चीवर भिक्षुसङ्घाटी
१ चीयते चीव्यते संव्रियते वा चीवरम् । 'चिञ् चयने'(स्वा.उ.अ.), 'चीवृ आदानसंवरणयो:'(भ्वा.उ.से.), 'छित्वरचत्वर(छत्वर) धीवरपीवर[मीवर]चीवर [तीवरनीवर] गह्वरकट्वरसंयद्वरोपष्करो:'(उणा-२८१)इति साधुः । २ सङ्घ ट्यते सङ्घाटी । 'घट चेष्टायाम् (भ्वा.आ.से.), घञ्, गौरादिः । भिक्षूणां सङ्घाटी भिक्षुसङ्घाटी । द्वे मुनिजनवस्त्रस्य ॥
जीर्णवस्त्रं पटच्चरम् ॥६७८॥
१ जीर्णं च तद् वस्त्रं च जीर्णवस्त्रम्। भङ्गे पट
१० दिति शब्दं चरति करोति पटच्चरम् । पचाद्यच् । पटशब्दाद् 'भूतपूर्वे- '५।३।५३ ॥ इति चरटि । नैरुक्ते तकारागमे वा । "पटच्चरः पटो जीर्णः''[]इति पुंसि माला । एकं जीर्ण वस्त्रस्य ॥६७८॥
शाणी गोणी छिद्रवस्त्रे
१ शणस्येयं शाणी । २ गवा नीयते गोणी । ‘णीञ् प्रापणे'(भ्वा.उ.अ.), 'अन्येभ्योऽपि(अन्येष्वपि-)' ३।२।१०१॥ इति डः, पृषोदरादित्वाण्णत्वम्, 'जानपद-' ४।१४२॥ इत्यादिना ङीष् । छिद्रं च तद् वस्त्रं च छिद्र वस्त्रम्, तत्र । द्वे 'छाटी' इति प्रसिद्धायाः ॥ ।
२० जलार्द्रा क्लिन्नवाससि ।
१ जलेन आर्द्रा जलार्द्रा, स्त्रीलिङ्गः । “आर्द्रवस्त्रं जलार्दा स्यात्''[हारावली, पादावधिः, श्री-१९६]इति हारा वली। "श्रीखण्डाम्बुयुतं वस्त्रं जलार्द्रत्यभिधीयते''[ ] इत्यन्ये। क्लिद्यति स्म क्लिनः । 'क्लिर्दू आर्दीभावे'(दि.प.वे.), दिवादौ, पुषादिः, परस्मैपदी, निष्ठा । एकं जलार्द्रवस्त्रस्य ॥
पर्यस्तिका परिकरः पर्यश्चावसक्थिका ॥६७९॥
१ पर्यस्यते वेष्ट्यतेऽनया पर्यस्तिः । 'असु क्षेपणे' (दि.प.से.), 'क्तिच्तौ च संज्ञायाम्'३।३।१७४।। स्वार्थे कनि पर्यस्तिका। २ परिक्रियते वपुरनेन परिकरः। 'डुकृञ् करणे' (त.उ.अ.), 'ऋदोरप्'३।३।५७। 'पुंसि संज्ञायाम्-'३।३।११८॥
३० इति घो वा । ३ पर्यङ्ग्यतेऽसौ पर्यङ्कः । 'अङ्क पदे लक्षणे च'(चु.उ.से.), कर्मणि घञ् । परिगतोऽङ्कमिति वा । पल्य कोऽपि । ४ अवनद्धेऽवकृष्टे वा सक्थिनी अस्याम् अवसक्थी। 'बहुव्रीहौ सक्थ्यक्ष्णोः [स्वाङ्गात्] षच्'५।४।११३॥, ततो गौरादित्वाद् ङीष् , ततः स्वार्थे कन्, 'केऽण:'७।४।१३॥ इति ह्रस्वत्वम् । चत्वारि ‘पालठी ' इति ख्यातायाः ॥६७९॥
कुथे वर्णः परिस्तोमः प्रवेणीनवंताऽऽस्तराः ।
१ कुथ्यते(कुन्थ्यते) क्लिश्यते कुथः, त्रिलिङ्गः । 'कुथ(कुथि) हिंसाक्लेशनयो: '(भ्वा.प.से.), स्थादित्वात् कः, तत्र । २ वर्ण्यते वर्ण: । 'वर्ण वर्णक्रियाविस्तारगुणवचनेषु'
४० (चु.उ.से.), घञ् । वर्णकम्बलैकदेशो वा, भीमवत् । ३ परिस्तोम्यते प्रस्तीर्यते परिस्तोमः । वर्णपरिस्तोम इत्यखण्ड मित्यन्ये । ४ प्रवीयते प्रवेणिः, डीषि प्रवेणी । ५ नवं तनोत्यात्मानं नवतम् । 'तनु विस्तारे'(त.उ.से), 'अन्येभ्योऽपि (अन्यप्वपि-)'३।२।१०१॥ इति डः। ६ आस्तीर्यते आस्तरः । 'स्तृञ् आच्छादने'(त्र्या.उ.से.), 'ऋदोरप्'३।३।५७॥ आस्त रणमपि । अयं च हस्तिरथप्रावरणादावुपयुज्यते । यद् वाचस्पतिः
"विनियोगस्त्वस्य हस्तिरथप्रावरणादौ"["] ।
"प्रवेण्यास्तरणं वर्णः परिस्तोमः कुथः कुश: ।
५० नवतं चेति तुल्यार्थाः प्रच्छदश्चोत्तरच्छदः ॥१॥"
[हलायुधकोशः २।३०८]इति हलायुधः । "नववर्णकम्बले आच्छादनमात्रे च"[ ]इति तट्टीका । षट् सामान्येन गज रथादीनामुपरि झूलिप्रभृतिः, अन्यत्र'दुलीचाशत्रुजीयाजमा दिविछावणां ' इति ख्यातस्य ॥
अपटी काण्डपटः स्यात् प्रतिसीरा जवन्यपि ॥६८०॥
१. 'छित्वरधीवरचत्वर-' इति३.४॥ २. '-कट्वरसंयद्वराः' इत्युणादिगणे ॥ ३. द्र. स्वोपज्ञटीका३६७८ ॥, पृ.१५१॥ ४. 'जलार्द्रः' इति हारावल्याम्, पृ.४०६ ॥ ५. 'क्लिद्यति' इति३॥ ६. 'क्लिदौ' इति१.२.४॥ ७. 'आर्द्र-' इति१.२॥, 'आर्द्रभावे' इति क्षीरतरङ्गिणी ॥ ८. 'डीप्' इति३॥ ९. 'कनि' इति३॥ १०. 'पलगठी' इति४॥ ११. 'कुथि पुथि लुथि मन्थ हिंसासंक्लेशयोः' इति क्षीरतरङ्गिणी, 'कुथि पुथि लुथि मथि हिंसासंक्लेशनयोः' इति धातुप्रदीपः, 'कुथि पुथि लुथि मथि मन्थ हिंसासङ्क्लेशनयोः' इति माधवीयधातुवृत्तिः ॥ १२. 'वर्णः' इति१.२.४
थि मन्थ हिंसासक्लेशनयोः' इति माधवीयधातवत्तिः ॥ १२. 'वर्णः' इति१.२.४ ॥ १३. द्र. स्वोपज्ञटीका३६८०॥ पृ.१५२ ॥ तत्र '-प्रावरणादौ' इत्यस्य स्थाने '-प्रावरणादिषु' इति दृश्यते ॥ १४. 'कुशः कुथः' इति१.४, 'कुशः कुशः' इति२, 'कुथः कुथा' इति हलायुधकोशे, २३०८॥, पृ.३७॥ १५. '-वण' इति३॥
तिरस्करिणि
१ प्रावरीतुमयोग्यत्वाद् न पटी अपटी, स्त्रियाम् । २ काण्डः कुत्सितः पटः काण्डपटः । ३ प्रतिसिनोति प्रतिबध्नाति वेष्टयत्यावृणोति वा प्रतिसीरा । 'षिञ् बन्धने'(स्वा.उ.अ.), 'शुसिचिमीनां दीर्घश्च'(उणा-१८३)इति रग्दी?, टाप् । "कृत्स्नं कुसुम्भकुसूलौ प्रतिसीरा तस्करासारौ"[ ]इत्यूष्मविवेकाद् दन्त मध्या (दन्त्यमध्या)। ४ जुवन्त्यत्रेति जवनी । जुः सौत्रो धातुः, अधिकरणे ल्युट । स्वार्थे कनि जवनिकाऽपि । “जव निकाजवनिकान्तिहृदा तो"[]इति कप्फिणाभ्युदययमका
१० दन्तस्थवकारमध्या चवर्गतृतीयादिः । यमनिकेति अन्तस्थादिः
पवर्गपञ्चममध्या च । यमयति उपरमयतीति ल्युटि कनि टापि 'प्रत्ययस्थात्-७।३।४४॥ इतीत्वम् ॥६८०॥ ५ "तिरोऽन्तर्धानं करोति तिरस्करिणी''[ ]इति पुरुषोत्तमः । " 'प्रजोरिनिः' ३।२।१५६॥ इति योगविभागादिनिः''[ ]इति पुरुषोत्तमः । "तिरस्क्रियतेऽनयेति करणे ल्युटि तिरस्करणी "[ ]इति तु सुभूतिः । “तिरोऽन्तौ तिर्यगर्थे"[अमरकोषः३।३।२५६॥] इत्यमरः । पञ्च 'परीछि' इति प्रसिद्धायाः ॥
__ अथोल्लोचो वितानं कदकोऽपि च ।
चन्द्रोदये
२० १ उद् ऊर्ध्वं लोच्यते दृश्यते, उल्लुच्यते अपनीयते आतपादिरनेन वा उल्लोचः । 'लोचू दर्शने'(भ्वा.आ.से.), 'लुच(लुञ्च) अपनयने'(भ्वा.प.से.) वा । करणे घञ् । ऊर्ध्वं लोचयत्युपरि दीप्यते वा, लोचेश्चौरादिकस्य दीप्त्यर्थस्य पचाद्यचि । २ विशेषेण विशेषाय आतपादिवारणाय वा तन्यत इति घजि वितानम्, पुंक्ली. । ३ कुत्सितमकति कदकः । 'अक गतौ '(भ्वा.प.से.), अच् । ४ वस्त्रनिर्मितैश्चन्द्रैरुदयते चन्द्रोदयः । 'अय गतौ '(भ्वा.आ.से.), अच् । चन्द्रोदय इवोज्ज्वलो वा, तत्र । चन्द्रातपोऽपि । चत्वारि 'चन्द्रूयाँ' इति ख्यातस्य ॥
स्थुलं दूष्ये
३० १ स्थुडति संवृणोति स्थुलम् । 'स्थुडे संवरणे' (तु.प.से.), अच् । २ दुष्यते वेष्टनरूपं विकृतिं प्राप्यते दूष्यम् । 'दुष वैकृत्ये'(दि.प.अ.), ण्यन्ताद् 'अचो यत्' ३।१९७॥, उपधाया दीर्घत्वम्, क्लीबे । यदाह-"त्रिषु दूष्यं दूषणीये क्लीबे वस्त्रे च तद्गृहे ''[मेदिनीकोशः, यान्त वर्गः, श्रो-३१]इति । तत्र । 'दूष्ये' इति विषयसप्तमी । द्वे दूष्यस्य । 'वस्त्रगृह' इति भाषा ॥
केणिका पटकुट्यपि ॥६८१॥ गुणलयनिकायां स्यात्
१ किणन्ति गच्छन्त्यत्रै केणिका । किणः सौत्रः,
४० ण्वुल् । २ पटानां वस्त्राणां कुटीव पटकुटी ॥६८१॥ २ गुणा लीयन्तेऽस्यां गुणलयिनी । 'लीङ् श्रूषणे'(दि.आ.अ.), कनि गुणलयनिका, तत्र । त्रीणि पटकुट्याः , 'रावटी' इत्यादिभाषा । “दूष्याचं वस्त्रवेश्मनि''[अमरकोषः२।६। १२०॥] इत्यमरः । “आद्यशब्दात् पटकुटी गुणलयनी स्थुलं च"[अम.क्षीर.२६।१२०॥]इति क्षीरस्वामी । तथाऽऽह हला युधोऽपि-"दूष्यं स्थुलं पटकुटी गुणलयनी केणिका च निर्दिष्टा"[हलायुधकोश:२१४५१ ॥]इति । "पञ्च वस्त्रगृहे" [ ]इति तट्टीका ॥
संस्तरप्रस्तरौ" समौ ।
५० १ समन्तात् स्तीर्यते संस्तरः । 'स्तृञ् आच्छादने' (त्र्या.उ.से.), 'ऋदोरप्'३३५७॥, पल्लवादिरचिता शय्या । २ प्रस्तीर्यत इति प्रस्तरः । स्रस्तरोऽपि । स्रंसतेऽत्रेति स्र स्तरः, बाहुलकादरप्रत्यये निपात्यते । द्वे पल्लवादिरचित शय्यायाः । 'साथरा' इति भाषा ॥
तल्यं शय्या शयनीयं शयनं तर्लिनं च तत् ॥६८२॥
१. द्र. पदचन्द्रिका, भा-२, मनुष्यवर्गः, शो-३७८, पृ.४६६ ॥, तत्र "तस्करासारा" इति दृश्यते ॥ २. 'तव' इति४॥ ३. द्र. पदचन्द्रिका, भा-२, मनुष्यवर्गः, श्रो-३७८, पृ.४६६ ॥, तत्र "जवनिकान्तिकदा तदा" इति दृश्यते ॥ ४. 'कफिणा-' इतिर, 'कर्पिण्या-' इति३॥ ५. '-रणी' इति३॥ ६. द्र. पदचन्द्रिका, भा-२, मनुष्यवर्गः, श्रो-३७८, पृ.४६७॥, तत्र 'तिरस्करणी' इति दृश्यते ॥ ७. 'ल्युट्' इति३॥ ८. '-रिणी' इति४॥ ९. 'परियचि' इति३॥ १०. 'अक अग कुटिलायां गतौ' इति क्षीरतरङ्गिण्यादौ ॥ ११. 'चन्द्रूआ' इति१.४॥ १२. 'स्थुल' इतिर ॥ १३. 'दोषो णौ'६।४।९॥ इत्यनेन दीर्घत्वं बोध्यम् ॥ सूत्रव्याख्यावसरे भट्टोजिदीक्षितेन 'दुष इति सुवचम्' इत्युक्तं सिद्धान्तकौमुद्यां ण्यन्तप्रक्रियाप्रकरणे, पृ.४९९ ॥ १४. 'दूष्यं त्रिषु' इति मेदिनीकोशे, पृ.११५॥ १५. '-ति' इति४॥ १६. '-स्त्रस्तरौ' इति मुद्रितमूले, स्वोपज्ञटीकाऽपि तमाश्रित्यैव ॥ १७. '-तो' इति१.२.४॥ १८. '-षायाः' इति३॥ १९. 'तलिमं' इति२.३, 'तलिमं' इति मुद्रितमूलम, स्वोपज्ञटीकाऽपि तमाश्रित्य ॥
१ तलत्यस्मिन् तल्पम्, पुंक्ली. । "पुंसि"[ ]इति भट्टिः ।
"तास्तया तर्जिताः सर्वा मुखैीमा यथागतम् ।
__ ययुः सुषुप्सवस्तल्पा(तल्पान्) भीमैर्वचनकर्मभिः ॥१॥"
[भट्टिकाव्यम्, सर्गः-८, शो-१०१]इति । अमरस्तु-"तल्पं शय्याट्टदारेषु'[अमरकोषः ३।३।१३१॥] इति क्लीबमाह। 'तल प्रतिष्ठायाम्'(भ्वा.प.से.), 'खष्पशिल्पशष्पबाष्परूपतर्पतल्पाः ' (उणा-३०८)इति सूत्रेण साधुः । तृप्यन्त्यत्रेति वा, अनेनैव सूत्रेण साधुः। २ शय्यतेऽत्रेति शय्या। 'शीङ् स्वप्ने'(अ.आ.से.),
१० 'संज्ञायां समजनिषदनिपतमनविदषुशीभृत्रिणः'३।३।९९॥ इति क्यप्, ('अयङ् यि क्ङिति ७।४।२२ ॥ इत्ययङ्), टाप् । ३ शय्यतेऽत्रेति शयनीयम् । ‘कृत्यल्युटो बहुलम्'३।३।१३३॥ इत्यधिकरणेऽनीयर् । ४ शय्यतेऽत्रेति शयनम् । ५ तल्यतेऽत्रेति तलिनम् । 'तल प्रतिष्ठायाम्'(भ्वा.प.से.), बाहुलकाद् ‘वेपि तुह्योईस्वश्च'(उणा-२१०)इतीनन् । पञ्च सामान्येन शय्यामात्र स्य । 'सउडितलाऊ पथरणां' इति भाषा ॥६८२॥
मञ्चमञ्चकपर्यङ्कपल्यङ्काः खट्वया समाः ।
१ मच्यते(मञ्च्यते) धार्यतेऽनेन मञ्चः, पुंक्ली. । 'मचि धारणेच्छा(-णोच्छ्राय-)पूजनेषु'(भ्वा.आ.से.), करणे
२० घञ्। मञ्चतीति पचाद्यच् वा । २ स्वार्थे कनि मञ्चकः, पुंक्ली. । ३-४ परि सर्वतो भावेनाऽङ्ग्यते चिह्नयतेऽयमिति, कर्मणि घञ्, ‘परेश्च घाङ्कयोः'८।२।२२ ॥ इति वा लत्वम्, पर्यङ्क, पल्यङ्कः । ५ खट्यत आकाक्ष्यते शयनार्थिभिरिति खट्वा । 'खट आकाङ्क्षायाम्'(भ्वा.प.से.), 'अशिखटि विशिभ्यः क्व :'(उणा- )इति वप्रत्ययः, ततष्टाप् । पञ्च मञ्चकस्य ॥
उच्छीर्षकमुपाद् धानबही
१ उदुपरि शीर्षमस्य उच्छीर्षकम् । २-३ उप शब्दाद् धानबौं योज्यौ । उपधीयते आरोप्यते शिरोऽत्रेति
३० उपधानम् । 'डुधाञ् धारणादौ'(जु.उ.अ.), अधिकरणे ल्युट् । उपबृह्यत उद्यम्यते शिरोऽत्रेति, अधिकरणे घजि उपबर्हः । त्रीणि 'ओसीसुं' इति ख्यातस्य ॥
पाले पतद्ग्रहः ॥६८३॥ प्रतिग्राहः
१ पाल्यते पालः, पुंसि । “पालोऽस्त्री"[वैजयन्ती कोष:४।३।१६०॥]इति तु वैजयन्ती । २ गृह्यतेऽनेन ग्रहः, 'ग्रहवृदृ-'३।३।५८॥ इत्यपि, पततो ग्रहः पतद्ग्रहः। घनि पतद्ग्राहोऽपि॥६८३॥ ३ प्रतिगृह्णाति चर्चितद्रव्यं प्रतिग्रहः । 'ग्रहवृह-'३।३।५८॥ इत्यप् । ज्वलादित्वाण्णे प्रतिग्राहः अपि । त्रीणि पित्तलादिमयताम्बूलादिप्रक्षेपणभाण्डस्य ॥
४० मकुरात्मदर्शाऽऽदर्शास्तु दर्पणे ।
१ मङ्कत मण्डयति मकुरः । 'मकि मण्डने'(भ्वा. आ.से.), 'मकुरद१रौ'(उणा-४०)इति कुरनलोपौ, पञ्चम स्वरमध्यः । मुञ्चति ज्योतिरिति मुकुरः, व्युकारवांश्च । 'मुलु मोक्षणे'(तु.उ.अ.), कुरचि साधुः। "मङ्करः"[ ]इति स्वामी। २ आत्मा दृश्यतेऽनेन आत्मदर्शः । दृशः करणे घञ् । ३ आदृश्यते रूपमत्रेति आदर्शः । 'हलच'३।३।१२१॥ इत्यधि करणे घञ् । ४ दर्पयति हर्षयति दर्पणः । 'दृप हर्षण मोचनयोः'(दि.प.अ.), णिजन्तः, नन्द्यादित्वाद् ल्युः, 'अट् कुप्वा-'८।४।२॥ आदिना णत्वम् । चत्वारि दर्पणस्य ॥
५० स्याद् वेत्रासनमासन्दी
१ वेत्रलताघटितमासनं वेत्रासनम् । २ एत्य आसी दन्त्यस्याम् आसन्दी । पृषोदरादिः, गौरादिः । “आसन्दी पुंस्त्रीलिङ्गः"[ ]इति हलायुधटीका । आसन्दः आङोऽभावे सन्दोऽपि । द्वे वेत्रासनस्य । 'कदीला सांगूओं' इति भाषा ॥
विष्टरः पीठमासनम् ॥६८४॥
१ विस्तृणाति भुवं विष्टरः, पुंक्ली.। 'स्तृञ् आच्छा दने'(त्र्या.उ.से.), 'वृक्षाच्छादनयो(वृक्षासनयो)विष्टरः'८।३। ९३ ॥ इति साधुः । २ पीयत उपवेशनेनाऽन्तर्धीयते पीठम्,
१. भट्टः' इति१ ॥ २. 'तल्पं' इति भट्टिकाव्ये ॥ ३. '-पर्पतल्पाः' इत्युणादिगणे ॥ ४. कोष्ठान्तर्गतपाठः १.३प्रत्योर्न दृश्यते ॥ ५. 'इतीनन्' इति१.२.४ ॥ ६. '-रणा' इति३॥ ७. 'अशुपषिलटिकणिखटिविशिभ्यः क्वन्'(उणा-१४९)इत्युणादिगणसूत्रम् ॥ ८. 'वालो-' इति वैजयन्तीकोषे, ४।३।१६० ॥, पृ.१२६॥ ९. 'मुकु-' इति मुद्रितमूलम्, स्वोपज्ञटीकाऽपि तमाश्रित्यैव ॥ १०. 'मङ्कयति' इति३, 'मङ्कति' इति२ ॥ ११. '-ध्यं' इति१॥ १२. अम.क्षीरस्वामिकृतटीकायाम् "मक्यते मण्ड्यतेऽनेन मु(म)कुरः" इति दृश्यते, २६।१४० ॥, पृ.१६२ ॥ १३. १.२प्रत्योर्नास्ति ॥
स्त्रीक्लीबलिङ्गः । पीङो बाहुलकाट्ठक् । पिठति हिनस्ति श्रमं वा । 'पिठ हिंसायाम्'(भ्वा.प.से.), 'इगुपध-'३।१। १३५॥ इति के, 'अन्येभ्योऽपि(अन्येषामपि) दृश्यते'६।३। १३७॥ इति दीर्घत्वम् । “विष्टरः पीठमस्त्रियाम्'[त्रिकाण्ड शेषः २।६।४१॥] इति त्रिकाण्डशेषः । ३ आस्यत उप विश्यतेऽत्र आसनम्, पुंक्ली. । 'आस उपवेशने'(अ. आ.से.), 'करणाधिकरणयो:-'३।३।११७॥ इति ल्युट् । (त्रीणि आसनस्य) ॥६८४॥
कसिपुर्भोजनाच्छादौ
१० १ कसति गच्छति क्लेशोऽनेन कसिपुः, पुंक्ली. दन्त्यमध्यः । 'कस गतौ'(भ्वा.प.से.), 'कस्यर्तिभ्यामिपुक्' (हैमोणा-७९८)। कशति क्लेशमिति "कशिपुः"[अमरकोषः ३।३।१३०॥] तालव्यमध्य इत्यमरः । भोजनं चाच्छादश्च भोजनाच्छादौ । एकं युगपद्भोजनाच्छादनयोः ॥
औशीरं शयनासने ।
१ उश्यत उशीरम् । 'वश कान्तौ'(अ.प.से.), बाहुलकात् कीरन् । प्रज्ञाद्यणि औशीरम् । शयनं च आसनं च शयनासने । एकं युगपच्छयनासनयोः ॥
लाक्षा द्रुमामयो राक्षा रङ्गमाता पलङ्कषा ॥६८५॥
२० जतु क्षतना कृमिजा
१ लक्ष्यते दृश्यत अङ्ग्यते वा लाक्षा । 'लक्ष दर्शनाङ्कनयो:'(चु.उ.से.), भिदादिपाठादङ् वृद्धिश्च । २ द्रुम स्यामय इव द्रुमामयः। ३ राजते राक्षा। 'राजे दीप्तौ'(अ. उ.से.), बाहुलकाद् 'भृ(वृत्)वदि- '(उणा-३४२) इति सः। कपिरि(कपिलि)कादित्वाल्लत्वेऽस्याऽपि धातोर्लाक्षा राक्षा लक्षा (रक्षा) च । "रक्षा च लाक्षायां रक्षणेऽपि च"[]इति रुद्ररभसौ । ४ रङ्गस्य मातेव रङ्गमाता । ५ पलं कषन्ति पलङ्कषा । 'कष हिंसायाम्'(भ्वा.प.से.), बाहुलकात् खश्, खित्त्वाद् मुम् ॥६८५॥ ६ जायते जतु, क्लीबे । 'जनी __प्रादुर्भावे'(दि.आ.से.), बाहुलकात् तुक्, आत्वाभावश्च । ७
३० क्षतं हन्ति क्षतघ्ना । स्थादित्वात् कः। ८ कृमिभिर्जन्यते कृमिजा । 'अन्येष्वपि-'३।२।१०१॥ इति डः। अष्टौ लाक्षायाः॥
यावालक्तौ तु तद्रसः ।
१ यूयते मिश्रीभूयतेऽनेन यवः । 'यु मिश्रणे' (अ.प.से.), 'ऋदोरप्'३।३।५७॥ इत्यप्, प्रज्ञाद्यणि यावः । बाहुलकाद् घञि वा । कनि यावकोऽपि । २ रञ्जः कर्मणि क्तप्रत्यये रक्तः । न रक्तः अरक्तः, अत एव रक्त इत्यर्थः।
कपिरि(कपिलि)कादित्वाल्लत्वे अलक्तः, अजादिः । “अधरे ष्वलक्तकः'' [शिशुपालवधम्, सर्गः-९, शो-४६]इति माघात् । न लक्तो दुर्गन्धत्वाद् न केनाऽप्यास्वादितः, 'रक लक आस्वा-
४० दने '(चु.उ.से.), क्तप्रत्यये वा । तस्या लाक्षाया रसस्त द्रसः । यद् धनपाल:-"तद्रागो यावकोऽलक्तकः स्मृतः" []इति । अमरादयो यावादिभिः सहैकार्थावाहुः । द्वे 'अलता' इति ख्यातस्य ॥
अञ्जनं कजलम्
१ अञ्ज्यतेऽनेन अञ्जनम् । 'अज्जू [व्यक्ति]म्रक्ष णादौ '(रु.प.वे.), करणे ल्युट । २ कर्जति व्यथते चक्षुः कजलम् । 'कर्ज व्यथने'(भ्वा.प.से.), कलचि साधु : । द्वे कज्जलस्य ॥
दीपः प्रदीपः कज्जलध्वजः ॥६८६॥
५० स्नेहप्रियो गृहमणिर्दशाकर्षों" दशेन्धनः ।
१ दीप्यतेऽनेन दीपः । 'दीपी दीप्तौ'(दि.आ.से.), घञ् । दीपयतीत्यच् वा । २ अन्योपसर्गनिवृत्त्यर्थं प्रदीपः, पुंक्ली. । मेरुसुमेरुवद् धात्वर्थानुवर्तकोऽत्र प्रशब्दः । ३ कज्जलं ध्वजोऽस्य कजलध्वजः ॥६८६॥ ४ स्नेहस्तैलं प्रियमस्य स्नेहप्रियः । ५ गृहस्य मणिरिव गृहमणिः । ६
१. 'स्त्रीक्ली' इति३॥ २. 'पिठ हिंसासंक्लेशनयोः' इति स्वामिसायणौ, 'पिठ हिंसासंक्लेशयोः' इति मैत्रेयः ॥ ३. कोष्ठान्तर्गतपाठः१.२प्रत्योर्न दृश्यते ॥ ४. 'कशि-' इति४॥ ५. 'राज' ३.४ ।। ६. द्र. पदचन्द्रिका, भा-२, मनुष्यवर्गः, श्री-३८३, पृ.४७१ ॥, तत्र "रलयोरेकत्र स्मृतेर्वा । 'राक्षा,' 'लाक्षा' । 'रक्षा' च । "लाक्षायां रक्षणे रक्षा इति रुद्ररभसौ" इति दृश्यते ॥ ७. 'कषखषशिष-' इत्यादिदण्डकोऽयं धातुः ॥ ८. 'फलिपाटिनमिमनिजनां गुक्पटिनाकिधतश्च'(उणा-१८)इत्युणादिगणसूत्रविद्यमानत्वादिदं विचारणीयम् ॥ १. 'क्षन्ति' इति४॥ १०. 'रक्तक' इति३॥ ११. 'प्रयोगात्' इति१॥ १२. चन्द्रसम्मतोऽयं धातुपाठः, द्र. क्षीरतरङ्गिणी, चुरादिः, धातुसं-१८७, पृ.३१५॥ १३. द्र. स्वोपज्ञटीका३६८६॥, पृ.१५३॥ १४. 'ग्रह-' इति४॥ १५. '-मणिदशाकर्षों' इति३॥
दशां वर्तिकामाकर्षति दशाकर्षः । ७ दशैवेन्धनमस्य दशे न्धनः । सप्त दीपस्य । 'जोइक्खो' देश्याम् । "दोषातिलक: [इत्यपि], शिखातरुर्दीपवृक्षो ज्योत्स्नावृक्षोऽथ लोचकः" [त्रिकाण्डशेषः २६।४३॥] इति त्रिकाण्डशेषः ॥
व्यजनं तालवृन्तम्
१ व्यज्यते क्षिप्यते वायुरनेन व्यञ्जनम् (व्यजनम् )। 'अज गतौ क्षेपणे च'(भ्वा.प.से.), करणे ल्युट् । 'बहुलं संज्ञाच्छन्दसो:-'(वा-२४५४॥)इति न वीभावः । २ ताल वृन्तविकारत्वात् तालम्, तालस्य वृन्तं घटधारेव शैत्यजनक
१० त्वात् तालवृन्तम् । "वृन्तं प्रसवबन्धे स्याद् घटधाराकुचा ग्रयोः"[विश्वप्रकाशकोशः, तान्तवर्गः, श्रो-३१]इति विश्वः । अन्यत्राऽपि व्यजनमुपचारात् । द्वे व्यजनस्य ॥
तद् धवित्रं मृगचर्मणः ॥६८७॥
१ तद्धि व्यजनं मृगश्चर्मणश्चेद् धूयतेऽग्निरनेन धवि त्रम् । 'धूञ् कम्पने'(स्वा.क्या.चु.उ.वे.), 'अर्तिलूधू सूखनसहचर इत्रः३।२।१८४॥ इतीत्रः । 'धू विधूनने' (तु.प.से.), तुदादिः, 'कुटे: किच्च'(उणा-५२०) इत्यादि ज्ञापकाद् ‘गाङ्कुटादिभ्योऽणिन्ङित्'१।२।१॥ इत्यस्याऽनित्य त्वाद् गुणः । हरदत्तस्तु ङित्त्वमेवेच्छन् धुवित्रमित्युवङमे
२० वाहे । एतच्च यज्ञोपकरणे प्रसिद्धम् ॥
आलावर्तं तु वस्त्रस्य
१ आरादावर्त्यते आलावर्तम् । पृषोदरादिः । वस्त्र स्येत्यर्थाद् व्यजनमेकम् ॥
कङ्कतः केशमार्जनः । प्रसाधनश्च
१ कङ्कते याति शिरः कङ्कतः, त्रिलिङ्गिः । ककि वकिश्वकित्रकिढौकृत्रिौकृ] ष्वष्केत्यादयो गत्यर्थाः, बाहुल कादतच् । स्त्रियां गौरादित्वात् कङ्कती । स्वार्थे कनि 'केऽणः'७।४।१३॥ इति ह्रस्वः, टाप्, कङ्कतिका । "कङ्कत एव कङ्कतिका, संज्ञायां कनि, टापि, 'प्रत्ययस्थात्- '७।३।–
३० ४४॥ इतीत्वम्''[मा.धातुवृत्तिः, भ्वादिगणः, धातुसं-७७]इति माधवः। कस्य शिरसोऽङ्का कङ्काः केशाः, शकन्ध्वादित्वात् पररूपत्वम्, कङ्के अतति गच्छति, ('केऽण: ७।४।१३॥ इति हुस्वत्वे टाप्यतचि वा क्वुन्) । "कङ्कती तु प्रसाधनी''[] इति त्रि(स्त्री)काण्डेऽमरमाला । "कङ्कतं तु प्रसाधनं"[] इति क्लीबकाण्डं च । कङ्कान् दन्तान् तनोतीति, 'अन्ये भ्योऽपि(अन्येष्वपि)-'३।२।१०१॥ इति डो वा । २ केशा माय॑न्तेऽनेन केशमार्जनः । 'मृजूष् शुद्धौ'(अ.प.से.), करणे ल्युट् । ३ प्रसाध्यन्ते केशा अनेन प्रसाधनः । 'साध संसिद्धौ' (स्वा.प.अ.), करणे ल्युट् । "प्रसाधनी कङ्कतिका"[अमर-
४० कोष:२।६।१३९॥] इत्यमरः। त्रीणि 'कांकसी' इति ख्यातायाः ॥
अथ बालक्रीडनके गुडो गिरिः ॥६८८॥ गिरियको गिरिगुडः
१ बालाः क्रीडन्त्यनेन बालक्रीडनम् । 'क्रीड (क्रीड़) विहारे'(भ्वा.प.से.), नन्द्यादिः, ततः स्वार्थे कनि बालक्रीडनकम्, तत्र । २ गुड्यते गुडः । 'गुड रक्षणे'(तु. प.से.), घञ् । गुडतीति इगुपधत्वात् को वा । ३ गीर्यते गिरिः, पुंसि । 'गृ निगरणे'(तु.प.से.), 'इक् कृष्यादिभ्यः' (वा-३।३।१०८॥)इतीक् ॥६८८॥ ४-५ गीर्यते गिरियकः । गीर्यते गुड्यते च गिरिगुडः । द्वावपि पृषोदरादी । भ्रमर-
५० कोऽपि, यन्महेश्वर:-"भ्रमरको जले भृङ्गे गिरिक चूर्णकुन्तले" [विश्वप्रकाशकोशः, कान्तवर्गः, शो-१८४]इति । यथा-“हेला हतभ्रमरकभ्रमिमण्डलीभिः''["]इति । पञ्च बालक्रीडनस्य । 'लट्टभ्रमर' इति भाषा ॥
समौ कन्दुकगेन्दुकौ । १ कन्धत आहूयते क्रीडार्थिभिरिति । 'कदि [क्रदि] क्लदि वैक्लव्ये (भ्वा.आ.से.), बाहुलकाद् 'भृतृम-'(उणा ७)इत्यादिना उ:, कन्दुः, ततः स्वार्थे कनि कन्दुकः, पुंक्ली.।
१. 'त्रिकाण्डः' इति३ ॥ २. 'व्यञ्ज-' इति१.३.४॥ ३. 'व्यज्यते' इति२ ॥ ४. 'कुटः' इत्युणादिगणे ॥ ५. द्र. मा.धातुवृत्तिः, तुदादिः, धातुसं-१००, पृ.४७९ ॥, तत्र " 'कुटे: किच्च' इत्यादिज्ञापकात् कुटादिङित्त्वानित्यत्वाद् गुण इति केचिदिति कुटतावुक्तम् । 'विदिभिदि' इति सूत्रे हरदत्तस्तु ङित्त्वमेवेच्छन् धुवित्रम् इत्युवङमेवाह" इति दृश्यते ॥ ६. स्वामी न पठति ॥ ७. सर्वप्रतिषु कोष्ठान्तवर्गतपाठश्चलितो दृश्यते ॥ ८. द्र. पदचन्द्रिका, भा-२, मनुष्यवर्गः, श्रो-३९७, पृ.४८५ ॥, रामाश्रमी२।६।१३९ ॥, पृ.३२३॥ ९. इतोऽग्रे १प्रतौ 'वा' इति दृश्यते ॥ १०. 'कन्' इति२॥ ११. इतोऽग्ने ३प्रतौ 'च' इति दृश्यते ॥ १२. इतोऽग्रे ३प्रतौ 'गुड्यते' इति दृश्यते ॥ १३. 'गिरिजे' इति विश्वप्रकाशकोशे, पृ.१७॥ १४. द्र. अनेकार्थकरवाकरकौमुदीटीका, भा-२, ४१२४॥, पृ.३२३॥ १५. 'लट्ट' इति३॥ १६. 'भृमृशीत-' इत्युणादिगणे ॥
