"कपिर्वराह श्रेष्ठश्च धर्मश्च वृष उच्यते ।
तस्माद् वृषाकपिं प्राह काश्यपो मां प्रजापतिः॥१०॥"
[]इति । वृष दानवमाकम्पितवानिति वा, पृषोदरादित्वात् । ३२ यदोज्येष्ठः पुत्रो मधुस्तद्वंश्यत्वात्, ‘तस्यापत्यम्' ४।११२॥ इत्यणिति माधवः । अन्येऽपि तद्वंश्या माधवाः। तथा च "प्रहित[:] प्रधा(ध)नाय माधवान्'[शिशुपालवधम् १६५२] इति माघः । माया लक्ष्या धव इति वा । ३३ वसुदेवस्यापत्यं वासुदेवः । 'ऋष्यन्धकवृष्णिकुरुभ्यश्च' ४।१।११४॥ इत्यण्। तथा च विष्णुपुराणम्
१० "सर्वत्रासौ समस्तं च वसत्यत्रेति वै यतः ।
ततो वै वासुदेवोऽसौ विद्वद्भिः परिकीर्तितः ॥११॥"
[*]इति । वासुरित्यपि । तथा च त्रिकाण्डशेष:-"वासुर्नारा यणपुनर्वसुविश्वरूपाः" [त्रिकाण्डशेषः १।१।२९॥] । ३४ विश्वं बिभर्ति विश्वम्भरः । 'डुभृञ् धारणपोषणयोः(जु.उ.अ.), संज्ञायां भृ-त-वृ-जि-धारि-सहि-तपि-दमः'३।२।४६ ॥ इति खच्, 'अरुद्धिषदजन्तस्य'६।३६७॥ इति मुम् । ३५ श्रियं धरति श्रीधरः। 'धृञ् धारणे'(भ्वा.उ.अ.), पचाद्यच् । ३६ विश्वं रूपमस्य विश्वरूपः॥२१५॥३७ शैशवे चापल्यनिषेधाय यशोदया दाम्ना उदरे बद्धत्वाद् दाम उदरेऽस्य दामोदरः । गमकत्वाद् वैयधि
२० करण्येऽपि समासः। ३८ शूरो नाम यादवो वसुदेवपिता, तद्वंशजत्वात् शौरिः । बाह्वादेराकृतिगणत्वाद् इञ्। "शर्वः शिवः केशव एव शौरिः"[ ]इति शकारभेदात् तालव्यादिः । "षूङ् प्राणिप्रसवे' (दि.आ.वे.), सुसूधागृवि(गृधि)भ्यः क्रन्'(उणा-१८२)इति क्रन्, सूरो यादवे दन्त्यवान्''[ ] इति तु मधुमाधवी। ३९ सना भवः सनातनः। 'सायंचिरंप्राज्ञेप्रगेऽव्ययेभ्यः'४।३।२३॥ इति ट्युः, तुडागमश्च। ४० विध्यति दैत्यान् विधुः । व्यध ताडने'(दि.प.अ.), 'पृभिदिव्यधिगृधिधृषिभ्यः कुं:'(उणा-२३)इति कुः । ४१ पीते अम्बरेऽस्य पीताम्बरः। ४२ मार्जयति पापं मार्जः । 'मजूषं शुध्दी (अ.प.वे.), णिजन्तात् पचाद्यच्। मां लक्ष्मीमर्जयति वा मार्जः । 'अर्ज सर्ज अर्जने'(भ्वा.प.से.), पचाद्यच् । ४३
३० जयति दैत्यानिति जिनः। 'जि जये '(भ्वा.प.अ.), 'इण्सिजि(ञ्जि)-[दीकुष्यवि]भ्यो नक्'(उणा-२८२)इति नक्। ४४ कुं भुवं मोदयति कुमोदकः। 'मुद हर्षे '(भ्वा.आ.से.), 'ण्वुल्तृचौ' ३।१।१३३॥ इति ण्वुल् । ४५ त्रयो विशिष्टाः क्रमाः सृष्टिस्थितिप्रलयलक्षणाः शक्तयोऽस्य त्रिविक्रमः । बलिबन्धनार्थं भूव्योमस्वर्गेषु त्रयो विक्रमाः पादन्यासा अस्येति वा त्रिविक्रमः। ४६ जहाति पादाङ्गुष्ठाद् गङ्गामिति जह्वः। 'ओहाक् त्यागे' (जु.प.अ.), 'जहातेः सन्वदालोपश्च'(उणा-१३८)इति नुः। ४७ चत्वारो भुजा अस्य चतुर्भुजः। ४८ पुनर्वस्वोर्जातः पुनर्वसुः। 'लुबविशेषे'४।२।४॥ इत्यणो लुप् । ४९ शतमावर्ता अस्य
४० शतावर्त्तः । ५० गदस्याग्रजोः गदाग्रजः । ५१ स्वतो भवति स्वभूः, क्विप् ॥२१६॥५२ मुञ्जवर्णकेशयुक्तत्वाद् मुञ्जकेशी। 'अत इनिठनौ' ५।२।११५॥ इतीनिः । यत्पुराणम्
"स शूलतेजसाऽऽविष्टो नारायणविभुस्तदा ।
बभूव मुञ्जवर्णश्च ततोऽहं मुञ्जकेशवान् ॥१२॥"
["]इति । ५३ वनं वनपुष्पम्, तन्मालाऽस्यास्ति वनमाली। 'व्रीह्यादिभ्यश्च '५।२।११६॥ इति इनिः । “सपल्लवपुष्पग्रथिता स्रक् वनमाला''["]इत्येके । "आपादपद्मं या माला वनमालेत सा मता"["]इति तु कलिङ्गः । ५४ अवयवलक्षणया आयतत्वात् पुण्डरीके पुण्डरीकपत्रे इवाक्षिणी यस्य स पुण्डरीकाक्षः ।
५० पुण्डरीकमक्षि अस्येति वा । 'बहुव्रीहौ सक्थ्यक्ष्णोः [स्वाङ्गात्] ष ५।४।११३॥, 'यस्येति च'६।४।१४८ ॥ । अनेन किल पूर्व रुद्राय सहस्रपुण्डरीको बलिरुपनीतः, तत्र तेन एकं भक्तिं ज्ञातुमपहृतम्, ततोऽनेन स्वचक्षुरेकमुत्पाट्य पुण्डरीकस्थाने [दानं] कतं. तेन च महिम्नः स्तोत्रे "हरिस्ते साहस्रम्"
१. 'धर्मस्य' इति३॥ २. द्र. स्वोपज्ञटीका २।२१५॥, पृ.५३॥ ३. 'वृषदा-' इति ३॥ ४. 'यदेज्ये-' इति३॥ ५. 'तद्वंश्य-' इतिर ।। ६. '-देवोऽस्मै' इति३॥ ७. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, शो-१५, पृ.३३-३४॥, रामाश्रमी ११।२०॥, पृ.१३॥, तत्रोत्तरार्धः 'अतोऽसौ वासुदेवेति विद्वद्भिः परिपठ्यते' इति पदचन्द्रिकायाम्, 'ततोऽसौ वासुदेवेति विद्वद्भिः परिगीयते' इति रामाश्रम्यां च दृश्यते ॥ ८. "श्रियंधरः' इति३॥ ९. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, श्रो-१६, पृ.३४॥ १०. उणादिगणे नास्ति॥ ११. 'मृजुष्' इति२.३॥ १२. 'सिद्धौ' इति१॥, 'मृजू शुद्धौ' इति मा. धातुवृत्तौ, अदादिः, धातुसं-७१, पृ.३७२ ॥ १३. ३प्रतौ नास्ति॥ १४. 'षर्ज' इति मा. धातुवृत्तिः, भ्वादिः, धातुसं-१३७, पृ.९८ ॥ १५. 'सृष्ट-' इति३॥ १६. '-केशी-' इति ॥ १७. द्र. स्वोपज्ञटीका २।२१७॥, पृ.५३॥ १८. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, श्री-१६, पृ.३५ ॥ १९. "आपादलम्बिनी माला सर्वर्तुकुसुमोज्वला । मध्ये स्थूलकदम्बाढ्या वनमालेति कीर्तिता" इति वाचस्पत्यम्, पृ.४८४५ ॥ २०. 'रथच्' इति १॥ २१ '-रूप-' इति३॥ २२. 'भक्ति' इति१.२.३॥
[शिवमहिम्नस्तोत्रम्-१९] इति पद्ये व्यक्तम् । यद्वा अक्षेषु इन्द्रियेषु दृश्यते, अधिष्ठातृरूपेणानुभूयते इत्यक्षः परमात्मा, ‘शेषे'४।२।१२।। इत्यण, सर्वेन्द्रियाणामधिष्ठातेत्यर्थः, हृत्पुण्डरीकमध्ये परमात्म स्वरूपेण स्थितत्वात्, सर्वेन्द्रियाणामपि इन्द्रिय इति यावत्। तथा च श्रुतिः-'प्राणस्य प्राण उत चक्षुषश्चक्षुः श्रोत्रस्य च श्रोत्रं मनसोऽयं मनो विदुः''[]इति । आलौहित्यात् पुण्डरीकं कर्पासमिवाक्षि अस्येति वा। "कर्पासशब्दस्तु वानरकटिवचन:''[]इति तु विष्णु पुराणटीकाकाराः । ५५ बिभर्त्ति विश्वम्, जगद्भारं वा बभ्रुः । 'डुभृज धारणपोषणयो: '(जु.उ.अ.), 'कुर्धश्च'(उणा-२२)
१० इत्युणादिसूत्रेण कुप्रत्ययः, धातोद्वित्वं च । ५६ शशाकारा बिन्दवो लाञ्छनमस्य शशबिन्दुः । ५७ विधति सृजति वेधाः । विध विधाने'(तु.प.अ.), '-असुन्'(उणा-६२८)इत्यसुन्, ‘अत्वसन्तस्य चाधातोः '६।४।१४॥ इति दीर्घः । वेधसौ, वेधस: इत्यादि । ५८ पृश्रिः शृङ्गमस्य पृश्रिशृङ्गः । ५९ धरणी धरति धरणीधरः। ‘धृञ् धारणे'(भ्वा.उ.अ.), पचाद्यच्, यौगिकत्वाद् महीधरादयः । ६० आत्मनो भवति आत्मभूः । भुवः संज्ञान्तरयो:' ३।२।१७९ ।। इति क्विप् । ६१ पाण्डवान् अयते पाण्डवायन: । 'अय गतौ' (भ्वा.आ.से.), नन्द्यादित्वाद् ल्युः । ६२ सुवर्णवर्णा बिन्दवो लाञ्छनान्यस्य सुवर्णबिन्दुः ॥२१७॥ ६३ श्रीवत्सो हृदि अस्य
२० श्रीवत्सः । अर्शआदित्वादच् । महापुरुषलक्षणं श्वेतरोमावर्तविशेष: श्रीवत्सः। वदति महत्त्वमिति वत्सः । 'वद व्यक्तायां वाचि' (भ्वा.प.से.), 'वृ(वृ)तृवदिहनिकमिकुषिभ्यः सः'(उणा-३४२) इति सप्रत्ययः । “ श्रीयुक्तो वत्सः श्रीवत्सः । क्रुद्धस्य दुर्वाससः पदाघातरूपों रेखाविशेष: श्रीवत्सः"[]इति रूपपञ्जिका । "शौरि श्रीवत्सदैत्यारिविष्वक्सेनजनार्दनाः"[ ]इति शब्दार्णवः । श्रीवत्सला ञ्छनोऽपि । ६४ देवस्यापत्यं देवकिः। अत इञ्' ४।१।९५ ।।, संज्ञापूर्वकत्वाद् वृद्ध्यभावः, ततः स्त्रियाम् ‘इतो मनुष्यजातेः' ४।१।६५ ॥ इति ङीष् । 'देवकी'[]इति वर्णदेशना। “देवकीना चष्टे इति णिजन्ताद् ‘अच इ:'(उणा-५७८)इति इः, ततो ङीषि देवकीति समाधेयम्''["]इति श्रीधरः । 'दैवकी देवकी'[*]इति
३० द्विरूपकोषश्च । देवक्याः सूनुः देवकीसूनुः । ६५ गोपीनामिन्द्रो गोपीन्द्रः । ६६ "पलाशी विष्टर: स्थिर:"[त्रिकाण्डशेष:२।४।२॥] इति त्रिकाण्डशेषः । तरुः अश्वत्थोऽभिमतः । तथा च "अश्वस्थः सर्ववृक्षाणाम्''[ श्रीमद्भगवद्गीता १०।२६ ॥] इति गीता । तत्र श्रूयत इति । 'सर्वधातुभ्योऽसुन्'(उणा-६२८), विष्टरश्रवाः । विष्टर: कुशमुष्टिरिव श्रवसी कर्णावस्येति वा । विष्टरश्रवसौ, विष्टरश्रवस: इत्यादि । ६७ सोमोऽभिगम्यः सिन्धुरस्य सोमसिन्धुः । ६८ जगतां नाथो जगन्नाथः । ६९ गोवर्धनं धरति गोवर्धनधरः, पचाद्यच् ॥२१८॥७० यदूनां नाथो यदुनाथः । ७१-७५ गदा शाङ्गचक्रश्रीवत्सशकेभ्यः भृत्, तेन गदाभृत् । शृङ्गस्य विकारः
४० शार्ङ्गम्, ‘अनुदात्तादेश्च'४।३।१४० ॥ इत्यञ्, शार्ङ्ग धनुर्बिभर्ति शाङ्गभृत्, चक्रभृत्, श्रीवत्सभृत्, शङ्खभृत्, यौगिकत्वाद् गदाधरः, शाङ्गी, चक्रं पाणावस्य चक्रपाणिः । 'प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ'(वा- २।२।३६ ।।) इति परनिपातः । श्रीवत्साङ्कः, शङ्खपाणिः इत्यादयः । पञ्चसप्ततिः कृष्णस्य । शेषश्चात्र
"नारायणे तीर्थपादः पुण्यश्रोको बलिन्दमः ।
उरुक्रमोरुंगांवौ च तमोज़ः श्रवणोऽपि च ॥१३॥
उंदारधिलतापर्णः सुभद्र': पांशुजालिकः ।
चतुर्ग्रहो नवव्यूहो नवशक्तिः षडङ्गजित् ॥१४॥
द्वादशमूर्ले : शतको दशावतार एकदृक् ।
५० हिरण्यकेशः सोमोऽहिस्त्रिधामा त्रिककुत् त्रिपात् ॥१५॥
मानञ्जरः पराविद्धः पृथिगर्भोऽपराजितः ।
हिरण्यनाभः श्रीगर्भो वृषोत्साहः सहस्रजित् ॥१६॥
१. 'स्थितिवान्' इति२ ॥ २. 'वा' इति४ ॥ ३. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, श्रो-१४, पृ.३१-३२ ॥ ४. 'धारण-' इति२ ॥ ५. 'विदधति' इति३ ॥ ६. 'सुवर्णा' इति१ ॥ ७. '-रूपा' इति२।। ८. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, श्री-१७, पृ.३६ ॥ ९. '-र्दनः' इति२ ॥ १०. द्र. रामाश्रमी १।१।२२ ॥, पृ.१३ ॥ ११. "विधुः श्रीवत्सलाञ्छनः" इत्यमरकोषः १।१।२२ ॥ १२. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, श्री-१६, पृ.३४ ॥ १३. 'देवकी दैवकीति च' इति पू.कस्तूरसूरिसम्पादितशब्दभेदप्रकाशे, पृ.२३०॥ १४. 'शब्दो योज्यः' इति ४प्रतेष्टिप्पणी ॥ १५-१. '-रुगायौ' इति, १५ २. 'उदारथि-' इति च शेषनाममालास्वोपज्ञटीकयोः ॥ १६. 'तमाघः' इति२ ॥ १७. 'समुद्रः' इति३ ॥ १८. 'द्वादशः मूलः' इति३ ॥ १९. 'हिरण्यः केशः' इति३॥ २०. 'त्रिकत्रिपात्' इति१.२ ॥ २१. 'पानञ्जरः' इति३ ॥
ऊर्ध्वकर्मा यज्ञधरो धर्मनेमिरसंयुतः ।
पुरुषो योगनिद्रालुः खण्डास्य: शलिकाऽजितौ ॥१७॥
कालकण्ठो वरारोहः श्रीकरो वायुवाहनः ।
वर्धमानश्च चतुर्दष्ट्रो नृसिंहवपुरव्ययः ॥१८॥
कपिलो रुद्रकपिलः सुषेणः सुमतिञ्जयः ।
क्रतुधामा वासुभद्रो बहुरूपो महाक्रम ॥१९॥
विधाता धार एकाङ्गो वृषाक्षः सुवृषोऽक्षजः ।
रन्तिदेव: सिन्धुवृषो जितमन्युर्वृकोदरः ॥२०॥
बहुशृङ्गो रत्नबाहुः पुष्पहासो महातपाः ।
१० लोकनाभः सूक्ष्मनाभो धर्मनाभः पराक्रमः ॥२१॥
पद्महासो महाहंसः पद्मगर्भः सुरोत्तमः ।
शतवीरो महामायो ब्रह्मनाभः सरीसृपः ॥२२॥
वृन्दाकोऽधोमुखो धन्वी सुधर्मों विश्वभुक् स्थिरः ।
शतानन्दः शरुश्चापि यवनारिः प्रमर्दनः ॥२३॥
ऋक्षनें मिर्लोहिताक्षः एकपाद् द्विपदः कपिः ।
एकशृङ्गो यमकील:(-ल) आसन्दः शिवकीर्तनः ॥२४॥
शद्रु र्वंशः श्रीवराह : सदायोगी सुयामुनः ॥"
[शेषनाममाला २६४-७६ ।।] ॥
मधुधेनुकचाणूरपूतनायमलार्जुनाः ॥२१९॥
२० कालनेमिहयग्रीवशकटौरिष्टकैटभाः ।
कंसर्केशिमुरा: साल्वमैन्दैद्विविंदराहवः ॥२२०॥
हिरण्यकशिपुर्बाणः कालियो नरको बलिः ।
शिशुपालश्चास्य वध्याः
१ अस्य विष्णोरेते त्रयोविंशतिर्वध्याः, मन्यतेऽत्यर्थं मधुः। 'मनु अवबोधने'(त.आ.से.), 'फलि-पाटि-मनि-नमि-जनां
गुक्पाटिनाकिधताश्च उर्निचे '(उणा-१८)इति सूत्रेण मन्यते |न्तादेशः, उप्रत्ययश्च । २ धेनुं कायति धेनुकः । ३ चणति शब्दायते प्रतिमल्लानिति चाणूरः । 'चण शब्दे'(भ्वा.प.से.)। ४ पूनाति पूतना । 'पूञ् पवने'(त्र्या.उ.से.), 'पृपूभ्यां कित्' (हैमोणा-२९३)इति तनः, टाप् । ५ यमलरूपावर्जुनवृक्षौ यम-
३० लार्जुनौ ॥२१९॥ ६ कालस्य नेमिश्चक्रधारेव कालनेमिः । ७ हयस्य ग्रीवेव ग्रीवाऽस्य हयग्रीवः । ८ शकटाकारत्वात् शकटः। ९ नास्ति रिष्टं क्षेममस्मादिति अरिष्टः । १० कैतवेन भाति कैटभः, पृषोदरादिः । ११ कामयते जयं कंसः। 'कमु कान्तौ' (भ्वा.आ.से.), वृ(वृ)तृवदिहनिकमिर्कषियुमुचिभ्यः सः'(उणा ३४२)इति सः । १२ केशाः सन्त्यस्य केशी । अत इनिठनौ' ५।२।११५ ॥ इतीनिः । १३ मुरति वेष्टयति मुरः । 'मुर [सं] वेष्टने'(तु.प.से.), तुदादिः, 'इगुपधज्ञा-'३।१।१३५ ॥ इति कः । १४ सल्वा अभिजनोऽस्य साल्वः । सलति गच्छति वा। सल गतौ'(भ्वा.प.से.), 'सलेर्णिद्वा'( हैमीणा-५१०)इति वः । १५ मया
४० लक्ष्म्या कृत्वा इन्दति परमैश्वर्यमनुभवति मेन्द: । 'प्रज्ञादि भ्यश्च'५।४।३८ ॥ इत्यणि मैन्दः । १६ ['विद ज्ञाने'(अ.प.से.)], 'इगुपध-'३।१।१३५ ॥ इति कः । द्वयोस्त्रेताद्वापरयोर्विदः द्विविदः। १७ रहयति गृहीत्वा सूर्याचन्द्रमसौ इति राहुः । ‘रहि (रह) त्यागे'(चु.उ.से.), दृ(द)सनिजनिचरिचटिरहिभ्यो उणे '(उणा ३) इति उण् ॥२२०॥ १८ हिरण्येन युक्तः कसि(शि)पुः हिरण्यकसि (शि)पुः । १९ बाणयति युद्धार्य रिपूनिति बाणः। 'बण शब्दे'(भ्वा.प.से.), अस्माण्णिजन्तात् पचाद्यच् । २० के पानीये आलयोऽस्य कालियः, पृषोदरादिः । २१ नृणाति नरकः । 'दृन्(कृ)न- '(हैमोणा-२७) इत्यकः । २२ बलति
५०
१. 'खजस्य' इति२, 'षडास्यः' इति३ ।। २-१. 'कालकुण्ठो' इति, २-२. 'भद्रकपिलः' इति, २-३. 'सुमितिञ्जयः' इति, २-४. 'सुधन्वा' इति च शेषनाममालास्वोपज्ञटीकयोः ॥ ३. 'सुवृषोकुजः' इति२ ॥ ४. 'रतिदिवः' इतिर, 'रतिदेवः' इति४ ॥ ५. 'सिन्धुः वृषो' इति२ ।। ६. 'शरीसृपः' इति१.२.४ ॥ ७. 'त्सरु-' इति१॥ ८. '-निमिलो-' इति३, 'यज्ञनेमिलो' इति शेषनाममालास्वोपज्ञटीकयोः ॥ ९. 'सद्रु-' इति३॥ १०. 'सया-' इति३॥ ११. 'साल्वः' इति१, 'शाल्वः' इति३॥ १२. 'उच्च' इति३, 'उनिच्च' इति१ ॥ १३. 'फलिनमिमनिजनां गुक्पाटिनाकिधतश्च' इत्युणादिगणसूत्रस्वरूपम् ॥ १४. 'कामयति' इति३ ।। १५. क्षीरतरङ्गिण्यादौ चणधातुः शब्देऽर्थे न दृश्यते, तेनात्र हैमसम्मतः शब्दार्थक: अणरणदण्डात्मक: चणधातुर्बोध्यः, तत्राह- "महिकणि-'(हैमोणा ४२८)इति णिति ऊरे चाणूरो विष्णुहतो मल्लः" इति स्वोपज्ञं धातुपारायणम्, भ्वादिः, धातुसं-२७२, पृ.३३ ॥ १६. '-कषिभ्यः सः' इत्युणादिगणे ॥ १७. 'सला' इति३.४, 'सलवा' इति२ ॥ १८. 'मेदः' इति१, 'मैन्दः' इति२.४॥ १९. 'मेन्दः' इति३ ॥ २०. अत्र 'देवताद्वन्द्वे च' ६।३।३६॥ इत्यानङ् ॥ २१. ' -चटिभ्यो जुण्' इत्युणादिगणे॥ २२. 'योद्धं' इति२.३॥ १प्रतावपि केनचित् 'योद्धं रि-' इत्यस्य निष्काषणं कृत्वा बहिर्भागे 'युद्धाय रि-' इति कृतः ॥ २३. 'कालीयः' इति३ ॥
बलिः । 'इन् सर्वधातुभ्यः'(उणा-५५७)। २३ शिशून् पालयति शिशुपालः, पचाद्यच् । नारायणस्य मध्वादीनां त्रयोविंशतिरिपूणां नामानि। यौगिकत्वाद् मधुमथनः, धेनुकध्वंसी, चाणूरसूदनः, पूतनादूषणः, यमलार्जुनभञ्जनः, कालनेमिहरः, हयग्रीवरिपुः, शकटारिः, अरिष्टहा, कैटभारिः, कंसजित्, केशिहा, मुरारिः, साल्वारिः, मैन्दमर्दनः, द्विविदारिः, राहुमूर्धहरः, हिरण्यक शिपुदारणः, बाणजित्, कालियदमनः, नरकारिः, बलिबन्धनः, शिशुपालनिषूदनः इति विष्णुनामानि भवन्ति ॥
वैनतेयस्तु वाहनम् ॥२२१॥
१० १ अस्य विष्णोर्वाहनं विनताया अपत्यं वैनतेयः । 'स्त्रीभ्यो ढक्'४।१।१२० ॥ इति ढक् , 'आयनेयी-'७।१२॥ इत्यादिना ढस्य एयादेशः ॥२२१॥
शङ्खोऽस्य पाञ्चजन्यः
१ अस्य विष्णोः शङ्खः पाञ्चजन्यः । समुद्रे तिमि रूपधारी पञ्चजननामा असुर आसीत्, तदस्थिभवत्वात् । 'बहि देवपञ्चजनेभ्यः-'(वा-४।३१५८॥)इत्युपसंख्यानाद् ज्यः । यद्वा पञ्चजने पाताले भव इति, 'बहिर्देव-'(वा-४।३१५८ ॥)इति सूत्रेणैव ज्यः ॥
२० अङ्कः श्रीवत्सः
१ अस्य विष्णोरङ्कश्चिह्न श्रीवत्सः, महापुरुषलक्षणं श्वेतरोमावर्तविशेषः । वदति महत्त्वमिति वा । वदेः 'वृ(व) तृवदिहनि-'(उणा-३४२)इत्यादिना सः । "श्रिया युक्तो वत्सः श्रीवत्सः । रोमावर्त्तविशेषः श्रीवत्सः" [अभि. स्वोपज्ञटीका २।२२२॥] इत्याचार्याः॥
असिस्तु नन्दकः ।
१ विष्णोरसिः खड्गः नन्दयति नन्दकः । 'टुणदि समृद्धौ'(भ्वा.प.से.), ‘ण्वुल्तृचौ'३।१।१३३॥ इति ण्वुल् ॥
गदा कौमोदकी
विष्णोर्गदा देवास्त्रत्वाद् गदति गदा । 'गद व्यक्तायां वाचि' (भ्वा.प.से.), पचाद्यच्, टाप् । कौ पृथिव्यां मोदते सदा
३० जययोगात् कौमोदकी । 'मुद हर्षे '(भ्वा.आ.से.), 'बहुल मन्यत्रापि'( )इति वुञ् । “विष्णुः कुमोदकः शौरिः"[]इति कोषान्तरात् कुमोदको विष्णुः, तस्येयमित्यर्थेऽणि कौमोदकी । "संहितासु तु कौपोदकीति पाठः, कूपोदकाजातेत्याम्नायात्" [अम. क्षीर. १।१।२८॥]इति स्वामी ॥
चापं शार्ङ्ग
१ विष्णोश्चापं धनुः शृणाति शीर्यते वा शृङ्गम् । 'शू हिंसायाम्' (त्र्या.प.से.), 'शृणातेह्रस्वश्च'(उणा-१२३)इति गन्प्रत्ययः, स च कित्, मु(नु)डागमश्च, धातोर्हस्वत्वम् । शृङ्गस्य विकारः शार्ङ्गम् । 'तस्य विकारः' ४।३।१३४॥ इत्यण,
४० 'तद्धितेष्वचामादेः७।२।११७॥ इत्यादिवृद्धिः ॥
___चक्रं सुदर्शनः ॥२२२॥
१ विष्णोः चक्रं सदा रिपुच्छेदं करोत्यनेन चक्रम्, करोते: कप्रत्यये, 'कृञादीनां के द्वे स्त:'(वा-६।१।१२॥)इति द्विवचनम् । भक्तैः सुखेन दृश्यत इति सुदर्शनः । 'दृशिर् प्रेक्षणे' (भ्वा.प.अ.) 'भाषायां शासियुधिशिधृषिमृषिभ्यो युज् वक्तव्यः'(वा-३।३।१३०॥)इति खलपवादों युच्, 'युवोरनाको' ७।१।१॥, 'पुगन्तलघूपधस्य च'७।३।८६॥ इति गुणः । अभिराम त्वात् शोभनं दर्शनमस्य वा सुदर्शनः, पुंसि । “सुदर्शनोऽस्त्रियां चक्रे''["]इति नामनिधानात् पुनपुंसकलिङ्गोऽपि । वाचस्पतिरपि
५० "चक्रं सुदर्शनोऽस्त्रियाम्''["]इत्याह ॥२२२॥
मणिः स्यमन्तको हस्ते
१ विष्णोर्हस्तस्थो मणिः सीमन्तयति दीप्तिभिर्यामिति स्यमन्तकः । पृषोदरादिः ॥
भुजमध्ये तु कौस्तुभः। १ भुजमध्यं वक्षस्तत्र, कुं भुवं स्तोभते व्याप्नोति
१. इतोऽग्रे ४प्रतौ 'चाणूरध्वंसी' इति दृश्यते ॥ २. 'मेन्दवर्दनः' इति३.४॥ ३. इतोऽग्रे स्वोपज्ञवृत्तौ 'वक्षोऽनेन' इति दृश्यते, द्र. २।२२२ ।।, पृ.५५॥ ४. २प्रतौ नास्ति ॥ ५. स्वोपज्ञटीकायां न दृश्यते ॥ ६. 'नन्दनः' इति३॥ ७.'दैवा-' इति१॥ ८. ३प्रतौ नास्ति ॥ ९. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, लो-२३, पृ.४२ ॥, रामाश्रमी १।१।२८॥, पृ.१६॥ १०. 'कुमु-' १.४॥ ११. इतोऽग्रे क्षीरस्वामिटीकायां 'मेण्ठादौ' इति दृश्यते ॥ १२. क्षीरस्वामि टीकायां नास्ति ॥ १३. 'भक्तेः' इति१.३॥ १४. '-वादौ' इति३॥ १५. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, यो-२३, पृ.४२ ।।, रामाश्रमी १।१।२८ ।, पृ.१६ ॥ १६. द्र. स्वोपज्ञटीका २२२२॥, पृ.५५ ॥ १७. 'दीप्तिभिद्या-' इति १, 'दीप्तिर्भिद्या-' इति३॥
कुस्तुभोऽब्धिः, तस्यायं कौस्तुभः। 'स्तुभ स्तम्भे'(भ्वा.आ.से.), 'इगुपधज्ञा-'३।१।१३५॥ इति कः । यद्वा कौ स्तोभते कुस्तुभो विष्णुः, तस्यायमित्यर्थे, 'तस्येदम्' ४।३।१२० ॥ इत्यण् वा । "पुंक्लीबोऽयम्" इति गौडः। एकं विष्णुवक्षःस्थमणेः ॥
वसुदेवो भूकश्यपो दुन्दुरानकंदुन्दुभिः ॥२२३॥
१ वसुभी रत्नैर्दीव्यति वसुदेवः । 'दीवु क्रीडादौ' (दि.प.से.), पचाद्यच् । वसूनि दीव्यतीति कर्मण्यण् वा। २ भुवि कश्यप इव भूकश्यपः, तालव्यान्तस्थाद्यमध्यः । ३ द्विषो दमयति दुन्दुः । 'दमु उपशमे'(दि.प.से.), पृषोदरादित्वात् साधुः । ४
१० कृष्णे जाते देवैरानकाः पटहा दुन्दुभयश्चास्य वेश्मनि वादिता इति आनकदुन्दुभिः, पृषोदरादित्वाद् रूपसिद्धिः । “आनकदुन्दुभो वसुदेवपिता, तस्यापत्यमित्यर्थे अत इञ्'४।१।९५॥"[अम.क्षीर, १।१।२२॥] इति स्वामी । चत्वारि विष्णुपितुः ॥२२३॥
रामो हली मुसलिसात्वतकामपाला:
सङ्घर्षणः प्रियमधुबलरौहिणेयौ ।
रुक्मिप्रलम्बयमुनाभिदनन्तताल
लक्ष्मैककुंण्डल सितासितरेवतीशाः॥२२४॥
बलदेवो बलभद्रो नीलँवस्त्रोऽच्युताग्रजः।
१ रमयति मोदयति प्रजाः रूपमस्येति वा रामः। 'रमु
२० क्रीडायाम्'(भ्वा.आ.अ.,),णिजन्तः, 'ज्वलितिकसन्तेभ्यो णः' ३।१।१४०॥ इति णः । २ हलं प्रहरणमस्य हली । 'अत इनिठनौ'५।२।११५॥ इतीनिः । यौगिकत्वाद् हलायुधः सीरपाणिः इत्यादयः। ३ 'मुस खण्डने'(दि.प.से.), वृषादिभ्यः कलच्' (उणा-१०६)इति कलच् मुसलम्, दन्त्यमध्यम् । तथा च 'सर्वस्य द्वे'८।११॥ इत्यत्र न्यास:-""विसंविसं मुसलंमुसलं
स्यात्''[ ]इति षत्वम् । सुरमुर्सेलसृपा इति सकारभेदश्च । तदस्त्य स्य मुसली । “ 'मुष स्तेये'(त्र्या.प.से.)इत्यतो मूर्धन्यान्तोऽपि" []इति वर्णदेशना, तद्योगाद् मुषलीत्यपि। ४ सत्वतोऽपत्यम्, तत्र भवो वा सात्वतः। 'उत्सादिभ्योऽञ्'४।१।८६॥ इति अञ् । ५ काममिच्छां भ्रातृजत्वात्, कामं स्मरं वा पालयति वा कामपालः।
३० ‘पाल रक्षणे (चु.प.से.), 'पृ पालनपूरणयोः' (जु.प.से.)अस्माद्वा 'कर्मण्यण'३।२।१ ॥, रलयोरैक्यम् । ६ सङ्कर्षति संहारमूर्त्तित्वात्, - हलेन वेति सङ्कर्षणः । गर्भस्य सम्यक् कर्षणाद्वा । तथा च हरिवंशे-"गर्भ[सङ्कर्षणात् सोऽथ लोके] सङ्कर्षणः स्मृतः" ["]इति । 'कृष विलेखने'(भ्वा.प.अ.), नन्द्यादित्वाल्ल्युः । द्वितीयपक्षे 'अर्शआदिभ्योऽच्'५।२।१२७॥ इत्यच् । सङ्कर्षति यमुनामिति वा। ७ प्रियं मधु मद्यमस्य प्रियमधुः। ८ बलभद्रैकदेशो बलः। बलातिशययोगाद्वा, अर्शआदित्वादच् । ९ रोहिण्या अपत्यं रौहिणेयः। 'शुभ्रादिभ्यश्च'४।१।१२३ ॥ इति ढक् । १०-१२ रुक्मिप्रलम्बयमुनाभ्योऽग्रे भिच्छब्दो योज्यः, तेन रुक्मिणं भिनत्ति
४० रुक्मिभित्, प्रलम्बभित्, यमुनाभित्, यौगिकत्वाद् रुक्मिदारुणः,। प्रलम्बं हतवानिति प्रलम्बघ्नः। देवत्वाद् ‘अमनुष्यकर्तृके च'३।२५३॥ इति टक्। " मूलविभुजादित्वात् को वा"["] इति कौमुदी । १३ अनन्तः शेषः, तन्मूर्त्तित्वाद् अनन्तः । १४ तालो वृक्षविशेषः, लक्ष्म चिह्नमस्य ताललक्ष्मा, नकारान्तः । १५ एकं कुण्डलमस्य एककुण्डलः, अर्शआदित्वादच् । १६ सितः शेषमूर्त्तित्वाद्, असितो निलाङ्गत्वात् सितासितः । १७ रेवत्या ईशः रेवतीशः ॥२२४॥१८ बलश्चासौ देवश्च बलदेवः। बलेन दीव्यतीति पचाद्यच् वा । १९ बलं पराक्रमः, भद्रं श्रेष्ठमस्य बलभद्रः । बलेन भद्रो वा । २० नीलं वस्त्रमस्य
५०
१. 'स्तम्भ' इति१, 'स्तभ-' इति४, 'सुभ स्तम्भने' इति३, क्षीरतरङ्गिण्यादौ 'ष्टुभु-' इति दृश्यते ॥ २. मुद्रितमूले “दिन्दु-' इति दृश्यते, स्वोपज्ञटीकापि तमाश्रित्यैव ॥ ३. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, शो-१७, पृ.३६॥, क्षीरस्वामिटीकायां 'अनकदुन्दुभो वसुदेवस्य पितेत्येके' इत्येव दृश्यते, १।१।२२।।, पृ.९॥ ४. 'मुष' इति१.४॥ ५. 'वृषादिभ्यश्चित्' इत्युणादिगणे ॥ ६. 'मुशलम्' इति३॥ ७. 'विसं मुसलं सुषलं' इति२, 'विसं विशं मुसलं मुखलं' इति३॥ ८. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, श्रो-१९, पृ.३७॥, तत्र "-इत्यत्र न्यासः-"तथा च विसं विषं मुसलं मुषलमिति षत्वं" स्यादिति" इति दृश्यते ॥ ९. न्यासे "इह तर्हि विसंविसं मुसलम्मुसलमित्यत्र 'आदेशप्रत्ययोः' इति षत्वं प्राप्नोति ? अयमप्यदोषः, तदवयवः॥" इति दृश्यते, काशिकावृत्तिः, भा-६, ८११॥, पृ.२१५॥ १०. '-मुशल-' इति३॥ ११. 'अन्' इति३.४ ॥ १२. द्र. टीकासर्वस्वम्, भा-१, ११।२४॥, पृ.२०॥, पदचन्द्रिका, भा-१, स्वर्गवर्गः, श्री-१९, पृ.३७॥ १३. "दिव-' इति२ ।। १४. '-कर्तृकतेति' इति३.४॥ १५. सिद्धान्तकौमुद्यामपि कृदन्ते अमनुष्येति सूत्रे दीक्षितेन “अमनुष्येति किम् । आखुघातः शूद्रः । अथ कथं बलभद्रः, प्रलम्बघ्नः, शत्रुघ्नः, कृतघ्नः इत्यादि । मूलविभुजादित्वात् सिद्धम् ॥" इत्युक्तम्, सि.कौमुदी, पृ.५७२ ॥ १६. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, श्रो-१८, पृ.३६ ॥
नीलवस्त्रः। २१ अच्युतस्य विष्णोरग्रजः अच्युताग्रजः। एकविंशतिर्बलदेवस्य। "भद्राङ्गः फालो गुप्तचरो बली। प्रलापी भद्रबलिनः पौरः शेषाहिनामभृत् ॥"[शेषनाममाला २७७॥] इति शैषिकनामानि॥
मुसलं त्वस्य सौनन्दम्
१ अस्य बलदेवस्य मुसलं सुनन्दाया इदं सौनन्दम् । 'तस्येदम्' ४।३।१२०॥ इत्यण, क्लीबे ॥
हलं संवर्तकाह्वयम् ॥२२५॥
१ बलभद्रस्य हलमायुधम्, तन्नामैकम्, संवर्तयति
१० संहरति शत्रून् संवर्तकम्, क्लीबे । 'वृतु वर्त्तने'(भ्वा.आ.से.), ‘ण्वुल्तृचौ' ३।१।१३३॥ इति ण्वल् ॥२२५॥
लक्ष्मीः पंद्या रमा यो मा ता सा श्री: कमलेन्दिरा।
हरिप्रिया पद्मवासा क्षीरोदैतनयाऽपि च ॥२२६॥
१ लक्षयति पश्यति नीतिशालिनमिति लक्ष्मीः । लक्ष दर्शनाङ्कनयोः'(चु.उ.से.), 'लक्षेमुट् च'(उणा-४४०)इतीकारः प्रत्ययो मुडागमश्च, अत एव ड्यन्तत्वाभावाद् न सुलोपः । "कृदिकारादक्तिनो वा ङीप'(गणसू-४।१।४५॥)इत्यत्र सावर्ण्य ग्रहणाद् ङीबन्तोऽपि''[ ] इति मैत्रेयः । तेन लक्ष्मीशब्दस्य नदीवद्रूपाणि भवन्ति। " "कृदिकारात्-'(गणसू-४।१।४५ ॥)इति
२० ङीषि लक्ष्मीत्यपि भवतीति दुर्घटे रक्षितः"[ ]इति उज्ज्वलदत्तः। "लक्ष्मीर्लक्ष्मी हरेः स्त्रियाम्''[शब्दभेदप्रकाशः, श्रो-३४॥]इति शब्दप्रभेदः । २ पद्ममस्त्यस्य(-स्याः) पद्मा । १० एवं कमला अपि । उभयोरेवोपादानादन्यकमलपर्यायेणानभिधानं सूचितम् । ३ रमते रमा । 'रमु क्रीडायाम्'(भ्वा.आ.अ.), पचायच्, टाप्। ४ या इति पदस्य विश्रूषः कर्तव्यः, तेन ई आ इति नामद्वयं भवति। अस्य विष्णोर्भार्या ई"। "अः कृष्ण आः स्वयम्भूः" []इत्यभिधानात्। पुंयोगे ङीषि, 'यस्येति च'६।४।१४८ ॥ इत्यकारलोपे प्रत्ययमात्रं शिष्यते। ईशब्दस्य नदीशब्दवद्रूपाणि। ५ अटति अतति वा चपलत्वाद् आ। 'अट गतौ'(भ्वा.प.से.), 'अत सातत्यगमने' (भ्वा.प.से.) वा अस्माद्धातोः 'क्वचिड:'
३० (हैमसू-५।१।१७१ ॥)इति डः, डित्त्वाट्टिलोपः, 'अजाद्यतष्टाप्' ४।१।४॥, आशब्दष्टाबन्तो गङ्गावत् । नामद्वयाभ्याम् ‘इको यणचि'६।१।७७॥ इति कृते या इति सिद्धम् । सविसर्गोऽपि ई: इति । यद्विश्वशम्भुः
"ई रमामदिरामोहे महानन्दे शिरोभ्रमे ।
स्त्रीलिङ्गोऽयमुणाद्यन्तो नातोऽस्माल्लोपनं सुपः॥१॥"
[ ] इति ।
"ईयौं योऽत्र जसा रूपं स्यादमा रूपमीं शसीः।"[ ]इति। (यातीति या इत्यखण्डमपि, ‘या प्रापणे'(अ.प.अ.)इत्यस्य । तथा च विश्वशम्भुः-"या रमामातृयातृषु"[ ]इति । ६ मीयते
४० संख्यायते पुरुषेषु पुमान् अनयेति मा)। 'मा माने'(अ.प.अ.), क्विबन्तः। ७ तनोति सुखं ता। तनु विस्तारे'(त.उ.से.), 'क्वचिड:' (हैमसू-५।१।१७१ ॥) इति डः, अजाद्यतष्यप्'४।१।४।। ८ एवं स्यति दारिद्र्यं सा। 'षोऽन्तकर्मणि'(दि.प.अ.), 'क्वचिड: (हैमसू-५।१।१७१॥) इति डः । ९ श्रीयते आश्रीयते सर्वैरिति श्रीः। 'श्रिञ् सेवायाम्'(भ्वा.उ.से.), क्विब् वचि प्रच्छ्यायतस्तु कटप्रूजुश्रीणां दीर्घोऽसंप्रसारणं च'(वा-३।२।१७८ ॥ इति क्विप् दीर्घत्वं च । यत्तु श्रयन्त्येतामिति श्रीरिति तात्पर्यार्थकथनम्, न विग्रहवाक्यम्, कर्मणि क्विपो विधानात् श्रयन्तीति कर्बर्थतिङम्, तस्यासमानार्थत्वाद् वृत्तिसमानार्थेन हि वाक्येन भवितव्यमिति
५० भाष्योक्तेः । यत्तु दात्यनेन दात्रं दीयतेऽस्मै दानीयो विप्र इत्यादि, तत्र समानार्थस्यासंभवात् किञ्चित्साम्येनागत्या वाक्यं भवति। श्रयति सुकृतिनमित्येवंशीला वा श्रीः। 'कृदिकारदक्तिनो वा ङीष्' (गणसू-४।१।४५॥)इत्यत्र सावर्ण्यग्रहणाद् ङीबन्तोऽप्ययम्"
१. 'भद्रचलनः' इति शेषनाममालास्वोपज्ञटीकयोः ॥ २. 'मुशलं' इति३॥ ३. 'मुसलमा-' इति१.२॥ ४. 'कृदिकारादक्तिनः' इत्येव गणसूत्रम्॥ ५. 'डीबि लक्ष्मीत्यपित्यत्र' इति४॥ ६. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, श्रो-२२, पृ.४१ ॥ ७. ३प्रतौ नास्ति ॥ ८. 'कृति-' इति३॥ ९. 'लिक्ष्मी लक्ष्मीह रेः' इति१.२॥ १०. श्रीशिवदत्तमिश्रसंशोधितशब्दभेदप्रकाशापरनामद्विरूपकोशे 'लक्ष्मिर्लक्ष्मी हरेः प्रिया' इति दृश्यते, शो-३४, पृ.४११॥, पूज्यकस्तूरसूरीश्वरसंपादितशब्दभेदप्रकाशे 'लक्ष्मीर्लक्ष्मी हरेः प्रिया' इति दृश्यते, श्रो-३३, पृ.२३३॥ ११. 'ई:' इति२.३॥ १२. 'क्वचित्' ५।१।१७१ ॥ इति हैमसूत्रम् ॥ १३. कोष्ठान्तर्गतपाठः रप्रतौ नास्ति ॥ १४. 'डः' इति हैमसूत्रे नास्ति ॥ १५. 'इति डः' इति १.२.३प्रतौ नास्ति ॥ १६. 'कत्रर्थः' इति३॥ १७. 'दातु' इति१॥ १८. 'कृदिकारादक्तिनः' इति गणसूत्रम् ॥
[]इति मैत्रेयः । तदा नदीवत् । "तां दृष्ट्वा श्रीमिवायान्तीम्'[] इति प्रयोगः। १० कमला इति प्रागेवोक्तम् । काम्यते सर्वैरिति वा कमला। 'कमु कान्तौ'(भ्वा.आ.से.), वृषादिभ्यः कलच्' (उणा-१०६)इति बाहुलकात् कलच्, टाप् । ११ इन्दति परम *श्वर्यमनुभवति अनया इन्दिरा । 'इदि परमैश्वर्ये'(भ्वा.प.से.), इषि मदिमुदि-'(उणा-५१)किरच्प्रत्ययः । "बाहुलकात् किरच्"[मा. धातुवृत्तिः, भ्वादिः, धातुसं-५३]इति माधवः । १२ हरेर्विष्णोः प्रिया हरिप्रिया । १३ पद्मे वासोऽस्याः, पद्मवासोऽस्या इति वा पद्मवासा ।१४ क्षीरोदस्य तनया क्षीरोदतनया । चतुर्दश लक्ष्म्याः ।
१० शेषश्चात्र-"लक्ष्म्यां तु भर्भरी विष्णुशक्तिः क्षीराब्धिमानुषी"[शेष नाममाला २१७८॥] ॥२२७॥
मदनो जरांभीरुरनङ्गमन्मथौ
कर्मन: कलाकेलिरनन्यजोऽङ्गजः ।
मधुंदीपमारौ मधुसारथिंस्मरौ
विषमायुधो दर्पककामहच्छयाः ॥२७॥
प्रद्युम्नः श्रीनन्दनश्च कन्दर्पः पुष्पकेतनः ।
१ मदयति हर्षयति मन इति मदनः। 'मदी हर्षग्ल (ग्ले)पनयोः (भ्वा.प.से.), अस्माण्णिजन्ताद् नन्द्यादित्वाद्
ल्युः। २ जरायाः सकाशाद् भीरुः जराभीरुः। ३ अविद्यमान
२० मङ्गमस्य अनङ्गः। ४ मननं मद् युक्तिजन्यं ज्ञानम्। 'मन ज्ञाने'(दि.आ.अ.), सम्पदादित्वात् क्विप् 'अनुदात्तोपदेश-' ६४३७॥ इत्यादिनाऽनुनासिकलोपः, 'हुस्वस्य पिति-'६।१७१॥ इति तुक्। मनाति मथः, 'मन्थ विलोडने'(या.प.से.), पचाद्यच् । “मतो मथो मन्मथ:"[अम.क्षीर. १।१।२५॥]इति स्वामी । मनो मनाति वा, पृषोदरादित्वात् । "माद्यतीति मत्। 'मदी हर्षे '(दि.प.से.), क्विप्। मनातीति मथः। मच्चासौ मथश्च मन्मथः।"[टीकासर्वस्वम् १।१।२५॥] इति सर्वानन्दः । ५ कामयते शृङ्गारं कमनः। 'कमु कान्तौ'(भ्वा.आ.से.), अस्माद् वासरूपेणानुदात्तेल्लक्षणो युच् । ६ कलासु केलिरस्य कलाकेलिः। ७ न मनसोऽन्यस्माज्जायत इति अनन्यजः। न
३० विद्यतेऽन्यद् यस्मात् सोऽनन्यो विष्णुः, "सर्वं विष्णुमयं जगत्" [*]इति श्रुतेः । अनन्याद् विष्णोर्जात इति अनन्यजः । ८
अङ्गाज्जायत इति अङ्गजः। 'जनी प्रादुर्भावे'(दि.आ.से.), 'पञ्चम्यामजातौ'३।२।९८॥ इति डः । ९ मधौ वसन्ते दीप्यते मधुदीपः। 'दीपी दीप्तौ'(दि.आ.से.), पचाद्यच्। १० म्रियतेऽनेनेति मारः। 'मृङ् प्राणत्यागे'(तु.आ.अ.), करणे घञ्। मारयति विरहिणं वा, पचाद्यच् । ११ मधुर्वसन्तः सारथिरस्य मधुसारथिः । १२ स्मरयति उत्कण्ठयति स्मरः। 'स्मृ चिन्तायाम्'(भ्वा.प.अ.)इत्यतो णिजन्तात् पचाद्यच् । स्मर्यते वनिताऽनेन कृत्वा स्मरः। 'पुंसि संज्ञायाम्'३।३।११८॥ इति
४० सूत्रेण घः। १३ विषमाण्यायुधान्यस्य विषमायुधः । १४ दर्पयति हर्षयति दर्पकः। 'दृप हर्षणमोचनयो: '(दि.प.अ.), 'ण्वुल्तृचौ' ५।१।१३३॥ इति ण्वुल्। १५ कामयत इति कामः। 'कमु कान्तौ'(भ्वा.आ.से.), पचाद्यच् । काम्यतेऽनेनेति वा। 'पुंसि संज्ञायाम्-'३।३।११८॥ इति घः। कामोऽभिलाषोऽस्त्यस्य वा, 'अर्शआदिभ्योऽच्'५।२।१२७।। १६ हृदि शेते हृच्छयः। 'शीङ् स्वप्ने'(अ.आ.से.), पचाद्यच् । यौगिकत्वाद् मनसिशयः ॥२२७॥ १७ प्रकृष्टं द्युम्नं बलमस्य प्रद्युम्नः। १८ श्रिया लक्ष्म्या नन्दनः श्रीनन्दनः,रुक्मिण्याः श्रियोऽवतारत्वात्। १९ के ब्रह्मणि दृप्तवान्, कं ब्रह्माणं दर्पितवानिति वा कन्दर्पः,
५० पृषोदरादिः। 'कम्' अव्ययं कुत्सायाम्, कं कुत्सितो दर्पोऽस्येति वा। २० पुष्पाणि केतनमस्य पुष्पकेतनः । विंशतिर्मदनस्य। शेषश्चात्र
"कामे तु यौवनोद्भेदः शिखिमृत्युर्महोत्सवः ।
शमान्तकः सर्वधन्वी रागरज्जुः प्रकर्षकः ॥१॥
मनोदाही मथनश्च" [शेषनाममाला २।७८-७९॥]। कन्तुर्दश्याम्, संस्कृतेऽपि ॥
१. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, शो-२२, पृ.४१ ॥ २. 'वृषादिभ्यश्चित्' इत्युणादिगणे ॥ ३. 'लक्ष्म्यां तु' १.२.४प्रतौ नास्ति ॥ ४. '-सारथिः स्मरो' इतिर, मुद्रितमूलेऽपि तथैव ॥ ५. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, श्रो-२०, पृ.३८॥, क्षीरस्वामिटीकायां "मतो मनसो मथः [मध्नातीति] मन्मथः" इति दृश्यते, ११।२५॥, पृ.९॥ ६. '-श्चेति' इति टीकासर्वस्वे, भा-१, १।२।२५ ॥, पृ.२१॥ ७. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, श्रो २१, पृ.४० ॥ ८. 'श्रुतिः' इतिर॥ ९. 'हर्षमोहनयोः' इति क्षीरतरङ्गिण्याम, दिवादिः, धातुसं-८७, पृ.२२४॥ १०. १प्रतौ नास्ति ॥ ११. 'कामे तु' इति १.२.४प्रतौ नास्ति ॥ १२. 'सर्वधन्वी' इति३, शेषनाममालास्वोपज्ञटीकयोः 'सर्वधन्वी' इति दृश्यते, तत्तु विचारणीयम्, 'वा संज्ञायाम्'५।४।१३३॥ इत्यस्य प्रवृत्तित्वात् ॥
पुष्पाण्यस्येषुचापास्त्राणि
१-३ अस्य कामस्य पुष्पाणि कुसुमानि इषुचापा स्त्राणि बाणधनुरायुधानि, प्रोच्यन्ते इति शेषः॥
अरी शम्ब(म्व)रशूर्पकौ ॥२२८॥
१-२ अस्येति सर्वत्र सम्बध्यते, अस्य कामस्य अरी वैरिणौ शम्बरः शूर्पकः च प्रोच्यते । इतो विस्तरार्थ:-अस्य कामस्य पुष्पाणि इषुर्बाणः, पुष्पाण्येव चापं धनुः, पुष्पाण्येव वाऽस्त्रमायुधम्, तेन पुष्पेषुः, कुसुमबाणः, पुष्पचापः, कुसुमध्वा,
पुष्पास्त्रः, कुसुमायुधः कामः स्यात्, इषुचापयोः सत्यप्यस्त्रत्वे
१० भेदेन ग्रहणम्, लोके तथाव्यवहारात्। कामस्यारी शम्बरशूर्पकौ। दैत्यानां शं कल्याणं वृणोत्याच्छादयतीति, 'शमि धातोः' ३।२।१४॥ इत्यादिना अच्, शम्ब(म्व)र: तालव्यादिः । 'शम्ब (म्व)रं सलिले पुंसि मृगदैत्यविशेषयोः"[मेदिनी, रान्तवर्गः, यो-२१९] इति तालव्यादौ मेदिनिः । तस्यारिः शम्ब(म्व) रारिः । संवरणं वा संवरः । यद्वा सं सम्यग् वृणोत्याच्छादयति जनानां सुखमिति वा संवरः । सम्पूर्वाद् ‘वृञ् आच्छादने' (स्वा.उ.से.)इत्यस्मात् पचाद्यच् ।
"क्लीबं तु सम्ब(म्व)रं नीरबौद्धव्रतविशेषयोः ।
विशेषे पुंसि मत्स्यस्य दैत्यस्य हरिणस्य च ॥१॥"
२० []इति दन्त्यादौ रभसः। संवरनाम्नो दैत्यस्यारिः सम्वरारिरिति
दन्त्यादिरपि । वर्णदेशनायां पक्षद्वयं दर्शितम्, तस्मात् तालव्यादिरयमित्येव येन केनचिद्वयाख्यातम्, तन्निरस्तम्। शूर्पयति कलयति परवीर्याणि शूर्पकः। 'शूर्प माने'(चु.उ.से.), चुरादिः, ‘ण्वुल्तृचौ'३।१।१३३॥ इति ण्वुल्। शूर्पकस्यारिः शूर्पकारिः, तालव्यादिः ॥२२८॥
केतनं मीनमकरौ
१-२ कामस्य मीनमकरौ केतनं ध्वजः, मीनश्च मकरश्च मीनमकरौ, तेन मीनकेतनः, झषध्वजः, मकरकेतनः, मकरध्वजः । मकरो जलजन्तुविशेषः, कच्छपो वा ॥
३० बाणाः पञ्च
कामबाणाः पञ्च
"उन्मादस्तापनश्च शोषणः स्तम्भनस्तथा ।
संमोहनश्च कामस्य पञ्च बाणाः प्रकीर्तिताः ॥१॥"
[ ]। तेन पञ्चबाणः, विषमेषुः। “पञ्चेन्द्रियार्थाः बाणा अस्य"[ ]इत्यन्ये ॥
रतिः प्रिया ।
१ कामस्य प्रिया रतिः, तेन रतिवरः, रतिपतिः॥
मनःशृङ्गारसङ्कल्पात्मानो योनिः ।
१-४ कामस्य मनःशृङ्गारसङ्कल्पात्मानो योनिः, मनश्च शृङ्गारश्च सङ्कल्पश्च आत्मा च मनःशृङ्गारसङ्कल्पात्मानः, तेन
४० मनोयोनिः, चेतोभवः, शृङ्गारयोनिः, शृङ्गारजन्मा, सङ्कल्पयोनिः, स्मृतिभूः, आत्मयोनिः, आत्मभूः॥
सुहृन्मधुः ॥२२९॥
१ कामस्य सुहृद् मित्रं मधुः चैत्रः, तेन मधुसुहृत्, चैत्रसखः ॥२२९॥
सुतोऽनिरुद्ध ऋष्याङ्क उषेशो ब्रह्मसूश्च सः ।
१ कामस्य सुतः, रणे केनापि न निरुद्ध इति अनिरुद्धः। युद्धे केनापि न निरुध्यते स्मेति वा । २ ऋष्यनामा मृगोऽङ्कश्चिह्न मस्य ऋष्याङ्कः, सप्तमस्वरादिः, मूर्धन्यस्वरादिमूर्धन्यान्तस्था द्यमध्यश्चायम्। क्वचिद् ‘वृश्यकेतुः (ऋश्यकेतुः)' इति पाठः।
५० "खड्गायुधोऽनिरुद्धः स्यात् तथा वै वृश्यकेतनः (चैवय॑केतनः)" ["]इति शाम्बपुराणात्। “एणः कुरङ्गमो वृश्यः सादृश्यश्चानुलोचन (रिश्यः स्यादृश्यश्चारुलोचनः)"[त्रिकाण्डशेषः २।५।६॥] इति पुरुषोत्तमैः । क्वचिच्च 'विश्वकेतुः' इति पाठः । तत्र विश्वव्यापी केतुर्कोतिरस्येति व्युत्पत्तिः । तथा च "पताकायां द्युतौ केतुर्ग्रहो त्पातादिलक्ष्मसु"["]इति रभसः। यौगिकत्वाद् ऋष्यकेतुः । ३ उषा बाणपुत्री, तस्या ईशः उषेशः, मूर्धन्यमध्यः । "उषा बाणस्य पुत्री स्यादनिरुद्धगृहिण्यूषा''["]इत्यजयकोषदर्शनाद् दीर्घादिरपि। ४ ब्रह्मतपः सुवति चालयति, बह्माणं सुवति प्रेरयति वा ब्रह्मसूः। 'पू प्रेरणे'(तु.प.से.), 'सत्सूद्विष-'३।२।६१॥ इति क्विप्,
६०
१. 'इति' इति१.३। २. '-प्यस्त्रभेदे-' इति३.४॥ ३. '-यति' इति३॥ ४. स्वादौ 'वृञ् वरणे' इति स्वामिसायणौ ॥ ५. द्र. टीकासर्वस्वम्, भा १, १।१।२६॥, पृ.२१॥, पदचन्द्रिका, भा-१, स्वर्गवर्गः, शो-२१, पृ.३९॥, रामाश्रमी १।१।२६॥, पृ.१५॥ तासु 'नीर' इत्यस्य स्थाने टीकासर्वस्वे 'नीरे' इति, पदचन्द्रिकारामाश्रम्योः 'नीवौ' इति दृश्यते, तथा सर्वासु टीकासु 'मत्स्यस्य दैत्यस्य' इत्यस्य स्थाने 'दैत्यस्य मत्स्यस्य' इति दृश्यते ॥ ६. '-नाया' इति ॥ ७. 'परिकीर्तितः' इति३॥ ८. १.२प्रतौ न दृश्यते ॥ ९. '-रादिद्र्ध-' इति२.४॥ १०. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, श्री २२, पृ.४० ॥, रामाश्रमी ११।२७॥, पृ.१५॥ ११. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, श्रो-२२, पृ.४० ॥, रामाश्रमी ११२६-२७॥, पृ.१५॥
('अन्येभ्योऽपि'३।२।१७८ ॥)वा क्विप्। चत्वारि कामपुत्रस्य। केचित्तु "उषेशमन्तरेणान्यानि त्रीणि नामानि कामस्य"[ ]इत्याहुः, तन्मन्दम्, “अनिरुद्धो विश्वकेतुर्ब्रह्मसूरप्युषापतिः"[]इति बृहदमरकोषात्, "ब्रह्मसूस्त्वनिरुद्धः स्यात्"[]इति शब्दार्ण वाचं कामपुत्रस्यैव नामानि । “आत्मभूः ब्रह्मसूः कामः" []इत्यमरमालायां कामदेवस्यैव नामानि"[ ]इत्यपरे ॥
गरुडः शाल्मल्यरुणांवरजो विष्णुवाहनम् ॥२३०॥
सौपर्णेयो वैनतेयः सुपर्णः
सारातिर्वजिजिद् वज्रतुण्डः ।
१० पक्षिस्वामी काश्यपिः स्वर्णकाय
स्तायः कामायुर्गरुत्मान् सुधाहृत् ॥२३१॥
१ गरं विषं हन्ति, गरुद्भिः पक्षैर्डयते वा, गिलति नागान् वा गरुडः । 'डीङ् विहायसां गतौ'(भ्वा.आ.से.), पृषोदरादिः । डस्य लत्वे गरुलोऽपि । २ कूलशाल्मलो नामा गरुडस्य राजधानी पर्वतः, शाल्मलस्तु भीमवत् पदैकदेशः, सोऽस्यास्ति शाल्मली । अत इनिठनौ' ५।२।११५ ॥ इतीनिः। ३ अरुणस्यावरजः अरुणावरजः । ४ विष्णोर्वाहनं विष्णुवाहनम् ॥२३०॥ ५ सुपर्णा या अपत्यं सौपर्णेयः। 'स्त्रीभ्यो ढक्'४।१।१२० । । ६ विनताया अपत्यं वैनतेयः। 'स्त्रीभ्यो
२० ढक्'४।१।१२०॥ । ७ शोभनानि सुवर्णमयत्वात् पर्णान्यस्य सुपर्णः । ८ सर्पाणामरातिः सर्पारातिः । ९ वज्रिणं जितवा निति वनिजित् । गरुडेन अमृतहरणकाले हि इन्द्रो जित इति प्रसिद्धिः । १० वज्रवत् तुण्डमस्य वज्रतुण्डः । ११ पक्षीणां स्वामी पक्षिस्वामी । न चात्र 'प्रतिपदविधाना षष्ठी न समस्यते' (वा-२।२।१०॥) इति समासनिषेधः शङ्कनीयम्, यावता शेषलक्षणैवेयम् । न हि 'स्वामी-'२।३।३९॥ इत्यादिसूत्रेण षष्ठी विधीयते, किन्तु सप्तम्यनेन विधीयमाना षष्ठ्या बाधिका मा भूदिति चकारेण षष्ठ्याः प्रतिप्रसवः क्रियते । न तु अपूर्व रूपतया विधानम्, एवंविधविषये च समासः स्यादेव, 'न निर्धारणे'
३० २।२।१०॥ इति ज्ञापकात्, अन्यथा प्रतिपदविहितत्वात् षष्ठ्या: समासो न भविष्यति, किं निषेधेनेति । १२ कश्यपस्यापत्यं
काश्यपिः। अत इञ्' ४।१।९५॥ इति इञ् । १३ स्वर्णरूपः कायोऽस्य स्वर्णकायः। १४ तृक्ष स्तृक्ष णक्ष गतौ'(भ्वा.प.से.), तृक्षतीति तृक्षः। 'इगुपधज्ञा-' ३।१।१३५ ॥ इति कः । तृक्षस्य मुनेरपत्यं तायः । गर्गादिभ्यो यञ्' ४।१।१०५॥ इति यञ् । एकस्मिन् कल्पे तृक्षस्य मुनेरपत्यमासीत्, बहुवचने 'यबि (ब)जोश्च २।४।६४॥ इति लुकि तृक्षाः ।१५ कामेनेच्छया आयुरस्य कामायुः । १६ प्रशस्ता अतिशयिता वा गरुतः पक्षा अस्य सन्तीति गरुत्मान् । तदस्यास्त्यस्मिन्निति मतुप्' ५।२।९४॥, यवादिपाठाद् ‘झयः'८।२।१० ॥ इति सूत्रेण मस्य वत्वं न भवति।
४० १७ सुधां हृतवानिति सुधाहृत्। सप्तदश गरुडस्य । शेषश्चात्र
"गरुडे तु विषापहः ।
पक्षिसिंहो महापक्षो महावेगो विशालकः ।
ज्वतीशश्च सुखसू शिलानीहोऽहिभुक् च सः॥१॥"
[शेषनाममाला २।८०॥ ॥२३१॥ बुद्धस्तु सुगतो धर्मधातुस्त्रिकालविर्जिनः ।
बोधिसत्त्वो महाबोधिरौर्यः शास्ता तागतः॥२३२॥
पञ्चज्ञानः षडभिज्ञो दशार्हो दशभूमिगः ।
चतुस्त्रिंशजातकज्ञो दशपारमिताधरः ॥२३३॥
द्वादशाक्षो दशबैलस्त्रिकायः श्रीर्घनाऽद्वैयौ ।
५० समन्तभद्रः संगुप्तो दयाकू! विनायकः॥२३४॥
मारलोकबंजित् धर्मरीजो विज्ञानमातृकः ।
महामैत्रो मुनीन्द्रश्च
१ प्रशस्ता बुद्धिरस्य बुद्धः । 'अर्शआदिभ्योऽच्' ५।२।१२७॥ इत्यच् । बुध्यते ध्यायिभिर्वा । 'बुध बोधने' (भ्वा.-प.से.), 'मतिबुद्धिपूजार्थेभ्यश्च'३।२।१८८ ॥ इति वर्तमाने क्तः । बुध्यते जानाति तत्त्वानि वा । 'बुध अवगमने'(दि. आ.अ.) अस्माद् दैवादिकात् ‘मतिबुद्धि-'३।२।१८८॥ इति क्तः । 'इगुपधज्ञा-'३।१।१३५॥ इति कप्रत्यये बुधोऽपि ।
१. '-केतुब्रह्म-' इति३॥ २. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, शो-२२, पृ.४० ॥, रामाश्रमी १।१।२६-२७॥, पृ.१५॥ ३. इतोऽग्रे ३प्रतौ 'पञ्च' इति दृश्यते ॥ ४. '-यसा' इति४॥ 'विहायसा' इति धातुप्रदीपमा.धातुवृत्त्योः ॥ ५. 'तृक्' इति३॥ ६. 'गुरु-' इति१॥ ७-१. 'गरुडस्तु' इति, ७-२ 'उन्नतीशः' इति च शेषनाममालास्वोपज्ञटीकयोः ॥ ८. 'सुखभूः' इति१, '-तीशः श्वमुखसूः' इति३॥ ९. 'शिलीना-' इति१.२.४॥ १०. १प्रतौ नास्ति।
“अथ बुद्धो जिनो योगी सर्वज्ञः सुगतो बुधः''[' ]इति व्याडिः । २ शोभनं गतं ज्ञानमस्य सुगतः । सर्वे गत्यर्था ज्ञानार्था इति । सुष्ठु अपुनरावृत्तये गत इति वा । "सुखेन संसाराद् गतः''[ ]इत्यन्ये । ३ धर्मः सत्त्वोद्धरणादिः, तेन अनुविद्धा धातवोऽस्य धर्मधातुः । ४ त्रीन् कालान् वेत्ति त्रिकालवित् । 'विद ज्ञाने'(अ.प.से.)अस्मात् सम्पदादि त्वात् क्विप् । ५ जयति रागद्वेषौ, जिनाति वा जिन: । 'जि जये '(भ्वा.प.अ.), 'इण्षि(सि)ञ्जिदिषि(ष्यि)विभ्यो नक्' (उणा-२८२)इति नक् । ६ बोधिः सत्त्वमस्य बोधिसत्त्वः।
१० यद् व्याडि:-"बोधिः स्वबोधिजें ज्ञानं तन्मयो बोधिसत्त्वकः" [] । ७ महती बोधिरस्य महाबोधिः । ८ अर्यते अभिगम्यते आर्यः । 'ऋ गतौ'(जु.प.अ.), 'ऋहलोर्ण्यत्'३।१।१२४॥ इति ण्यत् । आरात् पापेभ्यः कर्मभ्यो यात इति [वा], पृषो दरादिः । ९ शास्ति विनेयान् शास्ता । 'शासु अनुशिष्टौ' (अ.प.से.), 'शासकृदादिभ्यः संज्ञायां चानिट् च '(उणा २५०) इति तृन्प्रत्ययः । शास्तरौ, शास्तरः इत्यादि पितृशब्द वत् । अव्युत्पत्तिपक्षे 'अप्तृन्-'६।४।११ ॥ आदिसूत्रेऽनुपादा नाद् न दीर्घः । व्युत्पत्तिपक्षे तु ननादिग्रहस्य नियमार्थ त्वात् । " 'शासेः क्तिचि शिष्टि: '(चान्द्रसूत्रम् ) इत्यत्र
२० शास्ता इति प्रत्युदाहरणेऽनौणादिकतृच एव रत्नमतिना दर्शित त्वाद् बुद्धवाचिनोऽपि दीर्घः''[ ]इति सुभूतिः । १० तथा इति सत्यं गतं ज्ञानमस्य तथागतः । यद्वा "यथागतास्ते मुनयः शिवां गतिं तथागतः सोऽपि ततस्तथागतः''[ ]इति बौद्धागमः । यथा पुनरावृत्तिर्न भवति, तथा तेन प्रकारेण गत इति तथागतः । 'सुप्सुपा'२।१।४॥ इति समासः ॥२३२॥ ११ पञ्चानां विज्ञानवेदनासंज्ञासंस्काररूपलक्षणानां स्कन्धानां ज्ञान मस्य पञ्चज्ञानः । १२ दिव्यं चक्षुः, दिव्यं श्रोत्रम्, परचित्त ज्ञानम्, पूर्वनिवासानुस्मृतिः, आत्मज्ञानम्, विप (य?)द्गमन कायव्यूहादिलक्षणा ऋद्धिश्चेति षट्, षड् अभिज्ञा आद्यज्ञान शक्तयोऽस्य षडभिज्ञः । यद्वा 'षट्सु दानशीलक्षान्ति-
३० वीर्यध्यानप्रज्ञासु अभिज्ञा आद्यज्ञानमस्येति षडभिज्ञः'[] इति तु सर्वधरः । दिव्यं चक्षुः, दिव्यं श्रोत्रम्, पूर्वनिवासानु स्मृतिः, परचित्तज्ञानम्, आश्रवक्षयः, ऋद्धिश्चेति षड् अभिज्ञा अस्येति वा । १३ दशभूमीर्बलानि पारमिता वा अर्हति दशार्हः । १४ दशभूमीगच्छति दशभूमिगः । यद् व्याडि:
"भूमयस्तु प्रमुदिता विमला च प्रभाकरी ।
अर्चिष्मती सुदुर्जेयाऽभिमुखी च दुरङ्गमा ॥१॥
अबला माधुमती च धर्ममेघेति च क्रमात् ।''[]
१५ चतुस्त्रिंशद् जातकानि व्याघ्रीप्रभृतीनि जानातीति चतुस्त्रिं शजातकज्ञः, अष्टाक्षरात्मकमखण्डं नाम । चतुस्त्रिं-
४० शज्जातकानि त्वमूनि, यद् व्याडि:
"जातकानि पुनर्व्याघ्री शितिः श्रेष्ठा शशो विशम् ।
हंसो विश्वन्तरः शक्रो मैत्रीबलसुपारगौ ॥२॥
अफुत्रो ब्राह्मण: कुम्भ: कल्माष: पिण्डिजातकम् ।
अधिमुह्य( -ह्यं) श्रेष्ठिजातं दमयन्ती महाकपिः ॥३॥
बोधिर्बह्मा महाबोधिर्वानरः शरभो रुरु: ।
क्षान्तिवादी च हस्ती च कुञ्चश्चेत्येवमादयः ॥४॥"
["] । १६ दश पारमिताः प्रज्ञाद्या धरति दशपारमिता
धरः । यद् व्याडि:
"प्रज्ञा पारमिता तारा वृन्दा च जिनशक्तयः ।।
५० मारीची वतुदुर्वासा मारावी वज्रकाल्यपि ॥५॥" ।
["] ॥२३३॥ १७ द्वादशाऽक्षीण्यस्य द्वादशाक्षः । बहुव्रीहौ सक्थ्यक्ष्णोः षच्। १८ दश बलानि दानशीलक्षान्तिवीर्यध्यानशान्ति बलोपायप्रणिधानलक्षणान्यस्य दशबलः ।१९ त्रयः काया निर्माणाद्या
१. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, श्री-८, पृ.२४ ॥, रामाश्रमी १।१।१३ ॥, पृ.९ ॥ २. '-धिकं' इति२ ॥ ३. द्र. स्वोपज्ञटीका २१२३२ ॥, पृ.५७॥ ४. 'तृन्तृचौ शंसिक्षदादिभ्यः संज्ञायां चानिटौ'(उणा-२५०)इत्युणादिगणे ॥ ५. '-सूत्रेष्वनु-' इति२ ॥ ६. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्ग:, शो-९, पृ.२५ ॥, तत्र '-प्रत्युदाहरणेन औणादिकतृच' इति दृश्यते ॥, रामाश्रमी १।१।१४ ॥, पृ.९ ॥ ७. 'बोद्धा-' इति२.३ ।। ८. 'विज्ञानवेदानां' इति१, 'विज्ञानवेदाना-' इति२ ॥ ९. 'स्तोत्रम्' इति३ ॥ १०. द्र. टीकासर्वस्वम्, भा-१, १।१।१४ ॥, पृ.१३॥, पदचन्द्रिका, भा-१, स्वर्गवर्गः, श्री-९, पृ.२४॥, तत्र '-प्रज्ञासु आद्यं ज्ञान-' इति दृश्यते ॥ ११. 'तीर्थधरः' इति१ ॥ १२. 'तुरङ्गमा' इति३ ॥ १३. द्र. स्वोपज्ञटीका २ २३३ ।।, पृ.५७ ।।, तत्र 'सुदुर्जेया-' इत्यस्य स्थाने 'सुदुर्जया-' इति, 'अबला माधुमती' इत्यस्य च स्थाने 'अचला साधुमती' इति दृश्यते ॥ १४. 'अपत्रो' इति२ ॥ १५. 'शरुः' इति१ ॥ १६. 'कुम्भ-' इति३॥ १७. द्र. स्वोपज्ञटीका २१२३२ ॥, पृ.५७ ॥, तत्र 'कुञ्च-' इत्यस्य स्थाने 'कुन्थु-' इति दृश्यते ॥ १८. 'वृन्दी' इति१ ॥ १९. 'मारीचि' इति३ ॥ २०. 'माराची' इति३ ।। २१. द्र. स्वोपज्ञटीका २।२३२।।, पृ.५७ ॥, तत्र "मारीची चतुदुर्वासा मारीचा वज्रकाल्यपि" इत्युत्तरार्धः ।।
अस्य त्रिकायः । २० श्रिया योगविभूत्या घनो निबिडः, श्रिया घन इव वर्षिता वा श्रीधनः । ज्ञानपुण्यसंभारः श्रीः, तया घनः पूर्ण इति वा । सर्वत्र 'तृतीया'२।१३०॥ इति योगविभागात् समासः । २१ न विद्यते द्वयं ज्ञानार्थी, किन्तु एकमेव ज्ञानमस्येति अद्वयः । २२ समन्तं सम्पूर्णं भद्रमस्य समन्तभद्रः । पृषोदरादित्वात् साधुः । २३ सम्यग् गुप्तः संगुप्तः, योगिनामप्यगम्यत्वात् । २४ दया एव कूर्चः, कोष्ठागारो निधिर्वाऽस्येति दयाकूर्चः । यद् व्याडि: "कोष्ठागारोऽभवत् कूर्ची निधिर्वा तेन तादृशः"[] । २५
१० विनयति हितमर्थमनुशास्ति विनायकः । ‘णी प्रापणे' (भ्वा.उ.अ.), 'ण्वुल्तृचौ'३।१।१३३॥ इति ण्वुल् णित्त्वाद् वृद्धिः । २६-२८ मारान् कामक्रोधादीन्, लोकान् भूरा दीन्, खानि इन्द्रियाणि जयति, तेन मारं कामं क्लेशं वा जयति मारजित् । तपसा लोकं भुवनं जयति लोकजित् । लोकान् जनान् जयति उपरमयति संसाराद्वा । खानि इन्द्रि याणि जयति खजित् । 'जि जये'(भ्वा.प.अ.), त्रयोऽपि क्विबन्ताः, 'हूस्वस्य पिति कृति-'६।१७१॥ इति तुक् । बौद्धास्तु स्कन्धमारः, क्लेशमारः, मृत्युमारः, देवपुत्रमारश्च
इति चतुरो मारानाहुः । २९ धर्मेण राजते धर्मराजः ।
२० 'राजू दीप्तौ'(भ्वा.उ.से.), पचाद्यच् । धर्मस्य राजेति वा । 'राजाह : सखिभ्यष्टच्'५।४।९१॥ इति टच्, 'नस्तद्धिते' ६।४।१४४॥ इति टिलोपः । ३० विज्ञानं मातृकाऽस्य विज्ञानमातृकः । ३१ महांश्चासौ मैत्रश्च महामैत्रः । ३२ मुनिषु इन्द्रः श्रेष्ठो मुनीन्द्रः, मुनिस्तु भीमवत् पदैकदेशः । सामान्यतो द्वात्रिंशद् बुद्धस्य । शेषश्चात्र
"बुद्धे तु भगवान् योगी बुधो विज्ञानदेशन: ॥
महासत्त्वो लोकनाथो बोधिरर्हन् सुनिश्चितः ॥
गुणाब्धिर्विगतद्वन्द्वः" [शेषनाममाला २८१॥] ॥
बुद्धाः स्युः सप्त ते त्वमी ॥२३५॥
३० विपश्यी शिखी विश्वभूः क्रकुच्छन्दश्च काञ्चनः ।
काश्यपश्च
१ विशेषेण पश्यति विपश्यं ज्ञानम्, तदस्यास्ति विपश्यी, तालव्यान्तस्थाद्यतृतीयस्वरमध्यो व्यञ्जनान्तः । 'अत इनिठनौ'५।२।११५॥ इतीनिः । २ शिखाऽस्यास्ति शीखी । 'व्रीह्यादिभ्यश्च'५।२।११६॥ इतीनिः, दण्डिन्वत् । ३ विश्वं भवत्यस्माद् विश्वभूः, क्विबन्तः । ४ क्रमेण कौ पृथिव्यां छन्दोऽभिलाषोऽस्य क्रकुच्छन्दः, पृषोदरादित्वात् साधुः । ५ काञ्चनवर्णत्वात्काञ्चनः ।६ कश्यपस्यापत्यं [काश्यपः] ।विदा दिभ्यो गोत्रापत्येऽञ् ।विपश्याद्याः काश्यपान्ता: पबुद्धविशेषाः ।।
सप्तमस्तु शाक्यसिंहोऽर्कबान्धवः ॥२३६॥
४० तथा राहुलसूः सर्वार्थसिद्धो गोर्तमान्वयः ।
मायाशुद्धोदनसुतो देवदत्ताप्रजश्च सः ॥२३७॥
१ सप्तानां संख्यापूरणः सप्तमः, 'पञ्चादेर्म:(नान्ता दसंख्यादेर्मट्'५ ।२६४९ ॥)इति मः । सप्तमो बुद्धः शाक्यसिंहः इक्ष्वाकुराजपुत्राः केऽपि पित्रा वनवासाय दत्ताज्ञा गौतमवंशस्य कपिलस्याश्रमे शाकच्छत्रे वसतिं कृतवन्तः शाक्या:"[ ] इत्यागमः। शाकवनवासित्वात् शाक्या: । 'दिगादिभ्यो यत्' ४।३।५४ ॥ । तथा च सुरानन्दचरितें
"शाकवृक्षप्रतिछत्रं(-छन्नं) वासं यस्माच्च चक्रिरे ।
तस्मादिक्ष्वाकुवंश्यास्ते शाक्या इति भुवि श्रुताः ॥१॥"
५० []इति । तद्वंशावतीर्णो मुनिः । शाक्यश्चासौ सिंहश्चेति। तथा यस्तु शाक्यमुनिः, स शाक्यसिंहः, शाक्यः सिंह इवेति । 'उपमितं व्याघ्रादिभिः सामान्याप्रयोगे'२।१ ॥५६॥ इति समासः। सिंहादिशब्दा हि उत्तरपदभूताः पूर्वपदस्य श्रेष्ठतां गमयन्ति । शका अभिजनो निवासोऽस्येति वा । शाक्य इत्यपि, भीमव पदैकदेशः । २ अर्कस्य बान्धर्व : अर्कबान्धवः, सूर्यवंश्यत्वात् ॥२३६॥ ३ राहुलं सूते राहुलसूः। 'षूङ् प्राणिगर्भविमोचने'(अ.आ.वे.), 'सत्सूद्विषद्रुह-'३।२।६१ ॥ इत्यादिना क्विप् । ४ सर्वार्थेषु सिद्धो __ निष्पन्नः सर्वार्थसिद्धः। 'सिद्धशुष्कपक्वबन्धैश्च'२।१।४१॥ इति सप्तमीसमासः । "सर्वोऽर्थः सिद्धोऽस्येति त्रिपदो बहुब्रीहिः"
६० [टीकासर्वस्वम् १११।१५॥]इति तु सर्वानन्दः । अत एव सिद्धार्थोऽपि । यच्छाश्वत:-"सिद्धार्थौ बुद्धसर्षपौ"[शाश्वतः, श्री
१. 'घना' इति३॥ २. '-स्येति' इति१॥ ३. द्र. स्वोपज्ञटीका २२३४॥, पृ.५८॥ ४. 'लोपः' इति३॥ ५. '-देशः' इति३, '-देशकः' इति४॥ ६. 'पित्त्या' इति३॥ ७. '-वंश्यस्य' इति२॥ ८. '-रचिते' इति१.४॥ टीकासर्वस्वेऽभिधानोदृङ्कनं तु 'सुन्दरानन्दचरिते' इति दृश्यते ॥ ९. द्र. टीकासर्वस्वम् १।११५॥, पृ.१४ ॥, रामाश्रमी १११५॥, पृ.९॥ १०. इतोऽग्रे १प्रतौ 'समासः' इति दृश्यते ॥ ११. 'तद्वंश्याव-' इति२॥ १२. '-वदेकदेशः' इति३॥ १३. '-न्धवो इति' इति१॥ १४. सर्वानन्दकृतटीकासर्वस्वे-"सर्वार्थसिद्ध इति त्रिपदोऽयं बहुव्रीहिः" इति दृश्यते, टीकासर्वे १११५॥, पृ.१४॥
५९८] । ५ गोतमःअन्वयोऽस्य गोतमान्वयः, त्रयोदशस्वरा दिरयम् । गौतम इत्यपि। गोतमवंशस्य मुनेरयं शिष्यः गौतमः। 'तस्येदम्' ४।३।१२० ॥ इत्यण्। "गौतमस्यैव शिष्यः''[ ]इति तु माधवी।६-७ मायाशुद्धोदनाभ्यां अग्रे सुतः, तेन मायाया देव्याः सुतो मायासुतः । शुद्ध ओदनोऽस्येति शुद्धोदनः, शकन्ध्वादिः। शुद्धोदनस्य राज्ञः सुतः शुद्धोदनसुतः, तालव्यादिः। यौगिकत्वात् शौद्धोदनिः इत्यादि । ८ देवदत्ता प्रजाऽपत्यं यस्य स देवदत्ताप्रजः। सप्तमशाक्यसिंहनाम्नो विशेषस्य अष्ट नामानि ॥२३७॥
असुरा दितिदनुजाः पातालौकः सुरारयः ।
१० पूर्वदेवाः शुक्रशिष्याः
१ अस्यन्ति प्रेरयन्ति युद्धाय दैत्यानिति असुराः । 'असु क्षेपणे'(दि.प.से.), 'असेरुरन् '(उणा-४२) इत्युरन् । अविद्यमानां सुरा एषामिति वा । सुरविरुद्धत्वादनर्थवदिति वा। सुराया अपानाद्वा । प्रज्ञाद्यणि आसुराश्च । २-३ दितिः, दनुश्चा ऽसुरमातरौ, ताभ्यां जाताः दितिजाः, दनुजाः च, यौगिकत्वाद् दैतेयाः, दानवाः इत्यादयः । दनोरपत्यानि दानवाः। तस्यापत्यम्' ४।१।१२॥ इत्यण् । ४ पाताले ओकांसि येषां ते पातालौकसः, सकारान्तोऽयम् । ५ सुराणामरयः सुरारयः । ६ पूर्वे च ते देवाश्च पूर्वदेवाः। 'पूर्वापरप्रथम-'२।१५८॥ इत्यादिना समासः।
२० पूर्वं देवा इति वा । 'सह सुपा'२।१४॥ इति योगविभागात् समासः। एते हि पूर्वं देवा आसन् अन्यायाद् विदेवत्वाद् भ्रष्टा इति भावः। ७ शुक्रस्य शिष्याः शुक्रशिष्याः। सप्त दैत्यस्य ॥
विद्यादेव्यस्तु षोडश ॥२३८॥ रोहिणी प्रज्ञप्तिर्वजशृङ्खला कुलिशाङ्कशा ।
चक्रेश्वरी नरदत्ता काल्यथाऽसौ महापरा ॥२३९॥
गौरी गान्धारी सर्वास्त्रमहाज्वाला च मानवी।
वैरौंट्याऽच्छुप्ता मानसी महामानसिकेति ताः॥२४०॥
१ रोहत्यवश्यं रोहिणी । 'रुह बीजजन्मनि'(भ्वा. प.अ.), आवश्यकाधमर्ययोर्णिनिः' ३।३।१७० ॥ इति णिनिः,
३० 'ऋन्नेभ्यो डीप्' ४।१।५॥ इति ङीप् । २ (प्रकृष्टा ज्ञप्तिरस्या) प्रज्ञप्तिः । रोहिणी प्रज्ञप्तिरित्यत्र पृथक् पृथक् विभक्त्यन्तं पदं
ज्ञेयम्, अथवा रोहिणी च प्रज्ञप्तिश्चेति द्वन्द्वे 'रोहिणीप्रज्ञप्ती' इति प्रथमाद्विवचनम्, न च प्रज्ञप्तीति ड्यन्तो नदीवदिति । ३ वज्रमयी शृङ्खलाऽस्याः वज्रशृङ्खला । ४ कुलिशमयमङ्कुशमस्याः कुलिशाङ्कशा । ५ चक्रस्य ईश्वरी चक्रेश्वरी । ६ नरेषु दत्तम स्याः नरदत्ता । ७ कालवर्णत्वात् काली । 'जानपदकुण्ड-' ४।१।४२ ॥ इत्यादिना ङीष् । ८ अथासौ महापरेति, असौ काली महाशब्दपरा, महाकाली इत्यर्थः ॥२३९॥९ गौरवर्णत्वात् 'षिद्गौरादिभ्यश्च'४।१।४१॥ इति ङीष् । १० गां धारयति गान्धारी, पृषोदरादित्वात् । ११ सर्वेषामस्त्राणां महत्यो ज्वाला
४० अस्याः सर्वास्त्रमहाज्वाला, सप्ताक्षरमखण्डं नाम। १२ मनोरयं मानवी । टिड्डाणञ्-' ४।१।१५॥ इत्यादिना डीप् । १३ वैरोप शान्त्यै अट्याऽस्या वैरोट्या, पृषोदरादित्वात् साधुः । १४ न पापेन छुप्यते स्पृश्यते अच्छुप्ता । 'छुप स्पर्शने'(तु.प.अ.), वर्तमाने क्तः । १५ मनसि भवा मानसी । १६ मासस्येव मानसिका, महती चासौ मानसिका च महामानसिका । रोहिण्या दीनां षोडशानां नामैकं विद्यादेव्य इति ॥२४०॥
वाग् ब्राह्मी भारती गौर्गीर्वाणी भाषा सरस्वती।
श्रुतदेवी
१ वक्त्यनया वाक् । 'वच परिभाषणे'
५० (अ.प.अ.), 'क्विब्वचिप्रच्छ्यायत-'(वा-३।२।१७८॥ इति 'क्विप्दीक़ असम्प्रसारणं च । २ ब्रह्मण इयं ब्राह्मी। 'ब्राह्मोऽजातौ'६।४।१७१॥ इति टिलोपः, 'टिड्डाणञ्-४।१।१५ ॥ इति ङीप् । ३ भरतानां नटानामियं भारती । 'तस्येदम्' ४।३।१२०॥ इत्यणि डीष् (ङीप्) । “भरतानां ऋत्विजां स्तुतिलक्षणा तैरवतारित्वात्"[]इति याज्ञिकाः । बिभर्ति वा भारती, पृषोदरादिः । ४ गच्छति गौः, पुंस्त्री। 'गम्लु गतौ' (भ्वा.प.अ.), 'गमेझै:'(उणा-२२५)इति डोः, 'गोतो णित्' ७।११०॥ । ५ गृणन्ति उद्गिरन्ति तामिति गी: । 'गृ शब्दे' (त्र्या.प.से.), 'गृ निगरणे'(तु.प.से.) वा, सम्पदादित्वात्
६० क्विप्, 'ऋत इद्धातोः७।१।१००॥, 'उरण रपरः१।१।५१॥, 'र्वोरुपधाया दीर्घ इकः'८।२७६॥ । गिरौ, गिरः इत्यादि।
१. 'गौतमः' इति२.३॥ २. 'गोतम' इति३॥ ३. 'युद्धाय' इति १प्रतौ नास्ति ॥ ४. '-मानाः' इति३ ।। ५. 'दनुजश्चा-' इति१.२॥ ६. 'तस्येदमित्यण्' इति३.४॥ ७. 'प्रज्ञप्ती' इति२ ॥ ८. कोष्ठान्तर्गतपाठः २.४प्रतौ दृश्यते ॥ ९. इतोऽग्रे रप्रतौ 'प्रज्ञद्ध्यतो नदीवत्' इति दृश्यते ॥ १०. १.२.३नास्ति। ११. रोहिणी' इति रप्रतौ नास्ति ॥ १२. '-बहुवचनम्' इति३॥ १३. '-तीति' इति३॥ १४. 'षोडशानामेकं' इंति१.३॥ १५. 'क्विप् दी| असम्प्र-' इति१.२॥ १६. द्र. स्वोपज़टीका २२४१॥, पृ.५९॥
भागुरिंमते टापि गिराऽपि । "ब्रह्मणी वचनं वाचा जल्पितं गदितं गिरा"[]इति शब्दार्णवः । व्रवणीति 'व्रवणात्'[ ] इति निरुक्तादेव वृद्ध्यभावः । ६ वण्यते वाणी । 'वण शब्दे' (भ्वा.प.से.), घजि, गौरादित्वाद् ङीष् । यद्वा अस्मादेव धातोः 'इबजादिभ्यः'(वा-३।३।१०८॥)इतीज्, 'कृदिकारादक्तिनः' (गणसू-४।१।४५ ॥)इति ङीष् । 'अण [रण] वण भण शब्दार्थाः '(भ्वा.प.से.), "इजादिभ्य:'(वा-३।३।१०८॥) इतीजि, 'सर्वतोऽक्तिन्नर्थादित्येके '(गणसू-४।१।४५ ॥)इति
ङीष्"[मा. धातृवृत्तिः, भ्वादिः, धातुसं-२९७]इति माधवः। ७
१० भाष्यते भाषा। 'भाष व्यक्तायां वाचि'(भ्वा.आ.से.), 'गुरोश्च हलः'३।३।१०३॥ इत्यप्रत्ययः, टाप् । ८ सरतीति सरः ज्ञानम्, तदस्त्यस्यां सरस्वती । 'सृ गतौ'(भ्वा.प.अ.), '-असुन्' (उणा-६२८)इत्यसुन्, ततो मतुप्, 'उगितश्च'४।१।६॥ इति ङीप्। प्रसरणमस्त्यस्या इति वा । यद्वा सरोऽस्या आश्रय त्वेनास्तीति मतुपि सरस्वती । इयं ब्रह्मलोके ब्रह्मसरः समाश्रित्य शापात् नदी भूत्वा लोकमवतीर्णा, अत्रं शक्तिशक्तिमतोर भेदोपचाराद् वचनमपि सरस्वतीशब्दवाच्यम् । ९ श्रुतस्य प्रवचनस्याधिष्ठात्री देवी श्रुतदेवी । एते वच:पर्याया अपि । नव सरस्वत्याः । 'वाणी' इति भाषा॥
२० वचनं तु व्याहारो भाषितं वचः ॥२४१॥
१ उच्यते तद् वचनम् । 'वच परिभाषणे'(अ.प.अ.), 'ल्युट् च'३।३।११५॥ इति ल्युट् । २ व्याह्रियते इति व्याहारः। उपसर्गवशाद्धातोरर्थस्यान्यथात्वम्। 'हृञ् हरणे' (भ्वा.उ.अ.), घञ्। ३ भाष्यते भाषितम् । कर्मणि क्तः, आर्धधातुकस्य-'७।२।३५॥ इति इट् । ४ उच्यते इति वचः। 'वच परिभाषणे' (अ.प.अ.), '-असुन्'(उणा-६२८)इत्यसुन् । चत्वारि वचनस्य ॥
शेषश्चात्र-“वचने स्यात् तु जल्पितम् ।
लपितम्, भणितम्, उदितम्, अभिधानम्, गदितम्, (लपितोदित भणिताभिधानगदितानि च)"[शेषनाममाला-२८२]इति ॥२४१॥ सविशेषणमाख्यातं वाक्यम्
३० प्रयुज्यमानाख्याताऽप्रयुज्यमानाख्यातयो म एकं वाक्यम्। तदाख्यातं प्रयुज्यमानं अप्रयुज्यमानं वा सविशेषणम्, प्रयुज्य मानैरप्रयुज्यमानैर्वा कादिभिर्विशेषणैः सहितं वाक्यमुच्यत इत्यर्थः । प्रयुज्यमानमाख्यातम्, यथा-जिनो वो रक्षतु । अप्रयुज्यमानमाख्यातम्, यथा-विद्या ते स्वम्, अनास्तीति गम्यते । अप्रयुज्यमानं विशेषणम्, यथा-प्रविश, अत्र गृहमिति गम्यते । अनयोरर्थात् प्रकरणाद्वा आख्यादेरवगमादप्रयोगाः । आख्यातमित्यत्र चैकत्वस्य विवक्षित्वात्, ‘ओदनं पच तव भविष्यति' इत्यादौ वाक्यभेदः। उच्यते वाक्यम् । 'वच परिभाषणे'(अ.प.अ.), 'ऋहलोर्ण्यत्'३।१।१२४॥, 'चजोः कु
४० घिण्ण्यतोः'७।३ १५२॥ इति कुत्वम् ॥
स्त्याद्यन्तकं पदम् ।
स् इत्युत्सृष्टानुबन्धस्य सोर्ग्रहणम्, तिइत्युत्सृष्टानु बन्धस्य तिपो ग्रहणम्, स च तिश्च स्ती, तावादी येषां प्रत्ययानां ते स्त्यादयः, आदिशब्दः प्रत्येकमभिसम्बध्यते, तेन स्वादयः सुप्पर्यन्ताः, त्यादयस्तिङ्पर्यन्ता गृह्यन्ते, ते अन्ते यस्य तत् स्त्याद्यन्तकम् , पद्यते गम्यतेऽर्थोऽनेनेति पदम् । 'पद गतौ'(दि.आ.अ), कर्मणि घञ् ॥
राद्धसिद्धकृतेभ्योऽन्त आप्तोक्तिः समयागंमौ॥२४२॥
१-३ राद्धसिद्धकृतेभ्यः शब्देभ्योऽन्त इति शब्दो योज्यः,
५० तेन राद्धः सिद्धः अन्तो निश्चयो येन, यस्य वा, स राद्धान्तः। सिद्धोऽन्तो निश्चयो येन, यस्य वा सिद्धान्तः। कृतोऽन्तो निश्चयो येन, यस्य वा कृतान्तः। “अन्तः स्वरूपे निकटे प्रान्ते निश्चयनाशयोः"[अनेकार्थसङ्ग्रहः २।१५५] इत्यनेकार्थः । ४ वचनमुक्तिः, आप्तास्तुं यथाभूतार्थस्योपदेष्टारः । आप्तानामुक्तिः
१. तत्सम्बन्धिनीयं कारिका-"वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः । आपं चैव हलन्तानां यथा वाचा निशा दिशा॥" २. द्र. रामाश्रमी १।६।१॥, पृ.८०॥ ३. 'ब्रह्मणीति ब्राह्मणो व्रव-' इति२॥ ४. हुस्वेकारान्तोऽपि वाणिशब्दः । तथा चोक्तमनेकार्थसङ्ग्रहे-"वाणिरम्बुदे । व्यूतौ मूल्ये सरस्वत्याम्" [२।१५१॥]। विश्वेऽपि च-"वाणिः स्याद् दूतिभारत्योणिमूल्ये बलाहके" [णान्तवर्गः, -२४] । “वण्यतेऽसावनया वा, इञ् , वाणिः वाणी" इति स्वामी, क्षीरतरङ्गिणी, पृ.७१॥ ५. काशिकावृत्त्यादौ 'इणजा-' इति दृश्यते, अयं पाठः भाषावृत्तिसम्मतः, द्र. ३।३।१०८॥, पृ.१३३॥ ६. स्वामिमते नवधात्वात्मकः तथा सायणमते दशधात्वात्मकोऽयं दण्डः ॥ ७. मा. धातुवृत्तौ तु-"इज्वपादिभ्यः' इति इञन्तात् सर्वतोऽक्तिन्नादित्येके इति डोष्" इति दृश्यते, भ्वादिः, धातुसं-२९७, पृ.१३१॥ ८. 'अत्र' इति३.४प्रतौ नास्ति ॥ ९. 'आप्तस्तु यथार्थवक्ता' इति तर्कसङ्ग्रहः ॥ ।
आप्तोक्तिः । ५ समेति सङ्गच्छतेऽभिमतार्थमनेनेति समयः। 'इण् गतौ'(अ.प.अ.), संपूर्वः, ‘एरच्'३।३।५६ ॥ इत्यच्। ६ आगम्यन्ते ज्ञायन्ते जीवादयः पदार्था अनेनेति आगमः । 'गम्लु गतौ' (भ्वा.प.अ.)। सामान्यतः षट् सिद्धान्तस्य ॥२४२॥ आचाराङ्गं सूत्रकृतं स्थानाङ्गं समवाययुक्।
पञ्चमं भगवत्यङ्गं ज्ञाताधर्मकथापि च ॥२४३॥
उपासकान्तकृदनुत्तरोपपातिकाद् दशाः ।
प्रश्रव्याकरणं चैव विपाश्रुतमेव च ॥२४४॥
इत्येकादश सोपाङ्गान्यङ्गानि
१० १ आचरणमाचारः । 'चर गतिभक्षणयोः'(भ्वा.प.से.), 'भावे'३।३।१८॥ इति घञ् । आचर्यते सेव्यतेऽ सावित्याचार इति वा, शिष्टाचरितो ज्ञानाद्यासेवनविधिरित्यर्थः, तत्प्रतिपादको ग्रन्थोऽप्याचारः, स चासावङ्गं च आचाराङ्गम्। २ सूचनात् सूत्रम्, सूत्रेण स्वसमयपरसमयसूचनेन कृतं सूत्रकृतम् । ३ तिष्ठन्त्यस्मिन् प्रतिपाद्यतया जीवादयः पदार्था इति स्थानम् । ष्ठा गतिनिवृत्तौ' (भ्वा.प.अ.), ‘करणाधिकरणयोश्च'३ ।३।११७ ॥ इत्यधिकरणे ल्युट् । एकादिदशान्तसंख्याभेदो वा स्थानम्, तत्प्रतिपादको ग्रन्थोऽपि स्थानम्, तच्च तदङ्गं च स्थानाङ्गम् । ४ समवयनं समवायः, एकादिशतान्तसंख्यासमविष्टानां पदार्थानां संग्रहः,
२० तद्धेतुर्ग्रन्थोऽपि समवायः, समवायं युनक्तीति समवाययुक्। ५ भगवतीति पूज्याभिधानं व्याख्याप्रज्ञप्तेः पञ्चमाङ्गस्य, भगवती चासावङ्गं च भगवत्यङ्गम् । ६ ज्ञातानि उदाहरणानि, तत्प्रधाना धर्मकथा ज्ञाताधर्मकथा, तत्प्रधानः ग्रन्थोऽपि तथा। ज्ञाताधर्म कथा इत्यत्र तकारस्य दीर्घत्वं संज्ञात्वात्''[ ]इति समवायाङ्ग वृत्तिकारः ॥२४३॥७-९ उपासकाश्च अन्तकृतश्च अनुत्तरोप पातिकाश्चेति समाहारद्वन्द्वः, तस्माद् उपासकान्तकृदनुत्तरोप पातिकादशा इति, उपासकशब्दात्, अन्तकृच्छब्दात्, अनुत्तरोप पातिकशब्दाद् दशा इति शब्दोऽग्रे योज्यते, तत उपासकदशाः, उपासन्ते सेवन्ते साधूनित्युपासकाः श्रावकास्तद्गतक्रियाकला
पप्रतिबद्धा दशाः दशाध्ययनरूपा उपासकदशा: । अन्तो विनाशः,
३० स च कर्मणाम्, तत्फलभूतस्य वा संसारस्यान्तं कुर्वन्ति ये तीर्थकरादयः, तेऽन्तकृतः, तेषां दशाः प्रथमवर्गे दशाध्ययनानि इति तत्संख्यया अन्तकृद्दशाः । न विद्यते उत्तरः प्रधानोऽस्माद् इत्यनुत्तरः, स चासावुपपातश्च अनुत्तरोपपातः प्रधानं जन्म, सोऽस्त्येषामनुत्तरोपपातिक: सर्वार्थसिद्धादिविमानपञ्चकोपपातिनों देवा इत्यर्थः, तद्वक्तव्यताप्रतिबद्धा दशा दशाऽध्ययनोपलक्षिता अनुत्तरोपपातिकदशाः । एषां त्रयाणां ग्रन्थानां नाम बहु वचनान्तम् । १० प्रश्नः पृच्छा, तन्निर्वचनं व्याकरणं प्रश्नव्या करणम्, तत्प्रतिपादकग्रन्थोऽपि प्रश्रव्याकरणम्। ११ विपचनं विपाक: शुभाशुभकर्मपरिणामः, तत्प्रतिपादकं श्रुतं विपाकश्रुतम्
४० ॥२४४॥ इत्येकादश प्रवचनपुरुषस्य अङ्गानीव अङ्गानि, कीदृशि ? सहोपाङ्गैरौपपातिकादिभिादशभिर्वर्तन्ते यानि तानि सोपाङ्गानि ॥
द्वादशं पुनः । दृष्टिवादः
१ दृष्टयो दर्शनानि, तासां वदनं दृष्टिवादः, द्वादश स्याङ्गस्य नाम दृष्टिवाद इति । दृष्टिपात इत्यपि । दृष्टीनां पातो यत्रासौ दृष्टिपातः, सप्तनयदृष्टय इहाख्यायन्त इत्यर्थः । तथा चाह-"दृष्टिवादेन दृष्टिपातेन वा सर्वभावप्ररूपणा आख्यायते "[ ]इति ॥
५० द्वादशाङ्गी स्याद् गणिपिटकाह्वया ॥२४५॥
द्वादशानामाचारादीनां दृष्टिवादान्तानां समाहारो द्वादशाङ्गी । गुणानां साधूनां वा गणः सङ्घो विद्यतेऽस्य गणी आचार्यः, गणिर्वा साङ्गप्रवचनाध्येता, तस्य प्रवचनमिव सर्वार्थ रत्नाधारत्वाद् गणिपिटकं तदाह्वया द्वादशाङ्गी गणिपिटकम् उच्यत इत्यर्थः ॥२४॥
तत्र दृष्टिवादभेदानाह
परिकर्मसूत्रपूर्वानुयोगपूर्वगतचूलिकाः पञ्च । .
