'देवकाण्डो द्वितीयः' इत्यस्य स्थाने 'द्वितीयः काण्ड: समाप्तः' इति दृश्यते ॥