कं सुखं दयते ददाति वा । 'दय दानगति[रक्षण] हिंसा दानेषु'(भ्वा.आ.से.), मित्रद्या(मितवा)दित्वात् कुः, ततः स्वार्थे कनि कन्दुकः, पुंक्ली. । २ गच्छन् वर्तुलत्वादिन्दुप्रति कृतिः गेन्दुकः । पृषोदरादिः । “क्रीडास्थाने युवतीभिः सह क्रीडार्थं गेन्दुकादिरपेक्ष्यते "[ ]इति शय्याप्रस्तावेऽस्याऽभिधान मिति नाऽप्रस्तुतोक्तिशङ्का । द्वे 'दडा' इति ख्यातस्य ॥
राजा राट् पृथिवीशक्रमध्यलोकेशभूभृतः ॥६८९॥
महीक्षित् पार्थिवो मूर्धाभिषिक्तो भू-प्रजा-नृ-पः ।
१ राजतेऽमात्यादिभिरिति राजा । रञ्जयति प्रजा
१० वा। 'राज दीप्तौ'(भ्वा.उ.से.), 'रञ्ज रागे'(भ्वा.उ.अ.) वा, 'कनिन् युवृषितक्षिराजिधन्विद्युप्रतिदिव:'(उणा-१५४)इति कनिन् । २ राजतेऽसौ राट् । 'राजू दीप्तौ '(भ्वा.उ.से.), 'सत्सूद्विष- '३।२।६१ ॥ इति क्विप्, 'व्रश्चभ्रस्ज-'८।२।३६ ॥ इति षत्वम्, 'झलां जशोऽन्ते-'८।२।३९॥ इति डत्वम्, ['वाऽवसाने'८४१५६॥ इति विकल्पेन चवम् राट्-ड्] । ३ पृथिव्यां शक्र इव पृथिवीशक्रः । ४ मध्यलोकस्येशो मध्यलोकेशः। ५ भुवं विभर्ति भूभृत् । क्विबन्तः ॥६८९॥ ६ महीं क्षितवान् प्राप्तवान्, महीं क्षयत्यधिवसति वा महीक्षित् । 'क्षि निवासगत्योः'(तु.प.अ.), क्विप्, 'हस्व
२० स्य-'६।११७१ ॥ इति तुक् । ७ पृथिव्या ईश्वरः पार्थिवः ।'सर्वभूमिपृथिवीयामणजौ' ५।१४१॥ इत्यनुवृत्तौ 'तस्येश्वरः' ५।१४२॥ इत्यञ् । ८ मूर्धन्यभिषिच्यते स्म मूर्धाभिषिक्तः । 'षिचिर् क्षरणे '(तु.उ.अ.), निष्ठा । मूर्धावसिक्तोऽपि । ९ ११ भूप्रजानृभ्यः प इति योज्यते, तेन भुवं पाति भूपः । 'पा रक्षणे'(अ.प.अ.), 'आत:- '३।२।३॥ इति कः । प्रजाः पाति रक्षति प्रजापः। नून् पाति नृपः। यौगिकत्वाद् भूपालः, नरपालः, लोकपाल इत्यादयः । एकादश सामान्येन राज्ञः ॥
मध्यमो मण्डलाधीशः
१ मध्यमः सामान्योऽग्रेतनापेक्षया । २ मण्डलस्य
३० देशमात्रस्याऽधीशो मण्डलाधीशः । द्वादशराजमण्डलमध्याद्
मण्डलमात्रस्याऽधीश इत्यर्थः । "स्यान्मण्डलं द्वादशराजके च देशे च विश्वे (बिम्बे) च कदम्बके च"[विश्वप्रकाशकोशः, लान्तवर्गः, श्री-८१]इति विश्वः । "नृपोऽन्यो मण्डलेश्वरः" [अमरकोषः२८।२॥ इत्यमरः । “अन्यो भूम्येकदेशे यो नृपः" [अम.क्षीर.२।८।२ ॥] इति तट्टीका । "मध्यमो मण्डलेश्वरः" [हलायुधकोशः२।४२२ ॥] इति हलायुधः । "भूम्येकदेशेश्वरे द्वौ" [ ]इति तट्टीका । द्वे मण्डलीकस्य ॥
सम्राट् तु शास्ति यो नृपान् ॥६९०॥
१ यः सर्वमण्डलस्येशो राजसूयं च योजयेत्, यो नृपान् शास्ति भृत्यवद् व्यापारेषु नियोजयति, यः सर्वमण्ड-
४० लस्य द्वादशराजचक्रस्येशः, च पुनः यो राजसूयं यज्ञविशेष मयजत् , स सम्राट् इत्यर्थः ।
"येनेष्टं राजसूयेन मण्डलस्येश्वरश्च यः ।
___ शास्ति यश्चाज्ञयाँ राज्ञः स सम्राट् ॥''[अमरकोषः २१३॥]इत्यमरः । एकं द्वादशराजमण्डलाधिपते राज्ञः ॥
चक्रवर्ती सार्वभौमः
१ चक्रे भूमण्डले द्वादशराजमण्डले च वर्तितुं प्रभुत्वलक्षणां वृत्तिं घटां(चेष्टां) कर्तुं शीलमस्य, णिनिः । चक्रे राजसमूहेऽवश्यं स्वामित्वेन वर्तते वा । आवश्यके णिनिः चक्रवर्ती । "चक्रवर्ती वल्लगणे (चक्रो गणे) चक्रवाके"
५० [विश्वप्रकाशकोशः, रान्तवर्गः, श्रो-४९]इति विश्वः । चक्रेण चक्रायुधरत्नेन वर्तितुं शीलमस्येति वा । २ सर्वभूमेरीश्वरः (समुद्रपरिवृताया भूमेरीश्वरः), 'सर्वभूमि-'५।१४१॥ इत्यनु वृत्तौ, तस्येश्वरः'५।१।४२ ॥ इत्यण, 'अनुशतिकादीनां च' ७।३।२०॥ इत्युभयपदवृद्धिः, [ सार्वभौमः] । द्वे चक्रिणः । "अधीश्वरः"[शेषनाममाला३।१३८॥]शैषिकम् ॥
ते तु द्वादश भारते ॥६९१॥
१ ते चक्रिणो भारते वर्षे द्वादश अवसर्पिणीकाले ___ भवन्ति स्म ॥६९१॥
__ अथ तान् क्रमेणाऽऽह
१. 'दयति' इति३.४॥ २. '-क्षतः' इति३॥ ३. 'प्रजामिति' इति३॥ ४. 'षिच क्षरणे' इति क्षीरतरङ्गिण्यादौ ॥ ५. 'नृन्' इति१.२.४॥ ६. '-यजयत्' इति३, ‘-योजयत्' इति४॥ ७. 'यः स्वाज्ञया' इति३ ।। ८. तुलनीयोऽमरकोषः२८।२ ॥ ९. इतोऽग्रे ४प्रतौ 'च' इति दृश्यते ॥ १०. कोष्ठान्तर्गतपाठः ३प्रतौ न दृश्यते ॥
आर्षभिर्भरतस्तत्र
१ तेषु च द्वादशचक्रवर्तिषु मध्ये प्रथमो भरत स्तनामनी, ऋषभस्याऽऽदिमतीर्थकृतोऽपत्यम् आर्षभिः । 'अत इञ्'४।१।९५ ॥, 'तद्धितेष्वचामादेः'७।२।११७॥ इति ऋकार स्य आकारः, 'उरण रपरः'१।१।५१ ॥, 'यस्येति च'६।४। १४८।। २ बिभर्ति षट्खण्डानीति भरतः । 'डुभृञ् धार णादौ '(जु.उ.अ.), 'भृ[ मृ] दृशी(दृशि)यजिपवि(पर्वि)पच्य मिनमितमिहर्यिभ्योऽतच्'(उणा-३९०)॥
सगरस्तु सुमित्रभूः।
१० १ सहते सर्वं सगरः । षह मर्षणे'(भ्वा.आ.से.), बाहुलकादरप्रत्यये निपात्यते । २ सुमित्रविजयाद् भवति सुमित्र
भूः । द्वे सगरस्य ॥
मघवा वैजयिः
__१ मघः सौख्यमस्याऽस्ति मघवान् । मघन्ते (मङ्घते) शत्रुष्विति वा। 'मघि कैतवे [च] '(भ्वा.आ.से), 'श्वनुक्षन्-' (उणा-१५७) इत्यादिना वनिप्रत्यये साधुः । मघवा इन्द्र इव वा । २ विजयस्याऽपत्यं वैजयिः । अत इञ्'४।१।९५ ॥, 'यस्येति च'६।४।१४८ ॥, तद्धितेष्वचामादेः७।२।११७॥ । द्वे मघोनः ॥
अथाऽश्वसेननृपनन्दनः ॥६९२॥
२० सनत्कुमारः
१ अश्वसेननृपस्य नन्दनः अश्वसेननृपनन्दनः ॥६९२॥ २ सनदित्यव्ययं रूपवदित्यर्थे, सनद् नित्यं कुमार इव रूपवत्त्वात् सनत्कुमारः । द्वे सनत्कुमारस्य ॥
अथ शान्तिः कुन्थुररो जिना अपि ।
१ शान्तिः षोडशो जिनः । १ कुन्थुः सप्तदशो जिनः । १ अरः अष्टादशो जिनः । एते त्रयो जिनास्तीर्थ कृतोऽपि चक्रवर्तिनोऽपि ॥
सुभूमस्तु कार्तवीर्य :
१ सुष्ठ जातमात्रेण सुखेन गृहीता भूमिरनेनेति । सुभूमः । पृषोदरादित्वात् । यत् त्रिषष्टिशलाकापुरुषचरिते-
३० "गृह्णन् भूमिं सुखेनाऽभूत् सुभूमो नामतस्ततः"[त्रिषष्टिश लाकापुरुषचरितमहाकाव्यम्, पर्व-६, सर्गः-४, शो-७८] । यद्वा भुवः पृथिव्या मा लक्ष्मी: शोभा वा भूमा, सुष्ठ शोभना भूमा यस्य स सुभूमः । २ कृतवीर्यस्याऽपत्यं कार्तवीर्यः । द्वे सुभूमस्य ॥
पद्मः पद्मोत्तरात्मजः ॥६९३॥
१ पद्यते प्राप्नोति निधीनिति पद्मः । ‘पद गतौ' (दि.आ.अ.), 'अर्तिस्तु-'(उणा-१३७)इति मन् । २ उत्तर उत्कृष्ट आत्मज उत्तरात्मजः, पद्मस्योत्तरात्मजः पद्मोत्तरा त्मजः। द्वे पद्मस्य ॥६९३॥
४० हरिषेणो हरिसुतः
१ हरेरिन्द्रस्येव सेनाऽस्य हरिषेणः । 'एति संज्ञा याम्-'८।३।९९ ॥ इति षः । २ हरेभूपालस्य सुतो हरिसुतः। द्वे हरिषेणस्य ॥
जयो विजयनन्दनः ।
१ जयति शत्रूनिति जयः । 'जि अभिभवे'(भ्वा. प.अ.), अच् । २ विजयस्य नन्दनो विजयनन्दनः । द्वे जयस्य ॥
ब्रह्मसूनुर्ब्रह्मदत्तः
१ ब्रह्मणो भूपालस्य सूनुः पुत्रो ब्रह्मसूनुः । २ ब्रह्मा
५० एनं देयादिति ब्रह्मदत्तः । 'क्तिच्तौ च संज्ञायाम्'३।३। १७४॥ इति क्तच्, 'दो दद्घो: '७।४।४६ ॥ इति दघादेश: (ददादेशः), 'खरि च'८४५५ ॥इति चर्वम् । द्वे ब्रह्मदत्तस्य ।
सर्वेऽपीक्ष्वाकुवंशजाः ॥६९४॥
१ सर्वेऽपि भरतादयो द्वादशाऽपि चक्रिण इक्ष्वाकु वंशजाः, इक्ष्वाकोशे जाता इक्ष्वाकुवंशजाः ॥६९४॥
अथाऽर्धचक्रवर्तिनो नववासुदेवानाह
प्राजापत्यस्त्रिपृष्ठः
१. 'धारणपोषणयोः' इति३ ॥ २. '-हर्येभ्यो-' इत्युणादिगणे ॥ ३. मूले 'मघवा' इत्युक्तत्वादिदं विचारणीयम् ॥ ४. 'मघते' इति१॥ ५. 'मघि कैतवे च' इत्यत्र स्वामिना "श्वनुक्षन् (उ.१।१५९)इति मघवम् मघवा इन्द्रः" इत्युक्तम्, क्षीरतरङ्गिणी, भ्वादिः, धातुसं-७८, पृ.३२॥ ६. 'व्याप्नोति' इति१ ।। ७. 'पदि' इति१.२.३॥ ८. 'ब्रह्म' इति३॥ ९. 'अथार्धचक्रिणो' इति३ ।।
१ प्रजापते राज्ञोऽपत्यं प्राजापत्यः । 'दित्यदित्यादि त्यपत्युत्तरपदाण्ण्य: '४।१।८५ ॥, 'यस्येति च'६।४।१४८ ॥ इती कारलोपः, 'तद्धितेष्वचामादे: '७।२।११७ ॥इति वृद्धिः । २ त्रयो वंशाः पृष्ठे पश्चिमप्रदेशेऽस्य त्रिपृष्ठः । शाकपार्थिवादिः । त्रीणि पृष्ठानि वंशा अस्येति वा । यत् श्रीहेमचन्द्राचार्याः
"दृष्ट्वा वंशत्रयं पृष्ठे त्रिपृष्ठ इति भूपतिः ।
नाम तस्याऽकरोत् सूनोरुत्सवेन महीयसा ॥१॥" [त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम्, पर्व-४, सर्गः-१, श्रो २३४]इति । द्वे त्रिपृष्ठस्य ॥
१० ___अथ द्विपृष्ठो ब्रह्मसम्भवः ।
१ द्वौ वंशौ पृष्ठे पश्चिमे प्रदेशेऽस्य द्विपृष्ठः । शाक पार्थिवादिः । २ ब्रह्मणो राज्ञः सम्भवति ब्रह्मसम्भवः । पचाद्यच् । द्वे द्विपृष्ठस्य ॥
स्वयम्भू रुद्रतनयः
१ स्वयं भवति स्वयम्भूः । क्विप् । २ रुद्रस्य राजस्तनयो रुद्रतनयः । द्वे स्वयम्भूराज्ञः ॥
सोमभूः पुरुषोत्तमः ॥६९५॥
१ सोमाद् राज्ञो भवति सोमभूः, क्वीबन्तः । २ पुरुषेषूत्तमः पुरुषोत्तमः । द्वे पुरुषोत्तमस्य ॥६९५॥
२० शैवः पुरुषसिंहः
१ शिवस्य राज्ञोऽपत्यं शैवः । 'शिवादिभ्योऽण्' ४।१११२ ॥ । २ पुरुषेषु सिंह: पुरुषसिंहः । पुरुषः सिंह इवेति वा । 'उपमेयमुपमितं व्याघ्रादिभिः सामान्याप्रयोगे' २।१५६॥ इति समासः । द्वे पुरुषसिंहस्य ॥
अथ महाशिरस्समुद्भवः । स्यात् पुरुषपुण्डरीकः
१ महाशिरसो नृपतेः समुद्भवति महाशिरस्समुद्भवः। २ पुरुषेषु पुण्डरीको व्याघ्र इव पुरुषपुण्डरीकः । द्वे पुरुष पुण्डरीकस्य ॥
दत्तोऽग्निसिंहनन्दनः ॥६९६॥
३० १ दीयते स्म दत्तः । २ अग्निसिंहस्य नृपतेर्नन्दनः अग्निसिंहनन्दनः । द्वे दत्तस्य ॥६९६॥
नारायणो दाशरथिः
१ नराणां समूहो नारम्, नारमयते नारायणः । 'अय गतौ'(भ्वा.आ.से.), नन्द्यादित्वाद् ल्युः । २ दशरथस्याऽपत्यं दाशरथिः । द्वे नारायणस्य ॥
कृष्णस्तु वसुदेवभूः ।
१ कृष्णवर्णत्वात् कृष्णः । २ वसुदेवाद् नृपतेर्भवति वसुदेवभूः । द्वे कृष्णस्य ॥ वासुदेवा अमी कृष्णा नव
४० १ अमी पूर्वोक्ताः प्राजापत्याद्याः कृष्णान्ता वासुदेवाः प्रोच्यन्ते । कृष्णा वर्णेन, श्यामा इत्यर्थः । नवेति नवसङ्ख्याकाः ॥
शुक्ला बलास्त्वमी ॥६९७॥
१ तुरत्र विशेषे, अमी वक्ष्यमाणा नवेत्येव, बल मस्त्येषां बलाः। 'अर्शआदिभ्योऽच्'५ ।२।१२७॥ । बल देवैकदेशा बला:, बलदेवा इत्यर्थः । शुक्ला वर्णेन ॥६९७॥
अथ तान् क्रमेणाऽऽह
अचलो विजयो भद्रः सुप्रभश्च सुदर्शनः ।
आनन्दो नन्दनः पद्मो रामः
१ न चलति सत्त्वाद् अचलः । 'चल चलने'
५० (भ्वा.प.से.), अच् । २ विशेषेण जयत्यभिभवत्यरीन् विजयः । 'जि अभिभवे'(भ्वा.प.अ.), अच् । ३ भद्रयुक्तत्वाद् भद्रः । ४ शोभना प्रभाऽस्य सुप्रभः । ५ शोभनं दर्शनमस्य सुदर्शनः । ६ आनन्दयति सज्जनानिति आनन्दः। 'टुणदि(टुनदि) समृद्धौ' (भ्वा.प.से.), अच् । ७ नन्दयति नन्दनः । नन्द्यादित्वाद् ल्युः । ८ [पद्यते पद्मः] । ९ रमते रामः । 'रमु क्रीडायाम्'(भ्वा.आ.अ.), ज्वलादित्वाण्णः । एते यथाक्रमं त्रिपृष्ठादिवासुदेवानामग्रजाः प्रजापत्यादिसम्भवाः । अचलादिनवबलदेवस्य नामानि ॥
विष्णुद्विषस्त्वमी ॥६९८॥
१. अष्टाध्याय्यां सूत्रे 'उपमेयम्' इति न दृश्यते ॥ २. 'दास-' इति३॥ ३. 'दस-' इति३॥ ४. 'कृष्णवर्णः' इति१॥ ५. 'प्रा--' इति४॥
१ अमी वक्ष्यमाणा अश्वग्रीवादयो नव विष्णूनां त्रि पृष्ठादीनां वासुदेवानां यथाक्रमं द्विषः प्रतिपक्षाः, प्रतिवासुदेवा इत्यर्थः ॥६९८॥
अथ तानाह
अश्वग्रीवस्तारकश्च मेरको मधुरेव च ।
निशुम्भबंलिप्रह्लादलद्देशमगधेश्वराः ॥६९९॥
१ अश्वस्येव ग्रीवाऽस्य अश्वग्रीवः। २ तारयति तारकः । ण्वुल् । ३ मां लक्ष्मीमीरयति मेरकः । 'ईर गतिकम्पनयो :'(चु.उ.से.), ण्वुल् । ४ मन्यते सर्वमसारमिति
१० मधुः, यस्य कैटभो भ्राता । ५ निशुम्भयति शत्रूनिति निशुम्भः । 'शुभि हिंसायाम्'( ), अच् । ६ बलति प्राणिति बलिः। 'बल प्राणने '(भ्वा.प.से.), '-इन्'(उणा ५५७)। ७ प्रह्लादते प्रह्लादः । पचाद्यच् । ८ लङ्कायर्या ईशो लङ्केशः रावणः । ९ मगधानामीश्वरो मंगधेश्वरः जरा सन्धः । अश्वग्रीवादिनवप्रतिवासुदेवनामानि ॥६९९॥
उपसंहारमाह
जिनैः सह त्रिषष्टिः स्युः शलाकापुरुषा अमी ।
१ जिनैस्तीर्थकदृषभादिभिः चतुर्विंशत्या सह सार्ध ममी भरतादयो द्वादश चक्रवर्तिनः, त्रिपृष्ठादयो नव वासु
२० देवाः, अचलाद्या नव बलदेवाः, अश्वग्रीवाद्याः नव प्रति वासुदेवाश्चेति सर्वे मीलिताः त्रिषष्टिः शलाकाभूताः पुरुषाः शलाकापुरुषाः, पुरुषेषु जातरेखा इत्यर्थः, स्युर्भवेयुः ॥
आदिराजः पृथुर्वैन्यः
१ आदिश्चासौ राजा च आदिराजः । 'राजाह: सखिभ्यष्टच्'५।४।९१॥ । २ प्रथते विस्तारं प्राप्नोति यश सेति पृथुः । 'प्रथ विस्तारे ' (भ्वा.आ.से.), 'प्रथिम्रदिभ्र स्जां सम्प्रसारणं सलोपश्च'(उणा-२८)इति कुः । ३ व(वे) नस्याऽपत्यं वैनः । 'शिवादिभ्योऽण्'४।१।११२॥, ततः स्वार्थे यति वैन्यः । त्रीणि पृथुनाम्नः ॥
३० अथाऽन्यमतप्रसिद्धमान्धात्रादिषट्चक्रवर्तिनामान्याह
मान्धाता युवनाश्वजः ॥७००॥
१ मां धास्यति मान्धाता । इन्द्रो हि जातमात्रस्याऽस्य मातुरभावाद् मां धास्यतीत्यभिधायाऽमृतश्रावणीमङ्गली समु पायितवानिति प्रसिद्धिः । २ युवनाश्वाजातो युवनाश्वजः । 'पञ्चम्यामजातौ'३।२।९८॥ इति डः । द्वे मान्धातुः ॥७००॥
धुन्धुमारः कुवलाश्वः
१ धुन्धुनामानमसुरं मारयति धुन्धुमारः। पचाद्यच् । २ कुवलं यं कुवलयम्, तद्वर्णाः केशा अस्य कुवलाश्वः । द्वे धुन्धुमारस्य ।।
हरिश्चन्द्रस्त्रिशडूजः ।
४० १ हरिरश्वश्चन्द्र इवाऽऽह्लादकोऽस्य हरिश्चन्द्रः । पार स्करादित्वात् सुट् । २ त्रिशङ्कोर्जातः त्रिशङ्कजः । द्वे हरि श्चन्द्रस्य ॥
पुरूरवा बौध ऐल उर्वशीरमणश्च सः ॥७०१॥
१ पुरु रौति पुरूरवाः, सकारान्तः । 'रु शब्दे'(अ. प.से.), 'पुरूरवा:'(उणा-६७१) इति साधुः । २ बुधस्याऽयं बौधः । 'तस्येदम्'४।३।१२०॥ इत्यण् । ३ इलाया अपत्यम् ऐलः । शिवादित्वादण् । ४ उर्वश्या रमणः उर्वशीरमणः । चत्वारि पुरूरवसः ॥७०१॥
दौष्यन्तिर्भरतः सर्वंदमः शकुन्तलात्मजः ।
५० १ दुष्यन्तस्याऽपत्यं दौष्यन्तिः। 'अत इञ्'४।११५ ।।। २ बिभर्ति पृथ्वी भरतः । 'डुभृञ् धारणादौ '(जु.उ.अ.), 'भृ[मृ]दृशीङ् (दृशि)यजि-'(उणा-३९०)इत्यादिनाऽतच् । ३ सर्वान् शत्रून् दमयति सर्वदमः । 'दमु उपशमे'(दि.प.से.), 'संज्ञायां भृतृवृजि-'३।२।४६॥ इति खच्, खित्त्वाद् मुम् । सर्वदमनोऽपि । ४ शकुन्तलाया आत्मजः शकुन्तलात्मजः । चत्वारि भरतस्य ॥
हैहयस्तु कार्तवीर्यो दो:सहस्रभृदर्जुनः ॥७०२॥
१ हैहयस्याऽपत्यं हैहयः । २ कृतवीर्यस्याऽपत्यं कार्तवीर्यः । उभयत्र 'ऋष्यन्धकवृष्णि-'४।१।११४॥ इत्यण् ।
६०
१. 'ईर क्षेपे' इति क्षीरतरङ्गिण्यादौ ॥ २. 'शुभ' इति३.४॥ ३. '-यां' इति३॥ ४. १प्रतौ नास्ति ॥ ५. 'मा-' इति१.२॥ ६. 'यशसे' इति१, 'यशसा' इति४॥ ७. 'प्रथ प्रख्याने' इति क्षीरतरङ्गिण्यादौ ॥ ८. 'प्रथ-' इति३॥ ९. '-ली' इति१.२.३॥ १०. ४प्रतौ नास्ति ॥ ११. 'कुवलयं कुवलं' इति३॥ १२. 'ऊ-' इति१.३॥ १३. 'शिवादिभ्योऽण्' इति४॥ १४. 'हे-' इति१॥
३ दोष्णां हस्तानां सहस्रं दो:सहस्रम्, दो:सहस्रं बिभर्ति दोःसहस्रभृत् । ४ अर्जयति कीर्तिम् अर्जुनः । 'अर्ज सर्ज अर्जने '(भ्वा.प.से.), णिजन्तादस्माद् 'अर्जेर्णिलुक् चे'(उणा ३३८)इत्युनन् । चत्वारि कार्तवीर्यस्य । मान्धात्रादयः षट् लोके चक्रवर्तित्वेन प्रसिद्धाः । यदाहुः
"मान्धाता धुन्धुमारश्च हरिश्चन्द्रः पुरूरवाः ।
भरत:कार्तवीर्यश्च षडेते चक्रवर्तिनः ॥१॥"[]इति ॥७०२॥
कौसल्यानन्दनों दाशरथी रामः
१ कोसलस्य राज्ञोऽपत्यं स्त्री कौसल्या। [वृद्धत्]
१० कोसलाजादाञ् ज्य[] '४।१।१७१ ॥ इति ज्यः । कौसल्याया नन्दनः कौसल्यानन्दनः, दन्त्यमध्यः । २ दशरथस्याऽपत्यं दाशरथिः । 'अत इञ्'४।१।९५॥ । ३ रमते रामः । ज्वलादित्वाण्णः । रामचन्द्रैकदेशो वा । रामभद्रोऽपि । त्रीणि रामचन्द्रस्य ॥
अस्य तु प्रिया ।
वैदेही मैथिली सीता जानकी धरणीसुता ॥७०३॥
१ अस्य रामचन्द्रस्य प्रिया भार्या, विदेहस्य राज्ञोऽ पत्यं वैदेही । 'जनपदशब्दात् क्षत्रियाद'४।१।१६८॥, 'टिड्डा णञ्-'४।१।१५ ॥ङीष्( ङीप्)। २ मिथिलायां भवा मैथिली।
२० 'तत्र भवः'४।३।५३॥ इत्यण्, 'टिड्डाणञ्- '४।१।१५ ॥ इति ङीष्(ङीप्)। ३ सीता हलरेखा, तद्भवत्वात् सीता । ४ जनकस्याऽपत्यं जानकी । ५ धरण्याः पृथिव्याः सुता धरणी सुता । पञ्च सीतायाः ॥७०३॥
रामपुत्रौ कुशलवावेकयोक्त्या कुशीलवौ ।
१ रामस्य पुत्रौ रामपुत्रौ, कुश्यति कुशः । 'कुश श्रेषणे '(दि.प.से.), 'इगुपध-'३।१।१३५॥ इति कः । कुश निर्मितत्वाद्वा । २ लुनाति शत्रून् लवः । 'लूञ् छेदने' (व्या.उ.से.), अच् । द्वावप्येकयोक्त्या एकेन वचसा कुशश्च लवश्च कुशीलवौ । राजदन्तादित्वात् साधुः । यच्छ्रीधरः
"वल्मीकजन्मनि नटे याचके च कुशीलवः ।
३० एकयोक्त्या मनो(मतौ) रामपुत्रयोस्तुं कुशीलवौ ॥१॥"
[विश्वलोचनकोशः, वान्तवर्गः, श्रो-५८-५९]इति । [द्वे] रामसुतयो म ॥
सौमित्रिर्लक्ष्मणः
१ सुमित्राया अपत्यं सौमित्रिः । 'बाह्वादिभ्यश्च' ४।१९६॥ इति इञ् । २ लक्ष्मीरस्त्यस्य लक्ष्मणः । 'लक्ष्म्या अच्च'(गणसू-५।२।१००)इति नः । द्वे लक्ष्मणस्य ॥
वाली वालिरिन्द्रसुतश्च सः ॥७०४॥ १ वालाः केशाः सन्त्यस्य वाली । 'अत इनिठनौ' ५।२।११५॥ इतीनिः । २ वालयति वालिः । 'वल संवरणे'
४० (भ्वा.आ.से.), णिजन्तः, 'अच इ:'(उणा-५७८)इति इः । ३ इन्द्रस्य सुत इन्द्रसुतः । सुग्रीवाग्रजोऽपि । त्रीणि वालि वानरस्य ॥७०४॥
आदित्यसूनुः सुग्रीवः
१ आदित्यस्य सूनुः आदित्यसूनुः । २ शोभना ग्रीवाऽस्य सुग्रीवः । द्वे सुग्रीवस्य ॥
___ हनुमान् वज्रकङ्कटः । मारुति: "केसरिसुतः आञ्जनेयोऽर्जुनध्वजः ॥७०५॥
१ हनुरस्त्यस्य हनुमान् । 'उपसर्गस्य घज्यमनुष्ये बहुलम्'६।३।१२२॥ इति बाहुलकाद् दीर्घत्वे हनूमानपि । यद्वा
५० 'शरीरावयवादीनां संज्ञायां च (शरादीनां च)'६।३।१२०॥ इति मतौ दीर्घत्वम् । अत्रैव पाठाद् मतुप(मतुपः) 'संज्ञायाम्' ८।२।११॥इति वत्वं यवादेराकृतिगणत्वान भवति । २ वज्र मयः कङ्कटः कवचोऽस्य वज्रकङ्कटः । ३ मारुतस्य वायोर पत्यं मारुतिः । अत इञ्'४।१।९५॥ । ४ 'केसरिणः कपेः सुतः केसरिसुतः । ५ अञ्जनाया अपत्यम् आञ्जनेयः । 'स्त्रीभ्यो ढक्'४।१।१२० ॥, ढस्यैयादेशः । ६ अर्जुनस्य ध्वजो
अर्जुनध्वजः । षड् हनुमतः ॥७०५॥
१. स्वामिसम्मतोऽयं धातुपाठः, '-षर्ज-' इति मैत्रयसायणौ ॥ २. ३प्रतौ नास्ति ॥ ३. द्र. स्वोपज्ञटीका३७०३॥, पृ.१५६॥ ४. मुद्रितमूले तालव्यमध्यः कौशल्यानन्दनः शब्दो दृश्यते, स्वोपज्ञटीकाऽपि तमाश्रित्यैव ॥ ५. 'मैथली' इति१.३ ।। ६. 'मैथली' इति३॥ ७. दुर्गसम्मतोऽयम्, द्र. क्षीरतरङ्गिणी, दिवादिः, धातुसं-११२, पृ.२२९, मा.धातुवृत्तिः, दिवादिः, धातुसं-११७, पृ.४३२॥ ८. '-योश्च' इति विश्वलोचनकोशे, पृ.३६९ ॥ ९. 'इन्' इति३.४॥ १०. 'केश-' इति१.३.४ ॥, मुद्रितमूलेऽपि 'केश-' इति दृश्यते ॥ ११. द्र. मा.धातुवृत्तिः, अदादिः, धातुसं-२, पृ.३२०॥ १२. 'केश-' इति३.४॥ १३. 'केश-' इति४॥
पौलस्त्यो रावणो रक्षो-लङ्केशो दशकन्धरः ।
१ पुलस्तेरपत्यं पौलस्त्यः । गर्गादित्वाद् यञ् । पुलस्त्यस्याऽपत्यमिति [वा] । 'ऋष्यन्धकवृष्ण-'४।१।११४॥ इत्यण् । २ विश्रवसोऽपत्यं रावणः । 'णश्च विश्रवसो विश (विश्) लुक् च'(हैमसू-६।१।६५ ॥)इति णे साधुः । रावयति लोकानिति, नन्द्यादित्वाल्ल्युर्वा । ३-४ रक्षसां लङ्कायाश्च ईशः, तेन रक्षसामीशो रक्षईशः, लङ्केशः । यौगिकत्वाद् राक्षसेशः, लङ्कापतिः । ५ दश कन्धरा ग्रीवाऽस्य दशकन्धरः । पञ्च
रावणस्य ॥
१० रावणिः शक्रजिन्मेघनादो मन्दोदरीसुतः ॥७०६॥
१ रावणस्याऽपत्यं रावणिः । 'अत इञ्'४।१।९५ ।।। २ शक्रं जितवान् शक्रजित् । 'जि अभिभवे'(भ्वा.प.अ.), क्विप्, 'हुस्वस्य-'६।११७१ ।। इति तुक् । ३ मेघस्येव नादोऽस्य मेघनादः । ४ मन्दोदर्याः सुतो मन्दोदरीसुतः । चत्वारि रावणसुतस्य ॥७०६॥
अजातशत्रुः शल्यारिधर्मपुत्रो युधिष्ठिरः ।
कोऽजमीढः
___ १ न जाताः शत्रवोऽस्य अजातशत्रुः । २ (शल्यस्य राज्ञोऽरि:) शल्यारिः । ३ धर्मस्य पुत्रो धर्मपुत्रः । ४ युधि
२० सङ्ग्रामे स्थिरो युधिष्ठिरः । 'हलदन्तात् सप्तम्याः संज्ञायाम्' ६।३।९॥ इति सप्तम्यलुक्, 'गवियुधिभ्यां स्थिरः'८।३।९५ ॥ इति पत्वम् । ५ कङ्कः बाह्मणलिङ्गत्वात् । यद्गौड:-"कृतान्ते लोहपृष्ठे च कङ्को बाह्मणलिङ्गिनि"[] इति । युधिष्ठिरो हि विप्रछद्मना विराटावासेऽवात्सीदिति । ६ अजास्त्रिवार्षिका यवा मीढा अस्य, अनेन वा अजमीढः । आजमीढ इति द्वितीय स्वरादिरपि । यद्भागवतम्-"संज्ञाश्रिता यदनुभावितमाजमीढ तेनाहमुद्यमुषितः पुरुषेण भूम्ना''[ ]इति । षड् युधिष्ठिरस्य ॥
भीमस्तु मरुत्पुत्रो वृकोदरः ॥७०७॥
कीर्मीर-कीचक-बक-हिडिम्बानां निसूदनः ।
१ बिभेत्यस्मादिति भीमः । 'जिमी भये'(जु.प.अ.),