स्युर्दृष्टिवादभेदाः
१. 'समं' इति१ ।। २. 'कथा' इति२ ।। ३. 'तत्र' इति१ ॥ ४. 'कुर्वति' इति४ ॥ ५. 'तत्संख्याया' इति४ ।। ६. '-पातिको' इति२ ।। ७. '-पादको ग्रन्थो-' इति३ ॥ ८. आदिना राजप्रश्नीय-जीवाभिगम-प्रज्ञापना-जम्बूद्वीपप्रज्ञप्ति-चन्द्रप्रज्ञप्ति-सूर्यप्रज्ञप्ति-निरयावलिका-कल्पावतंसिका-पुष्पिका-पुष्पचूलिका-वृष्णिदशेति ग्राह्यम्॥ ९. 'दृष्टयोर्दर्श-' इति३.४॥ १०.'-न्ते' इति४ ॥११.'-ह्वयः' इति३, -ह्वयाः' इति४॥ १२. 'गणा-' इति३॥ १३. '-लिका' इति१.३.४ ॥
- १ परिकर्म च सूत्र च पूर्वानुयोगश्च पूर्वगत च चूलिका चेति द्वन्द्वः । सूत्रादिग्रहणयोग्यतासम्पादनसमर्थानि परिकर्माणि, गणितपरिकर्मवत् । २ सर्वद्रव्यपर्यायनयाद्यर्थ सूचनात् सूत्राणि । ३ अनुरूपोऽनुकूलो वा योगः अनुयोगः। सूत्रस्य निजेन अभिधेयेन सार्द्धमनुरूपः सम्बन्धः, स च मूलप्रथमानुयोगो (गण्डिकानुयोगश्चेति द्विविधः, इह धर्म प्रणयनान् मूलं तावत् तीर्थकराः, तेषां प्रथमसम्यक्त्वावाप्ति लक्षणपूर्वभवादिगोचरोऽनुयोगो) मूलप्रथमानुयोगः, स एव पूर्वानुयोगः, स च गण्डिकायोगोऽस्य लक्षणम्, इह शास्त्रे
१० एकवक्तव्यतार्थाधिकारानुगता गण्डिका उच्यन्ते, तासामनु योगोऽर्थकथनविधिः गण्डिकानुयोगः । ४ पूर्वाणां गतं ज्ञान मस्मिन् पूर्वगतम् । ५ इह दृष्टिवादे परिकर्मसूत्रपूर्वानुयोगो क्तानुक्तार्थसङ्ग्रहपरा ग्रन्थपद्धतयः चूला इव चूलिकाः, एताश्चाद्यानां चतुर्णा पूर्वाणां भवन्ति, न शेषाणाम् । एते परिकर्मादयः पञ्चापि दृष्टिवादभेदाः द्वादशाङ्गयां द्वादशदृष्टि वादनाम्नोऽङ्गस्य भेदाः प्रकाराः पञ्च भवन्ति ॥
पूर्वाणि चतुर्दशाऽपि पूर्वगते॥२४६॥ उत्पादपूर्वमग्रायणीयमथ वीर्यतः प्रवादं स्यात् ।
अस्ते नात् सत्यात् तदात्मनःकर्मणश्च परम्॥२४७॥
२० प्रत्याख्यानं विद्याप्रवादकल्याणनामधेये च।
प्राणावायं च क्रिया विशालमथ लोकबिन्दुसारमिति ॥२४८॥
१ एतानि वक्ष्यमाणानि चतुर्दशापि पूर्वाणि पूर्वगते चतुर्थे पूर्वगतनाम्नि दृष्टिवादभेदे भवन्तीति शेषः, तन्नामान्याह 'सर्वाङ्गेभ्यः पूर्वं तीर्थकरैरभिहितत्वात् पूर्वाणि ॥२४६॥ तानि यथा-सर्वद्रव्याणां पर्यायाणां चोत्पादप्रज्ञप्तिहेतुः उत्पादम् । २ सर्वद्रव्याणां पर्यायाणां सर्वजीवविशेषाणां च अग्र्यं परिमाणं वर्ण्यते यत्र तद् अग्रायणीयम् । ३ अथ वीर्यतः वीर्यशब्दात्
प्रवादम्, तेन वीर्यप्रवादम्, जीवानामजीवानां च सकर्मेतराणां
३० वीर्य प्रवदति वीर्यप्रवादम् । ४ तदिति प्रवादम्, अस्तेर्ज्ञानात् सत्याद् आत्मनः कर्मणः च परम्, अस्तीति नास्तेरप्युप लक्षणम्, ततो यल्लोके यथास्ति तथा वा नास्ति, अथवा स्याद्वाद्यभिप्रायेण तदेवास्ति नास्तीति वा प्रवदति अस्तिनास्ति प्रवादम् । ५ मतिज्ञानादिपञ्चकं सप्रभेदं प्रवदतीति ज्ञान प्रवादम् । ६ सद्भ्यो हितं सत्यं संयमः, तत् सप्रभेदं सप्रतिपक्षं च यत् प्रवदति तत् सत्यप्रवादम् । ७ नयदर्शनैरात्मानं प्रवदति आत्मप्रवादम् । ८ ज्ञानावरणाद्यष्टविधकर्मप्रकृतिस्थित्यनुभाग प्रदेशादिभेदैरन्यैश्चोत्तरोत्तरभेदैभिन्न प्रवदति कर्मप्रवादम् ॥२४७॥ ९ सर्वप्रत्याख्यानस्वरूपं प्रवदति प्रत्याख्यानप्रवादम्, तदेकदेशं प्रत्याख्यानम्, भीमवत् । १० विद्यातिशयान् प्रवदति विद्या-
४० प्रवादम् । ११ कल्याणफलहेतुत्वात् कल्याणम्, अवन्ध्यमिति चोच्यते । १२ आयुः प्राणविधानं सर्वं सभेदम्, अन्ये च प्राणा वर्णिता यत्र तत् प्राणावायम् । १३ क्रियाः कायिक्यादयः संयमाद्याश्च विशालाः सभेदा यत्र तत् क्रियाविशालम् । १४ इहलोके श्रुतलोके वा बिन्दुरिवाक्षरस्य सर्वोत्तमं सर्वाक्षर संयोगपरिनिष्ठितत्वेन लोकबिन्दुसारम् । सार्द्धद्वादशकोटिपदम्, इह पदं तु तथाविधसम्प्रदायगम्यम् । नन्दिसमवायाङ्गवृत्तौ पद परिमाणविषये किञ्चिदन्यथात्वमपि दृश्यते । पूर्वेषु तु दशादीनि वस्तून्यपि सन्ति । यदुक्तम्
"क्रमाद् वस्तूनि विधित्वमाद्ये दश चतुर्दश ।
५० अष्टादश तुर्ये हि द्वादश द्वौ च षोडश ॥१॥
त्रिंशत्तु विंशतिः पञ्चदश द्वादश वै तथा ।
त्रयोदश ततस्त्रिंशत् पञ्चविंशतिरन्तिमे ॥२॥
उत्पादादिषु पूर्वेषु ह्यन्तर्वर्ती प्रकारतः ।
अधिकारविशेषस्तु वस्तुविज्ञैः प्रकीर्तितम् ॥३॥"[ ]इति॥
स्वाध्यायः श्रुतिराम्नायश्छन्दो वेदः
१ सुष्ठु आ समन्ताद् अधीयते स्वाध्यायः। 'इङ् अध्ययने'(अ.आ.अ.), अधिपूर्वः, 'इङश्च'३।३।२१॥ इति घञ्, 'अचो णिति'७।२।११५॥ इति वृद्धिः । २ श्रूयते धर्मोऽनया श्रुतिः । श्रुश्रवणे'(भ्वा.प.अ.), श्रुअञ्जिमिभ्यः करणे (वा-
६० ३।३९४॥)इति क्तिन्। ३ आम्नायते उपदिश्यते धर्माधर्मावनेनेति
१. '-तया-' इतिर ॥ २. कोष्ठान्तर्गतपाठः १प्रतौ न दृश्यते ॥ ३. '-ऽर्थः' इति३॥ ४. 'पूर्वे' इति३॥ ५. 'सर्वाङ्गि-' इति३॥ ६. 'सा' इतिश्॥७. '-गम्य' इति१॥ ८. अष्टाध्याय्यां 'श्रुयजिस्तुभ्यः करणे' इति वार्तिकस्वरूपं दृश्यते ॥
आम्नायः । 'म्ना अभ्यासे'(भ्वा.प.अ.), करणे घञ्, 'आतो युक् चिण्कृतोः'७।३।३३॥ इति युक्, आपूर्वो म्नायतिरुप देशार्थः । आमनति उपदिशति इतो वा । 'श्याद्वधा-' ३।१।१४१॥ इति णः । ४ छादयति श्रोतुरन्त:करणमिति छन्दः, क्लीबे । 'छदि अपवारणे'(चु.उ.से.), '-असुन्'(उणा-६२८) इत्यसुन्, ‘इदितो नुम्'७।१।५८॥ इति नुम् । "छन्दति रर्चति कर्मा ततोऽसुन्"[ ]इति भाष्यम् । चन्दति आह्लादयति स्तोत्र रिति वा । 'चदि आह्लादनदीप्त्योः '(भ्वा.आ.से.), चदे(न्दे)रादेश्च
छ:'(उणा-६५८)इत्यसुन्निति वा। छन्दसी, छन्दांसि इत्यादि । ५
१० विदन्त्यनेन धर्मं वेदः । 'विद ज्ञाने'(अ.प.से.), बाहुलकात् कर्मणि घञ् । सामान्यतः पञ्च वेदस्य ॥
त्रयी पुनः । ऋग्यजुःसामवेदाः स्युः
१ ऋग्यजुःसामलक्षणास्त्रयोऽवयवा यस्याः सा त्रयी। त्रिशब्दात् 'संख्याया अवयवे तयप्'५।२।४२॥ इति तयप, तस्य 'द्वित्रिभ्यां तयस्या[य]ज्चा'५।२।४३॥ इत्ययजादेशः, 'यस्येति च' ६४.१४८॥ इतीकारलोपः, 'टिड्डाणब्-' ४।१।१५॥ इति ङीष् (ङीप्) । १ ऋच्यन्ते स्तूयन्ते देवा अनयेति ऋक्, स्त्रीलिङ्गः। 'ऋच स्तुतौ'(तु.प.से.), 'क्विप्'(वा-३३१४॥)इति क्विप्।
२० २ इज्यतेऽनेन यजुः, क्लीबे । 'यज देवपूजादौ'(भ्वा.उ.अ.), 'धनर्तिचक्षिङ्पवपितपिजनि-'(उणा-२७४)इत्यादिना उस् । ३ स्यति पापं साम, क्लीबे । 'षोऽन्तकर्मणि'(दि.प.अ.), 'नामन्सामन्-'(उणा-५९०)इत्यादिना साधुः। सामनी, सामानि इत्यादि। ऋक् च यजुश्च साम च ऋग्यजुःसामानि, ते च वेदाश्च ऋग्यजु:सामवेदाः, स्युः भवेयुः। एते त्रयो वेदा रुगाद्याः त्रयी उच्यते इत्यर्थः । एकं वेदत्रय्याः ॥
अथर्वा तु तदुद्धृतिः ॥२४९॥
१ न थर्वति कमपि न हिनस्ति अथर्वा, पुंसि, नकारान्तः। 'थर्व हिंसायाम्'( ), बाहुलकात् कनिन्। न
३० खर्वति वा । 'खर्व गतौ'(भ्वा.प.से.), बाहुलकात् कनिन्, धातोरादेश्च थः। तेभ्य ऋग्यजुःसामभ्य उद्धृतिः उद्धारः तदुद्धृतिः। एकमथर्वणः ॥२४९॥
वेदान्तः स्यादुपनिषद्
१ वेदस्यान्तो निश्चयः वेदान्तः। २ उप समीपे ब्रह्मणो निषीदन्त्यनया उपनिषद्, स्त्रीलिङ्गः । 'षद्ल विशर णगत्यवसादनेषु'(भ्वा.प.अ.), 'सत्सूद्विषद्रुह-'३।२।६१ ॥ इत्यादिना क्विप् । द्वे वेदान्तस्य ॥
ओङ्कारप्रणवौ समौ ।
१ अवति पापेभ्यो रक्षति भूतानि 'ओम्' अव्ययम्। ___ 'अव रक्षणादौ'(भ्वा.प.से.), 'अवतेष्टिलोपश्च'(उणा-१३९)
४० इति मन्टिलोपौ, टिलोपसामर्थ्यात् प्रत्ययस्यैव, अन्यथा हि डिदित्येवोच्येत , 'ज्वरत्वर-'६।४।२०॥ इत्यूट(-), 'आद्गुणः' ६।१८७॥, ततो बाहुलकाद् ‘वर्णात् कारः'१।२।३५॥ । २ प्रकृष्टो नवः स्तुतिः प्रणवः । प्रणूयते वा प्रणवः । 'णु स्तुतौ' (अ.प.अ.), 'ऋदोरप्'३।३५७॥ इत्यप्, 'उपसर्गादसमासेऽपि' ८।४।१४॥ इति णत्वम् । द्वे ओंकारस्य॥
शिक्षा कल्पोव्याकरणंछन्दोज्योतिर्निक्तयः॥२५०॥
षडङ्गानि
१अकारादिवर्णानां स्थानकरणप्रयत्नबोधिका अकु विसर्जनीयाः कण्ठ्या इत्यादिका शिक्षा । शिक्ष्यते वर्णविशेषोऽ-
५० नयेति वा। 'शिक्ष विद्योपादाने'(भ्वा.आ.से.), 'गुरोश्च-' ३।३।१०३॥ इत्यकारः, 'अजाद्यतष्टाप्'४।१४॥, भले इति भाषा। यद् वाचस्पतिः-'शिक्षा वर्णविवेचिका'[ ] । २ कर्मणां सिद्धरूपः प्रयोगः कल्पः । अथवा योगक्रियाणामुपदेशः कल्पः। कल्प्यतेऽवगम्यतेऽनेनेति कल्पः । 'कृपू सामर्थ्य' (भ्वा.आ.वे.), करणे घञ्, 'कृपे(कृपो) रो लः'८।२।१८॥ इति लत्वम् । यद् वाचस्पति:
"सिद्धरूपः प्रयोगो यैः कर्मणामवगम्यते ।।
ते कल्पा लक्षणार्थानि सूत्राणीति प्रचक्षते॥१॥"[]
इति । ३ व्याक्रियन्ते व्याख्यायन्ते शब्दा अनेन व्याकरणम्।
६० व्यापर्वात् करोतेः 'करणाधिकरणयोश्च'३।३।११७॥ इति करणे
ल्युट् । यदाह
-१. धातुवृत्त्यादौ चुरादिगणे 'छद' इति दृश्यते ॥ २. 'कर्माणि' इति२॥ ३. 'ऋष्यम्' इति३॥ ४. उणादिगणे तु 'अतिपवपियजितनिधनितपिभ्यो नित्'(उणा-२७४)इति सूत्रं दृश्यते ॥ ५. उणादिगणे तु '-सीमन्-' इति दृश्यते, अतः 'साम' इति कथं सिद्धिः?, '-मनिन्'(उणा-५८४)इत्यनेन समाधेयम् ॥ ६. क्षीरतरङ्गिण्यादावयं धातुर्न दृश्यते ॥ ७. 'रक्षति पापेभ्यो भूतानिति' इतिर ॥ ८. '-वोच्यत' इतिर, '-वोच्यते' इति३.४॥ ९. 'आका-' इति ॥ १०. 'विद्या-' इति३॥ ११. '-हुः' इति१॥
"प्रकृतिप्रत्ययोपाधिनिपातादिविभागशः ।
पदान्वाख्यानकरणं शास्त्रं व्याकरणं विदुः ॥ २॥"
[ ] । ४ छाद्यतेऽनेन प्रस्ताराद् भूरिति छन्दः । 'छर्दि अपवारणे'(चु.उ.से.), '-असुन्'(उणा-६२८)इत्यसुन्, ‘इदितो नुम्'७।१।५८॥ । ५ ज्योतिषां ग्रहाणां गतिज्ञानहेतुर्ग्रन्थो ज्योतिषम् । ६ “वर्णागमो वर्णविपर्ययश्च''[ ]इत्यादि भिर्निर्वचनं निरुक्तिः । 'वच परिभाषणे'(अ.प.अ.), "स्त्रियां क्तिन्'३।३।९४॥, 'गहिज्या-' ६।१।१६॥ इति सम्प्रसारणम् ।
१ अङ्यते ज्ञायते अमीभिरिति अङ्गानि, उपकारकाणीत्यर्थः ।
१० शिक्षादीनां षण्णां नामैकं 'षडङ्गम्' इति ॥२५०॥
धर्मशास्त्रं स्यात् स्मृतिधर्मसंहिता ।
१ धर्मप्रतिपादकं शास्त्रं धर्मशास्त्रम् । २ महर्षि भिर्वेदार्थस्मरणं स्मृतिः, तद्योगाद् ग्रन्थोऽपि स्मृतिः । ३ धर्मः
सन्धीयतेऽस्यां धर्मसंहिता । त्रीणि स्मृतेः ॥
आन्वीक्षिकी तर्कविद्या .
१ प्रत्यक्षागमाभ्यामीक्षितस्य पश्चादीक्षणमन्वीक्षा । 'ईक्ष दर्शनाङ्कनयों:'(अ.आ.से.), गुरोश्च-'३।३।१०३ ॥ इत्यकारः। सा प्रयोजनमस्या आन्वीक्षिकी। 'तदस्य प्रयोजनम्'५।१।१०९ ।। इति ठक्, 'ठस्येकः '७।३।५० ॥, 'किति च'७।२।११८॥
२० इत्यादिवृद्धिः । “आगमप्रतिपादितानां वस्तुतत्त्वानाम् अनु पश्चाद् ईक्षणं परीक्षणमन्वीक्षा, ‘तदस्य प्रयोजनम्'५ ।२।१०९॥ इति ठक्''[ ]इति मिश्राः । २ तर्काः षोडशपदार्थाः प्रमाणादय स्तत्प्रधाना विद्या तर्कविद्या। द्वे तर्कविद्यायाः ॥
मीमांसा तु विचारणा ॥२५१॥
१ मीमांस्यतेऽनया मीमांसा । 'मान विचारणे' (भ्वा.आ.से.), 'मान(न्) बधदाण्(न्)शान्भ्यो दीर्घश्चाभ्यासस्य' ३।१६॥ इति सन्, 'सन्यङोः '६।१।९॥ इति द्वित्वम्, 'अं प्रत्ययात्'३।३।१०२॥ इत्यः । २ विचार्यतेऽनया विचारणा। 'चर गतिभक्षणयो:'(भ्वा.प.से.)अस्माण्णिजन्तात् करणे ल्युट् ।
द्वे मीमांसायाः ॥२५१॥
३० सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ।
वंशानुवंशचरितं पुराणं पञ्चलक्षणम् ॥२५२॥
१ सर्जनं सर्गः । 'सृज विसर्गे'(दि.आ.अ.), भावे घञ्, 'पुगन्तलगघूपधस्य'७।३।८६ ॥ इति उपधायाँ गुणः, 'चजोः कु-'७।३।५२ ॥ इति कुत्वम् । सर्गः सृष्टिः । २ एवं प्रतीप: सर्गः प्रतिसर्गः , प्रलय इत्यर्थः । ३ वंशः सूर्यवंशादिः । ४ मन्वन्तराणि स्वायम्भुवचाक्षुषवैवस्वतादीनि चतुर्दशं । ५ वंशादनु वंशो वंशानुवंश सूर्यवंशादिः, तस्य चरितं वंशानुवंशचरितम्। १ पूरा पूर्वस्मिन् भूतं पुराणम्। 'पूर्वकालैकसर्वजरत्पुराण-' २१।४९ ॥ इति निर्देशादेव साधु । "पुराऽनिति प्राणिति पुराणम्"
४० [ ]इति स्वामी ॥ पञ्चसर्गादीनि लक्षणानि चिह्नानि यस्य तत् पञ्चलक्षणम् । पञ्चानां सर्गादीनां लक्षणं शास्त्रं वा । एकं सर्गादिपञ्चोपलक्षितशास्त्रस्य ॥२५२॥
षडंङ्गी वेदांश्चत्वारो मीमांसाऽऽन्वीक्षकी तथा।
धर्मशास्त्रं पुराणं च विद्या ऍताश्चतुर्दश ॥२५३॥
१ षडङ्ग्यादीनां पुराणान्तानां चतुर्दशानां नामैकं विद्या इति ॥२५३॥
सूत्रं सूचनकृत्
१ सूत्र्यते ग्रथ्यते सूत्रम्, पुंक्ली. । 'सूत्र ग्रन्थने (भ्वा. उ.से.), घञ् । सूचनाद्वा सूत्रम्, पृषोदरादिः। सूतेऽर्थमिति वा।
५० ___ 'षूङ् प्रसवे'(अ.आ.वे.), 'सर्वधातुभ्यः ष्ट्रन्'(उणा-५९८)इति ष्ट्रन्। सूचनं करोति सूचनकृत्। एकं सूत्रस्य ।
भाष्यं सूत्रोक्तार्थप्रपञ्चकम् ।
१. 'छद-' इति धातुवृत्त्यादौ ॥ २. 'ईक्ष दर्शने' क्षीरतरङ्गिण्यादौ ॥ ३. 'प्रतिपादिकानां' इति१ ॥ ४. 'विदा-' इति२ ॥ ५. 'मानेर्जिज्ञासायाम्' इति वार्तिकेन जिज्ञासायां सन् भवति ॥ ६. 'अः' इति१.२.४ ॥ ७. 'उपधागुणः' इति१.२॥ ८. 'प्रतीतः' इति१ ॥ ९. विष्णुपुराणे चतुर्दश मनव उक्तास्तन्नामानि यथा
"मनुः स्वायम्भुवो नाम मनुः स्वारोचिषस्तथा । औत्तमिस्तामसिश्चैव रैवतश्चाक्षुषस्तथा ॥१॥
एते तु मनवोऽतीताः सप्तमस्तु रवेः सुतः । वैवस्वतोऽयं यस्यैतत् सप्तमं वर्तते युगम् ॥२॥
सावर्णिर्दक्षसावर्णो ब्रह्मसावर्ण इत्यपि । धर्मसावर्णरुद्रस्तु सावर्णो रौच्यभौम्यवत् ॥३॥'' इति ॥ १०. इतोऽग्रे १.२प्रतौ 'तु' इति दृश्यते ॥ ११. स्वामिकृतामरकोशोद्धाटने न दृश्यते ॥ १२. 'ह्येता-' इति३.४॥ १३. '-विमोच.' इति स्वामी, '-वेष्टने' इति सायणः ॥ १४. 'सूत्रे-' इति१ ॥ १५. विग्रहे 'सूते' इति विगृहीतत्वात् '-प्राणिगर्भविमोचने' इति युक्तोऽर्थः ॥
१ भाष्यते भाष्यम् । सूत्रे उक्तमर्थं प्रपञ्चयति विस्तारयति यत्, तत् सूत्रोक्तार्थप्रपञ्चकम् । 'पचि विस्तारे' (चु.उ.से.), ‘ण्वुल्तृचौ'३।१।११३॥ इति ण्वुल् । एकं सूत्रो क्तार्थप्रपञ्चकस्य ॥
प्रस्तावस्तु प्रकरणम्
१ 'प्रस्तूयते प्रस्तावः । 'ष्टुञ् स्तुतौ'(अ.उ.अ.), 'प्रद्रुस्तु(प्रेद्रुस्तुस्रुवः) '३।३।२७॥ इति] घञ् । २ प्रक्रियतेऽस्मिन् प्रकरणम् । 'करणाधिकरणयोश्च' ३।३।११७॥ इत्यधिकरणे ल्युट् । तार्किकास्तु
१० "शास्त्रैकदेशसम्बद्धं शास्त्रकार्यान्तरस्थितम् ।
प्राहुः प्रकरणं नाम शास्त्रभेदं विपश्चितः ॥१॥"
[ ]इति । द्वे प्रकरणस्य ॥
निरुक्तं पदभञ्जनम् ॥२५४॥
१ वर्णागमादिभिः पदानां निर्वचनं निरुक्तम्। 'वच परिभाषणे'(अ.प.अ.), 'स्त्रियां क्तिन'३३१४॥, (भावे क्तः), 'ग्रहिज्या-'६।१।१६॥ इति सम्प्रसारणम् । २ पदानि भज्यन्तेऽत्र पदभञ्जनम् । 'भञ्ज (भञ्जो) आमर्दने'(रु.प.अ.), अधिकणे ल्युट् । द्वे निरुक्तस्य ॥ २५४॥
अवान्तरप्रकरणविश्रामे शीघ्रपाठतः।
२० आह्निकम्
१ अवान्तरप्रकरणानां विश्रामः अवान्तरप्रकरण विश्रामः, तत्र, शीघ्रपाठतः अह्ना निवृत्तम् आह्निकम् । 'तेन निर्वृत्तम्' ५।१७९॥ इति ठक् । अवान्तरप्रकरणानां विश्रामो ग्रन्थावयव इत्यर्थः, तन्नामैकमालिकम् । एकस्मिन्नेव वासरे पठनाहमेतत्, नान्यस्मिन् । यदनेकार्थः
"आह्निकं स्यात् पुनरहनिर्वत्र्ये नित्यकर्मणि ॥
भोजने ग्रन्थभागे च"[अनेकार्थसङ्ग्रहः २१८९॥] ।
ग्रन्थभागे इति ग्रन्थावयव इत्यर्थः ॥
अधिकरणं त्वेकन्यायोपपादनम् ॥२५५॥
३० १ अधिक्रियतेऽस्मिन्निति अधिकरणम् । 'करणा धिकरणयोश्च'३।३।११७॥ इत्यधिकरणे ल्युट् । एकं न्यायमुप पादयति एकन्यायोपपादनम् । नन्द्यादित्वात् ल्युः। एकम धिकारस्य ॥२५५॥
उक्तानुक्तदुरुक्तार्थाचन्ताकार तु वात्तिकम् ।।
१ उक्तानामनुक्तानां दुरुक्तानां चार्थानां चिन्तां ज्ञानं करोतीत्येवंशीलं उक्तानुक्तदुरुक्तार्थचिन्ताकारि । 'सुष्यजातौ-' ३।२७८॥ इति ताच्छील्ये णिनिः । एवंविधं यच्छास्त्रं तन्नामैकं वार्तिकम् इति । वृत्तिः प्रयोजनमस्य । 'तदस्य प्रयोजनम्' ५।१।१०९॥ इति ठक् ॥
टीका निरन्तरव्याख्या
४० १ टीकयति प्रापयत्यर्थमिति टीका । 'टीकृ गतौ' (भ्वा.आ.से.), पचाद्यच्, अजादित्वाट्टाप् । सुगमानां दुर्गमानां चार्थानां निरन्तरमन्तराभावेन व्याख्या यस्यां सा, एतादृशो यो ग्रन्थस्तन्नामैकम् ॥
पञ्जिका पदभञ्जिका ॥२५६॥
१ पञ्च्यन्ते व्यक्तीक्रियन्ते पदार्था अनयेति पञ्जिका। 'पचि व्यक्तीकरणे'(भ्वा.आ.से.), 'धात्वर्थनिर्देशे ण्वुल्वाच्यः' (वा-३।३।१०८॥), 'युवोरनाकौ'७।१।१॥, पृषोदरादित्वात् जत्वम् । अर्थाद् विषमाण्येव पदानि भनक्ति पदभञ्जिका । 'भञ्जू(भञ्जो) आमर्दने', 'ण्वुल्तृचौ'३।१।१३३ ॥ इति ण्वल् ।
५० एवंविधग्रन्थस्य नामैकं पञ्जिकेति ॥२५६॥
निबन्धवृत्ती अन्वर्थे
१ निबद्ध्यते विशेषोऽस्मिन् निबन्धः। 'बन्ध बन्धने' (त्र्या.प.अ.), अधिकरणे घञ् । २ वर्ततेऽर्थावगमोऽत्रेति वृत्तिः। 'वृतु वर्तने'(भ्वा.आ.से.), 'स्त्रियां क्तिन्'३।३।१४।। निबन्ध इति शास्त्रविशेषनाम, वृत्तिरित्यपि शास्त्रविशेषनाम । निबन्धश्च वृत्तिश्च निबन्धवृत्ती । कीदृशौ एते ?, अन्वर्थे, अनुगतो मिलितोऽर्थोऽनयोरिति । अन्वर्थे एतौ द्वावपि शास्त्र विशेषवाचकौ शब्दौ भिन्नौ । यन्माघ:
"अनुत्सूत्रपदन्यासा सद्वृत्तिः 'सन्निबन्धना ।
६० शब्दाविद्येवं नो भाति राजनीतिरपस्पशा ॥१॥"
[शिशुपालवधम् २।११२॥]इति । अत्र हि शब्दविद्याया विशेषणे निबन्धनशब्दो निबन्धस्य पर्यायत्वेन प्रोक्त इति । "द्वेऽपि भिन्ने शास्त्रे ज्ञेये निबन्धनं भाष्यम्''[ ]इति केचित् ॥
१. 'विस्तारवचने' इति स्वामिसायणौ ॥ २. '-क्तिः' इति१.३, '-क्तः' इतिर ॥ ३. सर्वादशेष्विदं सूत्रं दृश्यते, ४प्रतौ 'भावे क्तः इति पाठो युक्तः' इत्युट्टङ्किता एका टिप्पणी दृश्यते ॥ ४. '-रहन्नि-' इति४॥ ५. '-भागो' इति२॥ ६. 'चिन्ता' इति१.३॥ ७. 'व्याख्यां' इति१.४॥ ८. 'पच्यन्ते' इति३.४॥ ९. 'अन्वर्थो' इति ॥ १०. 'सद्वन्धना' इति३॥ ११. '-विद्यैव' इति१.२.३ ॥
सङ्ग्रहस्तु समाहतिः ।
१ सङ्गृह्यते वाच्यविशेषोऽनेन सङ्ग्रहः । ‘ग्रह वृदृ-'३।३।५८॥ इत्यप् । २ समाह्रियन्तेऽर्थविशेषा अनया समाहृतिः । 'हृञ् हरणे'(भ्वा.उ.अ.), 'स्त्रियां क्तिन्' ३३१४॥ । द्वे सङ्ग्रहस्य ॥
परिशिष्टपद्धत्यादीन् पथाऽनेन समुन्नयेत् ॥२५७॥
१ परिशिष्यत इति परिशिष्टम् । 'शिष्ल विशेषणे' (रु.प.अ.), 'निष्ठा'३।२।१०२॥ । २ अनवच्छिन्नक्रमत्वात्
पद्धतिरिव पद्धतिः । आदिग्रहणाद् उच्छ्वासाङ्कसर्गादयो
१० गृहयन्ते। अनेन पथा अनेन मार्गेणाऽन्वर्थमार्गेणैव। परिशिष्टश्च पद्धतिश्च परिशिष्टपद्धती, ते आदी येषां ते, तथा, तान्, समुन्नयेद् जानीयात् । परिशिष्टादयो ग्रन्थावयवविशेषा ज्ञेया इत्यर्थः ॥२५७॥
कारिका तु स्वल्पवृत्तौ बहोरर्थस्य सूचनी ।
१ पदार्थान् गम्यान् करोति कारिका । ‘ण्वुल्तृचौ' ३।१।१३३॥, 'प्रत्ययस्थात्-'७।३।४४॥ इतीत्वम् । स्वल्पा चासौ वृत्तिश्च स्वल्पवृत्तिः, तत्र । कीदृशी कारिका ?, बहोरर्थस्य सूचनी । सूचयती सूचनी । 'सूचे पैशुन्ये' (चु.उ.से.), नन्द्यादि
त्वात् ल्युः । “कारिका विवृत्तिः शोकैः (विवृतिश्के)"[विश्व
२० लोचनकोशः, कान्तवर्गः, शो-५४]इति तु श्रीधरः । लघुवृत्ति नामैकं कारिकेति ॥
कलिन्दिका सर्वविद्या
१ कलिन्दी भाजनविशेषः, तत्प्रतिकृतिः कलिन्दिका। 'इवे प्रतिकृतौ' ५।३।९६॥ इति कः । डलयोरैक्ये कडिन्दिका अपि । सर्वा आन्वीक्षिक्याद्या विद्या अस्यां सर्वविद्या । सर्वविद्यानामैकं कलिन्दिका ॥
निघण्टुर्नामसङ्ग्रहः॥२५८॥
१ नितरां घण्ट्यन्ते एकत्र भाष्यन्ते शब्दा अनेन निघण्टुः । ‘घटि चेष्टायाम्'(भ्वा.आ.से.), बाहुलकात् 'भृमृ
शीतृचरि-'(उणा-७)इत्यादिना उः । पुंस्ययम्, यद् वैजयन्ती-
३० "नामशास्त्रे निघण्टुर्ना]"[वैजयन्तीकोषः ३६।३१॥]। क्लीबेऽयम् । यद्व्याडि:
"अर्थान् निघण्टयत्यस्मान्निघण्टुः परिकीर्तितः ॥
पुनपुंसकयोः स स्यात्'[*]इति ।
अकारान्तोऽप्ययं रामवत् । यच्चामुण्ड:-"इति वर्णनिघण्टोऽयं बीजानां वच्मि किञ्चन"[ ]इति । २ नाम्नां सङ्ग्रहो नाम सङ्ग्रहः । द्वे नाम कोषस्य। 'नाममाला नाम' इति भाषा ॥२५८॥
इतिहासः पुरावृत्तम्
इतिहशब्द: पारम्पर्योपदेशेऽव्ययम् । इतिह आस्तेऽत्रेति। 'आस उपवेशने'(अ.आ.से.), 'हलश्च' ३।३।१२१॥ इति घनि,
४० इतिहासः । यद्वा इति एवमर्थे, ह किलार्थे, इतिह आसीदति। 'असु भुवि'(अ.प.से.), पचाद्यच् । २ पुरावृत्तोपनिबन्धन प्रायत्वात् पुरावृत्तम् । "पुरावृत्तं पूर्वचरितम्"[अम.क्षीर. १।५।४॥]इति तु स्वामी । द्वे नामनी" पूर्ववृत्तप्रतिपादकस्य व्यासादिप्रणीतग्रन्थस्य ॥
प्रवहिका प्रहेलिका ।
१ प्रवल्हते प्राधान्यं भजति प्रवह्निका । 'वर्ह वल्ह परिभाषणहिंसादानेषु '(भ्वा.आ.से.), ण्वुल् । २ प्रहेल यत्यभिप्रायं सूचयति प्रहेलिका । 'हिल हावकरणे'(तु.प.से.), ण्वुल्, 'युवोरनाकौ'७।१।१॥, 'प्रत्ययस्थात्-'७।३।४४॥
५० इतीत्वम् । प्रवल्हतेः 'सर्वधातुभ्य इन्'(उणा-५५७)इतीन्, ततः 'कृदिकारात्-'(गणसू-४।११४५ ॥ इति डीष्, 'प्रवल्ही' इत्यपि। ___ "प्रहेलिका प्रवल्ही च प्रश्रदूती विपादिका"["]इत्युत्पलिनी।
१. '-शिष्टाश्च' इति१ ॥ २. 'सूचि' इति१.२.३॥ ३. ३नास्ति ॥ ४. 'कारिकोत्यादि' इति२॥ ५. "सर्वविद्या कदनिका''[३६॥३१॥इति वैजयन्ती, पृ.६१ ।। ६. '-कृता' इति१.२॥ ७. 'भृस्तृशी-' इतिर ।। ८. द्र. स्वोपज्ञटीका २।२५८ ॥, पृ.६२ ॥ ९. "पारम्पर्योपदेशे स्यादैतिह्यमितिहाव्ययम्" इत्यमरः, अमरकोशः२।७।१२॥, "इतिह स्यात् सम्प्रदाये" इति हैमः, अभि.चिन्ता. भू-१५३७॥ १०. 'पुरोवृ-' इति१ ॥ ११. 'नाम्नी' इति३॥ १२. स्वामी 'वर्ह इत्येव पठति, सायणो द्वौ ॥ १३. '-भावकरणे' इति सायणः ॥ १४. द्र. रामाश्रमी १।६।६॥, पृ.८४॥
एवं हिलेरिनि प्रहेली च । सा प्रहेलिका शाब्दी आर्थी च, शाब्दी यथा
“पयस्विनीनां धेनूनां बाह्मणः प्राप्य विशंतिम् ।
ताभ्योऽष्टादश विक्रीय गृहीत्वैकां गृहं गतः ॥१॥"
[] । आर्थी यथा -
"जई सासुआइ भणिया पियवासघरंमि दीवयं देसु । ___
ता कीस मुद्धडमुही हिययंमि निवेसए दिठिं॥२॥"
[] । द्वे हियालीति ख्यातायाः ॥
जनश्रुतिः किंवदन्ती
१० १ जनेभ्यः श्रुतिः जनश्रुतिः । जनेभ्यः श्रूयते इति वा। २ किं वदति जनोऽत्रेति किंवदन्ती । 'वद व्यक्तायां वाचि'(भ्वा.प.से.), 'भूदृवहिवासिवदि-'(उणा-४०८)इत्यादिना झच्, 'झोऽन्तः'७।१।३॥, गौरादित्वाद् ङीष् “भुवो झन् (झि)'(उणा-३३०)बाहुलकाद् वदेश्च, ततः किंवदन्तिः"[ ] इति हट्टचन्द्रो हुस्वान्तमाह। यद्वा उद्यते कथ्यते सा वदन्तिः कथा 'वद्यवि-'(हैमोणा-६६५)इत्यन्तिप्रत्ययः, कुत्सिता वदन्तिः किंवदन्ती, 'कृदिकारात्-'(गणसू-४।१।४५॥)इति डीए । द्वे सत्यानृतसाधारणलोकवार्तायाः ॥
वातैतिचं पुरातनी ॥२५९॥
१ पुरातनी वार्ता 'ऐतिह्यम्' उच्यते । 'इतिह' इति
२० निपातसमुदाय उपदेशपारम्पर्ये वर्तते । इतिहेत्येव ऐतिह्यम्, भेषजादित्वात् ट्यण। एकं पुरातनवार्तायाः ॥२५९॥
वार्ता प्रवृत्तिर्वृत्तान्त उदन्तः
१ वृत्तिर्लोकवृत्तं विद्यतेऽस्यां वार्ता। 'प्रज्ञाश्रद्धार्चा वृत्तिभ्योः ण:५२१०१॥ । २ प्रवर्तते जनोऽनया प्रवृत्तिः। 'वृतु वर्तने '(भ्वा.आ.से.), 'स्त्रियां क्तिन्'३।३।९४॥ । यद्वा प्रमाणेन वर्तनं प्रवृत्तिः । ३ वृत्तस्य चरितस्यान्तोऽत्र वृत्तान्तः। ४ उद्यतेऽसौ उदन्तः। 'वद व्यक्तायां वाचि'(भ्वा.प.से.), 'सीमन्तहेमन्त-'(हैमोणा-२२२)इत्यादिना साधु । उदत्यर्थ
मन्तोऽस्येति वा। पञ्चमस्वरादिः । चत्वारि सामान्यतो वार्तायाः॥
३०
१. अष्टौ शोकान् कुरुष्वेति पुत्रः पित्रा नियन्त्रितः । सप्त शोकाः कृतास्तेन पितुराज्ञा न लविता ॥ अत्र अष्टिरिति वृत्तनाम, अन्यथा शोका सङ्गतिः ॥ तरुण्यालिङ्गितः कण्ठे नितम्बस्थलमाश्रितः । गुरूणां सन्निधानेऽपि क: कूजति मुहुर्मुहुः॥ अत्र 'पानीयकुम्भः' इत्यर्थे शोकसङ्गतिः ॥
वृक्षाग्रवासी न च पक्षिराजस्त्रिनेत्रधारी न च शूलपाणिः ।
त्वग्वस्त्रधारी न च सिद्धयोगी जलं बिभ्रन्न घटो न मेघः ॥ अत्र नालिकेरफलमित्यर्थे शोकसङ्गतिः ।
सर्वस्वापहरो न तस्करगणो रक्षो न रक्ताशनः, सर्पो नैव बिलेशयोऽखिलनिशाचारी न भूतोऽपि च । अन्तर्धानपटुर्न सिद्धपुरुषो नाप्याशुगो मारुत
स्तीक्ष्णास्यो न च सायकस्तमिह ये जानन्ति ते पण्डितः ॥ अत्र 'मत्कुण' इत्यर्थस्वीकारे शोकसङ्गतिः ।
पानीयं पातुमिच्छामि त्वत्तः कमललोचने ।
यदि दास्यसि नेच्छामि नो दास्यसि पिबाम्यहम् ॥ अत्र दास्यसि दातुमिच्छसि इति व्यक्तोऽर्थः, दास्यसि-दासी-असि इति गूढोऽर्थः, अथ च गूढाऽर्थस्वीकारे शोकसङ्गतिः।
राघवस्य शरैघोरै|ररावणमाहवे ।
अत्र क्रियापदं ज्ञातुं मर्यादा दश वार्षिकी ॥ अत्र 'राघव' इति सम्बोधने, 'स्य' इत्यस्य च 'षोऽन्तकर्मणि' इति धातोर्लोट्लकारस्य (आज्ञार्थस्य) मध्यमपुरुषैकवचनस्वीकारे सङ्गतिः।
बिम्बाकारं सुधाकारं कान्तावदनपङ्कजम् । . अत्र क्रियापदं ज्ञातुं मर्यादा दश वार्षिकी ॥ अत्र 'दश' इत्यस्य 'चुम्ब' इत्यर्थे तथा 'मर्यादा (एका) वार्षिकी' इत्यर्थे शोकसङ्गतिः ॥ एवमन्यत्रापि ज्ञेयम् ॥ २. एकोनानां धेनूनां पयस्विनीनामित्यर्थे शोकसङ्गतिः ॥ ३. द्र. स्वोपज्ञटीका २।२५९ ॥, पृ.६२ ॥ ४. "यदि श्वश्र्वा भणिता प्रियवासगृहे दीपकं देहि । ततः कस्माद् मुग्धमुखि! हृदये निवेशयेः दृष्टिम् ॥" इति संस्कृतच्छाया॥ ५. 'तृभूवहिवसिभासिसाधिगडिमण्डिजिनन्दिभ्यश्च' इत्युणादिगणसूत्रम्, मुद्रितोणादिसूत्रे वदधातोरुल्लेखो न दृश्यते ॥ ६. 'वुक्' इति१॥ ७. 'उत्पद्यते' इति१.२॥ ८. '-लोपोवार्ता-' इति १;-लोकावार्ता-' इतिर ।। ९. तुलनीयोऽमरकोषः १६७॥ १०. 'चारि-' इति१ ॥
अथाऽऽह्वयोऽभिधा । गोत्रसंज्ञानामधेयाऽऽख्या
___ऽऽहाऽभिख्याश्च नाम च ॥२६०॥
१ आहूयतेऽनेनेति आह्वयः । 'ह्वेञ् स्पर्धायां शब्दे च' (भ्वा.उ.अ.), 'पुंसि संज्ञायाम्'३।३।११८ ॥ इति घ:, बाहुलकाद् 'आदेच उपदेशे-'६।१।४५ ॥ इत्यात्वाभावः, ‘एचोऽयवायावः' ६।१७८ ॥ । स्वामी तु बाहुलकात् शप्रत्ययमाह, तदा 'आदेच उपदेशेऽशिति' ६।१।४५ ।। इति निषेधादात्वं न । २ अभिधीयतेऽ नया अभिधा । अभिपूर्वाद् दधाते: 'आतश्चोपसर्गे'३।३।१०६॥
१० इति सूत्रेणाङ् । ३ गूयते शब्दयतेऽनेन गोत्रम् । 'गुङ् अव्यक्त शब्दे'(भ्वा.आ.अ.), 'गुधृवीपचिवचियमिमनितनिसदिक्षदिभ्य स्त्रन'(उणा-६०६)इति त्रन् । ४ संज्ञायतेऽनया संज्ञा । सम्पूर्वाजा नाते: 'आतश्चोपसर्गे' ३३।१०६।। इत्यङ् । ५ नाम एव नामधेयम्। 'नामरूपभाग-'(वा-५।४।३६॥)इति धेयः । ६ आख्यायतेऽ नया आख्या । [आपूर्वः] 'ख्या प्रकथने '(अ.प.अ.), 'आतश्चोपसर्गे' ३।३।१०६ ॥ इत्यङ् । [यद्वा] 'चक्षि व्यक्तायां वाचि'(अ.आ.से.), आयूर्वः ‘चक्षिङ: ख्याञ्' २।४।५४॥ इति ख्यादेशः, 'आतश्चोपसर्गे' ३।३।१०६॥ इत्यङ् । (७ आहूयतेऽनया आह्वा) । ८ अभिख्यायतेऽनया अभिख्या, आख्यावत् । ९ नम
२० त्यनेन, नयत्यर्थमिति वा नाम, पुंक्ली. । 'णमु प्रह्वत्वे शब्दे च' (भ्वा.प.अ.), ‘णी प्रापणे'(भ्वा.प.अ.)इत्यस्य वा, ‘नामन् सामन्स्तोमन्होमन्रोमम्लोमन्व्योमन्विधर्मन्पाप्मन्व्येमन' (उणा ५९०)इति सााधु । नामनी, नामानि इत्यादि । नव नाम्नः ॥२६०॥ सम्बोधनमामन्त्रणम्
१ सम्बोध्यतेऽनेन सम्बोधनम्। 'बुध अवगमने' (भ्वा.प.से.), 'बुध बोधने'(दि.आ.अ.) अस्माद्वा ‘करणाधि करणयोः- '३।३।११७॥ इति करणे ल्युट् । २ आमन्त्र्यतेऽनेन आमन्त्रणम् । 'मत्रि गुप्तभाषणे '(चु.आ.से.), 'करणाधि करणयो:- '३।३।११७ ॥ इति करणे ल्युट् । द्वे आमन्त्रणस्य॥
आह्वानं त्वभिमन्त्रणम् ।
३० आकारणं हवो हूँतिः
१ आहूयतेऽनेन आह्वानम् । 'ह्वेञ् स्पर्धायां शब्दे च' (भ्वा.उ.अ.) । २ अभिमन्त्र्यत इति अभिमन्त्रणम् । मत्रि [गुप्त] भाषणे'(चु.आ.से.), उभयत्र ल्युट् । ३ आकार्यत इति आकारणम्। ‘ण्यासश्रन्थ-'३।१।२६॥इति युच् । आकारयति राह्वाने वर्तते । तथा च माघ:-"अहिंकारयितुं महीभुजा''["]इति । ४हवनंहवः। हु दानादनयो: '(जु.प.अ.), 'ऋदोरप्'३।३।५७ ॥ ५ ह्वानं हूतिः । ह्वेञ्स्पर्धायां शब्दे च'(भ्वा.उ.अ.), स्त्रियां क्तिनि, 'ग्रहिज्या-'६।१।१६ ॥ इति सम्प्रसारणम्, 'हलः'६।४।२॥ इति दीर्घः । पञ्च आकारणस्य । तेडवू, निहुंतर, इत्यादि भाषा।
४० [शेषश्चात्र-"हूतौ हक्कारकाऽऽकारौ''[शेषनाममाला२।८३]] ॥
संहूतिर्बहुभिः कृतः ॥२६१॥
१ संभूय संयुज्य ह्वानं संहूतिः, बहुभिः प्रचुरैः संभूय या हूतिः, तस्या एकम् ॥ २६१॥
उदाहार उपोद्घात उपन्यासश्च वाङ्मुखम् ।
१ उद्धृत्याहियते उदाहारः । 'हृञ् हरणे'(भ्वा.उ.अ.), भावे घञ्। २ उप समीपे उद्धृत्य हन्यते उपोद्घातः। 'हन्(हन) हिंसागत्यो:'(अ.प.अ.), भावे' ३।३।१८ ॥ इति घञ्, 'हनस्तोऽ चिण्णलो: '७।३।३२॥ इति तोन्तादेशः, 'अत उपधाया: '७।२।११६।।। यदाहु:-“चिन्तां प्रकृतसिद्धयर्थामुपोद्घातं प्रचक्षते"[ ]इति। ३
५० उपन्यस्यत इति उपन्यास: । उपनिपूर्व: ‘असु क्षेपणे'(दि.प.से.), भावे घञ् । ४ वाचो मुखं प्रारम्भः वाङ्मुखम्। “मुखमुपाये प्रारम्भे''[अनेकार्थसंग्रहः २।२४॥] इत्यनेकार्थः । “चत्वारि वाक्य-प्रारम्भस्य''[ ]इति कश्चित् परम्, तन्न सङ्गच्छते, आद्यनामद्वयं प्रकृतोपपादकस्य दृष्टान्तादे:, अन्त्यद्वयं तु वचनोपक्रमस्य सर्वत्र तथैव दर्शनात् ॥ व्यवहारो विवादः स्यात्
१ व्यवहरणं व्यवहारः। व्यवपूर्वाद् हरते वे घञ्।
१. स्वामिकृतटीकायां तु 'घः' इति दृश्यते ॥ २. 'गुधुवी-' इति१.३.४॥ ३. '-क्षुदि-' इति४॥ ४. 'गुधृवीपचिवचियमिसदिक्षदिभ्यस्त्रः' इत्युणादिगणे॥ ५. ---भागभ्यो धेयः' इति३, 'भागरूपनामभ्यो धेयः' इति वार्तिकस्वरूपं दृश्यते ॥ ६. कोष्ठान्तर्गतपाठः १.२.४ न दृश्यते ॥ ७. ३प्रतौ नास्ति ॥ ८. 'नामन्सीमन्व्योमनोमन्लोमन्पाप्मन्धामन्' इत्युणादिगणसूत्रम् ॥ ९. 'भाषणे' इति१.२.४ ॥ १०. द्र. टीकासर्वस्वम्, भा-१, १।६।८॥, पृ.१२१ ॥, तत्र
"प्रहित: प्रधनाय माधवानहमाकारयितुं महीभुजा" इति दृश्यते ॥ ११. तुलनीयोऽमरकोषः १६८॥ १२. 'वाक्प्रार-' इति३॥
पारस
"वि नानाऽर्थेऽव सन्देहे हरणं हार उच्यते ।
नाना सन्देहहरणाद् व्यवहारः प्रकीर्तितः ॥१॥" [ ]इति । २ वदनं वादः, विरुद्धो वादो विवादः। द्वे विवादस्य । ‘झगडा' इति भाषा ॥
शपथः शपनं शपः ॥२६२॥
१ शपन्ति तेन, शपनं वा शपथः । 'शप आक्रोशे' (दि.उ.अ.), 'शीशपिरुगमिवन्दिजीविप्राणिभ्योऽथ: '(उणा
३९३)इत्यथप्रत्ययः । २ शप्यत इति शपनं । 'ल्युट च'३।३।११५॥
१० इति ल्युट् । ३ शप्यतेऽनेन शप: । 'पुंसि संज्ञायां घः'३।३।११८ ॥ इति घ: । त्रीणि शपथस्य । 'सम' इति भाषा ॥२६२॥
उत्तरं तु प्रतिवचः
१ उत्तरन्त्यनेन, अस्माद्वा उत्तरम् । ‘ता प्लवन तरणयो: '(भ्वा.प.से.), 'ऋदोरप्'३ ।३।५७ ॥ इत्यप, बाहुलकात् क्लीबत्वम् । २ प्रतीपं वचः प्रतिवचः। 'कुगतिप्रादयः' २।२।१८॥ इति समासः । द्वे उत्तरस्य। 'उतर' इति भाषा॥
प्रश्रः पृच्छाऽनुयोजनम् । कथंकथिकता च
१ प्रच्छनं प्रश्नः। 'प्रच्छ जीप्सायाम्'(तु.प.अ.),
२० 'यजयाचयतविच्छप्रच्छरक्षिभ्यो नङ्'३।३।९० ॥ इति भावे नङ्, 'च्छ्वोः शूडनुनासिके च'६।४।१९ ॥ इति छकारस्य शः, 'प्रश्ने चासन्नकालयौं : '३।२।११७॥ इति निर्देशाद् ‘ग्रहिज्या-६।१।१६ ॥ इत्यादिना न सम्प्रसारणम् । २ प्रच्छनं पृच्छा । 'प्रच्छ ज्ञीप्सायाम्'(तु.प.अ.), 'षिद्भिदादिभ्योऽ३।३।१०४॥ इत्यङ् भिदादिपाठात् ।३[ अनुयुज्यते] अनुयोजनम्अनुयोगः। 'युजिर् योगे' (रु.प.अ.),भावे घञ्, 'चजोः कु घिण्ण्यतो: '७।३।५२ ।। इति गत्वम्। ४ कथं कथमिति जल्पोऽस्यामिति कथंकथि कता। 'मयूरव्यंसकादयः-'२।१।७२ ॥ इति सूत्रेण समासे निपातनात् टाप्प्रत्ययलोपे तागमे टाप्प्रत्यये साधु। षडक्षरो
३० ऽयमखण्ड: गङ्गावत् । चत्वारि प्रश्नस्य ॥
अथ देवप्रश्न: उपद्रुतिः ॥२६३॥
१ देवेभ्यः प्रश्नः देवप्रश्नः । २ उप समीपे श्रूयत इति उपश्रुतिः । श्रु श्रवणे'(भ्वा.प.अ.), 'स्त्रियां क्तिन्' ३।३।९४।। द्वे देवप्रश्नस्य । आसोईशकुन' इति भाषा ॥२६३॥
चाट चटु प्रियप्रायम्
१-२ चटति चटु, चाटु । 'चट भेदने'(चु.उ.से.), 'दृ(दृ)सनिजनिचटिरहिभ्य उण' (उणा-३)इत्युण, स च णिद्वा, णित्पक्षे वृद्धिः । “चटु इति बाहुलकाद् उ:"[ ]इति माधवः । ३ प्रियं प्रायेण बाहुल्येनात्र प्रियप्रायम्। त्रीणि प्रियवचनस्य ॥
प्रियसत्यं तु सूनृतम् ।
४० १ ‘इन्द्रो भवान्' इति प्रियं परं न सत्यम्, ‘काणो भवान्' इति सत्यम्, न प्रियम्, यद्वचः प्रियं सत्यं च तत् सूनृतम् इति प्रोच्यते। सुष्टु नृत्यति सज्जनमनोऽनेन सूनृतम्। 'नृती गात्रविक्षेपे'(दि.प.से.), 'मूलविभुजादेश्च'(वा-३।२।५॥) इति कः, 'अन्येषामपि दृश्यते'६।३।१३७॥ इति सु इत्यस्य दीर्घत्वम्। “सुष्ठु ऋतं सूनृतम्, पृषोदरादिः''[ ]इत्यन्ये। “अपि ते सखि ! वल्लभः असूनृतं दधदपि सूनृतभाषी'["]इति वासवदत्ता विरुद्धालङ्कारदन्त्यश्रूषाद् असून् प्राणान् ऋतं सत्यं दधदपीत्यर्थः। प्रियं सत्यं च यद्वचनम्', तस्यैकम् ॥
सत्यं सम्यक् समीचीनमतं तथ्यं यथातथम् ॥२६४॥
५० यथास्थितं च सद्भते
१ सति साधु, सद्भ्यो हितं वा सत्यम् । दिगादित्वाद् यत् । २ अर्थेन सह समञ्चति सङ्गच्छते सम्यक् । 'अञ्च गतिपूजनयो:'(भ्वा.प.से.), 'ऋत्विक्-'३।२।५९॥ आदिना क्विन्, 'समः समि'६।३।९३ ॥ इति सम्यादेशः। सम्यञ्ची, सम्यञ्चि इत्यादि क्लीबे। पुंसि तु सम्यङ् , सम्यञ्चौ, सम्यञ्चः इत्यादि। शसाद्यचि 'अच:'६।४।१३८॥ इत्यकारलोपे, 'चौ' ६।३।१३८॥ इति दीर्घत्वे समीचः इत्यादि। स्त्रियां 'अञ्चतेश्चोप संख्यानम्'( )इति डीपि समीची। ३ सम्यगेव समीचीनम्। 'विभाषाञ्चेरदिस्त्रियाम्'५।४।८॥ इति खः, 'आयनेयी-'
६० ७।१।२॥ इति खस्य ईनादेशः । ४ इयर्ति गच्छति जनमन:
१. द्र. टीकासर्वस्वम्, भा-१, १।६।९॥, पृ.१२२॥, रामाश्रमी १६।९॥, पृ.८५ ॥ २. '-वञ्चि-' इत्युणादिगणे ॥ ३. 'प्रच्छ जीप्सायां प्रच्छनं प्रश्नः' इति३॥ ४. '-रक्षो नङ् इत्यष्टाध्याय्याम् ॥ ५. '-काले' इत्यष्टाध्याय्याम् ॥ ६. 'असो-' इति४॥ ७. '-चरिचटिभ्यो जुण' इत्युणादिगणे॥ ८. मा.धातुवृत्तौ न दृश्यते ॥ ९. 'दधति' इति१ ॥ १०. द्र. टीकासर्वस्वम्, भा-१, १६ १९ ॥, पृ.१२८ ॥ ११. 'यद्वचः' इति१ ॥ १२. 'यः' इति३ ॥ १३. 'डोषि' इति३ ॥
प्रत्ययमत्रेति ऋतम् । 'ऋ गतौ '(जु.प.अ.), वर्तमाने क्तः । ५ तथाशब्दोऽयमृतपर्यायः, तत्र साधु तथ्यम् । 'तत्र साधु[:]' ४।४।१८॥ इति सूत्रेण यत्। ६ यथावत् तथाऽत्र यथातथम्। ॥२६४॥ ७ यथावत् स्थितमत्र यथास्थितम् । ८ सच्च तद्भूतं च सद्भूतम् , तत्र । अष्ट सत्यवचसः ॥
अलीके तु वितथानृते ।
१ अलति वारयति सद्गतिमिति अलीकम् । अलं' (-ल)(-लाँ)(-लब्) भूषणपर्याप्तिवारणेषु'(अ.प.से.), अली
कादयश्च'(उणा-४६५)इति ईक्(कीकन्)प्रत्यये साधुः, तत्र । २
१० विगतं तथा सत्यमत्रेति वितथम्। ३ न ऋतम् अनृतम्। यौगिकत्वाद् न सत्यम् असत्यम्, सत्येतरद् इत्यादि । मृषा मिथ्या च अव्ययेषु [अभि-, श्रो-६।१५३४।। त्रीणि असत्यवचसः ॥
अथ क्लिष्टं सङ्कलं च परस्परपराहतम् ॥२६५॥
१ क्लिश्यते क्लिष्टम्। 'क्लिश उपतापे'(दि.आ.से.), 'क्लिशू विबाधने '(त्र्या.प.वे.) वा, वर्तमाने क्तः, 'यस्य विभाषा'७।२।१५॥ इतीडभावः। २ सङ्कोलति सङ्कलम् । 'कुल संस्त्याने'(भ्वा.प.से.), 'इगुपधज्ञा'३।१।१३५॥ इति कः । "फलिसङ्कलतालगुहम्"[ ]इत्यादिभट्टिभाषासमावेशः । पर स्परपराहतम् अन्योऽन्यविरुद्धवचनम् । यथा
२० "अन्धो मणिमुपाविध्यत् तमनङ्गुलिरावयत् ।
तमग्रीवः प्रत्यमुञ्चत् तमजिह्वोऽभ्यपूजयत् ॥१॥"
[] । द्वे 'अणमिलतुं वचन' इति भाषायाः ॥२६५॥
सान्त्वं सुमधुरम्
- १ सान्त्वयति सान्त्वम्। 'सान्त्व सामप्रयोगे' (चु.प.से.), चुरादिः, परस्मैपदी, पचाद्यच् । सुष्टु मधुरम्, सुतरामतिशयेन वा मधुरं सुमधुरम्। एकमत्यन्तमधुरवचसः॥
ग्राम्यमशीलम्
१ ग्रसति बुद्ध्यादिगुणानिति ग्रामः, तत्र भवं ग्राम्यम्। 'ग्रामाद्यखजी शेषे"४।२।९४॥ इति यः। २ न श्रियं लाति
अश्लीलम् । 'ला दाने'(अ.प.अ.), 'आतोऽनुपसर्गे कः'
३० ३।२।३॥, कपिलिकादित्वाल्लत्वम् । न श्रीरस्यास्तीति वा सिध्मादित्वालः, 'कपिलिकादीनामुपसंख्यानम्'(वा-८।२।१८॥) इति श्रीशब्दस्य रस्य लत्वम्, तत्तु अव्रीडाजुगुप्साऽमङ्गल- . व्यञ्जकत्वेन त्रेधा । अलङ्कारशास्त्रकृती तु ग्राम्यमशीलं च पृथगेव । द्वे ग्राम्यवचनस्य । 'गमारवचन' इति भाषा ॥
म्लिष्टमस्फुटम् ।
१ म्लेच्छति स्म म्लिष्टम्। 'म्लेच्छ अव्यक्ते शब्दे' (भ्वा.प.से.), 'निष्ठा'३।२।१०२॥ इति क्तः, 'क्षुब्धस्वान्त ध्वान्तलग्नम्लिष्टविरिब्ध-७।२।१८॥ इत्यादिना साधुत्वम्। न स्फुटमस्फुटम्, अप्रकटवर्णमित्यर्थः। एकमप्रकटाक्षरवचनस्य॥
४० लुप्तवर्णपदं ग्रस्त
१ लुप्ता वर्णाः पदानि च यत्र तद् लुप्तवर्णपदम्। अशक्त्या लुप्तवर्णपदं यद्वचोऽसम्पूर्णमिति यावत्, तद् ग्रस्तम्। "लुप्तोच्चारितः वर्णः पदं वा यत्र तद्वाक्यं ग्रस्तम्"[ ]इति तु कौमुदी। ग्रस्यते स्म ग्रस्तम्। 'ग्रसु अदने'(भ्वा.आ.से.), 'निष्ठा'३।२।१०२॥ इति क्तः । अयमत्राशयः अनुच्चारिताक्षर पदवचननामैकं ग्रस्तम्, कीदृग् ग्रस्तम् ? लुप्ता उच्चरत एव लोपं प्राप्ता वर्णा अक्षराणि पदानि चात्र लुप्तवर्णपदम्, असम्पूर्णोच्चारितमित्यर्थः॥
__अवाच्यं स्यादनक्षरम् ॥२६६॥
५० १ न वाच्यम् अवाच्यम् । ‘वच परिभाषणे’(अ. प.अ.), ‘ऋहलोर्ण्यत् ‘३।१।१२४॥ इति ण्यत्, ‘वचोऽशब्द संज्ञायाम्’७।३।६७॥ इति न कुत्वम् । २ निन्दितान्यक्षराणि यत्र, तद् अनक्षरम् । निपातानामनेकार्थत्वाद् नञोऽत्र निन्दार्थता । द्वे अवाच्यवचनस्य ॥२६६॥
अम्बूकृतं सथूत्कारम्
१. 'अलयति' इति३॥ २. '-गतमि-' इति१॥ ३. " 'अल' इति सायणादयः । क्षीरस्वामिमते तु आदित्वे 'आदितश्च'(७।२।१६॥)इतीनिषेधे 'अल्तः' । सायणादिमते 'अलितः' इति भेदः । काशकृत्स्नस्तु 'अलज्'(१।६८९, पृष्ठ.११४)इति पठति । तेन अलति अलते इत्युभयं भवति । लकारोत्तरवर्तिन उदात्ताकारस्येत्वात् इट् अलितः । एवमेव कातन्त्रधातुपाठेऽपि पठ्यते' इति क्षीरतरङ्गिणीटिप्पणी-७, पृ.८१॥ ४. 'क्लिश्यति' इतिर। ५. 'क्लिशु' इति१.४॥ ६. "कपिसङ्कलभीमगुहम् इत्यादिभट्टिभाषासमावेशः" इति टीकासर्वस्वे, भा-१, १।६।१९॥, पृ.१२८॥ ७. '-रासदत्' इति स्वोपज्ञटीकायाम्, २२६५॥, पृ.६४॥ ८. 'अस्तवत्' इति १टिप्पणी ॥ ९. द्र. स्वोपज्ञटीका २।२६५॥, पृ.६४॥, अमरक्षीरस्वामिटीका १।५।१९॥, पृ.४६॥ १०. अष्टाध्याय्यां नास्ति ॥ ११. तुलनीयोऽमरकोषः १।६।२०॥ १२. 'लोपप्राप्ता' इति४॥
१ निष्ठीवसम्पर्काद् अनम्बुनः अम्बुनः करणम् अम्बू कृतम् । 'च्चौ-'७।४।२६॥ इति दीर्घः । थूदिति करणं थूत्कारः, तेन सह वर्तमानं सथूत्कारम् । एकं थूत्कृतसहितवचसः ॥
निरस्तं त्वरयोदितम् ।
१ निरस्यते स्मेति निरस्तम्। निपूर्वाद् ‘असु क्षेपणे' (दि.प.से.)अस्मात् क्तः। त्वरया उदितं त्वरयोदितम् । एकं त्वरोक्तवचनस्य॥
आमेडितं द्विस्त्रिरुक्तम्
१ आनेड्यते स्म आमेडितम् । 'प्रेड म्लेई
१० उन्मादे'(भ्वा.प.से.), 'निष्ठा'३।२।१०२ ॥, 'आर्धधातुकस्य-' ७।२।३५॥ इतीट् । द्वौ वारौ, त्रीन् वारान् वा उक्तं द्विस्त्रि रुक्तम् । 'द्वित्रिचतुर्थ्यः सुच्' ५।४।१८॥ इति सुच् । एकं द्विवारत्रिवारोक्तवचनस्य ॥
अबद्धं तु निरर्थकम् ॥२६७॥
१ अनर्थकं समुदायार्थस्य वचनम् अबद्धम्। यथा "जरद्वः कम्बलपादुकाभ्यां द्वारि स्थितो गायति मङ्गलानि। तं ब्राह्मणी पृच्छति पुत्रकामा राजन्नुमायां लशुनस्य कोऽर्थ ? ॥१॥" इत्यत्र समुदायेन एकार्थो नास्ति । अबद्धं, 'बन्ध
बन्धने'(त्र्या.प.अ.), क्तः, 'अनिदिताम्- '६।४।२४॥ इति
२० न्लोपः, 'झषस्तथोः'८।२।४०॥ इति धत्वम्, नसमासः। निर्गतोऽर्थो यस्मात्, तद् निरर्थकम् । 'उरःप्रभृतिभ्यः कप्' ५।४।१५१॥ इति कप्समासान्तः । 'अबध्यम्' इति यकारो पधमपि । “अबध्यमवधाहे स्यादनर्थकवचस्यपि"[अनेकार्थ ३।४६९, मेदिनी, यान्तवर्गः, शो-७१]इति कोषदर्शनात् । एकं निरर्थकवचनस्य ॥२६॥
पृष्ठमांसादनं तद् यत् परोक्षे दोषकीर्तनम् ।
१ परोक्षेऽप्रत्यक्षे परदोषाणां कीर्तनं कथनं यत्, तत् पृष्ठमांसादनम् । पृष्ठमांसस्यादनमिव पृष्ठमांसादनम् । एकं
परोक्षे दोषकथनस्य ॥
३० मिथ्याऽभियोगोऽभ्याख्यानम्
१ शतं द्रव्यं मे धारयसीत्यादिरभियोगः, मिथ्या चासावभियोगश्च मिथ्याभियोगः, असत्याक्षेपः। अभ्याख्यायते अभ्याख्यानम्। अभिपूर्वः ‘ख्या प्रकथने'(अ.प.अ.), अस्माद् ल्युट। "अध्ययनत्वराभियोगः, स च दाम्भप्रयुक्तोऽभ्या ख्यानम्''[]इति सुभूतिवचनमनागमम्, वाक्यप्रक्रमनिबन्धात्। एकमसद्दोषारोपस्य ॥
सङ्गतं हृदयङ्गमम् ॥२६८॥
१ सङ्गच्छते स्म सङ्गतम्। सम्पूर्वः 'गम्लु गतौ' (भ्वा.प.अ.), कर्तरि क्तः, 'अनुदात्तोपदेश-६।४।३७॥ इति न्लोपः । २ हृदयं गच्छति हृदयङ्गमम् । 'गमश्च'३।२।४७॥
४० इति खच्, अरुर्द्विषत्-'६।३।६७॥ इति मुम् । द्वे मन: प्रियवचनस्य ॥२६८॥
परुषं निष्ठुरं रूक्षं विQष्टम्
१ पृणाति पूरयति परं कोपेनेति परुषम् । 'पृ पालनपूरणयोः (जु.प.से.), 'वृहिनिपृकलिवदित्रपिपूरिभ्य उपन्' (उणा-५१५)इत्युषन् । २ निशिते तीक्ष्णे तिष्ठति निष्ठुरम् । निपूर्वः 'ष्ठा गतिनिवृत्तौ'(अ.प.अ.), 'मद्गुरादयश्च'(उणा-४१) इति कुरच्, कित्त्वाद् 'आतो लोप इटि च'६।४।६४॥ इत्या लोपः, 'उपसर्गात् सुनोतिसुवतिस्यतिस्तोभति-'८३६५॥ इत्या दिना षत्वम् । ३ रूक्षयति रूक्षम् । 'रूक्ष वाक्पारुष्य (चु.-
५० उ.से.), अच्। ४ विक्रुश्यते विक्रुष्टम्। 'क्रुश आह्वाने रोदने च'(भ्वा.प.अ.), निष्ठा। निकृष्टमपि। चत्वारि कठिनवचनस्य ॥
अथ घोषणा।
उच्चैर्युष्टम्
१ घोषणं घोषणा। 'घुष स्तुतौ'( ), घुषेय॑न्ताद्, ‘ण्यासश्रन्थ-'३।३।१०७॥ इति युच् । २ उच्चैस्तारं यथा स्यात् तथा घोषणं उच्चैर्युष्टम् । 'घुष स्तुतौं'( ),भावे क्तः, 'घुषि रविशब्देन'७।२।२३॥ इतीडभावः । द्वे बहुजनज्ञापनार्थ मुद्घोषणस्य ॥
वर्णनेडा स्तवः स्तोत्रै स्तुतिर्नुतिः ॥२६९॥
६० श्रुघा प्रशंसार्थवादः
१ वर्णनं वर्णना । 'वर्ण वर्णक्रियागुणविस्तारेषु' (चु.उ.से.), ‘ण्यासश्रन्थ-'३।३।१०७॥ इति युच् । २ ईडनं
१. 'थूत्कारेण' इति ४प्रतेष्टिप्पणी ॥ २. '-वचसः' इति३॥ ३. तुलनीयोऽमरकोषः १।६।१३॥ ४. 'प्रेढ म्लेढ-' इतिर, 'प्रेड म्लेट-' इति स्वामी, 'ग्रेट ग्रेड म्लेट-' इति सायणः, वस्तुतः काशकृत्स्नसम्मतोऽयं धातुपाठः, द्र. क्षीरतरङ्गिणीटिप्पणी-२, पृ.५४॥ ५. '-स्येट्' इति२ ॥ ६. उणादिगणे तु 'पृनहिकलिभ्य उषच्' इति दृश्यते ॥ ७. 'पारुष्ये' इति क्षीरतरङ्गिण्यादौ ॥ ८. '-श्यति' इति२ ।। ९. क्षीरतरङ्गिण्यादौ 'घुषिर् विशब्दने' इति दृश्यते ॥
ईडा । 'ईड स्तुतौ'(अ.आ.से.), 'गुरोश्च हलः'३।३।१०३॥ इत्यङ्, टाप् । ३ स्तूयतेऽनेन स्तवः । 'ष्टुञ् स्तुतौ' (अ.उ.अ.), 'ऋदोरप्'३३५७॥ इत्यप् । ४ स्तूयतेऽनेन स्तोत्रम् । 'ष्टुत्र स्तुतौ '(अ.उ.अ.). 'दाम्नीशसु(शस) यु युजस्तु'३।२।१८२॥ इति ष्ट्रन् । ५ स्तूयतेऽनया स्तुतिः । 'अजिपिजिस्तुभ्यः करणे'(वा-३।२३।९४॥)इति क्तिन् । ६ नूयतेऽनया नुतिः । 'णु स्तुतौ'(अ.प.अ.), बाहुलकात् करणे क्तिन् ॥२६९॥ ७ शुधनं श्राधा। 'घु कत्थने'(भ्वा.आ.से.)। ८ प्रशंसनं प्रशंसा । 'शंस(शंसु) स्तुतौ'(भ्वा.प.से.),
१० "षिद्भिदादिभ्योऽ'३।३।१०४॥ । ९ अर्थस्य प्रशस्यवदनम् अर्थवादः । 'वद (वदि) अभिवादनस्तुत्यो:'(भ्वा.आ.से.), भावे घञ्। नव प्रशंसायाः ॥
___ सा तु मिथ्या विकथनम् ।
१ सा वर्णना मिथ्या असत्यार्था विकत्थनम् उच्यते। विरुद्धं कत्थनं विकत्थनम् । 'कत्थ घने '(भ्वा.आ.से.), 'ल्युट च'३।३।११५॥ इति ल्युट्। एकं मिथ्यास्तुतेः ॥
जनप्रवादः कौलीनं विगानं वचनीयता ॥२७०॥
१ जनस्य प्रतीपो वादः जनप्रवादः । २ कुलस्य इदं कौलीनम् । 'कुलात् खञ्'४।१।१३९॥ । ग्रन्थकृत्तु
२० "कुलस्य जल्पः"[स्वोपज्ञटीका २।२७०]इति व्युत्पत्तिमाह ।
३ विरुद्धं गीयत इति विगानम् । 'गै शब्दे'(भ्वा.प.अ.), ल्युट् । ४ वचनीयस्य भावो वचनीयता । चत्वारि लोका पवादस्य ॥२७०॥
स्यादवर्ण उपक्रोशो वादी निष्पर्यपात् परः।
गर्हणा धिक्क्रिया निन्दा कुत्सा क्षेपो जुगुप्सनम् ॥२७॥
१ वर्णः स्तुतिः, तद्विरुद्धः अवर्णः । विरुद्धार्थेऽत्र नम्। २ उपक्रोशनम् उपक्रोशः। 'क्रुश आह्वाने'(भ्वा.प.से.), भावे घञ् । ३-५ निरः परेरपाच्च उपसर्गात् परोऽग्रे वादः, तेन निर्वादः, परिवादः । 'उपसर्गस्य घञ्यमनुष्ये बहुलम्'
३० ६।३।१२२॥ इति विकल्पेन दीर्घत्वे परीवादोऽपि। अपवदनम् अपवादः । ६ गर्हणं गर्हणा । 'गर्ह गल्ह कुत्सायाम्' (भ्वा.आ.से.), ल्युट्। गर्होऽपि । ७ धिक्करणं धिक्क्रिया । धिक्पूर्वात् कृजः 'कृत्रः श च'३।३।१००॥ इति भावे शः, शित्त्वाद् भावे यक्, 'रिङ् शयग्लिक्षु'७।४।२८॥ इति रिङादेशः, शप्रत्ययस्तु स्त्रियामेव । ८ निन्दनं निन्दा । 'णिदि कुत्सायाम्'(भ्वा.प.से.), भिदादित्वादङ् । ९ कुत्सनं कुत्सा। 'कुत्स आक्षेपें '(चु.आ.से.), भिदादित्वादङ् । १० क्षेपणं क्षेपः। ‘क्षिप प्रेरणे'(तु.उ.से.), भावे घञ् । व्यक्षरोऽयम्, यन्महेश्वरः "क्षेपो विलम्बे निन्दायाम्''विश्वप्रकाशकोशः, पान्तवर्गः, शो-
४० ___७], यथा-"आत्माघां परक्षेपं न काङ्क्षन्ति विचक्षणाः" ["]इति । ११ जुगुप्स्यते जुगुप्सनम् । 'गुप गोपनकुत्सनयोः' (भ्वा.आ.से.), 'गुप्तिज्किद्भयः सन्'३।१५॥ इति सन्, 'सन्यङो:'६।१।९॥ इति द्वित्वम्, 'ल्युट च'३।३।११५॥ इति ल्युट् । 'अ:(अ) प्रत्ययात्'३।३।१०२॥ इत्यप्रत्यये जुगुप्साऽपि। एकादश निन्दायाः ॥२७१॥
आक्रोशाऽभीषङ्गाक्षेपाः शापः
१ आक्रोशनम् आक्रोशः । 'क्रुश आह्वाने रोदने ' (भ्वा.प.से.), भावे घञ् । २ अभिषञ्जनं पराभिमुख्येन वाक्ये" योजनम् अभीषङ्गः । षञ्ज सङ्गे'(भ्वा.प.अ.), भावे घञ्,
५० 'चजोः-७।३।५२॥ इति कुत्वम्, 'उपसर्गस्य घजि-'६।३।१२२॥ ___ इति दीर्घः । ३ आक्षेपणम् आक्षेपः । क्षिप प्रेरणे'(तु.उ.से.), भावे घञ् । ४ शपनं शापः । 'शप आक्रोशे'(भ्वा.उ.अ.), भावे घञ्, 'अत उपधायाः' ७।२।११६॥, चत्वारि शापस्य ॥
स क्षारणा रते ।
१ स शापो रते मैथुनविषये क्षारणा उच्यते, मैथुनमुद्दिश्य गालीत्यर्थः । स्त्रीनिमित्तं पुंनिमित्तं वा मैथुनं प्रति
य आक्रोश उद्घोषणा, सा क्षारणेति भावः । 'क्षर सञ्चलने' __ (भ्वा.प.से.), प्रयोजकण्यन्ताद् ‘ण्यासश्रन्थ-'३।३।१०७॥ इति
१. 'इत्यः' इति२॥ २. वस्तुतस्तु 'श्रुयजिस्तुभ्यः करणे' इति वार्तिकस्वरूपम् ॥ ३. '-घायाम्' इति क्षीरतरङ्गिण्यादौ ॥ ४. अष्टाध्याय्यां 'कुलात् खः' इति सूत्रं दृश्यते, अतो वृद्ध्यभावः स्यात्, निमित्ताभावात्, तेन "कुलस्यापत्यं कुलीनः, 'कुलात् खः४।१।१३९॥ इति खः, खस्य ईनादेशः । तस्येदं कौलीनम् । 'तस्येदम्'४।३।१२०॥ इत्यण, आदिस्वरवृद्धिः" ईदृग्रीत्याऽपि साधनीयम् ॥ ५. '-आह्वाने रोदने च' इति क्षीरतरङ्गिण्यादौ ॥ ६. २.४नास्ति ॥ ७. शित्त्वात् 'तिशित् सार्वधातुकम्'३।४।११३॥ इति सार्वधातुकसंज्ञा, 'सार्वधातुके यक्'३।१।६७॥ इति यक् इत्याशयः ॥ ८. '-अवक्षेपणे' इति क्षीरतरङ्गिण्यादौ ॥ ९. 'काङ्क्षति' इति३.४॥ १०. '-क्षणः' इति३॥ ११. द्र. अनेकार्थसंग्रहकैरवाकरकौमुदीटीका, भा-१,
२।२८९॥, पृ.१६९ ॥ १२. '-रोदने च' इति २.३.४नास्ति ॥ १३. 'वाक्ययो-' इति१॥ १४. '-मुपदिश्य' इति३॥
युच् । क्षरणाऽपि, "क्षरणाक्षारणाक्रोशाः साभिशापाभि मैथुनम्"[] । क्लीबमपि, "नीचमाक्षारणं यः स्यादाक्षेपो मैथुनं प्रति"[]इति शब्दार्णवात् । नीचमिति पुंविहीनस्य संज्ञा । आक्षारणाऽपि । परपुरुषनिमित्तं स्त्रियाः परस्त्रीनिमित्तं वा पुंस आक्रोशस्य एकम्, अथवा दूषणनामैकम् ॥
विरुद्धशंसनं गालिः
१ विरुद्धं शंसनम् अवद्योद्भावनम्, गालयते गुणान् गालिः, स्त्रियाम् । ‘गल भक्षणे'(चु.आ.से.), इन् । विरुद्ध कथननामैकं गालिरिति ॥
१०___ आशीर्मङ्गलशंसनम् ॥२७॥
१ आशासनम् आशीः, स्त्रीलिङ्गः । आपूर्वः 'शासु इच्छायाम्'(अ.आ.से.) अस्मात् 'क्विप् च'३।२७६ ॥ इति क्विप्, 'शास आशासश्च क्वावुपधाया इत्त्वं वाच्यम् (वा ३।३।१०८॥) इत्याकारस्य इत्त्वम्, 'ससजुषो रुः'८।२६६॥, 'र्वोरुपधाया-'८।२७६ ॥ इति दीर्घः । मङ्गलस्य शंसनं मङ्गल शंसनम् । एकमाशिषः ॥२७२॥
शोकः कीर्तिर्यशोऽभिख्या समाज्ञा
१ श्रोक्यते श्रोकः । श्रीक सङ्घाते'(भ्वा.आ.से.), भावे घञ् । २ कीर्त्यते कीर्तिः । 'कृत संशब्दने'(चु.
२० प.से.), 'ऊतियूति[जूति] हेतिसातिकीर्तयश्च'३।३।९७॥ इति साधु । ३ अश्नुते व्याप्नोति दिश इति यशः, क्लीबे । 'अशूझें व्याप्तौ'(स्वा.आ.से.), 'अशेर्यश्चादे:(-दिः) '(हैमोणा ९५८)इत्यस् । यद्वा ई लक्ष्मीमश्रुते व्याप्नोति । 'अशूङ व्याप्तौ'(स्वा.आ.से.), अस्मात् '-असून्'(उणा-६२८)इत्य सुन् । “याति गच्छत्यर्थिजनेषूपकारित्वमिति यशः, पृषोद रादिः"[]इति तु भट्टः । ४ अभिख्यानम् अभिख्या । 'ख्या प्रकथने (अ.प.अ.), 'आतश्चोपसर्गे'३।३।१०६॥ इत्यङ् स च स्त्रियाम् । ५ समैः सर्वैराज्ञायते समाज्ञा । 'ज्ञा अवबोधने' (या.प.से.), 'आतश्चोपसर्गे'३।३।१०६॥ इत्यङ् । "समैः सर्वैर्ज्ञायते, घबर्थे कः 'समज्ञा"[]इति पुरुषोत्तमो हुस्व-
३० मध्यमाह । समाङ्पूर्वो जानातिः ख्यातौ । अत एव "ख्यातो विश्रुतः समाज्ञाते "[]इति रत्नकोषः । "ततोऽङि समाज्ञा" []इति तु कौमुदी । "समाख्या'[]इति भागुरिः । “अज गत्यादौ'(भ्वा.प.से.), 'समज्या-'३।३।९९॥ इत्यादिना क्यपि, 'क्यपि प्रतिषेधः (वा-२४५६॥)इत्यजेर्न वीभावः, समज्या कीर्तिः"[]इति तु मैत्रेयः । पञ्च कीर्तेः ॥
रुशती पुनः । अशुभा वाक्
१ रुशति हिनस्ति परमिति रुशती । 'रुश रिश हिंसायाम्'(तु.प.अ.), 'लटः शतृशानचौ-'३।२।१२४॥ इति
४० शतरि, 'उगितश्च'४।१६॥ इति ङीष् (डीप) 'आच्छीनद्योर्नुम्' ७।१८० ॥ इति विकल्पान्नुमोऽभावः । रुशती हिंस्रेत्यर्थः । आश्रयलिङ्गश्चायम्, तेन रुशन् शब्दः, रुशद् वच इत्यपि, त्रिलिङ्गोऽयमिति हृद्यम् । "रिशती"[]इत्येके । अमरस्तु 'उषती'[अमरकोषः १।६।१८॥] इति मूर्धन्यमध्यमाह । "उष दाहे '(भ्वा.प.से.) शतृप्रत्ययः, “आगमशासनमनित्यम्" [परिभाषा-९३ २]इति 'शप्श्यनोनित्यम् ७।१।८१॥ इति शतु नुमभावः । "उषत्यादेः स्त्रीलिङ्गत्वादेव कामचारात् स्त्रीत्वम्" [टीकासर्वस्वम् १।६।१८॥] इति भट्टः। "स्त्रीनिर्देशः स्त्रियां प्रायः प्रयोगदर्शनात् शत्रन्तत्वप्रदर्शनार्थं च"[]इति तु कौमुदी।
५० अशुभा अकल्याणी, निन्दार्था वाग् रुशतीत्यर्थः, यथा-'ब्राह्मणो हन्तव्यः' इति । एकमशुभवाचः ॥
शुभा कल्या
१ शुभस्वभावा वाक्, कलासु साधुः कल्या । 'तत्र साधुः ४।४।९८॥ इति यत् । अन्तस्थातृतीयप्रथमोपधोऽयम् । एकं शुभवचनस्य ॥
चर्चरी चर्भटी समे ॥२७३॥
१ चारु चर्यतेऽनया चर्चरी । २ चारु भट्यतेऽनया
१. द्र. रामाश्रमी १६।१५॥, पृ.८७॥ २. 'इति' इति १.२.४नास्ति ॥ ३. 'आशास: क्वावुपधाया इत्त्वं वाच्यम्' इति वार्तिकस्वरूपं दृश्यते ॥ ४. '-सातिहेति-' इत्यष्टाध्याय्याम् ॥ ५. क्षीरतरङ्गिण्यादौ डकारानुबन्धो न दृश्यते ॥ ६. अत्र हैमसूत्रग्रहणं विचारणीयम्, पाणिनीये 'अशेर्देवने युट् च'(उणा-६३०)इत्यस्य सत्त्वात् ॥ ७. द्र. टीकासर्वस्वम्, भा-१, १६११॥, पृ.१२३ ॥, तत्र 'घबर्थे कः' इत्यस्य स्थाने 'घबर्थे कविधानं कर्तव्यम्' इति दृश्यते ॥ ८. द्र. टीकासर्वस्वम्, भा-१, १६११ ॥, पृ.१२३ ॥, तत्र 'ख्यातो' इत्यस्य स्थाने 'प्रख्यातो' इति दृश्यते ॥ ९. १.२.३नास्ति ॥ १०. टीकासर्वस्वसम्मतः पाठः । रामाश्रमीकारस्तु 'रुशती' इति तालव्यमध्यस्वरादिरहितमाह ॥ ११. 'इत्याह मूर्धन्यमध्यं मूर्धन्यान्तं' इति३॥ १२. ४प्रतौ नास्ति ॥
चर्भटी । उभावपि पृषोदरादित्वात् साधू । 'चर्चरिः' इति तृतीयस्वरान्तोऽपि । चाचरीनाम्नी द्वे । हर्षक्रीडादिवचन पर्यायावेतौ ॥२७३॥
यः सनिन्द उपालम्भस्तत्र स्यात् परिभाषणम् ।
१ उपालम्भो द्विविधः-गुणाविःकरणपूर्वको निन्दा पूर्वकश्च। आद्यो यथा-महाकुलजस्य भवतः किमुचितमिदम्। द्वितीयो यथा-बन्धकीसुतस्य तवोचितमेवेदमिति । तयोर्मध्ये यः सनिन्द उपालम्भस्तत्र परिभाषणम् । परिभाष्यते तत् परि
भाषणम् । भाष व्यक्तायां वाचि'(भ्वा.आ.से.), ल्युट्। तथा च
१० भागुरि:-"निन्दापूर्व उपालम्भः परिभाषणमुच्यते"[]इति । मैवं कृथा इति वाच्यता इत्यर्थे परिभाषणम् । आलापनियमयोरपि पर्यायोऽयम् । यन्महेश्वरः
"परिभाषणमालापे नियमे परिभाषणम् ।
नन्दोपालम्भवचने परिभाषणमिष्यते ॥१॥"
[विश्वप्रकाशकोशः, णान्तवर्गः, श्रो-१०६-७]इति । त्रिष्वपि यथा-"बाला इव प्रवर्तन्ते कृतेऽपि परिभाषणे ॥"[*]इति ॥ आपृच्छाऽऽलोप: सम्भाषः
१ आपृच्छनम् आपृच्छा । 'प्रच्छ जीप्सायाम्' (तु.प.अ.), 'षिद्भिदादिभ्योऽङ्'३।३।१०४॥, 'ग्रहिज्या-'
२० ६।१।१६॥ इति सम्प्रसारणम् । २ आलपनम् आलापः । 'लप परिभाषणे'(भ्वा.प.से.), भावे घञ् । ३ सम्भाषणं सम्भाषः । 'भाष व्यक्तायां वाचि'(भ्वा.आ.से.), भावे घञ्। एकवारवचनमालापः, तस्य त्रीणि॥
अनुलापः स्यान्मुहुर्वचः ॥२७४॥
१ मुहुः असम्भ्रमेण पुनः पुनर्वचनम्, अनुलपनम् अनुलापः । 'लप परिभाषणे '(भ्वा.प.से.), भावे घञ् । एकं पौनःपुन्योक्तेः ॥२७४॥
अनर्थकं तु प्रलापः
१ अनर्थकं प्रयोजनशून्यमुन्मत्तादिवचनं प्रलापः ।
३० प्रलपनं प्रलापः । भावे घञ् ॥
विलापः परिदेवनम् ।
१ विलपनं विलापः । परिदीव्यते परिदेवनम् । 'दिवु परिदेवने'(चु.आ.से.), चुरादिः, ल्युट् । २ परिदेवनमनुशोचनम्, तद्वाचकं वचनमपि परिदेवनम् । द्वे शोकवचनस्य ॥
उल्लापः काकुवाक्
१ उल्लपनम् उल्लापः। भावे घञ् । कक्यत इति काकुः। 'कर्क लौल्योपतापयोः (भ्वा.आ.से.), 'स्वादय:' इत्युप्रत्यये दीर्घत्वम्। काक्वा वचनं काकुवाक् । शोकभयादि भिनेर्विकारः काकुः । यदमर:-"काकुः स्त्रियां विकारो यः
शोकभीत्यादिभिर्ध्वने:"[अमरकोषः१६।१२॥] । “ध्वनेः शब्दस्य
४० शोकभीत्यादीना यो विकारो विकृतिः, सा काकुः"[] इति तट्टीका । एकं शोकभयादिभिः शोषितकण्ठवचनस्य ॥
अन्योऽन्योक्तिः संलापसंकथे ॥२७५॥
१ अन्योऽन्येन उक्तिः अन्योन्योक्तिः । सम्मुखं लपनं संलापः । "रहसि भाषणं संलाप:"[]इति तु कौमुदी। २ संकथनं संकथा । 'कथ वाक्यप्रबन्धे'(चु.उ.से.), भिदादित्वादङ् । द्वे अन्योन्यं उक्तिप्रत्युक्त्योः ॥२७५॥
विप्रलापो विरुद्धोक्तिः
१ विरुद्धं प्रलपनं विप्रलापः । भावे घञ् । विरुद्धा उक्तिः विरुद्धोक्तिः । एकं विरुद्धोक्तेः ॥
५० अपलापस्तु निह्नवः ।
१ अपलपनम् अपलापः । भावे घञ् । २ निहवनं निह्नवः। 'हृङ् अपनयने'(अ.आ.अ.), 'ऋदोरप्'३।३१५७॥
इत्यप्। द्वे अपलापस्य । 'ओलवियूँ ' इति भाषा ॥
सुप्रलापः सुवचनम्
१ सुष्ठु प्रलपनं सुप्रलापः । सुष्ठूच्यते सुवचनम्। एकं शोभनोक्तेः ॥
सन्देशवाक् तु वाचिकम् ॥२७६॥
१ सन्दिश्यतेऽसौ सन्देशः, तस्य वाक् सन्देशवाक् । यया सन्दिष्टोऽर्थ उच्यत इत्यर्थः । वाचिकम् । 'वाचो
६० व्याहृतार्थायाम्'५।४।३५॥ इति ठक्, 'ठस्येक: ७।३।५०॥, 'किति च७।२।११८॥ इति वृद्धिः । अन्येन अन्योऽन्यस्मै
१. 'चाचरि-' इति१.२.४॥ २. 'हर्षक्वाद्यव-' इति१, 'हर्षकाद्यव-' इतिर, 'हर्षक्रीडाद्यव-' इति४॥ ३. तुलनीयोऽमरकोष १६।१४॥ ४. द्र.. टीकासर्वस्वम्, भा-१, १६१४॥, पृ.१२५॥ ५. द्र. अनेकार्थसङ्ग्रहकैरवाकरकौमुदीटीका, भा-२, ५।१४॥, पृ.४१७॥ ६. 'अनुलेप-' इतिर ॥ ७. 'रप लप व्यक्तायां वाचि' इति क्षीरतरङ्गिण्यादौ ॥ ८. तुलनीयोऽमरकोषः १६१६॥ ९. 'ककि-' इति३, क्षीरतरङ्गिण्यादौ 'कक लौल्ये' इति दृश्यते॥ १०. मूलं मृग्यम्, अथवा बाहुलकादुण् ॥ ११. 'लापनं' इति ।। १२. 'उक्तप्रत्युक्तेः' इतिर, '-क्तोः' इति१॥ १३. तुलनीयोऽमरकोषः १६॥१७॥ १४. 'उलविवउं' इति१.२॥ १५. 'व्याप्तता-' इति३॥
यदाह-त्वयैवं कर्त्तव्यमिति सन्देशस्तस्य एकं वाचिकमिति। "लेखादिनाऽधिगतेऽर्थे मुखस्वरूपं वाचिकम्'[अम.क्षीर. १।५।१८॥]इति क्षीरस्वामी ॥२७६॥
आज्ञा शिष्टिनिरौनिभ्यो देशो नियोगशासने ।
अववादोऽपि
१ आज्ञापनम् आज्ञा । आपूर्वः 'ज्ञा अवबोधने' (त्र्या.प.से.), 'आतश्चोपसर्गे'३।३।१०६॥ इत्यङ्, अनित्य त्वाच्चुरादिणिजभावः । २ शासनं शिष्टिः । 'शासु अनुशिष्टौ' (अ.प.से.), 'स्त्रियां क्तिन्'३।३।९४॥, 'शास इदङ्हलोः'
१० ६४।३४॥ इत्युपधाया इत्वम्, 'तितुत्र-७।२।९॥ इतीनिषेधः। ३-५ निरानिभ्य उपसर्गेभ्योऽग्रे देशः, तेन निःशेषेण सम न्ताद् नितरां देशनं निर्देशः। 'दिश अतिसर्जने'(तु.प.अ.), भावे घञ् । एवम् आदेशः, निदेशः । ६ नियोजनं नियोगः। 'युजिर् योगे'(रु.उ.अ.), भावे घञ्, 'चजो:-'७।३।५२॥ इति कुत्वम् । ७ शिष्यतेऽनेन शासनम् । 'शासु अनुशिष्टौ' (अ.प.से.). "करणाधिकरणयोश्च'३३१११७॥ इति करणे ल्यट । ८ अवनम्य वदनम् अववादः । अष्टौ आज्ञायाः ॥
अथाऽऽहूय प्रेषणं प्रतिशासनम् ॥२७७॥
१ आहूय आकार्य यत्प्रेषणं मोचनं, तस्य नामैकं
२० प्रतिशासनम् । 'शासु अनुशिष्टौ'(अ.प.से.), ल्युट् ॥२७७॥ संवित् सन्धाऽऽस्थाऽभ्युपायः सम्प्रत्याङ्भ्यः परः श्रवः। अङ्गीकारोऽभ्युपंगमः प्रतिज्ञाऽऽगूश्च सङ्गरः॥२७॥
१ प्रकृताङ्गीकारः पक्षोक्तिश्चेत्युभया हि प्रतिज्ञा । संवेदनं संवित् । 'विद ज्ञाने'(अ.प.से.), सम्पदादित्वात् क्विप्। २ सन्धानं सन्धा। 'डुधाब् धारणपोषणयोः (जु.उ.अ.), 'आत चोपसर्गे'३।३।१०६॥ इत्यङ् । ३ आस्थानम् आस्था। 'ष्ठा गतिनिवृत्तौ'(भ्वा.प.अ.), 'आतश्चोपसर्गे' ३।३।१०६॥ इत्यङ् । ४ अभ्युपायनम् अभ्युपायः । अभ्युपपूर्वाद् ‘इङ् अध्ययने'
(अ.आ.अ.)अस्माद् ‘इङश्च'३।३।२१॥ इति घञ् । 'अय गतौ
३० (भ्वा.आ.से.)इत्यस्माद्वा, भावे घञ् । ५-७ सम्प्रत्याक्ष्य उप सर्गेभ्यः परः श्रवः, तेन संश्रवः, प्रतिश्रवः, आश्रवः। समाङ्
प्रतिपूर्वः शृणोतिरङ्गीकारे, तस्माद् ‘ऋदोरप्'३।३।५७॥ इत्यप्। एते त्रयस्तालव्यरेफमध्याः । ८ अङ्गीकरणं अङ्गीकारः । भावे घञ् । ९ अभ्युपगमनम् अभ्युपगमः। भावे घञ्, 'नोदात्तोप देश-'७।३।३४॥ इति न वृद्धिः । १० प्रतिज्ञानं प्रतिज्ञा । 'आतश्चोपसर्गे'३।३।१०६॥ इत्यङ् । ११ आगच्छति पौरुषमनया आगूः, स्त्रीलिङ्गः । आङ्पूर्वो 'गम्लु गतौ'(भ्वा.प.अ.)अस्माद् 'भ्रमेश्च डूः'(उणा-२२६)इति सूत्रे चकारो 'गमे?:'(उणा-. २२५)इत्यतो 'गमेः' इत्याकर्षणार्थः । यदा च 'ऊङ्] च गमादीनाम्'(वा-६।४।४०॥)इति क्विप् ऊङ् च, तदा खल-
४० पूवत्। "आगूर्यतेऽनया आगूः । 'गुरी उद्यमे'(तु.आ.से. अथवा चु.उ.से.), क्विप्, रेफान्तोऽयम्"[]इति लिङ्गसूरिः । १२ सङ्गरणम् सङ्गरः। 'गृ निगरणे'(तु.प.से.), 'ऋदोरप्'३।३।५७॥ इत्यप् । द्वादश प्रतिज्ञायाः । नियमसमाधी अपि ॥२७८॥ गीतनृत्यवाद्ययं नाट्यं तौर्यत्रिकं च तत् ।
१-२ गीतनृत्यवाद्यानां त्रयं समुदितं नाट्यम्, तौर्य त्रिकं चोच्यते । नटस्येदं नाट्यम् । 'छन्दोगौ किथवक (छन्दोगौक्थिक) याज्ञिकबचनटायः४।३।१२९॥, 'यस्येति च'६।४।१४८॥, 'अत उपधायाः'७।२।११६॥ । 'तुरी त्वरायाम् '(जु.प.से.), 'ऋहलोर्ण्यत् '३।१।१२४ ॥, 'हलि
५० च'८।२७७॥ इति दीर्घत्वं च। तूर्यं मूरजादिः, तत्र भवं तौर्य शब्दरूपम् । त्रयोंऽशा अस्य त्रिकम् । 'संख्याया अतिशदन्तायाः कन्'५।१।२२॥ । तौर्येण त्रिकं तौर्यत्रिकम् 'तृतीया'२।१३०॥ इति योगविभागात् समासः । "तौर्यं च तत् त्रिकं चेति कर्मधारयः"[]इति तु पञ्जिका । द्वे समुदितगीतनृत्यवाद्यत्रयस्य॥
सङ्गीतं प्रेक्षणार्थेऽस्मिन्
१ अस्मिन्निति गीतनृत्यवाद्यत्रये प्रेक्षणार्थे प्रेक्षण निमित्तं प्रारब्धे सङ्गीतम् उच्यते । सम्भूय गीयतेऽत्रेति सङ्गीतम्। 'गै शब्दै'(भ्वा.प.अ.), वर्तमाने क्तः, 'आदेच:-'६।१४५॥ इत्यात्वम्, 'घुमास्था-'६।४।६६॥ इतीत्वम् । सभ्यानां प्रेक्षण-
६० निमित्तं प्रारब्धगीतनृत्यवाद्यत्रयस्यैकम् ॥
__ शास्त्रोक्ते नाट्यधर्मिका ॥२७९॥
१ शास्त्रोक्ते भरतादिशास्त्रनिर्दिष्टं गीतनृत्यवाद्य ___ त्रयं तन्नामैकम् , [नाट्यं धर्मोऽस्या] नाट्यधर्मी', स्त्रीलिङ्गः।
१. "निर्देशः' इति३.४॥ २. लिङ्गयसूरिकृतामरपदविवृतिटीकायाम्-"आगमनं संवेदनम् आगूः । ऊकारान्तः । आगुरते वा आगूः । 'गूरी उद्यमने'। रेफान्तः स्त्रीलिङ्गः ।" इति दृश्यते, अमरकोषः, भा-१, १।५।५॥, पृ.९४ ॥ ३. '-साधी' इति१.२॥ ४. '-क्तं' इतिर॥ ५. '-धर्मा' इति३॥
यद्वाचस्पति:-"नाट्यधर्मी तु स्त्रियाम्"[] | 'नाट्यधर्मीति पारिभाषिको धर्मीशब्दः । नाट्यधर्येव नाट्यधर्मिका । स्वार्थे कनि, 'केऽणः'७।४।१३॥ इति हुस्वत्वम् ॥२७९॥
अथ गीतादिभेदाननुक्रमेणाह
गीतं गानं गेयं गीतिर्गान्धर्वम्
१ गीयत इति गीतम् । 'गै शब्दे'(भ्वा.प.अ.), वर्तमाने क्तः, 'आदेच उपदेशेऽशिति'६।१।४५ ॥ इत्यात्वम्, 'घुमास्था-'६४६६॥ इतीत्वम् । २ गीयत इति गानम् । 'गै शब्दे (भ्वा.प.अ.), ल्युट्, 'आदेच:-'६।१४५॥ इत्यात्वम्।
१० ३ गीयते गेयम् । ४ गानं गीतिः। 'गै शब्दे'(भ्वा.प.अ.), 'स्त्रियां क्तिन्'३।३।९४॥, 'आदेचः-'६।११४५॥ इत्यात्वम्, 'घुमास्था-'६।४।६६॥ इतीत्वम् । ५ गन्धर्वैः कृतं गान्धर्वम् । कृतेऽर्थेऽण् । “रागगीत्यादिकं गीतम्, प्राविशिक्यादिध्रुवारूपं गानम्, पदस्वरतालावधानात्मकं गान्धर्वम्"[]इति भैरतायुक्तो विशेषोऽत्र नाश्रितः । पञ्च गीतस्य
___अथ नर्त्तनम् ।
नंटनं नृत्यं नृत्तं च लास्यं नाट्यं च ताण्डवम् ॥२८०॥
१ नृत्यत इति नर्त्तनम् । 'नृती गात्रविक्षेपे'(दि.प.से.),
२० ल्युट्, 'युवोरनाकौ'७।१।१॥, 'उपधाया लघोर्गुणः। २ [नट्यते नटनम् । 'नट नृत्तौ'(भ्वा.प.से.), ल्युट् । ] ३ नृत्यते नृत्यम्। 'नृती गात्रविक्षेपे'(दि.प.से.), 'ऋदुपधत्वाच्चाक्लुपितेः' ३।१।११०॥ इति क्यप् । ४ नर्तनं नृत्तम् । 'नृती गात्रविक्षेपे' (दि.प.से.), भावे क्तः । ५ लस्यते लास्यम् । लस संश्रेषण क्रीडनयोः'(भ्वा.प.से.), ऋहलोर्ण्यत्'३।१।१२४॥ । ६ नट्यत इति नाट्यम् । 'नट अवस्पन्दने'(चु.उ.से.), 'ऋहलोर्ण्यत्' ३।११२४॥ । ७ ताण्ड्येन मुनिना प्रोक्तम्, 'कलापिवैशम्पाय नान्तेवासिभ्यश्च'४।३।१०४॥ इति णिनिः, आपत्यस्य च तद्धितेऽ नाति' ६४१५१॥ इति यलोपः, ताण्डिं नृत्यशास्त्रम्, तदस्यास्तीति,
३० 'अन्येभ्योऽपि दृश्यते'(वा-५।२।१०९॥)इति वः, पृषोदरादित्वा दिकारस्याकारः ताण्डवम् । “तण्डुना मुनिना प्रोक्तं ताण्डवम्" [अम.क्षीर.१।६।१०॥]इति तु स्वामी । "तडिधातोस्ताण्डवम्" [ ]इति तु कौमुदी । पुंक्लीबलिङ्गोऽयम् । नाट्यशास्त्रे नृत्तलास्यनाट्यताण्डवानां भेदोऽस्ति, स नेहाश्रितः, तथा हि "अङ्गविक्षेपमात्रं विवाहाभ्युदयादौ नृत्यम् । ललितकरणाङ्ग हाराभिनय(-1) कौशिकीवृत्तिप्रधानं वासकसज्जाचरितं डोविलिकादिनिबद्धं लिष्टत्वाद् लास्यम्। सर्वरसं पञ्चसन्धि चतुर्वृत्ति दशरूपकाश्रयं नटकर्म नाट्यम् । उद्धतकरणाङ्ग हारनिर्वयंमारभटीवृत्तिप्रधान(-नं) गीतकासारितकादौ तण्डुना प्रोक्तं ताण्डवम्"["]इति ॥२८०॥
४० विशेषत आह
मण्डलेन तु यन्नृत्यं स्त्रीणां हल्लीसकं हि तत् ।
१ स्त्रीणां यन्मण्डलेन मण्डलाकारेण नृत्यं तत् हल्ली सकम् । हेलया लस्यतेऽस्मिन्निति हल्लीसकम्, क्लीबेऽयम्। वाचस्पतिस्तु-"हल्लीसकोऽस्त्रियाम्"["] इत्याह । (घूमरीति भाषा नामैकम्)॥
पानगोष्ठ्यामुच्चतालम् ।
१ पानगोष्ठ्याम् आपाने नृत्यम्', उच्चस्तालोऽत्रेति उच्चतालम् ॥
रणे वीरजयन्तिका ॥२८१॥
५० १ रणे सङ्ग्रामे यद् नृत्यं तन्नामैकं वीरजयन्तिका। जयन्ती पताका, जयन्त्येव जयन्तिका, वीराणां जयन्तिका वीरजयन्तिका ॥२८१॥
स्थानं नाट्यस्य रङ्गः स्यात्
स्थीयतेऽस्मिन् स्थानम्, 'ष्ठा गतिनिवृत्तौ'(भ्वा. प.अ.), 'करणाधिकरणयोः-'३।३।११७॥ इत्यधिकरणे ल्युट् । नाट्यस्य स्थानं प्रदेशः रङ्गः उच्यते । रमन्ते जनमनांस्यत्रेति रङ्गः । 'रमु क्रीडायाम्'(भ्वा.आ.अ.), गन्गम्यादेः '(उणा-१२०)इति गन्। रज्यत्यस्मिन् जन इति वा । 'रञ्ज रागे'(भ्वा.उ.अ.), घञ् । नृत्यस्थाननामैकम् ॥
१. द्र. स्वोपज्ञटीका २१२७९ ॥, पृ.६६॥ २. '-भाषको' इति३॥ ३. '-धर्मेव' इति३॥ ४. द्र. स्वोपज्ञटीका २२८०॥, पृ.६६॥ ५. 'भार-' इति४॥ ६. 'लस द्वेष-' इति१, क्षीरतरङ्गिण्यादौ 'लस भूषणक्रीडनयोः' इत्येव दृश्यते ॥ ७. १.३.४नास्ति ॥ ८. 'ताण्डिः ' इति३.४॥ ९. स्वामिकृतामरकोशटीकायां "तण्डु(मुनि)ना प्रणीतं ताण्डवम्" इति दृश्यते, अम.क्षीर. १६१०॥, पृ.५०॥ १०. 'नृत्य-' इति२.३॥ ११. 'नृतम्' इति१ ॥ १२. 'कौमुदी-' इति२ ॥ १३. 'गोवलि-' इति३॥ १४. 'उद्धती-' इति२॥ १५. द्र. क्षीरस्वामिकृतटीका १६१०॥, पृ.५०॥, स्वोपज्ञटीका २।२८०॥, पृ.६६॥ १६. 'यन्नृत्तं' इतिर, तथा मुद्रितकोशे ॥ १७. द्र. स्वोपज्ञटीका २१२८१॥, पृ.६६॥ १८. कोष्ठान्तर्गतपाठः १.३.४नास्ति ॥ १९. 'नृत्तम्' इति१॥ २०. 'गन्गम्यद्योः' इत्युणादिगणसूत्रम् ॥ २१. १.३.४नास्ति ॥
पूर्वरङ्ग उपक्रमः ।
१ नाट्यस्येत्यत्राप्यनुकृष्यम्, नाट्यस्योपक्रमः प्रारम्भः पूर्वरङ्गः, रजत्यस्मिन् जन इति रङ्गः, मण्डपो नाट्यं वा बुद्धिस्थम्, पूर्वो रङ्गे पूर्वरङ्गः प्रत्याहारादिः, रङ्गात् पूर्व इति वा, राजदन्तादित्वात् पूर्वनिपातः । श्रीहर्षस्तु- "रङ्गशब्देन तौर्यत्रिकं ब्रुवन् नाट्ये रङ्गप्रयोगस्य पूर्वतां मन्यमानः पूर्वश्चासौ रङ्गश्च"[]इति समासममंस्त । गीतनृत्यवाद्यानां त्रयाणां प्रारम्भस्यैकोक्त्या नामैकं पूर्वरङ्गः, उपक्रमो नाम गीतनृत्य वाद्यानां प्रारम्भ इत्यर्थः ॥
१० अङ्गहारोऽङ्गविक्षेपः
१ अङ्गानां हरणं स्थानात् स्थानान्तरनयनम् अङ्गहारः। 'हृञ् हरणे'(भ्वा.उ.अ.), भावे घब् । २ अङ्गानां हार इव, शोभाजनकत्वात्, अथवा हरस्यायं हारः, हरेणाभिनीतत्वात्, अङ्ग प्रधानो हारः अङ्गहारः स्थिरहस्तादित्वात् त्रिंशद्भेदः। “वृश्चिक भ्रमरादित्वात् त्रिंशत्प्रकारोऽङ्गुर्या(ल्या)दिविन्यासरूपोऽङ्गहारः" []इति तु कौमुदी । "अङ्गहारस्त्वङ्गहारिद्धिादिमाम्बिका [म्बिका]"[]इति शब्दार्णवः । २ अङ्गानां विक्षेपः अङ्गविक्षेपः। द्वे अङ्गहारस्य । अङ्गचालन' इति भाषा ॥
व्यञ्जकोऽभिनयः समौ ॥२८२॥
२० १ व्यनक्ति भावान् इति व्यञ्जकः । 'अञ्जू व्यक्ति म्रक्षणकान्तिगतिषु'(रु.प.से.)अस्मात् ‘ण्वुल्तृचौ'३।१।१३३॥ इति ण्वुल् । २ आभिमुख्यं नीयतेऽर्थोऽनेनेति अभिनयः । ‘णीञ् प्रापणे'(भ्वा.उ.अ.), ‘एरच्'३।३।५६॥ इत्यच् । हृद्गतक्रोधादिभावाभिव्यञ्जकस्य द्वे ॥२८२॥
स चतुर्विध आहार्यों रचितो भूषणादिना ।
वचसा वाचिकोऽङ्गेनाऽऽङ्गिकः सत्त्वेन सात्त्विकः ॥२८३॥
१ सोऽभिनयः हस्तादिभिः पदार्थसूचकः चतुर्विधः आहार्यादिभेदात् चतुःप्रकारः, तेषु भूषणादिना रचितोऽभिनयः
३० आहार्यः । २ वचसा निर्वृत्तो वाचिकः। ३ अङ्गेन निर्वृत्तः आङ्गिकः, भ्रूविक्षेपादिः । ४ सत्त्वं मनोगुण आशयो वा, तेन निवृत्तः सात्त्विकः । यदाह-"सत्त्वोत्कटे मनसि ये प्रभवन्ति भावास्ते सात्त्विकाः"[ ]इति । त्रिष्वपि अध्यात्मा
दित्वाट्ठञ्, 'निर्वृत्तेऽत्तु(क्ष)धुतादिभ्यः'४।४।१९॥ इति योग विभागा[त् ठक् वा]। अभिनयस्य चतुःप्रकारनामानि ॥२८३॥ स्यान्नाटकं प्रकरणं भाणः प्रहसनं डिमः।
व्यायोगसमवकारौ वीथ्यलेहामृगा इति॥२८४॥
अभिनेयः प्रकाराः स्युः
१ नाटयति नर्त्तयति सामाजिकमनांसीति नाटकम्। 'नट नृत्ये '(भ्वा.प.से.), णिजन्तः, ‘ण्वुल्तृचौ'३।१।१३३॥ इति
४० ण्वुल्। २ वस्त्वादिकं काव्याभिधेयमात्मशक्योत्पाद्य प्रकुरुते यत्र काव्येन तत् प्रकरणम् । 'करणाधिकरणयोश्च'३।३।११७॥ इत्यधिकरणे ल्युट् । ३ भण्यन्ते उक्तिमन्तः क्रियन्ते अप्रविष्टा अपि पात्रविशेषा अत्रेति भाणः, पुंक्लीबलिङ्गः । ४ एकस्य बहूनां वा चरितं प्रहस्यते यत्र तत् प्रहसनम् । 'हस(हसे) हसने'(भ्वा.प.से.), अधिकरणे ल्युट् । ५ "डमो(डिमो) डिम्बो विद्रवः'[ ]इति पर्यायास्तद्योगादयं डिमः । ६ व्यायामे युद्धनियुद्धप्राये युज्यन्ते पुरुषा अत्रेति व्यायोगः । 'युजिर् योगे'(रु.उ.अ.), अधिकरणे घड् । ७ समवक्रियन्ते सङ्गाती क्रियन्ते नेतारोऽत्रेति समवकारः । बाहुलकादधिकरणे घञ् ।
५० ८ सर्वेषां रसानां लक्षणानां च वीथी श्रेणीव वीथी । ९ उत्क्रमेणोन्मुखी सृष्टिर्जीवितं प्राणा यासां उत्सृष्टिकाः शोचन्त्यः स्त्रियः, ताभिरऽङ्कोऽङ्कनं यस्य स उत्सृष्टिकाङ्कः, तदेकदेशः अङ्कः, भीमवत् । १० ईहा चेष्टा मृगस्येव स्त्रीमात्रार्था यत्र स ईहामृगः ॥२८४॥ एते नाटकाद्या दश अभिनेयस्य प्रबन्धस्य प्रकारा भेदाः स्युः, एतानि दशरूपकानीत्यर्थः । (नाटकादीनि दशप्रबन्धभेदनामानीति । अत्र अभिनेयशब्दः चतुर्थवर्गपञ्चमैकादशस्वरमध्यः)॥
भाषाः षट् संस्कृतादिकाः।
१ भाष्यन्ते भाषाः। 'भाष व्यक्तायां वाचि'(भ्वा.आ.से.),
६० कर्मणि घञ् । षडिति षट् सङ्ख्याः संस्कृतादिकाः संस्कृत१ प्राकृतरमागधीइसौरसेनी पैशाची५अपभ्रंश६लक्षणाः । संस्कृतादीनां षण्णामेकोक्त्या नामैकं भाषा इति ॥
भारती सात्वती कैशिक्यारभेट्यौ च वृत्तयः ॥२८५॥
१. 'रज्यत्य-' इति२.४॥ २. द्र. स्वोपज्ञटीका २२८२॥, पृ.६७॥ ३. तुलनीयोऽमरकोषः १७१६॥ ४. द्र. रामाश्रमी १७॥१६॥, पृ.९९ ॥ ५. 'व्यक्ति' इति २.३.४नास्ति ॥ ६. द्र. अमरकोशक्षीरस्वामिटीका १६१७॥, पृ.५१॥ ७. 'नृत्तौ' इति क्षीरतरङ्गिण्यादौ॥ ८. 'शोच्यन्त्यः' इति३.४॥
९. कोष्ठान्तर्गतपाठः ३.४नास्ति ॥
१ भारती वाणी, तत्प्रधाना वृत्तिरपि भारती, तत्र वाचिकाभिनयप्राधान्यात् । २ सदिति प्रत्याख्यानरूपं संवेदनम्, तद् यत्रास्ति तत् सत्वत् मनः, तस्येयं सात्वती, सात्विकाभिनये प्राधान्यात् अथवा सत् सत्वं रूपं विद्यते येषां ते सत्वन्तः, तेषामियम्, सत्वं च तत्र परिच्छिद्रान्वेषणोपायप्रतिभानं वैचित्र्योत्प्रेक्षणलक्षणप्रकाशलाघवात्मकम् । ३ केशाः किञ्चि दप्यर्थक्रियाजातमकुर्वन्तो यथा देहशोभोपयोगिनः, तद्वत् सौन्दर्योपयोगो व्यापारः कैशिकी, आहार्याभिनयप्राधान्यात् । यद्वा विष्णोः केशेषु बध्यमानेषु भवा कैशिकी । अध्यात्मादि
१० त्वाट्ठक् । यदाह
"विचित्रैरङ्गहारैश्च देवो लीलासमन्वितैः ।
बबन्ध यच्छिखापाशं कैशिकी तत्र निर्मिता ॥१॥" []इति । ४ इयतीति अराः, भटाः सोत्साहाः अनलसाः, अराश्च ते भटाश्च अरभटाः, तेषामियम् आरभटी, अङ्गिकाभि नयप्राधान्यात् । भारत्यादीनामारभट्यान्तानां चतसृणामेकोक्त्या नामैकं वृत्तयः। बहुवचनं चात्र चतुरपेक्षया ॥२८५॥
वाद्यं वांदित्रमातोद्यं तूर्यं तूंरं स्मरंध्वजः ।
१ वादयति ध्वनयति तद् वाद्यम् । वर्ण्यन्तात् कर्मणि 'अचो यत्'३।१९७॥ । वदति वा वाद्यम्। 'ऋहलोर्यत्'
२० ३।१।१२४॥।२ वदति आहन्यमानमिति वादित्रम्। 'वद व्यक्तायां वाचि'(भ्वा.प.से.), भूव(वा)दिगृभ्यो णित्रन्'(उणा-६१०)इति णित्रन्, णित्त्वाद् वृद्धिः । ३ आ समन्तात् तुद्यते ताड्यत इति आतोद्यम् । 'तुद व्यथने'(तु.उ.अ) कर्मणि 'ऋहलोर्ण्यत्' ३।१।१२४॥ । ४ तूर्यत इति तूर्यम्, पुंक्ली . । 'तूरी गतित्वरण हिंसनयोः'(दि.आ.से.), 'ऋहलोर्ण्यत्'३।१।१२४॥ । ५ तूर्यत इति तूरम् । 'इगुपधज्ञा-'३।१।१३५॥ इति कः । ६ स्मरस्य ध्वज इव स्मरध्वजः । षट् सामान्यतो वादित्रस्य ॥
ततं वीणाप्रभृतिकम्
१ वीणादिकं वाद्यं ततम् । 'तनु विस्तारे'(त.उ.से.),
३० 'तनिमृङ्भ्यां किच्च'(उणा-३६८)इति तन्, 'अनुदात्तोपदेश-' ६।४।३७॥ इति न्लोपः । ततं तन्त्र्यादिकं वीणाप्रभृतिरादिर्यस्य तद्वीणाप्रभृतिकम् । सामान्यत एकं तान्तिवाद्यस्य ॥
तालप्रभृतिकं घनम् ॥२८६॥
१ कास्यमयं वादिनं तालस्तत्प्रभृतिकं प्रभृतिग्रहणात् कांस्यतालादि । हन्यते धनम् । 'हन्(हन) हिंसागत्योः' (अ.प.अ.), घञ्, 'मूर्ती घनः'३।३।७७॥ इति घनः । एकं तालादेः ॥२८६॥
वंशादिकं तु शुषिरम्
१ वंशो वेणुस्तदादिकं वादित्रं शुषिः छिद्रमस्त्यस्य शुषिरम्। ऊषशुषिमुष्कमधो र:५२।१०७॥ । “शुषीरं शुषिरं
४० शिष्यं शीर्षं तालव्यादयः"["]इति शभेदैः । सामान्यतो वेणुवाद्यस्यैकम् ॥
आनद्धं मुरजादिकम् ।
१ आनह्यते स्म आनद्धम् । 'नह(णह) बन्धने' __ (दि.उ.अ.), भावे क्तः, 'झषस्तथो:-'८।२४० ॥ इति धत्वम्।
मुखे चर्मणा यद्बद्धं तदानद्धमित्यर्थः । मुरजादिकमित्यादिशब्दात् पटहादिग्रहः । सामान्यत एकं मढितवाद्यस्य ॥
वीणा पुनर्घोषवती विपञ्ची कण्ठकूणिका॥२८७॥
वल्लंकी
१ वेति प्रजायते स्वरोऽस्यामिति वीणा । 'वी
५० गति-प्रजनकान्त्यादिषु (अ.प.अ.) अस्माद्धातोः 'रास्नासास्ना [स्थूणा]-वीणाः'(उणा-२९५)इत्यनेन नप्रत्यये णत्वे गुणाभावे च रूपम्। २ घोषोऽस्त्यस्यां घोषवती । 'तदस्यास्ति'५।२।१४॥ इति मतुप्, '[मादुपधायाश्च] मतोर्वोऽयवादिभ्यः'८।२।९॥ इति मस्य वत्वम्, 'उगितश्च'४।१।६॥ इति ङीष् (ङीप्)। ३ विपञ्चयति विस्तारयति स्वरानिति विपञ्ची। 'पचि विस्तारे चलने चै'(चु.प.से.), णिजन्तात् पचाद्यच्, गौरादिः । ४ कण्ठं कूणयते कण्ठकूणिका। 'कूण सङ्कोचे'(चु.उ.से.), ण्वुल् ॥२८७॥ ५ वल्लते स्वरोऽस्यां वल्लकी । 'वले वल्ल संवरणे (भ्वा.आ.से.), 'क्वुन् शिल्पिसंज्ञयोरपूर्वस्यापि'
६० __(उणा-१९०)इति क्वुन्, गौरादिः। सामान्यतः पञ्च वीणायाः॥
१.-भावनं' इति३॥ २. द्र. स्वोपज्ञटीका २२२८५॥, पृ.६७॥ ३. 'अङ्गिक-' इतिर॥ ४. ३नास्ति ॥ ५. '-हिंसयोः' इति१.२॥ ६. इतोऽग्रे प्रतौ 'तन्त्रीतननात् तते' इति दृश्यते ॥ ७. 'कांश्य-' इति३.४॥ ८. 'कांश्य-' इति३॥ ९. तुलनीयोऽमरकोषः १७४॥ १०. 'उष-' इतिर.३॥ ११. द्र. टीकासर्वस्वम्, भा-१, १७४॥, पृ.१३६॥, तत्र "शिरीषं शुषिरं शिष्यं शीर्ष तालव्यशादयः" इति दृश्यते ॥ १२. 'शब्दप्रभेदः' इति४॥ १३. तुलनीयोऽमरकोषः १७४॥ १४. 'वी गतिप्रजनकान्त्यसनखादनेषु' इति धातुपाठस्वरूपम् ॥ १५. 'पचि विस्तारवचने' इति क्षीरतरङ्गिण्यादौ॥ १६. 'वल्ल-' इति१.२॥ १७. '-संवरणे सञ्चरणे च' इति मा.धातुवृत्तिः, 'वल संवरणे' इति क्षीरतरङ्गिणी॥
साऽथ तन्त्रीभिः सप्तभिः परिवादिनी ।
१ सा वीणा सप्तभिः तन्त्रीभिः स्वरान् परिस्फुटं वदतीत्येवंशीला परिवादिनी । सम्पृचादित्वाद् घिनुण् । यद्वा परितो वादः परिवादः, तद्योगाद् ‘अत इनिठनौ'५।२।११५ ॥ इतीनि:, 'ऋन्नेभ्यो ङीष् (ङीप्)'४।१।५॥ । यस्यां वीणायां सप्त तन्त्र्यो भवन्ति, तस्या एकं परिवादिनीति । अन्येऽपि तन्त्रीभेदाद् वीणाभेदाः एकतन्त्र्याद्या एकविशंतितन्त्र्यन्ता ज्ञेयाः ॥
शिवस्य वीणाऽनालम्बी
१ न आलम्बते अनालम्बी । 'लबि अवस्रेसने
१० [च] '( भ्वा.आ.से.), पचाद्यच्, गौरादिः ॥
सरस्वत्यास्तु कच्छपी ॥२८८॥
१ कच्छपसदृक्त्वात् कच्छपी ॥२८८॥
नारदस्य तु महती
१ महत्त्वाद् महती । 'ऋन्नेभ्यः- '४।१।५ ॥ इति ङीष् (डीप) ॥
गणानां तु प्रभावती ।
१ गणा ईश्वरसेवकास्तद्वीणा प्रभाऽस्त्यस्यां प्रभावती। 'तदस्यास्ति-'५।२।९४ ॥ इति मतुप्, 'उगितश्च'४।१।६॥ इति
ङीप्॥
२० विश्वावसोस्तु बृहती
१ विश्वावसोर्गन्धर्वविशेषस्य वीणा बृहत्त्वाद् बृहती॥
तुम्बुरोस्तु कलावती ॥२८९॥
१ तुम्बुरोर्देवविशेषस्य वीणा कला रूपमस्त्यस्यां कलावती ॥२८९॥
चण्डालानां तु कटोलवीणा चाण्डालिका च सा।
१ कट्यते तन्त्रीभिरावियते कटोलः । 'कटे वर्षा वरणयो: '(भ्वा.प.से.), 'कटिपटि-'(हैमोणा-४९३) इत्योलः । कटोलाख्या वीणा कटोलवीणा । २ चण्डालैः कृता चाण्डालिका। ठक् । चण्डालवीणायाः द्वे । 'रबाब' इति
३० भाषा । शैषिकाणि-“वल्लकी काण्डवीणा कुवीणा चं डक्कारी किन्नरी [तथा], सारिका खुडणी"[शेषनाममाला८३-८४॥] । हरादिचण्डालान्तवीणानामानि ॥
कायः कोलम्बकस्तस्याः
१ तस्याः वीणायोः कायः अलाबुदण्डककुभसमुदाय स्तन्त्री[र] हित: कोलम्बकः। के मूर्ध्नि अवलम्बन्ते तन्त्र्योऽत्रे ति कोलम्बकः । 'लबि अवलम्बने'( ), पृषोदरादिः । कुल्यते सम्यक् स्त्यायतेऽनेन शब्द इति वा। 'कुल संस्त्याने' (भ्वा.प.से.), बाहुलकादम्बकच् । एकं वीणाङ्गनिष्पन्नसमुदायस्य ॥
उपनाहो निबन्धनम् ॥२९०॥
१ उपनह्यतेऽनेन उपनाहः । 'नह(णह) बन्धने'
४० (दि.उ.अ.), 'हलश्च'३।३।१२१ ॥ इति करणे घञ् । वीणाया निबन्धनं येन चर्मणा क्रियते तन्नाम, 'खूटी' इति भाषा । प्रान्ते यत्र तन्त्र्यो निबध्यन्ते, तन्नाम वा ॥२९०॥
दण्डः पुनः प्रवाल: स्यात्
१ वीणायाँ दण्डः प्रवलति प्रवालः, पुंक्ली. । 'वल वल्ल संवरणे ( भ्वा.प.से.), 'ज्वलितिकसन्तेभ्यो णः' ३।१।१४० ॥, कर्मणि घञ् वा ('नालि' इति भाषा )।
ककुभस्तु प्रसेवकः ।
१ कं वातं स्कुभ्भाति ककुर्भ: । स्कुभे: सौत्रान्मूल विभुजादित्वात् कः, पृषोदरादित्वात् सलोपः । कक्यते वा ककुभैः।
५० 'कक लौल्ये'(भ्वा.आ.से.), 'ककेरुभ:'(हैमोणा-३३३)इत्युभः । "ककुभः प्रसेवक उक्त: '[ ]इति रत्नकोषः । २ ( प्रसीव्यत इति प्रसेवः, स्वार्थे के प्रसेवकः) । 'सेवं पेव मेवृ सेवने । (भ्वा.आ.से.), दन्त्यादिः, 'क्वुन् संज्ञायामपूर्वस्यापि '(उणा १९०) इति क्वुन् [वा] । यद्वा 'षिवु तन्तुसन्ताने'(दि.प.से.), 'अकर्तरि च कारके-'३।३।१९ ॥ इति घञन्तात संज्ञायां कन, 'हलश्च' ३।३।१२१ ॥ इति घबन्ताद्वा कन्प्रत्ययो द्रष्टव्यः । वीणाप्रान्ते ककुभप्रसेको वर्तेते इत्यन्वयः । वीणादण्डाध:स्थितं शब्द गाम्भीर्याय दारुमयं भाण्डं यच्चर्मणाऽऽच्छाद्यते, तन्नाम्नी द्वे । 'मोरणां' इति भाषा ॥
६० मूले वंशशलाका स्यात् कलिका कूणिकाऽपि च ॥२९॥
१. '-सदृशत्वात्' इति३ ।। २. --ऽस्त्यस्याः' इति ॥ ३. 'तुम्ब-' इति३.४॥ ४. १.२.४नास्ति ॥ ५. इतोऽग्रे २प्रतौ 'काण्डवीणायाः' इति दृश्यते ॥ ६. तुलनीयोऽमरकोषः १७७॥ ७. 'वीणादण्डः' इति१ ।। ८. '-संवरणे सञ्चरणे च' इति मा.धातुवृत्तिः, 'वल संवरणे' इति क्षीरतरङ्गिणी ॥ ९. कोष्ठान्तर्गतपाठ: १.३.४नास्ति ॥ १०. इतोऽग्रे रप्रतौ 'पुंक्लीः ' इति दृश्यते ॥ ११. १.३.४नास्ति ॥ १२. कोष्ठान्तर्गतपाठः १.३.४नास्ति ॥ १३. 'एव शेवृ षेवृ सेवृ केव खेव ग्लेवृ पेव प्लेव म्लेव सेवने' इति क्षीरतरङ्गिणी, 'षेवृ गेवृ ग्लेवृ प्लेव म्लेव सेचने' इति मा.धातुवृत्तिः ॥ १४. '-षेवृ-' इति४॥ १५. '-सेचने' इति२ ॥ १६. 'क्वुन् शिल्पिसंज्ञयोरपूर्वस्यापि' इत्युणादिगणसूत्रम् ॥ १७. 'मौरणा' इति१ ॥
वीणाया मूले या वंशशलाका सा कलयति तन्त्री कलिका । 'कल शब्दसंख्यानयोः (भ्वा.आ.से.) । "संज्ञायां क्वुन् [प्रत्ययः]''[मा.धातुवृत्तिः, भ्वादिः, धातुसं-३२५] इति माधवः । यद्वा 'कल संख्याने '(चु.उ.से.), णिजन्तः, कलयति कलिः । 'अच इ:'(उणा-५७८), ततो डीषि कली, स्वार्थे कन्, 'केण:'७।४।१३॥ इति हुस्वत्वे टापि कलिका। २ कूणयते तन्त्रों कूणिका । 'कूण शब्द '(चु.उ.से.), संज्ञायां क्वुन्, ‘प्रत्ययस्थात्-१७।३।४४॥ इतीत्वम् । 'खीली' इति भाषा ॥२९१॥
१० ततनामवाद्यभेदानुक्त्वा घननामवाद्यभेदानाह
कालस्य क्रियया मानं ताल:
१ क्रियया आवापनि क्रमनादिकया कालस्य निमेषा देर्मानं परिच्छेदकं प्रतिष्ठाहेतुस्तन्नामैकं तालः, चच्चपुटादिः।
यदाह
"चच्चपुटश्चाचपुटः पितापुत्रकस्तथा ।
उद्यतो वस्तुकश्चापि तालाः पञ्चविधाः स्मृताः॥१॥" []इति । अयं स्वर इयत्कालं गेयः, इयत्कालं विलम्बितः, इयत्कालं द्रुतम्, इयत्कालं मध्यमिति बोधयितुमीदृशैर्हस्तैरङ्गुल्या कुञ्चनप्रसारणादिक्रियाभिर्नर्तितव्यं गातव्यं चेति कालः क्रियायाः
२० प्रमाणमिति । तल्यते प्रतिष्ठीयतेऽनेनेति तालः। तल प्रतिष्ठा करणयोः'(चु.प.से.), चुरादिः, घञ् । हलायुधटीका तु-"कालो निमेषादिः, क्रिया आवापनिःक्रमाह्वयादिका, तयोर्माने परिच्छेदे तालः"[ ]इति भिनत्ति ॥
साम्यं पुनर्लयः ।
१ सामान्यतः साम्यं कालक्रिययोः समत्वं तस्यैकं लयः। लीयतेऽत्र लयः । 'लीथ्रेषणे'(दि.आ.अ.), एरच्' ३।३।५६॥ इत्यच् । गानगेययोरन्यूनाधिक्ये शृिष्टता लयः, स च द्रुतविलम्बित मध्यलक्षणः ॥
अथ विशेषेणाह
३० द्रुतं विलम्बितं मध्यमोघस्तत्त्वं घनं क्रमात्॥२९२॥
१ द्रवन्ति गच्छन्ति समुदायगतिप्रदर्शनार्थं करादयोऽत्रेति द्रुतम् । १ विलम्बन्ते करचरणादयः प्रत्येकं गतिविशेषप्रदर्शनाय अत्रेति विलम्बितम् । १ द्रुतविलम्बितयोर्मध्यभवत्वाद् मध्यम्। 'अ साम्प्रतिके'४।३।९॥ इति मध्यशब्दादकारप्रत्ययः । एषु यथाक्रममोघादित्रयम् । 'उच समवाये'(दि.प.से.), घञ्, पृषो दरदित्त्वाद् घत्वम्, तत्वम् । करचरणानां तननं तत् । 'तनु विस्तारे'(त.उ.से.), सम्पदादित्वाद् क्विप्, तद्योगाद् ‘अन्ये भ्योऽपि-'(वा-५।२।१०९॥)इति वः । घनः प्रागुक्तः-(शो २८६) । द्रुतादीनां लयानामोघाद्याः क्रमेण पर्यायाः क्रमाद् अनुक्रमेण ज्ञेयाः। तद्यथा-१ द्रुतलयस्य नाम ओघ: । २
४० विलम्बितलयस्य नाम तत्त्वम् । १ मध्यलयस्य नाम घनम् । भागुरिस्तु घनस्थानेऽनुगतमाह, यत्पाठः-"लम्बितद्रुतमध्यानि तत्त्वौघानुगतानि तु । अभिधानकृतामेष समयः"[१] । नाट्ये तु द्रुतादिलयानुसारेण क्रमादोघाद्या वाद्यप्रकाराः ॥२९२॥
घननामवाद्यभेदमुक्त्वा व्यत्ययेन आनद्धनामवाद्यमाह
मृदङ्गो मुरजः
१ मृद् अङ्गमस्य मृदङ्गः। मृदयत इति वा । 'मृद क्षोदे' (त्र्या.प.से.), 'त्रादिभ्यश्च'(उणा-)इत्यौणादिकोऽङ्गच्, बाहुल काद् गुणाभावः । २ मुरति मुर: चर्मपट्टिकावेष्टनम् । 'मुर वेष्टने' (तु.प.से.), 'इगुपध-'३।१।१३५॥ इति कः। मुरात् संवेष्टना-
५० ज्जातो मुरजः । ['पञ्चम्याम्-'३।२।९८॥ इति डः] ।मुळते बध्यत इति वा । 'मुर्व बन्धने '(भ्वा.प.से.), 'मुर्वेमुर्चेरजक् (हैमोणा १३२)इत्यजक् । सामान्येन द्वे मईलस्य ॥
अथ मृदङ्गभेदत्रयनामान्याह __
सोऽङ्क्यालिफ्यूर्ध्वक इति विधा ।
१ स इति मृदङ्गः, अङ्कोऽस्त्यस्याम् अङ्की, इनन्तः, उत्सङ्गस्थत्वात् । २ आलिङ्गोऽस्यास्ति आलिङ्गी, इनन्तः,
१. 'कल गतौ संख्याने च' इति क्षीरतरङ्गिण्यादौ ॥ २. 'सङ्कोचने' इति क्षीरतरङ्गिण्यादौ ॥ ३. 'विलम्बते' इति३॥ ४. 'तत्वोधा' इति१.२.४॥ ५.. द्र. स्वोपज्ञटीका २।२९२ ॥, पृ.६९॥ ६. 'तरत्यादिभ्यश्च'(उणा-११७)इत्युणादिगणसूत्रम्, वस्तुतस्तु विडादिभ्यः कित् (उणा-११८)इत्यनेनाऽङ्गच् युक्तः, तेन कित्त्वाद् गुणाभावः सुकरः ॥ ७. 'संवेष्टने' इति क्षीरतरङ्गिणी, 'परिवेष्टने' इति मा.धातुवृत्तिः ॥ ८. 'मुवी बन्धने' या क्षीरतरङ्गिण्यादौ॥ ९. ' 'मूर्वेर्मुर च' इति हैमोणादिगणसूत्रम् ॥
आलिङ्ग्य वादनात् । ३ ऊर्वीकृत्यैकेन मुखेन वादनाद् ऊर्ध्वं कायति ऊर्ध्वकः । अन्ये तु अङ्ग्यं यकारोपधमाहुः । तद्यथा
"सार्धतालत्रयायामचतुर्दशाङ्गलाननः ।
हरितक्याकृतिः स स्यादर्दयोङ्के स्थो हि वाद्यते ॥१॥" [ ] । आलिङ्ग्यमपि यकारोपधमूचुः । यथा
"चतुरङ्गलहीनोऽङ्क्यान्मुखे चैकाङ्गलेन यः ।
यवाकृतिःस आलिङ्ग्य आलिङ्ग्य स हि वाद्यते ॥२॥"[ ] |
"ऊर्ध्वको गोपुच्छवत् स त्रितालोऽष्टाङ्गुलो मुखे ।
धृत्वोचं वाद्यतेऽन्येषां वादनादूर्ध्वकम् ॥३॥"
१० [ ]इति शब्दार्णवः । अङ्के उत्सङ्गे साधुः अङ्क्यः । तत्र साधुः' ४।४।९८॥ इति यत् । वाद्यमान आलिङ्ग्यत इति आलिङ्ग्यः । आपवाल्लगेर्गत्यर्थात् कर्मणि ण्यत् । वादनार्थम् ऊर्धं (ऊर्धः सन्) कायति शब्दायते ऊर्धकः । ऊर्धशब्दोऽयम्, [अतो] निर्वकारः। तदुक्तं वर्णदेशनायाम्-"उजिहीते उद्गच्छतीति ऊर्धः। उत्पूर्वाद् आदेरुरोहतेः (ओहाङः) डप्रत्ययः उदुपसर्गस्य ऊरादेशे नैरुक्ते वकाररहित ऊर्धशब्दः । (यन्त्रपर्याय आश्रयपरे तन्त्रसमव कारोऽव्ययम्, वकारवांश्च)। तथा च भवभूति:-'ऊर्ध्वं धुनोति वायुः'[ ]इति । उपरि ध्वन्यत इति ऊर्ध्वम् । तन्त्रान्तरे ऊर्ध्व (ऊर्ध्वं)समानार्थ ऊर्ध्वशब्दोऽप्यनव्ययमदन्तोऽस्ति । ऊर्ध्वदेहे
२० भवमौर्ध्वदेहिकमिति अदन्तः, '-पूर्वपदाट्ठञ्'४।३।६०॥ इति जयादित्यः।
"कुर्वतीरुपलैस्तुङ्गैर्भुवनानीव मूर्ध्वजैः ।
तस्या वनालीरर्थेति चित्रनागजमूर्ध्वजैः ॥४॥"
[]इति कीचकवधे यमकाद् वकारवत्वमूवंशब्दस्येति ।
"हरीतक्याकृतिस्त्वङ्क्यो यवमध्यस्तथोर्ध्वकः ।
आलिङ्ग्यश्चैव गोपुच्छो मध्यदक्षिणवामगाः ॥५॥"
[*]इति नाट्ये चैते भेदाः ॥
स्याद् यशःपटहो ढक्का
१ यात्रादौ यशोऽर्थः पटहो यशःपटहः । २ __ ढगित्यव्यक्तं कायति वक्ति ढक्का । 'कै शब्दे'(भ्वा.प.अ.),
३० 'आतोऽनुपसर्गे कः'३।२३॥ । द्वे 'ढोल' इति ख्यातस्य॥
आनद्धनामवाद्यभेदमुक्त्वा शुषिरनामवाद्यभेदमाह
भेरी दुन्दुभिरानकः ॥२९३॥
पटहः
१ बिभेत्यस्याः शब्दादिति भेरी । 'बिभी भये' (जु.प.से.), ऋजेन्द्र-'(उणा-१८६)इति रक्, गौरादिः । भेरि स्तृतीयस्वरान्तोऽपि । "रवः प्रगल्भाहतभेरिसम्भवः, प्रकाशयामास समन्ततस्ततः"[ ]इति कुमारदासः। २ दाम्यति अन्यशब्दानिति दुन्दुभिः, पुंसि । “भेरी स्त्री दुन्दुभिः पुमान्"[अमरकोषः १६६॥] इत्यमरः। 'दमु उपशमे'(दि.प.से.), 'दर्मेंदुभिदु(१)म्
४० च'(हैमोणा-६८)इति साधुः । यद्वा दुन्दुशब्देन उभिः पूरणं यत्र स दुन्दुभिः। 'उभ उंभि(उन्भ) पूरणे'(तु.प.से.), औणादिक इ:, शकन्ध्वादिः।" 'दुन्द अव्यक्ते शब्दे' उभति औणादिकः"[ ] इति तु कौमुदी। "स्याद् भेाँ दुन्दुभिः पुंसि"[अमरकोषः ३।३।१३६ ॥] इत्यनेकार्थः । दुन्दुशब्देन भाति भाययति वा । दुन्दुं शब्दं भाषत इत्यन्ये । ३ आ अनिति अनेन वादितेन योद्धेति आनकः, पुंसि । “आनकोऽस्त्रियाम्''["]इति तु वाचस्पतिः। आयूर्वः ‘अन प्राणने '(अ.प.से.), 'कृञादिभ्यः संज्ञायां वुन्'(उणा-७१३), 'युवोरनाकौ ७।१।१॥, आ अनिति इति ण्वुल् वा ॥२९३॥ ४ पटच्छब्दं जहाति पटहः, पुंक्ली.। पृषोदरादि-
५० त्वात् तकारलोपः । पटन्ति हर्षं गच्छन्त्यत्रेति वा । 'पट गतौ' (भ्वा.प.से.), कृपृकटिकीकर्टि-(हैमोणा-५८९)इत्यहः प्रत्ययः। पटे हन्यत इति वा । चत्वारि भेर्याः । अपरे तु आद्ये द्वे भेर्या
नाम्नी, तत्रापि भिन्दन्ति भेरी' ढक्का कारा काहला मदनभेरी ___'बरघू' इति भाषा । दुन्दुभिस्तु भेर्याकारा सङ्कटमुखी
१. '-ङ्कस्थो' इति४॥ २. '-क्योन्मु-' इति४॥ ३. कोष्ठान्तर्गतपाठश्चलितस्तेन टीकासर्वस्वस्थोऽयम् “यस्तूपरिपर्याय आश्रयपरतन्त्रः, स मकारान्तोऽव्ययं वकारवांश्च" इति पाठो युक्तः, टीकासर्वस्वम्, भा-१, १७५ ॥, पृ.१३७॥ ४. द्र. टीकासर्वस्वम् , भा-१, १७।५॥, पृ.१३८ ॥, तत्र "कुर्वतीरुपलैस्तुङ्गैर्भुवनं नीचमूर्ध्वजैः । तस्याचलालीरन्वेति चित्रा नागचमूर्ध्वजैः ॥" इति दृश्यते ॥ ५. द्र. अमरकोशक्षीरस्वामिटीका १।६।६॥, पृ.४९॥ ६. द्र. अमरकोश १७६॥ ७. 'भेर्यानकदुन्दुभी' इति रामाश्रमीसम्मतः पाठः १७।६॥, पृ.९४ ॥ ८. 'दम-' इति१.२.४॥ ९. 'दुन्दुशब्दं' इति१ ॥ १०. द्र. स्वोपज्ञटीका २।२९३॥, पृ.६९॥ ११. '-कीकटि-' इत्यस्य स्थाने मुद्रितहैमोणादिगणेऽपि '-कीकटि-' इत्येव दृश्यते, तत्तु अशुद्धमेव, तत्स्थाने, अत्रापि च '-पटिमटि-' इत्येव योग्यम् ॥ १२. '-भेरि' इति २.३॥
नफेरीति भाषा । केचित्त्वग्रेतने द्वे दमामानाम्नी इत्याहुः। वाद्य विशेषाश्चात्र--
"अथ दर्दरे कलसीमुखः ।
सूत्रकोणो डमरुकं समौ पणवकङ्किणौ ॥१॥
शृङ्गवाद्ये शृङ्गमुखं हुडुक्कस्तालमर्दलः ।
काहला तु कुहाला स्याच्चण्डकोलाहला चसा ॥२॥
संवेशप्रतिबोधार्थं द्रगडद्रकटावुभौ ।
देवतार्चनतूर्ये तु धूमलो बलिरित्यपि ॥३॥
क्षुण्णकं मृतयात्रायां मङ्गलप्रियवादके ।
१० रणोद्यमे त्वर्धतूरो वाद्यभेदास्तथाऽपरे ॥४॥
डिण्डिमो झर्झरो मञ्चुस्तिमिला किरिकिच्चिका।
लुम्बिका दर्दरी वेध्या कलापूरादयोऽपि च ॥ ५॥"
[शेषनाममाला २।८४-८८ ॥] इति ॥
अथ शारिका स्यात् कोणो वीणादिवादनम् ।
१ शृणाति ताडयति वाद्यं शारिका । 'शू हिंसायाम्' (व्या.प.से.), ण्वुल्, 'युवोरनाकौ'७।१।१॥, टाप्, 'प्रत्ययस्थात् '७।३।४४ ॥ इतीत्वम् । २ कुणति शब्दायते वाद्यमनेन कोणः, पुंसि । 'कुण शब्दोपकरणयो: '(तु.प.से.), पचाद्यच् । “द्वयोस्तु
कोणो वीणादेर्वादनं शारिका च सा''[ ]इति शब्दार्णवे वाचस्पतिः ।
२० वीणादिर्वाद्यतेऽनेन वीणादिवादनम् । वर्णिजन्तात् करणे ल्युट। वादित्रवादनोपकरणस्य द्वे । पटहादिवादनोपकरणं दण्डः । वीणा दिवादिनी 'शिलाका' इति भाषा ॥
शारहास्यकरुणा रौद्रवीरभयानकाः ॥२९४॥
बीभत्साद्भुतशान्ताश्च रसाः
१ शृङ्गरसेषूत्तमत्त्वमियर्तिशृङ्गारः, पुंक्ली. ।'ऋगतौ' (जु.प.अ.), पचाद्यच्, 'सार्वधातुका-'७।३।८४ ।। इति गुणः । शृङ्गं काममाराति वा । 'राला दाने'(अ.प.अ), आतोऽनुसर्गे कः' ३।२।३ ।। । श्रयत्येनं जन इति वा । श्रिञ्सेवायाम्'(भ्वा.उ.से.), 'शृङ्गारभृङ्गारौ'(उणा-४१६)इत्यारनि साधुः । २ हासे साधुः हास्यः। 'तत्र साधुः' ४।४।९८ ॥ इति यत् । हास एव वा । सामाजिकानां
३० च वर्णागोचरतां गतो हास्यः, [यदाह-] "स्थाय्येवं तु रसो भवेत्''[ ] ।३ किरति विक्षिपति लोकचित्तानि करुणः । कृ विक्षेपे'(तु.प.से.), कृवृदारिभ्य उनन्'(उणा-३३३), टाप् । ४ रुद्रो देवताऽस्य रौद्रः । सास्य देवता'४।२।२४॥इत्यण् । यदुक्तम्
"शृङ्गारो विष्णुदेवः स्याद् वासः प्रथमदैवतः ।
करुणो यमदेवस्तु स्याद् रौद्रौ रुद्रदैवतः ॥१॥"
[ ]इति । ५ अजति गच्छति सत्त्ववृद्धिमनेनेति वीरः। 'अज गतौ क्षेपणे च'(भ्वा.प.से.), 'ऋजेन्द्र-'(उणा-१८६)इति रक् 'अजेय॑घञपो:'२।४।५६ ॥ इति वी आदेशः । वीरयन्ते विक्रा मन्ति जना अनेनेति वा । 'शर वीर विक्रान्तौ (च.आ.से.).
४० चुरादी, करणे घञ् । ६ बिभेत्यस्मादिति भयानकः । 'विभी भये'(जु.प.अ.), 'आनक: शीभियः '(उणा-३६२)इति सूत्रेण आनकप्रत्ययः ॥२९४॥ ७ बधेर्निन्दायां सन्, 'सन्यङोः' ६।१।९॥ इति द्वित्वम्, ['अ प्रत्ययात्'३।३।१०२ ॥ इत्यः, टाप् बीभत्सा] । बीभत्सा अस्त्यत्र बीभत्सः । अर्शआदित्वादच् । ८ 'अत्' इति आश्चर्यार्थेऽव्ययम् , तस्य भवनम् अद्भुतम्। 'अदि भुवो डुतन् '(उणा-६७९)इति डुतन् । ९ शाम्यते स्म शान्तः । ‘वा दान्तशान्तपूर्ण-'७।२।२७॥ इति निपातनात् साधुः । हास्यादयः शब्दाः पुंसि । गौडस्तु
"शृङ्गारवीरौ बीभत्सं रौद्रं हास्यं भयानकम् ।
५० करुणा चाद्भुतं शान्तं वात्सल्यं च रसा दश ॥२॥" ।
["]इति शृङ्गारवीरौ पुंस्युक्त्वा लिङ्गनिर्णयमाह । ग्रन्थान्तरेषु तु शृङ्गारादीनां लक्षणानि यथा-"प्रोज्ज्वलो धृतिहेतुर्भावः शृङ्गारः । सर्वाभिभाविता रौद्रः । यथा रावणचरितादिदानधर्म युद्धेषु । जीवानेकपक्षोत्साहकारी रसो वीरः । असम्भावि तमान्तरिक्षगमनादि[-जो विस्मयोऽद्भुतः । क्रुध्यद्राक्ष सादि-]भयजन्यो भयानक: । घृणाकरपूयवसादिजो बीभत्सः" । सामाजिकै रस्यन्ते चय॑न्ते रसाः, पुक्ली. । यदाह
"विभावैरनुभावैश्च मुक्तो वाच्यभिचारिभिः ।
आस्वाद्यत्वात्प्रधानत्वात्स्थाय्येवतुरसोभवेत् ॥३॥"[ ]इति।
६०
१. 'नपेरी-' इति२ ॥ २. 'कलशीमुखः' इति शेषनाममालास्वोपज्ञटीकयोः ॥ ३. '-झंकिणौ' इतिर, '-किङ्कणो' इति शेषनाममालास्वोपज्ञटीकयोः ॥ ४. '-मर्दकः' इति शेषनाममालास्वोपज्ञटीकयोः ॥ ५. 'माङ्गले प्रियवादिका' इति शेषनाममालास्वोपज्ञटीकयोः ॥ ६. 'मद्रु-' इति३, 'मड्ड - ' इति शेषनाममालास्वोपज्ञटीकयोः ॥ ७. द्र. रामाश्रमी १७ ॥६॥, पृ.९५ ॥ ८. 'वीणादि वाद्यते' इति१ ॥ ९. 'श्रयन्त्येनं' इति२ ॥ १०. 'स्थाय्यैव' इति१.२॥ ११. द्र. स्वोपज्ञटीका २।२९४ ॥, पृ.६९ ॥ १२. 'रौद्रौ' इति२.३, 'रौद्रे' इति४॥ १३. '-डुतच्' इत्युणादिगणे ॥ १४. द्र. स्वोपज्ञटीका २।२९५ ॥, पृ.७० ॥ १५. ३.४नास्ति ॥ १६. अम.क्षीरस्वामिटीका १।६।१७।।, पृ.५१॥, अमरकोषकृष्णमित्रटीका १७॥१७॥, पृ.८२ ॥
शृङ्गारादीनां शान्तान्तानामेकोक्त्या नामैकं रसाः इति ॥
भावाः पुनस्त्रिधा । स्थायिसात्त्विकसञ्चारिप्रभेदैः
१ भावयन्ति कुर्वन्ति रसानिति भावाः । स्वकारणाद् भवन्तीति वा । भावयन्ति व्याप्नुवन्ति सामाजिकमनांसीति वा। "मनोविकारो रत्यादिर्भावः''[ ] इति बृहस्पतिः । यदुक्तं भरतेन
"नानाभिनयसम्बन्धाद् भावयन्ति रसानिमान् ।
यस्मात्तस्मादमी भावा विज्ञेया नाट्ययोक्तृभिः ॥१॥" []इति । पुनः भावास्त्रिधा त्रिप्रकाराः । १ सामाजिकानां
१० वासनारूपेण तिष्ठन्ति स्थायिनः । ‘ष्ठा गतिनिवृत्तौ'(भ्वा. प.अ.), 'नन्दिग्रहिपचादिभ्यः-'३।१।१३४॥ इति णिनिः, 'आतो युक् चिण्कृतोः' ७।३।३३॥ इति युक्। २ सीदत्यस्मिन् मन इति सत्त्वम्, गुणोत्कर्षात् साधुत्वाच्च प्राणात्मकं वस्तु सत्त्वम्, तत्रं भवाः सात्त्विकाः । ३ सञ्चरन्ति न सततमवतिष्ठन्त इति सञ्चारिणः, व्यभिचारिणः, ते च ते प्रभेदाश्च स्थायिसात्त्विक प्रभेदाः, तैः स्थायिसात्त्विकसञ्चारिप्रभेदैः । स्थाय्यादीनां त्रयाणां साधारण्येनैकं 'भावाः' इति ॥
नवभेदम्, प्रथमं स्थायिनं भावं निरूपयति
स्याद् रतिः पुनः ॥२९५॥
२० रागोऽनुरागोऽनुरतिः
१ रमणं रतिः, परस्परास्थाबन्धः । 'रमु क्रीडायाम्' (भ्वा.आ.अ.), 'स्त्रियां क्तिन्'३।३।९४॥, 'अनुदात्तोपदेश-' ६।४।३७॥ इति म्लोपः ॥२९५॥२ रञ्जनं रागः । रज्यतेऽनेनेति वा। रञ्ज रागे'(दि.उ.अ.), भावे करणे वा घन्, 'घजि च भाव करणयोः '६।४।२७॥ इति न्लोपः, 'चजो:- '७।३।५२ ॥ इति कुत्वम्, 'अत उपधायाः '७।२।११६ ।।। ३ एवमनुरञ्जनम्
अनुरागः । ४ अनुरमणम् अनुरतिः । चत्वारि रागस्य ॥
हासस्तु हसनं हसः ।
घर्घरो हासिका हास्यम्
१ हसनं हास: । हस(हसे) हसने'(भ्वा.प.से.), भावे
३० __ घञ् । [२ हस्यते हसनम् । 'हसे हसने'(भ्वा.प.से.), ल्युट्] । ३ हसनं हसः । 'हस(हसे) हसने (भ्वा.प.से.), 'स्वनर्ह (ह) सोर्वा'३ ३ ६२ ॥ इत्यच्(-प्) । ४ घर्घरहेतुत्वाद् घर्धरः, सघोषा अव्यक्तवाक् । ५ हसनं हासिका। धात्वर्थनिर्देशे ण्वुल् वक्तव्यः' (वा-३।३।१०८॥इति ण्वुल् । ६ हसनीयं हास्यम् । 'ऋहलोर्ण्यत्' ३।१।१२४॥ । षट् सामान्येन हासस्य ॥
अथ हास्यभेदानाह
तत्रादृष्टदे स्मितम् ॥२९६॥ वक्रोष्ठिका
१ तत्रेति हासे अदृष्टरदे, न दृष्टा रदा दन्ता यत्र स
४० अदृष्टरदः, तत्र ।
"ईषद्विकसितैर्दन्तैः कटाक्षैः सौष्ठवान्वितः ।
अलक्षितद्विजद्वारमुत्तमानां स्मितं भवेत् ॥१॥"[] इति। स्मिङ् ईषद्धसने'(भ्वा.आ.अ.), क्त: [स्मितम्]॥२९६॥२ वक्र ओष्ठोऽस्यां वक्रोष्ठी, स्वार्थे के वक्रोष्ठिका, स्त्रीक्ली. । यद्गौड:-"स्मिते वक्रोष्ठिका नंना''[ ] द्वे ।अदृष्टदन्तहासस्य।
अथ हसितं किञ्चिद् दृष्टरदाङ्करे ।
१ हस्यते स्म हसितम्, किञ्चिदृष्टा रदा दन्ता __ एवाङ्करा यस्मिन् सः, तस्मिन् । एकं किञ्चिदृष्टदन्तहासस्य॥
किञ्चिच्छ्रुते विहसितम्
५० १ सशब्दत्वात् किञ्चित् श्रुते हासे विहसितम् । यद्भरत:
"आकुञ्चिताक्षिगण्डं यत् सस्वनं मधुरं तथा ।।
कालागतं साऽऽस्यरागं तद्वै विहसितं भवेत् ॥१॥"
[] | पुन:
"आकुञ्चितकपोलाक्षं सस्वनं नि:स्वनं तथा ।
प्रस्तावोत्थं सानुरागमाहुर्विहसितं बुधाः ॥२॥"
[]इति । एकं सशब्दनिरन्तरहासस्य ॥
१. द्र. अम.क्षीरस्वामिटीका १६ ॥२२॥, पृ.५२ ।। २. 'ततो' इति३ ॥ ३. 'हास्यस्य' इति१ ॥ ४. 'अदृष्टि-' इति४ ॥ ५. द्र. रामाश्रमी १७।३४ ॥, पृ.१०९ ।।, टीकासर्वस्वे 'ईषद्विकसितैर्गण्डैः कटाक्षैः सौष्ठवान्वितैः । अलक्षितद्विजं धीरमुत्तमानां स्मितं भवेत् ॥" भा-१, १७।३४॥, पृ.१६२ ॥ ६. पुमान्नेत्यर्थः ॥ ७. 'हास्यस्य' इति२ ।। ८. द्र. स्वोपज्ञटीका २।२९७ ।।, पृ.७० ॥, टीकासर्वस्वम्, भा-१, १७।३५ ॥, पृ.१६३ ॥ ९. द्र. रामाश्रमी १७।३५ ।।, पृ.१०९ ।।
अट्टहासो महीयसि ॥२९७॥
१ अट्टेति हसनम् अट्टहासः, महाशब्दत्वाट् महीयसि अतिवृद्धे हास्ये । 'खडखडहासे' इति भाषा ॥२९७॥ अतिहासस्त्वनुस्यूते
१ अनुस्यूतेऽनवच्छिन्नहासे, अतिशयेन हसनम् अतिहासः। भावे घञ् । एकं प्रचुरहासस्य ॥
अपहासोऽकारणात् कृते ।
१ अकारणात् कारणमन्तरेण कृते हासे, अपकृष्टं हसनम् अपहासः ॥
१० सोत्प्रासे त्वाच्छुरितकम्
१ ऊर्ध्वं प्रकर्षेणाऽसनं गमनमुत्प्रासः आधिक्यम् । 'अस गतिदीप्त्यादानेषु'(भ्वा.उ.से.), भावे घञ् । ततः सव्रितः (सहितः) सोत्प्रासः, अधिको महान् हासः । यद्वा उत्प्रास्यते सामर्षोऽन्यः क्रियतेऽनेन उत्प्रास उपहासः, सह उत्प्रासेन वर्तते यः स सोत्प्रासः, तस्मिन्, । आच्छुरणम् आच्छुरितकम् । 'छुर छेदने'(तु.प.से), भावे क्तः, 'आर्धधातुकस्य-'७।२।३५॥ इतीट्, ततः स्वार्थे कः, आ समन्तादनवच्छिन्नमित्यर्थः, द्वितीय स्वरादिरयम् । एकं मस्करीसहितहासस्य ।।
हसनं स्फुरदोष्ठके ॥२९८॥
२० १ स्फुरन् चलन् ओष्ठो यस्मिन् स्फुरदोष्ठके । हस्यत इति हसनम् । हस हसने'( ), ल्युट् । एकं होठफुरकण हासस्य ॥२९८॥
शोकः शुक् शोचनं खेदः
१ शोचनं शोकः । 'शुच शोके '(भ्वा.प.से.), भावे घञ्, 'चजोः-७।३।५२॥ इति कुत्वम् । २ शोचनं शुक् । सम्पदादित्वात् क्विप्, चान्तोऽयम्, स्त्रीलिङ्गः । ३ शुच्यते शोचनम् । ल्युट् । ४ खेदनं खेदः । 'खिद दैन्ये'(दि.आ.अ.), भावे घञ् । चत्वारि शोकस्य ॥
क्रोधो मन्युः क्रुधा रुषा ।
३० कुत् कोपः प्रतिघो रोषः रुट च
१ क्रोधनं क्रोधः । 'क्रुध कोपे'(दि.प.अ.), भावे घञ् । "तीक्ष्ण प्रबोधः क्रोधः"[ ]इति लक्षणम् । २ मन्यते विपरीतलक्षणया मन्युः, पुंसि । 'मन ज्ञाने'(दि.आ.अ.), 'यु(य)जिमनिशुन्धिजनिभ्यो युच'(उणा-३००)इति युच्, बाहुलकान अनादेशः । ३ क्रोधनं कुधा । भिदादित्वाद, टाप। ४ रोषणं रुषा । 'रुष रोषे'(दि.प.से.), भिदादित्वाद, [टाप्] । "कोपो भामः क्रुधा रुषा"[]इति शब्दार्णवः। ५ क्रोधनं क्रुत्, स्त्रीलिङ्गः। 'क्रुध कोपे'(दि.प.अ.), सम्पदा दित्वात् क्विप् । क्रुधौ, क्रुधः इत्यादि । ६ कोपनं कोपः। 'कुप कोपे'(दि.प.से.), भावे घञ् । ७ प्रतिहन्यत इति
४० प्रतिघः । 'हन्(हन) हिंसागत्योः'(अ.प.अ.), बाहुलकात् 'परौ घः'३३८४॥ इत्यप्, घत्वं च । "प्रतिहन्ति, 'अन्य त्रापि-'(वा-३२४८॥) डे प्रतिघः, न्यङ्क्वादिः"[ ]इति तु कौमुदी । ८ रोषणं रोषः । भावे घञ् । ९ रोषणं रुट्। 'रुष रोषे'(दि.प.से.), सम्पदादिः, स्त्रीलिङ्गः । रुषौ, रुषः
इत्यादि । नव क्रोधस्य ॥
उत्साहः प्रगल्भता ॥२९९॥ अभियोगोद्यमौ प्रौढिरुद्योगः कियदेतिका । अध्यवसाय ऊर्जः
१ उत्सहनम् उत्साहः । षह मर्षणे'(भ्वा.आ.से.),
५० भावे घञ्। स्थेयान् संरम्भ उत्साहः । २ प्रगल्भस्य भावः प्रगल्भता ॥२९९॥ ३ अभियोजनम् अभियोगः । 'युजिर् योगे'(रु.उ.अ.), भावे घञ् । ४ उद्यमनम् उद्यमः, पुंक्ली.। 'यम नियमने '(भ्वा.प.से.), घजि 'उद्यमोपरमौ'(हैमसू ४।३।५७॥) इति साधुः। ५ प्रवहणं प्रौढिः। प्रपूर्वाद् 'वह प्रापणे '(भ्वा.उ.अ.), अस्मात् स्त्रियां क्तिनि 'ग्रहिज्या-' ६।११६॥ इति सम्प्रसारणे 'प्रादूहोढौ(ढो)ढये-(वा-६।१।८९॥) इति वृद्धिः । ६ उद्योजनम् उद्योगः। ७ कियद् एतदित्य भिप्रायोऽस्यां कियदेतिका । मयूरव्यंसकादित्वात् साधुः। ८ अध्यवसीयते अध्यवसायः । षोऽन्तकर्मणि'(दि.प.अ.), भावे
६० घञ्, 'आदेच :- '६।१।४५ ॥ इत्यात्वम्, 'आतो युक् चिण्कृतोः ७।३।३३।। ९ ऊर्जनम् ऊर्जः । 'ऊर्ज बलप्राण नयोः'(चु.उ.से.), भावे घञ्। नव सामान्येन उद्यमस्य॥
अथ वीर्यं सोऽतिशयान्वितः ॥३०॥
१ स उत्साहः सातिशयः प्रकृष्टशक्तिभाग् वीर्यम् उच्यते । वीरे साधु वीर्यम् । 'तत्र साधुः'४।४।९८ ॥ इति यत् । वीर्यते विक्रम्यत इति वा । 'वीर विक्रान्तौ' (चु.आ.अ.), बाहुलकाद् भावे यः । “वीरस्य कर्म"[ ] इत्यन्ये । “अतिशयशक्तिर्वीर्या"[ ]इत्यमरमालायां स्त्रीत्वम् । एकमतिशयिताध्यवसायस्य ॥३००॥
७०
१. 'खडखड' इति३ ।। २. '-हास्ये' इति४॥ ३. 'अच्छुरणम्' इति१॥ ४. 'लक्षणे' इति२॥ ५. 'भीमः' इति३.४॥ ६. द्र. रामाश्रमी १७२६॥, पृ.१०४॥ तत्र "क्रोधो भामः क्रुधा रुषा" इति दृश्यते ॥ ७. '-नियमे' इति३, क्षीरतरङ्गिण्यादौ नियमनार्थकयमधातुर्न दृश्यते ॥ ८. 'उच्यन्ते' इति२॥ ९. रामाश्रमी १७।२९ ॥, पृ.१०५॥
भयं भी तिरातङ्क आशङ्का साध्वंसं दरः। भिया च
. १ भीतिः भयम् । 'विभी भये'(जु.प.अ.),"अज्विधौ भयादीनामुपसंख्यानम्' नपुंसके क्तादिनिवृत्त्यर्थम्'( )इति क्तल्युटौ बाधित्वा अज् भवति । पारायणे तु वासरूपेण क्तोऽपि दर्शितः, तदसत्, क्तल्युट्तुम(मु)न्खलर्थेषु वासरूपविधेः प्रतिषेधात्''[मा. धातुवृत्तिः, जुहोत्यादिः, धातुसं-२]इति माधवः । २ भीतिः भी:, स्त्रीलिङ्गः । सम्पदादित्वात् क्विप्। ३ भीतिः, 'स्त्रियां क्तिन्'
३।३।९४॥ । ४ आतङ्कनम् आतङ्कः । 'तकि कृच्छ्रजीवने'
१० (भ्वा.प.से.), भावे घब् । ५ आशङ्कनम् आशङ्का । 'शकि शङ्का याम्'(भ्वा.आ.से.), भिदादित्वादङ्, टाप् । ६ साधून् अस्यति साध्वसम् । असु क्षेपणे'(दि.प.से.), पचाद्यच्। ७ दरणं दरः, पुंक्ली. । 'दृ भये '(भ्वा.प.से.), ऋदोरप्'३।३।५७॥ १८ भिया। भिदादित्वादङ्, 'अचि श्नुधातु-'६।४७७ ॥ इतीयङ्, टाप् । अष्टौ सामान्येन भयस्य ॥
अथ भयविशेषानाह
तच्चाहिभयं भूपतीनां स्वपक्षजम् ॥३०॥
१ तच्छब्दस्य पूर्वपरामर्शित्वात् तदिति भयम्, भूपतीनां राज्ञाम्, स्वपक्षाद् राजपुत्रादेर्जातं स्वपक्षजम् अहिभयम् इत्यु
२० च्यते । अहेरिव गृहस्थिताद् भयम् अहिभयम् इत्येकं नाम,
'ग्रासियार्नु भय' इति भाषा ॥३०१॥
अदृष्टं वह्नितोयादेः
१ वह्नितोयाभ्याम्,आदिशब्दाद्अशनिपिशाचादेर्यद्रयम्, तद् अदृष्टम् इति प्रोच्यते ॥
दृष्टं स्वपरचक्रजम् ।
१ स्वदेशचौराटव्यादिभयं परदेशाद् दाहविलोपादिभयम्, तयो मैकं दृष्टम् इति ॥
भयङ्करं प्रतिभयं भीमं भीष्मं भयानकम् ॥३०॥ भीषणं भैरवं घोर दारुणं च भयावहम् ।
३० १ भयं करोति भयङ्करम् । 'मेघर्तिभयेषु कृषः'३।२। ४३॥ इति खच् । २ प्रतिगतं भयेन प्रतिभयम् । प्रादि समासः । ३ बिभेत्यस्माद् भीमम् । ४ बिभेत्यस्मादिति भीष्मम्। 'बिभी भये'(जु.प.अ.), उभयत्र 'भियः षुग्वा'(उणा-१४५)इति मक्षुको। "तथा 'भीमादयोऽपादाने'३।४।७४॥ इति भीमभीष्मो साधू"[ ]इति सर्वधरः । ५ बिभेत्यस्माद् भयानकम्। 'आनकः शिभियः'(उणा-३६२)इत्यानकः ॥३०२॥ ६ भीषयति भीषणम्। 'जिभी भये'(जु.प.अ.), अस्माण्णिजन्ताद् नन्द्यादित्वाद् ल्युः । ७ भीरोरिदम् त्रासकृदिति भैरवम् । तस्ये दम्'४।३।१२०॥ इत्यण् । ८ घुरत्यस्माद् घोरम् । 'घुर भीमार्य (र्थ)शब्दयोः'(तु.प.से.), पचाद्यच् । हन्ति वा घोरम् । 'हन्ते-
४० घुर्च'(उणा-७४२)इति अच्। “हन्तेपुरजादेशश्च"[ ]इति तु कौमुदी । ९ दारयति चित्तमिति दारुणम् । 'द विदारणे' (त्र्या.प.से.), कृवृत॒दारिभ्य उनन्'(उणा-३३३)इत्युनन् । १० भयमावहति भयावहम् । 'वह प्रापणे'(भ्वा.उ.अ.), पचाद्यच् । दश भयङ्करस्य । "भयङ्करे तु डमरमाभीलं भासुरम्''[शेष नाममाला २४९॥]शैषिकाणि ॥
जुगुप्सा तु घृणा
१ जुगुप्सनं जुगुप्सा, चित्तसङ्कोचः । 'गुप्(गुप) कुत्सर्ने '(भ्वा.आ.से.) गप्तिज्किद्भयः सन्'३।१।५॥, 'सन्यङोः' ६१९॥ इति द्वित्वम्, 'अ प्रत्ययात्'३।३।१०२॥ इति अप्रत्ययः
५० तदन्तश्च, स्त्रियां [टाप्] । २ जिघर्ति क्षरति मनोऽनया घृणा। 'घृ क्षरणदीप्त्योः (जु.प.अ.), [बाहुलकानक्] । द्वे चित्त
सङ्कोचस्य ॥
अथ स्याद् विस्मयश्चित्रमद्भुतम् ॥३०३॥ चौद्यार्थर्ये
१ विस्मयनं विस्मयः । विपूर्वः 'स्मिङ् ईषद्धसने' (भ्वा.आ.अ.), अद्भुतार्थः, दन्त्यमध्यः, 'सात्पदाद्यो:'८।३।१११॥ इति षत्वप्रतिषेधः । २ चीयत इति चित्रम्। 'चिञ् चयने' (स्वा.उ.अ.), 'अमिचिमिदिशासिभ्यस्वन् '(उणा-६०३)इति बन्। चित्रयति चित्रमिति वा । चित्रिधातोः पचाद्यच् । ३ अदित्या-
६० श्चर्यार्थेऽव्ययम्, तस्य भवनम् अद्भुतम्। 'अदि भुवो डुतन् ' (उणा-६७९)॥३०३॥४.चोद्यत इति चोद्यम् । 'चुद प्रेरणे' (चु.उ.से.), 'ऋहलोर्ण्यत्'३।१।१२४॥ । ५ आचरणीयम्
१. अजेव' इति मा.धातुवृत्तिः, पृ.३८५ ॥ २. जिभी-' इति१ ॥ ३. '-यानो भय' इति४॥ ४. '-विलाप-' इति१.२ ।। ५. 'हन्तेरच् घुर् च' इत्युणादिगणसूत्रम्॥ ६. ३नास्ति ॥ ७. -वृदारि-' इत्युणादिगणे ॥ ८. 'भयङ्करे तु' इति१.२.४नास्ति ॥ ९. -साऽथ' इति१ ॥ १०. 'गोपने' इति क्षीरतरङ्गिण्यादौ ॥ ११. 'षत्वं प्रति-' इति१.४॥ १२. '-शसिभ्यः कत्रः' इत्युणादिगणे ॥ १३. '-डुतच्' इत्युणादिगणे॥ १४. 'सञ्चोदनम्' इति क्षीरतरङ्गिण्यादौ ॥
आश्चर्यम् । 'चर गतौ'(भ्वा.आ.से.), '[आश्चर्यम्] अनित्ये' ६।१।१४७॥ इति साधुः । एते पञ्चापि चेतोविस्तारपर्यायाः। पञ्च आश्चर्यस्य, 'तमासा' इति भाषा ॥ "फुल्लकं मोहो वीक्ष" [शेषनाममाला २।८९॥]शैषिकाणि॥
शमः शान्तिः शमथोपशमावपि । तृष्णाक्षयः
१ शमनं शमः । 'शर्मु उपशमे'(दि.प.से.), भावे घन्, 'नोदात्तोपदेशस्य-'७३३४॥ इति वृद्धिनिषेधः । २ शमनं
शान्तिः । 'शमु उपशमे '(दि.प.से.), 'स्त्रियां क्तिन्'३।३।
१० ९४॥, 'अनुनासिकस्य क्विझलो:-'६।४।१५॥ इति दीर्घः, 'तितुत्र-'७।२।९॥ इतीनिषेधः, 'नश्चापदान्तस्य-'८।३।२४॥ इत्यनुस्वारः, [ अनुस्वारस्य-'८४५८॥ इति परसवर्णः] । ३ शमनं शमथः । बाहुलकादथच् । ४ उपशमनम् उपशमः। घजि 'नोदात्तोपदेश-'७।३।३४॥ इति न वृद्धिः । ६ तृष्णायाः गर्धस्य क्षयः तृष्णाक्षयः। शान्तः पञ्च ॥
अथ स्थायिभावानामुपसंहारमाह
स्थायिनोऽमी रसानां कारणं क्रमात् ॥३०४॥
अमी रत्यादयः शान्तिपर्यन्ताः रसानां शृङ्गारादीनां नवानां क्रमादनुक्रमेण कारणं कारणभूता इत्यर्थः ॥३०४॥
२० __ अथाष्टविधं सात्त्विकभावं प्रकटयति
स्तम्भो जाड्यम्
१ स्तम्भनं स्तम्भः । स्तम्भु रोधने'(सौत्रः व्या.प.से.), भावे घञ् । २ जडस्य भावो जाड्यम् । गुणवचनब्राह्मणादिभ्यः कर्मणि च'५।१।१२४ ॥ इति ष्य। द्वे विष्टब्धत्वस्य ॥
स्वेदो घर्मनिदाघौ
१ स्वेदनं स्वेदः । 'जिष्विदो गात्रप्रक्षरणे'(दि.प. से.), भावे घञ् । २ घरति सिञ्चत्यङ्गं धर्मः । 'घृ सेचने' (भ्वा.प.अ.), 'धर्मः'(उणा-१४६)इत्युणादिसूत्रेण निपातः । ३ निदह्यतेऽनेनाङ्गमिति निदाघः । 'दह भस्मीकरणे'(भ्वा.प.अ.), घञि, 'संज्ञायां मघमेघानिदाघावदाघो- '(गणसू-७।३।५३॥) ३० इति साधुः । निदध्यतेऽनेनेति वा। 'दघ घातने पालने च' (स्वा.प.से.), करणे घञ् । त्रीणि प्रस्वेदस्य ॥
पुलकः पुनः ।
रोमाञ्चः कण्टको रोमविकारो रोमहर्षणम् ॥३०५॥
रोमोद्गम उर्दूषणमुल्लुकसनमित्यपि ।
१ पोलति महद् भवत्यङ्गमनेन पुलकः, पुंक्ली. । 'पुल महत्त्वे'(भ्वा.प.से.), संज्ञायां क्वुन् । २ रोम्णामञ्चनं रोमाञ्चः। 'अञ्च गतिपूजनयोः'(भ्वा.प.से.), भावे घञ्। "न क्वादे :'७।३।५९॥ इति योगविभागान कुत्वम्"["]इति भाषावृत्तिः। ३ कण्टतीति कण्टकः, पुंक्ली. । 'कटिं गतौ'
४० (भ्वा.प.से.), संज्ञायां, क्वुन् । कण्टकतुल्यत्वाद् वा । ४ . रोमाणि विक्रियन्तेऽनेन रोमविकारः । 'डुकृञ् करणे' (त.उ.अ.), करणे घञ् । ५ रोमाणि हृष्यन्त्यनेन रोमहर्षणम्। 'हर्ष हर्षे'(भ्वा.प.से.), 'करणाधिकरणयोश्च'३।३।११७॥ इति करणे ल्युट् ॥३०५॥ ६ रोमाणि उद्गच्छ्न्त्य नेन रोमोद्गमः । घञ् । ७ उद्धृषति उच्छ्वसित्यङ्गमनेन उद्भुषणम् । 'धुर्षे कान्तिकरणे'(चु.उ.से.), करणे ल्युट् । ८ उल्लुकसति उच्छ्वसित्यनेनाङ्गमिति उल्लुकसनम् । 'उद्धृष उल्लुक[स] उच्छ्वसने ' वाक्यकरणीयावेतौ, आद्यस्तुदादौ कुटादिः, कुटा दित्वादेवोपधाया लघोः ['गाङ्कयादिभ्योऽणिन्डित्' १२।१॥]इति
५० गुणाभावः । उल्लुकसनमित्यत्र संयुक्तवर्णपरत्वादुकारस्य दीर्घत्वान्न गुणः । एतौ पञ्चमस्वरादी करणार्थल्युडन्तौ । अष्ट रोमाञ्चस्य ॥
स्वरभेदस्तु कल्लत्वं स्वरे
१ स्वरस्य भेदः स्वरभेदः स्वरोपघातनामैकम्, 'गल गर्नु, स्वरभङ्ग' इत्यादिभाषा, स्वरे स्वरविषये कल्लत्वम् अव्यक्तत्वम् । यदाह पथ्यापथ्यकार:-"स्वरभेदः स्वररुजा स्वरघातः स्वरक्षयः स्वरोपघातः"[ ]इत्यादि ॥
१. 'वीक्ष्यं' इति४, तथा शेषनाममालास्वोपज्ञटीकयोः ॥ २. 'शम' इति३.४॥ ३. 'क्षयं' इति१॥ ४. 'ष्यन्' इति३.४॥ ५. क्षीरतरङ्गिण्यादौ जिरहितः पाठः ॥ ६. 'संज्ञायां मेघनिदाघावदाघार्घाः' इति गणसूत्रम् ॥ ७. 'पालने च' इति क्षीरतरङ्गिण्यां नास्ति ॥ ८. 'उल्लकसन-' इत्याचार्याः प स्वोपज्ञटीकाऽपि तमाश्रित्यैव कृता ॥ ९. 'न्यवादेः' इति३.४॥ १०. भाषावृत्तौ " 'न' इति योगविभागान्नेह-रोमाञ्चः, शोच्यम्" इति दृश्यते, भाषावृत्तिः ७।३।५९॥, पृ.३४५॥ ११. इ ई वा प्रशिष्टः स्यात् तर्हि 'कटी' इति, अत्र मा. धातुवृत्तिरवलोकनीया, पृ.१११ ॥ १२. 'विक्रियतेऽनेनेति' इति१ ॥ १३. 'हषु अलीके' इति क्षीरतरङ्गिण्यादौ, "अलीकमानन्द इति काशकृत्स्नधातुव्याख्यानम् (पृष्ठ.४५)" इति क्षीरतरङ्गिणीटिप्पणी, पृ.१०२॥, टि-२॥ १४. क्षीरतरङ्गिण्यादौ 'धूष' इति षष्ठस्वरवान् धातुदृश्यते ॥ १५. हेमचन्द्राचार्यकृतधातुपारायणतृतीयपरिशिष्टे धातुपारायणे ये लोकिका : वाक्यकरणीया आगमिकाश्च धातवो न सङ्ग्रहीतास्ते ग्रन्थान्तरेभ्य उद्धृत्य सम्पादकेन स्थापितास्तत्र "५ उद्धषत् ६ उल्लकसत् उच्छ्वसने । उद्धृषति उच्छ्वसति । [रोमोद्गम उद्धषणमुल्लकसनमित्यपि अ.चि. २२२०] ॥" इति दृश्यते पृ.३६४॥ १६. "उल्लक-' इति१.२.४॥ १७. '-गलूं' इति४॥
कम्पस्तु वेपथुः ॥३०६॥
१ कम्पनं कम्पः । कपि चलने'(भ्वा.आ.से.), भावे घञ्। २ वेपनं वेपथुः । 'टुवेप कम्पने '(भ्वा.आ.से.), 'ट्वितोऽथुच्'३।३८९ ॥, पुंसि । द्वे कम्पस्य ॥३०६॥
वैवर्यं कालिका
१ विरुद्धो वर्णो विवर्णः, विवर्णस्य भावो वैवर्ण्यम् । २ कालस्य भावः कालिका | चौरादित्वाद् वुन् । कालयतीति वा । 'काले वर्णे'(चु.उ.से.), ण्वुल् । द्वे विरुद्धवर्णस्य । वर्णविपर्यय वर्णपालटु इति भाषा ॥
१० __ अथाश्रु बाष्पो नेत्राम्बु रोदनम् । अस्त्रमनुः
१ अश्नुते व्याप्नोति कण्ठमिति अश्रु, क्लीबे । 'अशू व्याप्तौ'(स्वा.आ.वे.), अश्वादयश्च'(उणा-७०७) निपात्या इति साधु । २ बाधते नेत्रमिति बाष्यः, पुंक्ली.। 'बाधृ लोडने' (भ्वा.आ.से.), 'खष्पशिल्पशष्पबाष्परूपतर्पतल्पा:'(उणा ३०८)इति साधु । ३ नेत्रस्याम्बु नेत्राम्बु । ४ रुद्यते रोदनम्। 'रुदिर् अश्रुविमोचने'(अ.प.से.), ल्युट च'३।३।११५ ।। इति ल्युट् । ५ अस्यते अस्त्रम् । असु क्षेपणे'(दि.प.से.), बाहुलकाद् रक् । ६ अस्यते अस्त्रु, क्लीबे, दन्त्यसः । 'असु क्षेपणे'
२० (दि.प.से.), 'अश्वादयश्च'(उणा-७०७)इति साधु । षट् अश्रुणः "लात:(लोत:)"[शेषनाममाला २१८९॥]इति शैषिकम् ॥
प्रलयस्त्वचेष्टता
१ प्रलीयते क्रिया अत्र प्रलयः। 'लीङ् विलयने' (दि.आ.अ.), अधिकरणे घञ् । २ अचेष्टता गतचेतनत्वम्। यदाहु:-"स्तम्भे विचेतनत्वम्, प्रलये गतचेतनत्वम्, अत एव सहसैव निपतनं भुवि भवति, महाभूतशैथिल्यात्''[]। द्वे मूर्छायाः ॥
अथोपसंहरति
इत्यष्ट सात्त्विकाः ॥३०७॥
३० इत्येते पूर्वोक्ता अष्टौ सात्त्विकाः । यदुक्तम्
"स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभेदोऽथ वेपथः ।
वैवर्ण्यमथुप्रलयावित्यष्टौ सात्त्विका गुणाः ॥१॥" []इति ॥
धृतिः सन्तोषः स्वास्थ्यं स्यात्
१ धरणं धृतिः। 'धृञ् धारणे'(भ्वा.उ.अ.), 'स्त्रियां क्तिन्'३।३१४॥ १२ सन्तोषणं सन्तोषः । 'तुष तुष्टौ' (दि.प.अ.), भावे घञ् । ३ स्वस्थस्य भावः स्वास्थ्यम् । त्रीणि सन्तोषस्य ॥
आध्यानं स्मरणं स्मृतिः ।
१ आध्यायते आध्यानम् । 'ध्यै चिन्तायाम्'(भ्वा.प. अ.), ल्युट च'३।३।११५॥ इति ल्युट् । २ स्मर्यते स्मरणम्।
४० 'स्मृ चिन्तायाम्'(भ्वा.प.अ.), ल्युट् । ३ स्मरणं स्मृतिः। 'स्त्रियां क्तिन्'३।३९४॥ । "आध्यानमुत्कण्ठायामपि"[ ]इत्येके । तथा च काशिकायाम्-"आध्यानमुत्कण्ठापूर्वकं स्मरणम्"["] । त्रीणि पूर्वानुभूतचिन्तनस्य ॥
मंतिर्मनीषा बुद्धि/र्धिर्षणाप्तिचेतनाः ॥३०८॥
प्रतिभाप्रतिपत्प्रज्ञाप्रेक्षाचिदुपलब्धयः
संवित्तिः शेमुषी दृष्टिः
१ मन्यतेऽनया मतिः, अर्थनिश्चयः । 'मन ज्ञाने' (दि.आ.अ.), 'स्त्रियां क्तिन्'३।३।९४॥, 'अनुदात्तोपदेशवनति तनोत्यादीनामनुनासिकलोपो झलि क्ङिति'६।४।३७॥ इत्यनु-
५० नासिकलोपः । २ 'ईष गतिहिंसादाने '(भ्वा.आ.से.), 'गुरोश्च' ३।३।१०३॥ इत्यप्रत्ययः । मनसे ईषा मनीषा । 'शकन्ध्वादिषु सिद्ध्यनुगुणं पररूपं वाच्यम्, तच्च क्वचिट्टेः, क्वचिदकारस्य' []इति उक्तेरत्र टेः । ३ बुध्यतेऽनया बुद्धिः । 'बुध अवगमने' (दि.आ.अ.), 'स्त्रियां क्तिन्'३।३।१४।। ४ ध्यायति धीः । 'ध्यै चिन्तायाम्'(भ्वा.प.अ.), 'ध्यायतेः सम्प्रसारणं च'(वा ३।२।१७८ ॥)इति क्विप्, सम्प्रसारणम् । ५ धृष्णुवन्ति प्रगल्भ न्तेऽनया धिषणा। 'जिधृषा प्रागल्भ्ये' (स्वा.प.से.), 'धृषेर्धिष, संज्ञायाम्'(उणा-२४०)इति युच् । प्रगल्भा समर्था रक्षितुं जगद्धर्षप्रदानेनेत्यर्थः । यद्वा स्कन्दस्वामिना पठिताद्
६०
१. धातुप्रदीपे 'वेल कालोपदेशे' इत्यत्र "काल इत्यपि धातुरित्येके" इति (चुरादिः, पृ.१५९, धातुसं-२६२) तथा मा. धातुवृत्तौ " 'काल इत्यपि धातुः' इति मैत्रेयः" इति च दृश्यते (मा.धातुवृत्तिः, पृ.५७०, धातुसं-२६७) ॥ २. '-वचनस्य' इति२॥ ३. '-लढूं' इति४, '-लटवौ' इति३॥ ४. क्षीरतरङ्गिण्यादौ ङकारानुबन्धो न दृश्यते ॥ ५. '-पर्पतल्पाः' इत्युणादिगणे ॥ ६. 'आस्राद-' इति१.२ ।। ७. 'लीज्' इति२.३.४ ॥, 'लीङ् श्रेषणे' इति क्षीरतरङ्गिण्यादौ ॥ ८. द्र. स्वोपज्ञटीका २।३०७॥, पृ.७२ ॥, तथा अम.क्षीरस्वामिटीका १६३४॥, पृ.५६।। ९. द्र. टीकासर्वस्वम्, भा-१, १।७।१६॥, पृ.१४५ ॥, रामाश्रमी १७।१६॥, पृ.९९ ॥ १०. अम.क्षीरस्वामिटीका १।६।३०॥, पृ.५४॥ ११. '-हिंसादर्शनेषु' इति क्षीरतरङ्गिण्यादौ ॥ १२. 'मनस्' इति१.२.३॥ १३. 'धृषेर्धिष्-' इत्युणादिगणसूत्रम् ॥
'धिषि धारणे' इत्यस्मात् क्युः । यद्वा धारयत्यर्थमिति धी: बुद्धिः, धारयति कर्तारं प्रदानेनेति धीकर्म, सनोति संभजत इति सनोतेः पचाद्यचि पृषोदरादित्वाद् ह्रस्वत्वे धिषणा, णकारान्त त्वान्मूर्धन्यमध्या, अन्यथा षत्वाभावाद् धिसना । “धिष शब्दे (जु.प.से.)"[अम.क्षीर. १४।१॥]इति तु स्वामी । ६ ज्ञपनं ज्ञप्तिः । 'ज्ञपेर्मिच'(चु.प.से.)इति गौरादित्वात् क्तिन्, 'तितुत्र-'७।२।९॥ इतीनिषेधः, 'मितां हुस्वः'६।४।९२॥ । ६ चेतनं चेतना । 'चिती संज्ञाने'(भ्वा.प.से.), ल्युट्, युच् वा ॥३०८॥ ७ प्रतिभानं प्रतिभा । 'भा दीप्तौ'(अ.प.अ.),
१० 'आतश्चोपसर्गे'३।३।१०६॥ इत्यङ् । ८ प्रतिपत्तिः प्रतिपत् । प्रतिपूर्वः ‘पद गतौ'(दि.आ.अ.), सम्पदादित्वात् क्विप् । ९ प्रज्ञानं प्रज्ञा । 'ज्ञा अवबोधने'(त्र्या.प.अ.), 'आतश्चोपसर्गे' ३।३।१०६॥ इत्यङ् । १० प्रकर्षण ईक्ष्यते ज्ञायतेऽनया प्रेक्षा। 'ईक्ष दर्शनाङ्कनयोः (भ्वा.आ.से.), 'आतश्चोपसर्गे'३।३।१०६॥ इत्यङ् । ११ चेतनं चित्, स्त्रियाम् । 'चिती संज्ञाने'(भ्वा. प.से.) सम्पदादित्वात् क्विप। १२ उपलम्भनम् उपलब्धिः । 'डुलभष् प्राप्तौ'(भ्वा.आ.अ.), 'स्त्रियां क्तिन् '३।३।९४॥, 'झषस्तथो:-'८।२।४० ॥ इति धत्वम् । १३ संवेदनं संवित्तिः। 'विद ज्ञाने'(अ.प.से.), 'स्त्रियां क्तिन्'३।३।९४॥ । संवेदन
२० मपि, विदाऽपि । "प्रज्ञा श्रद्धा धरा ज्ञप्तिः पण्डा संवेदनं विदा"[ ]इति शब्दार्णवः। १४ शेत इति शेः मोहः संशयो वा, तं मुष्णाति । 'मुष स्तेये'(त्र्या.प.से.), मूलविभुजादित्वात् के, गौरादित्वाद् ङीषि शेमुषी, तालव्यादिमूर्धन्यान्ता । "शमेः क्वसौ एत्वाभ्यासलोपे शेमुषी"[ ]इति तु कौमुदी । १५ दर्शनं दृष्टिः । 'दृशिर् प्रेक्षणे'(भ्वा.प.अ.), 'स्त्रियां क्तिन्' ३।३।९४॥ । सामान्येन षोडश बुद्धेः ॥
अथ बुद्धिविशेषनामान्याह
सा मेधा धारणक्षमा ॥३०९॥
१ सा मतिर्धारणसमर्था मेधा इत्युच्यते । मेधते
३० सङ्गच्छतेऽस्यां सर्वमिति मेधा । 'मेधृ सङ्गमे'(भ्वा.उ.से.), भिदादित्वादङ्, 'गुरोश्च-'३।३।१०३॥ इत्यकारो वा । 'मिह मेहे मेधाहिंसनयोः' (भ्वा.उ.से.), "भिदादिसूत्रे मेधाशब्दं व्युत्पा दयन् न्यासकारो धान्तावाहँ"[माधवीयधातुवृत्तिः, भ्वादिः, धातुसं-६००]इति माधवः । अन्ये तु
"मतिरागामिकी ज्ञेया बुद्धिस्तत्कालदर्शिनी ।
प्रज्ञा चातीतकालज्ञा मेधा कालत्रयात्मिका ॥१॥" __
[ ]इति भेदं वदन्ति ॥
पण्डा तत्त्वानुगा
१ तत्त्वानुगामिनी मतिः पण्डा उच्यते । पण्यते स्तूयते पण्डा। ‘पण व्यवहारे स्तुतौ च'(भ्वा.व्य.आ.,स्तु. पर.