३० 'भियः षुक् च (वा)'(उणा-१४५) इति मक् । २ मरुतो वातस्य पुत्रो मरुत्पुत्रः । ३ वृको भीमजठराग्निः, स उदरे ऽस्य वृकोदरः ॥७०७॥४-७ किरति विक्षिपति किर्मीरः। 'कृ(कृ) विक्षेपे'(तु.प.से.), ईरनि साधुः । "कर्मीरोऽपि" [शब्दभेदप्रकाशः, श्रो-२४]इति शब्दप्रभेदः । कच्यते बध्यते भीमेन कीचकः । 'कच बन्धने'(भ्वा.आ.से.), क्वुनि साधुः । बक इव शाठ्येन बकः । हिण्डते वनमध्ये हिडिम्बः। 'हिडि गतौ '(भ्वा.आ.से.), 'हिडिविलेः किम्बो नलुक्'(हैमोणा ३२४)इति साधुः । एतेषां चतुर्णां निसूदनः, तेन किर्मीर निसूदनः, कीचकनिसूदनः, बकनिसूदनः, हिडिम्बनिसूदनः ।
४० यौगिकत्वात् किर्मीरारित्यादयः । सरा भीमस्य ॥
अर्जुनः फाल्गुनः पार्थः सव्यसाची धनञ्जयः॥७०८॥
राधांवेधी किरीट्यैन्द्रिर्जिष्णुः श्वेतहयो नरः ।
बृहन्नटो गुडाकेशः सुभद्रेशः कपिध्वजः ॥७०९॥
बीभत्सः कर्णजित्
१ अर्जयति(अर्जति) कीर्तिम् अर्जुनः । 'अर्ज सर्ज अर्जने'(भ्वा.प.से.), 'अर्णिलुक् च'(उणा-३३८) इत्युनन् । २ फलति फल्गुनः । ‘फल निष्पत्तौ'(भ्वा.प.से.), 'फलेगुक् च'(उणा-३३६) इत्युनन्, स एव फाल्गुनः । 'प्रज्ञादिभ्यश्च' ५।४।३८॥इति स्वार्थेऽण् । ३ पृथायाः कुन्ताया अयं पार्थः।
५० 'तस्येदम्'४।३।१२०॥इत्यण् । ४ सव्येनाऽपि सचते बाणान् वर्षतीति सव्यसाची । 'षच सेवायाम् '(भ्वा.आ.से.), ग्रहा दित्वाणिनिः । ५ धनं गोधनं विराटनगरे कौरवेभ्यो जयति धनञ्जयः । 'जि अभिभवे'(भ्वा.प.अ.), 'संज्ञायां भृतृवृजिधा रिसहितपिदमः'३।२।४६॥ इति खच्, 'अरुर्द्विपत्- '६।३।६७ ॥ इति मुम् ॥७०८॥ ६ राधां वेध्यविशेष वेधयति राधावेधी। 'वेध(विध) वेधने ( ), ग्रहादित्वाणिनिः । ७ किरीट
१. कोष्ठान्तर्गतपाठस्थाने ४प्रतौ 'शल्याऽरयोऽस्य' इति 'ऽथवा शल्यस्य राज्ञोऽरिः शल्यारिः' इति टिप्पणी च दृश्यते ॥ २. द्र. स्वोपज्ञटीका ३७०७॥, पृ.१५७॥ ३. 'हिड-' इति३॥ ४. 'विक्षिप्यति' इति३॥ ५. 'हिण्ड्यते' इति२.४॥ ६. 'हिडि गत्यनादरयोः' इति क्षीरतरङ्गिण्यादौ ॥ ७. 'कुन्त्या' इति३॥ ८. 'संचते' इति४, 'सचति' इति२ ॥ ९. 'षच सेचने' इति क्षीरतरङ्गिण्यादौ, मा. धातुवृत्तावुक्तोदाहरणैः सेवनार्थकोऽपि स्वीकृतः ॥ १०. 'विध वेधने' इत्येवाकरस्थः पाठः । पाठान्तरं तु प्रामादिकमन्धपरम्परायातमिति मल्लिाथः, नैपधमहाकाव्यटीका, भा-१, ३११२७॥, पृ.१९१ ।।
मस्त्यस्य किरीटी । अत इनिठनौ'५।२।११५ ॥ इतीनिः । ८ इन्द्रस्याऽपत्यम् ऐन्द्रिः । 'अत इञ्'४।१।९५॥ । ९ जयन शोलो जिष्णुः । 'जि जये'(भ्वा.प.अ.), 'ग्लाजिस्थश्च वस्नुः' ३।२।१३९॥ । १० श्वेता हया अस्य श्वेतहयः । ११ नृणाति विक्षिपति शत्रूनिति नरः । 'नृ विक्षेपे '(त्र्या.प.से.), अच् । १२ बृहंश्चासौ नटश्च बृहन्नटः । विराटगृहे छद्मना नाट्या चार्योऽसावभूदिति हि प्रसिद्धिः । बृहन्नलोऽपि । यन्महेश्वरः "बृहन्नलो गुडाकेशे महापोटगले मत:"[विश्वप्रकाशकोशः, लान्तवर्गः, श्री-१३८]इति । "बृहन्नलानुभावोऽपि अन्त:
१० सरलः"[ ]इति वासवदत्तागद्यम् । १३ गुडा गुडिका, तदाकाराः केशा अस्य गुडाकेशः । यद्वा गुडा स्तुही, तदाकाराः केशा अस्य गुडाकेशः । १४ सुभद्राया ईशः पतिः सुभद्रेशः । १५ कपिर्ध्वजोऽस्य कपिध्वजः ॥७०९॥ १६ बीभत्सते बीभत्सः । बीभत्सुरपि । १७ कर्णं जितवान् कर्णजित् । यौगिकत्वात् कर्णारिरपि । सप्तदश अर्जुनस्य ॥ शेषश्चात्र
"अर्जुने विजयश्चित्रयोधी चित्राङ्गसूदनः ।
योगी धन्वा कृष्णपक्षो नन्दिघोषस्तु तद्रथः ॥१॥
ग्रन्थिकस्तु सहदेवो नकुलस्तन्तिपालकः ।
माद्रेयाविमौ कौन्तेया भीमार्जुनयुधिष्ठिराः ॥२॥
द्वयेऽपि पाण्डवेयाः स्युः पाण्डवाः पाण्डवायनाः ।"
[शेषनामनाला ३।१३८-१४०॥] ॥
तस्य गाण्डीवं गाण्डिवं धनुः ।
१ तस्याऽर्जुनस्य धनुः, 'गडि वदनैकदेशे'(भ्वा.प. से.), 'इबजादिभ्य:'(वा-३।३।१०८॥)इतीञ् गाण्डिः , पृषो दरादित्वाद् दीर्घत्वे, 'कृदिकारात्-'(गणसू-४।१।४५ ॥) इति ङीषि [वा] गाण्डी धनुःपर्व, तद्योगात् 'गाण्ड्यजगात् संज्ञा याम्'५।२।११०॥ इति वः गाण्डीवम्, गाण्डिवं च, पुंक्ली बलिङ्गौ । यदमर:-"कपिध्वजस्य गाण्डीवगाण्डिवौ पुंन
३० पुंसके "[अमरकोषः२।८ १८४॥ इति । "जिष्णोर्धनुषि कोदण्डे गाण्डीवं गाण्डिवं तथाँ"[शाश्वतकोशः, श्री-५८९]इति शाश्वतः। "अतो धनुर्मात्रेऽपि''[ ]इति मिश्राः । द्वे अर्जुनधनुषः ॥
पाञ्चाली द्रौपदी कृष्णा सैरन्ध्री नित्ययौवना ॥७१०॥ वेदिजा याज्ञसेनी च
१ पञ्चालस्य राज्ञोऽपत्यं पाञ्चाली । 'जनपदशब्दात् क्षत्रियादब्४।१।१६८॥, 'टिड्डाणब्–'४।१।१५॥ इति ङीप् । २ द्रुपदस्य राज्ञोऽपत्यं द्रौपदी । 'तस्याऽपत्यम्'४।१।९२॥ इत्यण, 'टिड्डाणञ्-'४।१।१५॥ इति ङीष्( ङीप्) । ३ कर्षति द्रष्टुर्मनः कृष्णा । 'कृष विलेखने '(भ्वा.प.अ.), 'कृषेवणे'(उणा-
४० २८४)[इति] नक्। ४ विराटनगरे सैरन्ध्रीकर्मकारित्वात् सैरन्ध्री। ५ नित्यं यौवनमस्या नित्ययौवना ॥७१०॥६ यज्ञवेदेर्जाता वेदिजा ! ७ यज्ञसेनस्याऽपत्यं याजमेनी । सम द्रौपद्याः ॥
कर्णश्चम्पाधिपोऽङ्गराट् । राधा-सूतो-ऽर्कतनयः
१ किरति विक्षिपति शनिति कर्णः । 'क विक्षेपे' (तु.प.से.), 'कृपृर्व-'(उणा-२९०) इत्यादिना नन् । २ चम्पापुर्या अधिपः चम्पाधिपः । ३ अङ्गानां जनपदस्य राडिति अङ्गराट् । ४-६ राधायाः, सूतस्य, अर्कस्य च तनयः, तेन राधातनयः, सूततनयः, अर्कतनयः । [यौगिकत्वाद्
५० राधेय इत्यादयः । षट् कर्णराज्ञः ॥
कालपृष्ठं तु तद्धनुः ॥७११॥
१ तस्य कर्णस्य धनुस्तद्धनुः, कालः पृष्ठेऽस्य काल पृष्टम् । यन्महेश्वर:-"कालपृष्ठं भवेत् कर्णचापे कोदण्ड मात्रके''[विश्वप्रकाशकोशः, ठान्तवर्गः, शो-२१]इति ॥७११॥
श्रेणिकस्तु भम्भांसारः
१ श्रेणी: कायति श्रेणिकः । २ भम्भा जयढक्का, सैव सारमस्य भम्भासारः । द्वे श्रेणिकस्य ॥
हालः स्यात सातवाहनः ।
१. 'नृ नये' इति क्षीरतरङ्गिण्यादौ । २. 'कपिध्वजो-' इति३॥ ३. 'धन्वी' इति३॥ ४. भाषावृत्तिसम्मतोऽयं वार्तिकपाठः, 'इणजादिभ्यः' इति काशिका वृत्त्यादौ ॥ ५.'-गावेतौ' इति३॥ ६. '-सके' पदचन्द्रिकासम्मतपाठः, '-सकौ' इति रामाश्रमीसम्मतपाठः ॥ ७. 'यथा' इति शाश्वतकोशे, पृ.५२॥ ८. द्र. पदचन्द्रिका, भा-२, क्षत्रवर्गः, श्रो-५३८, पृ.६२० ॥ ९. 'डोष्'२.४॥ १०. "नित्ययौ-' इति३॥ ११. 'कवृ-' इत्युणादिगणे ॥ १२. '-पदानां' इति१॥ १३. '-मस्त्यस्य' इति३॥
१ हलति शत्रुहृदयं हालः । 'हल विलेखने'(भ्वा. प.से.), ज्वलादित्वाण्णः । २ सातं दत्तं सुखं वाहनमस्य सातवाहनः । सालवाहनोऽपि । शालोऽपि, तालव्यादिः । "शालो हालनृपे मत्स्यप्रभेदे सर्जपादपे"[विश्वप्रकाशकोशः, लान्तवर्गः, शो-१४]इति महेश्वरः । द्वे सालवाहनस्य ॥
कुमारपालश्चौलुक्यो राजर्षि परमार्हतः ॥७१२॥
मृतस्वमोक्ता धर्मत्मा मारिव्यसनवारकः ।
१ कुमारानिव शिशूनिव प्रजाः पालयति कुमार पालः । ‘पाल रक्षणे'(चु.उ.से.), णिजन्तादच्, मयूरव्यंसका
१० दित्वात् समासः । कुं पृथ्वी मां लक्ष्मीमरमत्यर्थं पालयति वा। २ चुलुकस्याऽपत्यं चौलुक्यः । 'गर्गादिभ्यो यज्'४।१। १०५॥ । चुलुके भवश्चौलुक्यस्तस्याऽयमिति वा । ३ राजते सप्ताङ्गेनेति राजा, क्षमादिगुणधारणाद् ऋषिः, आ ईषदृषिरर्षिः, राजा चासावर्षिश्च राजर्षिः । 'ओमाङोश्च'६।१।९५ ॥इति पर रूपत्वम् । ४ अर्हन् देवताऽस्येति आर्हतः । ‘सास्य देवता' ४।२।२४॥ इत्यण् । परमः क्षमादिगुणधारणात्, स चाऽसावार्हतश्च परमार्हतः ॥७१२॥ ५ मृतस्य स्वं द्रव्यं मृतस्वं निर्वीराद्र विणम्, तद् मुञ्चति न गृह्णाति मृतस्वमोक्ता । 'मृच्छृ मोक्षणे' ___ (तु.उ.अ.), तृच् । ६ अहिंसादिलक्षणो धर्मः, स एवाऽऽत्मा
२० ऽस्य धर्मात्मा । ७ मारिं प्राणिवधम्, व्यसनानि मृगयाछूत मद्यपानादीनि [च] सर्वथा लोके वारयति निषेधयति मारि व्यसनवारकः । ‘वर निवारणे'( ), णिजन्तः, ण्वुल, अष्टाक्षरोऽयम् । सप्त कुमारपालस्य ॥
राजबीजी राजवंश्यः
१ राजबीजमस्त्यस्य राजबीजी । 'अत इनिठनौ' ५।२।११५ ॥ इतीनिः । २ राजवंशे साधुः राजवंश्यः । तत्र साधुः'४।४।९८॥ इति यत् । द्वे 'राजवी'' इति ख्यातस्य ॥
बीज्यवंश्यौ तु वंशजे ॥७१३॥
१-२ बीजे साधुः बीज्य: । वंशे साधुः वंश्यः । ___
३० उभयत्र 'तत्र साधु:'४।४।९८॥ इति यत् । यथा सूर्यबीज्यो रामः, तथा सन्ततिः शुद्धवंश्या हि परत्रेह च शर्मणे । "बीज्यस्तु कुलसम्भवः''[अमरकोश:२७।२॥]इत्यमरः । द्वे वंशजातस्य ॥७१३॥
स्वाम्यामात्यः सुहृत्केशो राष्ट्रदुर्गबलानि च ।
राज्याङ्गानि प्रकृतयः
१ स्वमी राजा, अमात्यः सचिवः, सुहृद् मित्रम्, कोशो भाण्डागारः, राष्ट्र देशः, दुर्ग कोटः, बलं सैन्यमेतानि सप्त राज्यस्याङ्गानि आरम्भकाणि राज्याङ्गानि, प्रक्रियते आभि रिति प्रकृतयः । 'स्त्रियां क्तिन्'३।३।९४॥ । स्वाम्यादीनां सप्त राज्याङ्गानां सामान्येन एकं प्रकृतय इति । यद्रघु:-"अथ
४० वीक्ष्य रघुः प्रतिष्ठितं प्रकृतिष्वात्मजमात्मवत्तया'[रघुवंशम्, सर्गः-८, शो-१०] इति ॥
पौराणां श्रेणयोऽपि च ॥७१४॥
१ पुरे भवा पौराः, एकमुख्यः सजातीयसमूहः श्रेणिः, पौराणां पुरवास्तव्यजनानां श्रेणयः एकमुख्याः सजातीयसमूहा अपि प्रकृतयो राज्याङ्गानीत्येव पुरवास्तव्यलोकोऽपि प्रकृति रुच्यत इत्यर्थः । यत्कात्य:-"अमात्याश्च पौराश्च सद्भिः प्रकृतयः स्मृताः''[]इति । तथा च रघु:-"तथैव सौऽभूदन्वर्थो राजा प्रकृतिरञ्जनात्''[ रघुवंशम्, सर्गः-४, शो-१२]इति ॥७१४॥
तन्त्रं स्वराष्ट्रचिन्ता स्यात्
५० १ तन्यते तन्त्रम् । 'तनु विस्तारे'(त.उ.से.), 'सर्व दातुभ्य[ :] ष्ट्रन्'(उणा-५९८), 'तितुत्र- '७।२।९॥ इती निषेधः । एकं स्वदेशस्य रक्षणपोषणचिन्तायाः ॥
आवापस्त्वरिचिन्तनम् ।
१ आ उप्यत इति आवापः । 'टुवप् बीजतन्तु सन्ताने'(भ्वा.उ.अ.), कर्मणि घञ् । सन्ध्यादिषाड्गुण्येन परमण्डलचिन्ता आवापः । यथा-"परं प्रत्यावापः फलति कृतसेकस्तरुरिव"[] । एकं शत्रुचिन्तनस्य ॥
परिस्यन्दः परिकरः परिवारः परिग्रहः ॥७१५॥
परिच्छदः परिबर्हस्तन्त्रोपकरणे अपि ।
६०
१. 'चुल-' इति२.३॥ २. 'स्व-' इति३॥ ३. 'सप्ता-' इति१.२.३॥ ४. 'राजबीज' इति१ ॥ ५. तुलनीयोऽमरकोषः२।८।१८॥ ६. '-तीयानां समूहः' इति३॥ ७. 'अमात्याश्च' इति१॥ ८. द्र. स्वोपज्ञटीका३१७१४॥, पृ.१५८॥ ९. द्र. अनेकार्थकरवाकरकौमुदीटीका, भा-२, ३।४३०॥, पृ.१८९ ।।
१ परिस्यन्दते परिस्यन्दः, दन्त्यान्तस्थाद्यमध्यः । 'स्यदि किञ्चिच्चलने '( ), पचाद्यच् । २ परिकरोति परि कीर्यते वा परिकरः । अच्, घञ् वा । ३ परिवार्यते परि वारयति वा परिवारः । घञ्, अच् वा । ४ परिगृह्यते परि ग्रहः । 'ग्रहवृ-'३।३५८॥ इत्यप् ॥७१५॥ ५ परिछाद्यतेऽ नेन परिच्छदः । 'छद अपवारणे'(चु.उ.से.), णिजन्तः, 'पुंसि संज्ञायाम्-'३।३।११८॥ इति घः, 'छादेर्थेऽद्व्युपसर्गस्य'६।४। ९६ ॥ इति इस्वत्वम् । ६ परिबर्हते प्राधान्यं भजति हिनस्ति वा परिबर्हः। 'बर्ह [बल्ह] प्राधान्ये'(भ्वा.आ.से.), अच् ।
१० परिबृह्यतेऽनेनेति, करणे घबि वा । परिबर्हणमपि । ७ तन्यते तन्त्रम् । 'तनु विस्तारे'(तु.उ.से.), 'सर्वधातुभ्यः ष्ट्रन्'(उणा ५९८) । ८ उपक्रियतेऽनेन उपकरणम् । करणे ल्युट् । परिजनोऽपि । अष्टौ परिवारस्य ॥
राजशय्या महाशय्या
१ राज्ञः शय्या राजशय्या । २ महती चासौ शय्या च महाशय्या । 'आन्महतः समानाधिकरण- '६।३।४६॥ इत्यात्वम् । द्वे राजशय्यायाः ॥
भद्रासनं नृपासनम् ॥७१६॥
१ भद्रं श्रेष्ठं च तदासनं च भद्रासनम् । भद्रं श्रेयोरूपं
२० वा आसनम्, भद्रं रूप्यादिमयं वा आसनं भद्रासनम् । २ नृपस्य राज्ञ आसनं नृपासनम् । एकं नृपासनस्य ॥७१६॥
सिंहासनं तु तद्वैमम्
१ तन्नृपासनं हेम्नो विकारो हैमं सुवर्णरचितम्, सिंहस्याकारः सिंहः, तत्प्रधानमासनं सिंहासनम् । "साध्वस जनकत्वात् सिंह इवासनं सिंहासनम्"[]इत्यन्ये । हेमास नमपि । हलायुधस्तु-"हैमं सिंहासनं राज्ञां स्मृतं भद्रासनं बुधैः"[हलायुधकोश:२।४२३]इत्येकार्थतां नामत्रयं चाहे । एकं स्वर्णमयनृपासनस्य ॥
छत्रमातपवारणम् ।
३० १ छाद्यतेऽनेनेति छत्रम्, त्रिलिङ्गः। 'छद अपवारणे' (चु.उ.से.), 'सर्वधातुभ्य[ :] ष्ट्रन्'(उणा-५९८), 'इस्मन्त्रन्क्विषु च'६।४।९७॥ इति छादेईस्वत्वम्, 'नेड् वशि कृति '७२।८॥ इति नेट् । २ आतपो वार्यतेऽनेनेति आतपवारणम् । 'वर निवारणे'( ), णिजन्तः, ल्युट् । आतपत्रोष्णवारणादयोऽपि। द्वे छत्रस्य । "नृपलक्ष्म" [शेषनाममाला३।१४१॥]इति शैषिकम् ॥
चामरं बालव्यजनं रोमगुच्छः प्रकीर्णकम् ॥७१७॥
१ चमर्या इदं चामरम् । 'तस्यदेम्'४।३।१२० ॥ इत्यण् । २ बालानां व्यजनं बालव्यजनम् । ३ रोम्णां गुच्छो रोमगुच्छः । ४ प्रकीर्यते विक्षिप्यते स्म प्रकीर्णकम् । 'कृ विक्षेपे'(तु.पअ.), क्तः, 'ऋत इद्धातो:'७।१।१०० ॥,
४० 'रदाभ्यां निष्ठातो नः-'८।२।४२॥, स्वार्थे कनि प्रकीर्णकम् । चत्वारि चमरस्य (चामरस्य)। "चमरः"[शेषनाममाला३। १४१॥] शैषिके ॥७१७॥
स्थगी ताम्बूलकरङ्कः
१ स्थग्यतेऽनया स्थगी । 'स्थग(स्थगे) संवरणे' (भ्वा.प.से.), करणे घञ्, गौरादित्वाद् ङीष् । २ ताम्यति ताम्बूलम् । 'तमु काङ्क्षायाम्'(दि.प.से.), देवादिकः, 'तमे बुक् (वृद्धिः) च'(उणादिगणसू-५३०)इति ऊरोलचौ, णित्त्वाद् वृद्धिः । ताम्बूलस्य करङ्कः ताम्बूलकरङ्कः । द्वे ताम्बूल भाजनस्य ॥
५० भृङ्गारः कनकालुर्की ।
१ भ्रियते भृङ्गारः । 'डुभृञ् धारणादौ'(जु.उ.अ.), 'शृङ्गारभृङ्गारौ'(उणा-४१६)इति सूत्रेण आरनि साधुः । २ कनकस्य आलुः कनकालुः, कनकालुरेव कनकालुका । स्वार्थे कन् । द्वे 'सुवर्णकलसीया' इति ख्यातस्य । भींगार' इत्यादिभाषा ॥
भद्रकुम्भः पूर्णकुम्भः
१ भद्राय भद्रार्थं कुम्भः भद्रकुम्भः । भद्रः श्रेष्ठ
१. क्षीरतरङ्गिण्यादावेतादृशधातुर्न दृश्यते, यद्वा 'स्यन्दू प्रस्रवणे'(भ्वा.आ.वे.)इत्यस्य ग्रहणं कर्तव्यम् ॥ २. तुलनीयोऽमरकोषः२८।३१-३२॥ ३. द्र. पदचन्द्रिका, भा-२, क्षत्रवर्गः, श्री-४८५, पृ.५७१ ॥ ४. 'हैमा-' इति३॥ ५. 'एकार्थानां नामत्रयमाह' इति४॥ ६. '-न्त' इति३॥ ७. 'हुगे हूगे ठगे स्थगे संवरणे' इति स्वामी, 'हगे हूगे पगे ठगे संवरणे' इति मैत्रेयः, 'हुगे लगे षगे ष्टगे संवरणे' इति सायणः ८. संज्ञापूर्वको विधिरिनत्यत्वादुपधावृद्ध्यभावः ॥ ९. 'तम्यति' इति२.३.४॥ १०. अनुपयुक्तोऽयं प्रतिभाति ॥ ११. तुलनीयोऽमरकोषः२१८३२॥ १२. '-यां' इति१॥ १३. इतोऽग्रे ३प्रतौ 'वा' इति दृश्यते ॥
श्चासौ कुम्भश्चेति वा । २ पूर्णश्चासौ कुम्भश्च पूर्णकुम्भः । द्वे 'वरबेहडुं' इति ख्यातस्य ॥
पादपीठं पदासनम् ॥७१८॥
१ पादयोः पीठं पादपीठम् । पदयोरासनं पदा सनम् । द्वे पादपीठस्य । 'पगमूंकवाना बाजवट पाटला' इत्यादिभाषा ॥७१८॥
अमात्यः सचिवो मन्त्री धीसखः सामवायिकः ।
१ अमा राज्ञः समीपे, राज्ञा सह वा भवः अमात्यः। "अमाऽन्तिकसहार्थयोः''[ मेदिनीकोशः, अव्ययवर्गः, श्री
१० ५०] इति मेदिनिः । 'अव्ययात् त्यप्'४।२।१०४॥ । २ सचनं सचिः । षच समवाये '(भ्वा.प.से.), 'इक् कृष्यादिभ्यः (वा ३।३।१०८॥)इतीक् । सचिं समवायं वाति गच्छति सचिवः । 'वा गतिगन्धनयोः (अ.प.अ.), 'आतोऽनुसर्गे कः'३।२।३।। सचिः समवायोऽस्याऽस्ति सचिवः । ‘वप्रकरणेऽन्येभ्योऽपि' (वा-५।२।१०९॥)इति वः । सचते बुद्ध्या समवेति वा । 'पलिसचेरिवः'(हैमोणा-५२२)इतीवः । ३ कर्तव्यनिश्चयो मन्त्रस्तद्योगाद् मन्त्री । 'अत इनठनौ'५।२।११५॥ इतीनिः । मन्त्रयते कर्त्तव्यनिश्चयमवश्यं करोतीति मन्त्री । 'मत्रि गुप्त भाषणे'(चु.आ.से.), चुरादिः, ततः आवश्यकेऽर्थे णिनिर्वा ।
२० ४ धीया सखा धीसखः । 'राजाह:सखिभ्यष्टच्'५।४।९१॥ इति टच्, 'यस्येति चं'६।४।१४८॥ । बुद्धिसहायोऽपि । समवायेन चरति सामवायिकः । 'तेन चरति '४।४।८ ॥इति ठक् । पञ्च अमात्यस्य । 'मुंहुता' इति भाषा ||
नियोगी कर्मसचिव आयुक्तौ व्यापृतश्च सः ॥७१९॥
१ नियोजनं नियोगः । 'युजिर् योगे'(रु.उ.अ.), भावे घञ्, 'चजोः- '७।३५२॥ इति कुत्वम् । नियोगो 'हुकम' इत्यादिभाषाप्रसिद्धोऽस्याऽस्ति नियोगी । 'अत इनिठनौ'५।२। ११५॥ इतीनिः । २ कर्मसु सचिवः कर्मसचिवः, कर्मसहाय इत्यर्थः । ३ आयुज्यते स्म आयुक्तः । ४ व्याप्रियते स्म व्यापृतः । “मन्त्रिणः सकाशादन्येऽमात्याद्याः कर्मसहाया
३० नियोगाख्या:"[अम.क्षीर.२।८।४ ॥]इति क्षीरस्वामी । चत्वारि 'हुजदार' इति ख्यातस्य ॥७१९॥
द्रष्टा तु व्यवहाराणां प्राड्विवाकोऽक्षदर्शकः ।
१ ऋणा[दाना] दीन्यष्टादश अर्थिप्रत्यर्थिविवादस्था नानि व्यवहारास्तेषां द्रष्टा निर्णयकर्ता, पृच्छति वादिप्रतिवादि [वाक्यं] प्राट् । 'प्रच्छ जीप्सायाम्'(तु.प.अ.), 'क्विब्वचि प्रच्छि-'(उणा-२१५)इत्यादिना क्विप्, दीर्घत्वम्, सम्प्रसारणा भावश्च । विचित्य वक्ति विवाकः । 'वच परिभाषणे' (अ.प.अ.), बहुलवचनात् कर्तर्यपि घञ् । प्राट् चासौ विवाकश्च प्राड्विवाकः ।
४० "विवादानुगतं दृष्ट्वा पूर्ववाक्यं प्रयत्नतः ।
विचारयति येनाऽसौ प्राड्विवाकस्ततः स्मृतः ॥१॥"
[*]इति स्मृतिः। "पृच्छ्यत इति प्राट् वादिप्रतिवादम् (पृच्छ्यते वादिप्रतिवादिवाक्यमिति प्राट), प्रच्छेः कर्मणि 'अन्येभ्योऽपि दृश्यते'३।२।१७८ ॥ इति दृशिग्रहणस्य सर्वोपाधिव्यभिचारार्थत्वात्, 'कृत्यल्युटो बहुलम्'३।३।११३॥इति बहुलवचनाद्वा कर्मणि क्विप्, प्राच्छं विवेचयति विचारयति, 'कर्मण्यण'३।२।१॥, न्य वादित्वात् कुत्वम्"[ ]इत्यन्ये । २ अक्षान् व्यवहारन् पश्यति अक्षदर्शकः । ण्वुल् । “अक्षः कर्षे तुषे चक्रे शकटव्यवहारयोः"[ विश्वप्रकाशकोशः, क्षान्तवर्गः, श्री-२]इति
५० विश्वः । द्वे 'चउवटिया' इति ख्यातस्य । “स्थेयः'[शेष नाममाला३।१४१ ॥] शैषिके ॥
महामात्राः प्रधानानि
१ महती मात्रा धनं परिच्छदो वा येषां ते महामात्राः । "मात्रा कर्णविभूषायां वित्ते माने परिच्छदे"[मेदिनीकोशः, रान्त वर्गः, शो-७५]इति मेदिनिः । २ धीयतेऽत्रेति धानं पदम्, अधिकरणे ल्युट् । प्रकृष्टं धानं पदं पोषणं वा एषामिति प्रधानानि, रूपभेदात् क्लीबत्वमेव । "महामात्रः प्रधानं स्यात्''[]इति पुंस्काण्डे वोपालितात् प्रधानः पुंलिङ्गोऽपि । "प्रधानमाविष्टलिङ्गम् ''[स्वोपज्ञटीका, श्री-३७२०] इत्याचार्याः।
६०
१. मैत्रेयसायणसम्मतोऽयं धातुपाठः, स्वामी 'षप समवाये' इत्याह ॥ २.'मन्त्र' इति१.२, मन्त्रि' इति३॥३. 'वा' इति३॥ ४.'चरति' इत्येवाऽष्टाध्याय्याम् ॥ ५. 'मुंहता' इति३॥ ६. अम.क्षीरस्वामिटीकायां "ततो मन्त्रिणोऽमात्याः कर्मसहाया नियोग्याख्याः " इति दृश्यते, अम.क्षीर.२।८।४॥, पृ.१७६ ॥ ७. द्र. टीकासर्वस्वम्, भा-३, २८५॥, पृ.५४॥, रामाश्रमी२८५, पृ.३४८ ॥, तयोः 'दृष्ट्वा' इत्यस्य स्थाने 'प्रष्ट्वा' इति दृश्यते ॥, पदचन्द्रिका, भा-२, क्षत्रवर्गः, थो-४५९, पृ.५४३॥ ८. द्र. पदचन्द्रिका, भा-२, क्षत्रवर्गः, शो-४५९, पृ.५४३॥ ९. '-टीया' इति३.४॥ १०. तुलनीयोऽमरकोषः२।८।५॥ ११.'-त्रा:' इति३॥ १२. द्र. पदचन्द्रिका, भा-२, क्षत्रवर्गः, शो-४५९, पृ.५४२॥ १३. स्वोपज्ञटीकायां 'आविष्टलिङ्गोऽयम्' इत्येव दृश्यते, ३१७२० ॥, पृ.१५९॥
"महामात्रः प्रधानं स्यात्''[हलायुधकोश:२।४२७ ॥] इति हलायुधः । “पुरोहितामात्यप्रतीहारसेनापतिप्रभृतौ द्वौ''[] इति तट्टीका । द्वे सामान्येनाऽमात्यपुरोहितसेनापत्यादेः ॥
पुरोधास्तु पुरोहितः ॥७२०॥ सौवस्तिकः
१ पुरोहितेषु दृष्टादृष्टफलेषु कर्मसु धीयते पुरोधाः । (पुरोधाञोऽसिः) । पुरोधसौ, पुरोधसः इत्यादि । २ पुरो धीयते हिनोति स्मेति वा पुरोहितः । 'डुधाञ् धारणादौ' (जु.उ.अ.), निष्ठा, 'दधातेर्हि : '७।४।४२ ॥ इति हिरादेशः ।
१० ‘हि गतौ वृद्धौ च'(स्वा.प.अ.)इत्यतो वा क्तः ॥७२०॥ ३ स्वस्तीत्याह सौवस्तिकः । स्वस्तिशब्दात् 'तदाहेति माशब्दादिभ्यष्ठग् वाच्यः (वा-४।४।१॥)इति ठक्, 'न स्वाभ्यां पदान्ताभ्याम्-'७।३।३॥ इति वृद्धिनेषधे ऐचावागच्छतः । त्रीणि पुरोहितस्य ॥
अथ द्वारस्थः क्षत्ता स्याद् द्वारपालकः ।
दौवारिकः प्रतीहारो वेव्युत्सारकदण्डिनः ॥७२१।।
१ द्वारे तिष्ठति द्वारस्थः । 'आतोऽनुसर्गे क:' ३।२।३ ॥, 'आतो लोप इटि च'६४।६४॥ इत्यालोपः । २ क्षदति संवृणोति द्वारं क्षत्ता । 'क्षद संवरणे' सौत्रः, 'तृन्तृचौ
२० शसिं(शंसि)क्षदादिभ्यः संज्ञायाम्-'(उणा-२५०)इति तृच् । ३ द्वारं पालयति द्वारपालः । पचाद्यच् । कनि द्वारपालकः । ४ द्वारे नियुक्तौ दौवारिकः । 'तत्र नियुक्त: ४।४।६९ ॥ इति ठक्, 'ठस्येकः'७।३।५० ॥, 'न स्वाभ्यां पदान्ताभ्यां पूर्वी तु ताभ्यामैच'७।३।३॥ । ५ प्रतिहियते वार्यतेऽनेन प्रतिहारः । करणे घञ् । 'उपसर्गस्य घज्यमनुष्ये बहुलम्'६।२।१२२ ॥ इति दीर्घत्वे प्रतीहारः । “प्रतिराभिमुख्ये । राज्ञोऽभिमुखं जनान् प्रतिहरति बहिः प्रापयति । 'ज्वलतिकसन्तेभ्यो णः'३।१।१४० ॥ इति णः''[ ]एतत्पक्षे प्रतिहारः, तृतीयस्वरवान् । " 'अन्येषा मपि-'६।३।१३७॥इति दीर्घत्वे चतुर्थस्वरमध्योऽपि"[]इत्यन्ये । "प्रतीहारो द्वारमधिकारविषयत्वेनाऽस्याऽस्तीत्यर्शआद्यचि प्रती-
३० हार:"[]इत्येके । ६ वेत्रं वेत्रदण्डोऽस्याऽस्ति वेत्री । 'अत इनिठनौ'५।२।११५ ॥ इतीनिः । वेत्रधरोऽपि । ७ उत्सारयति जनानिति उत्सारकः । 'सृ गतौ'(भ्वा.प.अ.), ण्वुल् । ८ दण्डोऽस्त्यस्य॑ दण्डी । अष्टौ द्वारपालस्य । शेषश्चात्र-“द्वाः स्थे द्वा:स्थितदर्शकः"[शेषनाममाला ३।१४१॥] । द्वारि स्थित त्वात् द्वा:स्थितः कश्चिजनः, तं राज्ञे दर्शयति बोधयति द्वा:स्थितदर्शकः, एकं नाम । “द्वा:स्थितो दर्शकश्चेति नाम द्वयम्''[]इत्येके । “स्याद् दर्शयिता प्रतीहारेऽपि दर्शकः" []इति रुद्रः ॥७२१॥ रक्षिवर्गेऽनीकस्थ: स्यात् .