४० से.), 'जमन्तात् डः' (उणा-१११) ॥
मोक्षे ज्ञानम्
१ मोक्षविषये मोक्षफला वा मतिः ज्ञानम् । मोक्षे इति निमत्तसप्तमी वा, मोक्षनिमित्तमित्यर्थः॥
विज्ञानमन्यतः ।
१ मोक्षशास्त्रादन्यत्र शास्त्रे शिल्पे च चित्रादौ मतिः विज्ञानम् उच्यते । विरूपं ज्ञानं विज्ञानम् । एकं शिल्पशास्त्रं ग्राहिण्या मतेः ॥
शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा॥३१०॥
ऊहोऽपोहोऽर्थविज्ञानं तत्त्वज्ञानं च धीगुणाः ।
५० १ श्रोतुमिच्छा शुश्रूषा । श्रु श्रवणे' (भ्वा.प.अ.), धातोः कर्मणः समानकर्तृकादिच्छायां वा'३।१।७॥ इति सन्, 'सन्यङोः' ६।१८॥ इति द्वित्वम् । २ श्रूयते श्रवणम्, ल्युट्। ३ गृह्यते ग्रहणम् । ग्रह उपादाने'(त्र्या.उ.से.), ल्युट् । ४ धार्यते धारणम्, अविस्मरणम् । धारेणिजन्ताल्ल्युट् ॥३१०॥५ ऊहनम् ऊहः, युक्तिगम्यस्तर्कः । 'ऊह वितर्के'(भ्वा.आ.से.), भावे घञ् । ६ अपोहनम् अपोहः, असत्पक्षनिराकरणम् । अपपूर्व ऊह वितर्के' (भ्वा. आ.से.), भावे घञ् । ७ अर्थस्य यथावस्थिततया विज्ञानम् अर्थविज्ञानम् । ८ तत्त्वस्येहेतरभिन्नत्वस्य ज्ञानं तत्त्वज्ञानम्। धियो गुणाः धीगुणाः । बुद्धिगुणा अष्ट ॥
६० व्रीडा लज्जा मन्दाक्षं हीस्त्रपा
१ वीडनं व्रीडा, पुंस्त्री, चित्तसङ्कोचः । 'व्रीड चोदने' (दि.प.से.), चोदनं लज्जा, 'गुरोश्च-'३।३।१०३॥ इत्यकारः। व्रीड इति पचाद्यचि अदन्तोऽपि । "व्रीडजात्यमभजन्मधुपासा'"[ ]इति
माघः। २ लज्जनं लज्जा । 'ओलस्जी वीडने '(तु.प.से.), ___ 'गुरोश्च-'३।३।१०३॥ इत्यकारः, 'झलां जश् झसि (झशि)'
१. 'ज्ञप मिच्च' इति मा.धातुवृत्तिः, 'ज्ञप मारणतोषणनिशामनेषु मिच्च' इति स्वामी ॥ २. 'चिति-' इति३॥ ३. '-दर्शने' इति क्षीरतरङ्गिण्यादौ ॥ ४. द्र. रामाश्रमी ११५।१॥, पृ.७१।। ५. 'शेर्मोहः' इति३ ।। ६. 'मिध मेध-' इति३॥ ७. 'धोन्ता-' इति१॥ ८. १.२.४नास्ति ॥ ९. '-शास्त्रे ग्राहि-' इति१ ।। १०: असत्यनिराकरणम्' इति१ ॥ ११. 'तत्त्वस्य हेतुरभि-' इति४॥
८।४।५३॥ इति दत्वम्, 'स्तोः श्चुना थुः'८।४।४०॥ । ३ मन्दमक्षं यत्र मन्दाक्षम्, स्वोत्थलज्जावशाद्धि चक्षुरञ्चनमिति । "शूका मन्दाक्षम्"[*] इत्येके । ४ हीयते हीः । 'ही लजायाम्'(जु. प.अ.), सम्पदादित्वात् क्विप्, स्त्रीलिङ्गः । ५ त्रप्यते त्रपा । 'त्रपूष् लजायाम्'(भ्वा.आ.से.), 'षिद्भिदादिभ्योऽङ्'३।३। १०४॥ । पञ्च लज्जायाः ॥
साऽपत्रपाऽन्यतः ॥३१॥
१ सा लज्जाऽन्यतः परस्माद् यदि स्यात् तदा अपनपा । अपत्रप्यतेऽपत्रपा । "हीर्लज्जाऽपत्रपा व्रीडा"[]
१० इति रत्नकोषाद् हीमात्रेऽप्यत्रपा प्रोक्ता। एकं पित्रादिपुरतो
जातलज्जायाः ॥३११॥
जाड्यं मौख्यंम्
१ जडस्य भावः कर्म वा जाड्यम् । २ मूर्खस्य भावः कर्म वा मौख्यम् । उभयत्र 'गुणवचनब्राह्मणादिभ्यः- '६।१।१२४॥ इति ष्यन् । द्वे मूर्खत्वस्य ॥
विषादोऽवसादः साँदो विषण्णता ।
१ विषदनं विषादः । २ अवसदनम् अवसादः। ३ सदनं सादः । विष्वपि 'षद्लुविशरणगत्यवसादनेषु'(भ्वा.प.अ.),
भावे घन् । ४ विषण्णस्य भावो विषण्णता । चत्वारि विषादस्य॥
२० मंदो मुन्मोहसम्भेदः
१ मुन्मोहयोः आनन्दसम्मोहयोः सम्भेदः सङ्गमो मदः, मत्ततेत्यर्थः । माद्यति मदः । 'मदी हर्षे '(दि.प.से.), 'मदोऽनुपसर्गे'३।३।६७॥ इत्यप् । " 'व्यधि जपोरनुपसर्गे' ३३६१॥ इत्यत्रैव मदिग्रहणकर्त्तव्ये पृथक्सूत्रारम्भकरणाद् 'माद' इत्यपि घनि"[न्यासः ३।३।६७॥ इति न्यासः ॥
व्याधिस्त्वाधी रुजाकरः ॥३१२॥
१ रुजां रोगं करोति रुजाकरः, एतादृशो य आधि मन:-पीडा, सा व्याधिः उच्यते । व्याधीयत इति व्याधिः ।
- व्यापर्वः 'डुधाञ् धारणादौ '(जु.उ.अ.), 'उपसर्गे घोः किः' । ३।३।९२॥ । एवमाधिः, पुंसि । यदमर:-"पुंस्याधिः"
३० [अमरकोषः १।७।२८॥]इति ॥३१२॥
निद्रा प्रमीला शयनं संवेशस्वापसंलयाः ।
नन्दीमुखी श्वांसहेतिस्तन्द्रा
१ नियतं द्रान्तीन्द्रियाण्यस्यां निद्रा । निपूर्वः 'द्रा कुत्सायां गतौ'(अ.प.अ.), 'आतश्चोपसर्गे'३।३।१०६॥ इत्यङ्। २ प्रमीलन्तीन्द्रियाण्यस्यां प्रमीला। 'मील निमीलने'(भ्वा.प.से.), 'गुरोश्च-'३।३।१०३॥ इत्यकारः। ३ शय्यते शयनम् । 'शीङ् स्वप्ने'(अ.आ.से.), ल्युट् । ४ संवेशनं संवेशः । संपूर्वो 'विश् (विश) प्रवेशने '(तु.प.अ.), निद्रार्थः, भावे घञ् । ५ स्वपनं स्वापः । 'जिष्वप् शये'(अ.प.अ.), भावे घञ् । ६
४० संलीयन्ते इन्द्रियाण्यत्र संलयः। 'लीचें विलयने'(दि.आ.अ.), 'एरच्'३।३।५६॥ । ७ नन्दीव मुखमस्यां नन्दीमुखी, गौरादिः। ८ श्वासा हेतयोऽस्यां श्वासहेतिः। एतौ स्वप्नवाचकावित्यन्ये । ९ तन्द्रयते तन्द्रा । 'तन्द्रि सादमोहनयो:'( ), सौत्रः, 'घबर्थे कविधानम् '(वा-३।३।५८॥)इति कः । इन्द्रियाणां तननं द्रात्यस्यां वा । तन्द्रिधातोः सौत्रान्मूर्छार्थात् 'तन्त्रेविदिती' इतीनौ ('तन्द्रेरिदीतौ' इति) हुस्वकारप्रत्यये तन्द्रिः, ततो वा ङीषि । "विभज्य नक्तन्दिवमस्ततन्द्रिणा"[किरातार्जुनीयम् १।९॥]इति भारविः । दीर्घकारप्रत्यये तन्द्रीः, लक्ष्मीवत् । "यामेकतस्तव बिभर्ति गुरुर्वितन्द्रे:[रघुवंशम् ५६६॥]इति रघुः । 'स्पृहि-
५० गृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आलुच्'३।३।१५८॥इति पाणिनि निर्देशाद्वा तन्द्रा शब्दः । एवं तन्द्रिः तन्द्री तन्द्रीः तन्द्रा' इति रूपचतुष्कम् । नव सामान्येन निद्रायाः । “तामसी''[शेषनाम माला २।९०॥इति शैषिकम् ॥
सुप्तं तु साऽधिका ॥३१३॥
१ सा निद्रा अधिका साऽतिशया सुप्तं प्रोच्यते । स्वपन सुप्तम् । 'जिष्वप् शये'(अ.प.अ.), क्तः, सम्प्र सारणम् । "सुष्वापः सुखसुप्तिका"[शेषनाममाला २।९०॥] इति शैषिके । 'अघोर निद्रा' इति भाषा ॥३१३॥
१. द्र. स्वोपज्ञटीका २।३११॥, पृ.७३ ॥ २. द्र. रामाश्रमी १७।२३ ॥, पृ.१०३॥ ३. 'विषन्नता' इति१॥ ४. '-विशरणादौ' इति१.२.३ ।। ५. 'निषण्णस्य भावो निषण्णता' इति१॥ ६. 'विषन्नता' इति४॥ ७. न्यासे "उन्माद इति । अत्रापि 'कुगतिप्रादयः' इति 'व्यधजपोरनुसर्गे' इत्यत्रैव मदिग्रहणे कर्त्तव्ये 'मदोऽनुपसर्गे' इति सूत्रप्रणयनमस्य विधेरनित्यत्वज्ञापनार्थम्, तेन माद इति सिद्धं भवति ॥" इति दृश्यते, भा-३, ३३६७॥, पृ.५५ ॥, दिवादौ 'मदी हर्षे' इत्यत्र मा.धातुवृत्तिरपि द्रष्टव्या, पृ.४३६ ॥ ८. 'रुजा' इति४॥ ९. 'लीङ्' इति३, क्षीरतरङ्गिण्यादौ श्रेषणार्थो न दृश्यते॥ १०. '-मस्तु-' इति४॥ ११. '-तन्द्रीः' इति१.२.४॥ रघुवंशकाव्ये मुख्यपाठे 'तामेक-' इति तथा 'विनिद्र-' इति दृश्यते, तत्रैव पाठान्तरे क्रमेण 'याम्' 'वितन्द्रः' इति दृश्यते । एवं '-तन्द्रीः ' इत्यस्याभाव एव ॥ १२. 'सुपनम्' इति१॥
औत्सुक्यं रणरणकोत्कण्ठे आयल्लकारती ।
हल्लेखोत्कलिके च
१ उत्सुकस्य भावः औत्सुक्यम् । 'गुणवचन-' ५।१।१२४॥ इति ष्यञ् । २ अतिशयेन चित्तं रणत्यत्रेति रणरणकः । 'अण रण वण भणेत्यादयः शब्दार्थाः'(भ्वा. प.से.), 'घबर्थे कविधानम् '(वा-३।३।५८॥)इति कः, 'कृञादीनां के द्वे भवत:'( )इति द्विवचनम्, संज्ञायां कन्, पृषोदरादित्वाद् हलादिशेषाभावोऽभ्यासाकारश्च । ३ उत्कण्ठनम् उत्कण्ठा । 'कठि शेषे'(भ्वा.आ.से.), उत्पूर्वाद् 'गुरोश्च-'
१० ३।३।१०३॥ इत्यकारप्रत्ययः । उत्कण्ठ इत्यकारान्तोऽपि । ४ आयत आगच्छतो लकति आस्वादयति आयल्लकम् । 'लक आस्वादने (चु.उ.से.), पचाद्यच्। ५ इयर्ति सुखमस्यां अरतिः स्त्रियाम् । 'ऋ गतौ'(जु.प.अ.), 'वहिवस्यतिभ्यश्चित्'(उणा ५००)इति सूत्रेण अतिप्रत्ययः । न रतिररति वा । ६ हृदयं लिखति हल्लेखः । 'लिख अक्षरविन्यासे'(तु.प.से.), कर्मण्यण, 'हृदयस्य हृत् लेखयदण्लासेषु'६।३।५०॥ इति हृदादेशः । 'लेख' इत्यणन्तस्य ग्रहणाद् घजन्ते लेखशब्दे उत्तरपदे 'हृदयलेख' इति भवति। ७ उत्कलनम् उत्कलिका । संज्ञायां वुन् । सप्त औत्सुक्यस्य । 'ऊतावलि' इति भाषा ॥
२० अथाबहित्थाऽऽकारगोपनम् ॥३१४॥
१ न बहिःस्थं चित्तमस्याम् अबहित्था, स्त्रीक्ली. । यत् क्षीरस्वामी-"अबहित्था स्त्रीक्लीबयोः"[] । अव(ब) हीयते गोप्यते आकारोऽत्रेति वा, पृषोदरादिः । आकारस्य भूविकारमुखरागादेर्गोपनम् आच्छादनम् आकारगोपनम् , तस्यै कम् । “[आकारगृहने च] आवकुटिकाऽवकुटारिका गृहजालिका''[ शेषनाममाला २।९० ॥] शैषिकाणि ॥३१४॥
शङ्काऽनिष्टोत्प्रेक्षणं स्यात्
१ अनिष्टस्योत्प्रेक्षणं शङ्कनं सम्भावनमिति यावत् __ शङ्का ॥
३० . चापलं त्वनवस्थितिः ।
१ चपलस्य भावः कर्म वा चापल्यालम् । ['हायनान्तयुवादिभ्योऽण्'५।१।१३०॥ इत्यण्] । २ अनवस्थानम्
अनवस्थितिः । ष्ठा गतिनिवृत्तौ'(भ्वा.प.अ.) 'स्त्रियां क्तिन्' ३।३।९४॥ ‘द्यतिस्यतिमास्थाम्- '७।४।४० ॥ इतीत्वम् । द्वे चपलत्वस्य ॥
आलस्यं तन्द्रा कौसीद्यम्
१ लसतीति लसः । 'लस श्रेषणक्रीडनयोः' (भ्वा. प.से.), पचाद्यच् । न लसोऽलसः, अलसस्य भाव आल स्यम् । 'न नपूर्वात् तत्पुरुषादचतुरसङ्गतलवणवड(ट)युध कतरसलसेभ्यः'५।१।१२१॥ इति नपूर्वात् तत्पुरुषादचतुरसङ्ग-
४० तलवणाद्युत्तरपदे भावप्रत्यया न भवन्तीति निषेधश्चतुरादिपर्युदा सादिह नेति ष्य भवति । २ तन्द्रणं तन्द्रा । 'तन्द्रिः साद मोहनयो:'( ), सौत्रः, भावे घञ् । ३ कुसीदस्य अलसस्य भावः कौसीद्यम् । त्रीणि आलस्यस्यं ॥
हर्षश्चित्तप्रसन्नता ॥३१५॥ ह्लादः प्रमोदः प्रमदो मुंत्प्रीत्यामोद॑सम्मंदाः।
आनन्दानन्दथू
१ हर्षणं हर्षः । 'हषु तुष्टौ'(भ्वा.दि.वा,प.से.), भावे घञ् । “हरिषोऽपि"[ ]इति शब्दप्रभेदः । २ चित्तस्य मनसः प्रसन्नता प्रसादः चित्तप्रसन्नता ॥३१५॥३ ह्लादनं हादः ।
५० 'ह्लादी हर्षे (भ्वा.आ.से.), घञ् । ४ प्रमोदनं प्रमोदः । ___ 'मुद हर्षे (भ्वा.आ.से.), भावे घञ् । ५ प्रमदनं प्रमदः। 'मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु'(भ्वा.आ.से.), 'प्रमद सम्मदौ हर्षे '३।३।६८॥ इति निपातितौ । ६ मोदनं मुद् (मुत्) । 'मुद हर्षे '(भ्वा.आ.से.), सम्पदादित्वात् स्त्रियां क्विप् । ७ प्रीयते मनोऽस्यां प्रीतिः । 'प्रीङ् प्रीतौ'(दि. आ.अ.), 'स्त्रियां क्तिन्'३।३।९४॥ । ८ आमोदनम् आमोदः । 'मुद हर्षे'(भ्वा.आ.से.), भावे घञ् । ९ सम्मदनं सम्मदः । १० आनन्दनम् आनन्दः । 'टुणदि(टुनदि) समृद्धौ'(भ्वा. प.से.), भावे घब् । ११ आनन्दनम् आनन्दथुः । 'टुणदि
६० (टुनदि) समृद्धौ'(भ्वा.प.से.), 'ट्वितोऽथुच्'३।३८९॥ इत्य थुच्, पुंस्ययम् । एकादश हर्षस्य ॥
गर्वस्त्वहङ्कारोऽवलिप्तता ॥३१६॥
१. इतोऽग्रे २प्रतौ 'हलादित्वाद्' इति दृश्यते ॥ २. 'कण्ठ विशेषे' इति१॥, 'कण्ठि-' इति२.३॥ ३. 'इत्यणान्त-' इति३॥ ४. अम. क्षीरस्वामिटीकायां न दृश्यते ॥ ५. 'अवकटिका' इति शेषनाममालास्वोपज्ञटीकयोः ॥, 'आवकुठिका' इति४॥ ६. 'चापल्यम्' इति३.४॥ ७. "युवादेरण'(हैमसू ७।१।६७॥)इत्यण इति स्वोपज्ञवृत्तौ" इति ४प्रतौ टिप्पणी ॥ ८. 'कौशी-' इति१.४॥ ९. इतोऽग्रे सर्वादशेषु 'न' इति दृश्यते, स त्वनावश्यकः, अन्यथाऽनिष्टरूपापत्तिः, अपरञ्चात्र माधवीयधातुवृत्तिस्तुलनीया, भ्वादिः, धातसं-४५८, पृ.१७८ ॥ १०. 'आलसस्य' इति३॥ ११. 'हृष-' इति४, यदि उदिदेव तदा 'अलीके' इत्यर्थो योग्यः, यदि च 'तुष्टौ' इत्येवार्थ: स्यात् तर्हि 'हष' इति धातुर्युक्तः ॥ १२. 'ह्लादी सुखे च' इति क्षीरतरङ्गिण्यादौ॥ १३. 'मद-' इति१.२.३॥
दर्पोऽभिमानो ममता मानश्चित्तोन्नतिः स्मयः ।
१ गर्वणं गर्वः । कर्व खर्व गर्व दर्प'(भ्वा.प.से.), भावे घञ् । गिरतीव परमिति वा गर्वः । गृ निगरणे'(तु.प.से.), 'कृगृशृभ्यो वः'(उणा-१५३)इति वः, पुंस्यम्। वैजयन्तीकारस्तु "अभिमानस्त्वहङ्कारो गर्वोऽस्त्रीं"[वैजन्तीकोशः ३।६।१६९॥] इत्याह। २ करणं कारः, अहं प्रधानः कारः अहङ्कारः । ३ अवलिप्तस्य भावः अवलिप्तता ॥३१५॥ । ४ दर्पणं दर्पः। 'हप हर्षणमोचनयों:'(दि.प.अ.), 'दर्प गर्वे'( )अस्माद्वा भावे घञ् । ५ अभि सर्वतः मानः अभिमानः । ६ ममेत्यस्य
१० भावो ममता ।७ मत्समो अन्यो नास्तीति मननं मानः, पुंक्ली.। ८ चित्तस्य उन्नत्तिः चित्तोन्नतिः । ९ स्मयनं स्मयः । 'स्मिङ् ईषद्धसने'(भ्वा.आ.अ.), ‘एरच्'३।३।५६॥ । नव गर्वस्य ॥
स मिथोऽहमहमिका
१ स गर्वो मिथः परस्परमहं शक्तोऽहं शक्त इत्यस्याम् अहमहमिको । मयूरव्यंसकादित्वात् साधुः । अहमिति मान्त मव्ययमहङ्काराऽर्थे ॥
या तु सम्भावनाऽऽत्मनि ॥३१७॥ दर्पात् साऽऽहोपुरुषिका स्यात्
___ १ दर्पाद् गर्वाद् या आत्मनि स्वविषये सम्भावना,
२० तस्या एकम् आहोपुरुषिका । अहो अहं पुरुष इत्यस्याम् आहोपुरुषिका, द्वितीयस्वरादिः ॥३१७॥
अहंपूर्विका पुनः । अहं पूर्व अहं पूर्वमिति
१ अहं पूर्व इत्यस्याम् अहंपूर्विका । स्वार्थे कन्। एवमहंप्रथमिका, अहमग्रिका च । 'हुं पहिलु' इति भाषा॥
उग्रत्वं तु चण्डता ॥३१८॥
१ उग्रस्य भाव उग्रत्वम् । २ चण्डस्य भावः चण्डता। द्वे उग्रत्वस्य । 'आकरापणउं' इति भाषा ॥३१८॥
प्रबोधस्तु विनिंद्रत्वम्
१ प्रबोधनं प्रबोधः । 'बुध बोधने'(भ्वा.प.से.), भावे
३० घञ् । २ विनिद्रस्य भावो विनिद्रत्वम् । द्वे प्रबोधस्य। 'जागवापणउं' इति भाषा ॥
ग्लानिस्तु बलहीनता ।
१ ग्लानं ग्लानिः । 'ग्लै हर्षक्षये'(भ्वा.प.अ.), 'म्लाग्लाज्याहात्वरिभ्यो निः' (वा-३।३।९४ ॥), स्त्रीलिङ्गः। बलहीनस्य भावो बलहीनता बलापचयः । एकं बलहीनतायाः॥
दैन्यं कार्पण्यम्
१ दीनस्य भावो दैन्यम् । 'गुणवचन-'५।१।१२४॥ इति ष्यञ्। एवं कृपणस्य भावः कार्पण्यम् । द्वे कृपणत्वस्य॥
. श्रमस्तु क्लमः क्लेशः परिश्रमः ॥३१९॥
४० प्रयांसायांसव्यायामाः
१ श्रमणं श्रमः । श्रम तपर्सि खेदे च'(दि.प.से.), भावे घञ्, 'नोदात्तोपदेशस्य- ७।३।३४॥ इति न वृद्धिः । २ क्लमनं क्लमः । 'क्लमु ग्लानौ'(दि.प.से.), भावे घञ् । ३ क्लेशनं क्लेशः । "क्लिविबाधने'(त्र्या.प.वे.), भावे घञ्। ४ परिश्रमणं परिश्रमः । श्रमु तपसिं खेदे च'(दि.प.से.), भावे घञ् ॥३१९॥ ५ प्रयसनं प्रयासः । 'यसु प्रयत्ने'(दि.प.से.), भावे घञ् ।६ एवमायसनम् आयासः। 'यसु प्रयले'(दि.प.से.), घञ् । ७ व्यायमनं व्यायामः । 'यमु(यम) उपरमे'(भ्वा.प.अ.), घञ् । सप्त श्रमस्य ॥
.
५० उन्मादश्चित्तविप्लवः ।
१ उन्मदनम् उन्मादः । 'मद(मदि) स्तुत्यादौ । (भ्वा.आ.से.), भावे घञ् । २ चित्तस्य विप्लुतिः चित्त विप्लवः । 'प्लुङ् गतौ'(भ्वा.आ.अ.), 'ऋदोरप्'३।३।५७॥। द्वे वातभूतादिदोषात् चित्तानवस्थिते ॥
मोहो मौढ्यम्
१ मोहनं मोहः । 'मुह वैचित्ये'(दि.प.से), भावे __ घज । २ मढस्य भावो मौढ्यम । मोहो नाम मा ।
१. मा. धातुवृत्तिसम्मतोऽयं पाठः, 'गर्व खर्व दर्पे' इति क्षीरतरङ्गिणी ॥ २. द्र. स्वोपज्ञटीका २।३१५॥, पृ.७४ ॥, वैजयन्तीकोशे तु "-अभिमानोऽहङ्कारो गर्वः स्त्री-" इति दृश्यते, पृ.७० ॥ ३. धातुप्रदीपसम्मतोऽयं धातुपाठः, 'दृप हर्षणमोहनयोः' इप्ति क्षीरतरङ्गिण्यादौ ॥ ४. क्षीरतरङ्गिण्यादावयं धातुर्न दृश्यते ॥ ५. "अहमहमिका तु सा स्यात् यत् क्रियते स्पर्धनादिकं (स्पर्धयाधिक) किचित्" [हलायुधकोशः ४१७८४॥]इति परस्परं गर्वकरणाख्यम्" इति २प्रतेः टिप्पणी॥ ६. 'विषये' इति१॥ ७. "गर्वादात्मसम्भावना १ 'खा हुं मांटी' इति भाषा 'यत्र वृथाभिनिवेशस्तामाहोपुरि(रु)षिकां विदुः प्राज्ञाः' [हलायुधकोशः ४।७८४॥] इति हलायुधः, यत्सौन्दर्यलहरी-"पुरस्तादास्तां नः पुरमथितुराहोपुरि(रु)षिका" इति २प्रतेः टिप्पणी ॥ ८. इतोऽग्रे रप्रतौ 'हुं मांटी इति भाषा' इति दृश्यते ॥ ९. इतोऽग्रे ४प्रतौ 'अहं पूर्वः' इति दृश्यते ॥ १०. 'पहिलउ' इति३, 'पिहिलं' इतिर ॥ ११. 'आकरपणो' इति३ ॥ १२. '-पणौ' इति४, '-पणुं' इति३॥ १३. 'ग्लाम्लाज्याहाभ्यो निः' इति वार्तिकस्वरूपं दृश्यते ॥ १४. 'खेदे तपसि च' इति१.२.३ ।। १५. 'क्लिशु-' इति१.४॥ १६. 'स्तुतौ' इति३.४॥ १७. '-स्थितौ' इति४, '-स्थितः' इति२॥ १८. 'मोहस्य' इति१॥
यन्महेश्वर:-"मोहमिच्छन्ति मूर्छायामविद्यायां च सूरयः" [विश्वप्रकाशकोशः, हान्तवर्गः, श्रो-५]इति । मूर्छायां यथा "अथ मोहपरायणा सती''[]इत्यादि । अविद्या विपर्ययस्तत्र यथा-"न मुञ्चामः कामानहह गहनो मोहमहिमा"[ ]इत्यादि । द्वे मोहस्य ॥
चिन्ता ध्यानम्
१ चिन्तनं चिन्ता। 'चिति स्मृत्याम्'(चु.प.से.), चुरादौ, 'चिति(चिन्ति) पूजिकथिकुम्बि-'३।३।१०५॥ इत्यादि
नाऽङ् । अप्प्रत्यये कार्ये 'चिन्तिपूजि-'३।३।१०५॥ इत्यङ्
१० विधानं गुणाभावार्थम्, तत्सामर्थ्याण्णिलोपाभावोऽपि, इति 'चिन्तिय (चिन्तिया)' इत्यपि। इति स्मृतिः क्तिन्नन्तां । २ ध्यायते ध्यानम् । 'ध्यै चिन्तायाम्'(भ्वा.प.अ.), ल्युट् । द्वे चिन्तनस्य ॥
अमर्षः क्रोधसम्भवः ॥३२०॥ गुणो जिगीषोत्साहवान्
१ क्रोधाज्जातो जिगीषोत्साहगुणयुक्तो गुणः अमर्षः प्रोच्यते । क्रोधात् सम्भव उत्पत्तिर्यस्य स क्रोधसम्भवः, [जेतुमिच्छा] जिगीषा, उत्साह उद्यमस्तौ विद्येते यस्मिन् स जिगीषोत्साहवान् । न मर्षणम् अमर्षः । 'मृष तितिक्षायाम्'
२० (दि.उ.से.), भावे घञ् । अमर्षो हुस्वादिः । “किम[प्य] मर्षोऽनुनये भृशायते"[किरातार्जुनीयम् ८५४॥]इति भारविः। 'अन्येषामपि-'(वा-३।२।१०१॥) इति दीर्घत्वे दीर्घादिरपि । "निरुद्योग(निरुद्योगं) निरामर्षं निर्वीर्यम् "[]इति विशाखः॥
त्रासस्त्वाकस्मिकं भयम् ।
१ वसनंत्रासः, निर्घातादिभ्यश्चित्तचमत्कृतिरूपः। त्रसी उद्वेगे'(दि.प.से.), भावे घञ् ।अकस्माद् भवमाकस्मिकं भयम्, अत्र भयेन पूर्वापरविचार इति भयाद्भेदः। 'उद्रक' इति भाषा॥
अपस्मारः स्यादावेशः
१ अपस्मरणम् अपस्मारः । 'स्मृ चिन्तायाम्'
३० (भ्वा.प.अ.), भावे घञ् । आवेशनमावेशः । भावे घञ् । वाई नामैकम् ‘अपस्मार' इति । धातुवैषम्यादेरावेशः । यदात्रेयः
"पित्तं रक्तं मरुत् श्रेष्मा उदानः कुपितो भृशम् ।
प्राणः शिरसि संकुप्य कुरुते नष्टचेष्टताम् ॥१॥
प्राणान् नयत्यचेतनत्वं नाडिं चेन्द्रियरोधनात् ।
पतेच्च काष्ठवच्छीघ्रं मुखे लालां विमुञ्चयेत् ॥२॥
कण्ठश्च घुघुरायेत फेनमुद्गिरतेऽथवा ।
कम्पेते हस्तपादे च रक्तव्यावर्तलोचनः ॥३॥
अपस्मारे तु लिङ्गानि जायन्ते च भिषग्वर ! ।"[]इति॥
निर्वेदः स्वावमाननम् ॥३२॥
१ निवेदनं निर्वेदः । 'विद विचारे (रु.आ.अ.),
४० भावे घञ् । स्वस्यात्मनः अवमाननम् अवगणनम्, तस्य एकम् ॥३२१॥
आवेगस्तु त्वरिस्तूर्णिः संवेगः सम्भ्रमस्त्वरा ।
१ आवेजनम् आवेगः । 'ओविजी भयचलनयोः' (तु.आ.से., रु.प.से.), भावे घञ्, 'चजो:- '७।३५२ ॥ इति कुत्वम् । २ त्वरणं त्वरिः । 'जित्वरा सम्भ्रमे'(भ्वा.आ.से.), '-इन्'(उणा-५५७)इति इन् । ३ तूरणं तूर्णिः । एतौ स्त्री लिङ्गौ। 'तूरी गतित्वरणहिंसनयो:'(दि.आ.से.), औणादिको निप्रत्ययः । ४ संवेजनं संवेगः । 'ओविजी भयचलनयोः' (तु.आ.से.,रु.प.से.), भावे घञ् । ५ सम्भ्रमणं सम्भ्रमः ।
५० 'भ्रम अनवस्थाने'(दि.प.से.), भावे घञ् । ६ त्वरणं त्वरा। 'जित्वरा सम्भ्रमे '(भ्वा.आ.से.), भिदादित्वादङ् । षड् भयादिहेतुना कार्यत्वराकरणस्य । उतावलि' इति भाषा ॥
वितर्कः स्यादुन्नयनं परामर्शो विमर्शनम् ॥३२२॥
अध्याहारस्तर्क ऊहः
१ वितर्कणं वितर्कः । 'तर्क विचारणे (चु.प.से.), भावे घञ् । २ उन्नीयत उन्नयनम् । णी प्रापणे'(भ्वा.उ.अ.), अस्माद्ल्यु ट् ।३ परामर्शनं परामर्शः। मृश आमर्शने' (तु.प.अ.), भावे घञ् । ४ विमृश्यते विमर्शनम् । ल्युट् ॥३२२॥ ५ अध्याहरणम् अध्याहारः। हृञ् हरणे'(भ्वा.उ.अ.), भावे घञ्।
६० "न्यूनपदपूरणार्थमधिकपदोपादानमध्याहारः"["]इति सर्वधरः।
१. द्र. अनेकार्थसङ्ग्रहकैरवाकरकौमुदीटीका, भा-१, २५८७॥, पृ.३३६॥ २. 'अप्रत्यये' इति१॥ ३. अत्र मा.धातुवृत्तिद्रष्टव्या, तत्र हि "अत्र मैत्रेयः-'अकारे विधातव्येऽङो विधानं गुणाभावार्थम्, तत्सामर्थ्यात् कदाचिण्णिलोपो नास्ति' इति तत्र चिन्तिया इतीयकुदाहर्त्तव्यः"[मा.धातुवृत्तिः, चुरादिः, धातुसं-२, पृ.५३९]इति दृश्यते ॥ ४. 'इति स्मृतिः क्तिनन्ता' इति ग्रन्थः प्रकृतप्रकरणासङ्गतः प्रतिभाति ॥ ५. १.२.३नास्ति ॥ ६. '-नयं' इति१, ‘-भयं' इति४॥ ७. 'निर्वापम्' इति४॥ ८. द्र. टीकासर्वस्वम्, भा-१, १७।२६॥, पृ.१५५ ॥ ९. 'अउद्रक' इति४॥ १०. 'नष्टचेतनाम्' इति३॥ ११. 'यथा' इति१ ॥ १२. 'विचारणे' इति क्षीरतरङ्गिण्यादौ । '-विस्तारे' इति२॥ १३. 'ऊता-' १.२॥ १४. क्षीरतरङ्गिण्यादौ भाषार्थकतर्कधातुर्दश्यते ॥ १५. 'विमर्श्यते' इति२.४॥ १६. द्र. टीकासर्वस्वम्, भा-१, १५३॥, पृ.१०२॥
६ तर्कणं तर्कः ।' तर्क विचारणे'(चु.प.से.) ।७ ऊहनम् ऊहः । 'ऊह विचारणे '(भ्वा.प.से.), उभयत्र भावे घञ् । सप्त विमर्शनस्य । 'विमासवउं' इति भाषा ॥
असूयाऽन्यगुणदूषणम् ।
१ असूयनम् असूया । 'असु मानसोपताऐं', कण्ड् वादिः । असूङ् दोषावि:कृतौ'[ ] इत्यन्ये । अ:(अ) प्रत्ययात्' ३।१।२७ ॥ इत्यप्रत्ययः, बाहुलकाद् यक् । गुणेषु दोषाविष्कर णमसूया । अन्यगुणानां दूषणमन्यगुणदूषणम् ॥
मृतिः संस्था मृत्युकालौ परलोकगमोऽत्ययः ॥३२३॥
१० पञ्चत्वं निधनं नाशो दीर्घन्द्रिा निमीलनम् ।
दिष्टान्तोऽस्तं कालधर्मोऽवसानम्
१ मरणं मृतिः । [ मृङ् पाणत्यागे'(तु.आ.प.अ.),] 'स्त्रियां क्तिन्'३।३।९४॥ । २ संस्थानं संस्था । 'ष्ठा गति निवृत्तौ'(भ्वा.प.अ.), 'आतश्चोपसर्गे'३।३।१०६॥ अङ् । ३ मरणं मृत्युः, पुंस्त्री । 'मृङ् पाणत्यागे'(तु.आ.प.अ.), 'भुजि मृङ्भ्यां युक्त्युकौ'(उणा-३०१)इति त्युक् । ४ कालयति क्षिपत्यायुः कालः । 'कलण् क्षेपणे '(चु.उ.से.), चुरादिः, पचाद्यच् । ५ परलोके गमनं परलोकगमः । भावे घञ् । ६ अत्ययनम् अत्ययः । अतिपूर्वाद् ‘इण् गतौ'(अ.प.अ.),
२० अस्माद् ‘एरच्'३ ।३।५६ ॥ ॥३२३॥ ७ देहस्तावत् पञ्च भूतारब्धः, मरणे त्वेतस्य पञ्चानामप्यभावः पञ्चत्वम्, प्रत्येकं स्वांशसङ्क्रमात् । ८ निवृत्तं धनमत्रेति निधनम्, पुंक्ली. । यद्वा निपूर्वः 'डुधाञ् धारणपोषणयो:'(जु.उ.अ.), 'कपि वृजिमन्दिनिधाञ्भ्यः क्युन् '(उणा-२३९)इति क्युनि निधनम् । निपूर्वो धनशब्दो मरणार्थ इति सभ्याः । ९ नशनं नाशः । 'णश अदर्शने'(चु.प.से.), भावे घञ् । १० दीर्घा चासौ निद्रा च दीर्घनिद्रा । ११ निमील्यतेऽस्मिन्निन्द्रियैरिति निमीलनम् । 'मील निमीलने '(भ्वा.प.से.), 'करणाधि करणयोश्च'३।३।११७ ॥ इत्यधिकरणे ल्युट् । १२ दिष्टस्य कालस्य जीवितावधेरन्तो दिष्टान्तः । १३ अस्यते अस्तम्।
३० ‘असु क्षेपणे’(दि.प.से.), दिवादौ । अस्तंगत्य-‘अस्तं च’ १।४।६८॥ इति क्रियायोगे गतित्वाद् अस्तंशब्द[स्य] समासः, “अस्मादेव निर्देशाद् अस्तंशब्दस्य मान्तत्वम्”[ ] इत्यात्त्रेयः, “अव्युत्पन्नोऽव्ययम्”[ ]इति न्यासपदमञ्जर्यादौ । १४ कालो मृत्युद्यू(दू)तः, क्षणत्रुट्याद्यात्मको वा । कालस्य धर्मः कालधर्मः, “कालः संहरति प्रजाः’’[हारीतस्मृति: ] इत्युक्तेः । १५ अवसीयते अवसानम् । ‘षोऽन्तकर्मणि’(दि.प.अ.), ल्युट । पञ्चदश मरणस्य ॥
सा तु सर्वगा ॥३२४॥
मरको मारिः
४० १ सा मृतिः सर्वगा सकलव्यापिनी, ॥३२४॥ मरणं मरकः, पुंक्ली. । यद्गौड:-"मरकोऽस्त्रियाम्''[ ] । 'मृङ् प्राणत्यागे'(तु.आ.प.अ.), संज्ञायां क्वुन् । २ मारणं मारिः । 'मृङ् प्राणत्यागे'(तु.आ.प.अ.), अस्माण्णिजन्तादिन् । द्वे 'मरगी' इति भाषायाः ॥
त्रयस्त्रिंशदमी स्युर्व्यभिचारिणः ।
अमी पूर्वोक्ता धृत्यादयस्त्रयस्त्रिंशत्संख्याकाः विविध माभिमुख्येन चरन्ति व्यभिचारिणः ॥
यथोक्तम्
"धृतिः स्मृतिर्मतिर्वीडा विषादो जडता मदः ।
५० व्याधिर्निद्रौत्सुक्यशङ्काबहित्थाः सुप्तचापले ॥१॥
हर्षालस्ये ग्लानिर्गर्वप्रबोधा:(-ध:) श्रम उग्रता ।
दैन्यमुन्मादमोहौ च चिन्तामर्षों मृतिस्तथा ॥२॥
तर्कावेगावपस्मारोऽसूया निर्वेद एव च ।
त्रासश्चेति त्रयस्त्रिंशद् भावाः स्युर्व्यभिचारिणः ॥३॥
स्थायिनो नव रत्याद्याः स्तम्भाधा अष्ट सात्त्विकाः ।
भावाः पञ्चाशदित्थं स्युः संयुता व्यभिचारिभिः ॥४॥"[]
स्युः कारणानि कार्याणि सहचारीणि यानि च ॥३२५॥
रत्यादेः स्थायिनो लोके तानि चेत् काव्यनाट्ययोः ।
१. 'विस्तारे' इति३, 'विचारणे' इतिर, 'ऊह तर्के' इति क्षीरतरङ्गीणी, 'ऊह वितर्के' इति मैत्रेयसायणौ ॥ २. 'विमाशिवो' इति३ ॥ ३. कण्ड्वादिगणे 'उपतापे' इत्येवार्थो दृश्यते ॥ ४. 'यच्' इति३॥ ५. 'कल किल पिल क्षेपे' इति क्षीरतरङ्गिणी, 'कल विल क्षेपे' इति मा.धातुवृत्तिः ॥ ६. 'निवृत्त' इति३ ॥ ७. '-धारणादौ' इति१.२.३ ।। ८. '-निधात्रः क्युः' इत्युणादिगणे ॥ ९. 'मील श्मील निमेषणे' इति क्षीरतरङ्गिणी, 'मील श्मील स्मील क्ष्मील निमेषणे' इति मा.धातुवृत्तिः ॥ १०. 'अस्तंगच्छत्यस्तं च' इति ॥ ११. माधवीयधातुवृत्तिस्तुलनीया, दिवादिः, धातुसं-१०८, पृ.४३७॥ १२. द्र. स्वोपज्ञटीका २१३२४ ॥, पृ.७५ ॥ १३. 'मरणं' इति१.३ ।।
विभावा अनुभावाश्च व्यभिचारिण एव च ॥३२६॥
व्यक्तः स तैर्विभावाद्यैःस्थायी भावो भवेद्सः।
- रत्यादेरिति, 'रागोऽनुरागः'[ो-२।२९६॥] इत्यादिनवविधस्य स्थायिभावस्य लोके यानि कारणानि आलम्बनो द्दीपनस्वभावानि ललनोद्यानादीनि स्युः, तानि काव्यनाट्ययो रिति काव्ये नाट्ये च विभावा उच्यन्ते, रागादिनवविध स्थायिभावस्य कारणानामालम्बनोद्दीपनस्वभावानां ललनोद्याना दीनां नाम काव्यशास्त्रे नाट्यशास्त्रे विभाव इत्यर्थः । च पुनरेवं कार्याणि कार्यभूतानि कटाक्षभुजक्षेपादीनि अनुभावाः
१० प्रोच्यन्ते । (रांगादिनवविधस्थायिभावस्य कारणभूतानामा लम्बनोद्दीपनस्वभावानां ललनादीनां कार्यभूतकटाक्षभुजक्षेपादीनां नाम अनुभाव इत्यर्थः। ) तथा सहचारीणि धृत्यादीनि “धृतिः सन्तोषः स्वास्थ्यं स्यात्'(श्री-२।३०८)इत्यादीनि "मरको मारिः''(शो-२।३२५)इत्यन्तानि व्यभिचारिणो व्यभिचारि नामानो भावा उच्यन्ते, तैर्विभावाद्यैर्विभावैः नवविधस्थायि भावस्य कारणभूतैर्ललनादिभिः आद्यशब्दादनुभावैः नवविध स्थायिभावस्य कारणभूतललनादिकस्य कार्यभूतैः कटाक्षादिभिः सात्त्विकैः "स्तम्भो जाड्यं स्वेदो धर्म:'(-२३०५॥) इत्यादिरष्टभिः व्यभिचारिभिश्च धृत्यादिमारिपर्यन्तैस्त्रयस्त्रिंशद्भिः
२० व्यक्तः प्रकटः सभास्थितजनानां वासनारूपेण स्थितः, स स्थायी भावः रसः कथ्यते इत्यर्थः । यदुक्तम्
"विभावैरनुभावैश्च सात्त्विकैर्व्यभिचारिभिः ।
आरोप्यमाण उत्कर्ष स्थायी भावो रसः स्मृतः ॥१॥" []इति । पूर्वोक्ताः स्थायिभावा रत्यादयो नव विभावानु भावसात्त्विकव्यभिचारिभिः प्रकटीकृताः सन्तो रसाः शृङ्गारादयो नवापि भवन्तीति भावः ॥३२५-३२६॥
पात्राणि नाट्येऽधिकृताः
१ नाट्ये नाट्यविषयेऽधिकृता अधिकारिणः पात्राणि उच्यन्ते । पान्ति स्वभूमिकामिति पात्राणि । 'पा रक्षणे'
३० (अ.प.अ.), 'दादिभ्यश्छन्दसि'(उणा-६०९) इति सूत्रे बहुलाधिकाराद् भाषायामपि त्रन् ॥
तत्तद्वेषस्तुभूमिका ॥३२७॥
१ तेषां तेषां रामरावणादीनां वेषो रूपपरिग्रहस्त द्वेषः रूपान्तरपरिग्रहाधारभूतत्वाद् भूमिप्रतिकृतिः भूमिका । 'इवे प्रतिकृतौ'५।३।९६॥ इति कः । एकं पात्राणां रूपान्तर परिग्रहस्य ॥३२७॥
शैलूषो भरतः सर्वकेशी भरतपुत्रकः।
धर्मीपुत्रो रङ्गजायाऽऽजीवो रङ्गावतारकः ॥३२८॥
नटः कृशाश्वी शैलाली
१ शिलूषस्य ऋषेरपत्यं शैलूषः । 'ऋष्यन्धक-
४० वृष्णि-'४।१।११४॥ इत्यण् । शरति(शलति) वेषान्तरमिति वा । 'का(को)रटू(दू)षाटरूष- (हैमोणा-५६१)इत्यादिना ऊषान्तो निपातः । २ तां तां भूमिकां बिभर्ति भरतः । 'डुधाञ् धारणादौ'(जु.उ.अ.), 'भृदृशीङ्यजिपर्विपच्यमि नमितमिहर्येभ्योऽतच्'(उणा-३९०) । ३ सर्वे केशा रूपा न्तराण्यस्य सर्वकेशी । अत इनिठनौ'५।२।११५॥ इतीनिः। ४ भरतस्य पुत्रो भरतपुत्रकः । ५ धर्मी द्विधा, नाट्यधर्मी लोकधर्मी च, तस्य पुत्रो धर्मीपुत्रः, तदुपजीवकत्वात् । ६ ७ रज्यन्ते प्रेक्षकाणां मनांसि यत्रेति रङ्गः। 'रञ्ज रागे'(भ्वा. दि.उ.अ.), 'हलश्च'३।३।१२१॥ इति घञ्, भावकरणार्था-
५० भावान्न न्लोपः, घित्त्वात् कुत्वम् । रङ्गश्च जाया च रङ्गजाये, ताभ्यामग्रेऽऽजीवः रङ्गाजीवः, जायाजीवः । ८ रङ्गत्यस्मिन् प्रेक्षकाणां मनांसि रङ्गम् । 'रगि गतौ'(भ्वा.प.से.), दण्डक धातुः, 'हलश्च'३।३।१२१॥ इति संज्ञायामधिकरणे घञ्। रञ्जेर्वाऽयं द्रष्टव्यः । रङ्गं नाट्यमवतारयति रङ्गावतारकः । 'तृ प्लवनतरणयो:'(भ्वा.प.से.), णिजन्तः, ण्वुल् ॥३२८॥ ९ नटति नृत्यति नटः, पुंक्ली . । 'नट नर्तने '(भ्वा.प.से.), पचाद्यच् । १० कृशाश्वेन प्रोक्तं नटशास्त्रं वेत्त्यधीते वा कृशाश्वी । 'कर्मन्दकृशाश्वादिनिः'४।३।१११॥ इतीनिः । १२ शिलालिना प्रोक्तं नटसूत्रमधीते शैलाली । 'पाराशर्यशिला-
६० लिभ्यां भिक्षुनटसूत्रयोः'३।३।११०॥ इति णिनिः । सामान्येन एकादश नटस्य। 'नाटकिया' इति भाषा ॥
१. इतोऽग्रे २प्रतौ-"रागाद्यभिनयसहिताः स्थायिव्यभिचारिलक्षणाश्चित्तवृत्तयः, विभाव्यन्ते विशिष्टतया ज्ञायन्ते यैरिति कृत्वा" इति दृश्यते॥ २. कोष्ठान्तर्गतपाठस्थाने २प्रतौ "स्थायिव्यभिचारिलक्षणं चित्तवृत्तिविशेषं सभ्यजनोऽनुभवत्रनुभाव्यन्ते यैरिति कृत्वा रागादिनवविधस्थायिभावस्य कारणभूतानामालम्बनोद्दीपनस्वभावानां कार्यभूतकटाक्षभुजाक्षेपादीनां इत्यर्थः" इति पाठो दृश्यते॥ ३. 'प्रगटः' इति२ ॥ ४. अमरकोषे रामाश्रमीकारेण "-दादिभ्यः ष्ट्रन्-इति मुकुटश्चिन्त्यः, तादृशसूत्रादर्शनात्"[अ.२७।२४॥] इत्युक्तम्, तत्तु विचारणीयम्, उणादिगणे चतुर्थपादे दर्शनात्, 'दादिभ्यश्छन्दसि' इति सूत्रस्यैव फलितार्थकथनं 'दादिभ्यः ष्ट्रन्' इत्यप्यवधेयम् ॥ ५. ३प्रतौ नास्ति ॥ ६. 'भृमृघशियजिपर्विपच्यमितमिनमि-' इत्युणादिगणे ॥ ७. '-णार्थो भावा-' इति१.२, '-णार्थ भावा-' इति३॥ ८. 'वर्तने' इति१ ॥, 'नृत्तौ' इति क्षीरतरङ्गिण्यादौ ॥
चारणस्तु कुशीलवः ।
१ चर्यत इति चरणं भ्रमणम्, चरणस्यायं चारण:, यतो देशान्तरभ्रमणाजीवति । २ कुत्सितं शीलं कुशीलम्, कुशीलं वाति कुशीलवः । ‘वा गतिगन्धनयोः '(अ.प.अ.), 'आतोऽनुपसर्गे कः'३।२।३॥ । द्वे चारणस्य । 'बजाणीया गोडीया' इति भाषा ॥ भ्र(भ्रू भृपर: कुंशो नटः स्त्रीवेषधारकः ॥३२९॥
१-४ 'पट पुट'(चु.उ.से.)इति दण्डकात् तस्य कुशिधातोर्भाषणार्थस्यैव विभ्रुवोः (भाषणार्थस्य एरचि, भ्रुवोः)
१० कुंशो भाषणमस्य ‘बहुव्रीहौ भ्रकुंशादीनामकारो वक्तव्यः'(वा ६।३।६१ ॥) इति भ्रूशब्दात् परस्याकारः भ्रकुंशः । “भ्रुवौ कुंशति, कर्मण्यण''[ ]इति कौमुदी । ‘इको ह्रस्वोऽड्यो गालवस्य'६।३।६१॥ इति वा हुस्वत्वे भ्रुकुंशः, भ्रूकुंशः, ऋकारोऽन्तादेशो वा भृकुंशः, एतौ तु मन्तान्तराश्रयणेन । यद्वाचस्पति:
"स्त्रीभूमिकां तु यः प्राप्तश्चत्वारस्तस्य वाचकाः ।
भ्रकुंशश्च भ्रुकुंशश्च भ्रूकुंशश्च भृकुंशवत् ॥१॥"
[] इति । “स्वप्नहिंस्रभ्रकुंशा:(-साः)"[ ]इति सभेदाद् दन्त्यान्तोऽपीति ।स्त्रीवेषं धारयतिस्त्रीवेषधारकः, ण्वुल् ।स्त्रीवेषधारी
२० यः पुमान् नृत्यति, तन्नामानि चत्वारि । भवाईया' इति भाषा ॥३२९॥
वेश्याऽऽचार्यः पीठमर्दः
१ वेश्याचार्यो वेश्यानां नृत्तोपाध्यायः पीठं नर्तनस्थलं पादैर्मुद्नाति पीठमर्दः । मृद क्षोदे'(त्र्या.प.से.), कर्मण्यण् । एकं वेश्यानां नृत्तोपाध्यायस्य । वृद्धो नटोऽयमित्यर्थः ।
सूत्रधारस्तुसूचकः।
१ सूत्रं धारयति सूत्रधारः । 'धृञ् धारणे'(भ्वा. उ.अ.), णिजन्तः, पचाद्यच्। सूचयति भाविनमर्थं सूचकः । 'सूचि पैशुन्य'(चु.उ.से.), ‘ण्वुल्तृचौ'३।१।१३३ ॥ इति ण्वुल् । स्थापकोऽपि । एकं नाट्यविधेरुपदेशकस्य । शैषिकम्
३० "दीर्घदर्शकः''[शेषनाममाला २।९१॥] ॥
नन्दी तु पाठको नान्द्याः
___ १ नन्दत्यवश्यं नन्दी । 'टुणदि(टुनदि) समृद्धौ' (भ्वा.प.से.), आवश्यकाधमर्ययोर्णिनि: '३।३।१७० ॥ । नन्दनं नन्दः, तत्र भवा नान्दी, तत्प्रयोजनत्वाद् नान्दी पूर्वरङ्गम्, तस्याः पाठकः, द्वादशतूर्यनिर्घोषनाम्नः पाठकोऽध्यापकः, तस्यैकम् । "नन्दी भम्भा-मइंग-मद्दल-कडम्ब-झल्लरि-हुडुक्क-कंसाला। काहल-तिलिमा-वंसो संखो पणवो य नाडए नन्दी ॥१॥"[ ] इयं नाटकनन्दी, रणनन्दी त्वियम्
"डक्का-ढक्का-डमरुय-काहल-बुक(बुक्क)-भेरि-भाणगं पडहो। जुगसंख-करडि(डी)-पुग्गय-मद्दल-कंसाल रणनन्दी॥२॥"[ ] ॥
४० ___ पार्श्वस्थः पारिपार्श्विकः ॥३३०॥
१ पार्श्वे तिष्ठति पार्श्वस्थः । 'आतोऽनुपसर्गे कः' ३।२।३ । । २ परिपार्श्व वर्तन्त इति पारिपार्श्विकः । ‘परेर्मुखं चे'४।४।२९॥ इति ठक्, ['ठस्येकः'७।३।५० ॥], 'किति च' ७।२।११८॥ इति वृद्धिः । द्वे पार्श्वस्थस्य । 'पासवाणं' इति भाषा ॥३३०॥ वासन्तिकः केलिकिलो वैहासिको विदूषकः ।
प्रहासी प्रीतिदश्च
१ वसन्तेन चरति वासन्तिकः । वसन्तादित्वाट्ठक् । २ केल्या किलः केलिकिलः । केलीकिलोऽपि । ३
५० विचित्रो हासो विहासः, तेन चरति वैहासिकः । ४ सन्धिं विग्रहेण विग्रहं च सन्धिना विदूषयति विदूषकः । 'दुष वैकृत्ये'(दि.प.अ.), णिजन्ताद् ण्वुल् । ५ प्रहसतीत्येवंशील: प्रहासी । 'हस(हसे) हसने '(भ्वा.प.से.), 'सुष्यजातौ-' ३।२ १७८ ॥ इति णिनिः । ६ प्रीतिं ददाति प्रीतिदः । 'डुदाञ् दाने '(जु.उ.अ.), 'आतोऽनुपसर्गेकः'३ ।२।३ ।। षट् क्रीड नीयपात्रस्य । 'रामतीयाल' इति भाषा ॥
अथ षिड्गः पल्लवको विटः ॥३३१॥
१ सेटनं सिट अनादरः । 'षिट अनादरे'(भ्वा.प.से.), सम्पदादित्वात् क्विप् । सिटा गायति गच्छति वा षिड्गः ।
६० पृषोदरादित्वात् षत्वम् । २ पल्लति चतुरं गच्छति पल्लवः । 'पल्ल गतौ (भ्वा.प.से.), बाहुलकादवः, ततः स्वार्थे के पल्लवकः । पल्लवयति वा । ण्वुत् । ३ वेटति शब्दायते विटः । 'विट शब्दे'(भ्वा.प.से.), 'इगुपधज्ञा-'३।१।१३५ ।। इति
कः, पुंक्ली. । त्रीणि विटस्य । 'ठींगा' इति भाषा ॥३३१॥
१. 'गुडीया' इति१ ॥ २. आचार्यै: 'कुंसः' इति शब्दो स्वीकृतः, अमरकोशेऽपि 'कुंसः' एव, द्र. १७।११॥ ३. 'घटपुट-' इति१.२ ।। ४. 'कुशति' इति१.२.४॥ ५. द्र. स्वोपज्ञटीका २३२९ ॥, पृ.७६ ॥, तत्र दन्त्यसकारो दृश्यते ॥ ६. द्र. टीकासर्वस्वम्, भा-१, १७।११ ॥, पृ.१४२ ॥ ७. 'सूच पैशुन्ये' इति क्षीरतरङ्गिण्यादौ ॥ ८. 'बीजदर्शकः' इति शेषनाममालास्वोपज्ञटीकयोः ॥ ९. इतोऽग्रे ३प्रतौ 'वा' इति दृश्यते ॥ १०. इतोऽग्रे ४प्रतौ 'इति' इति दृश्यते ॥ ११. 'परेर्मुख' इति२.४॥, 'परिमुखं च' इत्यष्टाध्याय्याम् ॥ १२. 'पासवण' इति२ ॥ १३. 'केलिकिलौ' इति१.२.३ ॥ १४. 'केलः' इति४, 'किलिः' इति ॥ १५. 'केलीकेलो' इति ॥ १६. धातपारायण एवायं धातर्दृश्यते, द्र. धातूपारायणम,
पिता त्वावुकः
१ अवतीति आवुकः । अव रक्षणादौ'(भ्वा.प.से.), बाहुलकाद् ‘मृकणिभ्यामु(मू)कोकणौ'(उणा-४७९)इत्युकण्, 'अत उपधायाः ७।२।११६॥ । एकं नाट्योक्तौ पितुः ॥ ।
आवुत्तभावुकौ भगिनीपतौ।
१ अवतीति आवुत्तः । बाहुलकादुत्तण् । २ भव तीति भावुकः। भवतेश्चोपसंख्यानम्'( )इति उकण्। भगिन्याः पतिः भगिनीपतिः, तत्र । नाट्योक्तभगिनीपतेः नाम्नी द्वे ॥
भावो विद्वान्
१० १ भावयतीति भावः । 'भवतेश्चोपसंख्यानम्'( ) इति णः । एकं नाट्योक्तौ पण्डितस्य ॥
युवराजःकुमारोभर्तृदारकः ॥३३२॥ १ युवा चासौ राजा च युवराजः । 'राजाहः-सखि भ्यष्टच्'५।४।९१॥, 'नस्तद्धिते'६।४।१४४॥ इति टिलोपः । कुमारयति क्रीडयति कुमारः । 'कुमार क्रीडायाम्'(चु.उ.से.), चुरादिः, पचाद्यच् । भर्तुर्दारकः भर्तृदारकः । एकं नाट्योक्तौ युवराजकुमारस्य ॥३३२॥ बाला वासूः
१ वसति पितृगृहे, वास्यते प्रीत्या वा वासूः। वस
२० तेर्णिन्ताद् बाहुलकादूः । वस्वौ, वस्वः इत्यादि, स्त्रीलिङ्गः। नाट्योक्तौ बाला कुमारी, तस्या एकम् ॥
मार्ष आर्यः
१ मर्षणात् सहनाद् मार्षः । मारिषोऽपि । “मारिषः शाकभीत्यार्ये नाट्योक्तौ पुंसि भाषितः"[]इति मूर्द्धन्यान्ते रभसः । २ आरात् पापेभ्यो यातो निःसृत आर्यः, पृषो दरादिः । अरणीयोऽभिगम्यो वा । द्वे नाट्योक्तौ स्वामिनः ॥
देवो भट्टारको नृपः।
("१-२ नाट्योक्तौ यो नृपो राजा, तस्य नाम्नी द्वे। दीव्यतीति देवः ।भटति भट्टारः। भट भृतौ'(भ्वा.प.से.),आरनि
३० साधुः, स्वार्थे कनि भट्टारकः)॥
राष्ट्रियो नृपतेःश्यालः
१ राष्ट्रे भवो राष्ट्रियः । राष्ट्रेऽधिकृतो वा । 'राष्ट्रा वारपाराद्घखौ'४।२।९३॥ इति भवादौ शैषिक: छोऽपवादो घः, 'आयनेयी-७॥१२॥इतिघस्येयादेशः, 'यस्येति च'६।४।१४८।। नाट्योक्तौ नृपतेर्य:श्यालः, तस्यैकम् । शालो' इति भाषर्षी ॥
दुहिताभर्तृदारिका ॥३३३॥
१ नाट्योक्तौ नृपतेर्दुहिता सुता, तन्नामैकम् । भर्तु दारिका भर्तृदारिका ॥३३३॥
देवीकृताभिषेका
१ दीव्यति देवी, श्रीमहादेवी वासवदत्तादिः । कृता-
४० भिषेका बद्धपट्टा । नाट्योक्तौ कृताभिषेका राज्ञी, तस्या एकम्॥
अन्या भट्टिनी
१ अन्येति अकृताभिषेका राज्ञी भट्टिनी इत्युच्यते । भट्टो नृपोऽस्त्यस्या भट्टिनी । यन्महेश्वरः-"भट्टिनी द्विजभार्यायां नाट्योक्तौ राजयोषिति''[विश्वप्रकाशकोशः, नान्तवर्गः, श्री १३१]। एकं नाट्योक्तौ अकृताभिषेकाया राश्याः ॥,
___ गणिकाजुको ।
१ नाट्ये गणयति ईश्वरानीश्वराविति गणिका । 'गण संख्याने'(चु.उ.से.), चुरादिः, ण्वुल् ।अर्जयति धनम् अजुका। 'अर्ज सर्ज अर्जने '(भ्वा.प.से.), बाहुलकात् 'समि कसे
५० डकन् (डुकन्)'(उणा-१८७)इति डुकत, रलोपश्च। "अज्जुकाद्या असत्प्रकृतिप्रत्ययविभागा देशा इत्यपि"[ ]इति केचित्। एकं नाट्योक्तौ वेश्यायाः॥
नीचाचेटीसखीहूतौ हण्डेह हला:क्रमात् ॥३३४॥
१-३ नीचा च चेटी च सखी च नीचाचेटीसख्यः, तासां हूतिरामन्त्रणम्, तस्याम् । क्रमाद् अनुक्रमेण हण्डे, हले, हला ज्ञेयाः। तद्यथा नीचा अधमा, तस्या आह्वानं हण्डे, चेटी दासी, तस्या आह्वानं हजे, सख्या आह्वानं हला इति । एत त्यमप्यव्ययम् । तथा 'हला शकुन्तला'[ ]इत्यादिसखीपर्यायो हलाशब्दस्तु टाबन्तः, "बाला वासूः सखी हला"["] इति
६० स्त्रीकाण्डे वोपालितः । एकैकं क्रमेण अधमादासीसखी नामाह्वानस्य ॥३३४॥
अब्रह्मण्यमवध्योक्तौ"
१ वधं नार्हति अवध्यः, अवध्यस्य उक्तिः अव ध्योक्तिः, तत्र । अब्रह्मण्यं वर्तते। ब्रह्माणमर्हतीति । अर्थ
१. मृग-' इति १.२.४ ॥ २. इतोऽग्रे प्रतौ 'भगनी' इति २॥३. एकं नाट्योक्तौ भगिनीपतेः' इति १.३.४॥ ४. तुलनीयोऽमरकोषः १७।१२॥ ५. क्रीडयन्ति' इति२॥६.इतोऽग्रे प्रतौ 'वासूः षष्ठः स्वरान्तोऽयम्' इति दृश्यते ॥ ७. द्र. रामाश्रमी १७॥१४॥, पृ.९९॥ ८. 'निसृतः' इति३॥ ९.'आरणीयः' इति१॥१०. कोष्ठान्तर्गतपाठः १प्रतौ, तथा तत्स्थाने ३.४प्रतौ-"दीव्यति ('दीव्यतीति' इति ३) देव । 'दिवु क्रीडादौ, पचाद्यच् । भटतीति (भट्टतीति इति ३) भट्टारकः । 'वट ('वट' इति ३नास्ति)भट (भट्ट इति ३) परिभाषणे, क्विप्, मठ वासे तारकश्चेति, पृषोदरादित्वात् टुत्वम् । नाट्योक्तो नृपो राजा, तस्य नाम्नी द्वे" इति दृश्यते ॥ ११. 'शालो इति भाषा' इति १.३.४ नास्ति ॥१२.'-देव्या' इति १.२.४॥ १३. नाट्योक्ता' इति १.२.४॥ १४. एको' इति१ ॥१५. तुलनीयोऽमरकोषः १७।११ ॥ १६. 'सम किस' इति ३॥ १७. 'डुकञ्' इति३॥ १८."अजुकाद्या असत्प्रकृतिप्रत्ययविभागा देशीपदप्रायाः" इति स्वोपज्ञटीका २३३४॥, पृ.७७॥१९. द्र. रामाश्रमी १७।१५॥, पृ.९९॥२०. तुलनीयोऽमरकोषः १७।१४॥२१. इतोऽग्रे ४प्रतौ 'अबध्योक्तौ' इति दृश्यते ॥
दण्डादिभ्यो यः, 'तत्र साधुः४।४।१८॥ इति वा यत् । ततो नसमासः । "वधानर्हस्य ब्राह्मणस्य पूत्करणे अवधयाच नार्थम्''[ ]इत्येके । एकं वधं नार्हतीति वचसः ॥
ज्यायसी तु स्वसाऽत्तिका ।
१ अत्ता मातेव अत्तिका। 'इवे प्रतिकृतौ'५।३।९६॥ इति कः, 'प्रत्ययस्थात्-७।३।४४॥ इतीत्वम् । "द्वितकारकः पाठः"[ ]इति सर्वधरः ।" 'अन्तिकं निकटे नाट्योक्त्या ज्येष्ठस्य भार्यापि'[ ]इति नानार्थकोषदर्शनाद् द्वितकारः
प्रामादिकः"[ ]इति तु कलिङ्गः । वयं तु "अत्तिका चान्तिका
१० तथा''[]इति द्विरूपकोषाद् द्वितकारः पाठः, तथैकतकार पाठोऽपीत्याचक्ष्महे । एकं नाट्योक्तौ ज्येष्ठभगिन्याः ॥
भर्ताऽऽर्यपुत्रः
१ नाट्योक्तौ भर्ता पतिः, (तन्नामैकम् आर्यपुत्रः। आर्यस्य पुत्रः)इति समासः ॥
___ माताऽम्बा
१ नाट्योक्तौ माता जननी, सा अम्बा इत्युच्यते । अम्ब्यते शब्दयते बालैरित्यम्बा । 'अवि(अबि) शब्दने' (भ्वा.आ.से.), कर्मणि घञ् । अमति गच्छति वात्सल्यमिति वा । 'अम् गतौ '(भ्वा.प.से.) 'शम्यमी(शम्यमेः)-'(हैमोणा
२० ३१८)इति बः, टाप् । अम्बत अपत्यं जल्पतीति वा । 'अबि गतौ (शब्दे)'(भ्वा.आ.से.), पचाद्यच् । ननु कथं "ताते नाम्बविहीनोऽस्मि बालभावेऽहमम्बया"[ ]इत्यादावनाट्यो तावप्यम्बादिप्रयोगः, तत्र जातौ कादयस्त्वाहुः । नाट्योक्तौ अज्जुकादय एव प्रयुज्यन्ते, न गणिकामात्रादय इत्ययं नियमः। ननु "मातः किमप्यसदृशं करुणं वचस्ते "[ ]इति वेणी संहारादौ मात्रादीनामपि प्रयोगात् तस्मादम्बादीनां नाट्ये प्रायशः प्रयोगाद् विधिरयम् । अजुकादीनां त्वन्यत्राऽप्रयोगात्रियमं फल तीति । एतदेवाह शब्दार्णवकार:
"अथैतेषां रूपकाणामुक्तीर्वक्ष्याम्यशेषतः ।
३० कासुचिन्नियमस्तत्र विधिरेव च कासुचित् ॥१॥"[]इति॥
भदन्ताः सौगतादयः॥३३५॥ १ नाट्योक्तौ सौगतादयः, सौगत आदिरेषामिति सौगतादयः, आदेर्निर्ग्रन्थादयो भदन्ताः प्रोच्यन्ते । भन्दन्ते कल्याणिनो भवन्ति भदन्ताः । 'भदि कल्याणे सुखे च'(भ्वा.-
४० आ.से.), 'भन्देर्नलोपश्च '(उणा-४१०)इत्यतचं' 'सामन्त (सीमन्त)हेमन्तभदन्त-'(हैमोणा-२२२)इत्यादिना साधुर्वा ॥
पूज्ये तत्रभवानत्रभवांश्च भगवानपि ।
१-२ स भवान् तत्रभवान्, एष भवान् अत्र भवान् । 'इतरे(इतरा)भ्योऽपि दृश्यन्ते'५।३।१४॥इत्यनेन सर्व विभक्त्यन्तेभ्यः किम्सर्वनाम बहुभ्यो व्यादिभ्यों भवदीर्घा ऽऽयुरायुष्मच्छब्दयोगे तसिलादयो विहिताः । तेष्वत्रतत्रशब्द विशिष्टो भवच्छब्दः पूज्यतां द्योतयति[ ]इति प्राञ्चः । एवं तु अत्रभवन्त इत्यादौ भवच्छब्दार्थो विवक्षित एव पूजा परम धिका गम्यत इत्येतावत्, न त्वेतद् युक्तम्- "यन्मां विधेय-
५० विषये सभवान्नियुङ्क्ते स्नेहस्य तत्फलमसौ प्रणयस्य सारः" [मालतीमाधवम्, प्रथमोऽङ्कः, श्री-१०]इति मालतीमाधवे, "वरवती खलु तत्रभवन्ती शकुन्तला''[ ]इति शाकुन्तले, "कथमत्रभवान् विश्वामित्रः"[ ]इति अनर्घ्यराघवादिष्वसम्बोध्ये परोक्षेऽपि प्रयोगदर्शनात् । न चात्र कश्चिदवयवानां पृथगर्थो गम्यते, तस्मात् पूज्यतामात्रवचनौ समुदायावेवात्रभवत्तत्रभवच्छब्दौ उदनुबन्धौ प्रकृतिप्रत्ययविभागेन कल्प्यौ, उपलक्षणं चैतत्, स भवान् तं भवन्तं ततो भवन्तमित्याद्यपि दृश्यते [ ]इति कृष्ण मिश्राः । ३ भगो ज्ञानमस्यास्ति भगवान् । त्रीणि पूज्यस्य ॥
पादा भट्टारको देवः प्रयोज्यः पूज्यनामतः ॥३३६॥
६० ___ पादाद्यास्त्रयः शब्दाः पूज्यनामतोऽग्रे योज्याः । यथा गुरुपादाः, अर्हद्भट्टारकः, कुमारपालदेवः, एवमन्येभ्योऽप्येते प्रयोज्याः । “भरटकः, भट्टः"[शेषनाममाला२।९१॥] इति शैषिके ॥३३६॥
॥ इत्याचार्यश्रीहेमचन्द्रविरचितायामभिधानचिन्तामणौ नाममालायां देवकाण्डो द्वितीयः ॥
सर्वाङ्गीणकलाविलासनिलयः कल्पद्रुमाभः कलौ जाग्रत्सर्वजनीनमञ्जुमहिमो मित्रप्रतापोदयः ।
श्रीमच्छीविधिपक्षगच्छगणभृद् भूभृन्नताङ्घ्रिद्वयः श्रीकल्याणसमुद्रसूरिसुगुरुः सूरीन्द्रचूडामणिः ॥१॥ तन्निर्देशविधायिवाचकवरश्रेणीकिरीटोपमा भास्वत्साधुगुणौघशालिविनयाच्चन्द्राभिधावाचकाः ।
तच्छिष्या रविचन्द्रइत्यभिधया तेषां विनेयो व्यधादेनं वाचकदेवसागरगणिर्युत्पत्तिरत्नाकरम् ॥२॥
॥ इति श्रीवाचकवरदेवसागरविरचितायामभिधानचिन्तामणिनाममालायां व्युत्पत्तिरत्नाकरटीकायां देवकाण्डो द्वितीयः॥
१. द्र. टीकासर्वस्वम्, भा-१, १७॥१५॥, पृ.१४४॥, रामाश्रमी १७॥१५॥, पृ.९९॥ २. कोष्ठान्तर्गतपाठस्थाने २प्रतौ "तस्याभिधानम् आर्यपुत्रः, आर्यस्य पुत्र आर्यपुत्रः" इति दृश्यते ॥३. 'अम गत्यादिषु' इति क्षीरतरङ्गिण्यादौ॥ ४. '-सदृश' इति३ ॥ ५. 'वचसे' इतिर ॥ ६. 'रूपकारणा इति२ ॥ ७. 'न्लोपश्च' इति१.२.४॥ ८. 'इत्यतच्' इति १.२नास्ति ॥ ९. १प्रतौ नास्ति ॥ १०. '-नियुक्ते' इतिर अत्र ३प्रतौ-" 'भट ज्ञाने' धातुः, भटतीति भट्, क्विपि सिद्धे भट् चासौ तारकश्च भट्टारकः, ष्टुभिः ष्टुः इति धातुरत्नाकरे माधवीयवृत्तितोऽपि गृह्यते" इति टिप्पणी दृश्यते ॥ १३. इतोऽग्रे ३प्रतौ 'देवकाण्डो द्वितीयः' इत्यस्य स्थाने 'द्वितीयः काण्ड: समाप्तः' इति दृश्यते ॥
अथ तृतीयं काण्डं विवियते, तत्र "नरस्तृतीये(नरा स्तृतीये)''(श्री-१।२० ॥)इति प्रतिज्ञातत्वात् पूर्वं नरनामान्याह
मर्त्यः पञ्चजनो भूस्पृक् पुरुषः पूरुषो नरः।
मनुष्यो मानुषो नारि मनुजो मानवः पुमान् ॥३३७॥
१ मर्तो लोकस्तत्र भवो मर्त्यः । 'दिगादिभ्यो यत्' ४।३।५४ ॥ इति यत् । म्रियत इति मर्त्य इति वा । मृङ् प्राणत्यागे' (तु.आ.अ.), हसिमृग्रिण्वाऽमिदमितमिलूपूधू(धु)विभ्यस्तन्' (उणा-३६६)इति तन्, ततः स्वार्थे यत् ।२ पञ्चभिः पृथिव्यप्तेजो
वाय्वाकाशाख्यैर्महाभूतैर्जन्यते पञ्चजनः । ‘जनी प्रादुर्भावे'
१० (दि.आ.से.), 'जन जनने'(जु.प.से.) वा, पचाद्यच् । 'पृची सम्पर्के'(अ.आ.से.,रु.प.से.), कनिन्युवृषि-'(उणा-१५४)इत्यत्र प्राक्प्रत्ययनिर्देशस्याधिकविध्यर्थात् कनिनि बाहुलकाद् ऋकार स्याकारो मकारागमश्च । भोजराजस्तु 'युवृषितक्षिराजिधन्वि पचिधुप्रतिदिवस: कन्'( )इति, तदा पचि विस्तारे'(चु.उ.से.) धातुमाह । "द्वयादिभ्यो विस्तीर्णाः पञ्चसंख्या:, जायन्ते जनाः, पचाद्यच्, पञ्च च ते जनाश्च पञ्चजनाः''[ ]इति भाष्यम् । "पञ्च भिर्भूतैर्जाताः पञ्चजनाः''[अ.क्षीरस्वामिटीकार ।६।१ ॥]इति क्षीर स्वामी । ३ भुवं स्पृशति भूस्पृक् । 'स्पृश संस्पर्शने'(तु.प.अ.), 'स्पृशोऽनुदके क्विन्'३।२ १५८ ॥, क्विन्प्रत्ययो यस्माद् विहित
२० स्तस्मादन्यत्रापि प्रत्यये पदान्तस्य कुत्वम् । ४ पिपर्ति पालयति पुरत्यग्रे गच्छति वा पुरुषः । 'प िपालनपूरणयोः (जु.प.से.), 'पुर अग्रगमने'(तु,प.से.), अस्माद् वा, 'पुरः कुषन्'(उणा ६१४) इति कुषन्, 'उदोष्ठ्यपूर्वस्य'७।१।१०२ ॥ इति उत्वम्, 'उरण रपर: '१।११५१॥ । ५ ‘अन्येषामपि दीर्घत्वं दृश्यते'( ) इति दीर्घत्वे पूरुषः ।६ नियते विक्षिप्यते कामादिभिरिति नरः । न विक्षेपे' 'ऋदोरप्'३।३ १५७ ॥ इत्यप् । नृणातीति वा । नृ (ना) नये '(त्र्या.प.से.), क्र्यादिः, पचाद्यच् । ७ मनोरपत्यं मनुष्यः । 'मनोर्जातावञ्यतौ षुक् च'४।१।१६१॥ इति यत्, षुगागमश्च। ८ पूर्ववदनि षुकि च मानुषः । स्त्रियां तु 'गवयहय(हयगवय)-'
३० (वा-४।१।६३ ॥) इत्यादिना ङीषि मानुषी ।९ नयति भारादिकम्, नयत्युन्नतिमात्मानमिति वा ना । ‘णीञ् प्रापणे'(भ्वा.उ.अ.), 'नयतेर्डिच्च'(उणा-२५७) इति ऋन्, डित्त्वाडिलोपः ।१० विश त्यनुप्रविशति सर्वकर्मस्वधिकारित्वेनेति विट् । 'विश प्रवेशने' (तु.प.अ.), क्विप्। ११ मनोर्जातो मनुजः । ‘जनी प्रादुर्भावे' (दि.आ.से.), 'पञ्चम्यामजातौ'३।२।९८॥ इति डः ।१२ मनो रपत्यं मानवः ।औपसंख्यानिकोऽत्राऽण् । "मानवस्तूपसंख्यानात्" [भाषावृत्ति: ४।१।१६१ ॥] इति भाषावृत्तिः । मनोरयं मानव इति वा। 'तस्येदम्'४।३।१२० ॥इत्यण वा।१३ पुनाति पाति कुलमिति वा पुमान् ।'पूपवने'(त्र्या.उ.से.), पुनातेर्मसुन्हस्वत्वंच'(१)इति
४० मसुन्। पा रक्षणे'(अ.प.अ.), पातेडुमसुन्' (उणा-६१७) इति डुमसुन्। त्रयोदश मनुष्यस्य । मिश्रास्तु-"मनुष्यमानुषमर्त्य मनुजमानवनरेति नामानि मानुषजातिमात्रस्य, शेषाणितु मनुष्यजातौ पुरुषस्य"[]इत्याहुः ॥३३७॥
बालः पाकः शिशुढिम्भः पोतः शावः स्तनन्धयः।
पृथुकार्भोत्तानशयाः क्षीरकण्ठः कुमारकः ॥३३८॥
१ बल्यते संव्रियतेऽनिष्टयोगादिति बालः । बल बल्ल संवरणे ( ), कर्मणि घञ् । बलते बुद्धीन्द्रियदेहादिना, नित्यं वृद्धिं यातीति वा । 'बल वृद्धौ'( ), ज्वलादित्वाण्णः । बलति प्राणिति स्तन्येनेति वा । 'बल प्राणने '(भ्वा.प.से.), ज्वलादि त्वाण्णः । २ पान्ति रक्षन्त्येनम्, पिबति स्तन्यं वा पाकः। 'पा
५० रक्षणे'(अ.प.अ.), 'पा पाने'(भ्वा.प.अ.), अस्माद् वा । 'इण्भी कापाशल्यतिमर्चिभ्यः कन्'(उणा-३०)। ३ श्यति स्तन्यपानेने, तनूकरोति मातरमिति वा शिशुः । शो तनूकरणे'(दि.प.अ.), '(श: कित् सनव)च्च'(उणा-२०)इति उप्रत्ययः, सन्वद्भावाद् द्वित्वम्, 'सन्यतः७।४७९ ॥ इतीत्वम् । ४ डिम्भयति डिम्भः । 'डिभि सङ्घ (चु.उ.से.), चुरादिः, पचाद्यच् । ५ पुनाति गोत्रमिति पोत: । 'पूज् पवने'(त्र्या.उ.से.), 'हसिमृग्रिण्वाऽमिदमि-'(उणा ३६६)इति तन्। ६ श्यति मातरं शावः । 'शो तनूकरणे'(दि.प.अ.), 'अशुपषिलटि -'(उणा-१४९)इति बाहुलकाद् वः, 'आदेच उपदेशे-'६।१।४५ ॥ इत्यात्वम् । ७ स्तनं धयति स्तनन्धयः ।
१. 'वेवि-' इति४, 'विव्री-' इति३ ॥ २. 'मर्यो' इति४ ॥ ३. '-दमिलू-' इति१, तथोणादिगणे ॥ ४. "-जातः पञ्चजनः" इति अ.स्वामिकृतटीकायाम्, २२६॥१॥, पृ.१३३ ॥ ५. 'पदान्तेस्य' इति१ ॥ ६. '-मपीति' इति४ ॥ ७. क्षीरतरङ्गिण्यादौ विक्षेपार्थकनधिातुर्न दृश्यते ॥ ८. 'पुनातेर्मक, असुन् (?) हस्वत्वम्' इति अमरकोषपदचन्द्रिकाटीका, भा-२, ६।२५९ ॥, पृ.३३३ ।। ९. द्र. अमरकोशकृष्णमित्रकृतटीका २६१॥, पृ.२०५॥ तथा पदचन्द्रिकाटीका, भा-२, ६।२५९॥, पृ.३३३ ॥ १०. 'वल वल्ल संवरणे सञ्चरणे च' इति मा.धातुवृत्तिः, 'वल संवरणे' इति क्षीरतरङ्गिणी ॥ ११. इतोऽग्रे ४प्रतौ 'बालः' इति दृश्यते ॥ १२. '-पानिनं' इति२ ॥ १३. कोष्ठान्तर्गतपाठ: १.२नास्ति, तत्स्थाने ३प्रतौ 'शासि सरव' इति दृश्यते ॥ १४. '-तीति' इति४ ॥ १५. क्षीरतरङ्गिण्यां चुरादौ 'डपि डिपि सनाते' इत्यत्र स्वाम्याह-"डभि डिभि इति दौर्गाः, डम्भयति डम्भः, डिम्भयति डिम्भः" इति. क्षीर. धातुसं-१२०, पृ.३०४ ॥ १६. इतोऽग्रे ३प्रतौ '-चटि' इति दृश्यते ॥ १७. 'क्वन्' इत्युणादिगणे ॥ १८. '-तीति' इति४॥
'धेट पाने'(भ्वा.प.अ.), नासिकास्तनयोधेिटो:'३।२।२९॥ इति खश्, 'अरुर्द्विषदजन्तस्य-'६।३।६७॥ इति मुम् । स्त्री चेत् स्तनन्धयी । यौगिकत्वात् स्तनपोऽपि । ८ प्रथते जन्मना पृथुकः। 'प्रथ विस्तारे'(भ्वा.आ.से.), 'अर्भकपृथुकपाका वयसि साधर्वः'(उणा-७३१)इति साधुः । पृथु कायतीति वा। 'कै शब्दे'(भ्वा.प.अ.), 'आतोऽनुपसर्गे कः३।२।३ ।। ९ इयर्ति वृद्धिम् अर्भः । ऋ गतौ'(जु.प.अ.), अर्तिगृभ्यां भन्'(उणा ४३२)इति भन् । अर्भते शब्दायते वा। अर्भ शब्दे'( ), पचायच् ।
स्वार्थे कनि अर्भकोऽपि । १० उत्तान: शेते उत्तानशयः । शीङ्
१० स्वप्ने'(अ.आ.से.), 'पार्थादौ च'( )इत्यच् । १२ क्षीरं कण्ठेऽस्य क्षीरकण्ठः । यौगिकत्वात् क्षीरपोऽपि । १३ कामयते यदपि दृष्टं सदिति कुमारः । 'कमु कान्तौ'(भ्वा.आ.से.), णिगन्त: (णिङन्तः) । 'कमेरुच्चोपधाया आरन्, स चित् '(उणा ४१८) इति सूत्रेण आरन् धातोरुपधायाश्चोकारः । कुमारयति क्रीडति वा । 'कुमार क्रीडायाम्'(चु.उ.से.), णिजन्तः, पचाद्यच् । कु ईषत्, कुत्सितो मारः कामोऽस्येति वा। स्वार्थे के कुमारकः। द्वादश शिशोः ॥३३८॥
शिशुत्वंशैशवं बाल्यम्
१शिशोर्भावःशिशुत्वम् । तस्य भावस्त्वतलौ'५।१।११९॥
२० ।२ शिशोर्भावःशैशवम् । इगन्ताच्चलघुपूर्वात्' ५।१।१३१॥इत्यण् ।३ बालस्य भावः बाल्यम् । 'गुणवचन-ब्राह्मणादिभ्यः कर्मणि च'५।१।१२४॥इतिष्यञ् ।तच्च षोडश-वर्षपर्यन्तम्, "आषोडशाद् भवेद् बाल्यम्''[ ]इत्युक्तेः।त्रीणि बालभावस्य ॥
वयःस्थस्तरुणो युवा।
१ वयसि यौवने तिष्ठति वयःस्थः । "वयः पक्षिणि बाल्यादौ वयो यौवनमात्रके"[मेदिनीकोशः, सान्त-वर्गः, श्रो ३२] इति विश्वः (मेदिनी)। वयःशब्दपूर्वात् तिष्ठते : 'आतोऽनुपसर्गे कः'३।२।३॥, 'आतो लोप इटि च'६।४६४॥ इत्यालोपः । २ तरति कौमारं तरुणः। 'तृ प्लवनतरणयोः'
३० (भ्वा.प.से.), 'कृवृतदारिभ्य उनन्'(उणा-३३३) । ३ यौति मिश्रीभवति विषयैः स्त्रिया वा युवा। 'यु मिश्रणे'(अ.प.से.),
'कनिन् युवृषितक्षिराजिधन्विद्युप्रतिदिव:'(उणा-१५४)इति कनिन्, 'अचि श्नुधातु-'६।४।७७॥ इत्युवङ् । त्रीणि यूनः॥
तारुण्यं यौवनम्
१ तरुणस्य भावः कर्म वा तारुण्यम् । ब्राह्मणा दित्वात् ष्यञ् । २ यूनो भावो यौवनम्, पुंक्ली. । 'हाय नान्तयुवादिभ्योऽण् '५।१।१३०॥ इत्यण्, 'अन्'६।४।१६७ ॥ इति प्रकृतिभावान्न टिलोपः । द्वे यौवनस्य ॥
वृद्धः प्रवयाः स्थविरो जरन् ॥३३९॥ जरी जीर्णो यातयामो जीनः
४० १ वर्धते स्म वृद्धः । 'वृधु वर्धने '(भ्वा.आ.से.), निष्ठा, 'झषस्तथो:-'८।२।४० ॥ इति धत्वम् । २ प्रगतं वयो यौवनमस्य प्रवयाः, सकारान्तः । 'अत्वसन्तस्य चाधातोः' ६४।१४॥ इत्युपधादीर्घः । ३ तिष्ठति विषयाद् व्यावृत्तः सन्निति स्थविरः । 'ष्ठा गतिनिवृतौ'(भ्वा.प.अ.), 'अजिरशिशिर शिथिलस्थिरस्फिरस्थविरखदिराः'(उणा-५३)इति किरचि अवादेशोऽन्त्यस्य निपात्यते । ४ जीर्यते स्म जरन् । 'जृष् वयोहानौ'(दि.प.से.), 'जीर्यतेरतृन्'३।२।१०४॥, 'उगिद चाम्- '७।१७० ॥ इति नुम् । जरन्तौ, जरन्तः इत्यादि ॥३३९॥ ५ जराऽस्यास्ति जरी । 'व्रीह्यादिभ्यश्च'५।२।११६ ॥ इति इनिः।
५० जरिणौ, जरिणः इत्यादि । ६ जीर्यति स्म जीर्णः । 'जुष् वयोहानौ'(दि.प.से.), निष्ठा, 'ऋत इंद्धातोः'७।१।१००॥, 'उरण रपरः'११५१॥, 'रदाभ्यां निष्ठा-'८।२।४२॥इति नत्वम्, ['हलि च'८।२७७॥ इति दीर्घत्वम्], 'श्रूयुकः किति' ७।४।११॥ इति नेट् । ७ याता यामाः प्रहरा अस्य यातयामः । ८ जिनाति स्म जीनः । 'ज्या वयोहानौ'(त्र्या.प.अ.), निष्ठा, 'ग्रहिज्या- '६।१।१६॥ इति संप्रसारणम्, ल्वादिभ्यश्च'८।२।४४॥ इति निष्ठानत्वम्, 'हल:'६।४।२॥ इति दीर्घत्वम् । अष्ट वृद्धस्य ॥
अथ विरसाजरा।
६०
१. 'प्रथ प्रख्याने' इति क्षीरतरङ्गिण्यादौ ॥ २. उणादिगणसूत्रे नास्ति॥ ३. 'अधिकरणे शेते'३।२।१५ ॥ इत्यत्र 'पार्थादिषूपसंख्यानम्' इति वार्तिकं मनसि निधाय 'पादिौ च' इत्युक्तम्, वस्तुतः 'उत्तानादिषु कर्तृषु'(वा-३।२।१५॥)इत्यनेन वार्तिकेनाच्प्रत्ययो योग्यः ॥ ४.णिजन्तः' इति १॥ ५. उणादिगणे 'कमेः किदुच्चोपधायाः' इति सूत्रस्वरूपं दृश्यते ॥ ६. 'स चत्' इति २॥ ७. इतोऽग्रे १प्रतौ 'वा' इति दृश्यते ॥ ८. '-तृ-' इति ३॥ उणादिगणे 'त' इत्यस्य नोल्लेखः, स चोचित एव, 'त्रो रश्च लो वा'(उणा-३३४) इति सूत्रस्य विद्यमानत्वात, अन्यथा 'तरुणः तलुनः' इति रूपद्वयं न भविष्यति ॥ ९. 'ष्यन्' इति ३.४॥ १०. 'वृद्धौ' इति क्षीरतरङ्गिण्यादौ । ११. 'ज' इति १.२॥ १२. 'ई-' इति १.२.४ ।। १३. 'सप्त' इति १.४॥
१ विशेषेण स्रस्यते अध:पात्यतेऽनया विस्रसा, द्विदन्त्यः । 'स्रंसु अध:पतने '(भ्वा.आ.से.), भिदादित्वादङ् । २ जीर्यत्यनया जरा । 'जृष् वयोहानौ'(दि.प.से.), षित्त्वात् 'षिद्भिदादिभ्योऽङ्३।३।१०४॥, 'ऋदृशोऽङि गुणः' ७।४।१६॥, टाप् । द्वे जरायाः ॥
वार्धकं स्थाविरम्
१ वृद्धस्य भावः कर्म वा वार्धकम् । मनोज्ञादित्वाद् वुञ्, 'युवोरनाको'७।१।१॥ । २ स्थविरस्य भावः कर्म वा
स्थाविरम् । 'हायनान्तयुवादिभ्योऽण् ५।१।१३०॥ इति युवादित्वा
१० दण्। द्वे वृद्धत्वस्य ॥
__ ज्यायान् वर्षीयान् दशमीत्यपि ॥३४०॥
१ अतिशयेन वृद्धो ज्यायान् । वृद्धशब्दादतिशयेऽर्थे ईयसुनि 'वृद्धस्य च'५।३।६२ ॥ इति वृद्धस्य ज्यादेशः, ‘ज्यादा दीयसः'६।४।१६० ॥ इत्यात्वम् । ज्यायांसौ, ज्यायांसः इत्यादि । २ अतिशयेन वृद्धो वर्षीयान् । वृद्धशब्दादतिशयेऽर्थे ईयसुनि 'प्रियस्थिरस्फिरोरुबहुलगुरुवृद्ध-'६।४।१५७ ॥ इत्यादिना वृद्धस्य वर्षादेशः । वर्षीयांसौ इत्यादि । ३ नवतेरूचं दशम इत्यवस्था विशेषः, तद्योगाद् मत्वर्थे 'वयसि पूरणात्'५।२।१३०॥ इतीनिः दशमी । दशमिनौ, दशमिनः इत्यादि । दशमीस्थोऽपि।
२० "इष्टो वयोदशोपेतः पञ्चमी सप्तमीति वा।
प्रवया दशमीस्थ: स्यात् "["] इति भागुरिः । त्रीण्यतिवृद्धस्य ॥३४॥
विद्वान् सुधीः कविविचक्षणलब्धवर्णा ज्ञः प्राप्तरूपकृतिकृष्ट्यभिरूपधीराः।
मेधाविकोविदंविशारदसूरिदोष ज्ञाः प्राज्ञपण्डितमनीषिबुधप्रबुद्धाः ॥३४१॥
व्यक्तो विपश्चित् संख्यावान् सन्
१ वेत्ति जानाति विद्वान् । 'विद ज्ञाने'(अ.प.से.), 'लटः शतृशानचौ-'३।२।१२४॥ इति लटः शत्रादेशः, 'विदेः
शतुर्वसुः७।१।३६॥ इति शतुर्वसुरादेशः, 'उगिदचाम्-'७।१।-
३० ७०॥ इति नुम् । २ सुष्ठु ध्यायति सुधीः । 'ध्यै चिन्तायाम्' (भ्वा.प.अ.), ध्यायतेः क्विप् सम्प्रसारणं च'(वा ३।२।१८०॥) इति क्विप्सम्प्रसारणे । सुष्ठु दधाति धारयति शास्त्रार्थमिति वा । 'डुधाञ् धारणादौ'(जु.उ.अ.), 'क्विप्' ३२७६ ।। इति क्विप्, 'घुमास्था-'६।४।६६॥ इतीत्वम् । शोभना धीरस्येति वा। ३ कवते कौति वा धर्माधर्मों कविः। 'कुङ् शब्दे'(भ्वा.-आ.अ.), 'कु शब्दे'(अ.प.अ.) अदादिर्वा, 'अच इ:'(उणा- ५७८)इति इ: । कबते वर्णयतीति वा । 'कबृ वर्णे'(भ्वा.-आ.से.), 'इन् सर्वधातुभ्यः'(उणा-५५७)इतीन् । स्त्रियां कवी च, कविताऽपि । ४ विचष्टे शास्त्रार्थमिति
४० विचक्षणः। 'चक्षिव्यक्तायां वाचि'(अ.आ.से.), 'अनुदात्तेतश्च हलादेः'३।२।१४९॥ इति युच्, 'युवोरनाको'७।१।१॥, 'असि अके अने चक्षिङ ख्याञ् नेति वाच्यम्'( )इति ख्याजादेशभावः। ५ लब्धः प्राप्तो वर्णः स्तुतिर्यशो वा अनेन लब्धवर्णः । ६ जानाति शास्त्रार्थमिति ज्ञः । 'ज्ञा अवबोधने'(या.प.अ.), 'इगुपधज्ञा-'३।१।१३५॥ इति कः, आतो लोप इटि च'६४६४॥ इत्यालोपः । ७ प्राप्तं रूपं दर्शनं येन स प्राप्तरूपः । ८ प्रशस्तं कृतमस्यास्ति कृती। 'अत इनिठनौ'५।२।११५॥ इतीनिः । कृतमत्यन्तमनेन । 'इष्टा-दिभ्यश्च ५।२४८॥ इतीनिर्वा । "करोतेः क्रियासामान्य-वाचित्वाद् ज्ञानार्थत्वात् कृतं ज्ञानमस्यास्ति कृती
५० ज्ञानी "["]इति तु कलिङ्गः। ९ कर्षति गूढार्थमिति कृष्टिः । 'कृष विलेखने' (भ्वा.प.अ.), संज्ञायां तिक् (तिच्), बाहुलकात् कर्तरि क्तिन् वा, पुंस्ययम् । “आकर्षणे स्त्रियां कृष्टिर्भवेन्नरि विपश्चिति" [ ]इति रन्तिदेवः। १० अभिगतं रूपं येन अभिरूपः । ११ दधाति धियं धीरः । 'डु धाञ् धारणपोषणयोः (जु.उ.अ.), 'सुसूधागृधिभ्यः क्रन्'(उणा-१८२), 'घुमास्था- '६।४।६६॥ इतीत्वम् । धियमीरयति प्रेरयति वा । 'ईर गतिप्रेरणयों:' (चु.उ.से.), 'कर्मण्यण'३।२।१॥ । संशयविपर्ययरहितां धियं रात्यादत्त इति वा । 'रा दाने'(अ.प.अ.), आतोऽनुपसर्गे कः' ३।२।३॥, आतो लोप:-
६० '६४६४॥ इत्यालोपः। १२ मेधा-ऽस्त्यस्य मेधावी ।
१. स्रंसु अवलंसने' इति क्षीरतरङ्गिण्यादौ ॥२. वृद्धस्य' इति १॥३. 'इय-'इति १.३॥ ४.'इय-' इति १.२.३॥५. २प्रतौ नास्ति॥६. द्र. स्वोपज्ञटीका ३३४० ॥, पृ.८०॥७. अत्र वबयोरैक्यं द्रष्टव्यम्, क्षीरतरङ्गिण्यादौ 'कवृ' इति धातोरविद्यमानत्वात् ॥८. 'शास्त्रमिति' इति ४॥९. आत (ज्ञात?)'इति १, इतोऽग्रे प्रतौ 'हि' इति दृश्यते ॥१०. द्र. पदचन्द्रिका, भा-२, ब्राह्मवर्गः, शो-४०२, पृ.४९२ ॥११. द्र. रामाश्रमी २७।६।।, पृ.३२६ ॥, पदचन्द्रिका, भा-२, बहावर्ग:. शो-४०२, पृ.४९२॥१२.'-प्रेषणयोः' इति३, गतिप्रेरणार्थकेरधातुः क्षीरतरङ्गिणयादौ न दृश्यते॥१३. 'धियां' इति ३॥
'अस्मायामेधास्रजो विनिः५।३।१२१॥ इति विनिः । मेधाविनौ, मेधाविनः इत्यादि । १३ को वेत्त्यभिप्रायमस्य, कस्य बह्मण ओकः स्थानं वेत्तीति वा कोविदः। “विद ज्ञाने'(अ.प.से.), पृषोदरादित्वात् साधुः । कौति शब्दायते धर्माधर्माविति । 'कु शब्दे'(अ.प.अ.), विच्प्रत्ययः । कुशब्देन वेद उच्यते, तस्य विदो ज्ञाता इति वा, पृषोदरादिः । १४ विशेषेण शारदोऽधृष्टः प्रत्यग्रो वा विशारदः। १५ सुनोति सन्देहम्, सूते सदर्थं वा सूरिः । 'षुज अभिषवे '(स्वा.उ.अ.), 'षूङ् प्राणिगर्भविमोचने'(अ.आ.वे.) वा, 'सुजो दीर्घश्च'(उणा
१० २९३)इति रिक्दी! । षूङ्, 'सुसूधागृवि(धि)भ्यः क्रिन्' (उणा-१८२), 'सामसालसमसूरसूरयः" [ ]इति सभेदात् सूरिः दन्त्यादिः । अभिधानमालायां तु इन्नन्तोऽपि, सूरी, सूरिणौ, सूरिणः इति (इत्यादि) । १६ दोषान् जानाति ज्ञात्वा जह्यादिति दोषज्ञः। 'ज्ञा अवबोधने'(त्र्या.प.अ.), 'इगुपधज्ञा-'३।१।१३५॥ इति कः। १७ प्रज्ञाऽस्त्यस्य प्राज्ञः । 'प्रज्ञाश्रद्धा वृत्तिभ्यो णः'५।१०१॥। प्रज्ञ एव वा । 'प्रज्ञादिभ्यश्च'५।४।३८॥ इत्यण। १८ पण्ड्य तेऽनया पण्डा । 'पडि गतौ'(भ्वा.आ.से.), 'गुरोश्च' ३।३।१०३॥ इत्यकारः, ततो ये गत्यर्थास्ते ज्ञानार्था इत्युक्तेः . पण्डा बुद्धिः सञ्जाताऽस्य पण्डितः। तारकादित्वादितच् । १९
२० मनस ईष्टे मनीषी, पृषोदरादिः । मनीषाऽस्त्यस्येति वा, 'शिखादित्वादिन् । यौगिकत्वाद् धीमान्, मतिमानित्याद्याः (मतिमानित्यादयः) । २० बुध्यतेऽवगच्छति पदार्थानिति बुधः। 'बुध अवगमने'(दि.आ.अ.), 'इगुपध-'३।१।१३५॥ इति कः। २१ प्रबुध्यते प्रबुद्धः । 'बुध अवगमने'(दि.आ.अ.), वर्तमाने क्तः ॥३४१॥ २२ व्यनक्त्यर्थमिति व्यक्तः । विपूर्वः 'अजू [व्यक्ति]म्रक्षणादौ '(रु.प.वे.), वर्तमाने क्तः, 'अनिदिताम्-' ६।४।२४॥ इति न्लोपः। २३ विशेषेण पश्यंश्चेतयते विपश्चित्, पृषोदरादिः । २४ संख्या विचारणा, तद्युक्तः संख्यावान् । यद्वा सं सम्यक् ख्यानं ज्ञानमस्यास्ति संख्यावान् । 'तदस्यास्त्यस्मि
३० निति मतुप्' ५।२।९४॥ । २५ सर्वेषु शान्तिकपौष्टिकादिकर्मसु अस्ति विद्यते सन्, विद्यमान इत्यर्थः, अन्ये त्वसत्कल्पाः ।
'असं भुवि'(अ.प.से.), शतृप्रत्ययः, अस्ति श्रसोरल्लोपः' ६४।१११॥, 'उगिदचाम्-७।१७० ॥ इति नुम् । सन्तौ, सन्तः इत्यादि । पञ्चविंशतिः पण्डितस्य ।
प्रवीणेतु शिक्षितः।
निष्णातोनिपुणोदक्षः कर्महस्तमुखाः कृतात्॥३४२॥
कुशलश्चतुरोऽभिज्ञविज्ञवैज्ञानिकाः पर्युः।
१ प्रकर्षेण वीयते गम्यते प्रवीणः । 'वी गतिप्रजन कान्त्यादिषु'(भ्वा.प.अ.), ['घृवीह्वा-'(हैमोणा-१८३)इति णक्], तत्र । २ शिक्षा सञ्जाताऽस्य शिक्षितः । तारकादित्वा-
४० दितच् । शिक्ष्यते स्मेति वा । 'शिक्ष विद्योपादाने'(भ्वा.आ.से.), निष्ठा, 'आर्धधातुकस्य-७।२।३५॥ इतीट् । ३ निष्णाति स्म निष्णातः। ष्णा शौचे'(अ.प.अ.), मुख्यार्थं परित्यज्य निपुणे रूढः, निष्ठा, निनदीभ्यां स्नाते: कौशले'८।३।८९॥ इति सस्य षत्वम् । ४ नियतं पुणति शोभनकर्मत्वादिति निपुणः। 'पुण कर्मणि शुभे'(तु.प.से.), 'इगुपध-'३।१।१३५॥ इति कः । ५ दक्षते दक्षः। 'दक्ष वृद्धौ शैघ्ये च'(भ्वा.आ.से.), पचाद्यच् । ६-८ कृतात् कृतशब्दादग्रे कर्महस्तमुखाः शब्दा योज्यन्ते, तेन कृतं कर्माऽनेन कृतकर्मा, नान्तः । यौगिकत्वात् कृतकृत्यः, कृतार्थः, कृती च । कृतो वशीकृतो हस्तोऽनेन कृतहस्तः। कृतं
५० संस्कृतं मुखमस्य कृतमुखः ॥३४२॥ ९ तीक्ष्णान् कुशान् लाति कुशलः, ते हि व्युत्पन्नैरादातुं शक्याः । 'ला दाने'(अ.प.अ.), 'आतोऽनुपसर्गे कः'३।२।३ ।। कुश्यति शुिष्यति वा । 'कुश श्रेषणे'(दि.प.से.), वृषादित्वात् कलच् । १० चतते कर्म इति चतुरः । 'चतेङ् याचने'(भ्वा.उ.से.), 'मन्दिवाशिमथिचतिचक्यङ्किभ्य उरच्'(उणा-३८) । चत्वारः पुरुषार्थाः सन्त्यस्येति वा । अर्शआदित्वादच् । ११ अभितः सर्वतो जानाति अभिज्ञः। 'ज्ञा अवबोधने'(त्र्या.प.अ.), 'इगुपध-'३।१।१३५ ॥
१. 'प्रत्ययो' इति ४॥ २. वस्तुतस्तु इदं सूत्रं निप्रत्ययस्य विधानं करोत्यतः रिक्प्रत्ययविधानं विचारणीयम् ॥ ३. इदमपि सूत्रं क्रन्करोति, अथ च 'सूङ: क्रि:'(उणा-५०४)इत्युणादिक्रिप्रत्ययेन समाधेयम् ॥ ४. द्र. पदचन्द्रिका, भा-२, ब्रह्मवर्गः, शो-४०२, पृ.४९२ ॥, तत्र-"साल-साम सम-सुर-सूरयः" इति दृश्यते ॥ ५. 'शिखादिभ्योदिन्' इति १॥ ६. '-दिज्' इति३॥ ७. 'असु' इति १.३॥ ८. अनावश्यकोऽयम्॥ ९. 'संस्कृतमुख-'इति३॥ १०. 'झूिष्यते' इति१ ॥ ११. दुर्गसम्मतोऽयं धातुः, द्र. क्षीरतरङ्गिणी, दिवादिः, धातुसं-११२, पृ.२२९॥ १२. डकारानुबन्धः
क्षीरतरङ्गिण्यादौ न दृश्यते ॥
इति कः। १२ विशेषेण जानाति विज्ञः। १३ विज्ञानं प्रयोजनमस्य वैज्ञा-निकः। तदस्य प्रयोजनम्'५।१।१०१॥ इति ठक्, 'ठस्येकः' ७।३।५० ॥, 'किति च७।२।११८॥ इति वृद्धिः। १४ पाटयति दाक्ष्यं पटुः । 'पट विस्तारे'(भ्वा.प.से.), णिजन्तः, 'फलिपाटि नमिमनि-'(उणा-१८)इत्युः, ‘णेरनिटि'६४५१॥ इति णिलोपः। चतुर्दश प्रवीणस्य । 'सीखिउँ' इति भाषा ॥ "क्षेत्रज्ञः नदीष्णः निष्णः"[शेषनाममाला ३९२॥] इति शैषिकाणि ॥
छेको विदग्धे
१ छ्यति छिनत्ति मुर्खदुष्टचित्तानि छेकः । 'छो
१० छेदने'(दि.प.अ.), बाहुलकाद् डेकः । २ विशेषेण दहति मूर्खचित्तमिति विदग्धः । 'दह भस्मीकरणे'(भ्वा.प.अ.), वर्तमाने क्तः, तत्र । द्वे दाक्ष्यातिशययुक्तस्य । छेकोऽवसरज्ञो, द्वासप्ततिकलापण्डित इति च वृद्धाः । छेकः 'प्रयोगज्ञः' इति भाषान्तरम् । “छेकालः छेकिलः"[शेषनाममाला २।९२॥] शैषिके । छइल्लो देश्याम् ॥
प्रौढस्तु प्रगल्भः प्रतिभान्वितः ॥३४३॥
१ प्रौद्यते(प्रोह्यते) स्म प्रौढः। 'वह प्रापणे'(भ्वा.उ. अ.), निष्ठा, कित्त्वात् सम्प्रसारणम्, 'हो ढः'८।२।३१ ॥, झष
स्तथो:-'८।२।४०॥ इति धत्वम्, ष्टुत्वम्, ढलोपः, 'प्रादूहोढौ
२० (-ढो)-'(वा-६।१८९॥)इति वृद्धिः । २ प्रगल्भते प्रगल्भः । 'गल्भ धाट्ये '(भ्वा.आ.से.),पचाद्यच् ।३ तत्त्वोल्लेखशालिनी प्रज्ञा प्रतिभा, तयान्वितः प्रतिभान्वितः । त्रीणि सर्वव्यापार समर्थस्य । 'पुषतु' इति भाषा ॥३४३॥
कुशाग्रीयमतिः सूक्ष्मदर्शी
१ कुशाग्रस्य तुल्या तीक्ष्णत्वात् कुशाग्रीया। 'कुशा ग्राच्छ: ५।३।१०५॥, 'आयनेयी-७।१।२॥ इति ईयादेशः। कुशाग्रीया मतिरस्य कुशाग्रीयमतिः । २ सूक्ष्मं पश्यतीत्येवं शीलः सूक्ष्मदर्शी । 'दृशिर् प्रेक्षणे'(भ्वा.प.अ.), 'सुप्यजातौ
णिनिः- '३।२७८ ॥ इति णिनिः । द्वे सूक्ष्मदर्शिनः । 'ऊंडु
३० विमासै ' इति भाषा ॥
तत्कालधीः पुनः।
प्रत्युत्पन्नमतिः
१ तत्कालमेव धीरस्य तत्कालधीः । २ प्रतीति प्रत्यग्रमुत्पन्ना मतिरस्य प्रत्युत्पन्नमतिः । द्वे त्वरितोत्पन्न बुद्धिधनस्य॥
दूराद्यः पश्येद्दीर्घदर्श्यसौ ॥३४४॥
१ दूराद् यः पश्येदसौ दीर्घदर्शी । दीर्घ पश्यतीत्येवं शीलः दीर्घदर्शी । 'दृशिर् प्रेक्षणे'(भ्वा.प.अ.), 'सुप्यजातौ-' ३।२।७८॥ इति णिनिः । दीर्घदृष्टिरपि । यद्धलायुधः "दूरादेवार्थसन्दर्शी दीर्घदृष्टिः प्रकीर्तितः''[हलायुधकोशः
४० २३७६ ॥] इति । एकं दूरादेवार्थद्रष्टुः ॥३४४॥
हृदयालुः सहृदयश्चिद्रूपोऽपि
१ प्रशस्तं हृदयं मनोऽस्य हृदयालुः । 'हृदयाच्चालु रन्यतरस्याम्'(वा-५।२।१२२॥)इत्यालुः । २ सह हृदयेने मनसा न तु वक्षसा वर्तते स सहृदयः । सर्वेऽपि सहृदया एव, परमत्रौचित्याद् हृदयालुसाहचर्याच्च प्रशस्तहृदयसहिते पुंविशेषेऽयं वर्तते । 'सुहृदयः' इति पाठे, शोभनं हृदयमस्येति व्युत्पत्तिः। ३ चिदिति विशिष्टे चैतन्ये वर्तते, चिद् रूपमस्य तन्मयत्वाद् चिद्रूपः । त्रीणि वस्तुतत्त्वज्ञानयुक्तस्य ॥
अथ संस्कृते ।
५० व्युत्पन्नाहतक्षुण्णाः
१ शास्त्रादिना संस्क्रियते स्म संस्कृतः । 'निष्ठा' ३।२।१०२॥ इति क्तः, 'सम्पर्युपेभ्य:-'६।१।१३७॥ इति सुट।२ व्युत्पद्यते स्म व्युत्पन्नः । पद गतौ'(दि.आ.अ.), भावे निष्ठा, 'रदाभ्याम्-'८।२।४२॥ इति नत्वम् । ३ प्रहन्यते स्म प्रहतः। 'हन्(हन) हिंसागत्योः'(अ.प.अ.), निष्ठा, अनुदात्तोपदेश-' ६।४।३७॥ इति न्लोपः । ४ क्षुद्यते स्म क्षुण्णः। क्षुदिर् सञ्चूर्णने' (रु.उ.अ.), निष्ठा, 'रदाभ्याम्-' ८।२।४२॥ इति नत्वम् । चत्वारिशास्त्रादितत्त्वचतुरस्य ॥
अन्तर्वाणिस्तुशास्त्रवित् ॥३४५॥
६०
१. विस्तारार्थकपटधातुः क्षीरतरङ्गिण्यादौ न दृश्यते ॥ २. 'सीखिउ' इति २, 'सीखियौ' इति ४॥ ३. 'छेकेऽ-' इति२ ॥ ४. 'तत्त्वोल्लेखः' इति२ ॥ ५. 'पुषतो' इति३॥ ६. 'उंडु' इति ३, 'ऊंडूं' इति ४॥ ७. 'विमासइ' इति २.४॥ ८. '-पन्नस्य' इति ३॥९. हलायुधे 'दूरार्थानर्थसन्दर्शी' इति दृश्यते, पृ.४४॥ १०. 'हृदये' इति १॥ ११. सिद्धान्तकौमुद्यां दीक्षितेन 'संपरिभ्यां- '६।१।१३७॥ इत्यादिपाठः स्वीकृतः, अत्र तट्टीका तत्त्वबोधिनी-"संपर्युपेभ्य:-' इति वृत्तिस्थपाठं विहाय भाष्यवार्त्तिकानुसारेणाह-संपरिभ्यामिति" इति, सिद्धान्तकौमुदी, पृ.४७९ ॥
१अन्तरन्तःकरणे वाणी शास्त्रशरीरभूता अधिदेवभूतावा अस्य अन्तर्वाणिः । 'गोस्त्रियो:-'१।२।४८॥ इति इस्वत्वम्, 'मातृच(मातृज्)मातृकमातृषु'(वा-६।१।१४॥)इतिसामान्यज्ञाप कात्, कपोऽनित्यत्वान्न कप् । “अन्तर्वाण्यस्येति अन्तर्वाणिः [विपश्चित्], निष्प्रवाणिश्च'५।४।१६० ॥इति चकाराद्'नघृतश्च' ५।४।१५३ ॥ इति कपोनिषेधः"[मा.धातुवृत्तिः, भ्वादिः, धातुसं २९७]इति माधवः । शास्त्रं च न तथा वक्तुं शक्नोति शास्त्र वित् । 'विद ज्ञाने'(अ.प.से.), क्विप् । शास्त्रं वेत्ति न तथा वक्तुं शक्नोति, तस्यैकम् ॥३४५॥
१० वागीशो वाक्पतौ
१ वाचामीशो वागीशः । “प्रधानवचसो मूकान् वागीशानपि कुर्वतः"[ ]इति माघः । २ वाचां पतिः वाक्पतिः, तत्र। द्वे प्रधानवक्तुः ॥
वाग्मी वाचोयुक्तिपटुः प्रवाक् । समुखो वावदूंकः
__ १ प्रशस्ता वागस्य वाग्ग्मी । 'वाचो ग्मिनिः' ५।२।१२४॥ इति ग्मिनिः, तेन द्वयोर्गकारयोः श्रवणं भवति, 'चोः कुः'८।२।३० ॥, 'झलां जशोन्ते'८।२।३९॥ इति जश्त्वम्। यदि मिनिरित्येवोच्येत तदा ‘यरोऽनुनासिके-'८।४।४५ ॥ इति
२० नित्यमनुनासिकः स्यात्, 'प्रत्यये नित्यमिष्यते' इति वचनात्। "यो हि सम्यग्भाषते वाग्मीत्येव सं भवति"[ ]इति माधव कृष्णपण्डितादयः। २ वाचो युक्तौ पटुः वाचोयुक्तिपटुः, षडक्ष रमखण्डम्। 'वाग्दिक्पश्यद्भयो युक्तिदण्डहरेषु'(वा-६।३।२१॥) इति षष्ठ्यलुक् । ३ प्रकृष्टा वागस्य प्रवाक्। ४ सह मुखेन वचनेन वर्तते समुखः। मुखशब्देनात्र वचनं लक्ष्यते। ५ वावद्यत इत्येवंशीलो वावदूकः । वदेर्यङन्ताद् 'वदेश्च'( )इत्यूकः। पञ्च प्रतिभायुक्तजल्पकस्य ॥
___ अथ वदो वक्ता वदावदः ॥३४६॥
१ वदतीति वदः । वद व्यक्तायां वाचि'(भ्वा.प.से.),
३० पचाद्यच् । २ वक्तीति वक्ता । 'वच परिभाषणे'(अ.प.अ.), ‘ण्वुल्तृचौ'३।१।१३३॥इति तृच्,तृन्वा।३ वदति वदावदः । वद व्यक्तायां वाचि'(भ्वा.प.से.), पचाद्यच्, 'चरिचलिपति-वदीनां द्वित्वमच्याक् चाभ्यासस्य कार्यमनचीति वक्तव्यम्'(वा ६।१।१२॥)इति हलादिःशेषाभावः। त्रीणि वक्तुः। कहणहार' इति भाषा ॥३४६॥
स्याजल्पाकस्तु वाचालो वाचाटो बहुगवाक् ।
१ जल्पनशीलो जल्पाकः । ‘जल्प व्यक्तायां वाचि' ( भ्वा.प.से.), 'जल्पभिक्षकुट्टलुण्टवृङ: षाकन्'३।२।१५५ ।। २ -३ कुत्सिता वागस्य वाचालः, [वाचाट:] । 'आलजाटौ (आलजाटचौ) बहुभाषिणि'५।२।१२५ ॥, 'कुत्सित इति वाच्यम्'
४० (वा-५।२।-१२५ ॥) । ४ बहुनि:सारतया गा वागस्य बहुगी वाक् । चत्वारि वाचालस्य। 'घj असारबोलै ' इत्यादिभाषा ॥ यद्वदोऽनुत्तरे
१ यदेव निःसरति, तदेव वदति यद्वदः । पचाद्यच् । २ ___नास्ति उत्तरमस्य अनुत्तरः, तत्र । द्वे प्रश्नानुरूपोत्तररहितस्य॥
दुर्वाक् कद्वदे स्यात्
१ दुर् निन्दितं वक्ति दुर्वाक् । दुर् निन्दिता वाग स्यास्तीति वा । २ कुत्सितं वदति कद्वदः । 'रथवदयोश्च' ६।३।१०२॥ इति कोः कत्, तत्र । गर्दावादीत्यपि । “गद्यवादी तु कद्वदः"[अमरकोषः३।१।३७॥]इत्यमरः । यो निन्दां कुर्वन्
५० वक्ति, तस्य द्वे ॥
अथाऽधरः ॥३४७॥ हीनादिनि
१ अवति गच्छति हीनत्वम् अधरः । अव रक्षणादौ' (भ्वा.प.से.), 'अवेर्ध(ध्) च वा'(हैमोणा-३९८)इत्यरः ॥३४७॥ २ हीनं वदतीत्येवंशीलो हीनवादी । 'वद व्यक्तायां वाचि'(भ्वा.प.से.), सुप्यजातौ-'३।२७८ ॥इति णिनिः, तत्राद्वे वादे पराजितस्य॥
एडमूकाऽनेडमूकौत्ववाक्श्रुतौ।
. 'संभवति' इति ४॥ ४. "वदेर्यङन्ताद् १. '-देवता-' इति ३॥ २. वस्तुतः द्रविडप्राणायामोऽयं हु स्वान्तवाणिशब्दसत्त्वात् ॥ ३. 'संभवति' इति ४॥ ४. "वदेर्य 'यजजपदशां यङः '(३।२।१६६॥) इति बहुवचननिर्देशादन्यतोऽप्यूक इति धातुपारायणम्। 'चेक्रीयीतान्तानां यजिजपिदंशिवदाम्' इत्यूक इति कालापाः" इति टीकासर्वस्वम्, भा-३, ३१ ॥३५॥, पृ.१७॥ ५. 'चरिचलिपतिवदीनां वा द्वित्वमच्याक् चाभ्यासस्येति वक्तव्यम्' इति वार्तिकस्वरूपं दृश्यते। 'आगमस्य दीर्घत्वसामर्थ्यादभ्यासह स्वो हलादिः शेषश्च न' इति तत्रैव दीक्षितः॥ ६. 'आसार-' इति ३॥ ७. '-बोलइ' इति २.४॥ ८. 'इति' इति १॥
१ एडो बधिरः, मूकोऽवाक्, एडश्चासौ मूकश्च एड मूकः । "कलमूकस्त्ववाक्श्रुतिः"हलायुधकोश: २।६०९॥] इति हलायुधः । २ अनेडोऽपि अवर्करोऽपि मूकः अनेडमूकः। "अन्धो ह्यनेडमूकः स्यात्''[हलायुधकोशः २।६०९॥] इति हलायुधः । “अनेडमूकस्तु जडः"[वैजयन्तीकोष: ५।४।१४॥] इति वैजयन्ती । "शठो ह्यनेडमूकः स्यात्''[]इति भागुरिः, तदयमनेकार्थो द्रष्टव्यः । ३ न विद्यते वाक् श्रुतिश्चास्य अवाक्श्रुतिः, तत्र । यो बधिरो मूकश्च, तस्य त्रीणि ॥
रवणः शब्दनस्तुल्यौ
१० १ रौतीत्येवंशीलो रवणः । 'रु शब्दे'(अ.प.अ.), 'चलनशब्दार्थादकर्मका'३।२।१४८॥ इति युच् । २ शब्द
यतीत्येवंशीलः शब्दनः । 'शब्द शब्दने (चु.उ.से.), चुरादिः, 'चलनशब्दार्थात्- '३।२।१४८ ॥ इति युच् । द्वे शब्दकरस्य । 'सादकर' इति भाषा ॥
कुवादकुचरौ समौ ॥३४८॥
१ कुत्सितो वादोऽस्य कुवादः । २ कुत्सितं चरति कुचरः । 'चर गत्यादौ '(भ्वा.प.से.), पचाद्यच् । "कुचरः कुटिलाशयः"[हलायुधकोशः २।३८९॥] इति हलायुधः । द्वे कुवचनकथकस्य ॥३४८॥
२० लोहलोऽस्फुटवाक्
१ लोहति मुह्यति लोहलः। 'लुहः सौत्रः, कत्थनादौ कलच् , बाहुलकाद् गुणः । २ अस्फुटा वागस्य अस्फुटवाक्। द्वे अप्रकटवचनवक्तुः । 'तोतला' इति भाषा । "काहलः" [शेषनाममाला ३९२॥] इति शैषिकम् ॥
मूकोऽवाक्
१ मूयते बध्यते वागभावेनेति मूकः । 'मूङ् बन्धने' (भ्वा.आ.से.), वयतिभवतिभ्यां कक्'( ) ।२ नास्ति वागस्य अवाक् । द्वे मूकस्य । “जडकडौं "[शेषनाममाला ३।९३॥] शैषिके ॥
३० . असौम्यस्वरोऽस्वरः।
१ न सौम्यः स्वरोऽस्य असौम्यस्वरः । २ विपरीतः स्वरोऽस्य अस्वरः । अत्र नञ् वैपरीत्ये अनर्थवदिति । द्वे घर्घरस्वरस्य ॥ वेदिता विदुरोविन्दुः
१ वेत्तीत्येवंशालोवेदिता। विद ज्ञाने'(अ.प.से.),शीले तृन् । २ वेत्तीत्येवंशीलो विदुरः । 'विदिभिदिच्छिदेः कुरच्'३।२।१६२॥।३वेदनशीलोविन्दुः। विदज्ञाने'(अ.प.से.), 'विन्दुरिच्छुः'३।२।१६९ ॥ इति साधुः। त्रीणि ज्ञातुः। 'जाणं ' इति
भाषा॥
वन्दोरुस्त्वभिवादकः ॥३४९॥
४० १ वन्दनशीलो वन्दारुः । 'वदि अभिवादनस्तुत्योः' (भ्वा.आ.से.), शृवन्द्योरारु:'३।२।१७३ ॥ इत्यारुः । २ अभि वादयते अभिवादकः । 'वद व्यक्तायां वाचि'(भ्वा.प.से.), णिजन्तः, ण्वुल् । द्वे वन्दनशीलस्य । 'जे नमस्कार करै ' इति
भाषा ॥३४९॥
आशंसुराशंसितरि -
१ आशंसत इत्येवंशील आशंसुः । 'शंसु इच्छायाम्' (भ्वा.प.से.), अयमापर्व एव प्रयुज्यते । 'सनाशंसभिक्ष उः' ३।२।१६८॥ इत्युः । २ आशंसेः 'तृन्'३।२।१३५॥ इति तृनि आशंसिता, तत्र । द्वे शिक्षादायकस्य ॥
५० कट्वरस्त्वतिकुत्सितः।
१ कटत्यावृणोति कट्वरः, तृतीयवर्गाद्यान्तस्था चतुर्थमध्यः । 'कटे वर्षावरणयो:'(भ्वा.प.से.), “छित्वरचत्वर (छत्वर)-'(उणा-२८१)इति वरचि साधुः । कुत्सितं वृणोति कट्वर इत्यन्ये । २ अत्यर्थं कुत्सितः अतिकुत्सितः। एकं कटुकभाषिणः॥
निराकरिष्णुः क्षिप्नु: स्यात्
१ निराकरणशीलो निराकरिष्णुः । 'डुकृञ् करणे' (त.उ.अ.), 'अलङ्कृजिराकृअजनोत्पचोत्पतोन्मदरुच्यपत्र पवृतुवृधुसहचर इष्णुच्'३।२।१३६॥ २ क्षिपतीत्येवंशीलः
६० क्षिप्नुः। 'क्षिप प्रेरणे'(तु.उ.अ.), 'सिगृधिधृषिक्षिपे: क्नुः' ३।२।१४०॥। द्वे निराकरणशीलस्य ॥
विकासी तु विकस्वरः ॥३५०॥
१. 'कल्ल-' इति हलायुधे॥ २. द्र. स्वोपज्ञटीका ३३४८ ॥, पृ.८२ ॥ ३. '-काद् युच्' इत्यष्टाध्याय्याम्॥ ४. '-उपसर्गादाविष्कारे' इति क्षीरतरङ्गिणी, धातुसं-१६०, पृ.३११॥ ५. 'सादकरै' इति ३॥ ६. '-मयति' इति ४॥ ७. 'जडः कडः' इति १.२.४॥ ८. 'जाणै' इति ३॥ ९. 'णिजन्ताः ' इति १.२.४ ॥ १०. '-करई' इति २॥ ११. 'क्षिप्णुः ' इति २.३ ।। १२. 'विकाशी' इति १.३॥ १३. '-श्वरः' इति ३॥
१ विकसनशीलो विकासी । 'कस गतौ'(भ्वा. प.से.), 'वौ कस-'३।२।१४३॥ इति घिनुण, णित्त्वाद् ‘अत उपधायाः' ७।२।११६ ॥ इति वृद्धिः । “विकासः स्फुटने व्यक्तौ"[]इति दन्त्यान्ते धरणिः । २ विकसनशीलो विक-स्वरः। 'कस गतौ'(भ्वा.प.से.), 'स्थेशभासपिसकसो वरच्' ३।२।१७५ ॥ । द्वे विकसनशीलस्य ॥३५०॥
दुर्मुखे मुखराबद्धमुखौ
१ मुखशब्देनात्र वाग् लक्ष्यते, दुष्टं मुखं वागस्य दुर्मुखः, तत्र । २ मुखं सर्वस्मिन् वक्तव्येऽस्त्यस्य मुखरः ।
१० 'खनखमुखकुञ्जेभ्यश्चे'(वा-५।२।१०७॥) इति रः । ३ अबद्धम् अनियन्त्रितं मुखं वागस्य अबद्धमुखः । त्रीणि विरुद्धभाषिणः। 'लबाड' इति भाषा ॥
शक्लः प्रियंवदः ।
१ शक्नोति वक्तुं शक्लः । 'शक्ल शक्तौ'(स्वा. प.अ.), 'मूशक्यबि(वि)भ्यः क्ल:'(उणा-५४८)। यद्वा 'स्फायितञ्चि-'(उणा-१७०)इति रक्, कपिलिकादित्वाद् लत्वम्। शक्त इति ककारतकारसंयोगवानपि, तदा 'भूपङ् शकिभ्यः क्त:'( ) । २ प्रियं वदति प्रियंवदः। 'वद व्यक्तायां वाचि'(भ्वा.प.से.), 'प्रियवश(प्रियवशे) वदेः(वदः) खच्'
२० ३२३८॥, 'अरुर्द्विषत्-'६।३।६७॥ इति मुम् । द्वे प्रियवादिनः। 'मीठा बोला' इति भाषा ॥
दानशीलः स वदान्यो वदन्योऽपि
१ स प्रियंवदो दानशीलः सन् वदान्यः, प्रोच्यत इति शेषः। वदति सदैव दीयतामिति वदान्यः । 'वदेरान्यः'(उणा ३८४)इत्यान्यः । "दानशीलप्रियवाचौ वदान्यौ पृथक्''[] इत्येके। यन्मुनिः-"शक्लो वदान्यः प्रियवाग् वदान्यो दान शीलकः"[ ]इति । २ वदने साधुः वदन्यः । 'तत्र साधुः' ४।४।९८॥ इति यत्, 'यस्येति च'६।४।१४८॥ । प्रियवचने दातरि च प्रत्येकं युगपद् नाम्नी द्वे ॥
३० अथ बालिशः ॥३५१॥ मूढो मन्दो यथाजातो बालो मातृमुखो जडः । मोऽमेधोविवर्णाज्ञा वैधैयो मातृशासितः ॥३५२॥
देवानांप्रियजाल्मौ च
१ बलति प्राणिति जनन्येति बालिशः। बल प्राणने' (भ्वा.प.से.), बलेर्णिद्वा'(हैमोणा-५३६)इति इशप्रत्ययः ॥३५१॥ २ मुह्यति स्म मूढः । 'मुह वैचित्ये'(दि.प.अ.), निष्ठा, 'हो ढः'८।२।३१॥, 'झषस्तथो:-'८।२।४०॥ इति धत्वम्, 'ष्टुना ष्टुः'८।४।४१॥, 'ढो ढे लोप:'८।३।१३ ॥, 'ठूलोपे पूर्वस्य '६।३।१११॥ अणो दीर्घः। ३ मन्दोऽलस इव मन्दः । ४ यथैव जातस्तथैव स्थितोऽसंस्कृतत्वाद् यथाजातः। यथोद्गतोऽपि । ५
४० बाल इव बालः । ६ मातेव मुखमस्य मातृमुखः । ७ जलति न तीक्ष्णो भवति जडः । जल घात्ये' (भ्वा.प.से.), डलयोरैक्ये, पचाद्यच् । ८ मुह्य ति शास्त्रव्याख्याने मूर्खः। 'मुह वैचित्ये'(दि.प.अ.), मुहे: खन् मूर्च'(उणा-७००)इति खन्प्रत्ययः, धातोरादेशः । ९ नास्ति मेधाऽस्य अमेधाः। 'नित्यमसिच्यजामेधयो:५।४।१२२ ॥ इत्यसिच्, 'अत्वसन्तस्य च '६।४।१४॥ इति सौ दीर्घः, 'हल्याप्-'६।१६८॥ इति सुलोपः। अमेधसौ, अमेधसः इत्यादि । १० विगतः वर्णः वर्णनं शुघाऽस्य विवर्णः। ११ न जानाति प्रश्रोत्तरे अज्ञः । १२ विधाया भोजनस्यापत्यमिव वैधेयः । विधाशब्दात् 'स्त्रीभ्यो ढक्४।१।१२०॥,
५० 'आयनेयी-'७।१२॥ इत्येयादेशः। अज्ञत्वेन विधातव्यत्वाद् विधेयः, स एव वैधेयः, स्वार्थे प्रज्ञाद्यण्। १३ अज्ञत्वाद् मात्रा शास्यते मातृशासितः । 'शासु अनुशिष्टौ' (अ.प.से.), वर्तमाने क्तः ॥३५२॥१४ देवानां प्रियो देवानां-प्रियः । देवानांप्रिय इति च मूर्खे '(वा-६।३।२१॥)इति षष्ठ्य-लुक् । "मूर्खा हि निर्विद्यत्वाद् यागादिना पुण्यकर्मणा वा अस्म-त्पदं न हरिष्यन्तीति देवानां विमर्शनाद् देवानांप्रियः"[ ]इति मिश्राः । १५ जलति जडीभवति जाल्मः । 'जल घात्ये' (भ्वा.प.से.) बाहुलकान्मकि साधु । "जाल्मोऽसमीक्ष्यकारी स्यात्'[अमरकोषः ३।१।१७॥] इत्यमरः। पञ्चदश मूर्खस्य । “अनेडो नामवर्जितः''[शेषनाममाला
६० ३९३॥] इति शैषिके ॥
दीर्घसूत्रश्चिरक्रियः।
१ अल्पकालसाध्यं यो बहुकालेन करोति स दीर्घ सूत्रः। दीर्पण चिरेण सूत्रयतीति । 'सूत्र विमोचने (चु.उ.से.),
१. 'विकाशी' इति १.२.३ ।। २. 'वौ कष-' इत्यष्टाध्याय्याम् ॥ ३. १.२.४नास्ति ॥ ४. द्र. रामाश्रमी ३।१।३०॥, पृ.४८५ ॥, तथा पदचन्द्रिका, भा ३, विशेष्यनिघ्नवर्गः, श्रो-३०, पृ.२७॥ ५. 'रप्रकरणे खमुखकुञ्जेभ्य उपसंख्यानम्' इति वार्तिकस्वरूपं दृश्यते ॥ ६. 'मूशिक्य-' इत्युणादिगणे ५०॥ ७. द्र. स्वोपज्ञटीका ३३५१॥, पृ.८२।। ८. 'शास' इति ३॥ ९."देवानाम्प्रिय इत्यत्र च षष्ठ्या अलुग वक्तव्यः " इति काशिका, भा-५, ६।३।२१ ॥, पृ.२१०॥ १०. तुलनीयोऽमरकोषः ३।१।१७॥ ११. स्वामिसम्मतोऽयं धातुः, 'वेष्टने' इति सायणः ॥
णिजन्तः, पचाद्यच् । दीर्घसूत्रीति व्यञ्जनान्तोऽपि । यद्धलायुधः "दीर्घसूत्री जडक्रियः"[हलायुधकोशः २।३८३ ॥] इति । “दीर्घ सूत्रयतीत्येवंशीलो दीर्घसूत्री"[ ]इति तट्टीका । "सूत्रण विमो चने, विमोचनं मोचनाभावो ग्रन्थनमिति यावत्" (हैम) धातुपारायणम्, चुरादिः, धातुसं-३३३] इति धातुपारायणम् । णिन्प्रत्ययान्तः । द्वे दीर्घसूत्रस्य। 'ऊंडु विमासई' इति भाषा ॥
मन्दः क्रियासु कुण्ठः स्यात्
१ क्रियासु कर्मसु मन्दोऽलसः, कुण्ठति कुण्ठः । 'कुठि आलस्ये'(भ्वा.प.से.), पचाद्यच् । कुणति शब्दायते, न तु करोतीति
१० वा। 'कुण शब्दोपकरणयोः'(तु.प.से.), 'कुणे-डुण्ठः'( )इति डुण्ठः । एकं कार्येऽलसस्य ॥
क्रियावान् कर्मसूद्यतः ॥३५३॥
१ क्रियास्त्यस्य क्रियावान् । तदस्यास्ति-'५।२।९४॥ इति मतुप् । कर्मसु उद्यत उद्यमयुक्तस्तस्यैकम् ॥३५३॥ कर्मक्षमोऽलङ्कीर्णः
१ कर्मसु क्षमः समर्थः कर्मक्षमः, अलं समर्थः कर्मणे अलङ्कीणः । 'अषडक्षाशितपङ्वलङ्कर्मालम्पुरुषाऽध्युत्तर पदात् खः५।४७॥, खस्येनादेशः, 'नस्तद्धिते'६।४।१४४ ॥ इति टिलोपः, 'पर्यादयो ग्लानाद्यर्थे चतुर्थ्या'(वा-२।२।१८॥)
२० इति समासः । एकं कर्मसमर्थस्य ॥
कर्मशूरस्तु कर्मठः ।
__ १ कर्मणि शूरः कर्मशूरः । २ कर्मणि घटते कर्मठः। 'कर्मणि घटतेऽठच् '५।२।३५ ॥ । कर्मणि घटते प्रयत्नेन प्रारब्धं कर्म परिसमापयतीति वा व्युत्पत्तिः । प्राक्सूत्रेणाऽठच् । द्वे कर्मशूरस्य ॥
कर्मशीलः कार्मः
[१ कर्म शीलमस्य कर्मशीलः। ] २ नित्यं कर्मसु फलमनपेक्ष्य प्रवृत्तिशीलः कार्मः । 'छत्रादिभ्योऽण् '४४।६२॥ (''कार्मस्ताच्छील्ये'६४४१७२ ॥ इति ताच्छील्ये णे टिलोपो निपात्यते, 'नस्तद्धिते'६।४।१४४॥ इत्येव सिद्धे अण्कार्यं
३० ताच्छीलिकेऽपि, अत एव प्राचा णेऽपि क्वचिदित्युक्तम्, तेन) स्त्रियां कार्मी । द्वे कर्मकरणस्वभावस्य ॥
आय:शूलिकस्तीक्ष्णकर्मकृत् ॥३५४॥
१ तीक्ष्ण उपायोऽय:शूलं तेनाऽन्वेष्टा आयःशूलि-कः । 'अय:शूलदण्डाजिनाभ्यां ठक्ठौ '५।२७६ ॥ इति ठक्, 'ठस्येकः'७।३।५०॥, 'किति च'७।२।११८॥ इति वृद्धिः। यो मृदुनोपायेन अन्वेष्टव्यानर्थांस्तीक्ष्णोपायेनान्विच्छति राभ सिकः, स एवं कथ्यते, तीक्ष्णोपायेन दण्डेन कार्यकरणपर इत्यर्थः । एकं तीक्ष्णकर्मकर्तुः ॥३५४॥
सिंहसंहननः स्वङ्गः
४० १ सिंहस्येव संहननं देहोऽस्य सिंहसंहननः। २ शोभनमङ्गमस्य स्वङ्गः । द्वे सुरूपशरीरिणः ॥
स्वतन्त्रो निरवग्रहः ।
यथाकामी स्वरुचिश्च स्वच्छन्दःस्वैर्यपावृतः॥३५५॥
१ स्वम् आत्मा तन्त्रं प्रधानमस्य स्वतन्त्रः। २ नि:क्रान्तोऽवग्रहानियन्त्रणादिति निरवग्रहः । 'निरादयो नि:क्रा न्ताद्यर्थे पञ्चम्या'(वा-२।२।१८॥)इति समासः। ३ यथा कामयत इच्छति यथाकामी, णिन्नन्तः । ४ स्वा आत्मीया रुचिरस्य स्वरुचिः । ५ स्व आत्मीयश्छन्दोऽभिप्रायोऽस्य स्वच्छन्दः । ६ स्वमीरितुं शीलमस्य स्वैरी । 'ईर गतिकम्पनयोः (अ.आ.से.),
५० 'सुप्यजातौ-'३।२७८॥ इति णिनिः, 'स्वादीरेरिणो:'(वा ६।१८९॥ इति वृद्धिः । स्वैरोऽस्यास्तीति वा । ७ अपगतमा वृतं नियन्त्रणमस्य अपावृतः । सप्त स्वेच्छाचारिणः । आपम तीउँ' इति भाषा ॥३५५॥
यदृच्छा स्वैरिता स्वेच्छा
१ या या इच्छा यदृच्छा, पृषोदरादिः । २ स्वैरिणो भावः स्वैरिता । तस्य भावस्त्वतलौ'५।१।११९॥ । ३ स्वस्या त्मन इच्छा स्वेच्छा । त्रीणि स्वेच्छायाः ॥
१. 'इनन्तोऽपि' इति युक्तः ॥ २. हलायुधकोशे 'दीर्घसूत्रो' इति दृश्यते, तत्रैव 'दीर्घसूत्री' इति पाठान्तरम् ॥ ३. 'उंडो विमासे' इति ३, -विमासै' इति १॥ ४. तुलनीयोऽमरकोषः ३।१।१८॥ ५. 'अषडक्षाशितङ्ग्व-' इत्यष्टाध्याय्याम् ॥ ६. '-घटोऽठच्' इत्यष्टाध्याय्याम्॥ ७. 'कर्मकर-' इति४, 'कर्मसूर-' इति १.२ ॥ ८. कोष्ठान्तर्गतपाठः १.२ नास्ति ॥ ९. 'सुरूपकरणशरी-' इति २॥ १०:-मती' इति ४॥
नाथवान् निजगृॉकौ। तंत्रायत्तवंशाधीनच्छन्दवन्तः परात् परे ॥३५६॥
१ नाथो नियन्ताऽस्त्यस्य नाथवान् । 'तदस्यास्ति-' ५।२।९४॥ इति मतुप, [मादुपधायाश्च] मतोर्वोऽयवादिभ्यः' ८।२।९॥ इति वत्वम् । २ निहन्यते निगृह्यते निजः । 'हन् (हन) हिंसागत्यो:'(अ.प.अ.), 'घबर्थे कविधानम् (वा ३।३।५८॥ इति कः । ३ गृह्यतेऽसौ गृह्यः । 'ग्रह उपादाने' (त्र्या.उ.से.), 'पदास्वैरिबाह्यापक्षे(-क्ष्ये-)षु च'३।१।११९॥इति क्यप्, 'ग्रहिज्या-'६।१।१६॥ इति सम्प्रसारणम्, अनुकम्पायां
१० कन् गृह्यकः । ४-९ परशब्दात् परेऽग्रे तन्त्रादयः षड् योज्यन्ते, तेन परस्य तन्त्र आयत्तः परतन्त्रः, परायत्तः । परस्य वशः परवशः । (परस्याधीनः पराधीनः)। परस्य छन्दो परच्छन्दः। परो नियन्ताऽस्त्यस्य परवान् । अस्त्यर्थे मतुप् । नव पराधीनस्य। शेषश्चात्र - "परतन्त्रे वशायत्तावधीनोऽपि" [शेषनाममाला ३९३॥] । अधिगत इनः प्रभुरनेन, अधि उपरि इनः अस्य वा अधीनः । दिवादौ ‘धी आधारे '(दि.आ.अ.)अस्य धातोर्व्या ख्याने माधवेन व्याख्यातम्-"धीनः । धीनवान् । न धीनः अधीनः। यस्तु-"अस्मास्वधीनं किमु निःस्पृहाणाम्" [किराता र्जुनीयम् ३।९॥] इत्यादावधीनशब्दः, सोऽव्युत्पन्नः परतन्त्रवचनः।
२० यदाह कैयटकार:- वाक्यं वक्तर्यधीनं हि'[ ]इत्युपादाय
'अध्युत्तरपदात् खविधानाद् अव्युत्पन्न आयत्तार्थवृत्तिरधीनशब्दः' [ ]इति''[मा.धातुवृत्तिः, दिवादिगणे धातुसंख्या-७] । "अधीनशब्दो निरुपपदोऽसाधुः उत्तरपदत्वाभावेन खस्याभावः" [ ]इति कलिङ्गः, तदयुक्तम्, अधीनशब्दस्यायत्तपर्यायत्वात्, यथा वाक्यं वक्तर्यधीनमिति ॥३५६॥ लक्ष्मीवान् लक्ष्मणः श्रीलः
१ लक्ष्मीः शोभा, सम्पच्च, तद्युक्तो लक्ष्मीवान् । २ लक्ष्मीरस्यास्ति लक्ष्मणः । लक्ष्म्या अच्च'(गणसू-५।२।१०० ॥) इति पामादित्वाद् नः । ३ श्रीरस्यास्ति श्रीलः। सिध्मादित्वाल्लः,
३० कपिरि(लि)कादित्वाल्लत्वम्। श्रीमानित्यपि। त्रीणि लक्ष्मीवतः॥
इभ्य आढ्यो धनीश्वरः । ऋद्धे
- १ इभं गजमर्हति इभ्यः । दण्डादिभ्यो यत्'५।१। ६६॥ । २ आध्यायन्ति स्मरन्त्येतं तदुपजीविन इति आढ्यः। पृषोदरादित्वात् साधु। ३ धनमस्यास्ति धनी। अतिशायिने 'अत इनिठनौ '५।२।११५ ॥ इतीनिः । ४ ईष्ट इत्येवंशील ईश्वरः। ईश ऐश्वर्ये'(अ.आ.से.), 'स्थेशभासपिसकसो वरच्'३।२।१७५ ।। ।५ ऋध्यति स्म ऋद्धः । 'ऋधु वृद्धौ' (दि.प.से.), दिवादिः, निष्ठा, तत्र । पञ्च बहुधनिनः ॥
विभूतिः सम्पत्तिलक्ष्मीः श्रीऋद्धिसम्पदः ॥३५७॥
४० १ विभवनं विभूतिः । 'भू सत्तायाम्'(भ्वा.प.से.), _ 'भूङ् प्राप्तौ '(चु.आ.से.)अतो वा, 'स्त्रियां क्तिन्'३।३।१४।। २ सम्पदनं सम्पत्तिः । ‘पद गतौ'(दि.आ.अ.), 'स्त्रियां क्तिन्' ३।३।९४॥, 'खरि च'८।४।५५ ॥ इति चर्वम् । ३-४ लक्ष्मीः , श्रीः एतौ प्राग् व्युत्पादितौ[ो-२१२२६] ।५ अर्धनम् ऋद्धिः। 'ऋधु वृद्धौ'(दि.प.से.), 'स्त्रियां क्तिन्'३।३।९४॥, 'झ षस्तथो:-'८।२।४०॥ इति धत्वम्, 'झलां जश्-'८।४।५३॥ इति दत्वम् । ६ सम्पदनं सम्पत् । 'सम्पदादिभ्यश्च'(वा ३।३।१०८॥ इति क्विप् । षट् सम्पदः ॥३५७॥
दरिद्रो दुर्विधो दुःस्थो दुर्गतो नि:स्वकीकटौ ।
५० अकिञ्चनः
१ दरिद्राति दरिद्रः । 'दरिद्रा दुर्गतौ '(अ.प.से.), पचाद्यच् । न तु 'श्याद्वधा- '३।१।१४१ ॥ इति णः, "दरिद्रातेः सार्वधातुके(आर्धधातुके) लोपः सिद्धश्च प्रत्ययविधौ'(वा ६।४।११४॥)इति णे कर्तव्येऽल्लोपसप्तम्यामल्लोपस्य पूर्वकृतस्य सिद्धत्वादादन्तत्वात् । यद्धातुवृत्तौ-दरिद्र इत्यत्र " 'श्याव्यधा-' ३।१।१४१॥ इत्याकारान्तलक्षणस्तु णो न भवति ‘दरिद्रातरार्ध धातुके-' इत्यस्य विषयसप्तमीत्वात् प्रागेव प्रत्ययोत्पत्ते राल्लोपात्''[मा. धातुवृत्तौ अदादिगणे, धातुसंख्या-८०]। २ दुष्टा विधा प्रकारो भोजनं वा अस्य दुर्विधः। 'गोस्त्रियो:-' १२४८॥
६० इति परपदस्य हूस्वत्वम् । ३ दुःखेन तिष्ठति दुःस्थः।
१. कोष्ठान्तर्गतपाठः १.२नास्ति ॥ २. स्वामिसम्मतोऽयं धातुपाठः, धीङ् आदाने' इति सायणः ॥ ३. 'कैयटः' इति धातुवृत्तौ ॥ ४. द्र. पदचन्द्रिका, भा-३, विशेष्यनिघ्नवर्गः, शो-१६, पृ.१४।। ५. 'भू प्राप्तौ' इति मा.धातुवृत्तिः, 'भू प्राप्तावात्मनेपदी वा' इति क्षीरतरङ्गिणी।।
'ष्ठा गतिनिवृत्तौ'(भ्वा.प.अ.), 'आतश्चोपसगे-'३।१।१३६ ॥ कः। ४ दुःखेन गच्छति दुर्गतः। दुपूर्वो गमिः नैःस्वापत्तिवचनः, ततः कर्तरि क्तः, अनुदात्तोपदेश-'६।४।३७॥ इति न्लोपः । ५ निर्गतः स्वाद् धनादिति निःस्वः । निरादयो नि:क्रान्ताद्यर्थे पञ्चम्या'(वा २२।१८॥)। ६ ककते कीकट: । कक लौल्ये'(भ्वा.आ.से.), 'शकादिभ्योऽटन्'(उणा-५२१), पृषोदरादित्वादीत्वम् । ७ नास्ति किञ्चनाऽप्यस्य अकिञ्चनः। सप्त दरिद्रस्य । "क्षुद्रो दीनो नीचश्च" [शेषनाममाला ३९४॥]शैषिकाणि ॥
अधिपस्त्वीशो नेता परिवृढोऽधिभूः ॥३५८॥
१० पतीन्द्रस्वामिनाथार्याः प्रभुर्भत्र्तेश्वरों विभुः।
ईशितेनो नायकश्च
१ अधिपातीति अधिपः । 'पा रक्षणे'(अ.प.अ.), मूलविभुजादित्वात् कः । २ ईष्ट इति ईशः । 'ईश ऐश्वर्ये' (अ.आ.से.), पचाद्यच् । ३ नयति प्रापयति नियुत इति नेता। 'णीज् प्रापणे'(भ्वा.उ.अ.), 'ण्वुल्तृचौ'३।१।१३३॥ इति तृच् । ४ परिवर्हति परिवृंहति वा परिवृढः । 'वृह वृंहि वृद्धौ' (भ्वा.प.से.), 'प्रभौ परिवृढः७।२।२१॥ इति साधुः । ५ अधि उपरि भवति अधिभूः । 'क्विप्-'३।२७६ ॥ इति क्विप् ॥३५८॥ ६ पाति रक्षति पतिः। 'पा रक्षणे'(अ.प.अ.), 'पातेर्डति:'(उणा
२० ४९७) इति डतिः। ७ इन्दति परमैश्वर्यमनुभवति इन्द्रः । 'इदि परमैश्वर्ये'(भ्वा.प.से.), 'ऋजेन्द्र-'(उणा-१८६) इति रक् । ८ स्वं धनमस्यास्ति स्वामी । 'स्वामिन्नैश्वर्ये'५।२।१२६॥ इति साधुः। ९ नाथति ईष्टे नाथः । 'ना, याञ्चोपतापैश्वर्याशीर्षु(-ष्षु)'(भ्वा. आ.प.से.), पचाद्यच् । १० अर्यते सेव्यते अर्यः, प्रथमस्वरादिः। 'ऋ गतौ'(जु.प.अ.), 'अर्यः स्वामिवैश्ययोः'३।१।१०३ ॥ इति साधुः । ११ प्रभवति समर्थो भवति प्रभुः । 'भू सत्तायाम्' (भ्वा.प.से.), 'विप्रशं(सं)भ्यो ड्वसंज्ञायाम्'३।२।१८०॥ इति डुः। १२ बिभर्ति पुष्णाति भर्ता । 'डुभृञ् धारणपोषणयोः' (जु.उ.अ.), 'ण्वुल्तृचौ'३।१।१३३॥ इति तृच्। १३ इष्टे(ईष्टे)
३० इति ईश्वरः। 'ईश ऐश्वर्ये'(अ.आ.से.), 'स्थेशभासपिसकसो वरच्'३।२।१७५ ॥ । १४ विभवति विभुः । 'विप्रशं(सं)भ्यो ड्वसंज्ञायाम्'३।२।१८०॥ इति डुः । १५ ईष्ट इति ईशिता । 'ईश ऐश्वर्ये'(अ.आ.से.), तृन् तृच् वा। १६ एति स्वामित्वम् इनः । 'इण् गतौ'(अ.प.अ.), 'इण्षिङ्दीकुषविभ्यो नक'(उणा २८२) । १७ नयति मनोऽभीप्सितसुखं नायकः । ‘णी प्रापणे'(भ्वा.उ.अ.), ण्वुल् । सप्तदश स्वामिनः ॥
नियोज्यः परिचारकः ॥३५९॥
डिङ्गरः किङ्करो भृत्यश्चेटों गोप्यः परांचितः ।
दासः प्रेष्यः परिस्कन्दो भुजिष्यपरिकर्मिणौ ॥३६०॥
परान्नः परपिण्डादः परजातः परैधितः ।
४० १ नियोक्तुं शक्यो नियोज्यः । 'युजिर् योगे'(रु.उ.अ.), 'प्रयोज्यनियोज्यौ शक्यार्थे ७।३।६८॥ इति साधुः । २ परिचरति सेवति परिचारकः । 'चर गतिभक्षणयोः'(भ्वा.प.से.), ण्वुल् । प्रतिचरोऽपि ॥३५९॥ ३ डिप्यते क्षिप्यते डिङ्गरः । 'डिप क्षेपे'(दि.प.से.), अरचि साधुः । ४ किं करोमीत्याज्ञां प्रतीक्षते किङ्करः । 'किंयत्तद्बहुष्वज्चा (वा-३।२।२१॥)इत्यच् । ५ भरणीयो भृत्यः । 'डुभृञ् धारणादौ'(जु.उ.अ.), 'भृञोऽसंज्ञायाम्' ३।१।११२॥ इति क्यप्, 'हूस्वस्य- '६।१७१॥ इति तुक् । ६ चेटति चेटः। 'चिट परप्रैष्ये'(भ्वा.प.से.), भौवादिकः, पचाद्यच्। ७ गोपनीयो गोप्यः । 'गुपू रक्षणे'(भ्वा.प.से.), 'ऋहलोयेत्'
५० ३।१।१२४।। ८ परैराचीयते बध्यते पराचितः । 'चिञ् चयने' (स्वा.उ.अ.), वर्तमाने क्तः। ९ दासते स्वामिने सुखं दासः । 'दास दाने'(भ्वा.उ.से.), पचाद्यच् । १० प्रेषणीयः प्रेष्यः । 'इषु इच्छायाम्'(तु.प.से.), तुदादिः, 'इष गतौ'(दि.प.से.), दिवादिः, 'इष आभीक्ष्ण्ये'(त्र्या.प.से.), क्र्यादिः, त्रयोऽपि लघूपधाः, 'ऋह लोयेत्'३।१।१२४॥ इति ण्यत्, उपधाया लघोर्गुणे तस्मिन् परे 'प्रादूहोंढोढ्येषैषु(-षैष्येषु)' (वा-६।१८९॥)इति वृद्धिः । दुर्गाद्यास्तु- 'ईष उच्छे (भ्वा.प.से.), उञ्छ उच्चयनम्, परस्मैपदी, "ईष हिंसादानेषु '(भ्वा.आ.से.), आत्मनेपदी, द्वावपि भ्वादी, आभ्याम् ऋहलोर्ण्यति , गुरूपधत्वाद् गुणाभावे, ईष्य इति रूपम्,
६० तस्मिन् परे सति 'आद् गुणः'६।१८७॥ इति गुण एव भवति, पररूपानुपातिन्या वृद्धरसम्भवात्, प्रेष्य एकादशस्वरादिः"[ ] इत्याहुः । ११ परिस्कन्द्यते आक्रम्य नियुज्यते परिस्कन्दः । 'स्कन्दिर् गतिशोषणयोः'(भ्वा.प.अ.), कर्मणि घञ् । १२ भुङ्क्ते स्वाम्युच्छिष्टं भुजिष्यः । 'भुज पालनाभ्यवहारयोः'(रु.प.अ.), 'रुचिभुजिभ्यां किष्यन्'(उणा-६१८) । १३ परितः समन्तात् कर्मास्त्यस्य परिकर्मी । शिखादित्वादिनिः। परिकर्मिणौ इत्यादि
१. '-दीङ्-' इति ३.४॥ २. 'इण्सिञ्जिदीकुष्यविभ्यो नक्' इत्युणादिगणसूत्रम् ॥ ३. 'किंयत्तद्बहुषु कृञोऽज्विधानम्' इत्यष्टाध्याय्याम् ॥ ४. 'दासते सुखं स्वामिने दासः' इति ३॥ ५. 'प्रैष्यः' इति २.३.४॥ ६. 'गुणः' इति १॥ ७. '-होढौ-' इति १.२.४॥ ८. 'ऊञ्छे' इति ३॥
९. 'गतिहिंसादर्शनेषु' इति क्षीरतरङ्गिण्यादौ ॥ १०. '-ण्यदिति' इति ४॥
॥३६०॥ १४ परस्याऽन्नं वृत्तिहेतुरस्य, परस्मादन्नमस्येति वा परानः । १५ परस्य पिण्डमाजीवनमत्ति परपिण्डादः । 'अद भक्षणे'(अ.प.अ), कर्मण्यण् । “पिण्डमाजीवनः"[ ]इति धरणिः। १६ परेण जातः परजातः । १७ परेध्यते वय॑ते परैधितः। 'एध वृद्धौ'(भ्वा.आ.से.), वर्तमाने क्तः । 'परान्नाद-यश्चत्वारः परपोषितपर्यायाः' इति हलायुधो विशिनष्टि। सप्तदश सामान्येन किङ्करस्य ॥
भृतके भृतिभृग् वैतनिकः कर्मकोऽपि च ॥३६१॥
१ भ्रियते स्म भृतकः। 'डुभृञ् धारणादौ'(जु.उ.अ.),
१० निष्ठा, ततः स्वार्थे कन्, तत्र । २ भृतिं वेतनं भुङ्क्ते भृतिभुक्।
'भुज पालनाभ्यवहारयोः'(रु.प.अ.), क्विप् । ३ वेतनेन जीवति वैतनिकः । 'वेतनादिभ्यो जीवति'४।४।१२॥ इति ठक् । ४ कर्म करोति कर्मकरः। 'कर्मणि भृतौ'३।२।२२॥ इति टः। चत्वारि मूल्यं गृहीत्वा कर्मकरस्य। 'मजूर' इति भाषा ॥३६१॥
स नि तिः कर्मकारो
१ स भृतको निर्वेतनो निर्मूल्यः कर्म कुर्वन् कर्मकार: उच्यते । कर्मण्यण् । यो भाटकमन्तरेणैव कर्म करोति, तस्यैकम्, [अ] क्रयक्रीतजन इत्यर्थः । 'बांदो' इति भाषा॥
भृतिः स्यान्निष्क्रयः पणः ।
२० कर्मण्या वेतनं मूल्यं निवेशो भरणं विधा ॥३६२॥
भर्मण्या भर्म भृत्या च
१ भ्रियतेऽनया भृतिः । 'स्त्रियां क्तिन्'३।३।९४॥ । २ नि:क्र(ष्क्र)यणं नि:(ष्क्र)यः । 'डुक्रीञ् द्रव्यविनिमये' (क्या.उ.अ.), एरच्'३।३५६ । । ३ पण्यत आभाष्यते पणः। 'पण व्यवहारे स्तुतौ'(भ्वा.प.आ.से.), 'नित्यं पणः परिमाणे' ३।३।६६॥ इत्यप्प्रत्यये साधु । ४ कर्मणि साधुः कर्मण्या । 'तत्र साधु:'४।४।९८॥ इति यत्, टाप् । ५ वीयते वेतनम् । 'वी गत्यादौ'(अ.प.अ.), 'वीपतिपटिभ्यस्तनन्'(उणा-४३०) इति तनन्। ६ मूलेन नाम्यं (मूलेनाऽऽनाम्यं) मूल्यम्। 'नौवयो-धर्म ___
३० ४।४।९१॥ इति यत्। ७ निर्विश्यते भुज्यते निर्वेशः। 'विश प्रवेशने'(तु.प.अ.), कर्मणि घञ् । ८ भ्रियतेऽनेन भरणम् । 'डुभृञ् धारणादौ'(जु.उ.अ.), 'करणाधिकरणयोश्च'३।३।११७॥ इति करणे ल्युट् । ९ विधीयतेऽनया विधा । 'डुधाञ् धारण पोषणयोः'(जु.उ.अ.), 'आतश्चोपसर्गे'३।३।१०६॥ इत्यङ्, भिदादित्वादङ्वा ॥३६२॥१० भर्मणि साधुः भर्मण्या । 'तत्र साधु४।४।९८॥ इति यत्, [टाप्] । ११ भ्रियतेऽनेन भर्म, क्लीबे । 'डुभृञ् धारणपोषणयोः (जु.उ.अ.), '-मनिन्'(उणा ५८४)इति मनिन् । भर्मणी, भर्माणि इत्यादि। १२ भ्रियतेऽनया भृत्या । 'भृञोऽसंज्ञायाम्'३।१।११२॥ इति क्यप् । द्वादश मूल्यस्य ॥
४० भोगस्तु गणिकाभृतिः ।
१ भुज्यते भोगः । 'भुज मालनाभ्यवहारयोः' (रु.प.अ.), घञ्, 'चजोः-७।३ ५२ ॥ इति कुत्वम्, गणिकाया भृतिवेतनं गणिकाभृतिः । एकं वेश्यामूल्यस्य । “भाटि:" [शेषनाममाला ३९८॥]शैषिकम् ॥
खलपूः स्याद् बहुकरः
१ खलं स्थानं पुनाति खलपू: । "खलं भूस्थान कल्केषु''[विश्वप्रकाशकोशः, लान्तवर्गः, शो-४]इति विश्वः। 'पूज् पवने'(त्र्या.उ.से.), क्विप् । २ बहु करोति संमार्टि भुवमिति बहुकरः । डुकृञ् करणे'(त.उ.अ.), किंयत्तद्बहुष्वच्'
५० (वा-३।२।२१॥)इत्यच्। ताच्छील्यार्था(र्थ)विवक्षायां तु 'दिवा विभा-'३।२।२१॥ इति ट एव । स्त्रियां बहुकरी । द्वे संमार्ज कस्य । 'पूंजई बुहारई' इति भाषा। संमार्जकः बहुधान्यार्जक इत्यपरे । 'धाण्यऊपणई' इति भाषा । .