४० १ रक्षन्त्यवश्यं रक्षिणः अङ्गरक्षकाः, रक्षिणां वर्गो वृन्दं रक्षिवर्गस्तत्र । अवश्यं रक्षकत्वेन अनीकेन तिष्ठति अनीकस्थः । 'सुपि स्थः'३।२।४॥ इति कः । "रक्षिवर्ग स्त्वनीकस्थ:"[अमरकोषः२८६॥ इत्यमरः । “अङ्गरक्षक वृन्दः (अङ्गरक्षकवृन्दे) अनीके तिष्टत्यनीकस्थः, "राक्ष(राज) शिक्षाविचक्षणो(-विचक्षणे)"[शाश्वतकोशः, श्री-३४२] वा" [अम.क्षीर.२१८६॥]इति क्षीरस्वामी । एकमङ्गरक्षकस्य, राज शिक्षाविचक्षणस्य वा ॥
अध्यक्षाधिकृतौ समौं।
१ अधिकृतोऽक्षेष्वायमुखेषु अध्यक्षः । अध्यक्ष्णोति
५० व्याप्नोति वा । अक्ष(अक्षू) व्याप्तौ सङ्घाते च(भ्वा.प.से.), अच् । अधिकान्यक्षाणीन्द्रियाण्यस्येति वा । २ अधिक्रियत उपरि नियुज्यते स्म अधिकृतः । द्वे सामान्येनाऽधिकारिणः । 'ऊपरू' इति भाषा ॥
पौरोगवः सूदाध्यक्षः
१ पुरः प्रथमं पाच्यवस्तुषु गौर्नेत्रमस्य पुरोगुः । ("गोस्त्रियो:-'१।२४८॥ इति हुस्वत्वम्, ततः प्रज्ञाद्यणि पौरोगवः । [यद्वा] पुरो गौर्जलमस्यां" पुरोगुः रसवती),
१. कोष्ठान्तर्गतपाठः २प्रतौ न दृश्यते ॥ २. 'पुरसि च'(उणा-६७०)इत्युणादिगणसूत्रम् ॥ ३. '-माशब्दादिभ्य उपसंख्यानम्' इति काशिकावृत्तौ, भा-३, ४।४।१॥, पृ.७३५॥ ४. द्र. पदचन्द्रिका, भा-२, क्षत्रवर्गः, श्री-४६०, पृ.५४३ ॥, तत्र 'चतुर्थस्वरमध्योऽपि' इत्यस्य स्थाने 'दीर्घकारोऽपि' इति दृश्यते ॥ ५. द्र. पदचन्द्रिका, भा-२, क्षत्रवर्गः, श्री-४६०, पृ.५४३ ॥, तत्र 'अर्शआद्यचि' इत्यस्य स्थाने 'अर्शआदित्वादच्' इति तथा तृतीयस्वरवान् प्रतिहारशब्दो दृश्यते ॥ ६. 'दण्डोऽस्य' इति२, 'दण्डोऽस्याऽस्ति' इति३॥ ७. 'द्वा:स्थितिदर्शकः' इति शेषनाममालास्वोपज्ञटीकयोः ॥ ८. द्र. पदचन्द्रिका, भा-२, क्षत्रवर्गः, शो-४६०, पृ.५४४ ॥ ९. द्र. रामाश्रमी२८६ ॥, पृ.३४८॥ १०. तुलनीयोऽमरकोषः२८६॥ ११. '-ज्यन्ते' इति४॥ १२. 'उपरू' इति३॥ १३. कोष्ठान्तर्गतपाठः २प्रतौ न दृश्यते ॥ १४. '-मस्त्यस्यां' इति३॥
तस्यामयमध्यक्षः पौरोगवः । २ सूदानामध्यक्षः सूदाध्यक्षः ।
द्रे रसवत्यधिकारिणः ॥
सूदस्त्वौदनिको गुणः ॥७२२॥ भक्तकारः सूपकारः सूपारालिकवल्लवाः ।
१ सूदयति तन्दुलादिधान्यम्, सूदति छागादीन् वा सूदः । 'सूद क्षणने(क्षरणे) '(चु.उ.से.), अच् । २ ओदन साधनं शिल्पमस्य औदनिकः । 'शिल्पम् '४/४५५ ॥ इति ठक् । ओदने नियुक्त इति, 'तत्र नियुक्त:'४।४।६९॥इति ठकि वा। ओदने साधुरिति गुडादित्वाट्टक् वा । एवमान्धसिकोऽपि ।
१० ३ गुणयति अभ्यस्यति बन्धनादिकमिति गुणः । 'गुण अभ्यसने '(चु.उ.से.), अच् । ४ भक्तं करोति भक्तकारः । 'कर्मण्यण'३।२।१॥ । ५ सुनोति रसमिति, ‘प्रकुसृणां(युकु सूनां) किच्च'(चान्द्रोणा-२८४)इति सुनोतेः पः, ऊट चोकार स्य, सूपो व्यञ्जनम्, तत्करोति, 'कर्मण्यण्'३।२।१॥ सूपकारः । ६ सुनोत्यनं सूपः । 'षुञ् अभिषवे'(स्वा.उ.अ.), 'कु सुयुभ्यश्च'( )पः, किद् दीर्घत्वं च। ७ अरालं कुटिलं चरति आरालिकः । 'चरति'४।४८॥ इति ठक् । अरालं पण्यमस्येति, 'तदस्य पण्यम्'४।४५१॥ इति ठग् वा । ८ पत्रपाकपात्रधारणाय लोहघटितं 'वाउली' इति प्रसिद्धम्, वल्लते संवृणोति वल्लः ।
२० 'वल्ल संवरणे'(भ्वा.आ.से.), 'हलश्च'३।३।१२१ ।। इति घञ्, तद्योगाद् ‘अन्येभ्योऽपि- '(वा-५।२।१०९)इति वप्रत्यये वल्लवः । वल्लिः सौत्रो धातुः प्रीत्यर्थे, ततो घजि वल्ल: प्रीतिस्तां वाति प्राप्नोतीति, 'आत:-'३।२।३ ॥ इति को वा ।
अष्टौ 'रसोईदार' इति ख्यातस्य॥
भौरिकः कनकाध्यक्षः
१ भूरिणि सुवर्णे नियुक्तो भौरिकः । तत्र नियुक्तः' ४।४।६९॥ इति ठक् । हैरिक इति ऊष्मचतुर्थद्वादशस्वरा दिरयमित्यन्ये। २ कनकस्याऽध्यक्षः कनकाध्यक्षः । द्वे स्वर्णा धिकारिणः ॥
रूप्याध्यक्षस्तु नैष्किकः ॥७२३॥
३० १ रूप्यस्य 'मुहुरि रूपईया' इत्यादिभाषाप्रसिद्धस्य __ अध्यक्षः रूप्याध्यक्षः । २ निष्के दीनारादौ नियुक्तो नैष्किकः । 'तत्र नियुक्त:'४।४।६९॥ इति ठक् । टङ्कपतिरपि । द्वे रूप्याधि कारिणः ॥७२३॥
स्थानाध्यक्षः स्थानिकः स्यात्
१ स्थानस्य पञ्चानां दशानां वा ग्रामाणां रक्षानियुक्तो ___ऽध्यक्षः स्थानाध्यक्षः । २ स्थाने नियुक्तः स्थानिकः । तत्र नियुक्त:'४४६९ ॥ इति ठक् । द्वे 'थाणदार' इति ख्यातस्य ॥
शुल्काध्यक्षस्तु शौल्किकः ।
१ शुल्कस्य मार्गप्रतोल्यादौ प्रावेश्यनिस्सार्यद्रव्येभ्यो
४० राजग्राह्यभागस्याऽध्यक्षः शुल्काध्यक्षः । २ शुल्के नियुक्तः शौल्किकः । तत्र नियुक्तः'४।४।६९॥ इति ठक् । द्वे 'दाणी'. इति ख्यातस्य ॥
शुल्कस्तु घट्टादिदेयम्
१ शलति प्रतिबन्धोऽनेन शुल्कः । 'शल गतौ' (भ्वा.प.से.), 'शुल्कवल्कोल्का:'( )इति निपात: 1 "शक्तः शुल्कशिखण्डौ शम्या श्रमण : शपथशुल्कौ''["]इति शभेदात् तालव्यादिः । घट्टतेऽत्रेति घट्टः । 'घट्ट स्खलने (भ्वा.आ.से.), अधिकरणे घञ् । घट्टो राजग्राह्यग्रहणस्थानादि वर्त्म । “घट्टोऽत्र रक्षार्थं राजदेयभार्ग: शुल्कः"[]इति माधवी । घट्टो नदी-
५० तटस्थानम्, 'घाट' इति प्रसिद्धो वा, स आदिर्यस्य स घट्टादिः, आदिशब्दाद् गुल्मप्रतोल्यादिः, तत्र दीयते घट्टादिदेयम् । 'अचो यत्'३।१।९७॥ । आदिशब्दाद् गुल्मप्रतोल्यादौ प्रवेश्यनिःसार्य द्रव्येभ्यो राजग्राह्यो भागोऽत्र शुल्क: । यदमर:-"घट्टादिदेयं शुल्कोऽस्त्री । शुल्कशब्दो विवाहाय वराद् ग्राह्यवस्तुवाच्यपि। यदजय:-"शुल्को घट्टे विवाहाय वराद् ग्राह्ये च वस्तुनि" [ ]इति । महेश्वरोऽपि-"शुल्कं घट्टादिदेये स्याजामातुर्बन्ध
१. 'ओदनशि-' इति१ ॥ २. इतोऽग्रे ४प्रतौ 'वा' इति दृश्यते ॥ ३. 'कुण गुण चामन्त्रणे' इति स्वामी, 'केत ग्राम कुण गुण चामन्त्रणे' इति मैत्रेयः, 'सङ्केत ग्राम कुण गुण चामन्त्रणे' इति सायणः ॥ ४. 'तेन दिव्यति-'४।४।२॥ इत्यतः 'तेन' इत्यनुवृत्तेः कर्मणि ठक् चिन्त्यः ॥ ५. 'पत्र' इति पाठोऽनुपयुक्तः प्रतिभाति ॥ ६. तुलनीयोऽमरकोषः२।८७॥ ७. 'मुहर' इति३, 'मुहरि' इति४॥ ८. 'शुकवल्कोल्का:'(उणा-३२२) इत्युणादिगणसूत्रम् ॥ ९. 'श्रवणः' इति१.२.४ ।। १०. द्र. पदचन्द्रिका, भा-२, क्षत्रवर्गः, शो-४८१, पृ.५६७॥ ११. 'घट्ट चलने' इति क्षीरतरङ्गिण्यादौ ॥ १२. '-देयो भागः' इति३॥ १३. द्र. पदचन्द्रिका, भा-२, क्षत्रवर्गः, श्रो-४८१, पृ.५६७ ॥, तत्र "घट्ट स्खलने । घट्टतेऽत्र । घञ् (पा.३।३।१२१॥) । घट्टो राजग्राह्यग्रहणस्थानादिः ।" "घट्टो वर्त्म 'घाटी 'ति ख्यातः । तत्र रक्षार्थं राजदेयभागः शुल्कः" इति माधवी ।" इति दृश्यते ॥ १४. इतोऽग्रे ४प्रतौ 'यो' इति दृश्यते ॥
केऽपि च"[विश्वप्रकाशकोशः, कान्तवर्गः, शो-४३]इति । "जामातुर्बन्धको विवाहाय वराद् ग्राह्यं धनम्''[]इति तद् वृत्तिः । तदा लोके 'पडलउं' इति भाषा । यद्रघु:-"स्वं विचिन्त्य च धनुर्दुरानमं पीडितो दुहितृशुल्कसंस्थया''[रघु वंशम्, सर्ग:-११, शो-३८], "हनूमानपि शृणुत जनकशुल्कं क्षत्रियाः सर्व एते''[ ]इति । एकं 'नदीऊतरणउं दाण भाडओ' इति प्रसिद्धस्य ॥
धर्माध्यक्षस्तु धार्मिकः ॥७२४॥ धर्माधिकरणी च
१० १ धर्मस्याऽध्यक्षः धर्माध्यक्षः । २ धर्मं चरति धार्मिकः । 'धर्मं चरति'४।४।४१ ॥इति सूत्रेण ठक् ॥७२४॥ ३ धर्मेऽधिकरणमधिकारोऽस्य धर्माधिकरणी । 'अत इनि ठनौ'५।२।११५॥ इतीनिः । त्रणि धर्माधिकारिणः ॥
अथ हट्टाध्यक्षोऽधिकर्मिकः ।
१ हट्टेष्वध्यक्षो हट्टाध्यक्षः । २ अधि उपरि कर्माऽ स्य अधिकर्मिकः । 'व्रीह्यादिभ्यश्च'५।२।११६ ॥ इति ठन् । द्वे हट्टाधिकारिणः ॥
चतुरङ्गबलाध्यक्षः सेनानीर्दण्डनायकः ॥७२५॥
१ चत्वारि हस्त्यश्वरथपादातिकानि अङ्गानि यस्य
२० तच्चतुरङ्गम्, तच्च तद् बलं सैन्यं च चतुरङ्गबलम्, तस्याऽध्यक्षः
चतुरङ्गबलाध्यक्षः । २ सेनां नयति सेनानी: । ‘णी प्रापणे'(भ्वा.उ.अ.), 'सत्सूद्विष-'३।२।६१ ॥ इति क्विप् । ३ दण्डं सैन्यं नयति दण्डनायकः । ‘णीब् प्रापणे'(भ्वा.उ.अ.), ण्वुल् । त्रीणि 'सेलहत' इति ख्यातस्य ॥७२५॥
स्थायुकोऽधिकृतो ग्राम
१ तिष्ठतीत्येवंशीलः स्थायुकः । ष्ठा गतिनिवृत्तौ' (भ्वा.प.अ.), 'लषपतपदस्था-'३।२।१५४॥ इत्युकञ्, 'आतो युक् चिण्कृतो:'७।३।३३ ॥ इति युक् । एकस्मिन् ग्रामेऽधि कारीत्यर्थः । 'सांहणा' इति भाषा ॥
३० गोपो ग्रामेषु भूरिहा॑ ।
१ गां भुवं पाति रक्षति गोपः । 'पा रक्षणे'(अ. प.अ.), 'आतोऽनुपसर्गे कः'३।२।३॥ । गोपायतीति गोपो वा। 'गुपू रक्षणे'(भ्वा.प.से.), अच् । बहुषु ग्रामेष्वधिकृतोऽधि कारी । “गोपौ भूपालवल्लवौ ग्रामौघगोष्ठाधिकृतौ"[अनेकार्थ सङ्ग्रहः २।२८९-२९०] इत्यनेकार्थः । " 'ग्रामौघाधिकृतौ' [ ]इत्यनेकार्थः, ग्रामौघाधिकृतो ग्रामपतिः"[ ]इति तट्टीका । एकं ग्रामवृन्दपतेः ॥
स्यातामन्तःपुराध्यक्षेऽन्तर्वंशिकाऽऽवरोधिकौ ॥७२६॥
१ अन्तरिति, तात्स्थ्यलक्षणयाऽन्तराभ्यन्तरस्थो वंशो गृहमन्तर्वंशः, तत्र भवोऽधिकृतत्वाद् विद्यमानः, 'अन्तपूर्वपदाट
४० ठञ् '४।३।६० ॥ इति ठञ्, संज्ञापूर्वकत्वाद् वृद्ध्यभावः । मत्वर्थे ठन् वा । अन्तर्वंशस्य अन्तर्वंशम्, अव्ययीभावः । ताः सन्त्यस्य अन्तर्वंशिकः वा । वृद्धिपक्षे आन्तर्वंशिकोऽपि । २ अवरोधे नियुक्तः आवरोधिकः । तत्र नियुक्तः'४।४।६९ ॥इति ठक् । आन्त:पुरिकोऽपि । “अन्तःपुरे त्वधिकृतः स्यादन्तर्वंशिको जनः" [अमरकोषः२।८।८ ॥] इत्यमरः । “[जनः] कुब्जवामनादि समूह:"[अम.क्षीर.२।८।८ ॥] इति तट्टीका । द्वे सामान्येन कुब्जवामनादिकान्त:पुराधिकारिणः ॥ [शेषश्चात्र
"क्षुद्रोपकरणानां स्यादध्यक्षः पारिकर्मिकः ।
५० पुराध्यक्षे कोट्टपतिः पौरिको दाण्डपाशिकः ॥१॥"
[शेषनाममाला३।१४२ ॥] ] ॥७२६॥
शुद्धान्तः स्यादन्तःपुरमवरोधोऽवरोधनम् ।
१ शुद्धाः शुचयः सौविदल्ला अन्तेऽस्य शुद्धान्तः, पुंक्ली. । २ अन्तर्गतं पुरस्य गृहस्य अन्तःपुरम् । ३ अव रुध्यते अवरोधः । कर्मणि घञ् । ४ अवरुध्यते अवरोध नम् । कर्मणि ल्युट् । चत्वारि अन्तःपुरस्य ॥
सौविदल्लाः कञ्चुकिनः स्थापत्याः सौविंदाश्च ते ॥७२७॥
१ सुविदन्तं (विवाहं जानन्तं लान्ति सुविल्ला ऊढाः)
६० स्त्रियः, तत्र भवा विद्यमानाः सौविदल्लाः । तत्र भवः'४।३। ५३॥ इत्यण् । सुष्ठ विदन्ति जानन्ति अन्तःपुरव्यापारमिति
१. 'पडलनु' इति३, 'पडलौ' इति४॥ २. 'नदीउतरणौ' इति ॥ ३. '-भाडौ' इति३.४॥ ४. तुलनीयोऽमरकोषः२८७॥ ५. 'ठञ्' इति३.४॥ ६. तुलनीयोऽमरकोषः २८८ ॥ ७. कोष्ठान्तर्गतपाठस्थाने१.२.४ प्रतिषु "विदलाः शण्ढाः" इति दृश्यते ॥
सुविदः पण्डिताः । 'क्विप् च'३।२७६ ॥ इति क्विप् । तानतति सातत्येन गच्छति सुविद् भूपालः, तं लाति सुविदल्लमन्त: पुरम् । 'आतोऽनुपसर्गे कः'३।२।३॥, 'तोर्लि'८।४।६० ॥ इति लत्वम् । तत्र भवाः सौविदल्ला वा । २ कञ्चकश्चोलको विनीत वेषार्थमस्त्येषां कचकिनः । 'अत इनिठनौ'५।२।११५ ॥ इतीनिः । ३ तिष्ठत्यस्मिन्निति स्थः, घबर्थे कः, स्थश्चासौ पति श्चेति स्थपतिः, तस्याऽमी, ('पूर्वावण्यस्यस्थाप) 'दित्यदित्य-' ४।११८५ ॥ इत्यादिना ण्यः स्थापत्या: । बृहस्पतीष्ट्या इष्टवान्, स भूपः स्थपतिः, तस्यामपूर्वावण्य (तस्येमे, पूर्ववण्ण्यः )।
१० "स्थपतिः [एव, 'चतुर्वर्णादीनां स्वार्थ उपसङ्ख्यानम्'(वा ५।१।१२४॥] इति स्वार्थे ष्यञ्"[ ]इत्यन्ये । "कुलस्त्रीर्व्यवस्था स्थापयन्ति स्थपतयः, स्थपतय एव स्थापत्याः, चातुर्वण्यादित्वात् ष्यञ्''[ ]इत्यन्ये । ४ सु शोभनं वेत्ति, इगुपधत्वात् कः, सुविदो राजा, तस्याऽमी सौविदाः । 'प्राग्दीव्यतोऽण'४।१८३ ॥ इत्यण् । चत्वारि अन्तःपुररक्षिणाम्, "कुब्जवामनादीनाम्" [अभि. स्वोपज्ञटीका ३७२७] इत्याचार्याः ॥७२७॥
षण्ढे वर्षवरः
१ षण्ढः नपुंसकोऽत एवान्तःपुररक्षकस्तत्र । शण्ढस्तालव्यादिष्टवर्गचतुर्थोऽपि । शाम्यति शिश्नाभावात् शण्ढः ।
२० ['शमु उपशमे'(दि.प.से.)], 'शमेढः'(उणा-९९)इति ढः । "शण्ढः क्लीबस्तु कञ्चकी''[ ]इति तालव्यादौ रभसः । २ वर्ष वीर्यसेकं वृणोत्याच्छादयति वर्षवरः । 'वृञ् आच्छादने ' (स्वा.उ.से.), अच् । वरति निराकरोति वरः । वर्षस्य रेत: सेकस्य वरो वर्षवरः ।
"ये त्वल्पसत्त्वाः प्रथमाः क्लीबाश्च स्त्रीस्वभाविनः ।
जात्या न दुष्य:(दुष्टाः) कार्येषु ते वै वर्षवराः स्मृताः ॥१॥" ["]इति । द्वे 'षोजा' इति ख्यातस्य ॥
शत्रौ प्रतिपक्षः परो रिपुः ।
शात्रवः प्रत्यवस्थाता प्रत्यनीकोऽभियात्यरी॥७२८॥
दस्युः सपत्नोऽसहनो विपक्षो।
३० द्वेषी द्विषन् वैर्यहितो जिघांसुः ॥
दुर्हत् परेः पन्थकपन्थिनौ द्विट् ।
प्रत्यर्थ्यमित्रावभिमात्यराँती ॥७२९॥
१ शृणाति हिनस्तीति शत्रुः । 'शू हिंसायाम्' (त्र्या.प.से.), 'जञ्चादयश्च'(उणा-५४२)इति साधुः । [यद्वा] शातयतीति शत्रुः । 'शद्लु शातने'(भ्वा.तु.आ.अ.), 'नृ (तृ)शदिभ्यां त्रुन् '( )इति त्रुन्, बाहुलकाण्णिलोपो वृद्ध्य भावश्च, प्रत्ययलक्षणेन णिज्निमित्तम्, तत्त्वम्, तत्र । २ प्रति कूलः पक्षः प्रतिपक्षः । ३ पिप्रति रोषमिति परः । 'पृ पालनपूरणयो:'(जु.प.अ.), अच्, 'इत्त्वोत्त्वाभ्यां गुणवृद्धी पूर्व-
४० विप्रतिषेधेन'(वा-७।१।१०२)इत्युत्त्वापवादो गुणः । ४ रपति दोषं व्यक्तीकरोति रिपुः । 'रप व्यक्तायां वाचि'(भ्वा.प.से.), 'रपेरिच्चोपधायाः'(उणा-२६)इति कुप्रत्यये उपधाया इत्त्वम् । ५ शत्रुरेव शात्रवः । 'प्रज्ञादिभ्यश्च'५।४।३८॥ इत्यण् । ६ प्रतीपमवतिष्ठतीति' प्रत्यवस्थाता । तच । ७ प्रतीपमनी कमस्य प्रत्यनीकः । ८ अभिमुखं याति अभियातिः । 'या प्रापणे'(अ.प.अ.), 'अभेर्यामाभ्याम्'(हैमोणा-६६३)इत्यातिः । "याधातोः क्तिचि"[टीकासर्वस्वम् २।८।१०॥] इति सर्वस्वम् । 'यती प्रयत्ने'(भ्वा.प.से.), निरीकारों वेति चुरादिण्यन्ताद् 'अच इ:'(उणा-५७८)इति इर्वा । अभिघातीत्यपि । अभि
५० सर्वतो हन्तुं शीलमस्य अभिघाती । 'हन् (हन) हिंसागत्योः (अ.प.अ.), 'सुप्यजातौ-'३।२७८ ॥इति णिनिः । ८ इयर्ति" विरोधमिति अरिः । 'ऋ गतौ '(जु.प.अ.), 'अच इ:'(उणा ५७८)इति इः ॥७२८॥ १० दस्त्यत्यभिमतार्थमुत्क्षिपति दस्युः । 'तसु उत्क्षेपणे '(दि.प.से.), 'दसु च'(दि.प.से.), 'जनिमनितनिदसिभ्यो यु :'(उणा-३००)इति युः, बाहुलकाद्
१. 'भव इत्यण' इति१, 'भवः' इति२॥ २. कोष्ठान्तर्गतपाठो विचारणीयः ॥ ३. '-स्थाया' इति२.३.४॥ ४. '-धात्' इति१॥ ५. '-दयः' इति स्वोपज्ञटीकायम्, ३१७२७॥, पृ.१६१॥ ६. '-र्यः' इति१.२ ।। ७. द्र. पदचन्द्रिका, भा-२, क्षत्रवर्गः, श्रो-४६३, पृ.५४६॥ ८. 'वरणे' इति क्षीरतरङ्गिण्यादौ॥ ९. 'च' इति३.४॥ १०. द्र. टीकासर्वस्वम्, भा-३, २८॥९॥, पृ.५८ ॥, तत्र "ये त्वल्पसाराः प्रखलाः क्लीबाश्च स्त्रीस्वभाविनः । न दुष्टाः क्वापि कार्ये च ते वै वर्षवराः स्मृताः ॥" इति दृश्यते ॥ ११. '-स्ति' इति१.२॥ १२. ' -यति' इति१ ॥ १३. 'रुशातिभ्यां क्रुन्' इत्युणादिगणे ॥ १४. द्र. मा. धातुवृत्तिः, भ्वादिः, धातुसं-५८४, पृ.२१९ ॥ १५. '-ष्ठति' इति१.२ ॥, 'समवप्रविभ्यः स्थ:'१।३।२॥ इत्येनेनाऽऽत्मनेपदित्वादिदं 'अवतिष्ठतीति' रूपं विचारणीयम् ॥ १६. सर्वानन्दकृतटीकासर्वस्वे "याते: क्तिच् । अभियातिः" इति दृश्यते, भा-३, २८॥१०॥, पृ.६०॥ १७. 'यत निकारोपस्कारयोः' इति चुरादौ क्षीरतरङ्गिण्यादौ ॥ १८. 'इर्यति' इति३, 'इर्यते' इति४॥ १९. 'तसु उपक्षये' इति स्वामिसायणौ, 'तसु प्रक्षेपे' इति मैत्रेयः ॥ २०. 'यजिमनिशुन्धिदसिजनिभ्यो युच्' इत्युणादिगणसूत्रम् ॥
योरनादेशाभावः, अनुनासिकत्वप्रतिज्ञानाद्वा । ११ सपत्नीव सन्तापहेतुत्वात् सपलः । 'व्यन् सपने'४।१।१४५ ॥ इति निर्देशा दकारः । १२ न सहते असहनः । 'षह मर्षणे'(भ्वा.आ.से), युच् । १३ विरुद्धः पक्षो विपक्षः । "पक्षो मासार्धके पार्श्वे ग्रहे साध्या(साध्य)विरोधयोः"[विश्वप्रकाशकोशः, क्षान्तवर्गः, श्रो-५] इति मेदिनि:(विश्व:)। १४ द्वेषणशीलो द्वेषी । 'द्विष् (द्विष) अप्रीतौ'(अ.उ.अ.), सम्पृचादित्वाद् घिनुण् । १५ द्वेष्टीति द्विषन् । 'द्विषोऽमित्रे'३।२।१३१ ॥ इति शतृप्रत्ययः । द्विषन्तौ, द्विषन्तः इत्यादि । १६ वीरस्य कर्म वैरं विरोधः,
१० वैरमैथुन(नि)कयो:'४।३।१२५ ॥ इति निर्देशादण् । “युवा
दित्वादण्''[ ]इत्यन्ये, तदयुक्तम्, तत्र पाठादर्शनात् । तद्योगाद् वैरी । मत्वर्थे इनिः । १७ हिताचरणाद् हितः, न हितः अहितः । नास्ति हितमस्माद्वा अहितः । १८ हन्तुमिच्छति जिघांसति, जिघांसतीत्येवंशीलो जिघांसुः । 'सनाशंसभिक्ष उ:'३।२।१६८॥ १९ क्रोधेन दुष्टं हृदयमस्य दुर्हत् । 'सुहृत्दुहृदौ मित्रामित्रयोः५।४।१५०॥इति हृदयस्य हृदादेशः । दुईदौ, दुहृदः इत्यादि । २०-२१ परेः परिशब्दात् पन्थिकपन्थिनौ योज्येते, परितः पन्थयति गच्छति परिपन्थि(न्थ )कः। 'पथि गतौ '(चु.उ.से.), णिजन्तः, ण्वुल्। परि दोषाख्यानं पन्थयति
२० गच्छति परिपन्थी । 'पथि गतौ'(चु.उ.से.)इत्यास्माच्चुरादे
ग्रहादित्वाणिनिः। परिशब्दं प्रकृत्य(प्रकृते) "दोषाख्याने निरसने पूजांवास्थ्योश्च(पूजाव्याप्त्योश्च) भूषणे''[ मेदिनीकोशः, अव्ययवर्गः, श्रो-६८] इति मेदिनिः । २२ द्वेष्टीति द्विट् । 'सत्सूद्विष-'३।२६१ ॥ इत्यादिना क्विप् । २३ प्रतिकूलमव श्यमर्थयते प्रत्यर्थी । 'अर्थ याच्वायाम् (चु.उ.से.), आवश्यके णिनिः । २४ अमति गच्छति वैरम् अमित्रः । 'अम्(अम) गतौ'(भ्वा.प.से.)। अमति (आमयति) रुजतीति वा । 'अम रोगे'(चु.उ.से.), 'अमेर्द्विषि पिच '(उणा-६१३) इति इत्रन् ।
मित्रविरुद्धकर्माचरणाद्वा अमित्रः । "लोकाश्रयत्वात् पुंस्त्वम्"
३० [] इत्यन्ये । असृहृदपि । २५ अभिमाति क्रुध्यति अभि मातिः । 'मा माने'(अ.प.अ.), 'क्तिच्तौ च संज्ञायाम्'३।३। १७४॥इति क्तिच् । २६ इयर्ति अरातिः । 'ऋ गतौ'(जु. प.अ.), 'रा दाने'(अ.प.अ.), बाहुलकाद् 'हरसिभ्यां तिः' ( )इति राधातोरपि तिः । षड्विंशतिः शत्रोः ॥७२९॥
वैरं विरोधो विद्वेषः
१ वीरस्येदं कर्म वैरम् । 'तस्येदम्'४।३।१२० ॥ इत्यण् । २-३ विरोधनं विरोधः । विद्वेषणं विद्वेषः । उभयत्र भावे घञ् । त्रीणि वैरस्य ॥
वयस्यः सवयाः सुहृत् । स्निग्धः सहचरो मित्रं सखा
४० १ वयसा तुल्यो वयस्यः । 'नौवयो- '४।४।९१ ॥ इत्यादिना यत् । शब्दशक्तिस्वाभाव्यात् तुल्यवयस्क: प्रिय वाचकः । २ समानं वयोऽस्येति सवयाः । 'अत्वसन्तस्य चाधातो:'६।४।१४॥ इति दीर्घः । सवयसौ, सवयसः इत्यादि । ३ सोभनं हृदयमस्य सुहृत् । 'सुहृत्दुहृदौ मित्रामित्रयोः५।४। १५०॥ इति निपातः । ४ स्निह्यति स्निग्धः । 'ष्णिहं प्रीतौ' (दि.प.से.), 'मतिबुद्धिपूजार्थेभ्यश्च'३।२।१८८॥इति चकाराद् वर्तमाने क्तः । ५ सहचरतीति सहचरः । एवं सहायोऽपि । ६ मेद्यति स्निह्यति मित्रम्, क्लीबे । 'जिमिदा स्नेहने' (दि.प.से.), अमिचिमिदिशसिभ्यस्त्र :'(उणा-६०३)। "मित्र- t
५० माविष्टलिङ्गम्''[] इति मिश्राः । ७ समानः ख्यायते जनैः समानं ख्यातीति वा सखा । ‘ख्या प्रकथने'(अ.प.अ.), 'समान:(समाने) ख्यः, स चोदात्त:'(उणा-५७६)इतीण, स च डित्, ‘वेजो डित्-(वातेर्डिच्च) '(उणा-५१२)इत्यनुवृत्तेः डित्त्वाट्टिलोपो यलोपश्च, '-य[लोप:]-'(उणा-५७५)इत्यनु वृत्तेः समानस्य सभावः, 'अनङ(अनङ् ) सौ'७।१।९३॥ इत्यनङ् । सप्त मित्रस्य ॥
१. '-कप्रति-' इति३ ॥ २. '-न्यः' इति१.२॥, द्र. पदचन्द्रिका, भा-२, क्षत्रवर्गः, श्री-४६४, पृ.५४८ ॥ ३. 'पर' इति१.२ ॥ ४. '-ति' इति३.४॥ ५. 'याचनायां' इति४, मैत्रेयसम्मतोऽयं धात्वर्थः, 'उपयाच्यायाम्' इति स्वामिसायणौ ॥ ६. 'अमेर्द्विपति चित्' इत्युणादिगणे ॥ ७. '-द्धं' इति१.२ ।। ८. द्र. पदचन्द्रिका, भा-२, क्षत्रवर्गः, शो-४६५, पृ.५४९ ॥ ९. तुलनीयोऽमरकोषः ११७।२५॥ १०. 'विशेषेण रोधो विरोधः' इति४॥ ११. इतोऽग्रे १प्रतौ 'धर्म' इति दृश्यते ॥ १२. '-वयसः' इति३॥ १३. दीर्घत्वे 'ज्योतिर्जनपद-'६।३।८५॥ इत्येनन समानस्य स इत्यपि बोध्यम् ॥ १४. 'स्तिह' इति३॥ १५. 'मिद्यति' इति२.४, 'मिद्यते' इति३॥ १६. '- भ्यः कत्रः' इत्युणादिगणे ॥ १७. द्र. पदचन्द्रिका, भा-२, क्षत्रवर्गः, थो-४६६, पृ.५५० ॥ १८. इतोऽग्रे ४प्रतौ 'सखा' इति दृश्यते ॥ १९. 'मित्रस्य सप्त' इति३.४॥
सख्यं तु सौहृदम् ॥७३०॥ सौहार्दै साप्तपदीनमैत्र्यजर्याणि सङ्गतम् ।
१ सख्युर्भावः कर्म वा सख्यम् । 'सख्युर्यः' । ५।१।१२६ ॥ इति यः । २ सुहृदो भावः सौहृदम् । युवादित्वादण, बाहुलकादुत्तरपदस्य न वृद्धिः ॥७३०॥ ३ सुहृदयस्य भावकर्मणी सौहार्दम् । 'हायनान्तयुवादिभ्योऽण्' ५।१।१३०॥ इत्यण, 'हृद्भगसिन्धु-७।३।१९॥ इत्युभयपद वृद्धिः, 'हृदयस्य हल्लेख '६।३।५० ॥ इत्यादिना हृदयस्य
हृद्भावः। ४ सप्तभिः पदैरवाप्यते साप्तपदीनम् । 'साप्तपदीनं
१० सख्यम्'५।२।२२ ॥इति साधुः । सप्तभिः पदैः क्रमैस्त्या द्यन्तैर्वाऽवाप्यते साप्तपदीनमिति वा । प्राक् सूत्रेणैव साधुः । सखाऽपि । ५ मित्रस्य भावः कर्म वा मैत्र्यम्, ङीषि मैत्री। ६ न जीर्यति अजयम् । 'ज[ष्] वयोहानौ' (दि.प.से.), 'अजयं सङ्गतम्'३।१।१०५ ॥ इति सूत्रेण साधुः । ७ सङ्गमनं सङ्गतम् । बाहुलकाद् भावे क्तः । सप्त 'मित्राई' इति ख्यातायाः ॥
आनन्दनं त्वाप्रच्छनं स्यात् सभाजनमित्यपि ॥७३१॥
__१ आनन्द्यते आनन्दनम् । 'टुणदि(टुनदि) समृद्धौ' (भ्वा.प.से.), भावे ल्युट् । २ आपृच्छ्यते आप्रच्छनम् ।
२० भावे ल्युट् । आयूर्वः प्रच्छिरालिङ्गनार्थः । यथा-"आपृच्छ स्व प्रियसखममुम्'' [मेघदूतम्, पूर्वमेघः, लो-१२]इति । ३ सभाज्यते सभाजनम् । 'सभाज प्रीतिसेवनयों:'(चु.उ.से.), चुरादिः, भावे ल्युट् । “सभाजनायोपगतान् स दिव्यान् मुनीन् पुरस्कृत्य हतस्य शत्रोः''[रघुवंशम्, सर्गः-१४, शो-१८]इति रघुः । त्रीणि आलिङ्गनानन्दस्य । आलिङ्गय कुशलादि पृच्छेत्यर्थः । 'मिलवउं' इत्यादिभाषा ॥७३१॥ विषयानन्तरो राजा शत्रुः
१ विजिगीषोः राज्ञो विषयाज्जनपदादनन्तरोऽव्यवहितो राजा शत्रुः उच्यत इत्यन्वयः । एकं शत्रुराज्ञः ॥
मित्रमतः परम् ।
३० १ अतोऽस्माच्छत्रो राज्ञः परं परभूमिस्थितं विजि ___ गीषोः राज्ञो मित्रम् उच्यत इत्यन्वयः । एकं मित्रराज्ञः ॥
उदासीनः परतरः
१ शत्रुमित्रयो राज्ञोभूमिभ्यः परतरो बाह्य उदासीनः उच्यत इत्यन्वयः । उद्पूर्वादासे: शानच् । एकमुदासीनराज्ञः ॥
पाणिग्राहस्तु पृष्ठतः ॥७३२॥
१ विजिगीषोः राज्ञः पश्चात् स्थितराजनामैकं पार्णि ग्राहः इति । शत्रुजयायोद्यतस्य विजिगीषोस्तच्छत्रुपक्षपातेन यः पाणि पश्चात्पदं गृह्णाति यातीति । 'कर्मण्यण'३।२।१॥ । "सैन्यपृष्ठे पुमान् पाणिः पश्चात्पदजिगीषयोः"[ ]इति विश्वः ।
४० विजिगीषुशत्रुमित्रोदासीनपार्णािग्राहेषु पञ्चस्वेतेषु द्वादशराजक मण्डलं परिसमाप्तम् । यदुक्तम्
"अरिथर्मित्ररमरेर्मित्रं३ मित्रमित्रमहतः परम् ।
तथारिमित्रमित्रं५ च विजिगीषोः पुरः स्मृताः ॥१॥
पाणिंग्राह१स्तथाक्रन्दर आसारौ च तयोः पृथक्३-४।।
मध्यमो५ऽथाप्युदासीन६ इति द्वादशराजकम् ॥२॥"["] ॥७३२॥
अनुवृत्तिस्त्वनुरोधः
__ १ अनुवर्तनम् अनुवृत्तिः । 'वृतु वर्तने'(भ्वा.आ.से.), 'स्त्रियां क्तिन्'३।३।९४॥ । २ अनुरोधनम् अनुरोधः । भावे घञ् । द्वे इच्छानुवर्तनस्य । 'मनराखवउं' इति भाषा ॥
५० हेरिको गूढपूरुषः ।
प्रणिधिर्यथार्हवर्णोऽवसर्पो मन्त्रविच्चरः ॥७३३॥
१. '-न्तैर्वाप्यते' इति३॥ २. 'मित्र्यस्य' इति४॥ ३ 'सभाज प्रीतिदर्शने' इति स्वामी, 'समाज प्रीतिदर्शनयोः' इति मैत्रेयसायणौ ॥ ४. '-ङ्गता आनन्दस्य' इति१, '-ङ्गना आनन्दस्य' इति२॥ ५ 'मिलवु' इति३, 'मिलवउ' इति४॥ ६ तुलनीयोऽमरकोषः२।८।९॥ ७. तुलनीयोऽमरकोषः २८९-१०॥ ८ 'शत्रु' इति४॥ ९. 'पाणिः' इति४॥ १०. द्र. पदचन्द्रिका, भा-२, क्षत्रवर्गः, शो-४६४, पृ.५४८ ॥, रामाश्रमी२।८।१०॥, पृ.३५० ॥, विश्वप्रकाशविश्वलोचनकोशयोर्न दृश्यते ॥ ११. "राजानस्तु 'अरिर्मित्रमरेर्मित्रं मित्रमित्रमतः परम् । तथारिमित्रमित्रं च विजिगीषोः पुरस्सराः ॥' पञ्चेति शेषः । 'पाणिंग्राहास्ततः पश्चादाक्रन्दस्तदनन्तरम् । आसारावनयोश्चैव विजिगीषोस्तु पृष्ठतः ॥' पाjिग्राहासारः आक्रन्दासारश्चेत्यर्थः । अत्र चत्वार इति । एवं नव भवन्ति । विजिगीषुर्दशमः । 'अरेश्च विजिगीषोश्च मध्यमो भूम्यनन्तरः । अनुग्रहे संहतयोः समर्थो व्यस्तयोवंधे । मण्डलाद् बहिरेतेषामुदासीनो बलाधिकः ॥' इति मध्यमोदासीनाभ्यां सह द्वादश वेदितव्याः ॥" इति शिशुपालवधसर्वकषाटीका, शिशुपालवधम्, २८१॥, पृ.५३॥ १२. द्र. अम.क्षीरस्वामिटीका २८॥१०॥, पृ.१७८ ।, स्वोपज्ञटीका३ ७३२ ॥, पृ.१६२॥ १३. '-वौ' इति४, ‘-वो' इति३ ॥
वार्तायनः स्पशश्चारः
१ हिनोति परराष्ट्रं गच्छति हेरिकः । 'हि गतौ वृद्धौ च'(स्वा.प.अ.), पृषोदरादिः । २ गूढ आवृतः पूरुषो गूढपूरुषः । ३ प्रकर्षेण निधीयते स्थाप्यते ज्ञेयमत्रेति प्रणिधिः । 'डुधाञ् धारणादौ'(जु.उ.अ.), 'उपसर्गे घोः कि:'३।३।९२ ।। इति किः । ४ यथार्ह वर्णः प्रकारोऽस्य यथार्हवर्णः । यत्र येन प्रकारेणाऽन्तस्तत्त्वं ज्ञातुं शक्यते, तत्र तथाभूतः प्रकारोऽस्येत्यर्थः । “वर्णः स्याद्भेदरूपयोः" []इति धरणिः । देशकालोचितो वर्ण आकारः, जातिवर्णनं
१० वाऽस्य यथार्हवर्णः। ५ तत्त्वज्ञानार्थमवसर्पत्यधिकं भ्रमति अवसर्पः । 'सृप्लु गतौ'(भ्वा.आ.से.), अच् । “अपकृष्ट सर्पत्यपसर्पः"[ ]इति तु सुभूतिः । “अवच्छन्नं सर्पत्यप सर्पः"[अम.क्षीर.२।८।१३ ॥] इति स्वामी । ६ मन्त्रं वेत्तीति मन्त्रवित् । क्विबन्तः । ७ चरति जानाति पर तत्त्वं चरः । 'चर गतौ'(भ्वा.प.से.), अच् ॥७३३॥ ८ वार्तामयते वार्तायनः । 'अय गतौ '(भ्वा.आ.से.), नन्द्यादित्वाल्ल्युः । ९ स्पशिः सौत्रस्तालव्यान्तः, स्पशति बाधते परानिति स्पशः । पचाद्यच् । 'स्पश बाधन
स्पर्शनयो: '(भ्वा.उ.से.)इत्यस्य वा पचाद्यचि । १० चर
२० एवं, 'चर गतौ'(भ्वा.प.से.), अच्, प्रज्ञाद्यणि चारः । दश
'हेरू' इति ख्यातस्य ॥
आप्तप्रत्ययितौ समौ ।
१ "रागद्वेषविनिर्मुक्त आप्त इत्यभिधीयते''["]इति । आप्यते स्म आप्तः । 'आप्M व्याप्तौ'(स्वा.प.अ.), कर्मणि क्तः । २ प्रत्ययो विश्वासः सञ्जातोऽस्य प्रत्ययितः, त्रिलिङ्गः वाच्यलिङ्गत्वात् । तारकादित्वादितच्प्रत्ययः । “प्रत्ययः शपथे रन्ध्रे विश्वासाधरहेतुएं"[विश्वप्रकाशकोशः, यान्तवर्गः, शो ६९]इति विश्वः । द्वे अव्यभिचारिवचनस्य पुंसः ॥
सत्रिणि स्याद गृहपतिः
१ सीदन्त्यस्मिन्निति सत्त्रं गृहं सदादानं च, तदस्या-
३० ऽस्ति सत्त्री । 'अत इनिठनौ'५।२।११५ ॥ इतीनिः, तत्र । २ गृहस्य पतिः गृहपतिः । द्वे गृहपतेः ॥
दूतः सन्देशहारकः ॥७३४॥
१ दूयतेऽनेन परः यथोक्तवादित्वादिति दूतः । 'दुङ् (टुदु) उपतापे'(स्वा.प.से.), 'दुतनिभ्यां दीर्घश्च'(उणा ३७०) इति तन् (क्तः) । दवति गच्छति परदेशमिति वा । २ सन्दिश्यतेऽसौ सन्देशः । 'दिश अतिसर्जने'(तु.प.अ.), कर्मणि घञ् । सन्देशो निवेद्यत्वेन वाग्विशेषस्तं हरति सन्देशहारकः । 'हृञ् हरणे'(भ्वा.उ.अ.), ण्वुल्। द्वे दूतस्य ॥७३४॥
सन्धिविग्रहयानान्यासनद्वैधाश्रया अपि ।
षड् गुणाः
१ एते सन्ध्यादयः षड् गुणाः, गुणशब्दवाच्या इत्यर्थः । तत्र स्वर्णादिदानेन बन्धुभिः प्रीत्युत्पादनं मित्रीकरणं सन्धिः । सम्पूर्वाद् दधातेः 'उपसर्गे घोः किः'३।३।९२ ॥ इति किः । २ विरुद्धं ग्रहणं परमण्डले दाहलुण्टनच्छेदादिः विग्रहः, निबन्धकाशकूटतूष्णीभेदेन त्रिविधः । ३ उपचित शक्तेः कृतमूलराष्ट्ररक्षस्य शत्रोरवस्कन्दाय गमनं यानम् । तच्च विगृह्ययानम्१, सन्धाययानम्र, संभूययानम्३, प्रसङ्गयानम्४, उपेक्ष्ययानम्५ चेति पञ्चविधम् । पश्चात् स्थायिनः शत्रोर्बल-
५० द्रव्यजनपदवासादिकं कृत्वा पुरोवर्तिनि शत्रौ या यात्रा, तद् विगृह्ययानम्१, शूराय राज्यग्रहणसमर्थेन शत्रुणा सन्धिसन्धायाऽरे: संमुखं गमनं सन्धाययानम्र, बलवदरिणा सन्धाय संमील्य, तैः सह यातुं केऽरौ(कातरेऽरौ) यद् यानम्, तत् संभूययानम्३ । एकं प्रति कृतयानस्याऽनन्तरोपस्थितानुद्देश्येऽपि यद् यानम्, तत् प्रसङ्गयानम्४ । शत्रौ शत्रोर्बलाधानाय पथि प्राप्तेषु शत्रुमित्रेषु अपरेषु वा बलिषु शत्रुमुपेक्ष्य यद् यानम्, तदुपेक्ष्ययानम् । ४ नाऽहमिदानी योद्धं समर्थ इति कालादिप्रतीक्षणं विजिगीषो दुर्गादीन् वर्धयतः स्थितिः आसनम् । तदपि विगृह्यासनं
१.'-मत्र' इति३.४॥ २. 'यथार्ह-' इति१.३ ॥ ३. द्र. पदचन्द्रिका, भा-२, क्षत्रवर्गः, शो-४६७, पृ.५५२ ॥, रामाश्रमी२।८।१३ ॥, पृ.३५१॥ ४. 'तत्र' इति१.३॥ ५. '-कष्टं' इति४॥ ६. द्र. पदचन्द्रिका, भा-२, क्षत्रवर्गः, यो-४६७, पृ.५५२ ॥ ७ ३प्रतौ नास्ति ॥ ८ 'वेत्ति' इति१.२॥ ९. '-त्वमिति' इति३॥ १०. इतोऽग्रे ४प्रतौ 'इति' इति, ३प्रतौ च 'प्राप्नोति' इति दृश्यते ॥ ११. 'परान्' इति ॥ १२. मैत्रेयसायणसम्मतोऽयं धात्वर्थः, 'बाधनस्पाशनयोः' इति स्वामी ॥ १३. इतोऽग्रे ४प्रतौ 'चारः' इति दृश्यते ॥ १४. 'हेरु' इति२.३ ॥ १५. द्र. पदचन्द्रिका, भा-२, क्षत्रवर्ग:, श्री-४६७, पृ.५५२॥ १६. 'विश्वासाचारहेतुषु' इति विश्वप्रकाशकोशे, पृ.१२०॥ १७ -स्तीति' इति३ ॥ १ इति४॥ १९. -दिभिः' इति३॥ २०. 'सन्धान-' इति३॥ २१. 'एकप्रकृत-' इति पदचन्द्रिकायाम, भा-२, क्षत्रवर्गः, श्रो-४७३, पृ.५५७॥
सन्धायासनादिपूर्ववत् पञ्चविधम् । विग्रहेण शत्रोरवस्कन्दोऽ शक्तस्य तद्देशादिकं विनाश्य दुर्गादौ (दुर्ग) प्रविश्याऽवस्थानं विगृह्यासनम् । तुल्यबलत्वादि उद्वे (तुल्यबलत्वाद् युद्धे) क्षीय माणयोः सन्धिं कृत्वाऽवस्थानं सन्धायासनम् । बलिनः शत्रो जये अशक्तस्य दुर्गाश्रयेणाऽपि स्थातुमशक्यत्वाद् बलिना मित्रेण शत्रुणा वा [मिलित्वा]ऽवस्थानं संभूयासनम् । शत्रुमभिगच्छतो मित्रागमनादेरुत्सवस्य च प्रसङ्गेनाऽन्तरा स्थिति: प्रसङ्गासनम् । बलिनमपि शत्रु दुर्नयादिना नित्यमुपचीयमानमुपेक्ष्य तदप चयाऽपेक्षया स्थितिः उपेक्ष्यासनम् । ५ बलिनोर्वैरिणोर्मध्ये
१० काकाक्षिवदलक्षितस्योभयत्र वाचा स्वसमर्पणं द्वैधम् । बलिना सह सन्धिविग्रह इत्यपरम् । शत्रोर्वा मूलप्रकृतिभिः सह सन्धाय शत्रुणा सह विग्रह इति तृतीयम् । शत्रुणैव वा सन्धिवि ग्रहसमुदायहेतोढुंगाश्रयस्य व्यापार इति चतुर्थमिति चतुर्विधं द्वैधम् । ६ बलवताऽरिणा विद्यमानस्य हीनशक्तेर्यद् बल वद्धर्मविजयिसमाश्रयणम्, तद् आश्रयः । तस्यैव बलिनः शत्रोः सेवया, कषादिदानेनाऽऽश्रयणमाश्रय इति द्विविधमा श्रयः । उक्तं च
"उच्छिद्यमाणो रिपुणा निरुपायप्रतिक्रियः ।
शक्तिहीनः संश्रयते बलिनं धार्मिकं नृपम् ॥१॥"
२० []इति । एते सन्ध्यादयः षड् राज्योपकारका गुणा: उच्यन्ते ।
एकं सन्ध्यादिषण्णाम् ॥
शक्तयस्तिस्त्रः प्रभुत्वोत्साहमन्त्रजाः ॥७३५॥
१ (शक्तयः इति,) तिस्र इमाः शक्तयः इति शक्ति शब्दवाच्या इति भावः । शक्यते जेतुमाभिरिति शक्तयः । 'शक्ल शक्तौ '(स्वा.प.अ.), 'स्त्रियां क्तिन् '३५३।९४॥ । ('प्रभुत्वोत्साहमन्त्रजाः), तत्र प्रभुत्वसाधकत्वात् कोषदण्डौ प्रभुत्वशक्तिः । उक्तं च-" कोषदण्डबलं प्रभुशक्तिः''[कौटि लीयमर्थशास्त्रम्, अधिकरणम्-६, अध्यायः-२, (प्रकरणम् ९७)]इति । २ विक्रमेण स्वशक्याविष्करणम् उत्साहशक्तिः ।
३० उक्तं च-"विक्रमबलमुत्साहशक्तिः"[कौटिलीयमर्थशास्त्रम्, अधिकरणम्-६, अध्यायः-२, (प्रकरणम्-९७)]इति । ३ सन्ध्यादीनां सामादीनां च यथाऽवस्थापनम्, न तु ज्ञानबलं मन्त्रशक्तिः । “पञ्चाङ्ग[मन्त्रो] मन्त्रशक्तिः"[ ]इति माधवी । एषां त्रयाणां प्रभुत्वोत्साहमन्त्राणां नामैकं शक्तिरिति ॥७३५॥
सामदानभेददण्डा उपायाः
१ प्रियकरणार्थं प्रदानसम्बन्धादिः क्रोधोपशमः सान्त्वनं साम, क्लीबे । स्यति वैरमनेनेति साम । 'षोऽन्तकर्मणि' (दि.प.अ.), 'साम सान्त्वप्रयोगे'(चु.उ.से.)इत्यस्य वा । 'नामन्सामन् – '(उणा-५९०)इत्यादिना निपातः, दन्त्यादिः । शमयति विरोधमिति शाम इति तालव्यादिरपि । तच्च पञ्चधा-
४० "परस्परोपकाराणां दर्शनं गुणकीर्तनम् ।
सम्बन्धस्य समाख्यानमायत्याः संप्रकाशनम् ॥१॥
वाचा पेशलया साधु तवाऽहमिति चाऽर्पणम् ।
इति सामविधानज्ञैः साम पञ्चविधं स्मृतम् ॥२॥"
[कामन्दकीयनीतिसारः, (उपायविकल्प:), सर्ग:-१७, श्रो ४-५] इति । २ स्वधनस्य परेभ्यः प्रतिपादनं दानम् ।
"यः समासधवोत्सर्गमुत्तमाधममध्यमान् ।
(यः सम्प्राप्तधनोत्सर्ग उत्तमाधममध्यमः ।)
प्रतिदानं तदा तस्य गृहीतस्याऽनुमोदनम् ॥२॥
द्रव्यादानमपूर्वं च स्वयं प्राह (ग्राह)प्रवर्तनम् ।
५० देयस्य प्रतिमोक्षश्च दानं पञ्चविधं स्मृतम् ॥३॥"
[कामन्दकीयनीतिसारः, (उपायविकल्प:), सर्ग:-१७, शो-६ ७]इति। ३ शत्रोरमात्यादीनामुपायेन परतो विशेष्या(विशृिष्या) ऽऽत्मसात्करणं भेदः । स त्रिविधः । तदुक्तम्
"स्नेहरागोपनयनं संहर्षोत्पादनं तथा ।
__ संतर्जनं च भेदज्ञैर्भेदस्तु त्रिविधः स्मृतः ॥४॥"
[कामन्दकीयनीतिसारः, (उपायविकल्पः), सर्ग:-१७, श्री-८] इति। राज्ञो द्रोहाय शपथपूर्वकम् 'अमीषामेकमपि(अमी षामैकमत्यं) जातम्' इत्यस्याऽर्थस्य कपटलेखादीनां [राजसदसि प्रक्षेपाद् राज्ञोऽनुयायिषु स्नेहस्य परिजनानां च प्रभौ भक्ते-
६० रपनयनमित्येकः । अनुयायिनामेव परस्पराभिभवसञ्जननं]
१. 'संभूययानं' इति१.२ ।। २. "तस्यैव वा बलिनः शत्रो: सेवया कोषादिदानेन च आश्रयणम् इति द्विविध आश्रयः" इति पदचन्द्रिकायाम्, भा-२, क्षत्रवर्गः, यो-४७३, पृ.५५८॥ ३. द्र. पदचन्द्रिका, भा-२, क्षत्रवर्गः, शो-४७३, पृ.५५८ ॥ ४. कोष्ठान्तर्गतपाठः३.४प्रत्योर्न दृश्यते ॥ ५. कोष्ठान्तर्गतपाठः१.रविना ॥ ६. कौटिलीयाऽर्थशास्त्रे 'कोश-' इति दृश्यते, पृ.४४८ ॥ ७. 'प्रियगदार्थ' इति १.२॥ ८. "प्रियवागर्थप्रदानसंबन्धादिभिः क्रोधोपशमनं सान्त्वनं साम" इति पदचन्द्रिका, भा-२, क्षत्रवर्गः, श्रो-४७४, पृ.५६० ॥ ९. १.२प्रत्योर्नास्ति ॥ १०. 'नामन्सीमन्- '(उणा ५९०)इत्युणादिगणसूत्रम्, अतः 'सातिभ्यां मनिन्मनिणौ'(उणा-५९०)इत्यनेन सामसिद्धि: कार्या ॥ ११-१ 'कीर्तनं' इति, ११-२ 'पैशलया' इति कामन्दकीयनीतिसारे, पृ.१९०॥ १२. "द्रव्यादानमपूर्वत्वं स्वयं प्र('प्रा' इति३)वर्तनं तथा" इति३.४॥ १३. '-रोगा-' इति४॥
संहर्षोत्पादनम् (सङ्घर्षोत्पादनम् ?) इति द्वितीयम् (द्वितीयः) । ४ तेजः दमनं दण्डः शास्तिः । 'अमन्ताड्डः '(उणा-१११) । सोऽपि त्रिविधः । तदुक्तम्
"वधोऽनुग्रहणं चैव परिक्लेशस्तथैव च ।
इति दण्डविधानज्ञैर्दण्डोऽपि त्रिविधः स्मृतः ॥५॥"
[कामन्दकीयनीतिसारः, (उपायविकल्पः), सर्गः-१७, शो ९]इति । परिक्लेशो बन्धनताडनादिः । १ स्वार्थसम्पादनकार णानि उपायाः । उपैति एभिः श्रीरित्युपायाः । 'इण् गतौ' (अ.प.अ.), करणे घञ् । एकं सामादिचतुर्णामुपाया इति ।
१० केचित्तु-"मायामुपेक्षामिन्द्रजालमिति त्रितयमुपायेष्वन्तर्भाव्य
सप्तोपायानाहुः । उक्तं च
"साम दानं च भेदश्च दण्डश्चेति चतुष्टयम् ।
मायोपेक्षेन्द्रजालं च सप्तोपायाः प्रकीर्तिताः ॥६॥"
[कामन्दकीयनीतिसारः, (उपायविकल्पः), सर्ग:-१७, थो ३]इति । तत्र मायोपेक्षे दण्ड एवाऽन्तर्भवतः । इन्द्रजालं च भेद इति ग्रन्थकृदभिप्रायः । एतत्पाठक्रमेणैव "चतुर्थोपाय साध्येति शत्रौ सान्त्वमपि क्रियते (चतुर्थोपायसाध्ये तु रिपौ सान्तवमपक्रिया) [शिशुपालवधम्, सर्गः-२, श्रो-५४]'' इति माघे दण्डश्चतुर्थोपायत्वेनोक्तः ॥
२० तत्र प्रथमं सामोपायमाह
साम सान्त्वनम् ।
१ स्यति वैरमनेनेति साम, प्रियवचनादि, क्लीबे । 'षोऽन्तकर्मणि'(दि.प.अ.), ‘-सामन्दामन् – '(उणा-५९०)इति साधुः । शमयति विरोधमिति शाम, तालव्यादिरपि । २ सान्त्व्यतेऽनेन सान्त्वनम् । 'सान्त्व सामप्रयोगे'(चु.उ.से.), करणे ल्युट् । सान्त्वमपि । "साम सान्त्वम्"[अमरकोषः ३।८।२१॥] इत्यमरः । द्वे साम्नः । दानोपायः प्रसिद्धत्वान्नोक्तः ॥
अथ भेदोपायमाह
उपजापः पुनर्भेदः
३० १ उपजपनम् उपजापः । ‘जप जल्प व्यक्तायां वाचि'(भ्वा.प.से.), भावे घञ् । उपांशु जपनमुपजाप इति वा । २ संहतयोर्भेदनं भेदः । भावे घञ् । द्वे भेदस्य ॥
दण्डः स्यात् साहसं दमः ॥७३६॥
१ दण्डनं दण्डः, पुंक्ली. । 'दण्ड दण्डने '(चु.उ. से.), भावे घञ् । २ सहो बलम्, तत्र भवम्, तेन निर्वृत्तं वा साहसम्, क्लीबे । वैजयन्ती तु-"दण्डो दमः साहसोऽ स्त्री''[वैजयन्तीकोष:३।७।४६] इति पुंस्यप्याह । ३ दमनं दमः । 'दमु उपशमे'(दि.प.से.), भावे घञ्, 'नोदात्तोपदेश-' ७।३।३४॥इति वृद्ध्यभावः । त्रीणि दण्डस्य ॥७३६॥
प्राभृतं ढौकनं लञ्चोत्कोचः कौशलिकामिषे ।
४० उपाच्चारः प्रदानं दाहारौ ग्राह्यायने अपि ॥७३७॥
१ प्रकर्षेण आ समन्ताद् भावेन भ्रियते प्राभृतम् । 'जीतः क्त: '३।२।१८७ ॥ इति वर्तमाने क्तः । २ ढौक्यते ढौकनम् । 'ढौक गतौ'(भ्वा.आ.से.), ल्युट । लीयते (लायते) प्रच्छन्नं गृह्यते लञ्चा, पुंस्त्री । 'ला आदाने '(अ.प.अ.), 'कूर्चभूर्चा(चूर्चा)- '(हैमोणा-११३) इति वप्रत्यये निपात्यते । ४ उत्कुच्यते भाष्यते उत्कोचः । उत्कोचयति गुर्वपि कार्य मल्पीकरोति वा । 'कुच शब्दे तारे '(भ्वा.प.से.), 'कुच कौटिल्याल्पीभावयो: '(भ्वा.प.से.) वा, पचाद्यच् । ५ कुशलं प्रयोजनमस्य कौशलिकम् । तदस्य प्रयोजनम् '५।१।१०९ ।।
५० इति ठक् । ६ आमिषमिव आमिषम्, परं प्रतिलोभनात्, पुंक्लीबलिङ्गः । अमत्यनेन स्वस्थीभावं वा । 'अम् (अम) गतौ'(भ्वा.प.से.), 'अमेर्दीर्घश्च'(उणा-४६) इति टिलोपः (टिषच्) । ७-१२ उपशब्दाच्चारादयः षड् योज्यन्ते । उप चर्यतेऽनेन उपचारः । उपप्रदीयते उपप्रदानम् । उपदीयते उपदा । उपहियते उपहारः । उपगृह्यते उपग्राह्यः । उप समीपेऽयन्ते गच्छन्त्यनेन उपायनम् । प्रदेशनं च । “प्राभृतं तु प्रदेशनम् । उपायनमुपग्राह्यमुपहारस्तथोपदा''[अमरकोषः २।८।२७-२८॥] इत्यमरः । "उपप्रदानमुत्कोच उपदा लञ्चया समा"[ ] इत्यन्ये । “उपदा प्राभृतं प्रोक्तमुपग्राह्यमुपायनम् "
६० [हलायुधकोशः२।४३४]इति हलायुधः । "चत्वारः समाः"[] इति तट्टीका । द्वादश प्राभृतस्य । भेटि' इति भाषा ॥७३७॥
मायोपेक्षेन्द्रजालानि क्षुद्रोपाया इमे त्रयः ।
१. अनावश्यकोऽयम् ॥ २. 'वधोऽर्थ-' इति कामन्दकीयनीतिसारे, पृ.१९०॥ ३ 'वा' इति१.२॥ ४ 'मायोपेक्षेन्द्रजालमिति' इति३.४ ॥ ५. 'दण्डश्च भेदश्चेति' इति कामन्दकीयनीतिसारे, पृ.१९०॥ ६ 'एतस्यानुक्र-' इति३॥ ७ पूर्वोक्तसामशब्दटिप्पणी द्रष्टव्या ॥ ८ 'दण्ड दण्डनिपातने' इति स्वामिसायणौ, 'दण्ड निपातने' इति मैत्रेयः ॥ ९ 'ला दाने' इति१.२॥ १०. 'कुच सम्पर्चनकौटिल्यप्रतिष्टम्भविलेखनेषु' इति क्षीरतरङ्गिण्यादौ ॥ ११. 'प्रयोजनम्' इत्येवाऽष्टाध्याय्याम् ॥ १२. 'पुंक्ली.' इति३॥ १३. '-यते' इति१॥ १४. 'गच्छत्य-' इति१.३॥ १५. अम.क्षीरस्वामिटीकार ।८।२८॥, पृ.१८२ ॥ १६. इतोऽग्रे १प्रतौ 'प्रदेशम्' इति दृश्यते ॥
१ माया रूपपरावर्तनादिका । २ उपेक्षा अवधार णम् । ३ इन्द्रजालं मन्त्रद्रव्यहस्तप्रयोगादिनाऽसम्भववस्तु दर्शनम्, एतेषां द्वन्द्वे मायोपेक्षेन्द्रजालानि । एकं मायादित्रयाणां क्षुद्रोपायाः इति ।
मृगयाऽक्षाः स्त्रियः पानं वाक्पारुष्याऽर्थदूषणे ॥७३८॥ दण्डपारुष्यमित्येतद् हेयं व्यसनसप्तकम् ।
१ मृगया आखेटक: १। २ अक्षाः पाशकास्ते च द्युतोपलक्षणम् २। ३ स्त्रियः प्रसिद्धाः ३। ४ पानं सुरादेः ४।
१० ५ (वाचा पारुष्यं) वाक्पारुष्यं कर्कशवाक्त्वम् ५ । ६ अर्थस्य द्रव्यस्य दूषणम् अर्थदूषणम् । तच्चतुर्धा अदानम् १, आदानम् २, विनाश: ३, परित्याग४श्च ६ ॥७३८॥७ अर्थस्य दण्डेन पारुष्यं दण्डपारुष्यम्, तीव्रदण्डतेत्यर्थः ७। एते सप्त व्यसनानि उच्यन्ते । व्यसनानां सप्तकं व्यसनसप्तकम् । तच्च राज्ञो हेयं त्याज्यमिति प्रसङ्गात् प्रोक्तम् ॥
पौरुषं विक्रमः शौर्यं शौण्डीर्यं च पराक्रमः ॥७३९॥
१ पुरुषस्य भावः कर्म वा पौरुषम्, भयहेतावपि निर्भयमनस्कतेत्यर्थः । २ विक्रमणं विक्रमः । ३ शूरस्य भावः कर्म वा शौर्यम् । ४ शौण्डीरस्य भावः कर्म वा
२० शौण्डीर्यम् । उभयत्र 'गुणवचनब्राह्मणादिभ्यः कर्मणि च' ५।१।१२४ ॥ इति ष्यञ् । ५ पराक्रमणं पराक्रमः । भावे घञ् । पञ्च पौरुषस्य । 'मांटी पणउं' इति भाषा ॥७३९॥
यत्कोशदण्डजं तेजः स प्रभावः प्रतापवत् ।
१ कोशो धनम्, दण्डो दमस्तद्धेतुत्वात् सैन्यमपि दण्डस्ताभ्यां जायते यत् तेजः, उत्कटत्वमित्यर्थः ।
"अधिक्षेपाऽवमानादेः प्रयुक्तस्य परेण यत् ।
प्राणात्ययेऽप्यसहनं तत्तेजः समुदाहृतम् ॥१॥"
[नाट्यशास्त्रम्, सामान्याभिनयो नामाध्यायः-२२, श्रो-३९]इति भरतः । २ प्रभवत्यनेन प्रभावः । प्रपूर्वाद् भवतेः 'कृत्यल्युटो बहु लम्'३।३।११३ ॥ इति बाहुल्यात् ‘श्रिणि(णी) भुवः-'
३० ३।३।२४ ॥ इति घञ् । ३ प्रतापयत्यनेन [ प्रतापः] । तत्परम (तपेर-)न्तर्भावितण्यर्थाद् 'हलच'३।३।१२१ ॥इति घञ् । त्रीणि उत्कटत्वस्य॑ ॥
भिया धर्मार्थकामैश्च परीक्षा या तु सोपधा ॥७४०॥
__१ भिया भयेन, पुनः धर्मार्थकामैर्या परीक्षा परीक्ष णम्, सा उपधा इत्यन्वयः । उपधीयते समीपे ढौक्यते परीक्षार्थमित्युपधा । 'आतश्चोपसर्गे: '३।३।१०६॥ इत्यङ् । यत्कौटिल्य:-"उपधाभिः शौचाशौचपरिज्ञानममात्यानाम्" [कौटिलीयमर्थशास्त्रम्, अधिकरणम्-१, अध्यायः-९] इति । एकं धर्मार्थभयोपन्यासेना ऽमात्यानामाशयाऽन्वेषणस्य ॥७४०॥
४० तन्मन्त्राद्यषडक्षीणं यत्तृतीयाद्यगोचरः ।
१ तृतीयादीनामगोचरो यद् मन्त्रादि आलोचक्रीडादि, तद् अषडक्षीणम् उच्यत इत्यन्वयः । न षड् अक्षीण्यत्र अषडक्षीणम् । 'अषडक्षा- '५।४।७ ॥ इति खः । तृतीया द्यगोचरोऽजहल्लिङ्गः । द्वौ विना तृतीयादयो न जानन्ति मन्त्रादिकं यत्, तस्यैकम् ॥
रहस्याऽऽलोचनं मन्त्रः
१ रहसि एकान्ते आलोच्यते आलोचनम् । कर्मणि ल्युट् । २ मन्त्रणं मन्त्रः । 'मत्रि गुप्तभाषणे'(चु.आ.से.), भावे घञ्। पञ्चाङ्गोऽयम्। यत्कात्य( यत्कौटिल्य:)-"कर्मणा-
५० रम्भोपायः १, पुरुषद्रव्यसम्पत् २, देशकालविभागः ३, विनिपातप्रतीकारः ४, कार्यसिद्धिश्च ५,''[ ]इति पञ्चाङ्गो मन्त्रः''[कौटिलीयमर्थशास्त्रम्, अधिकरणम्-१, प्रकरणम्-१०, अध्यायः-१४] । द्वे मन्त्रस्य ॥ ।
रहश्छन्नमुपह्वरम् ॥७४१॥ विविक्तविजनैकान्तनिःशलाकानि केवलम् ।
१ रहन्ति त्यजन्त्येतदिति रहः । 'रह त्यागे'(भ्वा. प.से.), रहेभूते '-असुन्'(उणा-६२८)इत्यसुन् । रमन्तेऽत्रेति
१.'-द्वस्तु-' इति१.२ ।। २. कोष्ठान्तर्गतपाठः १.२.४प्रतिषु न दृश्यते ॥३. 'कर्कशवाक्यम्' इति१॥४. ४प्रतौ नास्ति ॥ ५.'-दण्डेत्यर्थः' इति३॥६.' क्रमम्' इति१.३.४॥ ७.'-क्रमम्' इति३॥ ८.'-पणउ' इति१,'पणो' इति३, -पणौ' इति४॥ ९.'-पमानादेः' इति नाट्यशास्त्रे, पृ.२४४ ॥१०. 'प्रसहनं' इति१.२ ॥ ११. 'बहुलश्च' इति४ ॥ १२. '-कटस्य' इति४॥ १३. '-यां' इति३ ॥ १४. '-यादौ' इति३ ॥ १५. 'मंत्रि' इति२.४ ॥ १६. 'च' इति कौटिलीयमर्थशास्त्रे न दृश्यते, पृ.४६ ॥ १७. द्र. स्वोपज्ञटीका३ ७४१ ॥, पृ.१६४ ॥ १८. 'त्यजन्ति पदिति' इति३ ॥
वा । 'रमेश्च'(उणा-६५३) इत्यनुवृत्तौ 'देशे हलश्च (ह च)' (उणा-६५४)इत्यसुन् हश्चान्तादेशः । “रहो निधुवनेऽपि स्याद्रहो गुह्ये नपुंसकम्''[]इति रभसः । “अत एतदन व्ययम्, द्वितीयं त्वव्ययम्''[ ]इति मिश्राः । २ छाद्यते स्म छन्नम् । 'छद अपवारणे'(चु.उ.से.), ‘वा दान्तशान्तपूर्ण दस्तस्पष्टछन्नगुप्ताः'७।२।२७ ॥इति साधुः । ३ उपह्वरति उप ह्वरम्, पुंक्लीबे । 'ह्व कौटिल्ये'(भ्वा.प.अ.), अच् ॥७४१॥ ४ विविच्यते पृथक् क्रियते स्म विविक्तम् । 'विचिर् पृथग्भावे '(रु.उ.अ.), निष्ठा । ५ विगतो जनोऽस्माद्
१० विजनम् । ६ एको न तु द्वितीयोऽन्ते समीपेऽत्र एका न्तम् । ७ निर्गता शलाका व्यथकोऽत्र निःशलाकम् । ८ केव्यते सेव्यते निर्जनत्वात् केवलम् । 'केवृ सेवने '(भ्वा.-- आ.से.), वृषादित्वात् कलच् । उपांश्वव्ययेषु(अभि.yो १५३८)वक्ष्यते । अष्टौ रहसः । 'छाना' इति भाषा ॥
गुह्ये रहस्यम्
१ गृह्यत इति गुह्यम् । 'गुहू संवरणे'(भ्वा.आ.वे.), 'शंसिगुहिदुहिभ्यः [क्यब्] वा'(वा-३।१।१०९ ॥)इति क्यप, तत्र । २ रहसि भवं रहस्यम् । दिगादित्वाद् यत् । द्वे गोपनीयस्य । 'छार्नु राखवउं' इति भाषा ॥
२० न्यायस्तु देशरूपं समञ्जसम् ॥७४२॥ कल्पाऽभ्रेषौ नयः
१ नीयतमीयतेऽनेनेति न्यायः । 'परिन्योर्नीणो:-' ३।३।३७ ॥इति, 'इण् गतौ (अ.प.अ.)इत्यस्माद् घञ् । २ धर्मशास्त्रपारगैर्दिश्यते कर्तव्यतया कथ्यते देशः । 'दिश अतिसर्जने'(तु.उ.अ.), 'अकर्तरि च कारके संज्ञायाम्'३।३। १९॥ इति घञ् । देशे रूपं (देशो रूपमस्य) देशरूपम् । दिश्यमानस्योचितस्य रूपं वा। प्रशस्तं देशनं वा देशरूपम् । 'प्रशंसायां रूपप्'५।३।६६॥ । ३ सम्यक् सङ्गतं वा तत्त्वमत्र
समञ्जसम्। 'इस्वो नपुंसके प्रातिपदिकस्य'१।२।४७॥ इति हस्वत्वम् । “सरसावसमञ्जसं च''["] इति द्विदन्त्येषु सभेदात्
३० समञ्जसं द्विदन्त्यम् ॥७४२॥ ४ कल्पनं कल्पः । 'कृपू सामर्थ्य '(भ्वा.आ.से.), भावे घञ्, 'कृपे(कृपो) रो लः' ८।२।१८ ॥ इति लत्वम् । ५ यथोचिताद् रुपाद् भ्रंशोऽध: पतनं श्रेषः । 'भ्रेषु(भ्रेष) चलने [च] '(भ्वा.उ.से.), मूर्ध न्यान्ताद् घञ् । न भ्रषः अभ्रेषः । ( यथोचिताद् भ्रंशो भ्रषः)। नास्ति भ्रषोऽस्मिन् अभ्रेषः। ६ नयनं नयः । एरच्' ३।३।५६ ।। इत्यच् । “बाहुलकादच्''[मा.धातुवृत्तिः, भ्वादिगणः, धातुसं ६३०] इति माधवः । नीतिरपि । षट् न्यायस्य ॥
न्याय्यं तूचितं युक्तसाम्प्रते ।
लभ्यं प्राप्तं भजमानाभिनीतौपयिकानि च ॥७४३॥
४० १ न्यायादनपेतं न्याय्यम् । 'धर्मपथ्य-'४।४।९२॥ इत्यादिना यत् । २ उच्यते स्म उचितम् । 'उच समवाये' (दि.प.से.), 'निष्ठा'३।२।१०२॥ इति क्तः, 'आर्धधातुकस्य-' ७।२।३५ ॥ इतीट् । ३ युज्यते उपायैः सम्बध्यते युक्तम् । 'युजिर् योगे'(रु.उ.अ.), कर्मणि क्तः । ४ सम्प्रति युज्यते साम्प्रतम् । शैषिकोऽण् । ५ लभ्यत इति लभ्यम् । 'डुलभष् प्राप्तौ'(भ्वा.आ.अ.), 'पोरदुपधात्'३।१।९८॥ इति यत् । ६ प्राप्यते स्म प्राप्तम् । 'आप्M व्याप्तौ'(स्वा.प.अ.), निष्ठा । ७ भजते फलमनुबध्नाति तच्छीलं भजमानम् । 'भज से वायाम् '(भ्वा.उ.अ.), 'ताच्छील्यवयोवचनशक्ति षु
५० चानश्'३।२।१२९ ॥, 'आने मुक्'७।२८२॥ । ८ अभिनयति इति (अभिनीयते स्म) अभिनीतः । ९ उपयन्त्यनेन उपायः, उपय (उपाय) एव औपयिकम् । विनयादिषु 'उपायाद् ह्रस्वश्च'(गणसू-५।४।३४॥)इति ठक् । नव युक्तस्य । 'युगतुं' इति भाषा ॥७४३॥
प्रक्रिया त्वधिकारः
१ राजादीनां चामरधूननछत्रधारणादिव्यापारः प्रकर्षाय
१. द्र. पदचन्द्रिका, भा-२, क्षत्रवर्गः, यो-४७६, पृ.५६३ ॥, रामाश्रमी २।८।२३ ॥, पृ.३५६ ॥ २. द्र. पदचन्द्रिका, भा-२, क्षत्रवर्गः, शो-४७६, पृ.५६३ ॥, तत्र 'अत' इत्यस्य स्थाने 'तत' इति दृश्यते ॥ ३. 'पुंक्ली' इति१॥ ४ 'ह्वर' इति४॥ ५. 'एकैव' इति३॥ ६. भट्टोजिदीक्षितेन 'हुस्वस्य पिति कृति तुक्'६।१७१ ॥ इत्यस्य व्याख्याने " 'शंसिदुहिगुहिभ्यो वा' इति काशिका । शस्यम्-शंस्यम् । दुह्यम्-दोह्यम् । 'प्रशस्यस्य श्रः'५।३।६० ॥ 'ईडवन्दवृशंसदुहां ण्यतः '६।१।२१४ ॥ इति सूत्रद्वयबलाच्छंसेः सिद्धम् । इतरयोस्तु मूलं मृग्यम्" इत्युक्तम्, सिद्धान्तकौमुदी, कृत्यप्रक्रिया, पृ.५५७ ॥ ७ -' इति३ ॥ ८. '-खवू' इति३, ‘-खवउ' इति४॥ ९. इतोऽग्रे ३.४प्रत्योः 'इति' इति दृश्यते ॥ १०. 'देशो' इति३॥ ११. '-स्यौचितस्य' इति२.४॥ १२. द्र. पदचन्द्रिका, भा-२, क्षत्रवर्गः, श्रो-४७८, पृ.५६४ ॥, तत्र 'सरसी च समञ्जसं च' इति दृश्यते ॥ १३. १.२प्रत्योर्नास्ति ॥ १४. कोष्ठान्तर्गतपाठः २प्रतौ न दृश्यते ॥ १५. '-काण्' इति३॥ १६. 'उपयः' इति३.४॥ १७. 'जु-' इति३ ॥
क्रियते प्रक्रिया । 'कृञः श च'३।३।१०० ॥, 'रिशयङ् (शयग्)लिङ्क्षु'७।४।२८ ॥, 'अजाद्यतष्टाप्'४।१।४॥ । अधिक्रयते आधिक्याय सम्पाद्यते अधिकारः । घञ् । अधिक्रियते प्रस्तूयते वा । द्वे व्यवस्थापनस्य ॥
अथ मर्यादा धारणा स्थितिः । संस्था
१ मर्या इति सीमार्थेऽव्ययम्, तत्र दीयते मर्यादा । २ धार्यतेऽनया धारणा । ‘ण्यासश्रन्थोर्युच्'३।३।१०७॥ । ३ स्थीयतेऽनया स्थितिः । ष्ठा गतिनिवृत्तौ'(भ्वा.प.अ.),
१० 'स्त्रियां क्तिन्'३।३।९४॥, 'घुमास्था-'६।४।६६ ॥ इतीत्वम् । ४ संतिष्ठतेऽनया संस्था । 'आतश्चोपसर्गे '३।३।१०६ ॥ इत्यङ् । चत्वारि मर्यादायाः ॥
अपराधस्तु मन्तुळलीकं विप्रियाऽऽगसी ॥७४४॥