भारवाहस्तु भारिकः ॥३६३॥
१ भारं वह ति भारवाह:। 'वह प्रापणे'(भ्वा.उ.अ.), कर्मण्यण् । २ भारोऽस्त्यस्य भारिकः । 'अत इनिठनौ' ५।२।११५ ॥ इतीनि: (ठक्)। द्वे भारवाहस्य । 'पोटलिया' इति भाषा ॥३६३॥
वार्तावहे वैवधिकः
६० १ वृत्ति विकाऽस्त्यस्यां वार्ता अन्नाद्यम्, वा या वहो वार्तावहः, तत्र। २ वीवधो भारः, पर्याहारो वा, पर्याहार स्तृणजलादीनामन्यत आनयनम्, तं वहति वैवधिकः। 'विभाषा
१. द्र. हलायुधकोशः २ ३५१ ॥, पृ.४१ ॥ बांदउ' इति २॥ २. 'इत्यादि' इति ३ ॥ ३. वीपतिभ्यां तनन्' इत्युणादिगणे ॥ ५. 'मूलस्य' इति १.२.४॥ ६. तुलनीयोऽमरकोषः ३।१।१७।। ७. किंयत्तद्बहुषु कृञोऽविधानम्' इत्यष्टाध्याय्याम् ॥ ८. 'पूंजे' इति १॥ ९. 'बुहारै' इति १.३॥ १०. धान्यऊपणै' इति १, 'धान्य उपणइ' इति २॥११. तुलनीयोऽमरकोषः ३।१।१५॥१२.'भारवाहकः' इति १॥१३. 'इतीन्' इति २.३.४॥
विवधवीवधात् ४।४।१७॥ इति ठक् । वीवधिकोऽपि। द्वे वार्तावहस्य । 'अधोवाहीयाप्रमुख' इति भाषा॥
भारे विवधवीवधौ ।
१भ्रियते भारः, तत्र ।विवध्यते विवधः । वध संयमने' (चु.उ.से.), घञि, जनिवध्योश्च'७।३।३५ ॥ इति वृद्धिनिषेधः । 'पुंसि संज्ञायाम्'३।३।११८॥इतिघोवा ।२'उपसर्गस्यघज्यमनुष्ये बहुलम्'६।३।१२२॥ इति दीर्घत्वे वीवधः। त्रीणि भारस्य । पर्याहारार्थेऽप्येतौ। तृणजलान्नादीनामन्यत आनयनं पर्याहारः ।
तदर्थे यदाह-"विवधो [वीवधो] भारे पर्याहाराध्वनोरपि"
१० [अनेकार्थसङ्ग्रहः ३।३४१॥]इति॥
काचः शिक्यं तदालम्बः
१ कच्यते बध्यतेऽनेन काचः । 'कच बन्धने' (भ्वा. आ.से.), करणे घञ्, 'हलश्च'३।३।१२१ ॥ इति संज्ञायामिति घञ्वा । २ शक्नोति वोढुं शिक्यम् । 'शक्ल शक्तौ' (स्वा.प.अ.) 'मध्यशिक्यान्यपर्यन्यवदान्यथोहर्म्यधिष्ण्यपस्त्यागस्त्यपुलस्त्या पत्यसत्यकुड्यकुल्याभल्यादयः'( )इति क्यपि साधुः। स्रंसत इति वा । त्रंशे: शिः कुट् किच्च'(उणा-६९४)इति यः (यत्), धातोः शिरादेशः कुडागमश्च। तस्य भारस्यालम्बनं तदालम्बः, यत्र रज्जुपञ्जरे वोढव्यमास्ते । द्वे छींका' इति ख्यातस्य ॥
२० भारयष्टिविहङ्गिका ॥३६४॥
१भारोद्वहनार्थं चतुर्दण्डिका यष्टिर्भारयष्टिः। “शिक्या धारः स्कन्दग्राह्यो लगुड:"[]इति द्रविडाः । विहङ्गप्रति कृतिश्चर्मादिमयी विहङ्गिका । या भित्त्यादौ लम्बमाना स्थाप्यते, प्रयाणके च सन्धार्यते । “स्कन्दचापो विहङ्गिका"[हारावली, पादावधिः, शो-६३]इति हारावलीकारः । एकं 'कावडी' इति ख्यातायाः ॥३६४॥
शूरश्चारभटो वीरो विक्रान्तश्च
१ शूरयते शूरः । 'शूर विक्रान्तौ '(चु.आ.से.), चुरादिः, पचाद्यच् । २ चरणं चारः । चारेण गमनेनं भटति
३० युद्धमाकाङ्क्षति चारभटः । 'भर्ट काङ्क्षायाम्'(भ्वा.प.से.), पचाद्यच् । ३ अजति क्षिपति शत्रूनिति वीरः । 'अज गतौ क्षेपणे च'(भ्वा.प.से.), 'स्फायि-'(उणा-१७०)इत्यादिना रक्, 'अजेय॑घञपोः'२।४।५६॥ इति वी आदेशः । वीरयत इति वा। 'वीर विक्रान्तौ'(चु.आ.से.), चुरादिः, पचाद्यच्। ४ विक्रामति उत्सहते विक्रान्तः। 'क्रमु पादविक्षेपे' (भ्वा.प.से.), वर्तमाने क्तः, 'अनुनासिकस्य क्विझलो:-' ६४।१५॥ इति दीर्घः । चत्वारि शूरस्य ॥
अथ कातरः । दरितश्चकितो भीतो भीरुभीकभीलुकाः॥३६५॥
१ कै ईषत् तरति कातरः । 'तू प्लवनतरणयोः'
४० (भ्वा.प.से.), पचाद्यच्, 'ईषदर्थे चे'६।३।१०५ ॥ इति कोः कादेशः। कायति वा । 'कै शब्दे'(भ्वा.प.अ.), बाहुलकात् तरच्। स्त्री चेत् कातरा । २ दरो भयं सञ्जातोऽस्य दरितः। तारकादित्वादितच् । ३ चकति बिभेति चकितः । 'चक प्रति घाततृप्त्योः '(भ्वा.प.से.), क्तः, 'आर्धधातुकस्य-'७।२।३५ ॥ इतीट् । ४ बिभेति स्म भीतः । 'बिभी भये'(जु.प.अ.), निष्ठा ।५-७ बिभेतीत्येवंशीलो भीरुः, भीरुकः, भीलुकः। ‘बिभी भये' (जु.प.अ.) 'भियः क्रुक्लुकनौ'३।३।१७४॥, 'क्रुकन्नर्पि वाच्यः'(वा-३।२।१७४॥)इति मध्यस्थं रूपम् ।
सप्त कातरस्य । [शेषश्चात्र-"त्रस्नुः त्रस्तः"[शेषनाममाला
५० ३९४॥] ॥३६५॥
विहस्तव्याकुलौ व्यग्रे
१ विगतौ किङ्कर्तव्यतामूढत्वाद् हस्तावस्य विहस्तः। ३ विशेषेण आकुलो व्याकुलः । ४ विगतमग्रमालम्बनमस्य व्यग्रः, तत्र । त्रीणि कार्याकुलस्य ॥
कान्दिशीको भयद्रुते ।
१ कां दिशं व्रजामीत्याकुलः कान्दिशीकः । पृषो दरादित्वात् साधुः । 'कदि वैक्लव्ये '(भ्वा.आ.से.), भावे घअन्ताद् मत्वर्थे इनिः, कन्दी । 'शीक सेचने'(भ्वा.आ.से.), भावे घञ्, शीकः, क्षरणार्थत्वादश्रुपाते वर्तते, वैक्लव्ययुक्तो
६० अश्रुपात: कन्दिशीकः, तद्योगाद् ज्योत्स्नाद्यणि कान्दिशीक इति वा । "कां दिशं गच्छामीति चिन्तयन् पलायितः कान्दिशीकः, पृषोदरादिः"[टीकासर्वस्वम् ३।१४० ॥]इति तु सर्वस्वम्। भयाद् द्रुतः पलायितः भयद्रुतः, तत्र । एकं भयद्रुतस्य॥ उत्पिञ्जलसमुत्पिञ्जपिञ्जला भृशमाकुले ॥३६६॥
१ उत्पिञ्जयति उत्पिञ्जलः । 'पिजि हिंसादौ' (चु.उ.से.), वृषादित्वात् कलच् । २ समुत्पिञ्जयति समुत्पिञ्जः।
१. अष्टाध्याय्यां 'विभाषा विवधात्' इत्येव सूत्रम्, नतु '-विवधवीवधात्', तस्मादिदं कथनं सिद्धान्तकौमुद्यनुसारं फलितार्थमात्रम् ॥ २. अत्र ष्टनाभावपक्षे 'ठक्' बोध्यम्, अन्यथाऽऽदिवृद्ध्यभावः स्यात् ॥ ३. '-शिक्यो-' इति १.२॥ ४. 'पञ्जरे' इत्येव ४॥ ५. द्र. स्वोपज्ञटीका ३३६४॥, पृ.८५॥ ६. 'द्रविथाः' इति १॥ ७. 'लम्बनमास्था-' इति ४॥ ८. 'काबडी' इति १.२॥ ९. १प्रतौ नास्ति ॥ १०. 'भट आका-' इति ३॥ ११. 'सूर-' इति ३॥ १२. १प्रतौ नास्ति ॥ १३. अष्टाध्याय्यां चकारो नास्ति ॥ १४. 'क्रुकन्निति' इति ३॥
पचाद्यच् । ३ पिञ्जयति पिञ्जलः । वृषादित्वात् कलच् । भृशमत्यर्थमाकुले कार्यमूढे । त्रीणि अत्याकुलस्य ॥३६६॥
महेच्छे तूटोदारोदात्तोदीर्णमहाशयाः ।
महामना महात्मा च
१ महती इच्छा यस्य महेच्छः, तत्र । २ उद्भटर्ति उद्धरति उद्भटः । 'भर्ट काङ्क्षायाम्'(भ्वा.प.से.), पचाद्यच्। ३ उदत्यर्थमाराति ददाति उदारः । 'रा दाने'(अ.प.अ.), 'आतश्चोपसर्गे'३।१।१३६॥ कः। [यद्वा] साधुभिरुदर्यते गम्यते उदारः । 'ऋ गतौ (जु.प.अ.), कर्मणि घञ् । ४ उत्कर्षेणा
१० दीयते गम्यते उदात्तः । 'डुदाञ् दाने'(जु.उ.अ.), 'जीतः क्तः'३।२।१८७॥, 'अच उपसर्गात्तः७४४७॥ इति तभावः। ५ उदीर्यते स्म उदीर्णः । 'ईर गतौ'(अ.आ.से.), 'निष्ठा' ३।२।१०२॥ इति क्तः, 'रदाभ्याम्-'८।२।४२॥ इति नत्वम्। ६ महानाशयोऽभिप्रायोऽस्य महाशयः । ७ महन्मनोऽस्य महामनाः । महामनसौ महामनसः इत्यादि। ८ महानात्माऽस्य महात्मा, नान्तः। अष्टौ उदारस्य । 'जेहनई मोटी वाञ्छा' इति भाषा । "महेच्छस्तु महाशयः"[अमरकोषः ३।१।३॥] इत्यमरः। उद्भटाद् भिनत्ति, तेनैद्तद्वयमुदाराभिलाषे, उद्भटादयश्च षड् येषां महामन इत्येतस्य वाचकाः । यदमरः (यत्स्वामी)
२० "उदीर्ण उद्भटोदारावुदात्तश्च महामनाः"[क्षीरस्वामिकृतटीका ३।१३॥] इति ॥
कृपणस्तु मितम्पचः ॥३६७॥ कीनाशस्तद्धनः क्षुद्रकदर्यदृढमुष्टयः।
किम्पचानः
१ कृप्यते कृपापात्रीक्रियते कृपणः । कृपू सामर्थ्य' (भ्वा.आ.से.)अतो बाहुलकाद् युच्, 'कृपादौ तु लत्वं नेष्टम्' इत्यत्रादिशब्दात् 'कृपो रो लः'८।२।१८॥इति रेफस्य लत्वं न। २ मितं स्तोकं पचति मितम्पचः। 'डुपचष् पाके'(भ्वा.उ.अ.), 'मितनखे च'३।२।३४॥ इति खश्, 'अरुषित्-'६।३।६७॥ इति
३० मुम्। कलिङ्गस्तु "किं पचतीति, अचि, किम्पचः, न किम्पचो ऽकिम्पचः"[ ] इत्याह ॥३६७॥ ३ कनति दीप्यते तृष्णया कीनाशः, तालव्यान्तः । 'कन दीप्तौ '(भ्वा.प.से.), कनेरीचा (श्चा)त:'(हैमोणा-५३४)इत्याशः । ४ तदेवाऽनव्ययित्वाद्ध-नमस्य तद्धनः । ५ क्षुद्यतेऽल्पत्वात् क्षुद्रः। 'क्षुदिर् सञ्चूर्णने' (रु.उ.अ.), 'ऋजेन्द्र-'(उणा-१८६)इति रक्, 'स्फायि-' (उणा-१७०)इत्यादिना वा रक् । ६ आत्मधर्मपुत्रदारादिकं पीडयित्वा लोभाद् योऽर्थसञ्चयकारी, स कुत्सितोऽर्यः अर्थपतिः कदर्यः । को: कत् तत्पुरुषेऽचि'६।३।१०१॥ इति को: कदा-देशः । ७ दृढा मुष्टिरस्य दृढमुष्टिः । ८ किञ्चित् पचत्यल्पत्वात्, किं कुत्सितं पचति इति [वा किम्पचानः] । ताच्छील्यार्थे चानश्, आगमाऽनित्यत्वान्मुग्न
४० भवति । अपि शाकम्पचानस्य' [ ]इति प्रयोगः। अष्टौ कृपणस्य॥
दयालुस्तु कृपालुः करुणापरः ॥३६८॥
१ दयत इत्येवंशीलो दयालुः । 'दय दानगति रक्षणहिंसादानेषु'(भ्वा.आ.से.), स्पृहिगृहिपतिदयिनिन्द्रातन्द्रा-' ३।२।१५८॥ इत्यालुच् । २ कृपां लाति कृपालुः। 'ला दाने'(अ.प.अ.), मितवादित्वाद् डुः । “कृपामादत्त इति कृपालुः । 'ला दाने '(अ. प. अ.), मितवादित्वाद् दुः" [ ]इत्यात्त्रेयः । कृपाऽस्त्येति वा । कृपाहृदयादालुः(हैमसू ७।२।४२॥)इत्यालुः। ३ करुणायां परः करुणापरः ॥३६८॥
५० ४ सुष्ठु रमते कृपायां सूरतः । 'रमु क्रीडायाम्'(भ्वा.आ.अ.), रमे: तो दीर्घश्चादेः। चत्वारि दयावतः ॥
__अथ दया शूकः कारुण्यं करुणा घृणा ।
कृपाऽनुकम्पाऽनुक्रोशः
१ दयन्तेऽनया दया। 'दय दानगति[रक्षण] हिंसा दानेषु'(भ्वा.आ.से.), 'दय रक्षणे'( ), अस्माद्वा भिदादित्वादङ् टाप् । २ शवन्ति गच्छन्ति परदुःखप्रहाणेच्छामनेन शूकः, पुंक्ली.। 'शु गतौ '(भ्वा.प.अ.), 'घुयुहिपितुशोर्दीर्घश्च'(हैमोणा २४)इति कन् । ३ करुणस्य भावः कारुण्यम् । करुणैव वा कारुण्यम् । चातुर्वर्णादित्वात् स्वार्थे ष्यञ्, भेषजादित्वात्
६० स्वार्थे यण् वा । ४ किरति चित्तं करुणा। 'कृ विक्षेपे'(तु.प.से.), 'कृवृत॒दारिभ्य उनन् '(उणा-३३३)। ५ घ्रियन्तेऽनया घृणा। 'घृ क्षरणदीप्त्योः ' (जु.प.अ.), बाहुलकाण्णः(-न्नक्)। यद्वा 'घृणु दीप्तौ' (त.उ.से.),
१. उद्भटयति' इति २ ॥२. क्षीरतरङ्गिण्यादौ काङ्क्षार्थकभटधातुर्न दृश्यते ॥ ३. त्भावः' इति १, 'तत्भावः' इति ३॥ ४.१.२.३ नास्ति ॥५. 'जेहनें' इति १॥६. द्र. पदचन्द्रिका, भा-३, विशेष्यनिघ्नवर्गः,शो-४८, पृ.४६ ।। ७. 'कनी दीप्तिकान्तिगतिषु' इति क्षीरतरङ्गिण्यादौ॥ ८. '-णाया' इति २ ॥ ९. रमोः' इति ३, 'रमः' इति ४॥ १०. 'ते' इति २॥ ११. उणादिगणे 'सौ रमेः क्तो दमे पूर्वपदस्य च दीर्घः'(उणा-६९२)इति सूत्रमुपलब्धमेव, तर्हि तस्यात्रानुपलब्धिर्विचारणीया, विस्मृतमिति वा ॥ १२. स्वामिसम्मतोऽयं धातुः, यदाह-'शु श्रु गतौ' इति, सायणः 'त्रु गतौ'(मा. धातुवृत्तिः, धातुसं-६६०, पृ.२६१)इत्यत्रापरमतमुट्टय "अपरे पुनः 'शु' इति तालव्यादिमाद्यं पठन्ति" इत्याह ॥ १३. '-तृ-' इत्युणादिगणे नास्ति ॥१४. घ्रियते' इति ३॥
भिदादेराकृतिगणत्वादङ् । ६ 'क्रप कृपायां गतौ' (भ्वा.आ.से.), 'क्रपेः सम्प्रसारणं च'(ग-३।३।१०४॥)इति भिदादिपाठादङ्, ततष्टाप् [कृपा] । ७ अनकम्पनम् अनुकम्पा। 'कपि चलने'(भ्वा.आ.से.), भिदादित्वादङ् । ८ अनुक्रोशन्ति समदुःखा भवन्त्यनेन अनुक्रोशः । 'क्रुश आह्वाने '(भ्वा.प.अ.), भिदादित्वादङ् । अष्टौ दयायाः ॥
हिंस्त्रे शरारुघातुकौ ॥३६९॥
१ हिंसनशीलो हिंस्त्रः । हिसि हिंसायाम्'(रु.प.से.), 'नमिकम्पिस्म्यजस्(जस) कमि(कम)हिंसि(हिंस)दीपो रः'
१० ३।२।१६७॥, तत्र। २ शृणातीत्येवंशीलः शरारुः। शृ हिंसायाम्' (त्र्या.प.से.), 'शृवन्द्योरारु:'३।२।१७३॥ । ३ हन्तीत्येवंशीलो घातुकः । 'हन हिंसागत्योः'(अ.प.अ.), 'लषपतपदस्थाभूवृष हनकमि(कम)गमि(गम)शृभ्य उकञ्'३।२।१५४॥, 'हो हन्तेः-७३ ५४॥ इति कुत्वम्, 'हनस्तोऽचिण्णलोः' ७।३।३२॥ इति तकारोऽन्तादेशः । त्रीणि हिंसनशीलस्य ॥३६९॥
व्यापादनं विशरणं प्रमयः प्रमापणं
निर्ग्रन्थनं प्रमथनं कदनं निबर्हणम् ।
निस्तहणं विशसनं क्षणनं परासनं
प्रौजासनं प्रशमनं प्रतिघातनं वधः ॥३७०॥
२० प्रवासनोद्वासनघातनिर्वा
सनानि संज्ञप्तिनिशुम्भहिंसाः ।
निर्वापणालम्भनिसूदनानि
निर्यातनोन्मथसमापनानि ॥३७१॥
अपासनं वर्जनमारपिञ्जा
निष्कारणक्रॉथविशारणानि ।
१ व्यापाद्यत इति व्यापादानम्। व्यापर्वः ‘पद गतौ'(चु.आ.अ.), णिजन्तः, ‘ण्यासश्रन्थो- '३।३।१०७॥ इति युच्। अत्राऽहिंसार्था अपि धातव उपसर्गवशाद् हिंसा ज्ञेयाः।२
३० विशीर्यते विशरणम् । 'शृ हिंसायाम्'(त्र्या.प.से.), ल्युट्। ३ प्रमीयते प्रमयः, पुंक्ली. । 'मीञ् हिंसायाम्'(त्र्या.उ.अ.), 'एरच'३३५६॥ इत्यच् । "कदनं प्रमयोऽस्त्रियाम्'[] इत्यमरशेषः । ४ प्रमाप्यते प्रमापणम् । 'मीञ् हिंसायाम्' (त्र्या.उ.अ.), स्वार्थे णिजन्तः, भावे ल्युट्, 'मीनातिमिनोति दीङां ल्यपि च'६।१५० ॥ इत्यात्वम्, 'युवोरनाको ७।१।१॥, 'कृत्यचः'८।४।२९॥ इति णत्वम् । ५ निर्ग्रन्थ्यते निर्ग्रन्थनम्। 'ग्रन्थ ग्रथ क्रथ क्रुथ हिंसायाम्'( ), घटादेय॑न्ताल्ल्युट् । “गन्ध अर्दने'(चु.आ.से.), ततो ल्युटि निर्गन्धनम्'[]इति स्वामी।६ प्रमथ्यते प्रमथनम् । मन्थ विलोडने'(भ्वा.प.से., व्या.प.से.), ल्युट् । ७ कद्यते कदनम् । 'कदि वैक्लव्ये' (भ्वा.आ.से.),
४० कदिः सौत्रो वा, ल्युट्। ८ निबद्यते निबर्हणम्। 'बर्ह हिंसायाम्'(चु.उ.से.), चुरादिः, ल्युट् । ९ निपूर्वः 'तृह हिंसायाम्'(रु.प.से.), अतो ल्युट, निस्तहणम् । १० विशस्यते विशसनम् । शर्स हिंसायाम्'(भ्वा.प.से.), ल्युट् । ११ क्षणु हिंसायाम्'(त.उ.से.), भावे ल्युटि क्षणनम्। १२ परास्यते परासनम्। 'असु क्षेपणे'(चु.प.से.), ल्युट् । १३ जसु हिंसायाम्' (चु.उ.से.), चुरादिः, प्रोत्पूर्वः, ल्युटि प्रोजासनम्।१४ प्रशम्यते प्रशमनम् । 'शमु उपशमे'(चु.प.से.), ल्युट् । १५ प्रतिहन्यते प्रतिघातनम् । प्रतिपूर्वः 'हन्(हन) हिंसागत्योः ' (अ.प.अ.), स्वार्थे णिजन्तः, ततो भावे ल्युटि । १६ हननं वधः । 'हनश्च
५० वधः३।३७६॥ इति सूत्रेण भावेऽप् हन्ते-र्वधादेशश्च । "मृदङ्ग च्छन्दः, तल्लक्षणम्-त्भौ जौ रो मृदङ्गः" [छन्दोऽनुशासनम्, अध्या-२, सू-२६१] इति छन्दश्चूडामण्यनु स्मृतेः । “आवेदितस्तभजजै रयुतैर्मृदङ्गकः"[ ]इति लक्ष्यम् ॥३७०॥ १७-१८ प्रपूर्वादुत्पूर्वाच्च वसो हिंसायामस्माण्णि जन्ताद् भावे ल्युटि प्रवासनम, उद्वासनम् ।१९ हननं घातः । भावे घञ्, 'हो हन्तेः-७।३।५४॥ इति कुत्वम् , 'हनस्तोऽ चिण्णलो:'७।३।३२॥ इति तान्तादेशः । २० निपूर्वाद् वसो ___ हिंसायामस्माण्णिजन्ताद् भावे ल्युटि निर्वासनम्। २१ संज्ञपनं संज्ञप्तिः । 'मारणतोषणनिशामनेषु ज्ञा'(भ्वा.प.अ.)इति मित्संज्ञा,
६० 'मितां हुस्वः'६४१२॥ इति इस्वत्वम् । २२ निशुम्भनं निशुम्भः। 'शुभि हिंसायाम् (भ्वा.प.से.), भावे घञ् । २३ 'हिंसि हिंसायाम्'(रु.प.से.), हिंसनं हिंसा । भावे घञ्, [टाप्] । २४ 'पै ओवि(ओवै) शोषणे'(भ्वा.प.अ.) इत्यस्य स्वार्थणिजन्तस्य
१. 'क्रप कृपायाम्' इत्येव क्षीरतरङ्गिणी ॥ २. इतोऽग्रे क्षीरतरङ्गिण्यादौ '-रोदने च' इति दृश्यते ॥ ३. 'हन्तीति शीलो' इति १, 'हन्तीति धातुकः' इति २॥ ४. 'उकन्' इति २.३॥ ५. -श्रन्थ्यो' इति १.४॥ ६. द्र. स्वोपज्ञटीका ३।३७०, पृ.८६॥ ७. 'निर्ग्रन्थ्यतेनेन' इति ३॥ ८. क्षीरतरङ्गिण्यादावीहक् सूत्रं न दृश्यते ॥ ९. क्षीरस्वामिकृतामरकोषटीकायां निर्गन्धनशब्दो न दृश्यते॥ १०. 'प्रमथ्यतेनेन' इति ३॥ ११. 'शंसु' इति ३.४॥ १२. 'निहननं निघातः' इति २.३.४॥ १३. 'इस्वत्वम्' इति १॥ १४. मारणादिष्वर्थेषु ज्ञाधातुर्मित्संज्ञको भवतीत्यर्थः ॥ १५. 'शुभ शुभ भाषणे हिंसायां च' इति क्षीरतरङ्गिण्यादौ ॥ १६. अत्र क्षीरतरङ्गिणीटिप्पणी द्रष्टव्या, भ्वादिः, धातुसं-६५४, टि-१, पृ.१४१ ।।
निपूर्वस्य भावे ल्युटि निर्वापणम् । २५ आलम्भनम् आलम्भः । आयूर्वो लभिर्मारणार्थः, ततो भावे घञ्, 'उपसर्गात् खल्यो :'७।१।६७॥ इति नुम् । २६ निपूर्वात् 'षूद रक्षणे'(भ्वा.आ.से.), अस्माद् भावे ल्युटि निसूदनम्। 'सात्पदाद्योः'८।३।१११॥ इति षत्वनिषेधः । अत्रान्तर्वर्तिन्या विभक्त्या सूदनशब्दस्य पदत्वात् सस्य पदादित्व-मतो मूर्धन्यनिषेधः । २७ निपूर्वस्य 'यती प्रयत्ने'(भ्वा.आ.से.) इति ण्यन्तस्य भावे ल्युटि निर्यातनम् । २८ उत्पूर्वाद् 'मन्थ विलोडन'(भ्वा.प.से.,त्या.प.से.)इत्यस्माद् घजि उन्मन्थः। २९
१० संपूर्वस्य 'आप्ल व्याप्तौ'(स्वा.प.अ.)इत्यस्य भावे ल्युटि समापनम्
॥३७१॥ ३० अपपूर्वाद् ‘असु क्षेपणे'(दि.प.से.), अस्माल्ल्युटि अपासनम् । ३१ वय॑ते वर्जनम्। 'वृजी वर्जने' (म.प.मे.), ल्युट्। ३२ मृञ् हिंसायाम्'(त्र्या.प.से.) स्वार्थे णिजन्ताद् भावे घजि मारः । ३३ 'तुजि पिजि हिंसायाम्' (चु.उ.से.), अस्माच्चुरादिणिजन्ताद् ‘एरच्' ३३५६॥, पिञ्जः। ३४ 'कृ हिंसायाम्'(त्र्या.प.से.), निपूर्वः, स्वार्थे णिच्, ततो भावे ल्युटि निष्कारणम् । ३५ क्रथनं क्राथः । 'क्रथ हिंसायाम्'(भ्वा.प.से.), भावे घञ् । ३६ शृ हिंसायाम्' (क्या.प.से.), स्वार्थणिजन्ताद् भावे ल्युटि विशारणम्। षट्त्रिंशद् मारणस्य ॥
२० कर्तने कल्पनवर्धने च छेदश्च
१ कृत्यते कर्तनम् । 'कृती छेदने'(तु.प.से.), भावे ल्युट् । २ कल्पते कल्पनम्, अन्तस्थातृतीयपवर्गाद्यमध्यः । 'कृपू सामर्थ्ये '(भ्वा.आ.वे.), ल्युट्, 'पुगन्तलघूपधस्य-' ७।३।८६॥ इति गुणः, 'कृपे(कृपो) रो ल:'८।२।१८॥ इति लत्वम् । ३ वर्ध्यते वर्धनम् । वर्ध छेदनपूरणयोः'(चु.उ.से.), ल्युट् । ४ छेदनं छेदः । 'छिदिर् द्वैधीकरणे'(रु.उ.अ.), भावे घञ्। चत्वारि छेदनस्य । कातरवउँ 'इति भाषा ॥
घातोद्यत आततायी ॥३७२॥
१ घातोद्यतो वधोद्युक्तः सन्नद्धः सन् यो वधार्थमुद्यतः,
३० स आततायी प्रोच्यते । आतं पलायमानं तयत इत्येवंशील: आततायी । तय गतौ'(भ्वा.आ.से.), 'सुप्यजातौ-'३।२।७८॥ इति णिनिः । घात इत्युपलक्षणम् । यत्स्मृति:
"अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः।
क्षेत्रदारहरश्चैव षडेते ह्याततायिनः॥१॥"
[शुक्रनीति: ३।४२॥]इति । एकं घातोद्यतस्य ॥३७२॥
स शैर्षच्छेदिकः शीर्षच्छेद्यो यो वधमर्हति ।
१-२ शीर्षच्छेदमर्हति शैर्षच्छेदिकः, शीर्षच्छेद्यः। "शीर्षच्छेदाद्यश्च(-च्च)'५।१६५ ॥ इति तदर्हतीत्यर्थे यत्ठको। अत एव निर्देशात् प्रत्ययसंनियोगेन शिरसः शीर्षभावश्च" [माधवीया धातुवृत्तिः, रुधादिः, धातुसं-३]इति माधवः । द्वे
४० वधार्हस्य ॥
प्रमीत उपसम्पन्नः परेतप्रेतसंस्थिताः ॥३७३॥
नामालेख्ययशःशेषो व्यापन्नोपगतौ मृतः ।
परासुः
१ प्रमीयते स्म प्रमीतः। 'मीञ् हिंसायाम्'(त्र्या. उ.अ.), निष्ठा। २ उपसम्पद्यते स्म उपसम्पन्नः । ‘पद गतौ' (दि.आ.अ.), क्तः, 'रदाभ्याम्-'८।२४२॥ इति नत्वम्। ३ परं लोकमितः परेतः । परैति लोकान्तर इति वा । ४ प्रकर्षेण इतो गतः प्रेतः। प्रैति स्म इति वा । ५ संतिष्ठते स्म संस्थितः। संपूर्वस्तिष्ठतिर्मरणार्थः ॥३७३॥६-८ नामालेख्ययशःशब्देभ्यः
५० परः शेषशब्दो योज्यः, तेन नामैव शेषमस्य नामशेषः, आलेख्यशेषः, यशःशेषः। ९ व्यापद्यते स्म व्यापनः । १० उपगच्छति स्म उपगतः। 'गम्लु गतौ '(भ्वा.प.अ.), निष्ठा, 'अनुदात्तोपदेश-'६४।३७॥ इति लोपः। ११ म्रियते स्म मृतः। 'मृङ् प्राणत्यागे'(तु.प.आ.अ.), निष्ठा । १२ परागता असवः प्राणा अस्य परासुः, दन्त्यसः। द्वादश परासोः॥
तदहे दानं तदर्थमौर्ध्वदेहिकम् ॥३७४॥
१ तस्य मृतस्याऽहस्तदहः । 'राजाह:सखिभ्यष्टच्' ५।४।९१ ॥, 'रात्राहाहाः पुंसि'२।४।२९॥ इति पुंस्त्वम्, तत्र। तस्मै इदं तदर्थम्, तमुद्दिश्य दानं पिण्डोदकादि, देहोपलक्षणम्। देह-
६० धारणादूर्ध्वं परतः ऊर्ध्वदेहः, राजदन्तादिः। तत्र भवम् [और्ध्व देहिकम्] । "ऊवंदया(मा)च्चोर्ध्वदेहाच्च'(वा-४।३।६० ॥) इति ठन्, 'ठस्येक: ७।३।५० ॥, 'किति च'७।२।११८॥ इति वृद्धिः। "और्ध्वदेहिकम्"["]इति पूर्व-टीकाकाराः । ऊर्ध्वदेहाद् भवम् और्ध्वदेहिकम्, इत्यध्यात्मादित्वाद् ठग् वा । एकदेशविकृतत्वाद्
१. 'षूद क्षरणे' इति क्षीरतराङ्गिण्यादौ ॥ २. '-त्वं मतो' इति १.२.३ ॥ ३. वय॑ते इति' इति ४॥ ४. क्षीरतरङ्गिण्यादौ ञकारानुबन्धो न दृश्यते ॥ ५. 'तुजि पिजि (लुजि इत्यधिकः स्वामी) हिंसाबलादाननिकेतनेषु' इति मा.धातुवृत्तिः॥ ६. 'कातरणौ' इति ४, कातरवौ' इति ३ ।। ७. वधो युक्तः' इति २॥ ८. 'अत्र' इति मा.धातुवृत्तिः । ९. 'च' इति मा.धातुवृत्तौ नास्ति॥ १०.'-कादिः' इति १॥ ११. 'किति च' इति१.२.४ नास्ति ॥ १२. 'ऊर्ध्व ' इति १.२ ॥ १३. द्र. पदचन्द्रिका, भा-२, ब्रह्मवर्गः, शो-४२७, पृ.५१५॥
'ऊर्ध्वदेहिकम्' इति षष्ठस्वरादिरपि। "अनुशतिकादिपाठ मताश्रयातूभयपदवृद्धौ और्ध्वदैहिकमपि" [अभि. स्वोपज्ञटीका २।३७४] इत्याचार्याः । [एकमौर्ध्वदैहिक-दानस्य] ॥३७४॥
मृतस्नानमपस्नानम्
१ मृते स्नानं मृतस्नानम्, अपकृष्टं स्नानम् अपस्नानम्। अप इति विरुद्धार्थः । एकं मृतस्नानस्य ॥
निवापः पितृतर्पणम् ॥
१नितरामुप्यते दीयते निवापः । टुवप् बीजतन्तुसन्ताने' (भ्वा.उ.अ.), निपूर्वोऽयमुपसर्गबलाद् दानार्थोऽपि, भावे घञ् ।
१० निवापिरिति-"प्रादेशनं निर्वपणम्"[अमरकोषः २।२।३०॥] इत्युक्तेरन्यत्रापि तत्प्रयोगदर्शनात् । पितॄणां तर्पणं पितृतर्पणम् । श्राद्धमपि । " श्राद्धं निवापे श्राद्धे च श्राद्धं श्रद्धासमन्विते''[विश्व लोचनकोशः,धान्तवर्गः, शो-२२] इति श्रीधरः । एकं पितृतर्पणस्य॥ चितिचिंत्याचिंतास्तुल्या
१ चीयते चितिः । 'चिञ् चयने'(स्वा.उ.अ.), क्तिच्। २ चेतव्या चित्या । 'चित्याग्निचित्ये च'३।१।१३२ ॥ इति साधुः। चितैव वा । मर्त्तादित्वाद् यः। ३ चीयते चिता। 'चिञ् चयने'(स्वा.उ.अ.) 'जीतः क्तः'३।२।१८७॥ इति वर्तमाने क्तः। त्रयोऽपि स्त्रियाम् । त्रीणि चितायाः ॥
२० ऋजुस्तु प्राञ्जलोऽञ्जसः॥३७५॥
१ अर्जयति यश ऋजुः । अर्ज सर्ज अर्जने'(भ्वा. प.से.), 'अर्जिशिकम्यमिपसि(पशि)बाधामृज्पश्तुक्दी? हकारश्च कुः'(उणा-२७)इति कुः, धातो ऋजादेशः। २ प्राज्यत अभिगम्यते प्राञ्जलः ।प्रपूर्वः अव्यक्ता(क्त्या)दौ' (रु.प.वे.), वृषादित्वात् कलच् । प्राञ्जलयति अञ्जलिं बध्नाति वा । अच् । अञ्जोऽस्यास्ति अञ्जसः ।अर्शआदित्वादच् ।सरलोऽपि । “सरल: पूतिकाष्ठेस्यादुदारावक्रयोरपि" [विश्वप्रकाशकोशः,लान्तवर्गः, श्ो ५९] इति महेश्वरः ।त्रीणि सरलस्य ॥३७५॥
दक्षिणे सरलोदारौं
३० १ दक्षते परकार्य शीघ्रं करोति दक्षिणः। दक्ष शैघ्यै' (भ्वा.आ.से.), 'द्रुदक्षिभ्यामिनन्' (उणा-२०८), तत्र । २ सरति परेच्छामनुसरति सरलः । 'सृ गतौ'(भ्वा.प.अ.), 'मङ्गेरलच्' (उणा-७४८)इति बाहुलकादतोऽपि । ३ उदर्यत अभिगम्यत उदारः । 'ऋ गतौ'(जु.प.अ.), कर्मणि घञ् । उदत्यर्थमा एति पर(उद् अत्यर्थम् आ इयर्ति) कार्यं कर्तुमिति वा । पचाद्यच्। त्रीणि दाक्षिण्योपेतस्य ॥
शठस्तु निकृतोऽनृजुः ।
१ शठति शटः । शठ कैतवे च'(भ्वा.प.से.), पचाद्यच् । शाम्यतीति वा । 'शमु उपशमे'(दि.प.से.) 'शमेलृक् वा (हैमोणा १६५)इति ठः । एकदेशविकृतस्यानन्यत्वात् शण्ठोऽपि । २
४० निकृणोति हिनस्ति निकृतः। कृञ् हिंसायाम्' (स्वा.उ.अ.), 'जीतः क्तः'३।२।१८७॥ इति वर्तमाने क्तः। ३ ऋजु विरुद्धो अनृजुः। अत्र विरुद्धार्थो न । त्रीणि शठस्य । 'वांकः' इति भाषा ॥
क्रूरे नृशंसनिस्त्रिंशपापाः
१कृणन्ति (कृन्तति) क्रूरः। 'कृती छेदने'(तु.प.से.), 'कृतेश्छः क्रू च'(उणा-१७८)इति रक्, धातोः क्रूरादेशश्च, तत्र। २ नृन् शंसति हिनस्ति नृशंसः । 'शंसु हिंसायाम्' (भ्वा.प.से.), पचाद्यच् । ३ निस्त्रिंश इव घातुकत्वाद् निस्त्रिंशः। ४ पापमस्यास्ति पापः । 'अर्शआदिभ्योऽच्'५।२।१२७॥ ।
५० चत्वारि क्रूरस्य ॥
धूर्तस्तु वञ्चकः ॥३७६॥ व्यंसकः कहको दाण्डाजिनिको मायिजालिकौ ।
१ धूर्वति हिनस्ति धूर्तः । 'धूर्व(धूर्वी) हिंसायाम्' (भ्वा.प.से.), हसिमृग्रिण्वामिदमितमिलूपूधूर्विभ्यस्तन्'(उणा ३६६), 'लोपो व्योर्वलि'६।१।६६॥ इति वलोपः । २ वञ्चयते वञ्चकः । 'वञ्च प्रलम्भने'(चु.आ.से.), णिजन्तः, ततो ण्वुल् ॥३७६॥ ३ व्यंसयति च्छलयति व्यंसकः । ण्वुल् । विगतावं सावस्येति वा व्यंसः, तत्तुल्यो वा । ४ कुहयते विस्मापयते कुहकः। 'कुहर्ण विस्मापने'(चु.आ.से.), चुरादिः, ण्वुल् ।
६० कुहकमिन्द्रजालमस्यास्ति वा । अर्शआदिभ्योऽच्' ५।२।१२७।। ५ दण्डाजिनं दम्भस्तेनाऽन्वेष्टा दाण्डाजिनिकः, इकारद्वयमध्यः। 'अय:शूलदण्डाजिनाभ्यां ठक्छौ '५।२१७६॥ इति ठञ्, 'ठस्येकः' ७।३।५० ॥, 'तद्धितेष्वचामादेः' ७।२।११७॥ इति वृद्धिः । ६
१. '-श्रणये तु' इति स्वोपज्ञटीकायाम् ३३७४ ॥, पृ.८७॥ २. 'डुवप् तन्तुसन्ताने' इति क्षीरतरङ्गिण्यादौ ॥ ३. '-मृजिपशितुग्धुग्दीर्घहकाराश्च' इत्युणादिगणे ॥ ४. तुलनीयोऽमरकोषः ३।१।८॥ ५. 'दक्ष वृद्धौ शीघ्रार्थे च' इति क्षीरतरङ्गिण्यादौ ॥ ६. ४प्रतौ तथा क्षीर रङ्गिण्यां चकारो नास्ति ॥ ७. 'शम' इति ४॥ ८. 'च' इति ३॥ ९. '-द्वोऽर्थो' इति १, '-द्धार्थे ' इति ३॥ १०. 'वांको' इति ३॥ ११. 'क्रूश्च' इति ४, करश्च' इति १.२॥ १२. १.२.४ नास्ति ॥ १३. णकारोऽनावश्यकः, हैममते चुरादेर्णकारानुबन्धो वा ॥
मायाऽस्यास्ति मायी । 'व्रीह्यादिभ्यश्च' ५।२।११६॥ इतीनिः । मायाविमायिकावपि । ७ जालेन चरति जालिकः । तेन चरति' ४।४८ ॥ इति ठक् । सप्त धूर्तस्य॥
माया तु शठता शाठ्यं कुंसृतिर्निकृतिश्च सा ॥३७७॥
१ मात्यनया माया । 'मा माने'(अ.प.अ.), 'श्या द्वधा- '३।११४१॥ इति णः, 'आतो युक् चिण्कृतोः' ७।३।३३ ॥ 'माच्छासस्तिसूभ्यो यः (उणा-५४९)इति यप्रत्ययो वा, टाप्। २ शठस्य भावः शठता । 'तस्य भाव स्त्वतलौ'५।२।११॥ । ३ शठस्य भावः शाठ्यम् ।
१० ब्राह्मणादित्वात् ष्यञ्। ४ कुत्सिता सृतिहिंसा कुसृतिः । ५ निकृष्टा कृतिहिँसा निकृतिः। माया परवञ्चनबुद्धिः । निकृतिः बकवृत्त्यागलकर्तकानामिवावस्थानम्, अथवा मायाप्रच्छादनार्थं मायान्तरकरणम् । “निकृतिर्बकवृत्त्या कुक्कुटादिकरणम्, अधिकोपकारकरणेन परच्छलनम्"[ ]इत्यन्ये, इति विशेषोऽत्र नाश्रितः । पञ्च मायायाः ॥३७७॥
कपट कैतवं दम्भः कूटं छद्मोपंधिश्छलम् ।
व्यपदेशो मिषं लक्षं निभं व्याजः
१ के मूर्ध्नि पट इव छादकं कपटम्, पुंक्ली. । (कं ब्रह्माणमपि पटति गच्छति, पचाद्यचि वा) । २ कितवस्य
२० कर्म कैतवम् । युवादित्वादण् । ३ दम्भनं दम्भः । 'दम्भु दम्भने' (स्वा.प.से.), भावे घञ् । ४ कूटयति दहत्यनेन कूटम्, पुंक्ली.। यदमर:-"कूटमस्त्रियाम्''[अमरकोषः २१५॥४२॥] । 'कूट दाहे' (चु.उ.से.), णिजन्तः, [अच् घञ् वा] । ५ छाद्यते रूपमनेन छद्म । 'छद संवरणे'(चु.उ.से.), '-मनिन् '(उणा-५८४) इति मनिन्, 'इस्मन्त्र[न्] क्विषु च'६।४।९७॥ इति हुस्वत्वम् । ६ उप समीपे धीयत उपधिः । 'डुधाञ् धारणादौ' (जु.उ.अ.), 'उपसर्गे घोः किः'३।३१२॥ । ७ छ्यति छिनत्यनेन छलम् । 'छो छेदने' (दि.प.अ.), पृषोदरादिः । ८ व्यपदिश्यते व्यपदेशः। 'दिश
३० अतिसर्जने'(तु.प.अ.), भावे घञ् । ९ मिषति मिषम्। 'मिष स्पर्धायाम्'(तु.प.से.), तुदादिः, 'इगुपध-'३।१।१३५॥ इति क: । १० लक्ष्यतेऽनेन लक्षम्, पुंक्ली. । 'लक्ष दर्शनाङ्कनयोः' (चु.उ.से.), करणे घञ् । ११ नितरां तदिव भाति निभम् । 'भा दीप्तौ'(अ.प.अ.), 'आतश्चोपसर्गे कः'३।१।१३६॥ । १२ व्यजन्ति विक्षिपन्त्यनेन व्याजः। 'अज गतौ क्षेपणे च' (भ्वा.प.से.), 'हलश्च'३।३।१२१ ॥ इति घञ् । व्याजः स्वरूपाच्छादनम्, यथा-"ध्यानव्याजमुपेत्य चिन्तयसि काम्"[नागानन्दनाटकम, प्रथमोऽङ्कः, श्रो-१] इति। मायादयः कपटादयश्च एकार्था इत्येके। कपटादयः सप्त, व्यपदेशादयश्च पञ्च भिन्नार्था इत्यमरः। तदा कपटादयः सप्त, कपटवाचकाः।
४० तत्रापि च वेषभाषाविपर्ययकरणं कपटम्, कार्षापणतुलादेः परवञ्चनार्थं न्यूनाधिककरणं कूटमिति विशेषोऽत्र नाश्रितः। व्यपदेशादयः पञ्च लोकोक्त्या मिसवाचकाः॥
अथ कुक्कुटिः ॥३७८॥ कुहना दम्भचर्या च
१ कुक्कुट इवाचरति कुक्कुटति, कुक्कुटनं कुक्कुटिः। 'अच इ:'(उणा-५७८)इति इः ॥३७८॥ २ कुहयतेऽनया कुहना। 'कुहण् विस्मापने '(चु.आ.से.), णिजन्तादस्मात् 'करणाधिकरणयोः-'३।३।११७॥ इति करणे ल्युट् । २ दम्भेन
चरणं दम्भचर्या 'चर गतिभक्षणयोः'(भ्वा.प.से.), क्यप् ।
५० त्रीणि दम्भेन परविस्मापनार्थं मिथ्याकल्पनायाः ॥
वचनं तु प्रतारणम् । व्यलीकमभिसन्धानम्
१ वञ्च्यते वञ्चनम् । 'वञ्च प्रलम्भने'(चु.आ.से.), ल्युट। २ प्रतार्यते प्रतारणम् । तृ प्लवनतरणयोः (भ्वा.प.से.), अस्माण्णिजन्ताद् भावे ल्युट् । ३ विशिष्टमलीकमत्र व्यली कम् । ४ अभिसन्धीयते अभिसन्धानम् । 'डुधाञ् धारणादौ' (जु.उ.अ.), भावे ल्युट् । चत्वारि वञ्चनस्य ॥
साधौ संभ्यार्यसजनाः ॥३७९॥
१ साधयति परकार्याणि साधुः। 'साध संसिद्धौ'
६० (स्वा.प.अ.), 'कृवापाजिमिस्वदिसाध्यशूण्भ्यः '(उणा-१) इत्युण, तत्र । २ सभायां साधुः सभ्यः । 'सभाया यः' ४।४।१०५॥ इति । ३ अर्यते उपजीव्यत्वेन गम्यत आर्यः। 'ऋ गतौ'(जु.प.अ.), 'ऋहलोर्यत्'३।१।१२४॥ इति ण्यत्, ‘अचो ञ्णिति'७।२।११५॥ इति वृद्धिः । ४ सन् प्रशस्तो जनः सजनः। चत्वारि सज्जनस्य ॥३७९॥
दौषैकहा पुरोभागी
१ दोषे एव एकस्मिन् दृग् ज्ञानमस्य दोषैकदृक् । २ पुरोऽग्रं सर्पवद् भजतीत्येवंशीलः पुरोभागी। 'भज सेवायाम्'
१. अष्टाध्याय्यां 'चरति' इत्येव ॥ २. '-ससिसूभ्यो यः' इत्युणादिगणे ॥ ३. कोष्ठान्तर्गतपाठः १प्रतौ नास्ति ॥ ४. हैममते एव चुरादेर्णकारानुबन्धः॥ ५. मुद्रिताभिधानचिन्तामणौ मूले 'अतिसन्धानम्' इति, स्वोपज्ञटीकाऽपि तमाश्रित्यैव ॥ ६. 'अस्माद् भावे णिजन्ताल्ल्युट् इति ३॥ ७. '-शूभ्य उण्' इत्युणादिगणे ॥ ८. तुलनीयोऽमरकोषः ३।१।४६ ॥
(भ्वा.उ.अ.), 'सम्पृचानुरुधा-'३।२।१४२॥ इति घिनुण, घित्त्वात् कुत्वम् । पुरोभागिणौ इत्यादि । [यत्कात्यः-] "दोषैकग्राहिहृदयः पुरोभागीति कथ्यते''[]इति। द्वे दोषैकग्राहिणः॥
कर्णेजपस्तु दुर्जनः ।। पिशुनःसूचको नीचो द्विजिह्वो मत्सरी खलः ॥३८०॥
१ कर्णे जपति सूचयति कर्णेजपः । ‘जप मानसे च'(भ्वा.प.से.), 'स्तबकर्णयोरमिजपो:'३।२।१३ ॥ इत्यच्, 'संज्ञायाम्'२।१।४४॥ इति समासः, 'तत्पुरुषे कृति- '६।३।१४॥ इति सप्तम्यलुक्। २ दुष्टो जनो दुर्जनः । ३ पिशति(पिंशति)
१० एकदेशेन सूचयति पिशुनः । 'पिश अवयवे'(तु.प.से.), तुदादौ मुचादिः, 'पिशः (पिशेः) किच्चे'(उणा-३७५)इत्युनन्। अपि शुनति वा, पृषोदरादिः । पिशुनयति दुष्टं सूचयति वा । पचाद्यच्। "अपिश्यति खण्डयति"[]इति भोजः । ४ सूचयति सूचकः। 'सूचे पैशुन्ये' (चु.उ.से.), ण्वुल् । सीव्यति परगुणा(परगुण) पटमिति वा । 'षिवु तन्तुसन्ताने'(दि.प.से.), 'सिवेष्टेरू च' (उणा-२८९)इति चङ्, सूचः, ततः स्वार्थे कनि [सूचकः] । ५ निकृष्टमञ्चति गच्छति नीचः । 'अञ्च गतिपूजनयोः'(भ्वा. प.से.)। ६ द्वे जिह्वे वचनेऽस्य द्विजिह्वः। 'गोस्त्रियो-'१।२।४८॥ इति इस्वत्वम् । ७ मत्सरोऽस्त्यस्य मत्सरी । 'अत इनिठनौ'
२० ५।२।११५॥ इतीनिः । ८ खलति सञ्चिनोत्यशुभमिति खलः । 'खलसञ्चये'(भ्वा.प.से.), पचाद्यच् । खं शून्यं लातीति वा । 'ला दाने '(अ.प.अ.), आतोऽनुपसर्गे कः'३।२।३ ॥ । खलति स्ववचनविषये चलतीति वा। अच् । खनति साधुहृदयं वा खलः, पुंक्लीबलिङ्गः । वाच्यलिङ्ग इत्यन्ये । खन खनने (भ्वा.उ.से.), 'मृजिखन्याहनिभ्यो डित्'(हैमोणा-४७२)इत्यलः। अष्टौ दुर्जन स्य। "क्षुद्रः प्रखलः"[शेषनाममाला ३९४॥]शैषिके ॥३८०॥ व्यसनातस्तूपरक्तः
१ दैवी मानुषी च पीडा व्यसनम्, तेन ऋतो व्याप्तः व्यसनातः । 'ऋते च ततीयासमासे'(वा-६।१८९॥) इति __ वृद्धिः । २ उपरज्यते स्म उपरक्तः । 'रञ्ज रागे'(भ्वा.प.अ.),
३० निष्ठा । द्वे व्यसनिनः । व्यसनीति भाषा ॥
चोरस्तु प्रतिरोधकः ।
दस्युः पाटच्चरः स्तेनस्तस्कर: पारिपन्थिकः ॥३८१॥ परिमोषिपरास्कन्द्यैकागारिकमलिम्लुचाः ।
१ चोरयति चोरः। 'चुर स्तेये'(चु.उ.से.), पचाद्यच्। प्रज्ञाद्यणि चौरोऽपि । २ प्रतिरुणद्धिः प्रतिरोधकः। 'रुधिर् आवरणे'(रु.उ.अ.), ण्वुलं । ३ दस्यति उपक्षिपति दस्युः। 'दसु उपक्षेपे '(दि.प.से.), 'यजिमनिशुन्धिदसिजनिभ्यो युच्' (उणा ३००)। ४ पाटयंश्चरति पाटच्चरः, पृषोदरादिः । पटच्चरे जीर्णवस्त्रे भवो वा । तत्र भवः'४।३ ५३॥ इत्यण् । 'पटच्चौरः' इत्येके।
४० ५ स्तेनयति स्तेनः, पुंक्ली. । 'स्तेन चौर्ये'(चु.उ.से.), पचाद्यच्। ६ तत्करोति तस्करः । [ 'किंयत्तद्बहुषु-' (वा ३।२।२१॥)इत्यच्] 'तबृहतोः करपत्योश्चौरदेवतयोः सुट् तलोपश्च'(गणसू-६।१।१५७॥) । ७ परिपन्थं तिष्ठति, हन्ति वा पारिपन्थिकः। परिपन्थात् तिष्ठति चे'(हैमसू-६।४।३२॥) इति ठक् ॥३८२॥ ८ परिमुष्णातीत्येवंशीलः परिमोषी । 'मुष स्तेये '(त्र्या.प.से.), 'सम्पृचानुरुधा-'३।२।१४२ ।। इति घिनुण्। ९ परानास्कन्दति परास्कन्दी । 'स्कन्दिर् गतिशोषणयो:'(भ्वा. प.अ.) । १० एकमसहायमगारं प्रयोजनमस्य ऐकागारिकः। 'ऐकागारिकश्चौरे ५।१।११३॥इति ठक् । ११ मलिनं म्लोचति
५० मलिम्लुचः। 'म्लुच स्तेयकरणे'(भ्वा.प.से.), 'इगुपध-' ३।१।१३५॥इति कः । एकादश चौरस्य । "चौरे तु चोरटो रात्रिचरः"[शेषनाममाला ३।९५ ॥] इति शैषिके ॥
यः पश्यतो हरेदर्थं स चौरः पश्यतोहरः ॥३८२॥
१ यः पश्यतो विलोकयतो जनस्य अर्थं द्रव्यं हरेत्, स चौरः पश्यतोहरः, उच्यत इति शेषः। पश्यतः हरः पश्यतो हरः। 'वाग्दिक्पश्यद्भयो युक्तिदण्डहरेषु'(वा-६।३।२१॥)इति षष्ठ्यलुक् ॥३८२॥
१. द्र. स्वोपज्ञटीका ३३८०॥, पृ.८८ ॥, तथा अमरकोशक्षीरस्वामिटीका ३१४६ ॥, पृ.२४५॥ २. 'हलदन्तात् सप्तम्याः संज्ञायाम्'६।३।९० ॥ इत्यतोऽपि सप्तम्यलुक, अत एवोक्तं दीक्षितेन सि.कौमुद्याम्-"तत्पुरुषे कृतीति हलदन्तादिति वा उरलुक्" इति सि.कौमुदी. पृ.५६८॥ ३.
करोति, न त्वनन, अपरं च 'पिशः (पिशेः) किच्च' इत्यस्य ग्रहणं प्रमादमूलकम्, 'क्षुधिपिशिमिथिभ्यः कित्'(उणा ३३५)इत्यस्य विद्यमानत्वात्।। ४. द्र. स्वोपज्ञटीका ३।३८०॥, पृ.८९ ॥, अम.क्षीरस्वामिटीका ३१।४७॥, पृ.२४६ ॥ ५. 'शूचि' इति १.२, 'सूचि' इति३॥ ६. उणादिगणे तु 'सिवेष्टेयूँ च'(उणा-२८७)इति सूत्रं दृश्यते, कार्यक्षेत्रमपि अन्यदेव, क्लिष्टकल्पनाऽत्र प्रतिभाति ॥ ७. 'खनु अवदारणे' इति क्षीरतरङ्गिण्यादौ ॥ ८. 'ल्युट्' इति ३ ॥ ९. क्षीरतरङ्गिण्यादौ उपक्षयार्थः स्वीकृतः ॥ १०. '-द्यचि' इति ४॥ ११. 'परिपन्थं च तिष्ठति' ४।४।३६॥ इति पाणिनीयाष्टाध्याय्याम् ॥ १२. मा. धातुवृत्तिसम्मतोऽयं धातुपाठः, क्षीरतरङ्गिण्यां '-शोषणे' इत्येव दृश्यते ॥ १३. 'ऐकागारिकट चौरे' इत्यष्टाध्याय्याम् || १४. 'म्लोचयति' इति १॥ १५. क्षीरतरङ्गिण्यादौ स्तेयकरणार्थकम्लुचधातुर्न दृश्यते ॥ १६. 'चौरे तु चोरटो रात्रिचरः' इत्यस्य स्थाने १.२.४प्रतिषु 'चोरटः रात्रिचरः' इत्येव दृश्यते, शेषनाममालास्वोपज्ञटीकयोः 'चोरडो' इति दृश्यते ॥
चौर्यं तु चौरिका स्तेयम्
___ १ चोरस्य भावः कर्म वा चौर्यम् । 'गुणवचनब्राह्म णादिभ्यः कर्मणि च'५।१।१२४॥ इति ब्राह्मणादित्वात् ष्यञ् । २ चौरस्य॑ भावः चौरिका, स्त्रीक्ली. । मनोज्ञादित्वाद् वुञ् । ३ स्तेनस्य भावः स्तेयम् । 'स्तेनाद्यन्नलोपश्च'५।१।१२५ ॥ इति यन्नलोपौ । त्रीणि चौर्यस्य । 'चोरि' इति भाषा ॥
लोप्नं त्वपहृतं धनम् ।
१ लुप्यते लोत्रम् । 'लुप्लु छेदने'(तु.उ.से.), बाहुलकाद् 'हुयामा-'(उणा-६०७)इति वन् । लाद्रमित्यपि
१० हलायुधटीका । एकं चौराऽपहृतद्रव्यस्य ॥
यद्भविष्यो दैवपरः
१ यद् भविष्यति तद् भवतु इत्येवमाचष्टे यद्भ विष्यः । २ दैवपरः दैवप्रमाणकः। द्वे दैवप्रमाणकस्य ॥
अथाऽऽलस्यः शीतकोऽलसः ॥३८३॥ मन्दस्तुन्दपरिमृजोऽनुष्णः
१ आलस्यमस्यास्ति आलस्यः । 'अर्शआदिभ्योऽच्' ५।२।१२७॥ । २ शीतं मन्दं करोति शीतकः । 'शीतोष्णाभ्यां कारिणि'५।२७२ ।। इति कन्प्रत्ययः । क्रियाविशेषणाद् द्वितीया समर्थादयं प्रत्ययः । ३ न लसति अलसः । 'लस श्रेषण
२० क्रीडनयोः'(भ्वा.प.से.), नपूर्वः, पचाद्यच् ॥३८३॥४ मन्दते स्वपितीव मन्दः । अत एव मदि जाड्ये इति चान्द्रो धातुः, ततः पचाद्यच्। ५ तुन्दं परिमाष्टि तुन्दपरिमृजः। मृजूष् शुद्धौ' (अ.प.से.), 'तुन्दशोकयोः परिमृजापनुदोः'३।२।५॥ इति कः। ६ न उष्णः अनुष्णः । षड् अलसस्य । 'आलसू' इति भाषा॥
___दक्षस्तु पेशलः । पटूष्णोष्णकसूत्थानचतुराश्च
१ दक्षते वर्धते लक्ष्म्या कृत्वा दक्षः । 'दक्ष वृद्धौं' (भ्वा.आ.से.), पचाद्यच् । दक्षते शीघ्रं करोतीति वा। 'दक्ष शैघ्ये '(भ्वा.आ.से.), अच् । २ पिशति(पिंशति) एकदेशेन
३० सर्वं करोति पेशलः, तालव्यमध्यः। 'पिश अवयवे'(तु.प.से.), _ 'वृषादिभ्यश्चित् '(उणा-१०७)इति कलच् । ३ पाटयति पटुः। 'पट गतौ'(भ्वा.प.से.), णिजन्तः । 'फलिपाटिनमिमनिजनां गुक्पटिनाक(कि)धता(त)श्च'(उणा-१८)इति उः, पटादेशश्च । ४ उषति (ओषति) दहतीवोष्णः (दहतीति उष्णः) । 'उष दाहे'(भ्वा.प.से.), इण्षिब्दीऔषविभ्यो नक् '(उणा-२८२)इति नक् । ५ उष्णं क्षिप्रं करोति उष्णकः । 'शीतोष्णाभ्यां कारिणि' ५।२७२॥ इति कन्प्रत्ययः । ६ सुष्ठु उत्थानमुद्योगोऽस्य सूत्थानः । ७ चतते कर्म चतुरः । 'चतेङ् याचने'(भ्वा.उ.से.), 'मन्दिवाशिमथिचति-'(उणा-३८) इति उरच् । सप्त अविल म्बितकार्यकारिणः, शीघ्रकारिणो वा ॥
४० अथ तत्परः ॥३८४॥ आसक्तः प्रवणः प्रतः प्रसितश्च परायणः।
१ तत्परमस्य तत्परः, तनिष्ठः ॥३८४॥२ आसजति स्म आसक्तः । षञ्ज सङ्गे'(भ्वा.प.अ.), निष्ठा । ३ प्रकर्षण वनति संभजते प्रवणः। प्रपूर्वः 'वन षण संभक्तौ'(भ्वा.प.से.), पचाद्यच् । ४ प्रह्वयते कार्ये स्पर्धते प्रतः । 'ह्वे स्पर्धायां शब्दे च'(भ्वा.उ.अ.)। ५ प्रसिनोति स्म प्रसितः । प्रपूर्वात् ‘षिञ् बन्धने'(स्वा.उ.अ.) अस्माद् निष्ठा । ६ परं कार्य पारमयते प्रप्नोति परायणः। 'अय गतौ'(भ्वा.आ.से.), नन्द्या . दित्वाद् ल्युः । षट् तत्परस्य ॥
५० दातोदारः
१ ददाति दाता । 'डुदाञ् दाने'(जु.उ.अ.), 'ण्वुल तृचौ'३।१।१३३॥ इति तृच् । २ उदत्यर्थमाराति ददाति उदारः। 'रा दाने'(अ.प.अ.), 'आतश्चोपसर्गे कः'३।१।१३६॥ द्वे दातुः।
स्थूललक्षदानशौण्डौ बहुप्रदे ॥३८५॥
१ स्थूलं लक्षयत्यालोचयति ददातीति यावत् स्थूल लक्षः । लक्ष दर्शनाङ्कनयोः (चु.उ.से.), पचाद्यच् । लक्षेर्णि जन्ताद् ‘एरच्'३३ ५६॥ इत्यच् वा । निर्यकारोऽयम्। मिश्रास्तु "दानार्थं स्थूलकूटं (स्थूलं कूट) प्रचुरद्रव्यं दातुं लक्ष्यम पेक्षणीयमस्य स्थूललक्ष्यः । 'स्थूलं कूटे चे [मेदीनीकोशः,
६० शब्दवर्गः, लान्तवर्गः, श्री-५६] इति मेदिनिः । लक्ष्यमिति ऋहलोर्ण्यति सयकारोऽयम्'[ ]इत्याहुः । २ दाने दानविषये शौण्डो विख्यातः, प्रसक्तो वा दानशौण्डः । सप्तमी शौण्डैः'
१. 'चोरस्य' इति १.२॥ २. 'चौरि' इति २.३॥ ३. 'अल-' इति २॥ ४. 'दक्षति' इति १, 'दक्ष्यति' इति ३॥ ५. 'दक्ष वृद्धौ शीघ्रार्थे च' इति क्षीरतरङ्गिण्यादौ ॥ ६. 'इण्सिञ्जिदीकुष्यविभ्यो नक्' इत्युणादिगणसूत्रम् ॥ ७. क्षीरतरङ्गिण्यादौ ङकारानुबन्धो नास्ति ॥ वस्तुतस्तु 'चते चदे याचने च' इति धातुपाठः ॥ ८. 'हृङ्' इति १.३.४॥ ९. 'कार्य' इति २॥ १०. '-तीति' इति ३॥ ११. 'कुटेऽथ' इति मेदिनीकोशे ॥ १२. 'ण्यदिति' इति ४॥
२।१।४०॥ इति समासः । "शौण्डो मत्तेऽपि विख्यातः" [ मेदिनीकोशः, शब्दवर्गः, डान्तवर्गः, श्री-२६] इति मेदिनिः । "शुण्डा मद्यपानस्थानम्, तत्र भवः शौण्डः, इहोपचारात् समर्थ उच्यते"[अम. क्षीरस्वामिटीका ३१६॥]इति स्वामी । ३ बहूनि धनानि प्रददाति बहुप्रदः । 'प्रे दाज्ञः कर्मणि'३।२।६॥ इति कः, तत्र । त्रीणि बहुप्रदस्य ॥३८५॥ दानमुत्सर्जनं त्यागः प्रदेशनविसर्जने ।
विहांयितं वितरणं स्पर्शनं प्रतिपादनम् ॥३८६॥
विश्राणनं निर्वपणमपवर्जनमंहतिः ।
१० १ दीयते दानम् । ल्युट् । २ उत्सृज्यते उत्सर्जनम्। सृज विसर्गे '(तु.प.अ.), ल्युट । ३ त्यजनं त्यागः । 'त्यज हानौ'(भ्वा.प.अ.),भावेघञ्, 'चजोः कु घिण्ण्यतो:'७३ ५२॥ इति कुत्वम्, 'अत उपधायाः'७।२।११६॥ ४ प्रदिश्यते प्रदेश नम् । 'दिश अतिसर्जने'(तु.प.अ.), ल्युट् । प्रादेशनमपि । ५ विसृज्यते विसर्जनम् । 'सृज विसर्गे'(तु.प.अ.), ल्युट् । ६ "हि गतौ वृद्धौ च'(स्वा.प.अ.) अतो णिजन्तात् क्त: [विहायि तम्] । ७ वितीर्यते वितरणम् । विपूर्वः 'तृ प्लनवतरणयोः' (भ्वा.प.से.), ल्युट् । ८ स्पृश्यते स्पर्शनम् । 'स्पृश संस्पर्शने' (तु.प.अ.), ल्युट, उपधाया लघोर्गुणः । दानं हि उपचारात्
२० पुच्छादौ गवादिकं स्पृष्ट्वा दीयते । ९ प्रतिपाद्यते प्रतिपादनम् । ‘पद गतौ'(दि.आ.अ.)णिजन्तः, ल्युट् ॥३८६॥१० विश्राण्यते विश्राणनम् । 'श्रण दाने '(चु.उ.अ.), अस्माण्णिजन्ताद् ल्युट। ११ निरुप्यते निर्वपणम्। 'टुवप् (डुवप्) बीजतन्तुसन्ताने' (भ्वा.उ.अ.), ल्युट्। निर्वापणमपि । १२ अपवृज्यते अप वर्जनम् । ल्युट्। १३ हन्यते दौर्गत्यमनया अंहतिः, स्त्रीलिङ्गः। "हन् (हन) हिंसागत्यो:'(अ.प.अ.), हन्तेरंह च'(उणा-५०२, हैमोणा-६५४)इत्यतिः । स्वत: उपसर्गवशाच्च हन्तिर्दानार्थः । " 'अहि गतौ'(भ्वा.आ.से.), अनेकार्थत्वाद् धातूनां दानार्थ त्वादस्मात् क्तिन्, 'तितुत्रथ-'७।२।९॥ इत्यत्र 'अग्रहादीनामिति
३० वक्तव्यम्'( )इतीटि अंहितिः, मध्येऽकारवती"[]इति तु
कलिङ्गः । त्रयोदश दानस्य ॥
अर्थव्ययज्ञः सुकलः
१ अर्थव्ययं जानाति अर्थव्ययज्ञः दाता भोक्ता च। 'ज्ञा अवबोधने'(त्र्या.प.अ.), 'इगुपध-'३।१।१३४॥ इति कः। शोभना कलाऽस्य सुकलः, विख्यातत्वात् । सु अतिशयेन कल्पते शब्दयते गण्यते वा । 'कल शब्दसङ्ख्यानयोः (भ्वा.आ.से.), घञ् । यदमर:-"सुकलो दातृभोक्तरि''[अमरकोषः ३।१८॥] । एकं दातृभोक्तुः ॥
याचकस्तु वनीपकः ॥३८७॥
मार्गणोऽर्थी याचनकस्तर्कुकः
४० १ याचते याचकः। 'टुयाच याच्वायाम्'(भ्वा.उ.से.), ण्वुल् । २ 'वनु याचने'(त.आ.से.), 'इन् सर्वधातुभ्यः'(उणा ५५७)इतीन्, वनिः, 'कृदिकारात्-'(गणसू-४।१६४५ ॥)इति ङीषि वनी, तां पाति वनिपः, ततः संज्ञायां कन् वनीपकः, पवर्गाद्यमध्यः। 'वनीयक' इत्यन्तस्थाद्यमध्योऽपि। "वनु याचने' (त.आ.से.), वनति याचते वनिः, 'इन् सर्वधातुभ्यः'(उणा ५५७), वनिं याचनामिच्छतीति क्यर्चि ण्वुल् ''[]इति मिश्रोज्ज्वलदत्तावप्यन्तस्थाद्यमध्यमेवाहतुः ॥३८७॥ ३ मार्गति अन्विष्यति दातारमर्थं वा मार्गणः। 'मार्ग अन्वेषणे'(चु.उ.से.), नन्द्यादित्वाद् ल्युः। ४ असन्निहितोऽर्थोऽस्त्यस्य अर्थी ।
५० 'अर्थाच्चाऽसन्निहिते'(वा-५।२।१३५ ॥)इतीनिः । अर्थयत इति वा। 'अर्थ वाञ्छायाम्'(चु.आ.से.), ग्रंह्यादित्वाद् 'नन्दिग्रहि-' ३।१।१३४॥ इत्यादिना णिनिर्वा । ५ याचते याचनः, नन्द्यादित्वाद् ल्युः, ततः स्वार्थे कनि याचनकः। ६ चतते याचते तर्कुकः। 'चतेङ् यचने'(भ्वा.उ.से.), पृषोदरादित्वात् साधुः। षड् याचकस्य ॥
अथार्थनैषणा । अर्दना प्रणयो याञा याचनाऽध्येषणासनिः।३८८ ।
१ अर्थनम् अर्थना । 'अर्थ [उप] याच्ञायाम्'(चु. आ.से.), भावे ल्युट् । २ एषणम् एषणा । 'इषु इच्छायाम्'
६० (तु.प.से.), 'इषोऽनिच्छार्थात् '(वा-३।३।१०७॥)इति युच् । ३ अर्दनम् अर्दना । 'अर्द गतौ याचने च'(भ्वा.प.से.), भावे ल्युट् । ४ प्रणयनं प्रणयः। प्रपूर्वः ‘णी प्रापणे'(भ्वा.उ.अ.), 'एरच्'३३ ५६॥ इत्यच् । ५ याचनं याच्या। 'टुयाच याञ्चायाम्' (भ्वा.उ.से.), यजयाचयतविच्छ-'३।३।९०॥ इति नङ्, 'स्तोः
१. 'च' इति मेदिन्याम्॥ २. स्वामिकृतामरकोशटीकायां तु-"दाने शौण्डः शक्त उपचारात् शुण्डा हि पानमदस्थानं तत्र भवः शौण्डः" इति दृश्यते, ३१६॥, पृ.२३७॥ ३. अष्टाध्याय्यां 'प्रे दाज्ञः' इत्येव दृश्यते ॥ ४. काशकृत्स्नमतेऽयम् (द्र. क्षीरतरङ्गिणी, पृ.१६७), स्वामिसायणौ 'बीजसन्ताने' इत्येव पठतः ॥ ५. द्र. पदचन्द्रिका, भा-२, ब्रह्मवर्गः, शो-४२६, पृ.५१५॥ ६. 'क्यनि' इति३॥ ७. '-उपयाच्ञायाम्' इति क्षीरतरङ्गिण्यादौ॥ ८. 'ग्राह्या-' इति ३.४॥ ९. क्षीरतरङ्गिण्यादौ ङकारानुबन्धो नास्ति ॥ १०. 'याचनकस्य' इति३॥ ११. 'इष' इति मा. धातुवृत्तिः ॥ १२. 'इषेरनिच्छार्थस्य' इति वार्तिकस्वरूपं दृश्यते॥
श्चना श्चुः'८।४।४०॥ । ६ याचनं याचना । याचेर्णिजन्ताद् बाहुलकाद् ‘ण्यासश्रन्थ- '३।३।१०७॥ इति युच् । ७ अध्येषणम् अध्येषणा । अधिपूर्वः 'इषु इच्छायाम्'(तु.प.से.), ल्युट् । ८ सन्यते याच्यते सनिः, स्त्रियाम् । 'षणु दाने'(तु.उ.से.) 'सन्कषि '( )इति इन्, ‘इन् सर्वधातुभ्यः'(उणा-५५७)इतीन् वा। वैजयन्ती तु, सनिशब्दं पुंस्यप्याह - 'सनिरक्ली स्यात् '[वैजयन्ती कोष:३।६।१२१ ॥] इति । प्रणयमन्तरेण सर्वेऽपि स्त्रीलिङ्गाः । अष्टौ याचनायाः । “सनिस्त्वध्येषणा''[अमरकोषः २।७।३२॥]इति गुर्वादेराराधनस्य सत्कारपूर्वकं क्वचिदर्थे नियो-जनमित्यमरः
१० पृथगाह । शेषश्चात्र-"भिक्षणा अभिषस्तिर्मार्गणा च"[शेषनाममाला ३९५॥] ॥३८८॥ उत्पतिष्णुस्तूत्पतिता
१ उत्पतति ऊर्ध्वं गच्छतीत्येवंशीलः उत्पतिष्णुः । 'पतृ( पत्ल ) पतने '( भ्वा.प.से.), 'अलङ्कृञ्जिराकृञ्-' ३।२।१३६ ॥ इत्यादिना इष्णुच् । २ उद् ऊर्ध्वं पतति उत्पतिता, तृजन्तः । द्वे उत्पतिष्णोः । 'ऊडवा मतइ' इति भाषा ॥
अलङ्करिष्णुस्तु मण्डनः ।
१ अलङ्करोतीत्येवंशीलः अलङ्करिष्णुः । 'डुकृञ् करणे'(त.उ.अ.), अलङ्कृनिराकृअजनोत्पत-'३।२।१२६ ॥
२० इत्यादिना इष्णुच् । २ मण्डयतीत्येवंशीलो मण्डनः । 'मडि भूषायाम्'(भ्वा.प.से.), 'क्रुधमण्डार्थेभ्यश्च'३।२।१५१ ॥ इति युच् । द्वे अलङ्करिष्णोः ॥
भविष्णुर्भविता भूष्णुः
१ भवति तच्छीलो भविष्णुः । ‘भू सत्तायाम्' (भ्वा.प.से.), 'भुवश्च वा वाच्यः'३।२।१३८॥इतीष्णुच् । २ भवतीत्येवंशीलो भविता । 'तृन्'३।२।१३५ ॥ इति तृन् । ३ भवतीत्येवंशीलो भूष्णुः। 'ग्लाजिस्थश्च क्स्नुः'३।२।१३९ ।। सूत्रे चाद् ‘भुवश्च'३ ।२।१८ ॥ इति स्नुः, ‘युकः किति' ७४।११॥ इत्यत्र गकारप्रषानेट । त्रीणि भविष्णोः । 'अग्रे
३० हुवणहार' इति भाषा ॥
समौ वर्तिष्णुवर्तनौ ॥३८९॥
१ वर्तत इत्येवंशीलो वर्तिष्णुः । 'वृतु वर्तने'(भ्वा. आ.से.), 'अलङ्कृजिराकृञ्-'३।२।१३६॥ इत्यादिना इष्णुच् । २ वर्तत इत्येवंशीलो वर्तनः । 'अनुदात्तेतश्च हलादेः'३।२।१४९ ।। ___ इति युच् । द्वे वर्तिष्णोः ॥३८९॥
विसृत्वरो विसृमरः प्रसारी च विसारिणि ।
१ विसरतीत्येवंशीलो विसृत्वरः । 'सृ गतौ'(भ्वा. प.अ.), 'इण्नश्जिसर्त्तिभ्यः क्वरप्'३।२।१६३॥ कित्त्वात् 'हस्व स्य-'६।१७१ ॥ इति तुक्। स्त्रियां विसृत्वरी, 'टिड्ढाञ्-४।१।१५॥ इति ङीप् । २ विसरतीत्येवंशीलो विसृमरः । सृ गतौ'(भ्वा.-
४० प.अ), 'सृघस्यदः क्मरच्'३।२।१६०॥ । ३ प्रसरतीत्येवंशीलः प्रसारी । 'सृ गतौ'(भ्वा.प.अ.), 'प्रे लपसृ-'३।२।१४५ ॥ इति घिनुण् । ४ विसरणं विसारः, तद्योगादिनि: विसारी, तत्र । चत्वारिं प्रसरणशीलस्य ॥
लज्जाशीलोऽपत्रंपिष्णुः
१ लज्जाशीलमस्य लज्जाशीलः । २ अपत्रपत इत्येवं शीलः अपत्रपिष्णुः । अलङ्कृञ्जिराकृञ्-'३।२।१३६ ॥ इत्या दिना इष्णुच् । द्वे लज्जाशीलस्य ॥
सहिष्णुः क्षमिता क्षमी ॥३९०॥
तितिक्षुः संहनः क्षन्ता
५० १ सहत इत्येवंशीलः सहिष्णुः । 'अलङ्कृञ्निरा कृञ्-'३।२।१३६॥इत्यादिना इष्णुच् । २ क्षमत इत्येवंशीलः क्षमिता । 'क्षमूष् सहने'(भ्वा.आ.वे.), 'तृन्'३।२।१३५ ॥ इति तृन्, 'आर्धधातुकस्य-'७।२।३५ ।। इतीट् । ३ क्षमाऽस्याऽस्ति क्षमी। शिखादित्वादिनिः । क्षमत इति वा । 'शमित्यष्टाभ्यो घिनुण'३।२।१४१ ॥ ॥३९०॥ ४ 'तिज निशाने क्षमायां च' (भ्वा.प.से.), 'गुप्तिङ्किद्भयः सन्'३।१।५॥, 'सन्यङोः '६। १९॥ इति द्वित्वम्, 'सन्यतः '७।४।७९॥ इतीत्वम्, 'व्रश्च-' ८।२।३६॥ आदिना षत्वम्, 'सनाशंसि(शंस)भिक्ष उ:'३।२। १६८॥ तितिक्षुः। ५ सहत इत्येवंशीलः सहनः । 'षह मर्षणे'
६० (भ्वा.आ.से), 'अनुदात्तेतश्च-'३।२।१४९॥ इति युच् । ६ क्षमत इत्येवंशीलः क्षन्ता । 'क्षमूष् सहने'(भ्वा.आ.वे), 'तृन्' ३।२।१३५॥, ऊदित्वादिडभावे रूपं । षट सहनशीलस्य ॥
तितिक्षा संहनं क्षमा ।
१ तितिक्ष्यते तितिक्षा । 'अ:(अ) प्रत्ययात्'३।३।१०२।। इति अ: । २ सह्यते सहनम् । षह मर्षणे'(भ्वा.आ.से.), भावे ल्युटि । ३ क्षमणं क्षमा । 'क्षमूष् सहने'(भ्वा.आ.से.), 'षिद्भिदादिभ्योऽङ्'३ ।३।१०४॥ । त्रीणि क्षमायाः ॥
१. 'इष-' इति मा. धातुवृत्तिः ॥ २. तुलनीयोऽमरकोषः ३।१।२९ ॥ ३. 'भुवश्च' इत्येवाष्टाध्याय्याम् ॥ ४. 'क्सुः' इति ३.४ ॥, अत्र 'ग्स्नुः 'इत्येव युक्तः, अन्यथा 'स्थास्तुः' इत्यत्र ईत्त्वं स्यात्, अत एवोक्तं सि.कौमुद्याम् '-गिदयं न तु कित्, तेन स्थ ईत्त्वं न' इति सि.को. पृ.५८८ ॥ ५ 'अग्रे हुणहार' इति १.३॥ ६. '-शीलुः' इति १.२ ।। ७. 'तुलनीयोऽमरकोषः ३।१।३१ ॥ ८. 'द्वे' इति १.३ ॥ ९. तुलनीयोऽमरकोषः ३।१।२८ ॥ १०. 'स्वरतिसूतिसूयतिधूदितो वा'७।२।४४ ॥ इत्यनेन वेट् ॥
ईर्ष्यालुः कुहनः
१ ईष्यत ईर्ष्यालुः । 'ईर्थ्य असहने '(भ्वा.प.से.), आलुच् । २ कुह्यते विस्मापयते कुहनः । 'कुह विस्मापने' (चु.आ.से.), अनुदात्तेश्च-'३।२।१४९ ॥ इति युच्, कुटादित्वाद् गुणाभावः । द्वे ईर्ष्यालोः ॥
__ अक्षान्तिा
१ न क्षान्तिः अक्षान्तिः । २ ईर्थ्यणम् ईर्ष्या, पर सम्पत्त्यसहनम्, स्त्र्यादेः परदर्शनासहनं वा । 'ईj ईर्ष्यायाम्' (भ्वा.प.से.), 'गुरोश्च हल:'३।३।१०३॥ इति अ: । " 'सूर्ध्य
१० ईर्ष्या ईर्घ्य ईर्ष्यार्थाः'(भ्वा.प.से.), 'गुरोश्च हलः'३।३।१०३ ॥इति अप्रत्ययः, ईर्ष्या, क्षकारमध्याऽपि"[ ]इति धातुवृत्तिः । द्वे ईर्ष्यायाः । अदेखाई' इति भाषा ॥
क्रोधी तु रोषणः ॥३९१॥ अमर्षणः क्रोधनश्च
१ क्रुध्यति क्रोधी । 'क्रुध कोपे'(दि.प.अ.) । कोपी च । २ रुष्यतीत्येवंशीलो रोषणः । 'रुष रोषे '(दि.प.से.), 'क्रुधमण्डार्थेभ्यश्च'३।२।१५१॥ इति युच् ॥३९१॥ ३ न मर्षते
क्षमते अमर्षणः । 'मृष तितिक्षायाम्'(दि.उ.से), नन्द्यादित्वाद् ल्युः 'क्रुधमण्डार्थेभ्यश्च'३।२।१५१॥ इति युच् वा । ४ क्रुध्यति
२० क्रोधनः । 'क्रुध कोपे'(दि.प.अ.), 'क्रुधमण्डार्थेभ्यश्च'३।२।
१५१॥इति युच् । चत्वारि कोपवतः ॥
चण्डस्त्वत्यन्तकोपनः ।
१ चण्डते चण्डः । 'चडि कोपे'(भ्वा.आ.से.), पचाद्यच्, 'इदितो नुम् धातोः'७।१५८॥ । चणति शब्दायते वा। 'चण शब्दे '(भ्वा.प.से.), बमन्ताड्डः'(उणा-१११) ।२ 'कुप कोपे'(चु.प.से.), 'क्रुधमण्डार्थेभ्यश्च'३।२।१५१॥ इति युचि कोपनः । द्वेऽतिकोपनस्य ॥ बुभुक्षितः स्यात् क्षुधितो जिर्घत्सुरर्शनायितः ॥३९२॥
१ भोक्तुमिच्छा बुभुक्षा, सा सञ्जाताऽस्य बुभुक्षितः ।
३० तारकादित्वादितच् । २ क्षुध्यति स्म क्षुधितः । 'क्षुध बुभुक्षा याम्'(दि.प.अ.), निष्ठा । क्षुत् सञ्जाताऽस्येति तारकत्वादितच् वा । ३ अत्तुमिच्छुः जिघत्सुः । 'अद भक्षणे'(अ.प.अ.),
'धातोः कर्मणः समानकर्तृकात्-'३।१७॥ इति सन्, 'लुङ्स नोर्घस्लु'२।४।३७॥, 'सन्यङो:'६।१९॥ इति द्वित्वम्, 'सन्यतः' ७४७९ ॥ इतीत्वम्, 'सा[ :] स्यार्धधातुके'७।४।४९॥ इति सस्य तत्वम्, 'सनाशंसभिक्ष उ:'३।२।१६८॥ । ४ अशनाया सञ्जाता ऽस्य अशनायितः । तारकादित्वादितच, 'अशनायोदन्य [धनाया] बुभुक्षापिपासा-७।४।३४॥ इति साधुः । चत्वारि बुभुक्षितस्य ॥३९३॥
बुभुक्षायामर्शनाया जिंघत्सा रोचको रुचिः।
४० १ भोक्तुमिच्छा बुभुक्षा, तस्याम् । २ अशनस्येच्छा अशनाया। अशनायोदन्य[धनाया] बुभुक्षापिपासा- '७।४।३४॥ इति निपातनात् साधुः । ३ अत्तुमिच्छा जिघत्सा । 'अद भक्षणे' (अ.प.अ.), धातोः कर्मणः-'३।१७॥ इति सन्, 'लुङ्सनो र्घस्लु'२।४।३७॥, 'सन्यङो'६।१९॥ इति द्वित्वम्, 'सन्यतः' ७४७९॥इतीत्वम्, 'स[:] स्यार्धधातुके'७४।४९॥ इति सस्य तत्वम् । ४ रोचनम्, रोचतेऽस्मिन् वा रोचकः, पुंक्ली. । "रोचकोऽस्त्री"[] इत्यमरः । 'रुच दीप्तौ'(भ्वा.आ.से.) । ५ रोचनं रुचिः,स्त्रीलिङ्गः । इगुपधात् कित्'(उणा-५५९)इतीन्। पञ्च बुभुक्षायाः। "क्षुधाक्षुधौ"[शेषनाममाला३।१५॥] शैषिके॥
५० पिपासुस्तृषितस्तृष्णक
१ पातुमिच्छुः पिपासुः । 'पा पाने'(भ्वा.प.अ.), 'धातो कर्मण:-'३।१७॥ इति सन्, 'सन्यङो'६।१९॥ द्वित्वम्, 'सनाशंसभिक्ष उः'३।२।१६८॥ । पिपासितोऽपि । २ तृष्यति तृषितः । 'जितृष पिपासायाम्'(दि.प.से.), बीत्त्वं वर्तमाने क्तार्थम्, तेन 'बीतः क्तः'३।२।१८७॥ इति क्तः । तृट् सञ्जाताऽ स्येति तारकादिर्वा । तृषितमस्यास्तिीत्यर्शआदिभ्योऽचि वा । तर्षितोऽपि । ३ तृष्यतीत्येवंशील: तृष्णक् । 'जितृष पिपासा याम्'(दि.प.से.), स्वपितृषोर्नजिङ्'३।२।१७२॥ । तृष्णजौ, तृष्णजः इत्यादि । त्रीणि तृषितस्य ॥
६० तृष्णा तर्षोऽपलासिका ॥३९३॥ पिपासा र्तृट् स॒षोदन्या धीतिः पाने
१ तर्षणं तृष्णा । 'जितृष पिपासायाम्'(दि.प.से.), दिवादिः, 'तृषिसुसि(शुषि)रसिभ्यां (भ्यः) कित्'(उणा २९२)इति नः । २ तर्षणं तर्षः । भावे घञ्, उपधागुणः । ३
१. इतोऽग्रे ३प्रतौ 'इति' इति दृश्यते ॥ २. 'सूर्य ईय ईर्ण्य ईर्ष्यार्थाः' इति क्षीरतरङ्गिण्यादौ॥ ३. तुलनीयोऽमरकोषः १७।२४॥ ४. मा. धातुवृत्तौ-"ईर्ष्या-'गुरोश्च हलः' इत्यकारप्रत्ययः" इत्येव दृश्यते, मा. धातुवृत्तिः, भ्वादिः, धातुसं-३३२, पृ.१४४ ।। ५. 'र इति १.२.३ ॥ ७. अत्र 'मष्यते-ति' इति युक्तः, दिवादेर्मषधातोरुभयपदित्वात् ॥, अथवा चुरादेः 'मष तितिक्षायाम्' इत्यस्य 'आ धृषाद्वा' इत्यनेन णिजभावपक्षे 'मर्षति' इति युक्तः ॥ ८. तुलनीयोऽमरकोषः३।१।२०।। ९. 'चण श्रण दाने' इति क्षीरतरङ्गिण्याम्, 'चण शण श्रण दाने च' इति मा. धातुवृत्तौ ॥ १०. 'क्षुध्यते' इति३॥ ११. '-मिच्छति' इति१॥ १२. 'अशनेच्छा' इति १॥ १३. अमरकोषे न दृश्यते ॥ १४. 'जितृषा' इति १.२.३॥ १५. 'स्वप-' इति३॥ १६. 'नप्रत्ययः' इति १, 'नः प्रत्ययः' इति२॥
अपकृष्टं लसत्यनया अपलासिका । लस श्रेषणे '(भ्वा.प.से.), ण्वुल् ॥३९३॥ ४ पातुमिच्छा पिपासा । ५ तर्षणं तृट् । 'जितृष पिपासायाम्'(दि.प.से.), सम्पदादित्वात् क्विप् । ६ "आपं चैव हलन्तानाम्''[भागुरिकृतकारिका]इति टापि तृषा । ७ उदकं पातुमिच्छा उदन्या । 'अशनायोदन्य-७।४।३४॥ इति साधुः । ८ धयनं धीतिः। धेट पाने'(भ्वा.प.अ.), स्त्रियां क्तिन्' ३।३।९४॥, 'घुमास्था- '६।४।६६॥ इतीत्वम् । ९ पीयते पानम् । 'पा पाने'(भ्वा.प.अ.), ल्युट्, तत्र । नव तृष्णायाः ॥
अथ शोषणम् । १० रसादानम्
१ शुष्यते शोषणम्। 'शुष्(शुष) शोषणे'(दि.प.अ.), ल्युट् । २ रसानामादानं रसादानम् । द्वे शोषणस्य । 'शोषिवउं' इति भाषा ॥
भक्षकस्तु घस्मरोऽघर आंशितः ॥३९४॥
१ भक्षयति भक्षकः । 'भक्ष भक्षणे'(चु.प.से.), ण्वुल्, 'क्वुन् शिल्पिसंज्ञयोः- '(उणा-१९०)इति क्वुन् वा । २ घसतीत्येवंशीलः घस्मरः । 'घस्ल अदने'(भ्वा.प.अ.) । ३ अत्तीत्येवंशील: अद्मरः । 'अद भक्षणे'(अ.प.अ.), उभयत्र 'सृघस्यदः क्मरच्'३।२।१६०॥ । ४ आ समन्ताद् अश्नाति
२० आशितः। 'अश भोजने '(त्र्या.प.से.) अस्मात् क्तः । आशिरोऽपि । चत्वारि भक्षकस्य। 'खाणहार' इति भाषा॥३९४॥
भक्तमंन्नं कॅरमन्धो भिस्सा दीदिविरोदनम् ।
अंशनं जीवनकं च याँजो वाजः प्रसादनम् ॥३९५॥
१ भज्यते नित्यं सेव्यते भक्तम् । 'भज सेवायाम्' (भ्वा.उ.अ.), कर्मणि क्तः । २ अद्यत अत्रम् । 'अद भक्षणे' (अ.प.अ.), निष्ठा, 'रदाभ्याम्-'८।२।४२॥इति नत्वम् । अनि त्यनेनेति वा । 'अन प्राणने '(अ.प.से.), 'कृवृजि(ज)सि-' (उणा-२९०)इति नः । ३ कौत्यनेन कूरम्, पुंक्ली.। 'कु शब्दे' (अ.प.अ.), बाहुलकाद् रक्दीपों । ४ अद्यते भक्ष्यत अन्धः ।
३० 'अद भक्षणे'(अ.प.अ.), अदेर्नुम् धश्च'(उणा-६४५)इत्यसुन्। अन्धसी, अन्धांसि इत्यादि क्लीबे । अनिति प्राणित्यनेनेति वा। 'अन प्राणने'(अ.प.अ.), असुन्, बाहुलकाद् धः । ५ भ्यस्यते भक्ष्यते भ्यसः, (भिस्सा) । धातूनामनेकार्थत्वाद् भक्षणार्थता । 'भ्यस भये '(भ्वा.आ.से.), 'भ्यसेः सम्प्रसारणं सच'( )इति सप्रत्यये भिस्सा । यद्वा 'प्सा भक्षणे '(अ.प.अ.), अभि सर्वतः प्सीयते भक्ष्यते, अभिपूर्वात् 'प्सा भक्षणे'(अ.प.अ.)इत्यस्माद् 'आतश्चोपसर्गे'३।३।१०६॥ अङ्, नैरुक्तोऽभेरादिलोपः, पकार रस्य च सकारः । ६ दीव्यन्ति क्रीडन्त्यवहरन्ति द्योतयन्त्यनेन दीदिविः, पुंसि । “भिस्सा स्त्री दीदिविर्न षण्"[वैजयन्तीकोषः ४।३७६ ॥] इति वैजयन्ती स्त्रियामप्याह । न षण् न षण्ड
४० इत्यर्थः । दिवु क्रीडादौ'(दि.प.से.), 'दिवो द्वे दीर्घश्चाभ्यासस्य' (उणा-४६५)इति क्विन्, [द्वित्वादिकं च]" ["] इति व्याख्या मृतम्। ७ उनत्ति क्लिद्यति ओदनम् । 'उन्दी क्लेदने'(रु.प.से.), 'उन्देर्नलोपश्च'(उणा-२३४)इति युच् । ८ अश्यत इति अशनम्। 'अश भोजने'(त्र्या.प.से.), ल्युट् । ९ जीव्यतेऽनेन जीवनम्। 'जीव प्राणधारणे'(भ्वा.प.से.), करणे ल्युट, स्वार्थे कनि जीवनकम् । १० इज्यतेऽनेनेति याजः । 'यज देवपूजादौ' (भ्वा.उ.अ.), 'प्रयाजानुयाजौ-'७।३।६२॥ इत्यत्र 'अन्यत्राऽपि स्यात्'( )इति यज्ञाङ्गे घबि 'चजोः कु घिण्ण्यतोः'७।३।५२॥ इति प्राप्तकुत्वस्याभावः। ११ वज्यते संस्क्रियते वाजः । 'वज
५० संस्कृतौ' (भ्वा.प.से.), घञ् । १२ प्रसाद्यतेऽनेन प्रसादनम्। 'षद्लु विशरणादौ'(भ्वा.तु.प.अ.), णिजन्तः, ततः करणे ल्युट् । द्वादश कूरस्य ॥३९५॥
भिस्सटा दग्धिको
१ कुत्सिता भिस्सा भिस्सटा, लक्ष्यानुरोधाट्टे हस्वत्वं च । यथा-ओदनभिस्सटा, ग्रामटी, वधूटीत्यादिषु । २ कुत्सिता दग्धा दग्धिका । दहे: क्तः दग्धा, ततः संज्ञयां कन् । दग्धौदन स्य । ऊखराडि' इति भाषा ॥
सर्वरसाग्रं मण्डम्
१ सर्वरसानां द्रवद्रव्याणामग्रं मुख्यं मण्डयति मण्डम्,
६० पुंक्ली. । 'मडि भूषायाम्'(चु.उ.से.), पचाद्यच् । “सर्वरसाग्रे मण्डमस्त्रियाम्"[अमरकोषः २।९।४९॥] इत्यमरः। श्रीधरोऽपि
" ("सारे पिच्छायां मण्डोऽस्त्री) पुमानेरण्डभूषयों)।
१. 'लस श्रेषणक्रीडनयोः' इति क्षीरतरङ्गिण्यादौ । २. 'शोषवो' इति ३, 'शोषवउं' इति ४॥ ३. 'घस' इति १.२.३॥ ४. '-दनः' इति २॥ 'भक्तमन्धोऽन्नमोदनोऽस्त्री'[अमरकोषः २।९।४८॥] इत्यमरोक्त्या ओदनशब्दः पुंक्लीबलिङ्गे वर्तते ॥ ५. 'अदेर्नुम्धौ च' इत्युणादिगणे ॥ ६. नैताहक्
सूत्रं दृश्यते, परं तु अस्योल्लेखो रामाश्रमीकारेण मुकुटमतमुट्टक्य कृतः, द्र. रामाश्रमी २९४८ ॥, पृ.४२३ ॥ ७. धातुपाठोल्लेखोऽत्राऽनावश्यकः, वक्ष्यमाणत्वात् ॥ ८. '-ऽभरादि-' इति २॥ ९. 'दिदि-' इति वैजयन्त्याम् ॥ १०. 'द्र. पदचन्द्रिका, भा-२, वैश्यवर्गः, शो-६२१, पृ.७१३॥ ११. 'ओदनः' इति २.३ ॥ १२. 'वज व्रज गतौ' इति क्षीरतरङ्गिण्यादौ ॥ १३. तुलनीयोऽमरकोषः२।९।४९ ॥ १४. 'उख-' इति ३॥ १५. कोष्ठान्तर्गतपाठस्थाने विश्वलोचनकोशे 'सारे पिच्छेऽपि मण्डेऽस्त्री' इति पाठो दृश्यते ॥ १६. '-भूषणयोः' इति ३॥
मण्डा धात्र्यमथो मण्डं शाकभेदे च मस्तुनि ॥१॥"
[विश्वलोचनकोशः, शब्दवर्गः, डान्तवर्गः, शो-२१] इति लिङ्गनिर्णयमर्थभेदं चाह । “सारं भक्तादिनिर्यासः, पिच्छा द्रवद्रव्याणामुपरि अत्थोभोगः, मस्तु दधिजम्''[ ]इति तट्टीका। सामान्यत एकं मण्डस्य । मांडउसावरणतरीवरिइत्यादिकाः पृथक् पृथग्भाषाः ॥
अथ तमेव विशेषादाह
अत्र तु । दधिजे मस्तु
१० १ अत्रेति मण्डे, दधिजे दध्युत्पन्ने, मस्यति परिणमते मस्तु, क्लीबे । 'मसी परिणामे'(दि.प.से.), 'सितनिगमि मसिसच्यविधाकृ(क्रु)शिभ्यस्तुन्'(उणा-६९) । "दध्नस्तु यदधस्तोयं तन्मस्तु च निगद्यते''[]इति धन्वन्तरिः । एकं दधिमूलजस्य । 'दहीनी आर्छि' इति भाषा ॥
भक्तोत्थे निःस्रावाचाममासराः ॥३९६॥
१ भक्तोत्थे भक्तसमुद्भवे मण्डे नि:स्राव्यते निःस्रावः। निपूर्वः, 'त्रु गतौ'(भ्वा.प.अ.), अस्माण्णिजन्तात् कर्मण्येरच् । २ आचाम्यते आचामः । 'चमु अदने'(भ्वा.प.से.), अस्मा दाङ्पूर्वाद् भक्षणार्थत्वात् कर्मणि घञ्, आयूर्वत्वाद् 'नोदा
२० त्तोपदेश-'७।३।३४॥ इति वृद्धिनिषेधो न । २ मस्यति परिणमते मासरः । 'मसी परिणामे'(दि.प.से.), णिजन्तादस्माद् ‘उञ्छे ररन्'( )इति बाहुलकादरन्, णिलोपः । त्रीणि भक्तमण्डस्य । 'उसावण' इति भाषा । ["प्रस्तावः, प्रस्रवः, आच्छोदनम्,
आश्रवः"[शेषनाममाला३।९६॥] इति] ॥३९६॥
श्रोणा विलेपी तरला यवागूरुष्णिकाऽपि च ।
१ श्रायते स्म श्राणा । श्रा पाके'(अ.प.अ.), निष्ठा, 'संयोगादेरातो धातोर्यण्वतः'८।२।४३ ॥इति नत्वम् । २ विलि म्पति विलेपी । 'लिप उपदेहे '(तु.उ.अ.), पचाद्यच्, गौरादि त्वाद् ङीप् (ङीष्) । ३ तरति व्याप्नोति तरला । 'तृ प्लवन
३० तरणयोः (भ्वा.प.से.), 'मङ्गेरलच्'(उणा-७४८)इति बाहु लकादतोऽपि ४ यूयते पिष्प(पिप्प)ल्यादिना, यौति मिश्रीभवति धान्यद्वयेन वा यवागूः । 'यु मिश्रणे'(अ.प.से.), 'सु(स) युवचिभ्योऽन्युजागूजकू(क्नु)च:'(उणा-३६१)इत्यागूः प्रत्ययः। ५ उष्णा दग्नेरचिरोद्धृता उष्णिका। ब्राह्मणकोष्णिके संज्ञायाम्' ५।२७१॥ कनि उष्णिकेति निपात्यते । पञ्च खीचडीति ख्यातायाः । तथा च पथ्यापथ्यकार:-"खिच्चाख्या तु यवागूः स्यात् कृता तण्डुलशिम्बिजैः"[ ]इति । मदनपालस्तु
"यवागूः षड्गुणे तोये संसिद्धा तरला द्रवा ।
चतुर्गुणाम्बुसंसिद्धा विलेपी घनसिक्थको ॥१॥
पेया सिक्थान्वितातोये चतुर्दशगणे कृता ।"
४० __ [मदनपालनिघण्टुः, धान्यकृतान्नादिवर्ग:-११, लो-९-१०, पृ. २३४] इति विशेषमाह । तद्गुणाश्च
"यवागूाहिणी तृष्णाज्वरघ्नी बस्तिशोधनी ।
विलेपी दीपनी बल्या हृद्या संग्रहिणी लघुः ॥२॥
व्रणाक्षिरोगिणां पथ्या तर्पणी तृटज्वरापहा ।।
पेया कुक्षिगुदक्लान्तिज्वरस्तम्भातिसारजित् ॥३॥
रुच्याग्निकृल्लघुर्दोषमलस्वेदाभिलोपनी ॥"
[मदनपालनिघण्टुः, धान्यकृतान्नादिवर्ग:-११, श्रो-११-१३]इति वैद्यकग्रन्थोक्तास्त्वन्ये भेदा ग्रन्थभूयस्त्वभयादत्र नोक्ताः ॥
सूपः स्यात् प्रहितं सुंदः
५० १ सुन्वन्त्येनं सूपः । 'षुञ् अभिषवे'(स्वा.उ.अ.), 'कुसुयुभ्यश्च' (दशपाधुणादिगण:७।५ ॥) पः किद् दीर्घत्वं च धातोः, पुंस्ययम् । क्लीबेऽपि वैजयन्ती, यदाह-"सूपोऽस्त्री प्रहितं सूदः"[वैजयन्तीकोषः ४।३।८६ ॥] इति । २ प्रकर्षण हितं प्रहितम् । ३ सूद्यते सूदः । 'षूद प्रेरणें '(भ्वा.आ.से.),
घञ् । त्रीणि सूपस्य । ‘दालिपहति' इत्यादि भाषा ॥
व्यञ्जनं तु घृतादिकम् ॥३९७॥
१ व्यज्यते रसविशेषाऽत्रेति व्यञ्जनम् । 'अजू __ [व्यक्ति]म्रक्षणादौ '(रु.प.वे.), 'करणाधिकरणयोः-'३।३।११७॥ इत्यधिकरणे ल्युट् । घृतमादि मुख्यं यस्य तद् घृतादिकम् ।
६० एकं सामान्यतस्तैलदधिदुग्धतक्रादीनाम् ॥३९७॥
तुल्यौ तिलान्ने कसरत्रिसरौ
१ तिलैर्मिश्रितमन्नं तिलान्नम्, तत्र । क्रियते पर्वणीति कृसरः । 'डुकृञ् करणे'(त.उ.अ.) 'कृधूमदिभ्यः कित् सरन्' __ (उणा-३४३) इति सरन् । २ त्रीन् सरति त्रिसरः, पुंस्त्रीलिङ्गौ। __ क्लीबेऽपि वैजयन्ती, यदाह-"तिलतन्दुलमाषैस्तु कृसरी त्रिसरा
१. 'धात्र्यां' इति ३ ॥ २. 'मांडो' इति ३॥ ३. 'आछ' इति ३॥ ४. 'मस्यते' इति ३॥ ५. 'विलम्पति' इति ३.४॥ ६-१ 'विदलद्रवा' इति, ६-२ 'चतुर्गुणे तु संसिद्धा' इति, ६-३'-सिक्थिका' इति, ६-४'-गुणीकृता' इति, ६-५ 'कुक्षिगद-' इति, ६-६ -लोमनी' इति च मदनपालनिघण्टौ, पृ.२३४॥ ७. 'घूद क्षरणे' इति क्षीरतरङ्गिण्यादौ ॥ ८. '-पहित' इति ३॥ ९. 'दिकं-' इति ३॥ १०. उणादिसूत्रे नास्ति ॥ ११. 'कृशरा' इति ४, "त्रिसरा कृसरा" इति वैजयन्त्याम् ४।३७९ ॥, पृ.१२१॥
त्रयी"[वैजयन्तीकोष ४।३७९॥]इति । 'सृ गतौ'(भ्वा.-प.अ.), पचाद्यच् । द्वे कीसरीति ख्यातायाः ॥
अथ पिष्टकः पूंपोऽपूपः
१ पिष्टस्य विकारः पिष्टकः । पिष्टाच्च'४।३।१४७॥, 'संज्ञायां कन्'४।३।१४८ ॥ इति कन् । २ पिष्टं तण्डुलादिचूर्णं पुनाति पूपः । पूञ् पवने '(त्र्या.उ.से.), नीपादयश्च'(कात न्त्रोणा-२।११६)इति पः, स च कित् । यद्वा पूयते पूपः, पुंक्ली.। 'पूयी विशरणे'(भ्वा.आ.से.), 'नीपादयश्च'(कात-न्त्रोणा
१० २।११६)इति पः, 'वलि लोप:'६।१।६६॥ इति यलोपः। ३ आप उप्यन्तेऽत्रेति अपूपः । अपशब्दे उपपदे वपेर्घबर्थे कः, यजादित्वात् सम्प्रसारणम्, 'अन्येषामपि-'६।३।१३७॥ इति दीर्घः। अश्नुत इति वा अपूपः । 'अश भोजने'(व्या.प.से.) 'अश ऊपः पश्च'(हैमोणा-३१२)इत्यूपः। "अद्भिरुप्यते"[] इति नैरुक्ताः। त्रीणि 'पूडा' इति ख्यातस्य । “पारिशाले:" [शेषनाममाला ३९६॥] इति शैषिकम् ॥
पूलिका तु पोलिकापोंलिपूपिकाः ॥३९८॥ पूंपली
१ पूलति संहतीभवति पूलिका, षष्ठस्वरादिः। 'पूल
२० सङ्घाते'(भ्वा.प.से.), ण्वुल, 'प्रत्ययस्थात्- '७।३।४४॥इती त्वम्। २ पोलति वर्धते पोलिका । 'पुल महत्त्वे'(भ्वा.प.से.), ण्वुल्, 'पुगन्तलघूपधसस्य'७।३।८६॥ इति गुणः, 'प्रत्यय स्थात्- '७।३।४४॥ इतीत्वम् । ३ पोल्यते वय॑ते पोलिः। 'पुल महत्त्वे'(भ्वा.प.से.), इन् सर्वधातुभ्यः'(उणा-५५७) । 'कृदि कारात्-'(गणसू-४।१।४५ ॥)इति ङीषि पोली । ४ हुस्वः पूपः पूपिका । हुस्वार्थे कपि 'केऽण:'७।४।१३ ॥ इति हुस्वत्वम् ॥३९८॥ ६ पूयते पूपली । बाहुलकात् कलचि पृषोदरादित्वात् । अग्रेतनात् किञ्चित् स्थूलेयम्। पञ्च पूलिकायाः। रोटीति भाषा॥
अथेषत्पक्वे स्युरभ्यूषाभ्योषपौलयः ।
३० १ ईषत्पक्वम् ईषद्धृष्टम्, तत्र । अभ्यूष्यते अभिमुखं दह्यते अभ्यूषः । 'उष दाहे '(भ्वा.प.से.), घबर्थे कः, नैरुक्तो दीर्घः । 'ऊष रुजायाम्'(भ्वा.प.से.)इत्यतो वा कः, षष्ठस्वर
मध्योऽयम् । "तोक्मो हरितो यवोऽभ्युषः"[ ]इति वोपालिताद् हुस्वमध्योऽपि । २अभ्युष्यते पच्यते अभ्योषः । 'उष दाहे' (भ्वा.प.से.), 'पुगन्तलघूपधस्य च'७।३।८६॥ इति गुणः । ३ पोलति वर्धते पौलिः । “पुल महत्त्वे(भ्वा.प.से.), इगुपधत्वात् कः। 'पुल सङ्घाते'( ) वा, घबर्थे कः पुलः, ततस्तेन निर्वृत्तमित्यर्थे सुतङ्गमादित्वादिञ्, 'तद्धितेष्वचामादेः'७।२।१-१७॥ इति वृद्धिः। त्रीणि मण्डकस्य । 'पातला मांडा, पातली रोटी' इत्यादिभाषा। सूक्ष्मोऽयम्, यदाह मदनपाल:
४० (कुकूलकपरभ्राष्ट्रकट्वागारविपाचिताः) ।
मण्डकाद्या यथापूर्वं गुरवो बृंहणा मताः ॥१॥
मण्डको विश्रुतेः सूक्ष्मः कर्प(क)रादिषु पाचितः।
स एव किञ्चित्स्थूलस्तु बुधैः पूपलिका मता ॥२॥
अङ्गारकर्कटी सैव विज्ञेयाङ्गारपाचिता ।"
[मदनपालनिघण्टुः, धान्यकृतान्नादिवर्ग:-११, शो-५०-५२, पृ. २४१] इति । पूलिकाद्याः पञ्च स्थूलमण्डकपर्यायाः, स्थूलरोटी इत्यादिभाषा । अभ्यूषाद्यास्त्रयः सूक्ष्ममण्डकपर्यायाः, 'पातली रोटी, पातला भाण्डा' इत्यादिभाषा । पथ्यापथ्यकारोऽपि तथैव
"स्युर्मण्डका मण्डलिनः कर्परादिषु पाचिताः ।
५० महान्तो विश्रुताः सूक्ष्मा लघवो लम्बकाश्च ते ॥२॥
किञ्चित्स्थूला भवेयुश्च तेभ्यः पूपलिकाः स्मृताः ।।
सैवाङ्गारेषु संपक्वा वेज्ञेयाङ्गरकर्कटी ॥३॥"[ ]इति। अङ्गारकर्कटीशब्दो 'रोटओ' इति प्रसिद्धस्य भाषा ॥
निष्ठानं तु तेमनं स्यात्
१ निरन्तरं स्थीयतेऽत्र भोक्त्रेति निष्ठानम् । अधिकरणे ल्युट् । २ तिम्यते आर्दीक्रियतेऽन्नमनेनेति तेमनम् । 'तिम ष्टिम आर्दीभावे'(दि.प.से.), करणे ल्युट् । द्वे तेमनस्य । 'सालणउँ' इति भाषा ॥
करम्भो दधिसक्तवः ॥३९९॥
६० १ केन जलेन रभति (रभते) शब्दायते करम्भः । 'रभ शब्द (भ्वा.आ.अ.), पचाद्यच्, 'रभेरशब्लिटोः'७।३। ६३॥ इति नुम् । केन जलेन रभ्यते मील्यते वा । कर्मणि घञ्। करोति तृप्तिमिति वा । 'कृकलेरम्भ:'(हैमोणा-३३६)इत्यम्भः। करम्ब इति, "बकारोपधस्तु मिश्रमात्रवचनः"[]इति सुभूतिः। २'षच समवाये'(भ्वा.उ.से.), 'सितनिगमि-'(उणा-६९)इति
१.१.२.४ नास्ति ॥ २. लोपो व्योर्वलि'६।१६६॥ इत्यष्टाध्याय्याम् ॥ ३. 'इत्यूः' इति ३॥ ४. द्र. स्वोपज्ञटीका ३।३९८॥, पृ.९२॥५. 'पारिशोलः' इति शेषनाममालासवोपज्ञटीकयोः ॥६.'द्र. पदचन्द्रिका, भा-२, वैश्यवर्गः, शो-६२०, पृ.७०९ ॥, रामाश्रमी २।९।४७॥, पृ.४२२ ।। ७. 'च' इति १.३ नास्ति ॥ ८. पोलिः' इति १॥९.'-पधात्' इति १.३।१०. इति' इति १॥११.कोष्ठान्तर्गतपाठस्थाने मदनपालनिघण्टौ "विकोलकर्कटद्राक्षाकण्टकारिविपाचितः" इति दृश्यते, मदनपालनिघण्टुः, पृ.२४१ ॥ १२. 'सूचितः' इति मदनपालनिघण्टौ ॥ १३. 'रोटो' इति ३॥ १४. '-णो' इति ३, '-णौ' इति ४॥ १५. तुलनीयोऽमरकोषः २।९।४८॥ १६. द्र. पदचन्द्रिका, भा-२, वैश्यवर्गः, शो-६२१, पृ.७१२ ।। १७. क्षीरतरङ्गिण्यादौ शब्दार्थकरभधातुर्न दृश्यते ॥
तुन् सक्तुः, दध्युपसिक्ताः सक्तवो दधिसक्तवः। अन्नेन व्यञ्जनम्' २।१३४॥ इति समासः। द्वे करम्ब' इति ख्यातस्य। "करम्बः" [इति शेषनाममाला ३९६॥]इति शैषिकम् ॥३९९॥ घृतपूरो घृतवरः पिष्टपूरश्च घार्तिकः ।
१ घृतेन पूर्यते घृतपूरः। 'पूरि आप्यायने'(दि.आ.से.), कर्मणि घञ् । २ घृतेन वरो घृतवरः । ३ पिष्टेन पूर्यते पिष्टपूरः। घञ् । ४ घृतेन संसृष्टो घार्तिकः । 'संसृष्टम्' ४।४।२२॥ इति ठक् । द्विविधोऽयम्, यन्मदन:
"क्षीरेण मर्दितं चूर्णं गोधूमानां सुगालितम् ।
१० विस्तार्य सर्पिषा पक्वं(युक्तं) ततः श्वेताविमिश्रितम् ॥१॥
घृतपूरोऽयमुद्दिष्टः कर्पूरमि(म)रिचान्वितः ।
समिता मर्दिता क्षीरनालिकेरसितादिभिः ॥२॥
अवगाह्य घृते पक्वो(पक्वे) घृतपूरोऽपरः स्मृतः।"
[मदनपालनिघण्टुः, धान्यकृतान्नादिवर्ग:-११, शो-६२-६४, पृ.२४३]इति । चत्वारि घृतपूरस्य ॥
चमसी पिष्टवर्तिः स्यात्
१ चम्यत इति चमसी, स्त्रीलिङ्गः । 'चमु अदने' (भ्वा.प.से.), अत्यविचमितमिरभिलभिनभिपनिपतिभ्योऽसच्' (उणा-३९७), गौरादित्वाद् ङीष् । गौडस्तु "चमसः पिष्टवर्तिः
२० स्यात्''[]इति पुंस्यप्याह । चमस[:] पिष्टम्, "चमसी मुद्गादिभित्रकृतो" [स्वोपज्ञोणादिगणसूत्रविवरणम्-५६९, धातु पारायणम्, भ्वादिः, धातुसं-३८०]इति हैमोणादिधातुपारायणयोः । सामान्यतश्चमसीशब्दो वडी ईडरीत्यनयोरपि नाम । "गृध्रसी चमसी मसी"[अमरकोषः ३।५।१०॥] इत्यमरस्त्रीलिङ्गशेषः। "चमसी मसूरादिपिष्टम्"[अम.क्षीरस्वामिटीका ३।५।१०॥] इति क्षीरस्वामी। तेन चमसीशब्दो लोकोक्त्या मसूरमुगादिवाचकोऽपि। २ मुद्गादीनां पिष्टस्य वर्तिः पिष्टवर्तिः। द्वे सामान्यतः 'सेव गांठिया' इति ख्यातस्य ॥
वटेकस्त्ववसेकिमः ॥४००॥
३० १ वट्यते वेष्ट्यते वटकः, पुन. । 'वट वेष्टने' (भ्वा.प.से.), संज्ञायां क्वुन् । यद्वा वटतीति वटः, ततः स्वार्थे कन् । २ अवसेकेन निर्वृत्तः अवसेकिमः । भावप्रत्ययान्तान्नि
वृत्तेऽर्थे इमन् वाच्यः (वा-४।४।२०॥)। द्वे 'वडा' इति ख्यात स्य। यन्मदनः-"मासमुद्रादिपिष्टोत्था वटिकावटकादयः" [मदनपालनिघण्टुः, धान्यकृतान्नादिवर्ग:-११,नो-८७, पृ.२४७] इति । शेषश्चात्र
"इण्वैरिकों तु वटिका शष्कुली त्वर्धलोटिका ।
पर्पटास्तु मर्मराला घृताण्डी तु घृतोषणी ॥
समिताखण्डाज्यकृतो मोदको लड्डुकश्च सः ।
एलामरिचादियुतः स पुनः सिंहकेसरः।" [शेषनाम-
४० माला ३९७-९८॥] ॥४००॥
भृष्टा यवाः पुनर्धानाः
१ धीयन्ते प्राणिनो यासां विकारैस्ता धानाः, स्त्रियां बहुवचनान्तोऽयम् । 'डुधाञ् धारणादौ'(जु.उ.से.), 'धृ(धा) पृवस्यज्यतिभ्यो नः'(उणा-२८६) । "धाना भृष्टयवादिजाः" [ ]इति मदनः । एकं धाणीति ख्यातायाः ॥
___ धानाचूर्णं तु सक्तवः।
१(व्याख्यास्थिता सच्यन्ते सक्तवः, पुंक्ली. । एक वचनान्तोऽप्ययम् । षचि सेवने'(भ्वा.आ.से.), 'कृसिकमि-' (हैमोणा-७७३)इति तुन् । धानानां चूर्णम्, तस्य नामैकम् )॥
५० पृथुकश्चिपिटस्तुल्यः
१ प्रथते मुसलप्रहारेण विस्तारं गच्छति पृथुकः। 'प्रथ विस्तारै '(भ्वा.आ.से.), 'अर्भकपृथुकपाका:-'(उणा ७३१)इत्युकप्रत्ययसम्प्रसारणगुणाभावा निपात्यन्ते। २ 'निर्बि डच्-'५।२।३२ ॥ इत्यनुवृत्तौ 'इल(इन)पिटच्चिकचि च' ५।२।३३॥इति पिटन्प्रत्ययः (पिटच्प्रत्ययः), नेश्च चिरादेशः [चिपिट:] । द्वे पुहुंकिया' इति ख्यातस्य । “भृष्टमुखल क्षोदचिपिटीभूतं तण्डुलम्''[अम.क्षीरस्वामिटीका २।९।४७ ॥] इति क्षीरस्वामिव्याख्यानादेतौ पहुंआनाम्नी अपि, 'चिपिटा' इति भाषान्तरम् । यत्पथ्यापथ्यकार:-"आर्द्रपक्वं मूलधान्यं निस्तुषं
६० पृथुकाभिधम्' [ ]इति । मदनपालोऽपि-" पक्वार्द्रा व्रीहयः सम्यक्चिपिटाः पृथुका मताः"[मदनपालनिघण्टुः, धान्य कृतान्नादिवर्ग:-११, शो-१०१, पृ.२५०]इति ॥
१. 'संसृष्टे' इत्यष्टाध्याय्याम् ॥ २. -नभितपिपतिपनिपणिमहिभ्योऽसच्' इत्युणादिगणे॥ ३. 'गौरादित्वाद् ङीष्' इति ३नास्ति ॥ ४. द्र. स्वोपज्ञटीका ३४००॥, पृ.९३॥ ५. '-भित्त-' इति मुद्रितद्वयोर्ग्रन्थयोः ॥ ६. 'पुंक्ली' इति ३॥ ७. 'भावप्रत्ययान्तादिमप् कक्तव्यः' इति वार्तिकस्वरूपं दृश्यते ॥ ८. 'वडां' इति १.२॥ ९. "कटुका वटिकादयः" इति मदनपालनिघण्टौ, पृ.२४७॥ १०. 'इण्डेरिका' इति शेषनाममालास्वोपज्ञटीकयोः॥ ११. 'घृतौषणी' इति शेषनाममालास्वोपज्ञटीकयोः ॥ १२. 'पृधृ-' इति ४॥ १३. धारणीति' इति ३॥ १४. कोष्ठान्तर्गतपाठस्थाने १.२ "सेव्यन्ते ('इति' इत्यधिकः २प्रतौ) सक्तवः, 'षचि सेवने' एकवचनान्तोऽप्यम्" इति दृश्यते ॥ १५. 'प्रथम-' इति १॥ १६. 'प्रथ प्रख्याने' इति क्षीरतरङ्गिण्यादौ ॥ १७. 'पुंहुं-' इति ३॥ १८. 'पाका-' इति ३.४॥
लाजाः स्युरक्षता ॥४०१॥
१ लज्यन्ते भय॑न्ते लाजाः, पुंस्त्रीलिङ्गो बहुवच नान्तश्च । 'लजि भर्त्सने'(भ्वा.प.से.), कर्मणि घञ्। "भृष्ट शाल्यादिजा लाजाः"[मदनपालनिघण्टुः, धान्यकृतान्नादिवर्ग: ११, शो-१०६, पृ.२५०] इति मदनपालः । “लाजाः स्युर्भृष्ट धान्येषु'[विश्वप्रकाशकोशः, जान्तवर्गः, शो-१०] इति विश्वः । "भृष्टं धान्यं भवेल्लाजाः"[हलायुधकोशः २।५८५॥]इति हलायुधोऽपि, तेन लाजशब्दो भरडुकफूल्यादीनामपि वाचकः। "लाजः स्यादातण्डुल-"[विश्वप्रकाशकोशः, जान्तवर्गः, शो
१० १०]इति महेश्वरोक्तेरेकवचनान्तोऽपि दृश्यते । २ न क्षण्यन्ते अक्षताः, पुंक्लीबलिङ्गः । पुंस्ययं बहुवचनान्तः । 'क्षणु हिंसायाम्'(तु.उ.से.), कर्मणि क्तः, अनुदात्तोपदेश-'६४३७॥ इति णकारलोपः । “अक्षता यवाः"[ ]इति पुराणम्, तन्मते पुंसि । “बहुत्वार्थो विधिः"[ ]इति तट्टीका । एकवचनान्तोऽपि पुंसि दृश्यते, "अक्षतः स्यादहिंसिते षण्ढे लाजेषु कथ्यते" [अनेकार्थसंग्रह:३।२२८ ॥] इत्यनेकार्थः । द्वे 'आखा' इति ख्यातस्य । शेषश्चात्र-"लाजेषु भरजोद्भूषे खटिका परिचारकः" [शेषनाममाला ३९९॥] । इह सामान्यतोऽनुक्तान्यपि प्रस्तावा दाटानामानि त्रीणि पिष्टकश्चमसचूर्ण इति । "पिष्टको नेत्ररोगे
२० स्याद्धान्यादिचमसेऽपि च''[ विश्वप्रकाशकोशः, जान्तवर्गः, श्रो १४०]इति महेश्वरः ॥४०१॥
गोधूमचूर्णे समिता
१ गोधूमानां चूर्णः क्षोदो गोधूमचूर्णः, तत्र । समी क्रियते समिता, स्त्रीलिङ्गः । कणिकेत्यपि । "गोधूमचूर्णे कणिका स्त्रियां सूक्ष्माग्निमन्थयोः"[विश्वलोचनकोशः, कान्त वर्गः, शो-४६] इति श्रीधरः । एकं गोधूमचूर्णस्य ॥
यवक्षोदे तु चिक्कसः ।
१ यवानां क्षोदो यवक्षोदः, तत्र । चिक्यते चिक्कसः, पुंक्ली.। यदमरलिङ्गशेषः-"युषं चमसचिक्कसौ"[अमरकोषः
३० ३५३५॥ इति । 'चिक्क व्यसने (चु.उ.से.), बाहुलकादसच्। चीयत इति वा, पृषोदरादिः । [एकं यवचूर्णस्य] ॥
गुड इक्षुरसक्वाथः
१ गुडति रक्षति गुडः, पुंसि । 'गुड रक्षणे'(तु.प.से.), 'इगुपध-'३।३।१३५॥ इति कः, घबर्थे- '(वा-३।३५८॥)इति कर्मणि वा कः। इक्षुरसस्य क्वाथ इव इक्षुरसक्वाथः । क्षारोऽपि। "क्षारः काचे रसे गुडे"[अनेकार्थसङ्ग्रहः २।३९०॥] इत्यने कार्थः । एकं गुडस्य ॥
शर्करा तु सितोपला ॥४०॥ सिता च
१ शृणाति रसना वैरस्यं शर्करा । 'शू हिंसायाम्'
४० (त्र्या.प.से.), 'शृणातेः करन्'(उणा-४४३), 'सार्वधातुकार्ध धातुकयो:७३८४॥ इति गुणः, अचो रहाभ्यां द्वे '८४४६॥ । २ सितोपलः स्फटिकस्तत्सदृशत्वात् सितोपला ॥४०२॥।३ सिनोति बध्नाति तृष्णान्धं सिता। 'षिञ् बन्धने'(स्वा.उ.अ.), 'अजिघृसिभ्यः क्त:'(उणा-३६९)। त्रीणि शर्करायाः ॥
मधुधूलिस्तु खण्डः
१ मधुनः क्षौद्रस्य धूलिरिव मधुधूलिः । मधुरत्वात् खण्ड्यते खण्डः, पुंक्ली. । खडि मन्थे' (भ्वा.उ.से.), कर्मणि घञ् । द्वे 'खंड' इति ख्यातस्य ॥
तद्विकृतिः पुनः।
५० मत्स्यण्डी फाणितं चापि
१ तस्य खण्डस्य विकृतिर्विकारः तद्विकृतिः मत्स्यण्डी, चः समुच्चये, फाणितमप्युच्यत इत्यन्वयः । मत्स्याण्डाकारत्वाद् गौरादित्वाद् ङीषि मत्स्यण्डी, शकन्ध्वादिः । मुदं स्यन्दत इति, पृषोदरादिर्वा । "मत्स्यान् अमति रुजति मारकत्वाद् मत्स्याण्डी"["]इति तु वैद्योः । यद्धन्वन्तरि:-"शर्करोक्ता तु मीनाण्डी श्वेता मत्स्याण्डिका सिता''[धन्वन्तरिनिघण्टु ः २।१०४॥] इति । "मत्स्यण्डिका खण्डसिता क्रमेण गुणवत्तरा" ["]इति तु वाग्भटः । "मत्स्याण्डी खण्डशर्कराः"[हलायुध कोशः २।३२४॥] इति हलायुधः । “खण्डशर्कराया विकारे
६०
. १. 'भवेत्' इति हलायुधकोशे नास्ति॥ २. अनेकार्थसंग्रहे नास्ति॥ ३. '-जोद्धषख-' इति शेषनाममालास्वोपज्ञटीकयोः ॥ ४. 'परिवाचकः' इति
१, '-परिवारकाः' इति शेषनाममालास्वोपज्ञटीकयोः ॥ ५. 'चूर्णक-' इति १॥ ६. विश्वलोचनकोशे तु 'कणिकः' इति दृश्यते॥ ७. क्षीरतरङ्गिण्यां . 'चक्क चुक्क व्यथने'(चुरादिः, धातुसं-५१)इत्यत्र स्वाम्याह-"चिक्क इति च कौशिकः-चिक्कसं यवपिष्टम्, चिक्कणं सस्नेहम्" इति, पृ.२९७॥ ८. 'रक्ष्यते' इति ३॥ ९. 'च' इति १॥ १०. श्रः करन्' इत्युणादिगणे ॥ ११. अस्य विकल्पपक्षे एकककारवती 'शर्करा' इत्यपि भवति ॥ १२. 'स्फु-' इति ३॥ १३. 'तृष्णा' इत्येव ३॥ १४. 'अजि-' इति ४॥ १५. द्र. अमरकोशस्वामिकृतटीका २।९।४३॥, पृ.२०९॥, स्वोपज्ञटीका ३४०३॥, पृ.९४॥ तयोश्च 'मारकत्वात्' इति पाठो न दृश्यते ॥ १६. 'वैद्यः' इति २॥ १७. 'मत्स-' इति १.२.३॥ १८. '-शिता' इति ३.४॥ १९. द्र. अमरकोषक्षीरस्वामिटीका २।९।४३॥, पृ.२०९॥, स्वोपज्ञटीका ३४०३ ॥, पृ.९४ ॥ २०. 'मत्साण्डी' १.३ ॥, हलायुधे 'मत्स्यण्डी' इति दृश्यते ॥
मत्स्याण्डी, सूक्ष्मकणप्रायत्वात्''[ ]इति तट्टीका । सितेऽपि मधुशर्करा १, यवासशर्करा २, पुष्पसंस्कृतशर्करा चेति विशेषा अपि ज्ञेयाः । २ फाण्यते द्रव्यान्तरं गम्यते फाणितम्, पुंक्ली बोऽयम् । “फाणितमस्त्रियाम्"[]इति वाचस्पतिः । 'फण गतौ'(भ्वा.प.से.), णिजन्तात् क्तः । इक्षुविशेषस्य रसपाके खण्डयोग्ये सारभूता गुटिकाकारा या जायते, सा मत्स्यण्डी शुद्धखण्ड: फाणितं खण्डकल्क:"[]इति तु सुभूतिः । अन्ये तु खण्डस्य श्च्योतः, फाणितं राब इत्यादिभाषा । यद्धन्वन्तरिः
"विशेषौ द्वौ तु खण्डस्य मत्स्यण्डीफाणितौ स्मृतौ ।
१० गुडिका चापि मत्स्यण्डी खण्डस्य परिकीर्तिता ॥१॥
फाणित: सद्रवश्चापि विहितो मुनिपुङ्गवैः ।"
[ ]इति । खण्डस्य गुलिका गोलकाकृतिर्मत्स्यण्डी परिकी र्तितेत्यन्वयः। "गुडः स्याद् गोलके"[विश्वप्रकाशकोशः, डान्त वर्गः, शो-१]इति महेश्वरः । गुडस्य गोलकस्य प्रतिकृतिर्गुडिका अथवा सूक्ष्मो गुडो गुडिका, अतो मत्स्यण्डीशब्देन 'गडी यालीखाण्ड' इत्यप्युच्यत इति । “फाणितं विकृतिौंडी" [हलायुधकोशः २।३२४॥] इति हलायुधो गुडविकारं फाणितं प्रोक्तवान्। “फाणितं क्षुद्रगुडकः"[मदनपालनिघण्टुः, इक्षु कादिवर्ग:-९, शो-१३, पृ.२१५]इति मदनः ॥
२० रसालायां तु मार्जिता ॥४०३॥ शिखरिणी
१ रसमलति रसाला । अलं भूषणादौ'(भ्वा.प.से.), पचाद्यच्, तत्र । २ मार्क्ष्यत इति मार्जिता । 'मृजूष् शुद्धौ' (अ.प.वे.)। मर्जिताऽपि । “मजिका"[ ]इति वैद्याः । ३ शिखरमस्त्यस्यां शिखरिणी । 'अत इनिठनौ'५।२।११५॥ इतीनिः, 'ऋन्नेभ्यो डीप'४।१५॥ । दधिसितामरिचादिकृतं लेह्यम् । यत्सूदशास्त्रम्
"अर्धाढकं सुचिरपर्युषितस्य दनः
खण्डस्य षोडश पलानि शशिप्रभस्य ।
३० सर्पिः पलं मधु पलं मरिचं द्विकर्ष
शुण्ठ्याः पलार्धमथ चार्धफ(प)लं चतुर्णाम् ॥१॥
शूक्ष्णे पटे ललनया मृदुपाणिघृष्टा
कर्पूरधूलिसुरभीकृतभाण्डसंस्था ।
एषा वृकोदरकृता सरसा रसाला
याऽऽस्वादिता भगवता मधुसूदनेन ॥२॥"[0] । त्रीणि शिखरिण्याः ॥
अथ यू!षो रसः
१ यौतीत्येवंशीलो यू:, पुंसि । यद्वैजयन्ती-"यूषो ऽस्त्री यूः पुमान् [रसे]''[वैजयन्तीकोषः ४।३।१००॥]इति। 'यु मिश्रणे'(अ.प.से.), भ्राजादित्वात् क्विपि साधुः । २ यूयते
४० मिश्रीक्रियते यूषः, पुंक्ली.। 'यु मिश्रणे'(अ.प.से.), 'युमूझ्यो
लॊपश्च ( पूङय्वोर्लोपश्च)'(दश-९।१६)इत्यूषन्। यूषति हिनस्ति रुजमिति वा । 'यूष हिंसायाम्'(भ्वा.प.से.), 'इगुपध-'३।१। १३५॥इति कः । ३ रस्यते आस्वाद्यते रसः । 'रस आस्वादे' __(चु.उ.से.), घबर्थे कः । त्रीणि मुद्गादिधान्यरसस्य ॥
दग्धं तु सोमजम् ।
गोरसः क्षीरमूधस्यं स्तन्यं पुंसवनं पयः ॥४०४॥
१ दुह्यते दुग्धम् । 'दुह प्रपूरणे'(अ.उ.अ.), भावे नपुंसके क्तः । २ सोमरसाजातं सोमजम् । 'जनी प्रादुर्भावे' (दि.आ.से.), 'पञ्चम्यामजातौ'३।२।१८॥ इति डः । ३ गोर्धेनों
५० रसः गोरसः । ४ घस्यते क्षीरम्, पुंक्ली. । 'घस्लु अदने' (भ्वा.प.अ.), 'घसे: किच्च'(उणा-४७४)इतीरन्, 'गम्हन् ___ (गमहन)जनखनघसाम्- '६।४।९८॥ इत्युपधालोपः, 'शासि वसि-'८।३।६० ॥ इति षत्वम्, 'खरि च'८४५५ ॥ इति घस्य कः, कषसंयोगे क्षः । ५ ऊधसि भवम् ऊधस्यम्, षष्ठस्वरादि । 'शरीरावयवाच्च'४।३।५५ ॥ इति यत् । ६ स्तने भवं स्तन्यम् । 'शरीरावयवात्-'४।३१५५॥ इति यत् । ७ पुंभिः सूयतेऽनेन पुंसवनम् । 'षूङ् [प्राणिगर्भविमोचने प्राणिप्रसवे' वा], (अ.आ.वे,दि.आ.वे.), करणे ल्युट् । ८ पीयते पयः । पिबते रिच्च'( )इत्यसुन् । यद्वा 'पाहाक्भ्यां पयह्यौ च'(हैमोणा-
६० ९५३)इत्यस् । अष्टौ दुग्धस्य । शेषश्चात्र
"दुग्धे योग्यं बालसात्म्यं जीवनीयं रसोत्तमम् ।
रसं गव्यं मधुज्येष्ठं धारोष्णं तु पयोऽमृतम् ॥१॥"
[शेषनाममाला ३९९-१००॥]॥४०४॥
१. 'यवाशर्करा' इति १॥ २. द्र. स्वोपज्ञटीका ३४०३॥, पृ.९४ ॥ ३. '-कल्कलः' इति २, 'खण्डस्कन्धः' इति पदचन्द्रिकायाम् ॥ ४. द्र. पदचन्द्रिका, भा-२, वैश्यवर्गः, शो-६१६, पृ.७०४॥ ५. 'मत्साण्डी' इति १.३॥ ६. 'फाणितविकृ-' इति हलायुधकोशे ॥ ७. द्र. अमरकोश क्षीरस्वामिटीका २।९।४४ ॥, पृ.२०९ ॥, टीकासर्वस्वम्, भा-३, २९॥४४॥, पृ.१८७ ॥, पदचन्द्रिका, भा-२, वैश्यवर्गः, शो-६१८, पृ.७०६ ॥, रामाश्रमी २९४४॥, पृ.४२० ॥ ८. 'धेन्वा' इति ३॥ ९. 'स्तनेन' इति २॥ १०. 'सरं' इति शेषनाममालास्वोपज्ञटीकयोः ॥
पर्यस्यं घृतदध्यादि
१ पयसो विकारः पयस्यम् । 'गोपयसोर्यत्'४।३। १६० ॥ । किं तदित्याह-घृतदध्यादि, आदिना तक्रनवनीतग्रहः। एकं सामान्यतो घृतादेः ॥
पेयूषोऽभिनवं पयः ।
१ पीयत इदं पीः पानकर्ता । 'पीङ् पाने'(दि. आ.अ.), 'अन्येभ्योऽपि दृश्यते'३।२ १७५ ॥ इति विच् । 'यूष हिंसायाम्'(भ्वा.प.से.)इत्यत इगुपधत्वात् कः, यूषो नाशयिता।
पेर्दूषः पेयूषः, मूर्धन्यान्तः, पुंसि । वैजयन्ती तु-"आसप्ताहात्
१० तु पेयूषं ततो मोरटमोरके "[वैजयन्तीकोष:३।८।१४६ ॥] इति क्लीबमाह । पीयूषमित्यपि । वाचस्पतिरपि-"नवप्रसूतगो क्षीरं नवं सप्तदिनावधि पेयूषम्''[]इत्याह। एकं नव प्रसूतगोपयसः ॥
उभे क्षीरस्य विकृती किलाटी कूर्चिकाऽपि च ॥४०५॥
१ किरति क्षुधं किलाटी, पुंस्त्रीलिङ्गः। 'कृ विक्षेपे' (तु.प.से.), 'किरो लश्च वा'(हैमोणा-१४७) इत्याटः । "किलाटा' इत्याबन्तोऽपि"[ ]इति हलायुधटीका । एक
बलहीति ख्यातायाः । २ कूर्चस्तन्मस्तु, तदस्त्यस्याः कूर्चिका।
२० 'कूचिका' इत्यपि । एकं फेदडीति ख्यातायाः । उभे इति किलाटीकूर्चिके क्षीरस्य पयसो विकृती विकारौ ॥
पायसं परमान्नं च औरैयी
१ पयसि संस्कृतं पायसम्, पुंक्ली. । 'संस्कृतं भक्ष्याः (भक्षाः) ४।२।१६॥ इत्यण् । २ परमं च तदन्नं च परमानम्। क्षीरे संस्कृता क्षरेयी। 'क्षीराड्डञ्'४।२।२०॥ इति ढब्, 'आय नेयी-'७।१।२॥ इति ढस्यैयादेशः, 'टिड्डाणञ्-'४।१।१५ ॥ ङीष्(ङीप्)। त्रीणि पायसस्य । 'क्षीरि' इति भाषा॥
क्षीरजं दधि । गोरसश्च
१ क्षीराज्जातं क्षीरजम् । 'जनी प्रादुर्भावे'(दि.-
३० आ.से.), 'पञ्चम्यामजातौ'३।२।१८॥ इति डः।२ दधते बलिष्ठतां दधि, क्लीबे। 'दध धारणे'(भ्वा.आ.से.), 'इन् सर्वधातुभ्यः' (उणा-५५७)।३ गवां रसो गोरसः । त्रीणि दनः। "श्रीघनं मङ्गल्यम्"[शेषनाममाला ३१००॥] शैषिके ॥
तदघनं द्रप्सं पत्रलमित्यपि ॥४०६॥
१ तद् दधि अघनं घनात् कठिनादन्यद् अधनम्, द्रुतमित्यर्थः । दृप्यतेऽनेन द्रप्सम् । 'दृप्(प) हर्षविमोचन यो:'(दि.प.अ.), बाहुलकात् सः, तृपपयोरनिट्सु पाठः, 'अनुदात्तस्य-'६।१५९॥इत्यमागमः । “द्रप्सं दधि घनेतरत्" [अमरकोषः २।९५१॥]इत्यमरः । द्रप्स्यमित्यपि । 'दृप
४० प्रीणने '(दि.प.अ.) 'अर्ध्या (अग्न्या)दयश्च'(उणा-५५१)इति यक्, धातोरमागमः, प्रत्ययस्य च सुडागमः । मदनस्तु
"दधिस्त्यानं पयः सम्यक् स्त्यानमीषत्तु मन्दकम् ।
तन्मृष्ट(मिष्ट)मम्लमत्यम्लं मधुराम्लमिति स्मृतम् ॥१॥"
[मदनपालनिघण्टुः, पानीयादिवर्गः-८, शो-८८ पृ.१९०] इति दध्नो भेदद्वयमाह । तन्मध्ये यो मन्दकमिति द्वितीयो भेदः, स द्रप्समित्यनेन, अन्ये तु "उपरि प्लवमानं घनं दधि द्रप्स, दघ्नस्तरिः"[ ]इत्याहुः । "एतच्च द्रप्सं शरम्""]इति भागुरिः । "बाणद्रप्सौ शरौ"["]इति दुर्गः । अत्र द्रप्सशब्दः 'थरि' इति लोकख्यातायाः पर्यायत्वेनोक्तः । “शरः पुनर्दधि-
५० सारे काण्डतेजनयोरपि"[अनेकार्थसङ्ग्रहः२४४९॥] इत्यनेकार्थे 'दधिसार' इति पर्यायो द्रप्समित्यस्य ज्ञेयः । २ पत्त्रं लाति पत्रलम् । पत्त्रमस्त्यस्येति सिध्मादित्वाल्लच् वा । द्वे पातलुं दधीति ख्यातस्य ॥४०६॥
घृतं हविष्यमाज्यं च हविराधारसर्पिषी ।
१जिघर्ति क्षरति दीपयति बलं वा घृतम्, पुंक्ली.।'घृ क्षरणदीप्त्योः (जु.प.अ.), अञ्जिघृसिभ्यःक्तः'(उणा-३६९)।२ हविषे हितं हविष्यम्। हविस्शब्दात् 'उगवादिभ्यो यत्'५।१।२।। ३ अनक्ति व्यक्तीभवति क्षरणाच्चलतीति आज्यम्। अङ्ग् [व्यक्ति] म्रक्षणादौ (रु.प.से.), आयूर्वः 'अञ्जः संज्ञायाम्'(वा-
६० ३।१।१०९॥)इति क्यपि अनुनासिकलोपः । ४ हूयत इदम्,
१. इतोऽग्रे ३प्रतौ 'छतादि.' इति दृश्यते ॥ २. अत्र रामाश्रमी द्रष्टव्या २।९।५४॥, पृ.४२५ ॥ ३. वैजयन्त्यां तु 'पीयूषं' इति दृश्यते पृ.९८ ॥ ४. द्र. पदचन्द्रिका, भा-२, वैश्यवर्गः, श्रो-६२७, पृ.७१८॥ ५. '-लिङ्गः' इति २.३नास्ति ॥ ६. 'कूर्चकस्त-' इति४॥ ७. 'क्षीर' इति३॥ ८. धातुप्रदीपसम्मतोऽयम्, '-हर्षमोहनयोः' इति स्वामिसायणौ, 'हर्षण-' इति ३॥ ९. 'द्रप्स-' इति १.३॥ १०. 'हर्षमोह(च)नयोः' इति क्षीर तरङ्गिण्यादौ॥ ११. 'घनदधि' इति १, 'घन' इति २प्रतौ नास्ति, ३प्रतौ त्रुटितः पाठो दृश्यते ॥ १२. द्र. अमरकोशक्षीरस्वामिटीका २।९।५१॥, पृ. २११॥ १३. द्र. अमरकोशक्षीरस्वामिटीका २९५१॥, पृ.२११॥, रामाश्रमी २९५१॥, पृ.२२४॥ १४. 'म्रक्षणादकान्तिगतिषु' इति३॥
हूयतेऽनेनेति वा हविः, क्लीबे । 'हु दानादनयो: '(जु.प.अ.), 'अर्चिरुचिशुचिहुसृपिछादिदि-(छर्दि)भ्य: इस्'(उणा-२६५)। हविषी, हवींषि इत्यादि । ५ आघारयति दीपयति आधारः। 'घृ क्षरणदीप्त्योः '(जु.प.अ.), णिजन्तादतः पचाद्यच् । ६ सर्पति गच्छति यागाद्युयुपयोगितामिति सर्पिः, क्लीबे । 'सृप्लु गतौ'(भ्वा.प.से.), अर्चिरुचिशुचि-'(उणा-२६५)इतीस् । सर्पिषी, सीषि इत्यादि । षड् घृतस्य ॥
ह्योगोदोहोद्भवं हैयङ्गवीनम्
१ अतीतं दिनं ह्यः, अत्र दिने यो गाः सकाशाद्
१० दोहो दुग्धक्षरणम्, तत उद्धृतं यद् घृतं तद् हैयङ्गवशब्दवाच्यम् ।
ह्य:शब्दस्य गोदोहशब्देन 'सुप् सुपा'२।१।४ ॥ इति समासः, 'हैयङ्गवीनं संज्ञायाम्'५ ।२।२३ ॥ इति निपातनात् साधुत्वम्, ह्यो गोदोहशब्दस्य हैयङ्ग्वादेश: [हैयङ्गवीनम्] । कात्यायनोऽमुं नवनीतपर्यायमाह । तथा च हलायुधः-"दधिसारो नवनीतं ब्रुवते हैयङ्गवीनं च" [हलायुधकोशः २।२७४॥] इति । एकमेकरात्र पर्युषिताद् दध्न उत्पन्नस्य सद्यस्तप्तघृतस्य ॥
शरजं पुनः ॥४०७॥ दधिसारं तक्रसारं नवनीतं नवोद्धृतम् ।
१ शरात् थरीति लोकख्याताज्जातं शरजम् । 'पञ्च
२० म्यामजातौ'३।२।९८ ॥इति डः, तालव्यादि। "दध्युत्तरो दधि स्नेहो दध्यग्रः कट्वरः शरः''[मदनपालनिघण्टुः, पानीयादि वर्ग:-८, शो-१०८, पृ.१९३]इति मदनः । “शरः पुनर्दधि सारे काण्डतेजनयोरपि"[अनेकार्थसङ्ग्रहः२ १४४९ ॥] इत्यने कार्थः । दन्त्यादिरपि, यदाह-"सरौ दध्यग्रसायकौ"[अनेकार्थ सङ्ग्रहः२४५३॥] इति ॥४०७॥२ दनः सारं दधिसारम । ३ एवं तक्रसारम् । ४ मथिताद् दनो नवं तत्कालं नीतं नवनीतम् । ५ एवं मथिताद् दध्नः तत्कालं नवमुद्धृतं नवो द्धृतम् । पञ्च नवनीतस्य ॥
दण्डाहते कालशेयघोलारिष्टानि गोरसः ॥४०८॥
३० रसायनम्
१ मन्थदण्डेनाऽऽहतमालोडितं दण्डाहतम्, तत्र । २ मन्थपात्रं कलशिस्तत्र भवं कालशेयम्, तालव्यमध्यो दन्त्य मध्यश्च । 'दृतिकुक्षिकलसिवस्त्य[स्त्य] हेर्डक् '४।३।५६ ॥ इति ढक् । ३ हन्यते मथा घोलम् । 'हन हिंसागत्योः '(अ.प.अ.), पृषोदरादित्त्वात् साधुः । ४ नास्ति रिष्टमशुभमस्माद् अरिष्टम्, सर्वरोगहत्त्वात् । ५ गोरसं दुग्धम्, तद् विकारात् कार्यकारण भेदाद् लक्षणया घोलमपि गोरसः ॥४०८॥ ६ अम्लादीन् रसानयते रसायनम् । 'अय गतौ'(भ्वा.आ.से.) । षट् सामान्येन घोलस्य ॥
अथाऽर्धाम्बूदश्वित्
४० १ अधर्मम्बु जलं यत्र तद् अर्धाम्बु । उदकेन श्वयति वर्धते उदश्वित् । 'टुओश्विं गतिवृद्धयोः (भ्वा.प.से.), 'क्विप्-'३।२ ७६ ॥ इति क्विप्, 'हस्वस्य पिति- '६।१७१ ।। इति तुक्, 'उदकस्योदः संज्ञायाम्'६।३।५७ ॥ इत्युदादेशः, 'उदश्वितोऽन्यतरस्याम्'४।२।१९ ॥इति निर्देशादसम्प्रसारणम् । उदश्विती, उदश्विन्ति इत्यादि क्लीबे । एकमर्धजलघोलस्य ॥
श्वेतं समोदकम् ।
१ श्वेतते श्वेतम् । 'विता वर्णे (भ्वा.आ.से.) । समं तुल्यमुदकं यत्र समोदकम् । “श्वेतरसमित्यपि''[ ]इति मदनः । धन्वन्तरिस्तु-" 'द्विगुणाम्बुश्वेतरसम्''[ धन्वन्तरिनिघण्टुः
५० ६।२११] इत्याह । एकं समोदकस्य ॥
तकं पुनः पादजलम्
१ तञ्चति द्रुतं गच्छति तक्रम्, पुंक्ली. । तञ्च चञ्च त्वञ्चु चुञ्चित्यादिदण्डको धातुर्गत्यर्थः, 'स्फायितञ्चिवञ्चि-' (उणा-१७०)इति रक्, 'अनिदिताम्- '६।४।२४॥ इति न्लोपः, न्यवादित्वात् कुत्वम् । “बाहुलकाच्चस्य कुत्वम्''[ ]इति माधवः । पादेन तुर्यांशेन जलं यत्र तत् पादजलम् । यन्मदनपाल:-"पादोदकं भवेत् तक्रमर्धाम्ब्वन्ये बभाषिरे" [मदनपालनिघण्टुः, पानीयादिवर्ग:-८, श्रो-११२, पृ.१९४] । एकं तक्रस्य । "कटवरं सारणम् अर्शोघ्नं परमरसः''[शेष-
६० नाममाला ३।१००-१०१॥] शैषिकाणि ॥
मथितं वारिवर्जितम् ।।४०९॥
१. 'इसिः' इत्युणादिगणे ॥ २. '-गिनाता-' इति३ ।। ३. तुलनीयोऽमरकोषः२।९।५२ ॥ ४. 'गाः' इति १.२ ॥ ५. ' - गवा-' इति ४॥ ६. 'कट्वरः शरः' इत्यस्यस्थाने म-निघण्टौ 'कटुक: सरः' इति दृश्यते, पृ.१९३, शो-१०८। ७. 'ढञ्' इत्यष्टाध्याय्याम् ॥ ८. 'टुओश्विर्' इति १॥ ९. 'श्विताङ्' इति १.२.३ ।। १०. 'वर्तने' इति ३॥ ११. 'द्विग-' इति १.२ ।। १२. 'वन्चु चन्चु तन्चु त्वन्चु मुचु म्लुचु गत्यर्थाः' इति क्षीरतरङ्गिणी, 'वञ्चु चञ्चु त्वञ्चु मुञ्चु म्लुञ्चु मुचु म्लुचु गत्यर्थाः' इति मा. धातुवृत्तिः ॥ १३. मा-धातुवृत्तौ न दृश्यते ॥ १४. '-मर्दाम्भोऽन्ये' इति मदनपालनिघण्टौ, पृ.१९४ ॥ १५. 'आर्ची-' इति३ ॥
१ [मथ्यते स्म मथितम्।] 'मन्थ विलोडने'(भ्वा. त्र्या.प.से.), निष्ठा । वारिवर्जितं जलरहितम्, दनो मथन मात्रसाध्यमित्यर्थः । 'मठओं' इत्यादिभाषा । यद्धन्वन्तरिः
"द्विगुणाम्बु श्वेतरस१मर्धोदकमुदकश्वितम् ।
तक्रं त्रिभागाभिन्नं च ३ केवलं मथितं स्मृतम् ॥१॥"
[धन्वन्तरिनिघण्टुः ६।२११॥]इति ॥
सार्पिष्कं दाधिकं सर्पिर्दधिभ्यां संस्कृतं क्रमात् ।
१ सर्पिषा संस्कृतं सार्पिष्कम्। 'संस्कृतम्'४।४।३॥ इति ठक्। १ दना संस्कृतं दाधिकम् । 'संस्कृतम्'४।४।३।।
१० इति ठक् । आद्ये 'इसुसुक्तान्तात् कः ७।३५१॥, द्वितीये 'ठस्येक:७।३५०॥ । सतो गुणस्योत्कर्षाधानं संस्कारः । क्रमेणैकैकं सर्पिःसंस्कृतदधिसंस्कृतयोः ॥
लवणोदकाभ्यां दकलावणिकम्
१ दकलवणाभ्यां संस्कृतं दकलावणिकम् । संस्कृ तम्'४।४।३ ॥ इति ठक्, बाहुलकादुत्तरपदवृद्धिः । उदकलावणि कमपि । यद्धलायुध-"लवणोदकसंसिद्धमुदलावणिकं मतम्" [हलायुधकोशः २।३२२॥]इति । एकं लवणजलसंस्कृतस्य, षीचप्रभृति ॥
उदश्विति ॥४१०॥
२० औदश्वितमौदश्वित्कम्
१ उदश्विति संस्कृतम् औदश्वितम्, औदश्चित्कम् च । 'उदश्वितोऽन्यतरस्याम्'४।२।१९।। इति ठक्, तदभावेऽण्। 'इसु[सु]क्तान्तात् कः७।३।५१ ॥ इति ठस्य कादेशः । द्वे उदश्वित्संस्कृतस्य, अर्धजलार्धघोलसिद्धरब्बादेः ॥४१०॥
लवणे स्यात् तु लावणम् ।
१ लवणे संस्कृतं लावणम् । 'संस्कृतं भक्ष्या (भक्षाः) ४।२।१६॥ इत्यण्, 'तद्धितेष्वचामादेः७।२।११७।। एकं लवणसंस्कृतस्य ॥
पैठरोख्ये उखासिद्धे
१ पिठरे स्थाल्यां संस्कृतम् पैठरम् । 'संस्कृतं
३० भक्षा : ४।२।१६॥ इत्यण् । २ उखायां स्थाल्यां संस्कृतम् उख्यम्, पञ्चमस्वरादिः । 'शूलोखाद्यत् '४।२।१७॥इति यत्। द्वे स्थालीसंस्कृतस्यानादेः ॥
प्रयस्तं तु सुसंस्कृतम् ॥४११॥
१ अत्यन्तपाकादिना प्रयत्नेन साध्यं प्रयस्तम्। 'यसु प्रयत्ने'(दि.प.से.), कर्मणि क्तः। सुष्ठु संस्कृतं सुसंस्कृतम्। एकं तैलादिपरिपक्वस्य द्रव्यान्तरयोगात् सुष्ठु संस्कृतस्य व्यञ्जनादेः । भलुनीपर्नु' इति भाषा ॥४११॥
पक्वे राद्धं च सिद्धं च
१ पच्यते स्म पक्वम् । 'डुपचष् पाके'(भ्वा.-
४० उ.अ.), निष्ठा, ‘पचो वः'८।२५२ ॥ इति तस्य वत्वम्, तत्र । उत्तरत्र "विनाऽम्बुना"[अभि.पो.३।४१२]इति वचनादिहाऽ म्बुनेति लभ्यते । राध्यति स्म राद्धम् । 'राध साधं संसिद्धौ' (स्वा.प.अ.), निष्ठा । २ सिध्यति स्म सिद्धम् । 'षिधु संराद्धौ' (दि.प.अ.), निष्ठा । द्वे सिद्धस्यान्नादेः ॥
___ भृष्टं पक्वं विनाऽम्बुना ।
१ भृज्यते स्म भृष्टम् । 'भ्रस्जो पाके'(तु.उ.अ.), निष्ठा । वारिणा विना पक्वम् । एकमम्बु विना पक्वस्य । 'सेकियाँ ' इति भाषा ॥
भृष्टामिषं भटिनं स्याद् भूतिर्भरूटकं च तत् ॥४१२॥
५० १ भृष्टं यदङ्गारेषु पक्वमामिषं मांसं तद् भटित्रम्। भटति पुष्टो भवत्यनेन भटित्रम् । 'भट भृतौ (भ्वा.प.से.), 'अशित्रादि-'(उणा-६१२)इति इत्रे: । २ भवति बलमनया भूतिः । ३ बिभर्ति बलं भरूटकम् । पृषोदरादिः । भृष्टमपि। यद्धलायुधः-"अङ्गारेषु विपक्वं मांसं भूतिर्भरूटकं भृष्टम्" [हलायुधकोशः २।३२३ ॥] इति । त्रीणि भृष्टामिषस्य ॥४१२॥
शूल्यं शूलाकृतं मांसम्
१ शूले संस्कृतं शूल्यम् । 'शुलोखाद्यत्'४।२।१७॥ इति यत् । २ शूले क्रियते स्म पाकायेति शूलाकृतम् । 'शूलात् पाके'५।४।६५ ॥ इति डाच् । लोहादिकृता शलाका
६०
१. 'दनं' इति३॥ २. 'मठो' इति३॥ ३. '-णैकं' इति३॥ ४. 'षीचप्रभृति' इति २नास्ति ॥ ५. "उदकेन श्वयति वर्धते इत्युदश्वित् । तत्र संस्कृतः औदश्वित्कः, औदश्वितः" इति सि.कौमुद्यां उदश्वितोऽन्यतरस्यामित्यत्र भट्टोजिदीक्षितः, पृ.२९४॥ ६. 'भक्ष्याः ' इति १.२.४ ॥ ७. 'भलौ नीप' इति४॥ ८ '-षाध-' इति क्षीरतरङ्गिणी ॥ ९. 'भ्रस्ज' इति क्षीरतरङ्गिण्यादौ ॥ १०. 'सोकिया' इति३॥ ११. 'गतौ' इति१॥ १२. 'इन्' इति३॥
शूलम्, करोतिरनेकार्थत्वात् पाके वर्तते, कृतं पक्वमित्यर्थः। "गतिसमास:"[ ]इति मिश्राः । अन्ये तु सामान्यविशेषभावं परिहत्य अनयोर्भटित्रेणैकार्थतामाहुः। द्वे शूलेन भृष्टामिषस्य ॥
नि:क्वाथो रसकः समौ ।
१ निःक्वाथः प्रस्तावादामिषस्यैव । २ रसः पिष्ट मांस[ज]स्तत्तुल्यो रसकः । द्वे मांसरसस्य ॥
प्रणीतमुपसंपन्नम्
१ प्रकर्षानीतं प्रापितं प्रणीतम् । २ एवमधिकं संपन्नम् उपसंपन्नम्, उपोऽत्राऽऽधिक्ये । द्वे पाकजरूपरसादि
१० संपन्नस्य व्यञ्जनादेः ॥
स्निग्धे मसृणचिक्कणे ॥४१३॥
१ स्निह्यति स्म स्निग्धः। 'ष्णिह प्रीतौ'(दि.प.से.), क्तः, तत्र । २ मां लक्ष्मी शोभां सरति मसृणम् । माशब्दे उपपदे सर्तेर्बाहुलकानक् ‘ड्यापोः संज्ञाछन्दसोः '६।३।६३॥ इति हुस्वत्वम्, 'ऋवर्णान्ताच्च-'(वा-८।४।१॥)इति णत्वम् । "ऋणु गतौ'(त.उ.अ.) संपूर्वात्, तत इगुपधः कः, पृषोदरा-दित्वाद् वर्णविपर्ययः''[]इति सुभूत्यादयः । ३ चित्यते सम्यग्ज्ञायते चिक्कणम् । 'चिती संज्ञाने'(भ्वा.प.से.), 'चितेः कणः कश्च'(उणा-६१५)इति [कण:], तस्य कत्वम् । “चिञ्
२० चयने'(स्वा.उ.अ.), क्विप्, 'हुस्वस्य-'६।१७१॥" [ ]इति तु केचित् । "कणति कणम्, चिच्च तत् कणं च"[ ]इति नैरुक्तम् । “तकारस्य कत्वम्"[ ]इति सुभूत्यादयः । त्रीणि स्निग्धस्य ॥४१३॥
पिच्छिलं तु विजिविलं विजलं विजिलं च तत् ।
१ पिच्छा भक्तमण्डम्, तद्योगात् पिच्छादित्वादिलच् [पिच्छिलम्] । “पिच्छा तु शाल्मलिवेष्टे मण्डे चाश्व पदामये'[विश्वप्रकाशकोशः, छान्तवर्गः, शो-४]इति विश्वः। २ विजते चलति विजिविलम्, तृतीयस्वरत्रयः । 'ओविजी भयचलनयो: '(तु.आ.से.), इलप्रत्ययान्तो निपातः । विजि फ्लेिमित्यपि। ३ विज् चलं जलं यत्र विजलम् । ४ विजे-
३० श्चलनार्थाद् ‘इगुपधादिभ्य(गुपादिभ्यः) कित्'(उणा-५५६) इतीलचि विजिलम् । “विजिनं विजविनं च स्यात् पिच्छिलं विजिलम्'[]इति वोपालितः । चत्वारि पिच्छिलस्य । 'फिलसणुं' इति भाषा ॥
भावितं तु वासितं स्यात्
१ भाव्यते मिश्रीक्रियते स्म भावितम्। 'भू सत्तायाम्' (भ्वा.प.से.), 'भुवोऽवकल्कने'(चु.उ.से.), णिच्, अवकल्कनं मिश्रीकरणम् । यथा-भावयति दघ्ना ओदनम्, सर्पिषा सक्तून् भाव्यते, द्रवद्रव्यैर्मिश्रीक्रियते स्मेति वा । २ वास्यते हिङ्गजीर कादिद्रव्यान्तरेण मील्यते, धूपपुष्पादिना अधिवास्यते वा
४० वासितम् । 'वास उपसेवायाम् (चु.उ.से.), क्तः । “भावितं वासितं विदुः"[ ]इति मुनिः । द्वे भावितस्य । 'भेलविया, धूपिया, वघारिया, धपूगारिया' इति भाषा ॥
तुल्ये संमृष्टशोधिते ॥४१४॥
१ संमृज्यते स्म संमृष्टम् । 'मृजूष् शुद्धौ'(अ.प.से.) संपूर्वः, कर्मणि क्तः। २ शोध्यते स्म शोधितम्। 'शुध शुद्धौ' (दि.प.अ.), निष्ठा, 'आर्धधातुकस्य-७।२।३५ ॥ इतीट् । द्वे केशमक्षिकाद्यपनयनेन शोधितान्नव्यञ्जनादेः ॥४१४॥
काञ्चिकं काञ्जिकं धान्याम्लारनाले तुषोदकम् ।
कुल्माषाभिषुतावन्तिसोमशुक्तानि कुञ्जलम् ॥४१५॥
५० चुकं धातुजमुन्नाहं रक्षोनं कुण्डंगोलकम् ।
महारसं सुवीराँम्लं सौवीरम् ।
१ कञ्चयति दीपयत्यग्निम्, बध्नाति दोषान् वा काञ्चिकम्। 'कचि काचि दीप्तिबन्धनयोः (भ्वा.आ.से.), 'इन् सर्वधातुभ्यः (उणा-५५७)इतीन्, इन्नन्तात् 'कृदिकारात् (गणसू-४।१।४५ ॥ इति वा ङीष् । संज्ञायां कनि काञ्च्यां पुरि भवमिति वा । ('तत्र. भव:'४।३।५३॥ इत्यण् । 'काञ्जिकम्'[ ]इति स्वामी")। "कञ्चिकं(काञ्चिकं) काञ्जिकं
१. तुलनीयोऽमरकोषः२।९।४५ ॥ २. 'स्निह्यते' इति३॥ ३. 'ऋवर्णाच्चेति वक्तव्यम्' इति वार्तिकरूपं दृश्यते ॥ ४. द्र. पदचन्द्रिका, भा-२, वैश्यवर्गः, श्रो-६१९, पृ.७०८॥ ५. '-पल-' इति१, '-पिलि-' इति२॥ ६. द्र. पदचन्द्रिका, भा-२, वैश्यवर्गः, भो-६१८, पृ.७०७॥ ७. 'तिसलनौ' इति, तत्रैव च 'फिसलणौ' इति संशोधितपाठः ४प्रतौ दृश्यते ॥ ८ द्र. अम.क्षीरस्वामिटीका २९४६॥, पृ.२१०॥, स्वोपज्ञटीका ३४१४॥, पृ.९६ ॥, तयोः 'भावितं' इत्यस्य स्थाने 'धूपितं' इति दृश्यते ॥ ९. स्वामिसम्मतोऽयं धातुः, सायणः षकारानुबन्धं न पठति ॥ १०. "सायणस्तु 'कचि काचि दीप्तिबन्धनयोः' इत्येवं पठति । मैत्रेयस्तु काचिं न पपाठ । काञ्चनं काञ्ची इत्युभयत्रान्येषामपि(६।३।१३७)इति दीर्घ त्वमाह(धातुप्रदीपः, पृ.१९)" इति क्षीरतरङ्गिण्यां युधिष्ठिरमीमांसकेन कृता टिप्पणी, पृ.३७॥, टिप्प-५॥ ११. कोष्ठान्तर्गतपाठः २प्रतौ नास्ति ॥ १२. 'कञ्जि-' इति १.४॥ १३. स्वामिकृतामरकोशटीकायामन्यथा दृश्यते ॥
अभिधानचि वीरम्''[धन्वन्तरिनिघण्टुः ६।२९४] इति धन्वन्तरिः । २ चस्य जत्वे पञ्जिकावत् काञ्जिकम् । यद्वा 'अजू व्यक्त्यादौ' (रु.प.से.), 'संज्ञायाम्'३।३।१०९ ॥ इति ण्वुल् । केन जलेन अञ्जिका अभिव्यक्तिरस्य काञ्जिकम् । ३ धान्यमम्लयति धान्याम्लम् । 'कर्मण्यण्'३।२।१॥ । ४ आ समन्तादियर्ति आरः । 'ऋ गतौ'(जु.प.अ.), पचाद्यच्, आरः। 'नल (णल) गन्धे'(भ्वा.प.से.) कर्मणि घञ्, नालः। आरो दूरगामी नालो गन्धोऽस्य आरनालम् । अरनालो भक्तं तजमारनालं वा । ५ तुषाणामुदकं तुषोदकम्। ६ कुल्माषैर्यवादिभिरर्धस्विनैर
१० भिषूयते स्म कुल्माषाभिषुतम्, षडक्षरम्। व्यस्तमपि, तेन "कुल्माषम्" तुर्यकाण्डे धान्यावसरे व्याख्यास्यते[अभि. श्री ४।११७५] । अभिपूर्वात् सुनोतेः, सवनार्थात् कर्मणि क्तः, 'उपसर्गात् सुनोति-'८।३।६५॥इति षत्वम्, अभिषुतम् । ७ अवन्तिप्रदेशेषु सूयते अवन्तिसोमम्। 'षुञ् अभिषवे'(स्वा. उ.अ.), 'अर्तिस्तु-'(उणा-१३७) इति मन् । ८ शक्नोति निर्मलीकर्तुम्, शोचति निर्मलीभवत्यनेन [वा] शुक्तम्। 'शक्ल शक्तौ'(स्वा.प.अ.), 'शुच शोके'(भ्वा.प.से.)अस्माद्वा, 'पुत पित्त-'(हैमोणा-२०४)इति साधुः । ९ कुऑ लाति कुञ्जलम् । कुत्सितं जलमस्येति पृषोदरादिर्वा । कुत्सितं जलं विगतस्वा
२० भाविकरसत्वात् कुञ्जलम्, नैरुक्तो मकारो वा। "वृषादित्वात् कुञ्जलम्''[]इति सुभूतिः ॥४१५॥ १० चकते तृप्यतेऽनेन चुक्रम्, पुंक्ली. । 'चक तृप्तौ'(भ्वा.प.से.), 'चकिरम्योरुच्चोप धाया: '(उणा-१७१)इति रक् । ११ धातून् हन्ति धातुघ्नम्। 'हन्(हन) हिंसागत्यो: '(अ.प.अ.), 'अमनुष्यकर्तृके च' ३।२॥५३॥इति टक्, कित्त्वाद् ‘गमहन-'६।४।९८॥ इत्युपधा लोपः, 'हो हन्तेः- ७।३ १५४॥इति कुत्वम्। १२ उन्नायतेऽनेन उन्नाहम् । 'नह(णह) बन्धने'(दि.उ.अ.), करणे घजि । १३ रक्षांसि हन्ति रक्षोनम्, तद्योगे भूतादिदोषाभावात् । १४ कुण्डं गुडति रक्षति, लत्वे कुण्डगोलकम् । 'गुड रक्षणे(तु.
३० प.से.), ण्वुल् । १५ महान् रसोऽत्र महारसम् । १६ सुवीरेषु अम्लं सुवीराम्लम् । १७ सुवीरेषु देशेषु प्रायेण भवं सौवीरम्। 'प्रायेण भवः'४।३।३९॥ इत्यण् । सप्तदशै काञ्जिकस्य । [शेषश्चात्र-"कुल्माषाभिषुते पुनः गृहाम्बु मधुरा च" [शेषनाममाला-३।१०१॥] ] ||
म्रक्षणं पुनः ॥४१६॥ तैलं स्नेहोऽभ्यञ्जनं च
१ म्रक्ष्यतेऽनेनेति प्रक्षणम् । 'म्रक्ष म्लेच्छने '(चु. प.से.), चुरादिः, परस्मैपदी, 'म्रक्ष रोषे'( ), भ्वादावित्येके, करणे ल्युट् ॥४१६ ॥ २ तिलानां विकार: तैलम्, पुंक्ली. । 'तस्य विकार: '४।३।१३४॥ इत्यण् । ३ स्निह्यतेऽनेन स्नेहः,
४० पुंक्ली. । 'ष्णिह प्रीतौ'(दि.प.से.), घञ् । ४ अभ्यज्यतेऽनेन अभ्यञ्जनम् । 'अञ्जू व्यक्तादौ(व्यक्त्यादौ)'(रु.प.वे.), करणे ल्युट । चत्वारि तैलस्य ॥
वेषवार उपस्करः ।
१ वेषणं वेषो व्याप्तिः, तं वृणीते वेषवारः । 'वृञ् वरणे'(स्वा.उ.से.), 'कर्मण्यण'३।२।१॥ । मिश्रास्तु-"वेसेन वारो वेसवारः''[ ]इति दन्त्यमध्यमाहुः, "वेसवारः परिसरो मसूरः कुसुमासनः"[ ] इति सभेदात् । २ उपकरोति व्यञ्जनेन समवैति उपस्करः । उपपूर्वः करोतिः, ततः पचद्यच्, 'समवाये च'६।११३८॥इति सुट् । शाकाद्युपस्क्रियतेऽनेन उपस्करः,
५० 'पुंसि संज्ञायाम्'३।३।११८ ॥ इति घो वा । द्वे सामान्येन संस्कारार्थं दीयमानहिङ्गुजीरकहरिद्राधान्यकशुण्ठ्यादेः ।
अथ तद्भेदानाह
स्यात् तिन्तिडीकं तु चुकं वृक्षाम्लं चाऽऽम्लवेतसे ॥४१७॥
१ तिम्यति आर्दीभवति तिन्तिडीकम् । 'तिम ष्टिम आर्दीभावे '(दि.प.से.), 'अनी(अली)कादयश्च'(उणा-४६५) इति निपातनादीकप्रत्ययः, द्विर्वचनम्, प्रकृतिमकारस्य च डः। २ चकते तृप्यतेऽनेन चुक्रम, पुंक्ली. । 'चक तृप्तौ'(भ्वा.- आ.से.), 'चकिरम्योरुच्चोपधायाः '(उणा-१७१)इति रक्, उपधायाश्चोत्वम्
६० । २ वृक्षस्यामलं वृक्षाम्लम् । ४ अम्ल-(आम्ल)वेतसवृक्षनिर्यास आम्लवेतसः, तत्र । चत्वारि आम्लवेतसस्य ॥४१७॥
हरिद्रा काञ्चनी पीता निशाख्या वरवर्णिनी ।
१ हरति वर्णान्तरमिति हरिः । 'हृञ् हरणे'(भ्वा. उ.अ.), 'अच इ: '(उणा-५७८)इति इ: । हरिं पिङ्गलवर्णं द्राति कुत्सयति हरिद्रा । 'द्रा कुत्सायां गतौ'(अ.प.अ.),
१. 'आर-' इति३ ॥ २. 'सेचना-' इति३॥ ३. द्र. पदचन्द्रिका, भा-२, वैश्यवर्गः, श्रो-६१२, पृ.७०० ॥, तत्र "वृषादित्वात्(उ-१।१०८) कुजे: . कलन् (च् ?) कुञ्जलम्" इति दृश्यते ॥ ४. 'प्रायभवः' इत्यष्टाध्याय्याम् ॥ ५. इतोऽग्रे ३प्रतौ 'सौवीरस्य' इति पाठो दृश्यते ॥ ६. '-नेन' इति ३॥ ७. द्र. पदचन्द्रिका, भा-२, वैश्यवर्गः, श्रो-६०८, पृ.६९४॥ ८. अत्र टीकाकृत: 'आम्लवेतसः-' इति द्वितीयस्वरादिशब्द इष्टः, अन्यत्र 'अम्लवेतसः इति दृश्यते ॥ ९. 'तिम तीम ष्टिम ष्टीम आर्दीभावे' इति क्षीरतरङ्गिणी, 'तिम स्मित ष्टीम आर्दीभावे' इति मा. धातुवृत्तिः ॥
'आतोऽनुपसर्गे कः'३।२।३॥ । २ काञ्चनवर्णत्वात् काञ्चनी। ३ पीता वर्णेन । ४ निशाख्या रात्रिपर्यायनामिकेत्यर्थः । ५ वरो वर्णोऽस्या वरवर्णिनी । पञ्च हरिद्रायाः ॥
क्षवः क्षुताभिजननो राजिका राजसर्षपः ॥४१८॥
आसुरी कृष्णिका चासौ
१ झूयतेऽनेन क्षवः । 'टुक्षु शब्दे'(अ.प.से.), ऋदो रप्'३।३५७।। २ क्षुतमभिजनयति क्षुताभिजननम् (क्षुताभि जननः)। 'जनी प्रादुर्भावे'(दि.आ.से.), हेतुमण्णिजन्तः, नन्द्या दित्वाद् ल्युः । ३ राजते राजिका । 'राजृ दीप्तौ'(भ्वा.उ.से.),
१० ण्वुल् । ४ सर्षपाणां राजा राजसर्षपः। 'राजदन्तादिषु परम्'२।२।३१॥ इति पूर्वप्रयोगः ॥४१८॥ ५ आ अस्यते शाकादौ आसुरी । असु क्षेपेणे'(दि.प.से.), असेरुरन्'(उणा ४२) इत्युरन्, गौरादित्वाद् ङीष् । असुरस्य स्त्रीव वा । कृष्णिका [कृष्ण]वर्णेन । षड् 'राई' इति ख्यातायाः ॥
कुस्तुम्बुरु तु धान्यकम् । धन्या धन्याकं धान्याकम्
__ १ कुत्सितं तुम्बति कुस्तुम्बुरुः, पुंक्ली. । 'तुबि अर्दने'(भ्वा.प.से.), बाहुलकाद् ‘मृस्तृ-'( )इत्यादिना उं:, पारस्करादित्वात् सुट् । “कुत्सिता तुम्बुरुः औषधीजातिः,
२० तत्फलमपि कुस्तुम्बुरुः"[अभि. स्वोपज्ञटीका३।४१८॥]इत्या चार्याः । २ धान्यमिव धान्यकम् । 'इवे प्रतिकृतौ'५।३।९६॥ इति कन् । ३ धने साधुः धन्या । 'तत्र साधुः४।४।९८॥ इति यत् । ४ धन धान्ये '(जु.प.से.), पिनाकादयश्च'(उणा-४५५) इत्याकः, मुगागमो दीर्घत्वं च निपात्यते धन्याकम्, ह्रस्वादिः। धन्यमकति यातीति वा । ५ धान्यमकति धान्याकम्, द्वितीय स्वरादिः । “धन्याकं धान्याकं धान्यं कुस्तुम्बुरु धनीयकम्" []इति रभसः । पञ्च 'धाणा' इति ख्यातस्य । “अल्लुका" [शेषनाममाला३।१०१॥] इति शैषिकम् ॥
मरिचं कृष्णमूषणम् ॥४१९॥
कोलकं वेल्लजं धार्मपत्तनं यवनप्रियम् ।।
३० १ म्रियते व्याकुलीभवति जिह्वाऽनेन मरिचम् । 'मृङ् प्राणत्यागे'(तु.आ.प.अ.), 'मृङ इचः'( )इतीचः । २ कृष्णः वर्णेन, तैक्ष्ण्यात् कर्षति प्राणानिति वा । ३ ऊषति रुजति ऊषणम्, षष्ठस्वरादिः । 'ऊष रुजायाम्'(भ्वा.प.से.), नन्द्या दित्वाल्ल्युः । उषणमिति पञ्चमस्वरादिरपि। "उषणं स्यादूषणं च"[शब्दभेदप्रकाशापरनामद्विरूपकोशः, श्रो-७]इति शब्द प्रभेदः ॥४१९॥ ४ कोलति संस्त्यायते कोलकम् । 'कुल संस्त्याने'(भ्वा.प.से.), 'कृञादिभ्यो वुन्'(उणा-७१३)। ५ वेल्ले वेल्लातटे जायते वेल्लजम् । यद्वा 'वेल वेल्लु' (भ्वा.प.से.)इत्यादिदण्डकादं वेल्लेर्भावे घञ्, वेल्लश्च
४० उलनकटुत्वाद् जनयति वेल्लजम् । 'अन्येष्वपि-'३।२। १०१॥ इति डः। वेल्लाख्यः शाखीत्येके । ६ धर्मपत्तने भवं धार्मपत्तनम् । 'तत्र भवः'४।३।५३॥ इत्यण् । ७ यवनानां प्रियं यवनप्रियम् । सप्त मरिचस्य । शेषश्चात्र-"द्वारवृत्तं मरीचं बलितं तथा"[शेषनाममाला३।१०२ ॥ ॥
शुण्ठी महौषधं विश्वा नांगरं विश्वभेषजम् ।।४२०॥
१ शुण्ठति शोषयति कफमिति शुण्ठी । 'शुठि शोषणे'(भ्वा.प.से.), 'इगुपधात् कित्'(उणा-५५९)इतीन्, 'कृदिकारात्-'(गणसू-४।१।४५ ॥) इति डीए, पचाद्यचि गौरा दित्वाद् ङीषिति वा । "बाहुलकात् किः, शुण्ठिः"["]इति
५० भीमः । “सधन्याशुण्ठिसैन्धवम्"[]इति वैद्यकम् । २ महच्च तदौषधं च महौषधम् । ३ विशति दोषान् विशति बहुरसायेनष्विति विश्वा, स्त्रीक्ली. । यदमर:-"स्त्रीनपुंसकयो विश्वम्''[अमरकोषः २।९।३८॥]इति । 'विश प्रवेशने' (तु.प.अ.), अशि(अशु)पुषि-'(उणा-१४९)इति क्वन् । ४ नगराख्ये देशे भवं नागरम् । 'तत्र भवः'४।३१५२॥ इत्यण् । न गिरति कफमिति वा । 'नभ्राण्नपात्- '६।३।७५ ॥ इति नअकृत्या । ५ विश्वस्य सर्वदोषस्य भेषजं विश्वभेषजम्, सर्वदोषजित्त्वात्। पञ्च शुण्ठ्याः ॥४२०॥
वैदेही पिप्पली कृष्णोपकुल्या मागधी कर्णा।
६०
१. 'असुरी' इति मुद्रिताभिधानचिन्तामणौ, स्वोपज्ञटीकायामपि तथैव ॥ २. '-तुम्बरुः' इति२.३.४॥ ३. 'तुः' इति ॥ ४. द्र. रामाश्रमी २९३८॥, पृ.४१६॥, पदचन्द्रिका, भा-२, वैश्यवर्गः, श्रो-६११, पृ.६९८॥ ४. १प्रतौ नास्ति ३॥ ५. 'उष दाहे'(भ्वा.प.से.), ल्युट्, संज्ञापूर्वकत्वाद् गुणाभावे उषणमिति ॥ ७. पूज्याचार्यश्रीकस्तूरसूरिसम्पादितशब्दभेदप्रकाशे "दुषणं स्याद् दूषणं च" इति दृश्यते, अभिधानकोशः, पृ.२३०॥ ८. 'वेल्ल चेल केल खेल श्वेल चलने' इति क्षीरतरङ्गिणी, 'वेल चेल केल खेल श्वेल वेल्ल चलने' इति मा.धातुवृत्तिः ॥ ९. 'शुण्ठयति' इति३॥ १०. द्र. पदचन्द्रिका, भा-२, वैश्यवर्गः, श्री-६११, पृ.६९९ ॥ ११. द्र. रामाश्रमी २९३८॥, पृ.४१६॥ १२. 'कनन्' इति३॥ १३. 'कणाः' इति३.४॥
१ विदेहेषु देशेषु भवा वैदेही । 'तत्र भवः'४।३। ५३॥ इत्यण, 'टिड्डाणञ्-'४।१।१५॥ इति ङीप् । २ पलत्यातुरं पिप्पली । 'पल गतौ'(भ्वा.प.से.), 'दृ(प)पलिभ्यां टित् पिप् च पूर्वस्य'(हैमोणा-११)इति अः, गौरादिः । ३ कृष्णा वर्णेन। कर्षति कफमिति वा। ४ उपकोलति संस्त्यायति उप कुल्या । 'कुल संस्त्याने'(भ्वा.प.से.), 'अघ्न्यादयश्च'(उणा ५५१)इति यक् । कुले प्राणिगणे साधुरिति वा। 'तत्र साधुः' ४।४।९८॥ इति यत् । ५ मगधेषु भवा मागधी । 'तत्र भवः' ४।३ १५३ ॥ इत्यण् । ६ कणाः सन्त्यस्यां कणाः (कणा)।
१० 'अर्शआदिभ्योऽच्'५ ।२।१२७॥ । षट् पिप्पल्याः । शेषश्चात्र
"पिप्पल्यामूषणा शौण्डी चपला तीक्ष्णतण्डुला ।
उषणा तण्डुलफला कोला च कृष्णतण्डुला ॥१॥"
[शेषनाममाला ३।१०२-१०३॥] ॥
तन्मूलं ग्रन्थिकं सर्वग्रन्थिकं चटकाशिरः ॥४२१॥
१ तस्याः पिप्पल्या मूलं तन्मूलम्, ग्रन्थिप्रतिकृतिः ग्रन्थिकम् । 'इवे प्रतिकृतौ'५।३।९६ ॥ इति कन् । २ सर्वे ग्रन्थयोऽत्र सर्वग्रन्थिकम् । ३ चटकाशिरोरूपत्वात् चटका शिरः । त्रीणि पिप्पलीमूलस्य ॥४२१॥
त्रिकटु ब्यूषणं व्योषम्
२० १-२ त्रीणि कटूनि, त्रीणि ऊषणानि च शुण्ठीमरिच पिप्पल्याख्यानि समाहृतानि त्रिकटु, त्र्यूषणम् । ३ विशेषेण ओषति दहति व्योषम् । 'उष दाहे '(भ्वा.प.से.), पचाद्यच्, 'पुगन्तलघूपधस्य च'७।३।८६ ॥ इति गुणः । त्रीणि 'त्रिगडू' इति ख्यातस्य ॥
अजाजी जीरकः कणां ।
१ अजं छागमजति गन्धोत्कटत्वात् कटुत्वं याति, सर्वभक्षेणापि छागेन न स्वाद्यते अजाजी, स्त्रीलिङ्गः । 'अज गतौ क्षेपणे च'(भ्वा.प.से.), 'कर्मण्यण'३।२।१॥, टिड्डाणञ्-'
४।१।१५॥ इति ङीप। अजं स्वाभाविकं मन्दाग्नित्वमजति क्षिपतीति
३० वा व्युत्पत्तिः । २ जवते जीरकः, पुंक्ली.। 'जु गतौ'( ), सौत्रः, 'जोरी च'(उणा-१८१) रकः ईअन्तादेशश्च. 'संज्ञायां कन' ५।३।७५ ॥ ३ कणति शब्दायते अग्निसंयोगेन कणा। कण क्वण शब्द '(भ्वा.प.से.), पचाद्यच्, टाप् । कणाः सन्त्यस्यामिति वा ।
अर्शआदित्वादच् । त्रीणि जीरकस्य । "जीरे जीरणजरणौ" [शेषनाममाला ३।१०३॥] शैषिके ॥
सहस्रवेधि वाल्हीकं जतुकं हिङ्ग रामठम् ॥४२२॥
१ सहस्रमित्यनेकोपलक्षणम्, सहस्रं वेधितुं सुगन्धा क्रान्तं कर्तुं शीलमस्य सहस्रवेधि। 'विध विधाने'(तु.प.से.), 'सुप्यजातौ णिनिः-३।२७८ ।। २ वाल्हीके उदीच्यदेशे भवं वाल्हीकम्। 'तत्र भवः'४।३।५३॥ इत्यण् । ३ जतुप्रतिकृति
४० जतुकम् । ‘इवे प्रतिकृतौ'५।३।९६॥ कन् । ४ हिनोति नासां हिङ्ग, पुंक्ली.। 'हि गतौ वृद्धौ च'(स्वा.प.अ.), ‘हेर्हिन् च' (हैमोणा-७६०)इति गुन् (गुः) । “हिममिव हिमद्रवत्वं भवक्षीरत्वात्, हिमं गच्छति, मृगय्वादित्वात् कुः, पृषोदरादि त्वाद् हिमाकारलोपे धातोष्टिलोपे च हिङ्ग''[]इत्यन्ये । ५ रमठे उदीच्यदेशे भवं रामठम् । 'तत्र भव:४।३५३॥ इत्यण्। रमयति रसनामिति वा । 'रमु क्रीडायाम्'(भ्वा.आ.अ.), णिज तः, ततः 'कमेरठः'(उणा-१००)इति बाहुलकाद् रमेरपि, तत एव मित्त्वेऽपि न हुस्वत्वम् । पञ्च हिङ्गोः । [शेषश्चात्र "हिङ्गौ तु भूतनाशनम्, अगूढगन्धमत्युग्रम् [शेषनाममाला
५० ३।१०३-१०४॥] ]॥४२२॥
न्यादः स्वदनं खादनमशनं
निर्घसो वल्भनमभ्यवहारः ।
जग्धिर्जक्षणभक्षणलेहाः
प्रत्यवसानं घसिराहारः ॥४२३॥
प्सानाऽवष्वाणविष्वाणा भोजनं जेमनादने ।
१ न्यदनं न्यादः। निपूर्वः 'अद भक्षणे'(अ.प.अ.), 'नौ ण च'३।३।६०॥ इति अदेर्णप्रत्यये उपधावृद्धिः। २ स्वद्यते स्वदनम् । 'स्वद(ष्वद) आस्वादने'(भ्वा.आ.से), ल्युट् । ३ खाद्यते खादनम् । 'खादृ भक्षणे'(भ्वा.प.से.), ल्युट् । ४
६० अश्यत इति अशनम् । 'अश भोजने'(त्र्या.प.से.), ल्युट । ५ न्यदनं निघसः । निपूर्वः 'अद भक्षणे'(अ.प.अ.), 'उपसर्गेऽदः'३३५९॥ इत्यप्, 'घजपोश्च'२।४।३८॥ इति अदेर्घस्लादेशः। ६ वल्भ्यते वल्भनम्। 'वल्भ भोजने'(भ्वा. आ.से.), ल्युट् । ७ अभ्यवहरणम् अभ्यवहारः । अभ्यवपूर्वो
१. 'पिच्च' इति२.३.४ ॥ २. 'शौडी' इति१.२॥ ३. तुलनीयोऽमरकोशः २।१०।१११॥ ४. 'कणाः' इति १.३.४॥ ५. 'अण रण वण' इत्यादिदण्डकोऽयं धातुपाठः ॥ ६. 'जीरे जीरणजरणौ' इत्यस्य स्थाने १.२.४.प्रतिषु 'जीरण: जरणः' इति दृश्यते ॥ ७. 'हिमवद्रव-' इति२॥ ८. द्र. पदचन्द्रिका, भा-२, वैश्यवर्गः, श्रो-६१३, पृ.७००॥, तत्र 'हिमद्रव्यत्वं भवक्षीरत्वात्' इत्यस्य स्थाने 'हिममिव हिमं द्रवं । त्वम्भवक्षीरत्वात् ।' इति दृश्यते ॥ ९. '-न्तात्' इति३॥ १०. इतः परा 'रमेवृद्धिश्च'(इणा-१०१)इत्युणदिसूत्रसत्त्वात् क्लिष्टकल्पना ॥ ११. 'वल्भते' इति३॥
'हृञ् हरणे'(भ्वा.उ.अ.), भोजनार्थः, 'भावे'३।३।१८॥ घञ् । ८ अदनं जग्धिः । 'अद भक्षणे'(अ.प.अ.), 'स्त्रियां क्तिन्' ३३९४॥, 'अदो जग्धिय॑प्ति किति'२।४।३६॥ इति जग्धिरा देशः, 'झषस्तथो:-'८।२।४०॥ इति धत्वम्, 'झरो झरि-' ८।४।६५ ॥ इति धलोपः। ९ जक्ष्यते जक्षणम् । 'जक्ष भक्षणे' (अ.प.से.), ल्युट । १० भक्ष्यते भक्षणम् । 'भक्ष भक्षणे' (भ्वा.प.से), ल्युट् । ११ लेहनं लेहः । 'लिह आस्वादने' (अ.उ.अ.), 'भावे'३।३।१८॥ घञ् । १२ प्रत्यवसीयते प्रत्य वसानम् । 'षोऽन्तकर्मणि'(दि.प.अ.), ल्युट् । १३ घसनं
१० घसिः । 'घस्लु अदने'(भ्वा.प.अ.), 'इन् सर्वधातुभ्यः (उणा ५५७)। १४ आह्रियतेऽस्माद् रस इति आहारः । 'हृञ् हरणे' (भ्वा.उ.अ.), 'अकर्तरि चे कारके संज्ञायाम्'३।३।१९॥ इत्य पादाने घञ् ॥४२२॥ १५ प्सायते प्सानम् । 'प्सा भक्षणे' (भ्वा.प.अ.), ल्युट् । १६ अवष्वणनम् अवष्वाणः। 'स्वन शब्दे भोजने च'(भ्वा.प.से), घञ्, 'वेश्च स्वनो भोजने' ८।३।६९॥ इति षत्वम् । १७ एवं विष्वणनं विष्वाणः। 'स्वन शब्दे भोजने चे'(भ्वा.प.से.), 'भावे'३।३।१८॥ घञ्। “विष्व णनं सशब्दं भोजनम्, तथा च वृत्तौअभ्यवहारक्रियाविशेषोऽ
भिधीयते यत्र स्वनमस्तीति, सशब्दं भुत इत्यर्थः''[ ] [इति] ।
२० पिनाकी तु 'भुञ्जानः किञ्चिच्छब्दं करोति'[ ]इति । काश्यपस्तु भोजनमेवार्थमाह । बोधिन्यासेऽपि पक्षत्रयमपि दर्शितम्'[मा. धातुवृत्तौ भ्वादिगणे, धातुसं-५५७] इति माधवः । १८ भुज्यते भोजनम् । 'भुज पालनाभ्यवहारयोः'(रु.प.आ.अ.), ल्युट्। १९ जिम्यते जेमनम् । 'चमु छमु जमु झमु अदने '(भ्वा.प. से.)इत्यत्र जिमुमपि केचित् पठन्ति, ततो ल्युट्। 'जमु अदने' (भ्वा.प.से.)इत्यस्य जमनं च । जवनमपि, यदुर्ग:-"जवनं भोजनं क्वचित्"["] । [२० अद्यते अदनम् । 'अद भक्षणे'
(अ.प.अ.), ल्युट् ] । विंशतिर्भोजनस्य ॥
चर्बणं चूर्णनं दन्तैः
१ चय॑ते चर्बणम् । 'चर्ब भक्षणे'(भ्वा.प.से.),
३० ल्युट्। (चूर्च्यते चूर्णनम्, ल्युट्।), दन्तैश्चूर्णनं चर्बणमित्युच्यते ॥
जिह्वाऽऽस्वादस्तु लेहनम् ॥४२४॥
१ जिह्वया आस्वादनं जिह्वाऽऽस्वादः । लिह्यते लेह नम् । 'लिह आस्वादने'(अ.उ.अ.), ल्युट् ॥४२४॥
कल्यवर्तः प्रातराशः
१ कल्ये प्रभाते वय॑ते कल्यवर्तः । 'वृतु वर्तने' (भ्वा.आ.से.), कर्मणि घञ्। २ प्रातरशनं प्रातराशः । 'अश भोजने'(त्र्या.प.से.), घञ् । द्वे प्रातराशस्य । 'कलेवा' इति भाषा । ('सीरामण' इति भाषा) ॥
सम्धिस्तु सहभोजनम् ।
४० १ समानस्य जग्धिः सन्धिः । 'अद भक्षणे'(अ. प.अ.), क्तिन्, 'बहुलं छन्दसि'२।४।३९॥ इति घस्लादेशः, 'घसिभसोर्हलि च'६।४।१०० ॥ इत्युपधालोपः, 'झषस्तथो:-' ८।२।४०॥ इति धत्वम्, तकारस्य धत्वम्, 'झरो झरि सवर्णे' ८४६५ ॥, 'झलां जश् झशि'८४१५३ ॥ इति जश्त्वम् । २ सहभोजनम्। 'सुप्सुपा'१।४।१०३॥ इति समासः। द्वे सह भोजनस्य । 'भेला जिमवु' इति भाषा ||
ग्रासो गुडेरकः पिण्डो गडोलः कवको गुडः॥४२५॥
गण्डोलः कवलः
१ ग्रस्यते ग्रासः । 'ग्रस(ग्रसु) अदने'(भ्वा.प.से.),
५०