१ अपराधनम् अपराधः । 'राध संसिद्धौ'(स्वा. प.अ.), भावे घञ् । २ मन्यते निश्चिनोति व्यवस्थापयत्यकार्य मन्तुः, पुंसि । 'मनु(मन) ज्ञाने'(दि.आ.अ.), 'कमिमनि-' (उणा-७२) इति तुन् । ३ विशेषेण अल्यते वार्यते व्यलीकम्, पुंक्ली. । 'अली भूषणपर्याप्तिवारणेषु'(भ्वा.प.से.), 'अली कादयश्च'(उणा-४६५)इतीकप्रत्यये साधुः । ४ विरुद्धं प्रियं
२० विप्रियम् । ५ आ एति गच्छति दुर्वृत्तम् आगः, क्लीबे । 'इण् गतौ'(अ.प.अ.), 'इण आगोऽपराधे [च] '(उणा-६५१) इत्यसुन्, धातोरागादेशश्च । यद्वा अगति गच्छति, ‘वस्य(वस्त्य) गिभ्याम्-'(हैमोणा-९७०) असन् । अपराधस्य पञ्च । 'गुनह' इति भाषा ॥७४४॥
बलिः करो भागधेयः
१ बलन्त्यनेन बलिः, पुंस्त्री । 'बल प्राणने' (भ्वा.प.से.), '-इन्'(उणा-५५७)इतीन् । २ कीर्यते क्रियते वा करः । ‘क विक्षेपे'(तु.प.से.), 'डुकृञ् करणे'(त. उ.अ.) अतो वा 'ऋदोरप्'३ ।३।५७ ॥ इत्यप् । 'कारः' इति द्वितीयस्वरादिरपि । ३ भज्यते भागः, राजग्राह्यः षड्भागः,
३० स एव भागधेयः, पुंस्त्री । 'नामरूपभागेभ्यो धेयः '(वा ५।४।३५ ॥)। "भागधेयी स्त्रियां बलिः''[ ]इति माला । प्रत्येकं स्थावरजङ्गमाद् हिरण्यादानं कर: नियोज्योपजीव्यो बलिरित्यवान्तरभेदोऽर्थशास्त्रोक्तोऽत्र नाश्रितः । त्रीणि 'राउलु भाग ' इति ख्यातस्य ॥
द्विपाद्यो द्विगुणो दमः ।
१ अपराधे सति शास्त्रेण बोधिताद् दण्डाद् द्विगुणो दण्डोऽर्थग्रहणादि द्विपाद्यः । द्वौ पादौ परिमाणमस्य द्विपाद्यः । 'पणपादमाषशतात् यत्'५।१।३४ ॥ इति यत्, पादस्याऽत्र प्राण्यङ्गत्वाभावाद् ‘पद्यत्यतदर्थे'६।३।५३ ॥ इति न पद्भावः।
४० 'पादोऽस्त्री चरणे मूले तुरीयांशेऽपि दीधितौ''[विश्व लोचनकोश:, दान्तवर्गः, श्री-८] इति श्रीधरः । द्विगुणो दमो दण्डः । एकं द्विगुणदण्डस्य ॥
वाहिनी पृतना सेना बलं सैन्यमनीकिनी ॥७४५॥ कटकं ध्वजिनी तन्त्रं दण्डोऽनीकं पाकिनी ।
वरूथिनी चमूश्चक्रं स्कन्धावारः
१ वाहा अश्वाः सन्त्यस्यां वाहिनी । 'अत इनिठनौ' ४।२।११५ ॥ इतीनि:, 'ऋन्नेभ्यो ङीप् '४।१।५ । । २ पिपर्ति भूमिम्, प्रियते वा पृतना । 'पृ पालनपूरणयोः' (जु.प.अ.), 'पृङ् व्यायामे'(तु.आ.अ.), 'पृपूभ्यां कित्'
५० (हैमोणा-२९३) इति तन्(तनः) । ३ सिनोति बध्नाति शत्रूनिति सेना । 'षिञ् बन्धने'(स्वा.उ.अ.), 'कृ(क)वृ~ (ज)सि- '(उणा-२९०) इति नन् । सह इनेन प्रभुणा वर्तत इति वा । ४ बलति प्राणिति बलम् । 'बल प्राणने' (भ्वा.प.से.), अच् । बलति (बलते) धारयति वाद्यम् । 'बल बल्ल संवरणे [सञ्चरणे चं]'( ), अच् । ५ सेनैव सैन्यम् । चातुर्वर्णादित्वात् स्वार्थे ष्यञ् । ६ अनीकं
१. 'अ-' इति१॥ २. 'अलं' इति४॥ ३. सायणसम्मतोऽयं धात्वर्थः, 'अला भूषणपर्याप्तिनिवारणेषु' इति स्वामी, 'अर्ल वारणपर्याप्तिभूषणेषु' इति मैत्रेयः ॥ ४ 'अलीकादयश्च'(उणा-४६५)इत्यनेन कोकन्प्रत्ययो भवति ॥ ५. 'गुनाह' इति३ ॥ ६. 'पुंस्त्रीलिङ्गः' इति३ ॥ ७ 'डुकृञ् करणे'(त.उ.अ.)इत्यतः पचाद्यच् ॥ ८ इतोऽग्रे ३प्रतौ 'प्रत्येकं स्थाला' इत्यधिकपाठो दृश्यते ॥ ९, अम.क्षीर. २८१२८॥, स्वोपज्ञटीका ३७४५ ॥, पृ.१६५ ॥ १०. '-लभाग' इति३, '-लओ भाग' इति४॥ ११. 'डीष्' इति२॥ १२. पालनपूरणार्थको हस्वान्तोऽयं पृधातुमैत्रेयसम्मतः, 'पृ' इति स्वामिसायणौ, जिज्ञासुभिर्माधवीयधातुवृत्तिरनुसन्धेया, जुहोत्यादिः, धातुसं-५, पृ.३८७ ॥ १३. मैत्रेयसायणसम्मतोऽयं धातुपाठः, 'वल संवरणे' इत्येव स्वामी ॥ १४ ३प्रतौ नास्ति ॥
१९. 'डीए' इति ॥ १२. पालनपूरणार्थको ह्रस्वान्तोऽयं पृधातुमैत्रयसम्मतः,
सङ्ग्रामोऽस्त्यस्याम् अनीकिनी । 'अत इनिठनौ'४।२।११५ ।। इतीनिः, 'ऋन्नो भ्यो ङीप '४।१।५॥ ॥७४५॥ ७ कटत्यावृणोति पृथिवीमिति कटकम्, पुंक्ली. । 'कटे वर्षावरणयोः (भ्वा.प.से.), क्वुन् । ८ ध्वजाः सन्त्यस्यां ध्वजिनी । 'अत इनिठनौ'४।२।११५ ॥ इतीनिः । ९ तन्यते तन्त्रम् । 'तनु विस्तारे '(त.उ.से.), 'गुधृवीपचिव चियमिमनितनिसदिक्षदिभ्यस्त्रन् '(उणा-६०६)। १० दण्ड्य तेऽनेन दण्डः , पुंक्ली. । 'दण्ड दण्डने '(चु.उ.से.), करणे घञ् । ११ अनित्यनेन भीरुरिति अनीकम्, पुंक्ली. । 'अन
१० प्राणने'(अ.प.से.), 'अनिदृशिभ्यां [कित्] च'(उणा-४५७) इतीकन् । १२ पताकाः सन्त्यस्यां पताकिनी । व्रीह्या दित्वादिनिः। १३ वरूथो रथगुप्तिरस्त्यस्यां वरूथिनी । 'अत इनिठनौ'४।२।११५ ।। इतीनिः । १४ चमत्यत्ति शत्रूनिति चमूः, स्त्रीलिङ्गः । 'चमु अदने'(भ्वा.प.से.), 'चमित निवधिभ्य ऊं:'(चान्द्रोणा-१।४३ ॥)इत्यू: । “ 'कृषिचमित निरनि(रमि)सर्जि[खर्जि] भ्य ऊ: '(उणा-८१)" [मा. धातुवृत्तिः, भ्वादिः, धातुसं-३०९] इति माधवः । “चमुः" [शब्दभेदप्रकाशः, श्रो-१२] हस्वान्तोऽपीति शब्दप्रभेदः । १५
करोति जयं चक्रम्, पुंक्ली. । 'डुकृञ् करणे'(त.उ.अ.),
२० 'कृञः क्लिदेः क्रसश्च'( )कप्रत्ययः, द्वित्वम् ('घबर्थे कः' (वा-३।३।५८ ॥) इति कः, ‘कृञादीनां के द्वे'(वा ६।१।१२।।) इति द्वित्वम्)। 'चक तृप्तौ'(भ्वा.प.से.) अस्माद् रग् वा । १६ चतुरङ्गसैन्यस्य प्रधानभूतत्वाद् राजा स्कन्धः, तमावृणोति स्कन्धावारः । 'वृञ् आवरणे'(स्वा.उ.से.), 'कर्मण्यण'३।२।१।। शिबिरमित्यन्ये । षोडश सेनायाः ॥
अस्य तु स्थितिः ॥७४६॥
शिबिरम्
१ अस्य सैन्यस्य स्थितिः सन्निवेशः शिबिरम् ॥७४६॥ 'शिब (शिव) गतौ'(भ्वा.प.से.), तालव्यादिः, बाहुलकाद् ‘इषि[मदि] मुदि-'(उणा-५१)इत्यादिना किरच् ।
३० निवेशोऽपि । यदमर:-"निवेश: शिबिरं शण्ढे"[अमरकोषः २।८।३३ ॥] । “निवेश्यते सनिवेशेन स्थाप्यते निवेशः, सैन्यावासः"[अम.क्षीर.२।८।३४॥]इति क्षीरस्वामी । “निवेश: शिबिरोद्वाहविन्यासेषु प्रकाशित:"[विश्वप्रकाशकोशः, शान्त वर्गः, श्री-२४] इति महेश्वरः । एकं सैन्यस्थितेः । ' ऊतारा' इति भाषा ॥
रचना तु स्याद् व्यूहो दण्डादिको युधि ।
१ युधीति सङ्ग्रामनिमित्तं रचना, अर्थात् सैन्यस्य व्यूहः इत्युच्यते, बलद्वयस्य युद्धार्थं देशविशेषे [विभज्य] स्थापनं व्यूह इत्यर्थः । 'ऊह वितर्के'(भ्वा.आ.से.), विपूर्वः,
४० घञ् । कीदृग् व्यूहः ? दण्डादिकः, दण्ड आदिर्यस्य से दण्डादिकः, तेन दण्डः, भोगः, मण्डलः, असंहतश्चेति चत्वारो गृह्यन्ते । यत् कामन्दकि:
"तिर्यग्वृत्तिस्तु दण्डः स्याद् भोगोऽर्था(न्वा)वृत्तिरेव च ।
__ मण्डलः सर्वतो वृत्तिः पृथग्वृत्तिरसंहतः ॥१॥"
[]इति । तत्र सैन्यानां दण्डवत्तिर्यगवस्थानं दण्डः । सैन्यानामन्वावृत्तिरन्योन्यानुगतवृत्तिर्भोगः । मण्डलरचनायां वसतां सैन्यानां सर्वतो वृत्तिः सर्पशरीरवद् मण्डलः । स्थितानां गजादिसैन्यानां विजातीयैरमिश्रितानां पृथग्वृत्तिः
असंहतः । तत्र प्रदरदृढकासह्यादयः सप्तदश दण्डव्यूह-
५० भेदाः । गोमूत्राहिसञ्चारिशकटमकरपताकाः पञ्च भोग भेदाः । सर्वतो भद्रोन्तर्जपश्च मण्डलभेदः । अर्धचन्द्र कोलादयश्चाऽसंहतव्यूहभेदा इति । केचित्तु
"दण्डो मण्डलभोगौ चाऽप्युत्सन्नश्चाऽचलो दृढः ।
व्यूहास्तेषां विशेषाः स्युश्चक्रव्यूहादयोऽपि च ॥१॥"
["]इति षण्मूलभेदानाहुः । एकं सैन्यरचनायाः ॥
प्रत्यासारो व्यूहपाणिः
१. 'ङीष्' इति२.४॥ २. इतोऽग्रे ३.४प्रत्योः 'इति' इति दृश्यते ॥ ३.-क्षुदि-' इति४॥ ४. 'गुधृवीपचिवचियमिसदिक्षदिभ्यस्त्र: '(उणा ६०६)इत्युणादिगणे ॥ ५. 'दण्ड दण्डनिपातने' इति स्वामिसायणौ, 'दण्ड निपातने' इति मैत्रेयः ॥ ६. 'अन-' इति४॥ ७ 'अनिहषिभ्यां' इत्युणादिगणे ॥ ८. उणादिगणसूत्रे 'रमि' इत्यस्य स्थाने 'धनि' इति दृश्यते ॥ ९. 'वरणे' इति४, 'वृञ् वरणे' इति स्वादौ क्षीरतरङ्गिण्यादयः ॥ १०. १.२प्रत्योर्नास्ति ॥ ११. 'शिबि' इति३ ॥ १२. 'प्रकीर्तितः' इति विश्वप्रकाशकोशे, पृ.१६९॥ १३. 'उ-' इति३॥ १४ 'युध्यति' इति४॥ १५. १प्रतौ नास्ति ॥ १६. कामन्दकीयनीतिसारे "तिर्यग्वृत्तिश्च दण्डः स्याद् भोगत्वावृत्तिरेव च । प्रदरो दृढकोऽसह्यश्चापो वै तद्विपर्ययः" इति दृश्यते, सर्ग:-१९, श्री-४३, पृ.२२२॥ १७ द्र. टीकासर्वस्वम्, भा-३, २८७९ ॥, पृ.११७ ॥, पदचन्द्रिका, भा-२, क्षत्रवर्गः, शो-५३३, पृ.६१७ ॥, रामाश्रमी२।८७९ ॥, पृ.३८०॥ १८. '-मत्वर्थवृ-' इति३॥ १९. अत्र कामन्दकीयनीतिसारो द्रष्टव्यः, पृ.२२२ २२४॥ २०. द्र. अम.क्षीर.२ १८८० ॥, पृ.१९१ ॥, स्वोपज्ञटीका३७४७ ॥, पृ.१६५॥ २१. तुलनीयोऽमरकोषः२८७९ ॥
१ प्रतीपमासरन्त्यस्मात् प्रत्यासारः । 'सृ गतौ'(भ्वा. प.अ.), 'अकर्तरि च कारके-'३।३।१९॥इति घञ् । सैन्य रचनायाः पश्चाद्भाग इत्यर्थः । २ व्यूहस्य सैन्यरचनायाः पाणिः पश्चाद्भागो व्यूहपाणिः । व्यूहशब्दाभावेऽपि पार्पोिरपि । यद्गौड:-"प्रत्यासारे पुमान् पाwि:"[ ] । महेश्वरोऽपि-"पाणि: पाश्चात्यभागे स्यात् पादमूलोन्मदस्त्रियोः सेनापृष्ठे च कुम्भ्यां च'[विश्वप्रकाशकोशः, णान्तवर्गः, श्री-२०-२१] इति । द्वे भग्नसैन्यमेलस्य ॥
सैन्यपृष्ठे प्रतिग्रहः ॥७४७॥
१ सैन्यस्य पृष्ठं पश्चाद्भागः सैन्यपृष्ठः, तत्र । यत्र स्थितो राजा स्वसैन्यं प्रतिगृह्णाति, तस्य पश्चाद् धनुःशतद्वया न्तरेण स्थितं भिन्नसङ्क्रान्तमनीकं प्रतिग्रहः उच्यते । प्रतिगृह्यतेऽवष्टम्भ्यते ऽनेन सैन्यं प्रतिग्रहः । ‘ग्रह उपादाने' (त्र्या.उ.से.), ‘ग्रहवृदृ-'३।३।५८ ॥ इत्यादिना अप् । "प्रति ग्रहः स्वीकरणे सैन्यपृष्ठे पतद्ग्रहे ''[ विश्वप्रकाशकोशः, हान्तवर्गः, श्रो-२४] इति महेश्वरः । एकं सैन्यपृष्ठस्य ॥७४७॥ एकेभैकरथास्त्र्यश्वाः पत्तिः पञ्चपदातिको ।
१ एकेभा एकगजयुक्ता, एकरथा एकरथोपेता, त्र्यश्वा अश्वत्रयसहिता, पञ्चपदातिका पञ्चभिः पदातिभिः सहिता,
२० पत्तिः सेनांश उच्यत इत्यन्वयः । पद्यतेऽस्यां पत्तिः । ‘पद गतौ '(दि.आ.अ.), 'स्त्रियां क्तिन्'३।३।९४॥ । यद्भारतम्
"एको रथो गजश्चैको नराः पञ्च पदातयः ।
त्रयश्च तुरगास्तद्ज्ञैः पत्तिरित्यभिधीयते ॥१॥"
[]इति । एकं सेनांशस्य ॥
सेना सेनामुखं गुल्मो वाहिनी पृतना चः ॥७४८॥
अनीकिनी च पत्तेः स्यादिभाद्यैस्त्रिगुणैः क्रमात् ।
१ पत्तेः सम्बन्धिभिरिभरथाश्वपदातिभिः क्रमेण त्रि गुणितैः सेनादीन्यभिधानानि क्रमेण स्युः, तेन पत्ति[:] त्रिगुणा सेना १ । २ सेना त्रिगुणा सेनामुखम् २ । ३ सेनामुखं त्रिगुणं गुल्मः ३ । ४ गुल्मस्त्रिगुणो वाहिनी ४ । ५ वाहिनी
३० त्रिगुणा पृतना ५। ६ पृतना त्रिगुणा चमू: ६ ॥७४८॥ ७ चमूस्त्रिगुणा अनीकिनी ७ । तत्र सेनायां गजाः ३, रथाः ३, अश्वाः ९, पदातयः १५ । सेनामुखे गजाः ९, रथाः ९, अश्वाः २७, पदातयः ४५ । गुल्मे गजाः २७, रथाः २७, अश्वाः ८१, पदातयः १३५ । वाहिन्यां गजाः ८१, रथाः ८१, अश्वाः २४३, पदातयः ४०५ । पृतनायां गजाः २४३, रथाः २४३, अश्वाः ७२९, पदातयः १२१५ । चम्वां गजाः ७२९, रथाः ७२९, अश्वाः २१८७, पदातयः ३६४५ । अनीकिन्यां गजा: २१८७, रथाः २१८७, अश्वाः ६५६१, पदातयः १०९३५, एवमनीकिन्यां सर्वाग्रं २१८७० । अमरादयस्तु
४० "एकेभैकरथास्त्र्यश्वाः पत्तिः पञ्चपदातिका ।
पत्त्यङ्गैस्त्रिगुणैः सर्वैः क्रमादाख्या यथोत्तरम् ॥१॥
सेनामुखं गुल्मगणौ वाहिनी पृतना चमूः ।
अनीकिनी (दशगुणामाहुरक्षौहिणी बुधाः) ॥२॥"
[अमरकोषः २।८।८०-८१॥] इति क्रमेण नामान्याहुः ॥
दशानीकिन्योऽक्षौहिणी
१ दश अनीकिन्यः, दशगुणी अनीकिनी इत्यर्थः, अक्षौहिणी उच्यत इति शेषः । अक्षाणां रथकाष्ठाना मूहोऽस्यामित्यक्षौहिणी । 'अक्षादूहिण्या(न्या)म्-'(वा ६।१।८९ ॥) इति वृद्धिः । महाभोगतया सर्वेषामप्य-
५० क्षाणामिन्द्रियाणामूहः सविकल्पज्ञानमिति अक्षौह:(अक्षोहः), तद्योगाद् मत्वर्थीयेनौ 'ऋन्नेभ्यो ङीप्'४।११५ ॥, 'अकृतव्यूहाः पाणिनीयाद् (पाणिनीयाः)'(परिभाषा-) इति प्रविभज्या न्वाख्याने 'अक्षादूहिन्याम्-'(वा-६।१।८९॥) इति वृद्धौ अक्षौहिणीति वा । गणनक्रमेण सप्ततिसहिताष्टाशताधिकैक विंशतिसहस्राणि गजाः २१८७०. इयन्त एव रथाः २१८७० दशोत्तरषट्शताधिकानि पञ्चषष्टिसहस्राण्यश्वाः ६५६१०, पञ्चा शदुत्तरशतत्रयसहितनवसहस्राधिकमेकलक्षं पत्तयः १०९३५० । यदुक्तम्
१. तुलनीयोऽमरकोषः२।८७९॥ २ "भिन्नं' इति३.४॥ ३ '-ष्टभ्यते' इति१.२॥ ४ 'प्रतिग्रहः' इति३, 'प्रतिग्रहे' इति४॥ ५ तुल नीयोऽमरकोषः२।८।८० ॥ ६ 'भारते' इति३.४॥ ७ द्र. अम.क्षीर.२ ८ ८१, पृ.१९१॥ ८ 'चमू' इति३॥ ९. 'त्रिगुणितं' इति४॥ १०. कोष्ठान्तर्गतपाठस्थानेऽमरकोषे “दशानीकिन्योऽक्षोहिण्यथ सम्पदि'' इति दृश्यते ॥ ११. '-गणा' इति१.२॥ १२. 'लक्ष-' इति१॥
"स्यात् सेनाऽक्षौहिणी नाम खाऽङ्गष्टैकद्विकैर्गजैः २१८७० । रथै२१८७०श्चैभ्यो हयैस्त्रिघ्नैः६५६१० पञ्चघ्नैश्च पदातिभिः १०९३५० ॥१॥"[]इति । [एकमक्षौहिण्या:] ॥
१. द्र. स्वोपज्ञटीका३।७४९ ॥, पृ.१६६ ॥ “अक्षौहिण्याः प्रमाणन्तु खाङ्गाष्टकद्विकैर्गजैः । रथैरेतैर्हयैस्त्रिघ्नः पञ्चघ्नैश्च पदातिभिः" इति भारते ॥ २. "पत्त्यङ्गैस्त्रिगुणैः सर्वैः क्रमादाख्या यथोत्तरम् ॥८०॥ सेनामुखं गुल्मगणौ वाहिनी पृतना चमूः । अनीकिनीदशानी किन्यक्षौहिण्यथ संपदि ॥८१ ॥'' इत्यमरकोशः २८८०-८१ ।।
"(वि.) पत्त्यडैरिति-त्रिगुणैः सर्वैः पत्त्यङ्गैर्यथोत्तरमुत्तरोत्तरस्य आख्या नामानि क्रमाद् भवन्ति । सेनाया मुखं सेनामुखम् ।
इभानां च रथानां च त्रितयं नव वाजिनः ।
सेनामुखं स्मृतं यत्र भटानां दश पञ्च च ॥ इति । गुड्यते रक्ष्यतेऽस्मात् गुल्मः । 'गुड रक्षायाम्' ।
नवेभानां रथानां च हयानां सप्तविंशतिः ।
गुल्मः प्रोक्तो भटानां तु चत्वारिंशच्च पञ्च च ॥ इति । गण्यते संख्यायते गणः । 'गण संख्याने' ।
एकाशीतितुरङ्गाणां रथेभाः सप्तविंशतिः ।
गणः प्रोक्तो भटानां तु शतं त्रिंशच्च पञ्च च ॥ इति । वाहाः अश्वाः अस्यां सन्तीति वाहिनी ।
एकाशीतिरथेभस्य भटाः पञ्च चतुःशतम् ।
चत्वारिंशत् त्रयोऽश्वानां द्विशतं वाहिनी मता ॥ इति । पृतना पूर्वोक्ता (श्री.७८) ।
चत्वारिंशत्त्रयो नागा द्विशतं च रथास्तथा । पृतना सा सप्तशती हयानां विंशतिर्नव । सहस्रं द्विशतं पञ्च दश पद्गा मनीषिभिः ॥
चमूरप्युक्ता (.७८) ।
द्विसहस्रं शतं सप्ताशीतिर्वाजिकुलस्य च । रथाश्चेभाः सप्तशती विंशतिर्नव यत्र सा | त्रिसहस्रं षट्शतकं चत्वारिंशच्च पञ्च च ।
पदातीनां चमूर्जेया सैन्यसंख्याविचक्षणैः ॥ अनीकिनी पूर्वोक्ता (श्रो.७८) ।।
षट्सहस्रं पञ्चशतं षष्टिरेकं तु वाजिनाम् । द्विसहस्रं शतं सप्ताशीतिर्गजरथस्य च ॥
यत्रायुतं नवशतं त्रिंशत्पञ्चपदातयः ।
अनीकिन्यभिधेया सा परिज्ञेया मनीषिभिः । दश अनीकिन्यो यस्यां सा दशानीकिनी । सैव अक्षौहिणीत्युच्यते । अक्षाणां रथानां समूहः संघोऽस्यामस्तीति अक्षौहिणी ।
प्रयुतं नवसाहस्रं पञ्चाशत् त्रिशतं भटाः । पञ्चाशत् पष्टिसाहस्रं षट्शतीर्दश वाजिनः ॥ एकविंशतिसाहस्रं शतानामष्टसप्ततिः ।।
द्विरदाः स्यन्दना यत्र साक्षौहिण्युच्यते बुधैः ॥ इति ।" इति लिङ्गयसूरिकृताऽमरपदविवृतिः, भा-१, २।८८०-८१॥, पृ.५३०-- ५३१ ।।, मङ्गलकोषे त्वेवमुक्तम्-'नवनागसहस्त्राणि नागे नागे शतं रथाः । रथे रथे शतं चाश्वा अश्वे अश्वे शतं नराः ॥'' इति, अन्यत्रोक्तं महाक्षौहिणीप्रमाणं यथा-"खद्वयं निधिवेदाक्षिचन्द्राक्ष्यग्निहिमांशुभिः । महाक्षौहिणिका प्रोक्ता संख्यागणितकोविदैः॥" इति
सज्जनं तूपरक्षणम् ॥७४९॥
१ सज्जन्ते निर्भया भवन्त्यनेन, सत् शोभनं वा जन्यतेऽनेन सजनम् । 'षस्ज गतौ'(भ्वा.प.से.), 'झलां जश् झशि'८।४।५३॥ इति सस्य दत्वम्, 'स्तोः चुना श्चुः'८।४। ४०॥ इति दस्य जः, करणे ल्युट् । २ उपरक्ष्यन्ते ऽनेन उपरक्षणम् । 'रक्ष पालने'(भ्वा.प.से.), करणे ल्युट् । द्वे सैन्यप्रगुणीकरणस्य । 'सज्जकरवउं' इति भाषा ॥७४९॥
वैजयन्ती पुनः केतु : पताका केतनं ध्वजः ।
१ विजयते जेता विजयन्तः। 'जि जये'(भ्वा.
१० प.अ.), 'तभूवसि - '(उणा-४०८)इत्यन्तः । विजयन्तस्येयं वैजयन्ती । 'तस्येदम् '४।३।१२० ॥ इत्यण, 'टिड्डाणञ्-' ४।१।१५।। इति ङीष् (ङीप् )। २ चाय्यते पूज्यते केतुः, पुंसि । 'चाय पूजानिशामनयोः (भ्वा.उ.से.), 'चायः की(के) च'(हैमोणा-७७८) इत्यनेन तुप्रत्ययः, धातोश्च की(के)इत्यादेशः । ३ पतत्यूचं पताका । पतेर्गत्यर्थस्य ज्ञानार्थत्वात् पत्यते ज्ञायते योध्यतेऽदोऽनयेति वा । 'शलि पटिपतिभ्यो नित्'(दशपाधुणा-३३३॥)इत्याकः, टाप् । पटाकाऽपि । ४ केत्यते ज्ञायते योधविशेषोऽनेन केतनम्, पुंक्ली. । “द्यामियाय दहतस्य (देहहतस्य?) केतनः''[]
२० इति लक्ष्यं च । 'कित ज्ञाने '(जु.प.से.), करणे ल्युट् । ५ ध्वजयति चिह्नयति ज्ञापयति योधविशेषं ध्वजः, पुंक्ली. । "ध्वजमस्त्रियाम्''[अमरकोषः २।८।९९ ॥] इत्यमरः । 'ध्वज गतौ'(भ्वा.प.से.), अन्तर्भूतण्यर्थात् पचाद्यच्। पञ्च ध्वजस्य ॥
अस्योच्चूलावर्चुलाख्यावूर्ध्वाधोमुखकूर्चकौ ॥७५०॥
१ अस्य ध्वजस्य ऊर्ध्वस्थितकूर्चकमानैकं उच्चूलः। १ अधोमुखकूर्चकनामैकम् अवचूलः । 'ऊर्ध्वाधोमुखकूर्चको [अभि.नो-७५०]इति कूर्चकशब्दस्य प्रत्येकमभिसम्बन्धादूर्ध्व कूर्चक उच्चूलः, अधोमुखकूर्चकोऽवचूल इत्यर्थः ॥५०॥
गजो वाजी रथः पत्तिः सेनाङ्गं स्याच्चतुर्विधम् ।
१ गजो हस्ती १, वाजी तुरङ्गः २, रथः स्यन्दनः
३० ३, पत्तिः पदातिः ४ चतुर्विधं सेनाया अङ्गम् अवयवः स्यादिति, चतुरङ्गा हि सेना, तत्र गजवाजिनौ तुर्यकाण्डे(यो ४।१२१७, ४।१२३२-३३)वक्ष्येते । पत्तिः प्रागेवोक्तः (यो ३१४८) ॥
अथ रथनामान्याह
युद्धार्थे चक्रवद्याने शताङ्गः स्यन्दनो रथः ॥५१॥
१ युद्धं सङ्ग्रामोऽर्थः प्रयोजनमस्य युद्धार्थः, तत्र युद्धप्रयोजने, चक्रवद्याने चक्रयुक्तयाने, शतमित्यनेकोपलक्षणम्, शतं बहून्यङ्गान्यवयवा अस्य शताङ्गः । २ स्यन्दति(स्यन्दते) चलति स्यन्दनः, दन्त्यान्तस्थाद्यादिः । 'स्यदि चलने'( ),
४० 'स्यन्दू प्रस्रवणे (भ्वा.उ.से) वा 'चलनशब्दा[] कर्म काधुच्'३।२।१४८ ॥, 'अनुदात्तेतश्च हलादेः'३।२।१४९ ॥ इति युज् वा । ३ रमन्ते क्रीडां कुर्वन्त्यनेन रथः, पुंस्त्रीं । 'रमु क्रीडायाम्'(भ्वा.आ.अ.), 'हनिकुषिनीरमिकाशिभ्यः क्थन्' (उणा-१५९), 'अनुदात्तोपदेश- '६।४।३७ ॥ इत्यादिना ऽनुनासिकलोपः । त्रीणि युद्धार्थरथस्य ॥५१॥ स क्रीडार्थ पुष्परथः
१ स इति रथः, क्रीडार्थः क्रीडानिमित्तो न पुनः समरार्थः, असौ पुष्पे यात्रोत्सवादौ मङ्गल्यो रथः पुष्परथः, मूर्धन्योपधः । “क्रीडारथः पुष्परथः''[]इति तट्टीका, द्वे
५० नामनी आह । एकं क्रीडारथस्य ।
देवार्थस्तु मरुद्रथः ।
१ देवाय अयं देवार्थः । 'चतुर्थी तदर्थ-'२।१।३६ ॥ इत्यादिना समासः । मरुतां देवानां रथो मरुद्रथः । "देवार्थस्तु देवरथ ''[हलायुधकोश:२ १४४६] इति हलायुधः । एकं देवनिमित्तरथस्य ।
योग्यारथो वैनयिकः
१ योग्यायै शास्त्राभ्यासाय रथो योग्यारथः । २
१. '-क्ष्यते' इति१॥ २. '-रवो' इति३, र' इति४॥ ३. 'तभूवहिवसि-'(उणा-४०८)इत्युणादिगणे ॥ ४ 'इति' इति४॥ ५. एतत्स्थाने क्षीरस्वामी 'कित ज्ञाने' इति सूत्रं पठति । मैत्रेयश्च 'कि कित ज्ञाने' इति ॥ ६. '-क्ते याने' इति३ ॥ ७ 'प्रश्र-' इति२.३ ॥ ८. 'स्रवणे' इति स्वामिमैत्रेयौ ॥ ९. 'रमन्ति' इति१.२॥ १०. 'स्त्रीपुं' इति४॥ ११. 'क्रीडार्थरथः' इति३॥ १२. 'देवतार्थो देवरथः' इति हलायुधकोशे, पृ.५१ ॥ १३. 'योग्याय' इति ॥
विनयः शिक्षाप्रयोजनमस्य वैनयिकः। 'तदस्य प्रयोजनम्' ५।१।१०९ ॥ इति ठक्, 'ठस्येक: '७।३५० ॥, 'किति च' ७।२।११८ ॥ इति वृद्धिः । “योग्यारथो वैनयिकः''[हला युधकोशः २।४४५ ॥] इति हलायुधः । “द्वौ समौ''[ ]इति तद्व्याख्या । द्वे शास्त्राभ्यासरथस्य ॥
अध्वरथः पारियानिकः ॥७५२॥
१ अध्वनि मार्गे गमनाय रथः अध्वरथः । परियानं प्रयोजनमस्य पारियानिकः । तदस्य प्रयोजनम् ५।१।१०९ ।। इति ठक् । अध्वन्योऽपि । “अध्वन्यः पारियानिकः"
१० [हलायुधकोशः २।४४५ ॥] इति हालयुधः । “द्वौ समौ" []इति तट्टीका । एकं मार्गरथस्य ॥५२॥
कर्णीरथः प्रवहणं डयनं रथगर्भकः ।
१ कर्णाः सन्त्येषु कर्णिनः स्कन्धाः, तेषु रथः कर्णीरथः, पुंस्कन्धवाह्यो रथ इत्यर्थः । 'अन्येषामपि-' ६।२।१३७॥ इति दीर्घः । कर्यां चतुःकाष्ठ्यां स्थितो रथ इति वा । मिश्रास्तु-"कर्णसाध्या क्रिया श्रुतिरुपचारेण कर्णः, तद्योगात् कर्णी, मत्वर्थे इनिः, विशेषणसमासे, 'अन्येषामपि- '६।३।१३७॥ इति दीर्घः, रथस्य श्रुतिमात्रं हि
तत्र, न तु परमार्थतो रथत्वम्, स्कन्धस्य कर्णसमीपत्वात्
२० कर्णी स्कन्धः''[]इति व्याख्यन् । "श्रवश्रूजनानुष्ठितचारु वेषां कीरथस्थां रघुवीरपत्नीम्''[रघुवंशम्, सर्ग:-१४, श्री १३]इति रघुः । २ प्रोह्यते प्रवहणम् । 'वह प्रापणे' (भ्वा.उ.अ.), ल्युट् । 'कृत्यचः'८।४।२९ ॥ इति णत्वम् । प्रहयनमित्यपि, ‘हय गतौ'(भ्वा.प.से.)इत्यस्य । ३ डीयते विहायसा गम्यतेऽनेन डयनम् । 'डीङ् विहायसा गतौ । (भ्वा.दि.आ.से.), करणे ल्युट् । ४ रथस्य गर्भ इव रथगर्भकः । 'इवे प्रतिकृतौ'५।३।९६ ॥ इति कन् । चत्वारि पुरुषस्कन्धवाह्यरथस्य । विमानाख्ययानमेतत् । “स्त्रीवह नार्थमपरि वस्त्राच्छादितस्य यानविशेषस्य'" इति मिश्राः ॥
३० अनस्तु शकटः
१ अनिति प्राणित्यनेन अनः, क्लीबे । 'अन प्राणने'(अ.प.से), '-असुन्'(उणा-६२८)इत्यसुन् । २ शक्नोति भारं वोढुं शकटः, त्रिष्वयम् । "शकटोऽस्त्री" [अमरकोषः२।८ ५२] इत्यमरः । 'शक्ल शक्तौ'(स्वा.प.अ.), 'शकादिभ्योऽटन्'(उणा-५२१) । द्वे शकटस्य । 'गाडूं' इति भाषा ॥
अथ स्याद् गन्त्री कम्बलिवाह्यकम् ॥७५३॥
१ गम्यतेऽनयो गन्त्री । गमेः ष्ट्रन्, षित्त्वाद् ङीष् । गन्तृशब्दाद् 'ऋन्नेभ्यः- '४।१।५॥ इति ङीष् (डीप्) वा । "गन्त्री:"[हलायुधकोशः २४४४] इतीदन्तोऽपीति हलायुधः ।
४० "अष्टौ शकटे''[ ] इति तट्टीका त्वभेदेनाऽऽह । २ कम्बल: सास्ना, तद्योगात् कम्बलिनो वृषास्तैर्वाह्यं वहनीयं कम्बलि वाह्यम्, स्वार्थे कनि कम्बलिवाह्यकम् । “कम्बलो नाग राजे स्यात् सास्नाप्रावारयोरपि"[मेदिनकोशः, लान्तवर्गः, श्री ६७]इति मेदिनिः । द्वे 'वहिलि' इति ख्यातायाः ॥७५३॥
अथ काम्बलवास्त्राद्यास्तैस्तैः परिवृते रथे ।
१-१ तैस्तैः कम्बलवस्त्रादिभिः परिवृते आच्छादिते रथे, कम्बलेनाऽऽवृतः परिवृतो रथः काम्बलः । वस्त्रेण परिवृतो रथः वास्त्रः । तेन परिवृतः-'४।२।१०॥ इत्यण, 'तद्धितेष्वचामादे:'७।२।११७॥ इति वृद्धिः । आदिशब्दाद्
५० दौगू(कू) लाद्याः । कम्बलाच्छादितरथनामैकं काम्बलः, वस्त्राच्छादितरथनामैकं वास्त्रः ॥
स पाण्डुकम्बली यः स्यात् संवीतः पाण्डुकम्बलः ॥७५४॥
१ यो रथः पाण्डुकम्बलैः 'दुलीचा' इत्यादिलोक भाषाप्रसिद्धैः संवीतः, तन्नामेकं, पाण्डुना शुक्लेन कम्बलेन संवीतः पाण्डुकम्बली । 'पाण्डुकम्बलादिनिः'४।२।११।।। "स्यात् पाण्डुकम्बलः श्वेतकम्बले च शिलान्तरे'[विश्व प्रकाशकोशः, लान्तवर्गः, थो-१५७] इति महेश्वरः । “पाण्डु कम्बलशब्दो राजाऽऽस्तरणस्य वर्णकम्बलस्य वाचकः"
६० [काशिकावृत्तिः ४।२।११ ॥] इति वामनश्च ॥७५४॥
स तु द्वैपो वैयाघ्रश्च यो वृतो द्वीपिचर्मणा ।
१. 'प्रयोजनम्' इत्येवाष्टाध्याय्याम् ॥ २. '-यानकः' इति१.३॥ ३.'-यानकः' इति३.४॥ ४. '-नकः' इति३ ॥ ५. द्र. पदचन्द्रिका, भा-२, क्षत्रवर्गः, श्री-५०६, पृ.५९३ ।। ६. स्वामिनैव भ्वादौ 'डीङ् विहायसां गतौ' इति, दिवादौ 'डीङ् गतौ' इति चोक्तम् ॥ ७. 'स्त्रीवा-' इति४ ॥ ८. 'गाढुं' इति२, 'गाडूं' इति४॥ ९. 'डीषि' इति३ । १०. 'राजभागे' इति३॥ ११. '-ल' इति३ ॥ १२. 'परिवृतो रथः' इत्यष्टाध्याय्याम् ॥ १३. '-षाया प्रसि-' इति४॥
१-२ यो रथो द्वीपिनो व्याघ्रस्य चर्मणावृत आच्छादितः, स वैयाघ्रः च कथ्यते द्वीपिनो विकारश्चर्म द्वैपम्, व्याघ्रस्य विकारो वैयाघ्रम् । उभयत्र 'प्राणिरजता दिभ्योऽञ् '४।३।१५४ ॥ इति प्राणिवाचिभ्यो रजतादिभ्यश्च षष्ठ्यन्तेभ्यो यथायोगं विकारावयवयोरर्थयोरञ्, 'न य्वा भ्याम्- '७।३।३ ॥इति वृद्धिनिषेधे ऐजागमश्च । द्वैपेन परि वृतो रथः वैयाघेण परिवृतो रथ इत्यर्थे 'द्वैपवैयाघ्रादञ्' ४।२।१२॥ इति द्वैपवैयाघ्रशब्दाभ्यां परिवृतो रथ इति विषयेऽञ्, प्राग्दीव्यतीयस्याऽणोऽपवादः । यथाक्रममेकैकम् ।।
१० रथाङ्गं रथपादोऽरि चक्रम्
१ रथस्याऽङ्ग रथाङ्गम् । २ रथस्य पादो रथ पादः । ३ अराः सन्त्यत्रेति अरि, क्लीबे । 'अत इनिठनौ' ५।२।११५ ॥ इतीनिः । अरिणी, अरीणि इत्यादि । ४ क्रियते तदिति चक्रम्, पुंक्लीबलिङ्गः । ‘कृञः क्लिदेः क्वसश्च (कृञादिनां के द्वे) '(वा-६।१।१२॥)कप्रत्ययः, द्वित्वं च । चत्वारि ‘पईडां' इति ख्यातस्य ॥
धारा पुनः प्रधिः ॥७५५॥
नेमिः
१ (ध्रियत इति) धारा, प्रान्तः प्रस्तावाच्चक्रस्य ।
२० २ प्रान्ते धीयत इति प्रधिः, पुंस्त्री । प्रपूर्वाद् धाञः 'उपसर्गे घोः किः'३।३।९२ ।। इति किः ॥७५५॥ ३ नयति रथ मिति नेमिः, स्त्रीलिङ्गः । ‘णीञ् प्रापणे'(भ्वा.उ.अ.), 'नियो मिः '(उणा-४८३) इति मिः । 'सर्वतोऽक्तिन्नर्थात्' (गणसू-४।१।४५ ॥ इति ङीषि नेमी च । त्रीणि चक्र धारायाः । 'पूंठि' इति भाषा ॥
अक्षाग्रकीले त्वण्याणी
१ अक्षस्य नाभिक्षेप्यस्य काष्ठस्य 'लोहरि' इति प्रसिद्धस्य अग्रे अन्ते बन्धार्थं कीलः अक्षाग्रकीलः, तत्र ।
"अग्रमालम्बने व्राते परिमाणे पलस्य च । ।
३० प्रान्ते पुरस्तादधिके प्रधाने प्रथमोर्ध्वयोः ॥१॥"
[विश्वप्रकाशकोशः, रान्तवर्गः, श्री-५३] इति महेश्वरः । २ ३ अणति शब्दायते अणिः । 'अण शब्दे'(भ्वा.प.से.) अस्मादसौ ‘-इन् '(उणा-५५७, (दशपाधुणा-१।४६॥)) इत्यौणादिक इन्, स च वा णित् । णित्पक्षे आणिः । स्त्रियां ङीषि आणी च । “अणिरक्षाग्रकीलिका''[हलायुध कोश:२१४४८ ॥] इति हलायुधः । “द्वौ समौ''[ ] इति तट्टीका । “अणिराणिवदक्षाग्रकीले स्यादस्तिसीमयोः" [विश्वप्रकाशकोशः, णान्तवर्गः, शो-२२]इति महेश्वरः । त्रीणि अक्षाग्रकीलस्य । 'विडलि' इति भाषा ॥
नाभिस्तु पिण्डिका ।
४० १ नह्यन्तेऽपरे अवयवा अत्रेति नाभिः, स्त्रीलिङ्गः । 'नह(णह) बन्धने'(दि.उ.अ.), 'नहेर्भश्च(नहो भश्च)'(उणा ५६५)इतीञ्, भश्चान्तादेशः, उपधावृद्धिः । २ पिण्ड्यन्ते काष्ठान्यत्र पिण्डी । 'पिडि सङ्घाते'(भ्वा.आ.से), अधिकरणे घञ्, गौरादित्वाद् ङीष् । सा च रथचक्रमध्ये मण्डलाकारा यस्यां सर्वाणि काष्ठान्यासज्यन्ते । स्वार्थे कनि, 'केऽणः'७।४। १३ ॥ इति हुस्वत्वे च पिण्डिका । "नाभिश्चक्रस्य पिण्डिका" [हलायुधकोश:२।४४७ ॥] इति हलायुधः । “कप्रत्ययाभावे पिण्डि:"[ ]इति तट्टीका । द्वे नाभेः । 'नाहि' इति भाषा ॥
युगन्धरं कूबरं स्यात्
५० १ युगं वोढस्कन्धकाष्ठं धारयति युगन्धरम् । 'धृञ् धारणे'(भ्वा.उ.अ.), 'संज्ञायां भृतवृजि-'३।२।४६ ।। इति खच्, खित्त्वाद् मुम् । २ कवते शब्दायते कूबरम् । 'कुङ् शब्दे' (तु.आ.से.), 'कृगशवृञ्चतिभ्यो वरच् '(उणा-२७९)इति बहुल वचनाद् वरच् दीर्घत्वं च । 'छित्वरच(छ) त्वर-'(उणा २८१)इति वा वरचि साधुः । पुंक्ली. एतौ । “कुबरः" [शब्दभेदप्रकाशः, शो-३८(४८)]अपीति शब्दप्रभेदः । “कुं भूमिं वृणोत्याच्छादयति महत्त्वाद्वा । 'वृञ् आच्छादने' (स्वा.उ.से.), अच्, 'अन्येषामपि- '६।३।१३७॥ इति दीर्घ कूबरः''[]इत्यन्ये । द्वे 'कांगवा' इति ख्यातस्य ॥
६०
युगमीशान्तबन्धनम् ॥७५६॥
१. 'द्वित्वप्रकरणे कृत्रादीनामिति वक्तव्यम्' इति सिद्धान्तकौमुद्याम् ॥ २. 'पइडा' इति३, 'पईडां' इति४॥ ३. कोष्ठान्तर्गतपाठः १.२प्रत्योर्नास्ति | ४ 'धाञ्' इति३॥ ५. 'पूठि' इति३.४॥ ६. 'वोढारस्क-' इति३॥ ७ -भ्यः ष्वरच्' इत्युणादिगणे ॥ ८. ''क्लीबलिङ्गावेतौ' इति३ ॥ ९. 'कुवरः कूवरस्तथा' इति शब्दभेदप्रकाशे ॥ १०. 'वृञ् वरणे' इति क्षीरतरङ्गिण्यादयः ॥ ११. द्र. पदचन्द्रिका, भा-२, क्षत्रवर्गः, श्री-५११, पृ.५९८॥, तत्र "महत्त्वात् कुं भूमिं वृणोति आच्छादयति । पचाद्यच् (पा. ३।१।१३४॥) । अन्येषामपीति (पा. ६।३।१३७ ॥) दीर्घः । 'कूवरः' इत्यन्ये ॥" इति दृश्यते ॥ १२. 'कागवा' इति३ ॥
१ युज्यते युगम्, पुंक्ली. । भावे घञ् । “याना द्यङ्गे युगः पुंसि"[अमरकोषः ३।३।२४॥ इत्यमरः । “युगस्तु रथसीराङ्गः (प्रशस्तरथसाराङ्गम्)''[विश्वलोचनकोशः, गान्त वर्ग:, श्री-२०] इति श्रीधरश्च । ईशान्ते 'ऊध' इति प्रसिद्ध स्य, प्रान्ते बन्धनं बन्धोऽस्य ईशान्तबन्धनम् । एकं 'जूसर' इति ख्यातस्य ॥७५६॥
युगकीलकस्तु शम्या
१ युगस्य कीलको युगकीलकः। २ शम्यते शम्या। ‘शमु उपशमे'(दि.प.से.), 'पोरदुपधात्'३।१।९८॥
१० इति यत्, टाप् । द्वे ‘समिलि' इति ख्यातस्य ॥
प्रासङ्गस्तु युगान्तरम् ।
१ प्रसज्यते वोढस्कन्धे प्रासङ्गः । षञ्ज सङ्गे'(भ्वा. प.अ.), कर्मणि घञ्, 'चजोः कु घिण्ण्यतो: '७।३।५२ ।। इति कुत्वम्, 'उपसर्गस्य घञ्यमनुष्ये बहुलम्'६।३।१२२ ॥ इति दीर्घः । २ द्वितीयं युगं युगान्तरम् । यत्काष्ठं वत्सानां दमन काले स्कन्धे आसज्यते । यन्मुनिः-"युगं द्वितीयं प्रासङ्गः" [ ]इति । एकं 'पंजाली' इति ख्यातायाः ॥
अनुकर्षो दार्वधःस्थम्
१ रथस्याऽध:स्थितं दारु, अनुगतेन स्वसम्बन्धेन
२० चक्रेण कृतस्येति(कृष्यत इति) घञ्, अनुकर्षः । नकारा न्तोऽप्ययम्, "अनुकर्षा णा(ना)ऽक्षतलधरणदारु''[]इति वोपालितात् । “अनुकर्षो रथस्याऽध:स्थित(-ते) दारुणि चेष्यते''[ विश्वप्रकाशकोशः, षान्तवर्गः, शो-२८]इति महेश्वरः । एकं रथाध:स्थितदारुणः । 'पणछि' इति भाषा ॥
धूर्वी यानमुखं च धूः ॥७५७॥
१ धूर्वति हिनस्ति वोढन् धूर्वी । 'धूर्व(धुर्वी) हिंसा याम् (भ्वा.प.से.), गौरादिः । २ यानस्य रथादेर्मुखमग्रं यान मुखम् । ३ धूर्वति हिनस्ति धूः, स्त्रीलिङ्गः । 'धूर्व (धुर्वी)
हिंसायाम्'(भ्वा.प.से.), 'भ्राजभास-'३।२।१७७ ।।इति क्विपि, 'र्वोरुपधायाः-'८।२७६ ॥ इति दीर्घः, ‘राल्लोपः '६।४।२१॥
३० इति वलोपः । भागुरिमते टापि धुरा(धूरा) । त्रीणि 'धुरी' इति ख्यातायाः ॥७५७॥ रथगुप्तिस्तु वरूथः
१ रथस्य गोपनं रथगुप्तिः । 'गुपू रक्षणे'(भ्वा. प.से.), 'स्त्रियां क्तिन्'३।३।९४॥ । २ वृण्वन्ति गुप्त्यर्थं रथमनेनेति वरूथः । 'वृञ् वरणे'(स्वा.उ.से.), 'जवृ[ञ्] भ्यामूथन्'(उणा-१६३) । पुनपुंसकोऽयम् । “रथगुप्ति वरूथो ना''[अमरकोषः२ ।८ ५७ ॥] इत्यमरः । “वरूथं रथगोपनम्''[हलायुधकोश:२।४४९ ।।] इति हलायुधः । "द्वौ रथसन्नाहे''[]इति तट्टीका । द्वे रथसन्नाहस्य । लोह-
४० मयी आवृत्तिः, 'खोलीउं रथपाखरिउं' इति भाषा ॥
रथाङ्गानि त्वपस्कराः ।
१ रथस्याऽङ्गानि अक्षयुगचक्रादीनि, स्वयं कीर्यते यथार्ह स्वस्वस्थाने निक्षिप्यते अपस्कराः । ‘क विक्षेपे' (तु.प.से.), 'ऋदोरप्'३।३।५७ ।। इत्यप्, 'अपस्करो रथाङ्गम्' ६।१।१४९ ॥ इति सुटि साधुः । एकं सामान्येन रथाङ्गा नाम् । "चक्रादन्यानि रथस्याऽङ्गानि आरम्भकाणि रथाङ्गा न्यपस्कराः ''[]इति केचित् ॥
शिबिका याप्ययाने
१ शिवं करोति, 'तत्करोति-'(वा-३।१।२६ ॥)इति
५० ण्यन्ताद् ण्वुलि 'प्रत्ययस्थात्- '७।३।४४ ॥ इतीत्वम्, शिबिका श्रेयस्करी । सैव वा (शिवैव) शिबिका, 'संज्ञायां कन्'५ ।३।७५ ॥ वा । २ याप्यस्य अशक्तस्य यानं याप्ययानम्, [तत्र] । द्वे 'पालखी सुखासन' इत्यादेः । "जम्पानम्''[ ]इति गौडाः ॥
__ अथ दोला प्रेक्षादिका भवेत् ॥७५८॥
१. '-ले' इति३॥ २. '-ष्येषु' इति४॥ ३. '-य' इति४॥ ४. द्र. अम. क्षीर. २१८५८ ॥, पृ.१८७॥, स्वोपज्ञटीका ३१७५७ ॥, पृ.१६७॥ ५. द्र. पदचन्द्रिका, भा-२, क्षत्रवर्गः, श्री-५११, पृ.५९८ ॥, रामाश्रमी २।८५७ ॥, पृ.३७२ ॥, तयोः 'अनुकर्षा नाक्षतदारु' इति दृश्यते ॥ ६. '-त्वात्' इति३॥ ७ 'उर्वी तुर्वी दुर्वी धुर्वी हिंसाः ' इति स्वामी, ‘-हिंसायाम्' इति मैत्रेयः, 'उर्वी तुर्वी थुर्वी दुर्वी धुर्वी हिंसाः ' इति सायणः ॥ ८. दीर्घ कृते वलोपो विचारणीयः, सपादसप्ताध्यायी प्रति त्रिपाद्यसिद्धत्वात् ॥ ९. 'धुरा' इति३ ॥ १०. 'पुंक्ली.' इति४॥ ११. 'द्वौ' इति१ ॥ १२. '-ओ' इति१ ॥ १३. १प्रतौ नास्ति, '-रीयो' इति३॥ १४. 'ण्वुल्' इति४॥ १५. '-ण' इति३॥ १६. द्र. स्वोपज्ञटीका ३ १७५८ ॥, पृ.१६७ ॥
१ दोलयति उत्क्षिपति दोला । 'दुल उत्क्षेपे'(चु. उ.से.), चुरादिः, ततोऽच् । २ प्रेङ्ख्यते प्रेर्यते प्रेङ्खा । 'इखि गतौ'(भ्वा.प.से.), घञ्, प्रेयः संहितासाम्यात्, 'गुरोश्च हलः' ३।३।१०३॥ इत्यकारे च प्रेक्षा । "दोला प्रेजः पुमान् प्रेडा निःश्रे[रधिरोह]णी''[]इति रत्नकोषः । आदिना खट्वा वाह्यादिदोला । इयं च वलिविधायानदोला (द्विविधा, प्रेडा दिदोला चेति) । उद्यानादिषु क्रीडार्थं रज्जुमयी, या स्थाना न्तरसञ्चारणाय दारुदण्डिकापटादिसमुदायारब्धा(-बद्धा) मनुष्य वाह्या च या, दोलाशब्दस्तत्र वर्तते । सामान्येन 'हीण्डोलउं
१० पालणउं' हीण्डोलाखाटप्रभृतीनां द्वे ॥७५८॥
वैनीतकं परम्परावाहनं शिबिकादिकम् ।
१ विनीतानामिदं याप्ययानादि वैनीतम् । तस्येदम्' ४।३।१२०॥ इत्यण, स्वार्थे कनि वैनीतकम्, पुंक्ली. । वोढभिः परम्परयाऽनुक्रमेण वाह्यते परम्परावाहनम् । वहेर्ण्यन्तात् कर्मणि ल्युट् । [शिबिका आदिरस्य शिबिकादिकम् । एकं परम्परा वाहनस्य] ॥
यानं युग्यं पत्रं वाह्यं वा वाहनधोरणे ॥७५९॥
१ [यान्यनेन यानम् । ‘या प्रापणे'(अ.प.अ.) 'करणाधिकरणयोश्च'३।३।११७॥ इति करणे ल्युट्] । २ युज्यते
२० उपयुज्य[ते] इदं गमनमिति युग्यम् । 'युजिर् योगे'(रु. उ.अ.), 'युग्यं च पत्रे'३।१।१२१॥इति क्यपि निपातितः । ३ पतन्त्यनेन पत्त्रम्, पुंक्ली. । 'पत्लु पतने '(भ्वा.प.अ.), 'दाम्नीशसु(शस)युयुज-'३।२।१८२ ।। इति ष्ट्रन् । ४ वाह्यते प्रेर्यते वाह्यम् । 'ऋहलोर्ण्यत्'३।१।१२४॥ । ५ उह्यतेऽनेन वाम् । 'वह प्रापणे'(भ्वा.उ.अ.), 'वह्यं करणम्'३।१।१०२।। इति निपात्यते । ६ वहन्ति नयन्ति देशाद् देशान्तरं प्रापयन्ति द्रव्यमनेन वाहनम् । वहेर्णिजन्तात् करणे ल्युटि । 'वाहन माहितात्'८।४।८ ॥ इति निर्देशाद् दीर्घत्वं वा । वाहयन्ति तदिति वा, वहेर्ण्यन्ताल्ल्युटि वा । ७ धोरयति गतिचातुर्यं करोति धोरणम् । 'धोर(धोर) गतिचातुर्ये '(भ्वा.प.से.), नन्द्या-
३० दित्वाल्ल्युः । सामान्येन सप्त 'प्रवहण' इति ख्यातस्य ॥७५९॥
नियन्ता प्राजिता यन्ता सूतः सव्येष्ठुसारथी ।
दक्षिणस्थप्रवेतारौ क्षत्ता रथकुटुम्बिकः ॥७६०॥
१ नियच्छति नियन्त्रयत्यश्वान् नियन्ता । 'यमु नियमने (भ्वा.प.अ.), तृच्प्रत्ययः । २ प्राजयति गम यत्यश्वान् प्राजिता । प्रपूर्वाद् 'अज गतिक्षेपणयोः '(भ्वा. प.से.), अस्मात् तृच्, 'वलादेरार्धधातुके विकल्प:'(भाष्य २।४।५६ ॥)इत्युक्तेः 'अजेय॑घजापोः' २१४१५६॥इति वीभावो न । ३ यच्छतीति यन्ता । तृच् । त्रयोऽपि ऋदन्ताः । ४ सवति(सुवति) प्रेर-यत्यश्वान् सूतः । 'घू प्रेरणे'(तु.प.से.),
४० 'गत्यर्थादकर्मकाच्च-(गत्यर्थाकर्मकथुिषशीङ्स्थासवसजनरुह जीर्यतिभ्यश्च)'३।४७२ ॥इत्यादौ चकारस्याऽनुक्तसमुच्चयार्थ त्वात् कर्तरि क्तः । ५ सव्ये तिष्ठति सव्येष्ठ (सव्येष्ठा) । 'ष्ठा गतिनिवृत्तौ'(भ्वा.प.अ.), 'सव्ये स्थश्छन्दसि'(उणा २५८)इति ऋन्, ङिच्च (डिच्च), 'स्थास्थिन्स्थूणाम् '(वा ८।३।९७॥)इति वक्तव्यात् षत्वम्, सप्तम्यलुक् । सव्येष्ठरौ सव्येष्ठरः इत्यादिरूपाणि भवन्ति । ६ सारयति गमयत्यश्वा निति सारथिः । 'सृ गतौ'(भ्वा.प.अ.), हेतुमण्णिजन्तात् 'सारेरर्थि: '(हैमोणा-६७०)इत्यथिप्रत्ययः । “सरथस्याऽपत्यं [सारयति वाहान् वा] सारथिः''[अम.क्षीर. २८६० ॥] इति
५० स्वामी । ७ दक्षिणे तिष्ठति दक्षिणस्थः । 'सुप-'३।२।४॥ इति कः, 'आतो लोप इटि च-'६।४।६४॥ इत्यालोपः । ८ प्राजति प्रवेता । 'अज गतिक्षेपणयोः' (भ्वा.प.से.), ‘ण्वुल्तृचौ'३।१।१३३ ॥ इति तृच्, 'वलादावार्धधातुके वेष्यते' (भाष्यम्-२४।५६ ॥ )इत्यजेर्वीभावः । ९ क्षदति संवृणोति क्षत्ता । 'क्षद संवरणे'( ), 'तृ[न्] तृचौ शंसिक्षदादि-' (उणा-२५०)इति तृच्, क्षदेः सौत्रात् 'नप्तनेष्टुत्वष्ट-'(उणा २५२)आदिना तृवा, अनिट्त्वं च । १० रथस्य कुटुम्बी वाहको रथकुटुम्बिकः । सादीत्यपि । दश सारथे: ॥७६०॥
१. 'प्रेक्षा च' इति युक्तः प्रतिभाति ॥ २. द्र. टीकासर्वस्वम्, भा-२, २८५३ ।।, पृ.९७ ॥, पदचन्द्रिका, भा-२, क्षत्रवर्गः, श्री-५०७, पृ.५९५ ॥, रामाश्रमी २८५३ ॥, पृ.३७० ॥ ३. 'होडोलो पालणो' इति३, 'हीडोलौ पालणौ' इति४॥ ४. 'पुंक्लीबे' इति३.४॥ ५. 'युज्यन्ते' इति४॥ ६. 'उपयुज्यन्ते' इति४॥ ७. 'इह' इति२॥ ८. 'गमने' इति३.४॥ ९. 'इति' इति ३प्रतौ नास्ति ॥ १०. 'पतत्यनेन' इति३.४॥ ११. 'शल हुल पल्ल गतौ' इति क्षीरतरङ्गिण्यादयः ॥ १२. इतोऽग्रे ४प्रतौ 'तट्टीकायां' इति दृश्यते ॥ १३. 'ण्यन्तात्' इति१, अत्र 'णिजन्तात्' इत्यनुपयुक्तः प्रतिभाति ॥ १४. ४प्रतौ नास्ति ॥ १५. '-ट्' इति४॥ १६. 'यम उपरमे' इति स्वामिसायणौ, 'यमु उपरमे' इति मैत्रेयः ॥ १७. 'ब्' इति३.४ ॥ १८. ४प्रतौ नास्ति ॥ १९. इतोऽग्रे ४प्रतौ 'सप्तम्यलुक्' इति दृश्यते ॥ २०. पाणिनीयसम्मतोणादिगणे 'सर्तेर्णिच्च'(उणा-५२९)इति सूत्रविद्यमानत्वादस्योल्लेखो विचारणीयः ॥ २१. 'गतौ क्षेपणे च' इति१ ॥ २२. 'चे-' इति४॥ २३. १प्रतौ नास्ति ॥
हा:"[अमरकोषः२ ।८।६० ॥] इत्यमरः । “रथे योद्धारः" - [अम.क्षीर.२।८।६१ ॥]इति क्षीरस्वामी । “पत्तिः पदातिं रथिनं रथेशः''[रघुवंशम्, सर्गः-७, श्रो-३७]इति रघुः । द्वे रथयोद्धः ॥
रथिके रथिरो रथी ।
१ रथोऽस्याऽस्ति रथिकः । 'अत इनिठनौ'५।२।
१० ११५ ॥ इति ठन्, 'ठस्येक: '७।३ १५० ॥ तत्र । २ रथोऽस्या ऽस्ति रथिरः । 'मेघारथाभ्यामिरनिरचौ'(वा-५।२।१०९॥)। ३ रथोऽस्याऽस्ति रथी । 'अत इनिठनौ'५।२।११५ ।। इतीनिः । त्रीणि रथिनः ॥
अश्वारोहे त्वश्ववार: सादी च तुरंगी च सः ॥७६१॥
१ अश्वमारोहति अश्वारोहः । 'रुह प्ररोहे '(भ्वा.प. अ.), अच्, तत्र। २ अश्वं वृणोति वारयति वा अश्ववारः । 'वृञ् वरणे'(स्वा.उ.से.), 'वर निवारणे'( ) वा, अस्माण्णि जन्तात् 'कर्मण्यण'३।२।१॥ । ३ सादयति श्रमयति सादी । 'षद्लु विशरणादौ '(तु.प.अ.), ग्रहादित्वाणिनिः । ४ तुरगो
२० ऽस्त्यस्य तुरगी । 'अत इनिठनौ'५।२।११५ ॥ इतीनिः । चत्वारि अश्ववारस्य । 'असवार' इति भाषा ॥७६१॥
हस्त्यारोहे सादियन्तृमहामात्रनिषादिनः ।
१ हस्तिनमारोहति हस्त्यारोहः, तत्र । २ सीदति सादी । ग्रहादित्वाणिनिः । ३ यच्छति यन्ता । 'यमु नियमने '(भ्वा.प.अ.), ‘ण्वुल्तृचौ'३।१।१३३ ॥ इति तृच् । ४ महती मात्राऽस्य महामात्रः । ५ निषीदति निषादी। 'षद्ल विशरणादौ '(तु.प.अ.), [ग्रहादित्वाणिनिः], 'अत उपधाया: '७।२।११६ ॥ । पञ्च हस्त्यारोहयोद्धुः ॥
आधोरणा हस्तिपका गजाजीवेभपालकाः ॥७६२॥
१ आधोरयन्ति गतिचातुर्यं कारयन्ति आधोरणाः।
३० 'धोर(धोर) गतिचातुर्ये'(भ्वा.प.से.), हेतुमण्णिच्, नन्द्या दित्वाल्ल्युः । २ हस्तिनं पान्ति रक्षन्ति हस्तिपाः । 'पा रक्षणे'(अ.प.अ.), 'आतोऽनुपसर्गे कः'३।२।३॥ । ततः स्वार्थे कनि हस्तिपकाः । ३ गजेभ्यो गजेषु वा आजीवन्ति गजाजीवाः । 'जीव प्राणधारणे'(भ्वा.प.से.), अच् । ४ इभं पालयन्ति इभपालकाः । ‘पाल रक्षणे' (चु.उ.से.), णिजन्तः, ण्वुल् । मण्ठो देश्याम् । चत्वारि 'पीलवाण' इति ख्यातस्य ॥७६२॥ योद्धारस्तु भंटा योधाः
१ युध्यन्ते योद्धारः । 'युध संप्रहारे (दि.आ.अ.),
४० तृच् । २ भटन्ति धारयन्ति आयुधानि भटाः । भट भृतौ' (भ्वा.प.से.), अच् । 'भटन्ति काङ्क्षन्ति युद्धम्''[अम.क्षीर. २।८।६२॥]इति क्षीरस्वामी । ३ युध्यन्ते योधाः । 'युध संप्रहारे '(दि.आ.अ.), अच् । त्रीणि ‘झूझार' इति ख्यातस्य ।।
सेनारक्षास्तु सैनिकाः ।
१ सेनां रक्षन्ति पालयन्ति सेनारक्षाः । 'रक्ष पालने'(भ्वा.प.से.), 'कर्मण्यण'३।२।१॥ । २ सेनां रक्षन्ति सैनिकाः । 'रक्षति '४।४।३३ ॥ इत्यर्थे प्राग्वहतीयष्ठक्, 'ठस्येक: '७।३।५० ॥, 'किति च'७।२।११८ ॥ इति वृद्धिः ।
द्वे ‘पाहरूं' इति ख्यातस्य ॥
५० सेनायां ये समवेतास्ते सैन्याः सैनिका अपि ॥७६३॥
१-२ ये हस्त्यश्वादयः सेनायां समवेतास्ते सैन्याः, सैनिकाः च प्रोच्यन्ते । सेनायां समवेता: सैन्याः । समवै त्यर्थे ‘परिषदो ण्यः'४।४।४४ ॥ इत्यनुवृत्तौ 'सेनाया वा' ४।४।४५ ॥ इति ण्यः । ठकि सैनिक:(सैनिकाः) । द्वे सेनायां ये मिलितास्तेषाम् ॥७६३॥
ये सहस्रेण योद्धारस्ते साहस्राः सहस्त्रिणः ।
१-२ 'रुह बीजजन्मनि' इति स्वामी, 'रुह जन्मनि प्रादुर्भावे' इति मैत्रेयः, 'रुह बीजजन्मनि प्रादुर्भावे च' इति सायणः ॥ २. 'स्वामी' इति४॥ ३. 'पत्तिं' इति३ ॥ ४. १प्रतौ नास्ति ॥ ५. 'विशरणगत्यवसादनेषु' इति३॥ ६. '-वर' इति३ ॥ ७. 'यमु उपरमे' इति स्वामिमैत्रेयौ, 'यम उपरमे' इति सायणः ॥ ८. '-योद्धस्य' इति३.४॥ ९. 'पाति' इति३॥ १०. 'रक्षति' इति२.३ ॥ ११. 'कनिः' इति४॥ १२. '-यति' इति३ ॥ १३. 'मंतो' इति३, द्र. देसीसद्दसंगहो छट्ठो वग्गो, थो-५७३, पृ.२१८ ॥, 'मंठो शठः' इति स्वोपज्ञदेशीशब्दसंग्रहवृत्तिः ॥ १४. 'संहारे' इति१ ॥ १५. तुलनीयोऽमरकोषः २।८।६१ ॥ १६. '-रु' इति२.३ ॥ १७. '-तां' इति३ ॥ १८. 'पा-' इति१.२.४ ॥ १९. 'ठबि' इति २.४॥
१ सहस्रसङ्ख्येन गजादिना ये योद्धारस्ते सहस्रं योद्धारः परे सन्त्येषां साहस्राः । अण् च'५।२।१०३ ॥ इत्यण् । २ 'तपःसहस्राभ्यां विनिनौ '५।२।१०२ ॥ इति इनिप्रत्यये सहस्त्रिणः इति। "बलिनो ये सहस्रेण साहस्रास्ते सहस्रिणः" [अमरकोषः२।८।६२ ॥] इत्यमरः । द्वे सहस्रयोधिनः ॥
छायांकरश्छत्रधारः
१ छायामातपाभावं करोति छायाकरः । 'कृञो हेतु ताच्छील्यानुलोम्येषु' ३।२।२० ॥इति टः । २ छत्रं धरति छत्र धारः । 'कर्मण्यण'३।२।१॥ । द्वे छत्रधरस्य ॥
१० पताकी वैजयन्तिकः ॥७६४॥
१ (पततीति पताका)। 'पत्लु पतने '(भ्वा.प.से.), पिनाकादिर्बलाकादिर्वा आकप्रत्यये पताका । साऽस्याऽस्ति पताकी । शिखादित्वादिन् व्रीह्यादित्वाद्वा इन् मत्वर्थीयः । २ वैजयन्त्या चरति वैजयन्तिकः । 'चरति'४।४।८ ॥ इति ठक् । द्वे पताकाधरस्य ॥७६४॥ t
परिधिस्थः परिचरः
१ परिधौ सेनान्ते तिष्ठति परिधिस्थः । 'सुपि-' ३।२।४॥इति कः । २ परितः चरति परिचरः । 'चर गतौ' (भ्वा.प.से.), अच् । द्वे चउकीदार' इति ख्यातस्य ॥
२० ___ आमुक्तः प्रतिमुक्तवत् । अपिनद्धः पिनद्धः
१ आमुच्यते स्म आमुक्तः । 'मृच्तृ मोक्षणे'(तु.उ. अ.), निष्ठा । २ प्रतिमुच्यते स्म प्रतिमुक्तः । निष्ठा । ३ अपिनाते स्म अपिनद्धः । 'नह(णह) बन्धने'(दि.उ.अ.), निष्ठा, 'नहो ध:'८।२।३४॥ । ४ 'वष्टि भागुरिरल्लोपम्-' ( )इति पक्षे पिनद्धः । चत्वारि सजीभूतस्य ॥
अथ सन्नद्धो व्यूढ कङ्कटः ॥७६५॥
दंशितो वर्मितः सजः
१ संनह्यते स्म सनद्धः । 'नह (णह) बन्धने' (दि.उ.अ.), निष्ठा, 'नहो धः'८।२।३४॥ 'झषस्तथो:-'८।२।–
३० ४० ।। इति धत्वम्, 'झलां जश् झशि'८।४५३ । । २ व्यूढो धृतः कङ्कटोऽनेनेति व्यूढकङ्कटः ॥७६५॥ ३ दश्यते स्म दंशितः । “चुरादौ 'दशिर(दशि) दंशनस्पर्शनयो:'( ) इत्यतः ते दंशितः"[]इति मैत्रेयः । दंशनं दंशः । भावे घञ्, ततः 'तत्करोति-'(वा-३।१।२६॥ इति णिजन्तात् क्ते णिलोपे दंशित इति वा । ४ वर्मणा संनह्यत इति वर्मितः । 'सत्यापपाश-'३।१।२५ ॥इत्यादिना णिचि, ‘णाविष्ठवत् प्राति पदिकस्य'(वा-६।४।१५४ ॥) इतीष्ठवद्भावाडिलोपः । वर्म सञ्जातमस्येति, तारकादित्वादितज्वा ।५ निर्भयः सन् शत्रोरभि मुखं सज्जति गच्छति सज्जः । 'षस्जे गतौ'(भ्वा.प.से.),
४० अच्, 'झलां जश्-'८।४५३ ।। इति सस्य दत्वे श्चुत्वे । पञ्च सन्नाहयुक्तस्य ॥
सन्नाटे वर्म कङ्कटः ।
जंगरः कवचं दंशस्तनुत्रं माठ्युरश्छदः ॥७६६॥
१ सन्नह्यते सन्नाह । ‘णह बन्धने'(दि.उ.अ.), कर्मणि घञ्, 'अत उपधाया: '७।२।११६ । । २ वृणोति देहं वर्म, क्लीबे। 'वृञ् आच्छादने (चु.उ.से.), '-वरणे'(स्वा. उ.से.) वा, ‘-मनिन्'(उणा-५८४)इति मनिन् । ३ कङ्कयति परप्रहरणं व्यर्थतां नयति कङ्कटः । ककेर्गत्यर्थाण्ण्यन्ता[त्] 'शकादिभ्योऽटन्'(उणा-५२१)इत्यटन् । कं वायुं कटत्या-
५० वृणोति वा । 'कटे वर्षावरणयोः '(भ्वा.प.से), अच्, पृषोदरादित्वाद् मलोपः । ४ जागर्ति जगरः । 'जागृ निद्राक्षये' (अ.प.से.), अच् । “पृषोदरादित्वाद् हुस्वत्वम्''[अम. क्षीर.२८ ६५॥]इति स्वामी । “जगरः कङ्कटो यो[गः] सन्नाहः स्यादुरश्छदः"[ ]इति वोपालितः । ५ कं वातं
१. '-स्र-' इति३.४ ॥ २. 'परं' इति३ ॥ ३. 'विनीनी' इत्यष्टाध्याय्याम् ॥ ४. तुलनीयोऽमरकोषः२।८७१ ॥ ५. कोष्ठान्तर्गतपाठ.३.४प्रत्योर्नास्ति ॥ ६. 'शल हुल पत्लु गतौ' इति क्षीरतरङ्गिण्यादयः ॥ ७. तुलनीयोऽमरकोषः२।८।६२॥ ८. '-तीति' इति३.४॥ ९. 'चौकी-' इति३.४॥ १०. '-द्धो' इति४ ॥ ११. 'दंश्यते' इति४॥ १२. 'दसि दर्शनदंशनयोः' इति क्षीरतरङ्गिणीमाधवीयधातुवृत्ती, 'दसि दर्शनहिंसयोः' इति धातुप्रदीपः ॥ १३. 'इत्यन्तः' इति३.४ ॥ १४. द्र. पदचन्द्रिका, भा-२, क्षत्रवर्गः, श्री-५१९, पृ.६०५ ॥ १५. 'षज्ज' इति३.४ ॥ १६. 'वृञ् आवरणे' इति क्षीरतरङ्गिण्यादयः ॥ १७. अत्र 'मलोपः' इत्यस्य मः मकारस्याऽलोपो लोपाभाव इत्यर्थः कर्तव्यः, 'मकारः' इति वा पाठो युक्तः ॥ १८. 'क्षीरस्वामी' इति४॥ १९. क्षीरस्वामिकृताऽमरकोशटीकायाम्-"जागर्तेरचि ह्रस्वाजगरः" इत्येव दृश्यते, २८६५ ॥, पृ.१८८ ॥, द्र. पदचन्द्रिका, भा-२, क्षत्रवर्ग, श्रो-५१८, पृ.६०५ ॥ २०. द्र. टीकासर्वस्वम्, भा-३, २८६५ ॥, पृ.१०६॥, पदचन्द्रिका, भा-२, क्षत्रवर्गः, श्रो-५१८, पृ.६०५ ॥, रामाश्रमी २८६४ ॥, पृ.३७५ ।।
वञ्चयति शरीरसम्बन्धे गमयति कवचम्, पुंक्ली. । 'वञ्च गतौ'(भ्वा.प.से.), मूलविभुजादित्वात् कः । ६ दंश्यते कायेन स्पृश्यते दंशः । 'दशि दंशनस्पर्शनयोः (चु.आ.से.), चुरादिः, घजि । ल्युटि दंशनमपि । ७ त त्रायत इति तनुत्रम् । 'त्रेङ् (त्रैङ्) पालने '(भ्वा.आ.अ.), 'आतोऽनुपसर्गे कः' ३।२।३॥ । तनुत्राणमपि । ८ माठयति देहं माठिः, स्त्रीलिङ्गः, तृतीयवर्गद्वितीयोपधः । " 'मठ मदनिवासयोश्च'(भ्वा.प.से.), चकारात् स्थौल्ये''[हेमचन्द्राचार्यकृतधातुपारायणम्, भ्वादिः, धातुसं-२१५]इति धातुपारायणम् । भ्वादौ परस्मैपदी, ततो
१० णिच्, 'अच इ: '(उणा-५७८) इति इः, 'सर्वतोऽक्ति नर्थात् '(गणसू-४।१।४५ ॥)इति ङीषि माठी । ९ उरश्छा द्यतेऽनेन उरश्छदः । 'छद अपवारणे' (चु.उ.से.), 'पुंसि संज्ञायाम्-'३।३।११८॥ इति घः, 'छादेर्धे- '६।४।९६ ॥ इति हस्वः । त्वक्त्रमपि । नव कवचस्य ॥७६६॥
निचोलकः स्यात् कूर्पासो वारबाणश्च कञ्चकः ।
१ निचुल्यते निचोलः । चुलिः सौत्रः, ततो घञ्, स्वार्थे कनि निचोलकः । न्युपसर्गाभावे चोलकः । यद् हारावली-"चोलको वारबाणः स्यात्''[हारावली, पादावधि:,
-९७]इति । २ कुरति कूर्पासः, षष्ठस्वरादिः । 'कुर
२० छेदने '(तु.प.से.), पृषोदरादिः । ३ बाणं वारयति वार बाणः । मयूरव्यंसकादित्वात् 'कर्मण्यण'३।२।१॥ । वार माच्छादकं वानमस्येति वा । 'पूर्वपदात् संज्ञायाम्-'८।४।३।। इति णत्वम् । "वारबाणस्तु कूर्पासे कवचेऽपि च"[अनेकार्थ सङ्ग्रहः ४।८८]इति हैमानेकार्थः । ४ कच्यते बध्यते कञ्चकः । 'कचि काचि दीप्तिबन्धनयो: '(भ्वा.आ.से.), बाहुलकादुकप्रत्ययः । “कञ्चुकः कवचे वारबाणे निर्मोक चोलके ''[विश्वलोचनकोशः, कान्तवर्गः, श्री-४३] इति श्रीधरः । कवचे सन्नाहे यथा-"बलानि शूराणि घनाश्च
कञ्चकाः''[ ] । वारबाणे नृनिचोले यथा-"अन्तः कञ्चुकि
३० कञ्चकस्य विशति त्रासादसौ वामनः''[ ] । निर्मोक:
सर्पकञ्चलिका, चोलक: स्त्रीकञ्चलिका, उभयत्र यथा
"आभोगिनौ मण्डलिनौ तत्क्षणोन्मुक्तकञ्चकौ ।
___ वरमाशीविषौ स्पष्टौ (स्पृष्टौ) न तु तन्व्याः पयोधरौ ॥१॥"
[]इति । पुंक्ली. एतौ । चत्वारि ‘सिलह' इति ख्यातस्य । 'लबाचुंकबाहि' इति भाषान्तरम् ॥
सारसनं त्वधिकाङ्गं हृदि धार्यं सकञ्चकैः ॥७६७॥
१ यत् स कञ्चकैः ‘सिलहडगली' इति लोक भाषाप्रसिद्धियुक्तैः हृदि धार्यते तत् सारं बलमादीयते दीप्यते वाऽनेन सारसनम् । 'अस गतिदीप्त्यादानेषु'(भ्वा.उ.से.), करणे ल्युट्, शकन्ध्वादित्वात् पररूपत्वम् । “सारसनं मेख-
४० लायां वस्त्रे( मेखलायामुरस्त्रे) च तनुत्रिणाम्''[विश्व प्रकाशकोशः, नान्तवर्गः, श्री-१७२] इति विश्वः । २ अधिकमध्यारूढमङ्गमनेन अधिकाङ्गम् । अङ्गादधिकमिति वा । "अधिकमङ्गति''[अम.क्षीर.२।८।६४ ॥] इति स्वामी । "अधियाङ्गम् ''[ ]इति “अन्तस्थाद्यमध्यः''[ ] इत्यन्ये । यन्मुनि:-"अधियाङ्गं सारसनम्''[]इति । द्वे सारसनस्य । 'च्यार अहीना' इति भाषा ॥७६७॥