१. 'जग्धिः' इत्यत्र इकार उच्चारणार्थः ॥ २. 'जक्ष भक्षहसनयोः' इति क्षीरतरङ्गिण्यादौ ॥ ३. मैत्रेयसम्मतोऽयं धातुपाठः, द्र. धातुप्रदीपः, भ्वादिः, धातुसं-५९५, पृ.६४॥ ४. 'सर्वधातुभ्य इन्' इत्युणादिगणसूत्रस्वरूपम् ॥ ५. 'चेति' इति ४॥ ६. 'स्यमु स्वन स्तन ध्वन शब्दे' इति स्वामी, क्षीरतरङ्गिणी, भ्वादिः, धातुसं-५६५, पृ.१२१ ॥, 'स्यमु स्वन ध्वन शब्दे' इति मैत्रेयसायणौ, धातुप्रदीपः, भ्वादिः, धातुसं-५३७, मा. धातुवृत्तिः, भ्वादिः, धातुसं-५५७, पृ.२०४॥ ७. 'सशब्दभोजनम्' इति मा.धातुवृत्तौ॥ ८. १प्रतौ न दृश्यते ॥ ९. "इदुपधोऽयमित्येके-जेमनम् जेमः" इति क्षीरतरङ्गिणी, भ्वादिः, धातुसं-३१५, पृ.७५ ॥, तत्रैव "धातुवृत्तौ स्मृतम् (पृष्ठ.९५)। काशकृत्स्नधातुपाठेऽपि 'जिमु अदने' पठ्यते (२।२२०, पृष्ठ.१९)। अस्यैव 'जिमु' धातो राजस्थान(मारवाडी) भाषायाम् ‘जीमना' पदं प्रयुज्यते ॥" इत्येका टिप्पणी दृश्यते ॥ १०. द्र. स्वोपज्ञटीका ३१४२३ ॥, पृ.९८ ॥, अम. क्षीरस्वामिटीका २।९५६ ॥, पृ.२१२ ॥ ११. कोष्ठान्तर्गतपाठः १.२ न दृश्यते ॥ १२. इतोऽग्रे बहिर्भागे १प्रतौ "लोकभाषा चाबवू २ बे नाम वाटवा नाम २" इति दृश्यते ॥ १३. कोष्ठान्तर्गतपाठः २प्रतौ दृश्यते, अत्र सुसरलत्वात् स्थापितः ॥ १४. अत्रेयं सग्धिरूपसिद्धिर्नानाशङ्काजनिका, अथ चेयं रीतिरनुसतव्या, तथा हि-'अद भक्षणे'(अ.प.अ.), 'स्त्रियां क्तिन्'३।३।१४॥ इति क्तिनि, 'बहुलं छन्दसि'२।४।३९ ॥इत्यनेन घस्लादेशे 'घसिभसोर्हलि च'६।४।१००॥ इत्युपधालोपे 'झलो झलि'८।२।२६॥ इत्यनेन सलोपे 'झषस्तथो:-'८।२।४०॥ इति तेः तकारस्य धत्वे 'झलां जश् झशि'८४५३ ।। इति जश्त्वे ग्धिसिद्धम्, अत्र जश्त्वे कर्तव्ये स्थानिवत्त्वं न शक्यम् , 'न पदान्त-१।१।५८ ॥ इति सूत्रेण जश्त्वे कर्तव्ये स्थानिवत्त्वनिषेधात्, ततः समानशब्देन सह समासे कृते 'समानस्य च्छन्दसि-'६।३८४॥ इत्यनेन सभावे कृते सग्धिः ॥
घञ् । २ गुड्यते गुडेरः । 'गुड रक्षणे'(तु.प.से.), पति कठि-'(उणा-५८)इत्येरक्, स्वार्थे कनि गुडेरकः । ३ पिण्ड्यते पिण्डः, पुंस्त्री । “सङ्घातग्रासयोः पिण्डी द्वयोः" [अमरकोषः ४०, ३।३।४४ ॥] इत्यमरः । 'पिडि सङ्घाते' (भ्वा.आ.से), कर्मणि घञ् । ४ गड्यते गडोलः । 'गड सेचने'(भ्वा.प.से.), 'कपिगडिगण्डि-'(उणा-६६)इत्योलन्। ५ कौत्यनेन कवकः। 'कु शब्दे'(अ.प.अ.), बाहुलकादकः। ६ गुडति रक्षति जीवं गुडः। 'गुड रक्षणे'(तु.प.से.), 'इगु पध-३।१।१३५ ॥ इति कः ॥४२५॥ ७ गण्डति वदनैकदेशे
१० भवति गण्डोलः । 'गडि वदनैकदेशे'(भ्वा.प.से.), 'कपि गडिगण्डि-'(उणा-६६)इत्योलन् । ८ केन जलेन वलते कवलः, पुंक्ली. । वलधातोः पचाद्यच् । “ 'कव वर्णने' (भ्वा. आ.से.), वृषादित्वात् कलच्''[]इत्यन्ये । अष्टौ कवलस्य ॥
तृप्ते त्वाधांतसुहिताऽऽशिताः ।
१ तृप्यति स्म तृप्तः । 'तृप प्रीणने'(दि.प.वे.), निष्ठा, तत्र । २ आध्रायति स्म आध्रातः । 'धै तृप्तौ'(भ्वा. प.अ.), निष्ठा, 'आदेचः- '६।१।४५॥ इत्यात्वम्। आध्राणोऽपि।
३ सुष्टु दधाति स्म सुहितः । 'डुधाञ् धारणादौ,'(जु.उ.अ.),
२० निष्ठा, 'दधातेर्हिः७४।४२॥ । यद्वा 'षह षुह चक्यर्थे' (दि.प.से), चक्यर्थस्तृप्त्यर्थः, ततो निष्ठा, 'धात्वादेः षः सः' ६।४।६४॥। ४ आ अश्नाति स्म आशितः। 'अश भोजने' (व्या.प.से.), निष्ठा । चत्वारि तृप्तस्य ॥
तृप्तिः सौहित्यमाधाणम्
१ तर्पणं तृप्तिः । 'तृप प्रीणने'(दि.प.से.), 'स्त्रियां क्तिन्'३।३।९४॥ । २ सुहितस्य भावः सौहित्यम् । 'गुण वचन- '५।२।१२४॥ इति ष्यञ् । ३ आध्रायते आधाणम्। 'धै तृप्तौ'(भ्वा.प.अ.), निष्ठा, 'आदेच-'६।१।४५ ॥ इत्यात्वम्, 'संयोगादेरातोधातो:-'८।२।४३॥इति नत्वम् । त्रीणि तृप्तेः ॥
अथ भुक्तसमुज्झिते ॥४२६॥
३० फेला पिण्डोलिफेली च
१ [पूर्वं] भुक्तं पश्चात् समुज्झितं संत्यक्तं भुक्त समुज्झितम्, तत्र ॥४२६॥२ फेल्यते त्यज्यते फेला । 'पेल फेल गतौ '(भ्वा.प.से.), कर्मणि 'गुरोश्च हल:'३।३।१०३ ।। इत्यकार: । फेलकोऽपि । ३ पिण्ड्यते पिण्डोलिः । 'पिडि सङ्घाते '(भ्वा.आ.से.), बाहुलकादोलिः । ४ फेल्यते फेलिः। 'इन् सर्वधातुभ्यः'(उणा-५५७) । चत्वारि 'अइठि' इति ख्यातायाः ॥
स्वोदरपूरके पुनः । कुक्षिम्भरिरात्मम्भरिरुदरम्भरिरपि
४० १-२ स्वमात्मीयमेवोदरं पूरयति स्वोदरपूरकः । 'पूर पूरणे'( ), ण्वुल, तत्र । कुक्षिम्, आत्मानं च बिभर्ति कुक्षिम्भरिः, आत्मम्भरिः, 'फलेग्रहिरात्मम्भरिश्च'३।२।२६॥ इति सूत्रे चकारात् कुक्षिम्भरिः । ३ उदरमेव बिभर्ति उद रम्भरि: । त्रीणि स्वीयोदरपूरकस्य ॥
__ अथ ॥४२७॥ आद्यूनः स्यादौदरिको विजिगीषाविवर्जिते ।
॥४२७॥ १ आ ईषद् दीव्यति स्म आयूनः । आपूर्व: 'दिवु क्रीडादौ'(दि.प.से.), निष्ठा, 'दिवोऽविजिगी षायाम्'८।२।४९॥ इति नत्वम्, 'च्छवोः शूट-'६।४।१९॥
५० इत्यूट् । २ उदरे प्रसक्त औदरिकः । 'उदरा?गाड्ने'।६७॥ इति ठक्, 'ठस्येकः'७।३।५०॥, 'किति च'७।२।११८॥ इति वृद्धिः । विजेतुमिच्छा विजिगीषा, तया विवर्जितः, तत्र । द्वे आद्यूनस्य । 'खाऊकड' इति भाषा ॥
उदरपिशाचः सर्वान्नीनः सर्वान्नभक्षकः ॥४२८॥
१. 'कन्' इति३॥ २. अयं पाठो रामाश्रमीसम्मतामरकोषे क्षेपकरूपेण दृश्यते, द्र. ३३१४४॥, पृ.५५५॥ ३. 'गण्डोलः' इति २॥ ४. 'गुड' इति ३.४ ।। ५. 'कोलच्' इत्युणादिगणे ॥ ६. 'कवृ-' इति३॥ ७. क्षीरतरङ्गिण्यादौ कवृधातोरभावादव वबयोरैक्यन्यायेन कबृधातुर्बोध्यः ॥ ८. द्र. पदचन्द्रिका, भा २, वैश्यवर्गः, शो-६२७, पृ.७१९ ॥ ९. 'अष्टो' इति १.२॥ १०. 'षुहि' इति ३.४॥ ११. 'षुह शक्यर्थे' इति स्वामी, द्र. क्षीरतरङ्गिणी, दिवादिः, धातुसं १८, पृ.२१० ॥, तत्र "षह षुह संभक्तौ इति दुर्गः" इत्याह, 'षुह चक्यर्थे' इति सायणः, द्र. मा. धातुवृत्तिः, दिवादिः, धातुसं-१९, पृ.४०७॥, तत्र "आत्रेयमैत्रेयदुर्गाः 'षह षुह' इति द्वौ धातू पेठुः" इत्याह ॥ १२. 'फेल पेल्' इति२.३.४, 'पेल फेल शेल गतौ' इति स्वामिमैत्रेयौ, क्षीरतरङ्गिणी, भ्वादिः, धातुसं-३६१, पृ.८४॥, धातुप्रदीपः, भ्वादिः, धातुसं-३४८, पृ.३९ ॥, 'पेलू शेल फेल-' इति सायणः, मा. धातुवृत्तिः, भ्वादिः, धातुसं-३५३, पृ.१५०॥ १३. 'कुक्षंभरिः' इति १, "गिरिस्तु कनकाचलः कति न सन्ति चाश्मव्रजाः, किटिस्तु धरणीधरः कति न सन्ति भूदारकाः । मरुत् तु मलयानिलः कति न सन्ति झञ्झानिलाः, प्रभुस्तु विबुधाश्रयः कति न सन्ति कुक्षिम्भराः" इत्यत्र केषाञ्चित्प्रयोगः प्रामादिक एव ॥, द्र. तत्त्वबोधिनी, (सिद्धान्तकौमुदीटीका), पृ.५६९ ॥ १४. "चात् कुक्षिम्भरिः । चान्द्रास्तु आत्मोदरकुक्षिष्विति पेठुः । ज्योत्स्नाकरम्भरमुदरम्भरयश्चकोरा इति मुरारिः" इति सिद्धान्तकौमुदी, पृ.५६९।। १५. तुलनीयोऽमरकोषः ३।१२१॥
१ उदरे पिशाच इव प्रसक्त उदरपिशाचः । २ सर्व प्रकारकमन्नं सर्वान्नम्, तदत्ति सर्वानीनः । 'अनुपदसर्वान्न-' ५।२।९॥ इत्यादिना खः । ३ सर्वान्नं भक्षयिता सर्वान्नभक्षकः। 'भक्ष भक्षणे'(चु.उ.से.), ण्वुल्। “सर्वेषां वर्णानां योऽन्नं भुङ्क्ते, स एवमुच्यते''[ ]इति मिश्राः । त्रीणि सर्वान्नीनस्य ॥४२८॥
शाष्कुलः पिशिताशी
१ शष्कुलीति मांसोपलक्षणम्, तामत्ति शाष्कुलः। 'शेष'४।२।९२॥ इत्यण् । "शौष्कुलः"[]इति भागुरिः । २ पिशितं मांसमश्नातीत्येवंशीलः पिशिताशी, णिन्नन्तः ।
१० द्वे मांसभक्षकस्य ॥
उन्मदिष्णुस्तून्मादसंयुतः ।
१ उन्मादशील उन्मदिष्णुः । उत्पूर्व : 'मदी हर्षे' (दि.प.से.), 'अलङ्कृनिराकृञ्प्रजनोत्पचोन्मद-'३।२।१३६ ॥ इत्यादिना इष्णुच् । उन्मादो वातभूतादिदोषाच्चित्तानवस्थितिस्तेन युक्तः । भूताद्याविष्टस्यैकम् ॥
गृनुस्तु गर्धनस्तृष्णग्लिप्सुलुब्धोऽभिलाषुकः॥४२९॥
लोलुपो लोलुभः
१ गर्धनशीलो गृध्नुः । गृधु अभिकाङ्क्षायाम् ' (दि.प.से), 'सिगृधिधृषिक्षिपेः क्नुः'३।२।१४०॥ । २ गर्ध
२० नशीलो गर्धनः । 'गृधु अभिकाङ्क्षायाम्'(दि.प.से.), 'जुच ङ्क्रम्य-'३।२।१५०॥ इति युच् । ३ तृष्यति, तच्छीलः तृष्णक्। 'जितृषा पिपासायाम्'(दि.प.से.), 'स्वपितृषोर्नजिङ् '३।२। १७२॥ । तृष्णजौ, तृष्णजः इत्यादि । ४ लब्धुमिच्छुः लिप्सुः। 'डुलभष् प्राप्तौ'(भ्वा.आ.अ.), 'धातोः कर्मण:-'३।१७ ॥इति सन्, 'सन्यङो:'६।१।९॥इति द्वित्वम्, 'सनि मीमाघुरभलभ शक-'७।४।५४॥ इति अच इस्, ['खरि च'८।४।५५॥ इति भस्य पः], 'सनाशंसभिक्ष उ:३।२।१६८॥ । ५ लुभ्यति स्म लुब्धः । 'लुभ गाये'(दि.प.से.), निष्ठा, ‘झषस्तथो:-'८। २।४०॥इति धत्वम् लुभोऽविमोहने'७।२।५४॥ इतीनिषेधः ।
३० ६ अभिलषणशीलो अभिलाषुकः । 'लष कान्तौ'(भ्वा.उ.से.),
'लषपतपदस्थाभूवृषहनकमि(-कम)-'३।२।१५४॥ इति उक
॥४२९॥७-८ भृशं लुम्पति, भृशं लुभ्यतीत्यर्थे यङ्लुगन्तात् पचाद्यच् लोलुपः, लोलुभः । एतौ पृथगावित्येके। अष्टौ 'लोभीया' इति ख्यातस्य । शेषश्चात्र-“लिप्सौ लालसलम्पटौ
लोलः'' [शेषनाममाला३।१०४॥] ॥
लोभस्तृष्णा लिप्सा वशः स्पृहा ।
काङ्क्षाऽऽशंसागर्धवाञ्छा
ऽशेच्छेहातृमनोरथाः ॥४३०॥
कामोऽभिलाषः
१ लोभनं लोभः। 'लुभ गाये'(दि.प.से.), 'भावे'
४० ३।३।१८॥ घञ् । २ तर्षणं तृष्णा । 'वितृषा पिपासायाम्' (दि.प.से.), बाहुलकाद् 'इण्सिजि(सिञ्जि)[दीकुष्ववि]भ्यो नक् '(उणा-२८२)इति नक् । ३ लब्धुमिच्छा लिप्सा । 'डुलभष् प्राप्तौ'(भ्वा.आ.अ.), 'धातोः कर्मणः-'३।१७।। इति सन्, 'सन्यङो:'६।१।९॥ इति द्वित्वम्, 'सनि मीमा-' ७४।५४॥ इत्यच इस्, ‘खरि च'८१४५५ ॥ इति भस्य पः, अ:(अ) प्रत्ययात्'३।३।१०२॥ इत्यकारः । ४ वशनं वशः। 'वश कान्तौ'(अ.प.अ.), 'वशिरण्योश्च'(वा-३३५८॥) इत्यप् । ५ स्पृहणं स्पृहा । 'स्पृह स्पृहणे '(चु.उ.से.), भिदादित्वादङ् । ६ काङ्क्षणं काङ्क्षा। 'काङ्क्ष काङ्क्षणे'
५० (भ्वा.प.से.), अङ् । ७ आशंसनम् आशंसा । आपूर्वः 'शंसुरिच्छाया'(भ्वा.आ.से.), ततोऽङ् भिदादित्वात् । ८ गर्धनं गर्धः। 'गृधु अभिकाङ्क्षायाम्'(दि.प.से), 'भावे' ३।३।१८॥ घञ् । ९ वाञ्छनं वाञ्छा । 'वाछि काङ्क्षा याम् (भ्वा.प.से.), 'गुरोश्च हलः३।३।१०३ ॥इत्यकारः । १० आश्यत्यनया आशा । आयूर्वः 'शो तनूकरणे'(दि. प.अ.), 'आदेच:- '६।१।४५ ॥ इत्यात्वम्, 'आतश्चोपसर्गे' ३।३।१०६॥ इत्यङ् । ११ एषणम् इच्छा । 'इषु इच्छायाम्' (तु.प.से.), 'इच्छा'३।३।१०१॥ इति सूत्रेण शप्रत्यये साधुः। १२ ईहनम् ईहा । 'ईह चेष्टायाम्'(भ्वा.आ.से.), 'गुरोश्च
६० हलः३।३।१०३॥ इत्यः । घबि ईहोऽपि । १३ तर्षणं तृट्।
१. 'भक्षयतीति' इति १॥ २. धातुप्रदीपसम्मतोऽयं धात्वर्थः, द्र. भ्वादिः, धातुसं-५९५, पृ.६४॥ ३. द्र. स्वोपज्ञटीका३।४२९॥, पृ.९९ ॥ ४. 'उत्पूर्वे' इति ३॥ ५. '-पतो-' इति ३॥ ६. 'जितृष' इति३॥ ७. स्वामिसायणौ 'जितृष पिपासायाम्' इति पठतः ॥ ८. 'उकन्' ३.४॥ ९. 'जितृष पिपासायाम्' इति स्वामिसायणौ ॥ १०. 'स्पृह ईप्सायाम्' इति क्षीरतरङ्गिण्यादौ ॥ ११. 'काक्षि वाक्षि माक्षि काङ्क्षायाम्' इति मैत्रेयसायणौ, 'काक्षि वाक्षि माक्षि द्राक्षि ध्राक्षि ध्वाक्षि काङ्क्षायाम्' इति स्वामी ॥ १२. 'आङः शसि इच्छायाम्' इति स्वामिसायणी, 'आङ् शसि इच्छायाम्' इति
मैत्रेयः ॥ १३. 'वाछि इच्छायाम्' इति क्षीरतरङ्गिण्यादौ ॥ १४. 'अशत्य-' इति३॥
'बितृषा पिपासायाम् '(दि.प.से.), भावे क्विप् । १४ मन एव रथो दूरगामित्वाद् यत्र स मनोरथः । मनोगवी च ॥४३०॥ १५ कमनं कामः, पुंक्ली. । 'कमु कान्तौ'(भ्वा.आ.से.), 'भावे'३।३।१८॥घञ् । १६ अभिलषणम् अभिलाषः । 'लष कान्तौ '(भ्वा.उ.से.), 'भावे'३।३।१८॥ घञ् । षोडश लोभस्य । शेषश्चात्र-"लिप्सा तु धनाया, रुचिरीप्सा चे कामना"[शेषनाममाला ३।१०४॥] ॥
अभिध्या तु परस्वेहा
१ अभिचारेण ध्यानम् अभिध्या । अभिपूर्वः ‘ध्यै
१० चिन्तायाम्'(भ्वा.प.से.), 'आतश्चोपसर्गे'३।३।१०६॥ अङ् । परस्वविषया ईहा स्पृहा परस्वेहा । “परस्वे विषमस्पृहा''[] इत्येके, दोषचिन्तापूर्वं परस्वे लिप्सेत्यर्थः। यत्कात्यः-"विषम प्रार्थनाऽभिध्या"[] । एकं परधनलिप्सायाः ॥
उद्धतः पुनः । अविनीतः
१ उत्कटं हन्ति गच्छति हिनस्ति वा उद्धतः । उत्पूर्वः ‘हन्(हन) हिंसागत्यो:'(अ.प.अ.), क्तः । २ न विनीतः अविनीतः । द्वे अविनीतस्य ॥
विनीतस्तु निभृतः प्रश्रितोऽपि च ॥४३१॥
२० १ शास्त्रादिना विनीयते विनीतः । 'णीञ् प्रापणे' (भ्वा.उ.अ.), क्तः । २ नितरां भ्रियते निभृतः । 'डुभृञ् धारणादौ '(जु.उ.अ.), 'जीतः क्त:'३।२।१८७॥ । ३ प्रथम श्रयते सेवते प्रश्रितः । 'श्रिञ् सेवायाम्'(भ्वा.उ.से.), 'जीतः क्त'३।२।१८७॥, 'आदिकर्मणि-'३।४।७१ ॥ इत्यादिना क्तो वा । त्रीणि विनीतस्य ॥
विधेये विनयस्थ: स्यात्
१ प्रवृत्तिनिवृत्तिविषये विधातुं शक्यो विधेयः। 'डुधाञ् धारणादौ'(जु.उ.अ.), 'अचो यत्'३।१।९७॥ इति यत्, 'ईद्यति'६४६५ ॥इति धातोराकारस्येकारः, गुणः, [तत्र]।
२ विधिनिषेधे वचनं विनयम्, तत्र तिष्ठति विनयस्थः । 'ष्ठा
३० गतिनिवृत्तौ'(भ्वा.प.अ.), 'आतोऽनुपसर्गे कः'३।२।३॥, 'आतो लोप:-'६४६४॥ इत्यालेपः । द्वे विनयग्राहिणः । "विधेयो विनयग्राही"[अमरकोषः३।१।२४॥] इत्यमरः ॥
आश्रवो वचनेस्थितः ।
१ आदिष्टं शृणोति आश्रवः । 'श्रु श्रवणे'(भ्वा. प.अ.), पचाद्यच् । वचनेस्थितः, 'तत्पुरुषे कृति-'६।३।१४॥ इत्यलुक् । द्वे वचनश्रवणतत्परस्य ॥
वश्यः प्रणेयः
१ वशमायत्तत्वं गतः प्राप्तो वश्यः । 'वशं गतः' ४।४।८६ ॥ इति सूत्रेण यत् । “वशमायत्ततायां स्यात्"[विश्व-
४० प्रकाशकोशः, शान्तवर्गः, श्रो-१]इति विश्वः । २ प्रकर्षेण नेयः, प्रकर्षेण नेतुं शक्यो वा प्रणेयः । ‘णीज् प्रापणे'(भ्वा.उ.अ.), 'अचो यत्'३।१९७॥, गुणः । द्वे वशंगतस्य । “विधेयादयः षडेकार्थाः" []इत्येके ॥
धृष्टस्तु वियांतो धृष्णुधृष्णजौ ॥४३२॥
१ धृष्णोति प्रगल्भते धृष्टः । 'जिधृषा प्रागल्भ्ये' (स्वा.प.से.), 'जीतः क्त:'३।२।१८७॥, 'धृषशशी(धृषिशसी) वैजात्ये'७।२।१९॥ इतीडभावः। २ विरुद्धं याति स्म वियातः। 'या प्रापणे'(अ.प.अ.), निष्ठा । ३ धर्षणशीलो धृष्णुः । 'बिधृषा प्रागल्भ्ये '(स्वा.प.से), 'सिगृधि-'३।२।१४०॥ इति
५० क्नुः । ४ 'धृषश्च ( )इति नजिङि धृष्णक, धृष्णजौ इत्यादि। चत्वारि भयलज्जारहितस्य । ‘धीठउँ' इति भाषा ॥४३२॥
वीक्षापन्नो विलक्षः
१ वीक्षं विस्मयमापनो वीक्षापन्नः । २ परकीय धर्मशीलादौ विस्मितो विलक्षः । विरुद्धं लक्षयत इति वा । 'लक्ष दर्शनाङ्कनयोः (चु.उ.से.), पचाद्यच् । द्वे विलक्षस्य। "विलखू' इति भाषा ॥
अथाधष्टे शालीनशारदौ ।
१. 'जितृष-' इति४, मौत्रेयसम्मतोऽयं धातुपाठः, स्वामिसायणौ 'बितृष पिपासायाम्' इति पठतः ॥ २. 'तु' इति१.२.४ ॥ ३. इतोऽग्रे ३प्रतौ 'अभिचारेण ध्यानापरविषया ईहा स्पृहा' इति पाठो दृश्यते ॥ ४. द्र. स्वोपज्ञटीका ३४३१॥, पृ.९९ ॥, अम. क्षीरस्वामिटीका ६।१।२५॥, पृ.५३॥ ५. अत्र कैश्चित् 'वचने स्थितः' इति पदच्छेदः कृतः, स विचारणीयः ॥ ६. तुलनीयोऽमरकोष ३।१२५ ॥ ७. '-यत्तं' इति४॥ ८. 'वश्यं' इति४॥ ९. द्र. स्वोपज्ञटीका ३।४३२॥, पृ.९९ ॥ १०. 'स्वपितृषोर्नजिङ्'३।२।१७२ ।।इत्यत्र " 'धृषेश्चेति वक्तव्यम्' । धृष्णक्" इति काशिकावृत्तिः, भा-२, पृ.६७४ ॥ ११. 'धीठो' इति २, 'धीठौ' इति ४॥ १२. 'इत्यादि' इति ३॥ १३. 'विलक्षितस्य' इति ३॥ १४. 'विलखं' इति १.२॥
१ न धृष्टः अधृष्टः, तत्र । २ श्यतेर्लप्रत्यये शाला, शालायां गृहे प्रवेशमर्हति शालीनः । 'शालीनकौपीने-'५।२। २०॥ इत्यादिना खप्रत्यये, प्रवेशशब्दलोपे च निपातितम् । ३ शारदो नव इव सर्वत्र शारदः, अस्खलद्गतित्वात् । त्रीण्यधृष्टस्य ॥
शुभंयुः शुभसंयुक्तः
१ शुभमिति विभक्त्यन्तप्रतिरूपकमव्ययं कल्याणार्थे, शुभमस्यास्ति शुभंयुः। 'अहंशुभमोर्युस्'५।२।१४० ॥ । “शुभं 'योऽपि''[ ]इति हलायुधटीका। शुभेन संयुक्तः शुभसंयुक्तः । "कल्याणबुद्धिः"[ ]इति तद्धितढुण्ढ्याम् । एकं शुभयुतस्य ।
१० स्यादहंयुरहंकृतः ॥४३३॥
१ अहमिति मान्तमव्ययमहङ्कारे, अहमस्याऽस्ति अहंयुः । 'अहंशुभमोर्युस्'५।२।१४० ॥ । २ अहं करोति अहंकृतः । द्वे अहंकारिणः । गुमानीति भाषा ॥
कामुकः कमिता कम्रोऽनुकः कामयिताऽभिकः ।
कामनः कमरोऽभीकः
१ कमनशीलः कामुकः । 'कमु कान्तौ'(भ्वा. आ.से.), 'लषपतपद-'३।२।१५४॥ इत्युकञ्, जित्त्वाद् वृद्धिः । २ 'आयादय आर्धधातुके वा'३।१।३१॥ इत्यणिङन्तात् तृनि
कमिता । ३ कम्रः । 'नमिकम्पिस्म्यजस्(-जस)-'३।२।
२० १६७ ॥ इति रः। ४-६-९ अनुकामयत अनुकः । अभिका मयत अभिकः, अभीकः । 'अनुकाभिकाभीका:-(-भीक:) कमिता'५।२७४ ॥ इति सूत्रेण अनुक अभिक अभीक एते त्रयः शब्दाः कन्प्रत्ययान्ता निपात्यन्ते । ५ कमेर्णिङन्तात् तृनि कामयिता । ७ णिङन्ताद् 'अनुदात्तादेश्च'४।३ १४० ॥ इति युचि कामनः । अणिङन्ताद् युचि कमनः । ८ कामयते कमरः । कमेरणिङन्ताद् ‘अर्तिकमि-'(उणा-४१२)इत्यरन् । नव कामीति ख्यातस्य ॥
पञ्चभद्रस्तु विप्लुतः ॥४३४॥ व्यसनी
३० १ पञ्च भद्राणि कल्याणान्यस्य पञ्चभद्रः, [अ] भद्रो विपरितलक्षणया भद्रमुखवत् । २ विप्लवते स्म विप्लुतः। _ 'प्लुङ् गतौ '(भ्वा.आ.अ.), निष्ठा ॥४३४॥ ३ द्युतादीनि
व्यसनानि सन्त्यस्य व्यसनी । 'अत इनिठनौ'५।२।११५ ॥ इतीनिः । त्रीणि व्यसनिनः ॥
हर्षमाणस्तु प्रमना हृष्टमानसः । विकुर्वाणः
१ हृष्यतीत्येवंशीलो हर्षमाणः । 'हृष तुष्टौ'(दि. प.से), 'ताच्छील्यवयोवचनशक्तिषु चानश्'३ ।२।१२९ ॥, 'आने मुक्'७।२।८२ ॥ इति मुक् । २ प्रकृष्टं मनोऽस्य प्रमनाः,
सकारान्तः । ३ हृष्टं मानसमस्य हृष्टमानसः। ४ हर्षाद् विकारं
४० याति विकुर्वाणः । 'डुकृञ् करणे'(त.उ.अ.), 'लटः शतृशानचौ-'३।२।१२४॥ चत्वारि हर्षमाणस्य। 'हर्षपामिउ' इति भाषा ॥
विचेतास्त दन्तर्विपरो मनाः ॥४३५॥
१ विरुद्धं चेतोऽस्य विचेताः, सकारान्तः । २-४ दुरन्तर्विभ्यः परो मन:शब्दो योज्यः, दुष्टम् अन्तर्नीतं विरुद्धं च मनोऽस्य दुर्मनाः, अन्तर्मनाः, विमनाः, त्रयोऽपि सकारान्ताः । चत्वारि दुष्टमनसः ॥४३५॥
मत्ते शौण्डोत्कटक्षीबा:
१ मद्यपानेन माद्यति स्म मत्तः । 'मदी हर्षे'(दि.-
५० प.से.), निष्ठा, तत्र। २ शुण्डा मदिरा, तत्र भवः शौण्डः। 'तत्र भव:'४।३।५३ ॥ इत्यण् । शुण्डा पानाऽऽगारम्, तत्र भवो वा। शुण्डाऽस्याऽस्तीति ज्योत्स्नादित्वादण् वा। ३ उद्रिक्त उत्कटः । 'सम्प्रोदश्च'५।२।२९ ॥ इति कटच् । ४ क्षीबते स्म क्षीबः। 'क्षीबृ मदे'( भ्वा.आ.से.), 'अनुपसर्गात् फुल्लक्षीब कृशोल्लाघा:'८।२।५५ ॥ इति निष्ठान्तो निपातः । चत्वारि मत्तस्य । 'छाकिओ' इति भाषा ॥
उत्कस्तूत्सुक उन्मनाः । उत्कण्ठितः
१ उद्गतं मनोऽस्य उत्कः । 'उत्क उन्मनाः'
६० ५।२८० ॥ इति सूत्रेण उत्क इति निपात्यते । उच्छब्दात् साधनक्रियावचनात् कन्प्रत्ययो निपात्यत इत्यर्थः । २ ___ [उद्गतं मनोऽस्य उत्सुकः] । ३ उद्गतं मनोऽस्य
१. 'मन्त-' इति१.२॥ २.'-कन्' इति३.४ ॥ ३. 'हष तुष्टौ' इति धातोर्दिवादित्वाद् 'हृष्यमाणः' इति स्यात्, तेन भौवादिकस्य 'हषु अलीके' इत्यस्य 'हर्षमाणः' । इति बोध्यम् ॥ ४. 'प्रहृष्टं' इति१.२ ॥ ५.'-पामियौं' इति ३॥ ६.'-लीनं' इति ३ ॥ ७. 'तुलनीयोऽमरकोषः ३ ॥१॥२३॥ ८. 'छाकिउं' इति २, 'छाकिउ' इति४॥ ९. 'साधनं' इति२.३ ॥ १०. "उद्गतमनस्कवृत्तेरुच्छब्दात् स्वार्थे कन् । उत्क उत्कण्ठितः" इति सिद्धान्तकौमुद्याम्, पृ.३५५ ।।
उन्मनाः, सकारान्तः । ३ उत्कण्ठा सञ्जाताऽस्य उत्कण्ठितः। 'तदस्य सञ्जातम्'५।२।३६॥ इतीतच् । “इष्टार्थोद्युक्त उत्सुकः" [अमरकोषः३।१।९॥]इत्यमरः पृथगाह । चत्वारि उत्सुकस्य ॥
अभिशस्ते तु वाच्य क्षारितदूषिताः ॥४३६॥
१ अभिशस्यते स्म अभिस्तः । 'शंस कथने'( ), निष्ठा, 'अनिदिताम्- '६।४।२४॥ इति लोपः, तत्र। २ वचनीयो वाच्यः। 'वच परिभाषणे'(अ.प.अ.), 'ऋहलोर्ण्यत्' ३।१।१२४॥ । ३ क्षार्यते स्वरूपाच्चाल्यते स्म क्षारितः। 'क्षर सञ्चलने'(भ्वा.प.से.), णिजन्ताद् निष्ठा, अलीकोत्पन्नपात
१० कव्यपदेशः । आक्षारितोऽपि । ४ दूष्यते स्म दूषितः । 'दुष वैकृत्ये'(दि.प.अ.), निष्ठा । मैथुनं प्रतीत्येके । चत्वारि 'दूहव्या' इति ख्याते: ॥४३६॥
गुणैः प्रतीते त्वाहतलक्षणः कृतलक्षणः ।
___ १ गुणैः सौन्दयौदार्यादिभिः, प्रतीतो विख्यातः, तत्र । आहतानि उद्घोषितानि लक्षणान्यस्य आहतलक्षणः । २ कृताः प्रसिद्धा लक्षणरूपा गुणा अस्य कृतलक्षणः । द्वे स्वगुणैः प्रसिद्धस्य ॥
निर्लक्षणस्तु पाण्डुरपृष्ठः
१ निर्गतो लक्षणेभ्य इति निर्लक्षणः । 'निरादयो
२० निःक्रान्ताद्यर्थे पञ्चम्या'(वा-२।२।१८॥)इति समासः । २ पाण्डुरं निर्लक्षणं पृष्ठमस्य पाण्डुरपृष्ठः। द्वे निर्लक्षणनरस्य ॥
सङ्कसुकोऽस्थिरे ॥४३७॥
१ सङ्कसति सङ्कसुकः, द्विदन्त्यः । सम्पूर्वः ‘कस गतौ'(भ्वा.प.से.), 'समि कस उकन्'(उणा-१८७)इत्युकन् । २ अस्थिरः चपलः, तत्र । “अनिश्चित:"[ ]इत्येके। "सम्यक् कसन्ति पलायन्ते जना अस्मादिति सङ्कसुको दुर्जनः"[ ]इत्युज्ज्वलदत्तः । द्वे अस्थिरस्य ॥ तुष्णींशीलस्तु तूष्णीकः
१ [तूष्णीं शीलमस्य तुष्णींशीलः] । २ तूष्णीं भावः शीलमस्य तूष्णीकः, तूष्णीम: । 'शीले कन् मलोपश्च'(वा-
३० ५।३७१॥)। द्वे तूष्णींशीलस्य ॥
विवशोऽनिष्टदुष्टधीः ।
१ विरुद्धं वष्टि कामयते विवशः । 'वर्श कान्तौ' (अ.प.से.), पचाद्यच् । अनिष्टा दुष्टा च धीर्यस्य स अनिष्ट दुष्टधीः । “विवशोऽरिष्टदुष्टधीः''[अमरकोषः३।१।४४॥] इत्यमरः । “अरिष्टेन मरणादिचिह्नन श्वासादिना दुष्टा धीर्यस्य" [अम.क्षीर.३।१।४४ ॥]इति क्षीरस्वामी । एकं दुष्टबुद्धेः । 'जेहनी मतिफिरीइ' इति भाषा ॥
बद्धो निगडितो नद्धः कीलितो यन्त्रितः सितः ॥४३८॥
४० सन्दानितः संयतश्च
१ बद्ध्यते स्म बद्धः। 'बन्ध बन्धने'(त्र्या.प.अ.), निष्ठा । २ निगड्यते स्म निगडितः। 'गड सेचने'(भ्वा. प.से.), निष्ठा । ३ नह्यते स्म नद्धः । 'नह(णह) बन्धने' (दि.उ.अ.), निष्ठा, 'नहो धः'८।२।३४॥, 'झषस्तथो:-' ८।२।४०॥ इति धत्वम् । ४ कील्यते स्म कीलितः । 'कील बन्धने'(भ्वा.प.से.), क्तः । ५ यन्त्र्यते स्म यन्त्रितः । 'यत्रि बन्धने '(चु.उ.से.), निष्ठा । ६ सीयते स्म सितः । ‘षिञ् बन्धने'(स्वा.उ.अ.)॥४३८॥ ७ सन्दान्यते सन्दानितः । 'दान आर्जवे छेदने चे'( ), निष्ठा । ८ संयम्यते स्म संयतः ।
५० 'यमु नियमने '(भ्वा.प.अ.), निष्ठा, ‘अनुदात्तोपदेश-६।४। ___३७॥ इति लोपः । अष्टौ बद्धस्य ॥
स्यादुद्दानं तु बन्धनम् ।
१ उद्दीयत उद्दानम् । 'दोऽवखण्डने'(दि.प.अ.), __'देङ् पालन '(भ्वा.आ.अ.)वा, ल्युट् । २ बद्ध्यतेऽनेन
बन्धनम् । 'बन्ध बन्धने'(त्र्या.प.अ.), करणे ल्युट् । द्वे बन्धनस्य ॥
मनोहतः प्रतिहतः प्रतिबद्धो हतश्च सेः ॥४३९॥
१. 'निरादयः क्रान्ताद्यर्थे-' इत्यष्टाध्याय्याम् ॥ २. तुलनीयोऽमरकोषः ३।१४३॥ ३. 'उक' इति३ ॥ ४. '-कञ्' इति३॥ ५. तुलनीयोऽमरकोषः ३।१।३९॥ ६. 'भवितुं' इति३॥ ७. 'अशुद्धमिदम्, शुद्धं तु 'तूष्णीम्' इति ॥ ८. 'कल्' इति३, मुद्रितवार्त्तिके 'को' इति दृश्यते ॥ ९. 'विवस' इति३॥ १०. 'विवसः' इति२.३॥ ११. 'वस' इति३॥ १२. 'मरणचिह्नन' इति क्षीरस्वामिकृतटीकायाम् ३।१।४४॥, पृ.२४५ ॥ १३. '-बुद्धिः' इति३॥ १४. 'जेहनी' इति१.२॥ १५. 'यत्रि सङ्कोचने' इति क्षीरतरङ्गिणीधातुवृत्ती, '-सङ्कोचे' इति धातुप्रदीपः, चुरादिः, धातुसं-३॥ १६. क्षीरतरङ्गिण्यादौ 'दान अवखण्डने' इति धातुपाठो दृश्यते, 'दान खण्डने' इति सिद्धान्तकौमुद्याम् ॥ १७. 'यम उपरमे' इति क्षीरतरङ्गिण्यादौ ॥ १८. श्रीहेमचन्द्राचार्यसम्मतोऽयं धात्वर्थः, द्र. धातुपारायणम्, भ्वादिः, धातुसं-६०४, क्षीरतरङ्गिण्यादौ 'रक्षणे' इति दृश्यते ॥ १९. तुलनीयोऽमरकोषः ३।१४१ ॥
१ मनसो हतो मनोहतः । २ प्रतिहन्यते स्म प्रतिहतः । 'हन्(हन) हिंसागत्योः'(अ.प.अ.), निष्ठा । ३ प्रतिबध्यते स्म प्रतिबद्धः । 'बन्ध बन्धने'(व्या.प.अ.), निष्ठा । ४ हन्यते स्म हतः । चत्वारि मनोहतस्य । 'मनभागु' इति भाषा ॥४३९॥ प्रतिक्षिप्तोऽधिंक्षिप्तः
१ प्रतिक्षिप्यते स्म प्रतिक्षिप्तः । 'क्षिप प्रेरणे'(तु. उ.अ.), निष्ठा । २ अधिक्षिप्यते स्म अधिक्षिप्तः । द्वे निर्भ र्त्सितस्य । 'धकाई नाखउँ' इति भाषा । यथा-"अधि t
१० क्षिप्तोऽपि विकृतिं न याति क्वापि सज्जनः"[] |
अवकृष्टनिष्कासितौ समौ ।
१ अवकृष्यते दूरीक्रियते स्म अवकृष्टः । 'कृष विलेखने'(भ्वा.प.अ,तु.प.अ), निष्ठा । २ निष्कास्यते स्म निष्कासितः । 'कस गतौ'(भ्वा.प.से.), ण्यन्तात् क्तः । 'कासृ दीप्तौ '(भ्वा.आ.से.)इत्यस्माद्वा क्तः, दन्त्यसवान् । द्वे निष्कासितस्य ॥
आत्तगन्धेऽभिभूतः
१ आत्तो गृहीतो गन्धोऽभिमानोऽस्य आत्तगन्धः, तत्र । "गन्धो गर्वो लवोऽपि च"[त्रिकाण्डशेष:३।३।२१७॥]
२० इति त्रिकाण्डशेषः । आत्तगर्व इत्यपि पाठः । २ अभिभूयते स्म अभिभूतः, निष्ठान्तः । द्वे 'अहंकार ऊतारियां' इति ख्यातस्य ॥
अपध्वस्ते न्यक्कृतधिक्कृतौ ॥४४०॥
१ अपध्वस्यते स्म अपध्वस्तः। 'ध्वंस अध:पतने' (भ्वा.आ.से.), निष्ठा, तत्र । २ न्यक्क्रियते स्म न्यक्कृतः। असत्कारणादिना धिगिति कृतो धिक्कृतः । "आत्तगन्धादयः पञ्चाऽप्येकार्थाः"["] इत्येके । त्रीणि धिक्कृतस्य ॥४४०॥
निकृतस्तु विप्रकृतः
१ निक्रियते खलीक्रियते स्म निकृतः । २ एवं
३० विप्रकृतः न्यायपराजितोऽयम् । द्वे पराभूतस्य ॥
न्यक्कारस्तु तिरस्क्रिया।
परिभावो विप्रकारः परापर्यभितो भवः ॥४४१॥
अत्याकारो निकारश्च
१ न्यक्करणं न्यक्कारः । 'डुकृञ् करणे'(त.उ.अ.), 'भावे'३।३।१८॥ घञ् ।.२ तिरस्करणं तिरस्क्रिया । 'कृत्रः श च'३३।१००॥इति शः, शित्त्वाद् भावे यक्, 'रिशय लिङ्घ'७।४।२८॥, ततष्टाप् । ३ परिभवनं परिभावः । 'भावे'३।३।१८॥ घञ् । ४ विप्रकरणं विप्रकारः । 'भावे' ३३॥१८॥ घब् । ५-७ परापर्यभितो भवः शब्दो योज्यः, तेन पराभवः, परिभवः, अभिभवः॥४४१॥ ८ अत्याकरणम्
४० अत्याकारः । निकरणं निकारः । नव पराभवस्य ॥
विप्रलब्धस्तु वञ्चितः ।
१ विप्रलभ्यते स्म विप्रलब्धः । 'डुलभष् प्राप्तौ' (भ्वा.आ.अ.), निष्ठा, 'झषस्तथो:-'८।२।४० ॥ इति धत्वम् । २ वञ्च्यते स्म वञ्चितः । 'वञ्च प्रलम्भने'(चु.आ.से.), निष्ठा । द्वे वञ्चितस्य । ठगिओ' इति भाषा ॥
स्वप्नक् शयांलुर्निद्रालुः
१ स्वापशीलः स्वप्नक्। 'जिष्वप् शये'(अ.प.अ.), 'स्वपितृषोर्नजिङ्'३।२।१७२ ॥, स्वप्नजौ, स्वप्नजः इत्यादि । २ शयनशीलः शयालुः । 'शीङो वाच्यः'(वा-३।२।१५८)
५० इत्यालुच् । ३ निद्रातीत्येवंशीलो निद्रालुः । निपूर्वः 'द्रा कुत्सायां गतौ'(अ.प.अ.), 'स्पृहिगृहिपतिदयि-'३।२।१५८॥ इत्यालुच्, 'शीङः सार्वधातुके गुणः'७।४।२१॥ । त्रीणि निद्रालोः । 'ऊंघिओ' इति भाषा ॥
घूर्णिते प्रचलायितः ॥४४२॥
१ घूर्णते स्म घूर्णितः । 'घुण घूर्ण भ्रमणे'(भ्वा. आ.से.), निष्ठा, तत्र । २ प्रचलति घूर्णते प्रचलः, प्रचल इवाचरति क्यङन्तात् क्तः प्रचलायितः। यद्वा प्रचला निद्रा विशेषो यस्यामासीनोऽपि घूर्णते, अप्रचलावान् प्रचलावान् भवति स्म प्रचलायितः । य उपविष्टो निद्रया घूर्णते, तस्य
६० द्वे ॥४४२॥
१. '-भागो' इति३॥ २. 'धका' इति३॥ ३. 'नाखिउ' इतिर; 'नांख्यो' इति३, 'नाखिओ' इति४॥ ४. द्र. अनेकार्थसङ्ग्रहानेकार्थकैरवाकर कौमुदीटीका, भा-२, काण्ड:-४, शो-९८, पृ.३४४॥ ५. क्षीरतरङ्गिण्यादौ दीप्तावर्थेऽयं धातुर्न दृश्यते ॥ ६. तत्र 'गन्धो गर्वे लवेऽपि च' इति दृश्यते, पृ.३४५ ॥ ७. "आत्तगर्वोऽभिभूतः स्यात् "३।१४०॥ इत्यमरकोषः ॥ ८. 'उता-' इति३॥ ९. धातुप्रदीपसम्मतोऽयं धात्वर्थः, भ्वादिः, धातुसं ४८५, पृ.५१॥ १०. द्र. स्वोपज्ञटीका३।४४०॥, पृ.१०१॥ १२. 'यङ्' इति३॥ १२. तुलनीयोऽमरकोषः३।१४१॥ १३. 'ठगिउ' इति२.४॥ १४. तलनीयोऽमरकोषः ३।१३३॥ १५. 'उंघीओ' इति३॥
निद्राणः शयितः सुप्तः
१ निद्राति स्म निद्राणः । 'द्रा कुत्सायां गतौ'(अ. प.अ.), निष्ठा, 'संयोगादेरातो धातो:-'८।२।४३ ॥ इति क्तस्य नत्वम् । २ शेत इति शयितः । 'शीङ् स्वप्ने'(अ.आ.से.), 'मतिबुद्धि-'३।२।१८८॥ इत्यत्र चकारस्यानुक्तसमुच्चयार्थत्वाद् वर्तमाने क्तः । ३ स्वपिति सुप्तः । 'जिष्वप् शये'(अ.प. अ.), 'जितः क्तः'३।२।१८७॥ इति वर्तमाने क्तः । त्रीणि सुप्तस्य ॥
जागरूकस्तु जागरी ।
१० १ जागरणशीलो जागरूकः । 'जागृ निद्राक्षये' (अ.प.से.), 'जागरूकश्च'३।२।१६५ ॥ इत्यूकः। जागरिताऽपि। २ जागरोऽस्याऽस्ति जागरी । 'अत इनिठनौ'५।२।११५॥ इतीनिः । द्वे जागरूकस्य । 'जागता' इति भाषा ॥
जागर्या स्याजागरणं जागरा जांगरोऽपि च ॥४४३॥
१ जागर्यते जागर्या । 'परिचर्यापरिसर्यामृगयाटा ट्यादयश्च'(वा-३।३।१०१॥)इति साधुः । २ जागर्यते जाग रणम् । ल्युट्। ३ जागरणं जागरा । 'जागर्तेरकारो वा'(वा ३३।१०१॥)इत्यः । ४ जागरणं जागरः । 'भावे'३३१८॥ घञ्, 'जाग्रोऽविचिण्णल्ङित्सु७।३८५।। इति गुणः । चत्वारि
२० जागरणस्य ॥४४३॥
विष्वगञ्चति विष्वव्य
१ विष्वगिति सर्वतोऽर्थेऽव्ययम्, विष्वक् समन्ता दश्चति गच्छति विष्वव्यङ् । 'अञ्च गतौ'(भ्वा.प.से.), विष्वक्पूर्वः 'विष्वग्देवयोश्च- '६।३।९२ ॥ इति टेरठ्यादेशः, 'ऋत्विग्दधृक्-'३।२१५९ ॥ इत्यादिना क्विन्, [ अनिदिताम्-' ६४।२४॥ इति लोपः, 'उगिदचाम्-'७।११७० ॥ इति नुम्, 'संयोगान्तस्य लोपः'८।२।२३॥], 'क्विन्प्रत्ययस्य कुः'८।२। ६२॥ विश्वव्यङिति तालव्यमध्योऽपि । एकं सर्वतो गच्छतः, सर्वपूजकस्य च ॥
३० देवव्यङ् देवमञ्चति ।
१ देवमञ्चति गच्छति पूजयति देवव्यङ् । 'अञ्च गतिपूजनयो:'(भ्वा.प.से.), देवपूर्वः, विष्वग्देवयोश्च'६।३।९२॥ इति टेरव्यादेशः, 'ऋत्विक्-'३।२।५९॥ इत्यादिना क्विन्, 'अनिदितां हल:- '६।४।२४॥ इति न्लोपः, 'उगिदचाम्-' ७।११७० ॥ इति नुम्, 'संयोगान्तस्य लोपः'८।२।२३॥, 'क्विन्प्रत्ययस्य कुः'८।२।६२ ॥इति कवर्गोऽन्तादेशः । एकं
देवपूजकस्य ॥
सहाञ्चति तु सध्यङ् स्यात्
१ सहाञ्चतीति सध्यङ् । 'सहस्य सध्रिः'६।३।९५॥, शेषं प्राग्वत् । एकं 'सहाय' इति ख्यातस्य ॥
४० तिर्यङ् पुनस्तिरोऽञ्चति ॥४४४॥
१'तिरसस्तिर्यलोपे'६।३।९४॥ इति तिर्यादेशः, शिष्टं प्राग्वत् । एकं तिर्यग्गच्छतः ॥४४४॥
संशयालुः संशयिता
१ संशयशीलः संशयालुः । सम्पूर्वः 'शीङ् स्वप्ने' (अ.आ.से), 'शीङो वाच्य :'(वा-३।२।१५८॥)इत्यालुः । २ संशयशीलः संशयिता । 'तृन्'३।२।१३५॥इति तृन् । द्वे संशयालोः ॥
गृहयालुर्ग्रहीतर।
१ गृहयत इत्येवंशीलो गृहयालुः। 'गृह ग्रहणे'(चु.-
५० आ.से.), चौरादिकोऽदन्तः, ‘स्मृहिगृहिदयि-'३।२।१५८॥ इत्यादिना आलुच् । २ गृहयत इत्येवंशीलो गृहीता । 'तृन्' ३।२।१३५॥ इति तॄन् । द्वे गृहयालोः ॥
पतयालुः पातुकः स्यात्
१ पतयतीत्येवंशीलः पतयालुः। 'पतृ पतने"' (चु. उ.से.), चुरादिः, 'स्पृहिगृहिपतिदयि-'३।२।१५८॥ इत्यालु।
२ पततीत्येवंशीलः पातुकः । 'पतृ पतने '(चु.उ.से.), __ 'लषपतपदस्थाभूवृषहनकमि(-कम)-'३।२१५४॥ इत्युकञ् । द्वे पतनशीलस्य ॥
समौ रोचिष्णुरोचनौ ॥४४५॥
६० १ रोचनशीलो रोचिष्णुः। रुच दीप्तौ'(भ्वा.आ.से.),
१. अष्टाध्याय्यां चकारो न दृश्यते ॥ २. '-टाट्यानामुपसङ्ख्यानम्' इत्यष्टाध्याय्याम, वस्तुतस्तु 'जागर्तेरकारो वा' इति वार्तिकस्य विकल्पपक्षे यकि गुणे कृते 'जागर्या' इति सिद्धत्वादस्योल्लेखो विचारणीयः ॥ ३. 'क्विप्' इति१॥ ४. '-गान्तलोपः' इति४॥ ५. 'सहस' इति३॥ ६. 'तिरस्त- 'इति१.२.४ ॥ ७. 'तिरि' इति३॥ ८. 'आलुच्' इत्यष्टाध्याय्याम् ॥ ९. तुलनीयोऽमरकोषः ३।१।२७॥ १०. '-यालुः' इति २॥ ११. 'पत गतौ वा' इति स्वामिसायणौ, "पत गतौ' इति मैत्रेयः ॥ १२. '-लुक्' इति१॥
'अलङ्कृज्ञिराकृञ्प्रजनोत्पचोन्पतोन्मदि(-मद)-'३।२।१३६ ॥ इतीष्णुच् । २ रोचत इत्येवंशीलो रोचनः । 'रुच दीप्तौ'(भ्वा.
आ.से.) । द्वे रुचिवतः ॥४४५॥
दक्षिणार्हस्तु दक्षिण्यो दक्षिणीयः
१ दक्षिणामर्हति दक्षिणार्हः । 'अर्ह अहणे'(भ्वा. प.से.), पचाद्यच्। २-३ दक्षिणामर्हति दक्षिण्यः, दक्षिणीयः। 'कडङ्गरदक्षिणाच्छ च'५।१६९॥ इति द्वितीयान्तादर्हत्यर्थे छ यतौ, 'आयनेयी- '७।१।२ ॥ इति छस्येयादेशः, 'यस्येति च' ६।४।१४८॥ । त्रीणि यज्ञदानार्हस्य ॥
१० अथ दण्डितः । दापितः साधितः
१ दण्ड्यते स्म दण्डितः । 'दण्ड दण्डने'(चु. उ.से.), निष्ठा । २ दाप्यते स्म दापितः । 'डुदाञ् दाने' (जु.उ.अ.), ण्यन्ताद् 'अर्ति[ही]व्ली-७।३।३६॥ इति पुक्, ततो निष्ठा। " 'दय दाने '(भ्वा.आ.से.)इत्यादिधातोर्दायित इति पाठ:"[ ]इति कलिङ्गपुरुषोत्तमौ। २ साध्यते स्म साधितः। 'साध संसिद्धौ'(स्वा.प.अ.), निष्ठा । त्रीणि दण्डितस्य ॥
अर्यस्तु प्रतीक्ष्यः
१ अर्चनीयः अWः। 'अर्च पूजायाम्'(भ्वा.प.से.),
२० 'ऋहलोर्ण्यत्'३।१।१२४ ॥, यद्वा 'ऋच स्तुतौ'(तु.प.से.), 'ऋहलोर्ण्यत्'३।१।१२४ ॥, 'यजयाचऋच(रुच)प्रवचर्चश्च७। ३६६॥ इति कुत्वनिषेधः । अत एव कुत्वनिषेधाद् ज्ञापकाह दुपधलक्षणः क्यबपि न भवति । २ प्रतीक्षणीयो मुख्यत्वात् प्रतीक्ष्यः । प्रतिपूर्वः 'ईक्ष दर्शनाङ्कनयो: (भ्वा.आ.से.), 'ऋहलोर्ण्यत्'३।१।१२४॥, "भक्तिः प्रतीक्ष्येषु कुलोचिता ते" [रघुवंशम्, सर्गः-५, शो-१४]इति रघुः । द्वे पूजायोग्यस्य ॥
पूजितेर्हितः ॥४४६॥ नमस्यितो नमसिताऽपचितावञ्चितोऽर्चितः ।
१ पूज्यते स्म पूजितः। 'पूज पूजायाम्'(चु.प.से.),
३० निष्ठा, तत्र। २ अर्द्धते स्म अर्हितः। 'अर्ह पूजायाम्'(भ्वा. प.से.), निष्ठा ॥४४६॥ ३-४ नमस्क्रियते स्म नमस्यितः, नमसितः। 'नमोवरिवश्चित्रङ: क्यच'३।१।१९।।, तस्य क्तप्रत्यये 'क्यस्य विभाषा'६।४।५०॥ इति वा लोपः । ५ अपचाय्यते अपचितः। 'चाय पूजानिशामनयोः (भ्वा.उ.से.), 'अप चितश्च'७।२।३०॥इति सूत्रेण क्तप्रत्यये साधुः । अपचायि तोऽपि'[द्र. अमरकोषः ३।१।१०१॥] इत्यमरः । ६ अञ्च्यते स्म अञ्चितः। 'अञ्च गतिपूजनयोः (भ्वा.प.से.), निष्ठा । ७ अर्च्यते स्म अर्चितः । 'मतिबुद्धिपूजा-'३।२।१८८॥ इति क्तः। सप्त पूजितस्य ॥ पूजाऽर्हणा संपर्याऽर्चा
४० १ पूजनं पूजा । 'पूज पूजायाम् (चु.प.से.), 'चिन्तिपूजि-'३।३।१०५ ॥ इत्यङ् । २ [अर्हणम्] अर्हणा। 'अर्ह पूजायाम् '(भ्वा.प.से.), भावे ल्युट् । ३ सपर्यणं सपर्या । 'सपर पूजायाम्'( ), कण्ड्वादिः, ततो यक् । ४ अर्चनम् अर्चा । 'अर्च पूजायाम्'(भ्वा.प.से.), भिदा दित्वादङ् । चत्वारि पूजायाः । “अपचितिः"[शेषनाममाला ३।१०५ ॥]शैषिकम् ॥
उपहारबली समौ ॥४४७॥
१ उपहियते देवार्थम् उपहारः । 'हृञ् हरणे '(भ्वा. उ.अ.), घञ् । २ बलत्यनेन बलिः, पुंस्त्रीलिङ्गः। यदरुणः-
५० "बलिस्त्वक्सङ्कोचकृता देवताऽर्चनं च द्वयमपि उभयलिङ्गम्" _ [ ]इति । "करोपहारयोः पुंसि बलिः प्राण्यङ्गजे स्त्रियाम्" [अमरकोषः३।३।१९५ ॥] इत्यमरः । [बलिः, वलिः], आद्य ओष्ठ्यादिरन्त्यो दन्त्योष्ठ्यादिरिति विशेषो न गणितः । 'बल प्राणने'(भ्वा.प.से.), 'इन् सर्वधातुभ्यः'(उणा-५५७)इतीन् । पूजोपकरणपर्यायावेतौ। “कुर्वन् सन्ध्याबलिपटहतां शूलिनः घनीयाम्"[ मेघदूतम्, पूर्वमेघः, श्रो-३४]इति कालिदासः। "उपहारो बलिः स्मृतः"[हलायुधकोशः १।१२८॥] इति हला युधः । “देवाग्रे नैवेद्ये द्वौ"[ ]इति तट्टीका । द्वे उपहारस्य। 'ढोवणउं' इति भाषा ॥४४७॥
६० विक्लवो विह्वलः
१. 'अर्ह पूजायाम्' इति क्षीरतरङ्गिण्यादौ ॥ २. 'दण्ड दण्डनिपातने' इति क्षीरतरङ्गिणीमा.धातुवृत्ती, 'दण्ड निपातने' इति धातुप्रदीपः ॥ ३. 'दय दानगतिरक्षणहिंसादानेषु' इति क्षीरतरङ्गिण्यादौ ॥ ४. द्र. पदचन्द्रिका, भा-३, विशेष्यनिघ्नवर्गः (प्राणिवर्गः), शो-४१, पृ.३६ ॥ ५. 'ईक्ष दर्शने' इति क्षीरतरङ्गिण्यादौ ॥ ६. 'प्रतीक्षेषु' इति २।। ७. 'पूजितोऽर्हितः' इति ४॥ ८. १.२.४प्रतिषु न दृश्यते ॥ ९. 'च' इति ४प्रतौ नास्ति ॥ १०. २.३.४प्रतिषु न दृश्यते ॥ ११. 'युक्' इति३॥ १२. १प्रतौ न दृश्यते ॥ १३. 'लिङ्गिम्' इति१॥ १४. 'अपि' इति३॥ १५. 'पूजापक-' इति १॥ १६. '-वणौ' इति ४, '-वणो' इति३॥ १७. तलनीयोऽमरकोषः३।१४४॥
१ विक्लवते कातरीभवति विक्लवः । 'क्लव कातर्ये'( ), अयं धातुर्गणाऽपरिसमाप्तेौकिकः, पचाद्यच्। २ विरुद्ध ह्वलति चलति विह्वलः। 'ह्वल चलने'(भ्वा.प.से.), पचाद्यच् । द्वे विकलेन्द्रियस्य ॥
स्थूल: पीवा पीनश्च पीवरः ।
१ तिष्ठत्युपचयेनेति स्थूलः। 'ष्ठा गतिनिवृत्तौ'(भ्वा. प.अ.), 'स्थश्च (उणा-६८२)इति सूत्रेण रक्, ऊकारश्चान्ता देशः, लत्वम् । 'स्थूल परिबृंहणे'(चु.आ.से.)इत्यस्माद्वा, पचाद्यच् । २ प्यायते पीवा । 'ओप्यायी वृद्धौ'(भ्वा.आ.से.), 'ध्याप्योः
१० सम्प्रसारणं च'(उणा-५५४)इति क्वनिप्, सम्प्रसारणं च । पीवानौ, पीवानः इत्यादि । ३ प्यायते स्म पीनः । [ओ] प्यायी वृद्धौ'(भ्वा.आ.से.), निष्ठा, 'प्यायः पी निष्ठायाम्' ६।१।२८॥ इति पीभावः, 'ओदितश्च'८२४५॥ इति क्तस्य नत्वम् । ४ प्यायते पिबति वा पीवरः । 'ओप्यायी वृद्धौ' (भ्वा.आ.से.), 'पा पाने'(भ्वा.प.अ.) अस्य वा। 'चि(छि) त्वरछत्वरधीवरपीवर[मीवर]चीवर[तीवरनीवर] गह्वरकट्वर संयद्वरोपह्वराष्ट्ररचि साधवः'(उणा-२८१)इति सूत्रेण साधुः । 'पीव मीव नीव तीव स्थौल्ये'(भ्वा.प.से.)अस्य वा । 'च (छ)त्वर-'(उणा-२८१) इत्यादिना वरचि वलि लोपे
२० निपात्यते । चत्वारि स्थूलस्य ॥
चक्षुष्यः सुभगः
१ चक्षुषे हितः चक्षुष्यः, यं दृष्ट्वा चक्षुः प्रह्लादते। 'शरीरावयवाद्यत्'५।१।६॥ इति यत् । २ शोभनो भगो रूपं श्रीर्वा यस्य स सुभगः । द्वे दृष्टिसुखप्रदस्य । 'सोहामणउ' इति भाषा ॥
द्वेष्योऽक्षिगतः
१ द्वेषणीयो द्वेष्यः। 'द्विष अप्रीतौ'(अ.उ.अ.), 'ऋहलोर्ण्यत्'३।१।१२४॥ । २ अक्षिविषयं गतः अक्षिगतः। "अक्षिगतो यथा किंशारुकादिखेदकृत् तथाऽयमपीत्यर्थः,
३० अक्षिगतशब्दो यथा प्रियो हुतत्वेन (हितत्वेन) व्यपदिश्यते,
तथा शत्रुरपि सदा रुषा दृश्यमानत्वादक्षिगतत्वेनेति व्यपदि श्यते"["]इति मिश्राः । द्वे दृष्टिदुःखदाऽप्रियस्य ॥
अथांसलो बली ॥४४८॥ निर्दिग्धो मांसलचोपचितः
१ अंसौ स्कन्धावस्य स्तः अंसलः । 'वत्सांसाभ्यां कामबले'५।२।९८॥ इति लच्। २ बलमस्यास्ति बली। 'अत इनिठनौ'५।२।११५॥ इतीनिः । बलवानपि ॥४४८॥ ३ निर्देग्धि स्म निर्दिग्धः । 'दिह उपचये'(अ.उ.अ.), निष्ठा। ४ मांसमस्यास्ति मांसलः । 'सिध्मादिभ्यश्च'५।२।९७॥ इति लच् । ५ उपचीयते स्म उपचितः । 'चिञ् चयने'(स्वा.-
४० उ.अ.), निष्ठा । पञ्च बलवतः ॥
अथ दुर्बलः कृशः ।
क्षामः क्षीणस्तनुच्छांतस्तलिनाऽमांसपेलवाः ।।४४९॥
१ दुर् निन्दितं बलमस्य दुर्बलः । २ कृश्यति स्म कृशः । 'कृश तनूकरणे'(दि.प.से.), निष्ठा, 'अनुपसर्गात् फुल्लक्षीबकृशोल्लाघाः'८।२५५॥ इति साधुः । ३ क्षायति स्म क्षामः । ': क्षये'(भ्वा.प.अ.), [निष्ठा], 'क्षायो मः' ८।२५३॥ इति निष्ठातस्य मत्वम् । ४ क्षयति स्म क्षीणः। 'क्षि क्षये'(भ्वा.प.अ.), 'निष्ठायामण्यदर्थे '६।४।६०॥ इत्यादिना दीर्घः, "क्षियो दीर्घात्'८।२॥४६॥ इति निष्ठानत्वम् । ५ तनोति
५० कार्यं तनुः । 'तनु विस्तारे '(त.उ.से.), 'भृमृशीतृचरित्सरि तनि[धनि]मिमस्जिभ्य उ:'(उणा-७)इत्युः । ६ छ्यति स्म छातः। 'छो छेदने'(दि.प.अ.), निष्ठा, 'आदेच:-'६।१।४५॥ इत्यात्वम्। बाहुल्यात् तृषिमृषिभ्यां तन् वा । मांसोच्छेदा वा छातः। शात इति तालव्यादिरपि । ७ तनोति कार्यं तलिनः। बाहुलकादिननि साधुः। ८ अल्पमांसः अमांसः। अल्पार्थोऽत्र नन् । ९ पेलति गच्छति क्षामतां पेलवः । 'पेल गतौ' (भ्वा.प.से.), बाहुलकादवप्रत्ययः। नव दुर्बलस्य ॥४४९॥
पिचिण्डिलो बृहत्कुक्षिस्तुन्दितुन्दिकतुन्दिलाः ।
उंदर्युदरले
६०
१. '-समाप्तो' इति ४॥ २. 'ह्वलयति' इति३॥ ३. 'इति' इति ३प्रतौ नास्ति ॥ ४. 'स्थः किच्च' इत्युणादिगणे ॥ ५. ३प्रतौ नास्ति॥ ६. 'उका-' इति २॥ ७. 'निष्ठायाम्' इत्यष्टाध्याय्यां न दृश्यते ॥ ८. '-पह्वराष्ट्ररचि साधवः' इत्युणादिगणसूत्रे न दृश्यते ॥ ९. '-मणो' इति३॥ १०. '-गतौ' इति३॥ ११. 'द्वेष्ये द्वेषार्हे अक्षिगतशब्दः । यथा प्रियः स्नेहाद् हृद्तत्वेन व्यपदिश्यते, तया (तथा) शत्रुरपि रुषा सदा दृश्यमानत्वाद् अक्षिगतत्वेनेति अक्षिविषयं गतः अक्षिगतः" इति पदचन्द्रिका, भा-३, विशेष्यनिघ्नवर्ग:(प्राणिवर्ग:), शो-४५, पृ.४१ ॥ १२. 'निर्दिग्धति' इति ३॥ १३. सर्वादशेषु दृश्यते, परमत्रानुचितं प्रतिभाति ॥ १४. 'निष्ठान्तस्य' इति ३॥ १५. 'बाहुलकात्' इति २॥ १६. 'फेलवः' इति१॥ १७. 'फेल' इति १॥
१ पिचिण्डमुदरमतिशयेनाऽस्याऽस्ति पिचिण्डिलः। पिच्छादित्वादिलच्। २ बृहत्कुक्षिरस्य बृहत्कुक्षिः । ३ तुन्द मतिशयितमुदरमस्यास्ति तुन्दी । ४ एवं तुन्दिकः । तुन्दा दिभ्य इलच्च'५।२।११७॥ इति चकाराद् इनिठनौ यथाक्रमम् । ५ तुन्दमतिशयितमुदरमस्यास्ति तुन्दिलः । तुन्दादित्वादिलच् । स्वामी तु-तुन्दिवलिवटेर्भ:५२१३९॥ इति भप्रत्यये "तुन्दिभः" [अम.क्षीर.२७।४४ ॥] इत्याह । ६ एवम् उदरी । ७ तुन्दा दित्वाद् उदरिलः । उदरिकोऽपि । सप्त 'फांदालु' इति ख्यातस्य ॥
१० विखविखुविना अनासिके ॥४५०॥
१-३ विगता नासिकाऽस्य विखः, विखुः, विनः। 'खुखौ च'( )इति नासिकाशब्दस्य खुखावादेशौ, 'वे? वक्तव्यः'(वा-५।४।११९॥) इति ग्रादेशश्च । " 'वेः खुखग्रा' ( )इति शाकटायनसूत्रेण खुखाग्रादेशे 'विखुः, विनः, विग्रः' इति रूपत्रयम्"[]इति मिश्राः । "खरणसो विग्रो विखुर्वि नासिक:"[]इति रभसः । “विनसा हतबान्धवः"[भट्टि काव्यम्, सर्गः-५, श्रो-८]इति प्रयोगाद् विनसोऽपि। अनासिकः नासिकारहितः, तत्र । (त्रीणि नासिकारहितस्य। 'नकटा' इति भाषा) ॥४५०॥
२० नतनासिकेऽवनाटोऽवटीटोऽभ्रटोऽपि च ।
१-३ नता नम्रीभूता नासिकाऽस्य नतनासिकः । 'गोस्त्रियोरुपसर्जनस्य'१।२।४८॥ इति हुस्वत्वम्, तत्र। अवनता नासिकाऽस्य अवनाटः, अवटीटः, अवभ्रटः । 'नत(नते) नासिका[याः संज्ञायां टीटनाटभ्रटचः (टीटज्नाटज्भ्रटज:)' ५।२।३१॥ अवाद् नासायां नासानमनेऽप्येते स्युः । “एतत्त्रयं नतायां नासिकायां वर्तित्वात् तद्योगादचि लक्षितलक्षणया ऽवनासिके वर्तते "[]इति मिश्राः । त्रीणि नतनासिकस्य । "चिपिटः" शेषनाममाला ३१०५॥] इति शैषिकम् ॥
खरणास्तु खरणसः
१-२ खरा तीक्ष्णा खरस्य गर्दभस्येव नासिकाऽस्य
३० खरणाः। 'खुरखराभ्यां नस् वक्तव्य : (वा-५४।११८॥)इति नासिकाया नसादेशः, 'पूर्वपदात् संज्ञायामगः'८।४।३ ।। इति णत्वम् । खरणसौ, खरणसः इत्यादि । पक्षे 'अच् नासि कायाः- '५।४।११८॥ इत्यच्, नासिकाया नसादेशश्च, 'पूर्व पदात्-'८४।३ ।। इति णत्वे खरणसः, अदन्तः । द्वे कठिन तीक्ष्णनासावतः ॥
नःक्षुद्रः क्षुद्रनासिकः ॥४५१॥
१ नासिकायां क्षुद्रो नःक्षुद्रः । 'नस् नासिकायाः क्षुद्रे'(हैमसू-३।२।९९॥)इति नसादेशः । २ क्षुद्रा नासिका ऽस्य क्षुद्रनासिकः । द्वे लघुनासिकस्य ॥४५१॥
४० खुरणाः स्यात् खुरणसः
१ खुरः पशुशफः, तद्वन्नासिकाऽस्य खुरणाः । 'खुरखराभ्यां नस्'(वा-५।४।११८॥ इति नसादेशः । २ अचि
१. इतोऽग्रे १प्रतौ 'तुन्दादिकः' इति दृश्यते ॥ २. 'फांदालौ' इति३, फांदाहुँ' इति४॥ ३. द्र. पदचन्द्रिका, भा-२, मनुष्यवर्गः, शो-३०५, पृ.३८१॥ ४. '-विनासकः' इति१॥ ५. द्र. टीकासर्वस्वम्, भा-२, २६४६ ॥, पृ.३०३ ॥, पदचन्द्रिका, भा-२, मनुष्यवर्गः, शो-३०४, पृ.३८१॥, रामाश्रमी २६४६॥, पृ.२७९॥ ६. भट्टिकाव्ये "वि-नासा हत-बान्धवा' इति दृश्यते, तत्रैव जयमङ्गलकृतटीकायाम् "विनासा विगता नासा यस्याः । नासैव नासिकेति '८३४॥ केऽण:७।४।१३॥' इति इस्वत्वे रूपं, तस्या नसादेशस्य विधीयमानत्वादत्र संभव एव नास्ति । विनसेति पाठान्तरम् । तत्र विगता चासौ नासिका च विनासिका । तत इत्थम्भूतलक्षणायां तृतीयायां '२२८॥ पद्दनोमास्-६।१।६३॥ ' इत्यादिना नसादेशः । विगतया नासिकयोपालक्षितेत्यर्थः । विगता नासिका अस्या इति बहुव्रीहिणा व्याख्याने अन्नासिकेत्यादिना अच् नसादेशश्च प्राप्तुतः । तस्य संज्ञाविषयत्वादुपसर्गाच्चेत्यसंज्ञायां विधीयमानो न भवति वेग्रो वक्तव्य इति ग्रादेशो बाधकः ।" (भट्टिकाव्यम्, सर्गः-५, श्री-८, पृ.८८)इति व्याख्यातम् । "वेग्रो वक्तव्यः' । विगता नासिका यस्य विग्रः । 'ख्यश्च । विख्यः। कथं तर्हि "विनसा हतबान्धवा' इति भट्टिः । विगतया नासिकयोपलक्षितेति व्याख्येयम् ।" इति सिद्धान्तकौमुद्यां बहुव्रीहिसमासप्रकरणे ॥ तत्रत्या बालमनोरमाटीका-"वेरेति । वे: परो यो नासिकाशब्दः स ग्रादेशं प्राप्नोतीति भावः । विग्र इति । विगता नासिका यस्येति विग्रहः । प्रकृतवार्तिकेन नासिकाशब्दस्य ग्रादेश इति भावः । विगता नासिका यस्येति विग्रहे नसादेशे टापि च विनसेति भट्टिप्रयोगो न युज्यते । ग्रादेशस्यास्य नसादेशं प्रत्यपवादत्वादित्याक्षिपति-कथं तीति । समाधत्ते-विगतयेति । विगता नासिका विनासिका, प्रादिसमासः । अबहुव्रीहित्वात् न ग्रादेशः । किन्तु टायां 'पद्दन्' इति नसादेशे विनसेति तृतीयान्ते रूपम् । उपलक्षितेत्यध्याहार्यमिति भावः ।' इति वैयाकरणसिद्धान्तकौमुदी, बहुव्रीहिसमासप्रकरणम, पृ.२५९॥ ७. कोष्ठान्तर्गतपाठः १.२.४ न दृश्यते ॥ ८. 'वर्तन्ते' इति१.२ ।। ९. द्र. पदचन्द्रिका, भा-२, मनुष्यवर्गः, श्रो-३०३, पृ.३७९॥, तत्र "एतत् त्रयं नतायां नासिकायां वर्तते। तद्योगाद् अचि (पा.५।२।१२७), लक्षितलक्षणया वा नतनासिके वर्तते ॥" इति दृश्यते ॥१०. 'खुरखराभ्यां च नस् वक्तव्यः' इति महाभाष्यम्, चतुर्थखण्डम्, ५।४।११८॥, पृ.४२० ॥, 'खुरखराभ्यां नस् वक्तव्यः' इति काशिका, भा-५, ५।४।११८॥, पृ.४१२॥, 'खुरखराभ्यां वा नस्' इति सिद्धान्तकौमुदी, पृ.२४६ ॥ ११. 'खरणासौ' इति१, २प्रतौ न दृश्यते ॥
खुरणसः । "खुरखराभ्यां नस् वक्तव्यः' इति [नस्भाव:], 'आदेशान्तरकरणं प्रत्ययनिवृत्त्यर्थम्'[ ]इति कैयटपदमञ्जर्यादौ, अत्र वृत्तौ 'अजपीष्यते'[]इति, तेन, खुरणसः, खरणस इत्यपि भवति''[मा.धातुवृत्तिः, भ्वादिः, धातुसं-४०४]इति माधवः । द्वे विकटनासिकस्य ॥
उन्नसस्तूग्रनासिकः ।
१ उन्नता उद्गता वा नासिकाऽस्य उन्नसः । 'उप सर्गाच्च'५।४।११९॥ इति सूत्रेण अच्, नासिकाया नसादेशश्च। उग्रा उन्नता नासिकाऽस्य उग्रनासिकः । एकमुग्रनासिक
१० स्योच्चनासिकस्य वा ॥
पङ्गुः श्रोणः
१ पणते जीवनार्थं स्तौति पङ्गः । 'पन व्यवहारे स्तुतौ च'(भ्वा.आ.से.), 'वलेमुक् च'(उणा-१९)इति बाहु लकात् पनेरप्युप्रत्ययो गुगागमश्च निपात्यते । स्त्रियां 'पङ्गोश्च' ४।१।६८॥ इत्यूङि पङ्गः । २ श्रोणति जङ्घयोः संहतो भवति श्रोणः । 'श्रोण सङ्घाते'(भ्वा.प.से.), पचाद्यच् । द्वे जङ्घाविकलस्य । “पङ्गलः पीठसी"[शेषनाममाला ३।१०५॥] शैषिके ॥
खलतिस्तु खल्वाट ऐन्द्रलुप्तिकः ॥४५२॥
२० शिपिविष्टो बभ्रुः
१ खलन्ति सञ्चलन्ति केशा अस्मादिति खलतिः। 'खल सञ्चये '(भ्वा.प.से.)अस्य धातोः प्रयोगः, अयं च भीमादिषु पाठाद् ‘भीमादयोऽपादाने'३।४।७४ ॥ इत्यपादान विषयः, अत्रैव पाठादतिप्रत्ययः। धातूनामनेकार्थत्वात् सञ्चलने वृत्तिः। यद्वा 'स्खल सञ्चलने'(भ्वा.प.से.)अस्यैव धातोर्भीमा दिषु पाठात् सलोपः । २ खल्वाट: । 'खल्वाट-'( )इति सूत्रेण साधुः। खलतोऽपि । ३ इन्द्रलुप्तं केशघ्नम्, तेन चरति ऐन्द्रलुप्तिकः । 'तेन चरति'४।४।८॥ इति ठक् ॥४५२॥ ४ शिपिश्चर्म विष्टं दोषव्याप्तमस्य शिपिविष्टः । ५ बिभर्ति निःशङ्कतां युद्धादौ बभ्रुः। 'डुभृञ् धारणादौ'(जु.उ.अ.),
३० 'कुभ्र(कुर्ध)श्च'(उणा-२२)इति भृजः कुप्रत्ययो धातोर्द्वित्वं च । पञ्च खल्वाटस्य ॥
अथ काणः कनन एकहा।
१ काणयति निमीलयति नेत्रं काणः । 'कण निमीलने'(चु.उ.से.), चुरादिः, पचाद्यच् । २ कनति दीप्यते एकदृशा कननः। 'कन दीप्तौ '(भ्वा.प.से.), नन्द्यादित्वाल्ल्युः । ३ एका दृगस्य एकदृक् । त्रीणि काणस्य ॥
निरल्पतनौं
१ बालैरप्ययत्नेन स्पृश्यते पृश्निः। 'स्पृश संस्पर्शने' (तु.प.अ.), घृणिपृश्रिपाणिचूर्णितूर्णय :'(उणा-४९२) इति
४० निप्रत्ययो, गुणाभावः, सलोपश्च निपात्यते । पृच्छत्यौषधमिति प्रच्छेर्वा निप्रत्यये साधुः। 'च्छ्वो:-'६।४।१९॥ इति शत्वे च पृष्टिा। "पृषैः पृष्णिरित्यन्ये''[ ]इति पुरुषोत्तमः । २ अल्पा तनुरस्य अल्पतनुः, तत्र । द्वे लघुशरीरस्य । (""किरा तस्त्वल्पवर्मणि''[शेषनामनाला ३।१०५॥] इति शैषिके) ॥
कुब्जे गडुलः
१ कु ईषद् उब्जमार्जवमस्य कुब्जः। 'उब्ज आर्जवे' (तु.प.से.), शकन्ध्वादिः, पृषोदरादिर्वा, तत्र । न्युब्जोऽपि । यदुक्तं धातुवृत्तौ 'उब्ज आर्जवे'(तु.प.से.), निपूर्वः, "न्युब्जिताः शेरतेऽस्मिन्निति न्युजो रोगविशेषः, 'भुजन्युजौ पाण्युपता-
५० पयोः ७।३।६१ ॥ इति घजि कुत्वाभावो निपात्यते"[धातुवृत्तिः, तुदादिगणः, धातुसं-२३]इति। २ गडुः पृष्ठिग्रन्थिरस्य गडुलः। 'सिध्मादिभ्यश्च ५।२।१७॥ इति लच् । द्वे कुब्जस्य । ( द्वे 'कूबडा' इति ख्यातस्य) ॥
कुकरे कुणिः ॥४५३॥
१ रोगादिभ्रंसित्वात् कुत्सितः करो बाहुरस्य कुकरः, तत्र । २ कुण्यते कुत्सितत्वेन शब्दयते कुणिः । 'कुण शब्द (तु.प.से.), 'कुण सङ्कोचने '(चु.उ.से.)वा, 'इगुपधात्
१. "आदेशप्रत्यययोः प्रसङ्गे केवलादेशविधानार्थं वचनम्" इति कैयटकृतप्रदीपटीका, चतुर्थखण्डम् , ५।४।११८॥, पृ.४२० ॥ २. "केवलादेशवचनं प्रत्ययनिवृत्त्यर्थम्" इति हरदत्तमिश्रकृतपदमञ्जरीटीका, भा-५, ५४११८॥, पृ.४१२॥ ३. "पक्षेऽच्प्रत्ययोऽपीष्यते" इति काशिकावृत्तौ, भा-५, ५।४।११८॥, पृ.४१२॥ ४. '-रप्युप्प्रत्य-' इति २.३.४ ॥ ५. 'इत्युङि पङ्गः' इति ३।। ६. 'संहतौ' इति १.४॥ ७. 'कनी दीप्तिकान्तिगतिषु' इति क्षीरतरङ्गिण्यादौ ॥ ८. तुलनीयोऽमरकोषः २।६४८ ॥ ९. इतोऽग्रे ३प्रतौ 'तूर्णि' इति दृश्यते ॥ १०. उणादिगणे 'तूर्णयः' इत्यस्य स्थाने 'भूर्णि' इति दृश्यते ॥११. 'पृष्टे :' इति ४॥१२. कोष्ठान्तर्गतपाठः १.२.४प्रतिषु न दृश्यते ॥१३. 'न्युब्जेऽपि' इति १॥ १४. 'पृष्ट-' इति ३॥ १५. कोष्ठान्तर्गतपाठः २.४ न दृश्यते, तथा तत्स्थाने १प्रतौ बहिर्भागे 'द्वे कुब्जस्य' इति दृश्यते ॥ १६. तुलनीयोऽमरकोषः २१६४८॥ १७. '-भ्रंस-' इति३ ।। १८. 'कुण शब्दोपकरणयोः' इति क्षीरतरङ्गिण्यादौ ॥ १९. अयं धातुः क्षीरतरङ्गिण्यादौ न दृश्यते, किन्तु माधवीयधातुवृत्तौ चुरादौ 'कूच सङ्कोचने'(चुरादिः, धातुसं-१३३, पृ.५५३)इत्यस्य व्याख्यानावसरे-'अन्ये तु कुणेति हुस्वोपधं पठन्ति" इत्युक्तं सायणेन ॥ २०. 'च' इति४॥
कित्'(उणा-५५९)इतीन्, हुस्वोकारादिरयम् । 'निसर्गतः कूणिपङ्गपोगण्डाः''[]इति नाममालायामार्यापाठाद् दीर्घो कारवांश्च। "कुत्सितः पाणिरस्य"[]इति नैरुक्ताः । द्वे 'टूंटा' इति ख्यातस्य ॥४५३॥
निखर्वः खट्टनः खर्वः खर्वशाखश्च वामनः ।
१ नितरां खर्वति निखर्वः । 'खर्व गतौ'(भ्वा. प.से.), पचाद्यच् । २ खट्टयति खट्टनः, टवर्गाद्यद्वयमध्यः। 'खट्ट संवरणे'(चु.उ.से.), चुरादिः, नन्द्यादित्वाद् ल्युः । ३ खर्वति प्रकृतपुरुषप्रमाणान्न्यूनतां गच्छति खर्वः । 'खर्व गतौ'
१० (भ्वा.प.से.), पचाद्यच् । ४ खर्वा हुस्वाः शाखाः करचरण लक्षणा अस्य खर्वशाखः । ५ वामयति प्राण्यन्तरप्रमाणाद् विपरीतमाचष्टे वामनः । 'तत्करोति-'(गणसू-३।१।२६॥)इति ण्यन्ताद् वामशब्दाद् नन्द्यादित्वाद् ल्युः । वामनशब्दोऽत्र कर चरणहूस्वे देहे वर्तते, ततो वामोऽस्याऽस्ति वामनः, पामा दित्वान इति वा। स्त्रियां गौरादित्वाद् ङीषि वामनी । पञ्च वामनस्य। “हुस्व:"[शेषनाममाला ३।१०६॥ इति शैषिकम्॥
अकर्ण एडो बधिरः
१ अविद्यमानौ कर्णावस्य अकर्णः । २ एडयति श्रवणायाऽन्तरात्मानं प्रेरयति एडः । 'इल प्रेरणे'(चु.उ.से.),
२० चुरादिः, पचाद्यच्, डलयोरैक्यम् । एडः पशुरिवेति वा । आ ईड्यतेऽसाविति वा । आपूर्वः 'ईड स्तुतौ '(अ.आ.से.), पचाद्यच् । ३ बध्यते हितश्रवणाभावात् पीड्यते बधिरः । 'बन्ध बन्धने'(त्र्या.प.अ.), 'इषिमदि-(उणा-५१)इति किरच्। त्रीणि बधिरस्य ॥
दुश्चर्मा तु द्विनग्नकः ॥४५४॥ चण्डश्च( वण्डश्च) शिपिविष्टश्च
१ दुरिति निन्दायाम्, असम्पूर्णत्वाद् दुरिति निन्दितं शेफाग्रस्य चर्माऽस्य दुश्चर्मा, नकारान्तः, शैशवे निश्चर्माग्रशिश्न त्वात्, निराच्छादनत्वाच्च । २ द्विर्नग्नो द्विनग्नकः ।।४५४॥
३ चण्डते(वण्डते) पिधत्ते चण्डः (वण्डः) । 'चडिङ्
३० (वडि) वेष्टने'(भ्वा.आ.से.), पचाद्यच् । ४ शिपिश्चर्म विष्टं दोषव्याप्तमस्य शिपिविष्टः । चत्वारि दुश्चर्मणः । "जन्मारभ्य ___ बालवयोवर्ती यौवनादिवयोवर्ती वाऽसम्पूर्णशिश्नः, सम्पूर्ण शिश्नश्चैवंविध उच्यते, निश्चर्माग्रशिश्नोऽयम्"[ ]इति केचित्॥
खोडखोरौ तु खञ्जके।
१ खोडति गतौ प्रतिहतो भवति खोडः, कवर्ग द्वितीयादिः। 'खोड गतिप्रतीघाते '(भ्वा.प.से.), पचाद्यच् । "खोट:"[ ] इति शब्दप्रभेदः । २ खोरति खोरः । 'खोर (खोर) प्रतीघाते '(भ्वा.प.से.), अच् । ३ खञ्जति खञ्जः। 'खजि गतिवैकल्ये'(भ्वा.प.से.), अच् । खञ्जः पादस्तद्योगा-
४० दर्शआद्यचि वा । ततः स्वार्थे कनि खञ्जकः, तत्र । "अथ खञ्जके खोडखोरौ"[ ]इति रभसः । त्रीणि खञ्जस्य ॥
विकलाङ्गस्तु पोगण्डः
१ विकलान्यङ्गान्यस्य विकलाङ्गः। २ पूयतेऽप सार्यते पोगण्डः। 'पूयी विशरणे'(भ्वा.आ.से.), 'पूयोगादिः' (हैमोणा-१७४)इत्यण्डप्रत्ययः । “पोगण्डो विकलाङ्गकः" []इति रत्नकोषः। “पोगण्डो विकलाङ्गः स्यात्"[हलायुध कोश:२ ३८८॥]इति हलायुधः। अपकृष्टं गच्छति गमेः 'बमन्ताडुः (उणा-१११)पृषोदरादित्वादोत्वे अपोगण्डोऽपि । "अपोगण्डस्तु शिशुके विकलाङ्गे च भीरुके"[विश्वप्रकाश-
५० कोशः, डान्तवर्गः, शो-३९]इति विश्वः । द्वे विकलाङ्गस्य । 'हाथपगजेहना लूला' इति भाषा ॥
ऊर्ध्वज़ुरूर्ध्वजानुकः ॥४५५॥ ऊर्ध्वज्ञश्चापि
१ ऊर्ध्व(ऊर्श्वे) तिष्ठतो यस्य दूरोत्थायिनी जानुनी भवतः स ऊर्ध्वजः । 'ऊर्ध्वाद्विभाषा'५।४।१३०॥ इति जानुनो जुः । जकारजकारसंयोगवान् पञ्चमस्वरान्तोऽयम् । यन्माधैका दशसर्ग:
नुष्यवर्गः, शो-३०६, पृ.३८३॥, रामाश्रमी २६४८॥, प.२८०॥, तत्र '-पोगण्डाः ' इत्यस्य स्थाने '-पोगण्डाः ' इति दृश्यते ॥, मल्लिनाथसूरिकृतामरपदपारिजातटीका, भा-१, २६॥४८॥, पृ.३९० ॥ २. द्र. स्वोपज्ञटीका ३४५३॥, पृ.१०४॥ ९ 'गौरादिङोषि' इति१.२॥ ३. '-क्ये' इति ३॥ ४. इतोऽग्रे १.२प्रत्योः '४' इति दृश्यते ॥ ५. 'प्रतिघाते' इति ४ हैमसम्मतोऽयम्, यद्वा 'खोल' इति बोद्धव्यम्, अत एवोक्तं तस्य व्याख्यानावसरे सायणः "खोड: खाः, पचाद्यच्, लडयोरभेदः" इति, मा.धातुवृत्तिः, भ्वादिः, धातुसं-३६०, पृ.१५१॥ ६. 'प्रतिघाते' इति४॥ ७. द्र. टीकासर्वस्वम्, भा-२, २१६४९॥, पृ.३०७॥, पदचन्द्रिका, भा-२, मनुष्यवर्गः, शो-३०८, पृ.३८४॥, रामाश्रमी २६४९॥, पृ.२८०॥ ८. तुलनीयोऽमरकोषः २६४६॥ ९. द्र. टीकासर्वस्वम्, भा-२, २६४७॥, पृ.३०२॥, पदचन्द्रिका, भा-२, मनुष्यवर्गः, -३०४, पृ.३८०॥ १०. '-दरादोत्वे' इति३॥ ११. विश्वप्रकाशकोशे '-लाङ्गे च भीरुके' इत्यस्य स्थाने '-लाङ्गेतिभीरुके' इति दृश्यते, पृ.४६ ।।
"परिशिथिलितकर्णग्रीवमामीलिताक्षः
क्षणमयमनुभूय स्वप्नमूवंजुरेव ।
रिरसयिषति भूयः शिष्यमग्रे विकीर्ण
पटुतरचपलौष्ठं(-लोष्ठः) प्रस्फुरत्प्रोथमश्वः ॥१॥" [शिशुपालवधम्, सर्गः-११, शो-११]इति। २ ऊर्चे जानुनी अस्य ऊर्ध्वजानुकः ॥४५५॥३ व्याकरणान्तरेऽदन्तज्ञादेशे ऊर्ध्वज्ञः च । त्रीणि ऊर्ध्वज्ञोः । 'ऊंचा ढींचणहुई' तस्येति भाषा ॥
अथ प्रजुप्रज्ञौ विरलजानुके ।
१ प्रगते जानुनी अस्य प्रजुः । 'प्रसंभ्यां जानुनोर्जुः'
१० ५४।१२९ । । २ व्याकरणान्तरेऽदन्तज्ञादेशे प्रज्ञः। 'सम्प्राज्जा नुनो(-जानो)र्जुज्ञौ'(हैमसू-७।३।१५५ ॥) इति सूत्रम् । एतौ जकारबकारसंयोगीयान्तौ । वातादिदोषाद् विरले जानुनी अस्य विरलजानुकः, तत्र । द्वे विरलजानुकस्य ॥
संजुसंज्ञौ युतजानौ
१-२ नित्यं कदाचिद्वा संहते संलग्ने जानुनी अस्य संजुः, संज्ञः च । एतौ जकारजकारसंयोगीयान्तौ । द्वे युतजानुकस्य ।
"प्रजुः प्रगतजानुः स्यात् प्रज्ञोऽप्यत्रैव दृश्यते ।
संजुः संहतजानौ च भवेत् संज्ञोऽपि तत्र हि ॥१॥
२० ऊर्ध्वज़ुरूर्ध्वजानुः स्यादूर्ध्वज्ञोऽप्यूर्ध्वजानुकः ॥" [] इति साहसाङ्कः ॥
वलिनो वलिभः समौ ॥४५६॥
१ (वलिस्त्वक्सङ्कोचोऽस्त्यस्य वलिनः)। 'वल वल्ल संवरणे [सञ्चरणे] चे'(भ्वा.आ.से.), '-इन् '(उणा-५५७) इतीन्, वलिर्जराशूथचर्म, तद्योगात् पामादित्वानः वलिनः । २ वलिरस्यास्ति वलिभः । 'तुन्दिवलिवटेर्भ:'५।२।१३९॥ । द्वे लीलरीवानिति ख्यातस्य ॥४५६॥
उदग्रदन् दन्तुरः स्यात्
१ उदग्रा उन्नता दन्ता अस्य उदग्रदन् । 'अग्रान्त
३० शुद्धशुभ्र-५।४।१४५ ॥ इत्यादिना दत्रादेशः । २ उन्नता दन्ता अस्य
दन्तुरः । 'दन्त उन्नत उरच्'५।२।१०६॥। द्वे लम्बदन्तवतः ॥
प्रलम्बाण्डस्तु मुष्करः ।
१ प्रकर्षेण लम्बावण्डावस्य प्रलम्बाण्डः । २ प्रवृद्धौ मुष्कावस्य मुष्करः । 'ऊषशुषि(सुषि) मुष्कमधो र:' ५२।१०७।। द्वे प्रवृद्धवृषणस्य ॥
अन्धो गताक्षः
१ अन्धयति दृष्टिमुपसंहरति अन्धः। 'अन्ध दृष्ट्युप संहारे '(चु.उ.से.), चुरादिः, पचाद्यच् । अमति गच्छत्यनेनेति वा। 'अम गतौ (भ्वा.प.से.), 'स्कन्द्यमिभ्याम्-'(हैमोणा २५१)इति धः । २ गतेऽक्षिणी यस्य स गताक्षः । 'बहुव्रीहौ
४० सक्थ्यक्ष्णोः [स्वाङ्गात्] षच्५।४।११३॥ । द्वे अन्धस्य । __ "अनेडमूकः''[शेषनाममाला ३।१०६ ॥] इति शैषिकम् ॥
उत्पश्य उन्मुखः
१ उद् ऊर्ध्वं पश्यति उत्पश्यः । 'दृशिर् प्रेक्षणे' (भ्वा.प.अ.), 'पाघ्राधमाधेदृशः शः'३।१।१३७॥ इति शः, शित्त्वात् 'पाघ्राध्मा-७।३७८ ॥ इति पश्यादेशः । २ उ ऊर्ध्वं मुखमस्य उन्मुखः । द्वे ऊर्ध्वं पश्यतः ॥
अधोमुखस्त्वाङ् ॥४५७॥
१ अध:स्थितं मुखमस्य अधोमुखः। २ अवाञ्चति अवाङ् । अवपूर्वः 'अञ्च गतिपूजनयोः'(भ्वा.प.से.), 'ऋ-
५० त्विक्-'३२५९॥ आदिना क्विन् । अवाञ्चौ, अवाञ्चः, शसादौ अवाचः, अवाचा इत्यादि । यन्माघः-"कुर्वन्तमित्यभिभरेण न गानवाचः, पुष्पैर्विराममलिनां च न गानवाचः" [शिशुपाल वधम्, सर्गः-६, शो-७९]इति । अवाचीनोऽपि । “न्युजः" [शेषनाममाला ३१०६॥]इति शैषिकम् । द्वे अधोमुखस्य ॥
मुण्डस्तु मुण्डितः
१ मुण्ड्यते मुण्डः । 'मुडि खण्डने'(भ्वा.प.से.), घञ् । यद्वा मुण्डनं मुण्डः केशापनयनम् , तद्योगादर्श आदित्वादच् । स्त्रियां मुण्डा । २ मुण्ड्यते स्म मुण्डितः। 'मुडि खण्डने'(भ्वा.प.से.), निष्ठा । द्वे मुण्डस्य ॥
६०
१. हैमव्याकरणे 'वोर्ध्वात् ७।३।१५५॥ इत्यनेन जुज्ञौ आदेशौ स्तः ॥ २. 'ऊंचा ढीचण-' इतिर, 'ऊंचा ढींचणा-' इति३॥ ३. द्र. पदचन्द्रिका, भा-१, मनुष्यवर्गः, श्रो-३०५, पृ.३८२ ॥, रामाश्रमी २६॥४७॥, पृ.२८०॥ ४. कोष्ठान्तर्गतपाठः १.३.४प्रतिषु न दृश्यते ॥ ५. सायणसम्मतोऽयं धातुपाठः, 'वल संवरणे' इत्येव स्वामी, 'वल्ल संवरणे' इत्येव धातुप्रदीपोऽपि ॥ ६. '-निति' इति३॥ ७. 'भाषा' इति१॥ ८. 'उष-' इति३.४॥ ९. स्वामिसम्मतोऽयं धातुपाठः, 'दृष्ट्युपघाते' इति मैत्रेयसायणौ ॥ १०. 'गत्यादिषु' इति युक्तः ॥ ११. 'ऊद्' इति१.२॥ १२. 'मुंडि' इति१.२॥