शिरस्त्राणे तु शीर्षण्यं शिरस्कं शीर्षकं च तत् ।
१ शिरस्त्रायतेऽनेन शिरस्त्राणम् । 'त्रेङ् (त्रैङ्) पालने'(भ्वा.आ.अ.), करणे ल्युट्, 'आदेच:- '६।१।४५ ॥
५० इत्यात्वम्, तत्र । २ शिरसे हितं शीर्षण्यम् । शिरःशब्दात् 'शरीरावयवाद्यत्' ५।१।६ ॥, शीर्षन् ‘-तद्धिते'६।१।६१ ॥ इति शिरसः शीर्षनादेशः, 'ये चाभावकर्मणोः '६।४।१६८॥ इति प्रकृतिभावः । ३-४ शिरस: शीर्षस्य च प्रतिकृति शिरस्कम्, शीर्षकम् । ‘इवे प्रतिकृतौ'५।३।९६ ॥ इति । शीर्षे कं सुखमस्माद्वा । शीर्षमारोहति प्रातिपदिकाद्धात्वर्थणिजन्ताद् ण्वुल् । शीर्षोपरिवर्तित्वात् शीर्षकमिवेति वा । खोलमपि । चत्वारि 'टोप' इति ख्यातस्य ॥
नागोदमुदरत्राणम्
१. ४प्रतौ नास्ति ॥ २. 'दसि दर्शनदंशनयोः' इति स्वामिसायणौ, 'दसि दर्शनहिंसयोः' इति मैत्रेयः ॥ ३. हारावल्याम्-'बाणवारः' इति दृश्यते, पृ.४०६ ॥ ४. क्षीरतरङ्गिण्यादौ शब्दार्थककुरधातुदृश्यते ॥ ५. सायणसम्मतोऽयं धातुपाठः, 'कचि दीप्तिबन्धनयोः' इति स्वामिमैत्रेयौ ॥ ६. 'बाणवारे' इति विश्वलोचनकोशे ॥ ७-८. द्र. अनेकार्थकैरवाकरकौमुदीटीका, भा-२, ३१४ ॥, पृ.७॥ ९. 'लबाइ- ' इति३.४ ।। १०. '-द्धयुक्तैः' इति३ ॥ ११. इतोऽग्रे ४प्रतौ 'तथा' इति दृश्यते ॥ १२. ४प्रतौ नास्ति ॥ १३. स्वामिकृताऽमरकोषटीकायाम्-"अवि(धि)कमङ्गादधिकाङ्गः" इति दृश्यते, २८६४॥, पृ.१८८ ॥ १४. '-नेति' इति३ ॥ १५. 'शिरसि' इति१॥ १६. अधिकोऽयं प्रतिभाति ।
१ नह्यते जठरोपरि नागोदम् । पृषोदरादित्वात् कुमुदादित्वाद्वा साधुः । २ उदरं त्रायतेऽनेन उदरत्राणम् । करणे ल्युट् । द्वे उदरत्राणस्य । 'पेटी' इति भाषा ॥
जङ्घात्राणं तु मत्कुणम् ॥७६८॥
१ जो त्रायेतेऽनेन जङ्घात्राणम् । करणे ल्युट् । २ माद्यति हृष्यन्त्यनेन मत्कुणम् । पृषोदरादित्वात् साधुः । चतुर्थवर्गाद्यकवर्गाद्यपञ्चमस्वरमध्यः । द्वे जङ्घात्राणस्य । 'रागरगावलि' इति भाषा ॥७६८॥
बाहुत्राणं बाहुलं स्यात्
१० १ बाहू त्रायेतेऽनेन बाहुत्राणम् । २ बाहुं लाति बाहुलम् । 'ला आदाने'(अ.प.अ.), 'आतोऽनुपसर्गे कः' ३।२।३॥ । द्वे बाहुत्राणस्य । 'दस्ताना हाथला' इति भाषा ॥
जालिका त्वङ्गरक्षणी । जालप्रायाऽऽयसी स्यात्
१ जालयति अपवारयति शस्त्राघातं जालिका । 'जल अपवारणे'(चु.उ.से.), ण्वुल, टाप्, 'प्रत्ययस्थात्-' ७।३।४४ ॥ इतीत्वम् । २ अङ्गं रक्ष्यतेऽनया अङ्गरक्षणी । 'रक्ष पालने'(भ्वा.प.से.), करणे ल्युट गौरादिः । ३ जाल प्राया जालसदृशी । ४ अयसो लोहस्य विकार आयसी ।
२० 'तस्येदम्'४।३।१२० ॥ इत्यण्, 'टिड्डाणञ्'४।१।१५ ॥ इति ङीष् (ङीप्) । चत्वारि 'जरहि' इति ख्यातायोः ॥
आयुधीयः शस्त्रजीविनि ॥७६९॥ काण्डपृष्ठायुधिकौ च
१ आयुधेन जीवति आयुधीयः । 'आयुधात् छ च'४।४।१४॥इति छ:, छस्य ईयादेश; । २ शस्त्रेण जीवति शस्त्रजीवी । ग्रहादित्वाणिनिः, तत्र ॥७६९॥३ काण्डा नीत्यायुधमात्रोपलक्षणम्, काण्डानि पृष्ठेऽस्य काण्डपृष्ठः । यद्वा स्पृष्टं गृहीतं काण्डमनेन । स्पर्शपूर्वकत्वाद् ग्रहणस्य धातूनामेनकार्थत्वाद्वा स्पृशिर्वर्जने पापे (स्पृशिर्वर्तनोपाये)
३० वर्तते । आहिताग्न्यादित्वात् परनिपातः । ४ आयुधेन जीवति आयुधिकः । 'आयुधात् छ च'४।४।१४॥ इति चकारात् ठक् (ठन्), 'ठस्येक:७।३।५० ॥, 'किति च'७।२।११८ ॥, 'यस्येति च'६।४।१४८ ॥ । चत्वारि सामान्येन आयुधधरस्य । 'तरकसंबंध' इति भाषा ॥
तुल्यौ प्रासिककौन्तिकौ ।
१ प्रासः प्रहरणमस्य प्रासिकः । २ कुन्तः प्रहरण मस्य कौन्तिकः । उभयत्र ‘तदस्य प्रहरणम्'४।४।५७ ॥ इति ठक् । द्वे भल्लधरस्य ॥
पारश्वधिकस्तु पारश्वधः परश्वधायुधः ॥७७०॥
१-२ परश्वधः प्रहरणमस्य पारश्वधिकः, पारश्वधः।
४० 'परश्वधाट्ठञ् च'४।४।५८ ॥ इति ठञ्, चकाराण्णः । ३ परश्वध आयुधमस्य परश्वधायुधः । त्रयोऽपि तालव्य दन्त्यौष्ठमध्या: । त्रीणि ‘फरसीधर' इति ख्यातस्य ॥७७०॥
स्युनॆस्त्रिंशिकशाक्तीकयाष्टीकास्तत्तदायुधाः ।
१ निस्त्रिंशः प्रहरणमस्य नैस्त्रिंशिकः । 'तदस्य प्रहरणम्'४।४।५७ ॥ इति ठक् । २-३ शक्तिः प्रहरणमस्य शाक्तीकः, यष्टिः प्रहरणमस्य याष्टीकः । 'शक्तियष्टयोरी कक्'४१४ १५९ ॥ इतीकक्, उभयत्र 'किति च'७।२।११८ ॥ इति वृद्धिः । तत्तदायुधं येषां ते तत्तदायुधाः । क्रमेणैकेकं खड्गधरशक्तिधरदण्डधराणाम् ॥
तूणी धनु द् धानुष्कः स्यात्
१ तूणमस्त्यस्य तूणी । 'अत इनिठनौ'५ ।२।११५ ।। इतीनिः । एवं निषङ्गयपि । २ धनुर्बिभर्ति धनुर्भूत्, क्विबन्तः । यौगिकत्वाद् धनुर्धरः । ३ धनुः प्रहरणमस्य धानुष्कः । 'तदस्य प्रहरणम्'४।४।५७॥ इति ठक्, 'इसु सुक्तान्तात् कः '७।३।५१ ॥, 'किति च'७।२।११८॥ इति वृद्धिः । त्रीणि धनुर्धरस्य ॥
काण्डीरस्तु काण्डवान् ॥७७१॥
१ काण्डानि बाणा: सन्त्यस्य काण्डीरः । ‘काण्डा ण्डादीरन्नीरचौ'५।२।१११ ॥इति ईरन् । २ काण्डानि सन्त्यस्य
६० काण्डवान् । 'तदस्यास्ति-'५।२।११५ ॥इति मतुप्, 'मादुप धायाः-'८।२।९॥ इति वत्वम् । द्वे तीरदारस्य ॥७७१॥
१. 'करणे ल्युट्' इति ३प्रतौ नास्ति ॥ २. इतोऽग्रे ३.४प्रत्योः 'मदी हर्षे' इति दृश्यते ॥ ३ '-वली' इति३, ‘-बलि' इति४॥ ४. 'जिरहि' इति१ ॥ ५. 'भाषायाः' इति३.४॥ ६ ४प्रतौ नास्ति ॥ ७. 'ठः' इति३॥ ८ '-सबंध' इति१.४॥ ९. नाऽस्त्यष्टाध्याय्याम् ॥ १०. '-न्त्योष्ठ-' इति३.४॥
कृतहस्तः कृतपुङ्खः सुप्रयुक्तशरो हि यः ।।
१ कृतोऽभ्यस्तो हस्तो यस्य स कृतहस्तः । २ साध्यसाधनक्षमत्वात् कृताः पुङ्खा अनेन कृतपुङ्खः । ३ सुष्ठ प्रयुक्तो व्यापारित: शरो बाणोऽनेन सुप्रयुक्तशरः । द्वे कृतहस्तस्य । भली परिई बाणमूंकई' इति भाषा ॥
शीघ्रवेधी लघुहस्तः
१ शीघ्रं त्वरितं लक्ष वेधयति शीघ्रवेधी । ग्रहा दित्वाणिनिः । लघुर्लाघवान्वितो हस्तोऽस्य लघुहस्तः । एकं शीघ्रवेधिनः ॥
१० अपराद्धेषुस्तु लक्ष्यतः ॥७७२॥ च्युतेषुः
१ अपराद्धा अप्राप्तवेध्या इषवो बाणा अस्य अपराद्धेषुः । लक्ष्याच्च्युतो भ्रष्टो बाणः । एकं लक्ष्याद् भ्रष्टबाणस्य ॥७७२॥
दूरवेधी तु दुरापाती
१ दूराद् वेधयति लक्ष्यं भिनत्ति दूरवेधी । णिनिः । २ दूरादापातयति वेध्यं दूरापाती । ग्रहादित्वाणिनिः । द्वे दूरवेधिनः ॥
आयुधं पुनः ।
२० हेतिः प्रहरणं शस्त्रमस्त्रम्
१ आयुध्यन्तेऽनेन आयुधम् । 'युध संप्रहारे' (दि.आ.अ.), 'स्थाम्ना(स्ना) पाव्यधिहनियुध्यर्थं घञर्थे कविधानम् (वा-३।३५८॥)। २ हन्यतेऽनया हेतिः, स्त्री लिङ्गः । 'हन्(हन) हिंसागत्योः '(अ.प.अ.), 'ऊतियूति [जूतिसाति] हेति-'३।३।९७ ॥ इति साधुः । ३ प्रह्रियतेऽनेन प्रहरणम् । ‘हब् हरणे'(भ्वा.उ.से.), करणे ल्युट् । ४ शस्यतेऽनेन शस्त्रम्, स्त्रीक्ली. । 'शसु हिंसायाम्' (भ्वा.उ.से.), 'दाम्नीशसु(शस) युयुज-'३।२।१८२ ॥ इति ष्ट्रन् । ५ अस्यते क्षिप्यते अस्त्रम् । 'असु क्षेपणे'(दि. प.से.), औणादिकः त्रन् । “शस्त्रास्त्रैर्बहुधा मुक्तैः''[]
३० इत्यादिदर्शनात् शस्त्रास्त्रयोः कश्चिदभेदमाह, येन करधृतेन हन्यते तच्छस्त्रं खड्गादि, येन क्षिप्तेन हन्यते तदस्त्रं काण्डादि । पञ्च सामान्येन शस्त्रस्य ।
तच्च चतुर्विधम् ॥७७३॥ तदायुधं पाणिमुक्तादिभेदाच्चतुर्विधं चतुष्प्रकारम् ॥७७३॥
चातुर्विध्यमेवं दर्शयति =
मुक्तं द्विधा पाणियन्त्रमुक्तं शक्तिशरादिकम् ।
१ मुच्यते स्मेति मुक्तम्, द्विधा द्विप्रकारम्, क्रमाद् यथा-पाणिमुक्तं शक्तिप्रभृतिकम्१ । २ यन्त्रमुक्तं शरादिकम् ॥
अमुक्तं शस्त्रिकादि स्याद् यष्ट्याद्यं तु द्वयात्मकम् ॥७७४॥
४० ३ अमुक्तं हस्तस्थितमेव, यथा शस्त्रिकादि३। ४ द्वयात्मकमिति, मुक्तामुक्तात्मकम्, यथा-यष्ट्याद्यम्४।
"मुक्तामुक्त१ममुक्तं२ करमुक्तं३ यन्त्रमुक्तं४ च ॥
शक्त्यादिपाणिमुक्तं१ स्यादमुक्तं क्षुरिकादिकम् ।
मुक्तामुक्तं च३ यष्ट्यादि यन्त्रमुक्तं शरादिकम्४ ॥१॥"
[हलायुधकोशः २।४६२-३ ॥]इति हलायुधः ॥७७४॥
धनुश्चापोऽस्त्रमिष्वासः कोदण्डं धन्व कार्मुकम् ।
द्रुणाऽऽसौ
१ ‘धन धान्ये '(जु.प.से.), धातूनामनेकार्थत्वाद्
५० धारणार्थः, धनन्ति दधति (दधन्ति दधाति) शरक्षेपणायेदमिति धनुः, पुंक्ली. । 'धनर्तिचक्षिपवपि-'( )इत्युस् । धनुषौ, धनुषः इति पुंसि । धनुषी, धनूंषि इति क्लीबे । 'भृमृ तृशी- '(उणा-७) इत्यादिना उप्रत्यये धनुरुकारान्तोऽपि, अयमपि पुंक्ली. । 'कृषिचमितनिधनिसर्जिखर्जिभ्य ऊः' (उणा-८१) इत्यूप्रत्यये धनूः स्त्रीलिङ्गोऽपि । “शराचापौ ध: स्त्री स्यात्''[त्रिकाण्डशेषः २।८।५० ॥]इति त्रिकाण्ड शेषः । २ 'चप सान्त्वने'(भ्वा.प.से.), पचाद्यच् । चपो
१. 'परिइ' इति१, परें' इति४॥ २. 'बां-' इति२॥ ३ 'मुके' इति३, 'मूक' इति४॥ ४ 'लक्षतः' इति१.३॥ ५, 'लक्षं' इति३ ॥ ६. 'घबर्थे कविधानं स्थास्नापाव्यधिहनियुध्यर्थम्' इति वार्तिकस्वरूपम् ॥ ७ 'स्त्रीलिङ्गः' इति२॥ ८ द्र. टीकासर्वस्वम्, भा-३, २८८३ ॥,
॥ ९ -धमेव' इति४॥ १०. 'मुष्ट्याद्यम्' इति१.२॥ ११. 'क्षुरादिकम्' इति हलायुधकोशे, २४६३ ॥, पृ.५३॥, तत्र 'क्षुरकादिकम् इति पाठान्तरम् ॥ १२. '-ङ्गेऽपि' इति३॥ १३. 'शरावापो धनुः' इति त्रिकाण्डशेषे, पृ.३००॥ १४. द्र. टीकासर्वस्वम्, भा-३, २।८।८३ ॥, पृ.१२१ ॥, पदचन्द्रिका, भा-२, क्षत्रवर्गः, शो-५३७, पृ.६१९ ॥, रामाश्रमी २।८।८३ ।।, पृ.३८२ ॥
वंशभेदः, तस्य विकारः चापः, पुंक्ली.। 'अवयवे च प्राण्यौ(ण्यो)षधिवृक्षेभ्यः'४।३।१३५ ॥ इत्यण् । ३ अस्यन्ते बाणा अनेन अस्त्रम् । 'असु क्षेपणे'(दि.प.से.), '-ष्ट्रन्' (उणा-५९८)इति ष्ट्रन् । ४ इषून् बाणानस्यति इष्वासः । 'कर्मण्यण'३।२।१॥ । शरासनमपि । ५ कोपाद् दण्डयत्यनेन कोदण्डम् । पृषोदरादिः, पुंक्ली. एतौ । "कौति वायुना शब्दायते, 'कु शब्दे'(अ.प.अ.), 'अन्येभ्योऽपि दृश्यते' ३।२ ७५ ।। इति विच्, कोशब्देन वंशः, स दण्डोऽस्येति वा कोदण्डः '[ ] इत्यन्ये । ६ धनतीति धन्वं । धनेर्गत्यर्थात्
१० 'अन्येभ्योऽपि दृश्यन्ते'( )इति क्वनिपि धन्व, क्लीबे । "धन्वा तु मरुदेशे ना क्लीबे(क्लीबं) चापे स्थलेऽपि च" [मेदिनीकोशः, नान्तवर्गः, शो-७८]इति मेदिनिः । धन्वनी, धन्वानि इत्यादि । ७ कर्मणे प्रभवति कार्मुकम् । तस्मै प्रभवति इत्यर्थे 'कर्मण उकञ्'५।१।१०३ ॥, शकन्ध्वादिः । ८ द्रुणति हिनस्ति द्रुणम् । 'द्रुण हिंसायाम्'(तु.प.से), 'इगुपध-'३।१।१३५ ॥ इति कः । द्रवति गच्छति शरोऽनेनेति वा । 'द्रु गतौ'(भ्वा.प.अ.), 'द्रोर्वा'(हैमोणा-१८४)इति किद् णः। ९ अस्यन्ते बाणा अनेनेति आसः, पुंक्लीबलिङ्गः । 'असु क्षेपणे'(दि.प.से.), 'हलश्च'३।३।१२१ ॥ इति घञ्,
२० 'अत उपधायाः '७।२।११६॥ । नव धनुषः ॥
लस्तकोऽस्यान्तः
१ अस्य धनुषोऽन्तर् मध्यं ग्रहणस्थानमिति यावत्, लस्यते करेण श्रुिष्यते, लसति श्रुिष्यति करोऽत्रेति वा लस्तकः । ‘लस श्रेषणक्रीडनयोः (भ्वा.प.से.), कर्मणि क्त:, ततः स्वार्थे कन् । 'हसिमृग्रिण्-'(उणा-३६६)इत्यादिना बाहुलकात् तः, ततः कन् वा । "लस्तकस्तु धनुर्मध्यम्" [अमरकोषः २ ।८।८५ ॥] इत्यमरः । एकं धनुर्मध्यस्य । 'मूठि' इति भाषा ॥
अग्रं त्वर्तिरटन्यपि ॥७७५॥
३० १ अस्य धनुषोऽग्रं कोटि:, अर्यतेऽनया अर्तिः । __'ऋ गतौ'(जु.प.अ.) । २ अटत्यनया अटनिः । 'अट गतौ'
(भ्वा.प.से.), बाहुलकाद् --अशव(अश्यवि)तभ्योऽनिः'
(उणा-२५९)इत्यनिः, 'कृदिकारात्-'(गणसू-४।१।४५ ॥) इति ङीषि अटनी । द्वे धनुःप्रान्तस्य ॥७७५॥
मौर्वी जीवा गुणो गव्या शिञ्जा बाणांसनं द्रुणा ।
शिञ्जिनी ज्या च
१ मूर्वायास्तृणविशेषस्य विकारो मौर्वी । 'अवयवे च प्राण्यौ(ण्यो)षधिवृक्षेभ्यः '४।३।१३५ ॥ इत्यण, ‘टिड्डा णञ्-'४।१।१५ ॥ इति ङीष् (ङीप्) । "मूर्वी (मुर्वी) बन्धने'(भ्वा.प.से.), 'गुरोश्च-'३।३।१०३ ॥ इत्यकारप्रत्ययः
४० मूर्वा, 'तस्य विकारः'४।३।१३४ ।। इत्यणि ङीषि(ङीपि) च मौर्वी"[माधवीयधातुवृत्तिः, भ्वादिगणः, धातुसं-३७२] इति माधवः। २ जीवत्यनया जीवा। ‘जीव प्राणधारणे'(भ्वा. प.से.), बाहुलकाद् घञ् । ३ गुण्यतेऽभ्यस्यते गुणः । 'गुण अभ्यासे (चु.उ.से.), घञ् । ४ गोभ्यो बाणेभ्यो हिता गव्या, स्त्रीक्ली. । 'उगवादिभ्यो यत्'५ ।१।२॥ इति यत् । ५ शिलेऽवश्यं शब्दं करोति शिञ्जा । 'शिजि अव्यक्ते शब्दे'(अ.आ.से.), पचाद्यच्, 'गुरोश्च हल: '३।३।१०३ ।। इत्यकारो वा, ततष्टाप् । ६ बाणा अस्यन्तेऽनेन बाणा सनम्। 'असु क्षेपणे'(दि.प.से.), करणे ल्युट् । ७ द्रुणति
५० हिनस्ति द्रुणा । 'द्रुण हिंसागतिकौटिल्येषु'(तु.प.से.), इगुपधत्वात् कः, ततष्टाप् । ८ शिौँ अवश्यं शब्दं करोति शिञ्जिनी । 'शिजि अव्यक्ते शब्दे'(अ.आ.से.), तालव्यादिः, आवश्यके णिनिः । ९ जिनाति बलवदपि धनुरबलतां यात्यनया य । 'ज्या वयोहानौ'(त्र्या.प.अ.), भिदा दित्वादङ् टाप् । नव ‘पणिछि' इति ख्यातायाः ।।
गोधा तु तलं ज्याघातवारणम् ॥७७६॥
१ गुध्यते परिवेष्ट्यतेऽनया गोधा । 'गुध परिवेष्टने'(दि.प.से.), भिदादित्वादङ्, ततष्टाप् । गुध्यति प्रकोष्टं परिवेष्टयतीति, पचाद्यच् वा । गोधा स्त्री, तलं
६० क्लीबम् । “गोधा तलनिहाकयोः''[ मेदिनीकोशः, धान्तवर्गः,
१. द्र. पदचन्द्रिका, भा-२, क्षत्रवर्गः, श्री-५३७, पृ.६२० ॥ २. 'धनतीति धन्व' इति १.२प्रत्यो स्ति ॥ ३. 'द्रुण हिंसागतिकौटिल्वेषु' इति क्षीरतरङ्गिण्यादयः ॥ ४ '-नेन' इति३ ॥ ५. आगमशास्त्रस्याऽनित्यत्वान्नेट् ॥ ६. माधवीयधातुवृत्तौ-"मूर्वा-'गुरोश्च' इत्यकारप्रत्ययः । मौर्वी 'तस्य विकारः' इत्यणि डीप ।" इति दृश्यते, भ्वादिः, धातुसं-३७२, पृ.१५६॥ ७ 'कुण गुण चामन्त्रणे' इति क्षीरतरङ्गिणी, 'केत ग्राम कुण गुण चामन्त्रणे' इति धातुप्रदीपः, 'सङ्केत ग्राम कुण गुण चामन्त्रणे' इति माधवीयधातुवृत्तिः ॥ ८ 'शिक्ते' इति३॥ ९ 'शिंजि' इति३॥ १०. 'अस्यते' इति१॥ ११. 'पणछि' इति३॥ १२. '-यति' इति४॥
श्रो-६]इति मेदिनिः । २ तलति शरमोक्षे प्रतिष्ठां कारयति तलम्, क्लीबे । “गोधा तला च न नरौ''[वैजयन्तीकोषः ३।७।१५५ ॥] इति स्त्रियामपि वैजयन्ती । ज्याघातस्य प्रत्यञ्चाकर्षणस्य वारणं ज्याघातवारणं चर्मादिमयं ज्याप्रहार निवारणम् । द्वे ज्याघात-निवारणस्य ॥७७६ ॥
स्थानान्यालीढवैशाखप्रत्यौलीढानि मण्डलम् ।
समपादं च
१ बाणमोचनावसरे आलीढादीनां समपादान्तानां पञ्चानां साधारण्येननामैकं स्थानम् । १ दक्षिणजङ्घाप्रसारे
१० वामसङ्कोचे आलीढम् । २ वितस्त्यन्तरेर्ण स्थिते पादद्वये वैशाखम् । ३ तत्रोर्ध्व[स्थ]स्य वामपादप्रसारे दक्षिणपाद सङ्कोचे प्रत्यालीढम् । ४ मण्डलाकृत्या पादद्वयधारणाद् मण्डलम् । ५ पादयोः समरूपतया धारणं समपादम् । एते सर्वेऽपि क्लीबे । यद्धनुर्वेदः
"अग्रतो वामपादं तु तीक्ष्णं चैवाऽनुकुञ्चितम् ।
आलीढं तु प्रकर्तव्यं हस्तद्वयसविस्तरम् ॥१॥"
हस्तद्वयसो हस्तप्रमाणो विस्तरो विस्तारो यस्य सः ।
"पादौ सविस्तरौ कार्यों समहस्तप्रमाणतः ।
वैशाखस्थानके वत्स ! कूटलक्ष्यस्य वेधने ॥२॥"
२० प्रत्यालीढे तु कर्तव्यः सव्यस्तीक्ष्णोऽनुकुञ्चितः ।
तिर्यग्वामः पुरस्तत्र दूरापाते विशिष्यते ॥३॥
समपादे समौ पादौ निष्कम्पौ च सुसङ्गतौ ।
मण्डले मण्डलाकारौ बाह्यतीक्ष्णौ विशेषतः॥४॥ [] ।
“स्यात् प्रत्यालीढमालीढमित्यादि स्थानपञ्चकम्"[अमर कोष: २।८।८५ ॥] इत्यमरः । “षडपि"[]इत्येके । यद्भरत:
"वैष्णवं१ समपादंर च वैशाखं३ मण्डलं४ तथा ।
प्रत्यालीढ५मथालीढं६ स्थानान्येतानि षड् विदुः ॥५॥"
[नाट्यशास्त्रम्, चारीविधानो नाम दशमोऽध्यायः, श्रो-४८]इति ॥
वेध्यं तु लक्षं लक्ष्यं शरव्यकम् ॥७७७॥
१ वेध्य इति वेध्यम् । 'व्यध ताडने'(दि.प.अ.),
३० कर्मणि घञ्, 'ग्रहिज्या-'६।१।१६ ॥ इति सम्प्रसाणम् । २-३ लक्ष्यते वेध्यत्वेन दृश्यत इति चौरादिकालक्षेः कर्मणि घञ् [लक्षम् ]। 'ऋहलोर्ण्यत्'३।१।१२४ ॥इति ण्यत्, ‘अचो यत्' ३।१।९७॥ इति यति ‘णेरनिटि'६४।५१ ॥ इति णिलोपे वा लक्ष्यम् । ४ शरान् व्ययति संवृणोति आत्मनि धारयति वा शरव्यम् । 'व्यञ् संवरणे'(भ्वा.उ.अ.), 'आतोऽनुपसर्गे कः' ३।२।३ ॥, ततः स्वार्थे कन् [शरव्यकम्] । शरुर्हिस्रः, तस्मै हितं शरव्यमिति वा । 'उगवादिभ्यो यत्'५।१।२ ॥ इति यत् । शरैर्वीयते छाद्यत इति वा । एते क्लीबलिङ्गाः । वैजयन्ती तु-"वेध्यं शरव्यमनरि ''[वैजयन्तीकोषः ३७। t
४० १९४॥] इत्याह । चत्वारि वेध्यस्य । शेषश्चात्र-''वेध्ये निमित्तम्''[शेषनाममाला ३।१४३ ॥] इति ॥७७७॥
बाणे पृषत्कविशिखौ खंगगार्धपक्षी
काण्डाशुगप्रदरसायकपत्रवाहाः ॥
पत्रीष्वजिह्मगशिलीमुखकङ्कपत्र
रोपा: कलम्बशरमार्गणचित्रपुडाः ॥७७८॥
__१ बण्यते शब्दयते पुङ्खोऽनेनेति बाणः, पुंक्ली. । 'बण __ शब्दे'(भ्वा.प.से.), 'हलश्च'३।३।१२१ ।। इति घञ्, तत्र । २ पर्षति सिञ्चति असृजों पृषत्कः। 'पृषु सेचने'(भ्वा.प.से.) अत: शत्रन्तात् कन् । स्पृशन् कषति हिनस्ति, पृषोदरादित्वाद् वा ।
५० "पुङ्खादीनां पृथक् षट्कमस्य'[ ]इति नैरुक्ताः । यद्धनुर्वेदः "पुङ्खः शरस्तथा शल्यं पक्षस्नायुजतूनि षट' []इति । ३ विशेषेण श्यति तनूकरोति विशिखः । 'शो तनूकरणे' (दि.प.अ.), 'श्यतेरिच्च वा'(हैमोणा-८५)इति खः । विशिष्टा शिखाऽग्रमस्येति वा । विशदं स्खलतीति, पृषो-दरादिर्वा । ४ खेन आकाशेन गच्छतीति । खगः । 'अन्ये-भ्योऽपि(अन्ये ष्वपि)-'(वा-३।२।४८॥)इति डः । ५ गृध्रपक्षस्याऽयं गार्ध पक्षः । तस्येदम्'४।३।१२० ॥इत्यण् । ६ कणति शब्दायतेऽ नेनाऽऽहतः सन्निति काण्डः, पुंक्ली. । 'कण शब्दे'
१. '-रणे' इति३, ‘-रण' इति४ ॥ २. 'विशेष्यते' इति२.३.४॥ ३. 'समपादौ' इति१.४॥ ४. द्र. स्वोपज्ञटीका३ १७७७॥, पृ.१७१ ।। ५. ४प्रतौ नास्ति ॥ ६. 'चौरादिकं लक्षं' इति३, 'चौरादिकमिति लक्षं' इति४ ॥ ७. १.२प्रत्यो स्ति ॥. ८. वैजयन्तीकोषे "वेध्यं शरव्यं न नरि" इति दृश्यते, ३७१९४१, पृ.८७ ॥ ९. '-ऽनेन' इति४ ॥ १०. '-जः' इति३ ।। ११. ४प्रतौ नास्ति ॥ १२. द्र. स्वोपज्ञटीका ३७७८ ॥, पृ.१७२ ॥ १३. '-स्य' इति३.४॥ १४. 'गच्छति' इति१ ॥ १५. इतोऽग्रे १.२प्रत्योः 'वा' इति दृश्यते ॥
(भ्वा.प.से.), 'ञमन्ताड्डः '(उणा-१११)इति डः, 'अनुना सिकस्य-'६।४।१५ ॥ इति दीर्घः । ७ आशु शीघ्रं गच्छति आशुगः । 'अन्येभ्योऽपि(अन्येष्वपि)-'(वा-३।२।४८ ॥)इति डः । ८ प्रदीर्यतेऽनेन प्रदरः । 'द विदारणे'(त्र्या.प.से.), 'ऋदोरप्'३।३१५७ ॥ इत्यप् । ९ स्यति अन्तं नयति सायकः । 'षोऽन्तकर्मणि'(दि.प.अ.), ण्वुल, 'आदेचः- '६।१।४५ ॥ आत्वम्, 'आतो युक् चिण्कृतो: '७।३।३३ । । १० पत्राणि वहति पत्रवाहः । 'कर्मण्यण'३।२।१।। ११ पत्राण्यस्य सन्ति पत्री । 'अत इनिठनौ'५।२।११५ ॥ इतीनिः । १२ इष्यति
१० गच्छति इषुः, त्रिलिङ्गः । 'इष गतौ, हिंसायां चे'(दि.प.से.), दिवादिः, 'इषेः किच्च'(उणा-१३)इत्युः । “इषुर्द्वयोः"[अमर कोष:२८८७॥ इति त्वमरः । "इष्यते काम्यते शत्रुहन नायेति, 'इषु इच्छायाम्'(तु.प.से.) इत्यस्य "[]इत्यन्ये । १३ अजिह्ममकुटिलं गच्छति अजिह्मगः । 'अन्येभ्योऽपि (अन्ये ष्वपि)- '(वा-३।२।४८॥)इति डः । १४ शिलीव मुखमस्य शिलीमुखः । १५ कङ्कस्य पत्राण्यत्रेति कङ्कपत्रः । १६ रोप्यते लक्ष्ये निखन्यते रोपः । 'रुप [विमोहने] '(दि.प.से.), घञ् । १७ कल्यते क्षिप्यते, कडति माद्यति वा कलम्बः । 'कल पिल क्षेपे '(चु.प.से.), 'कड मदे'(भ्वा.प.से.) वा, 'कुण
२० कदिकडिंगडि(कृकदिकडिकटि)भ्योऽम्बच्'(उणा-५२२) । के शिरसि कृतसन्धानो लम्बत इति वा । 'लबि अवस्रंसने' (भ्वा.आ.से.), पचाद्यच् । १८ शृणाति शीर्यते वा अनेनेति शरः, पुंक्ली. । 'शू हिंसायाम्'(त्र्या.प.से.), अच्, करणेऽप् वा, पुंक्ली. । १९ मार्गयति लक्षं मार्गणः । ‘मृग अन्वेषणे' (चु.आ.से.), णिजन्तः, नन्द्यादित्वाल्ल्युः । २० चित्रा नाना वर्णाः पुङ्खा अस्य चित्रपुङ्खः । विंशतिर्बाणस्य ॥ शेषश्चात्र
"बाणे तु लक्षहा मर्मभेदनः । वारश्च वीरशङ्कुश्च कादम्बोऽप्यस्त्रकण्टकैः ॥''[शेषनाममाला ३१४३॥] ॥७७८॥
प्रक्ष्वेदनः सर्वलौहो नाराच एषणश्च सः ।
३० १ प्रक्ष्वेदते प्रक्ष्वेदनः, चतुर्थवर्गतृतीयमध्यः । 'जिक्ष्विदा बिक्षिदाङ् मोचने च'(भ्वा.आ.से.), चात् स्नेहने, भ्वादौ द्युतादिरात्मनेपदी, नन्द्यादित्वाद् ल्युः । अन्ये तु "प्रकर्षेण क्ष्वेदतेऽव्यक्तं शब्दायते, 'जिक्ष्विदा अव्यक्ते शब्दे' (भ्वा.आ.से.), नन्द्यादित्वाल्ल्युः , पृषोदरादित्वाड्डत्वम्, तृतीय वर्गतृतीयमध्यः"[ ]इत्याहुः । २ लोहस्य विकारो लौहः, सर्वश्चासौ लौहश्च सर्वलौहः । ३ नरानाचामति नाराचः । आयूर्वः ‘चमू(चमु) अदने'(भ्वा.प.से.), 'अन्येभ्योऽपि-' (वा-३।२।१०२॥)इति डः, 'अन्येषामपि-'६।३।१३७॥ इति दीर्घः। नराणां समूहो नारम्, तच्चरति भक्षयतीति वा। नारं
४० नरसमूहमञ्चति गच्छतीति वा । 'अञ्चु गतौ'(भ्वा.प.से.), 'कर्मण्यण'३।२।१॥ । नरमञ्चति नराची, नराच्येव वा प्रज्ञादित्वात् स्वार्थेऽण् वा। ४ इष्यतेऽनेन एषणः । 'इष गतौ'(दि.प.से), ल्युट । चत्वारि सर्वलोहमयबाणस्य । शेषश्चात्र-"नाराचे लोहनालोऽस्त्रसायकः''[शेषनामाला ३।१४४ ॥] ॥
निरस्तः प्रहितः
१ निरस्यते स्म निरस्तः । निपूर्वो 'असु क्षेपणे' (दि.प.से.), क्तः । २ प्रहीयते स्म प्रहितः । 'हि गतौ वृद्धौ .. च (स्वा.प.अ.), 'निष्ठा'३।२।१०२॥ इति क्तः । “निरस्तः
५० प्रेषिते शरे ''[विश्वलोचनकोशः, तान्तवर्गः, श्री-१२२] इति श्रीधरः । यथा-"राज्ञा निरस्तैः रिपवो निरस्ता:"[ ]इति । एकं मुक्तबाणस्य ॥
बाणे विषाक्ते दिग्धलिप्तकौ ॥७७९॥
१ विषेण अक्तो प्रक्षितः पायितः विषाक्तः, तत्र ___ बाणे । दिह्यते स्म दिग्धः । 'दिह उपलेपे'(अ.उ.अ.),
१. 'इष' इति४॥ २. 'इष गतौ' इति क्षीरतरङ्गिण्यादयः ॥ ३. 'ईषे: किच्च'(उणा-१३) इत्यणादिगणे ॥ ४. ३प्रतौ नास्ति ॥ ५. द्र. पद भा-२, क्षत्रवर्गः, शो-५४१, पृ.६२५ ॥, तत्र "इष्यते शत्रुहननाय वा । इषु इच्छायाम्-इत्यन्ये" इति दृश्यते ॥ ६. ३प्रतौ नास्ति ॥ ७. 'कल किल पिल क्षेपे' इति क्षीरतरङ्गिणी, 'कल पिल क्षेपे' इति धातुप्रदीपः, 'कल विल क्षेपे' इति माधवीयधातुवृत्तिः ॥ ८ '-कडिकदि-' इति३॥ ९. 'अनेन' इति४॥ १०. पूर्वमुक्तत्वादयं प्रमादः प्रतिभाति ॥ ११. 'लक्ष्य' इति१॥ १२. 'कङ्कटः' इति१॥ १३. 'प्रक्ष्वेडनः' इति मुद्रितमूले, स्वोपज्ञटीकाऽपि तमाश्रित्यैव ॥ १४. '-डते' इति४॥ १५. १प्रतौ नास्ति ॥ १६. 'जिक्ष्विदा स्नेहनमोहनयोः' इति क्षीरतरङ्गिणी, "स्मृतमिदं पुरुषकारे (पृष्ठ.८२) धातुवृत्तौ (पृष्ठ-१३०) च । वस्तुतः पाठोऽयं ग्रन्थकारस्यानभिमतः । यतो हि १७०५ ॥, ४१३४ ॥ धातुसूत्रव्याख्ययोरस्यास्मरणात्" इति तत्रत्या टिप्पणी, क्षीर. पृ.१०६. टि-७॥, 'जिष्विदा स्नेहनमोचनयोः' इति धातुप्रदीपः, 'जिष्विदा स्नेहस्य मोचने च' इति माधवीयधातुवृत्तिः ॥ १७. द्र. पदचन्द्रिका, भा-२, क्षत्रवर्गः, श्रो-५४१, पृ.६२५ ॥ १८. १प्रतौ नास्ति ॥ १९. 'हि गतौ' इत्येव १.२.३ ।। २०. 'प्रेषितशरे' इति विश्वलोचनकोशे, पृ.१४०॥ २१. द्र. अनेकार्थकैरवाकरकौमुदीटीका, भा-२, ३।२६०, पृ.११४॥ २२. 'दिह उपचये' इति क्षीरतरङ्गिणीमाधवीयधातुवृत्ती, 'दिह उपतापे' इति धातुप्रदीपः ॥
कमाण क्तः, दादेघः, ‘झषस्ताः '८।२।४० ॥ इति तस्य धः।
- "दिग्धंविषाक्तबाणेस्यात्''[विश्वप्रकाशकोशः, धान्तवर्गः, श्रो-१०]इति महेश्वरः । २ लिप्यते स्म लिप्तः । 'लिप उपदेहे '(तु.उ.अ.), कर्मणि क्तः [स्वार्थे कनि लिप्तकः] । “लिप्तं विलेपिते भुक्ते विषाक्तविशिखादिषु'[विश्वलोचनकोशः, तान्तवर्ग:, शो-५०] इति श्रीधरः। द्वे विषलिप्तबाणस्य॥७७९॥
बाणमुक्तिर्व्यवच्छेदः
१ बाणस्य धनुर्यन्त्राद् मुष्टिना मोक्षणं बाणमुक्तिः । 'स्त्रियां क्तिन्'३।३।९४॥ । विशेषेण अवच्छिद्यते उत्तेज्यते
१० बाणोऽनेन व्यवच्छेदः । करणे घञ् । यद्धनुर्वेदः
"पञ्चाङ्गुलीभिर्युगपत् क्षिप्रश्रेष्ठत्वसिद्धये ।
मोक्षणं यच्च दुर्जेयं तं व्यवच्छेदमादिशत् ॥१॥"
[] । एकं 'तीरमूंकवउँ' इति भाषायाः ॥
दीप्तिर्वेगस्य तीव्रता ।
१ दीप्यते बाणोऽनया दीप्तिः । 'दीपी दीप्तौ'(दि. आ.से.), 'स्त्रियां क्तिन् '३।३।९४॥ । वेगस्य बाणवेगस्य तीव्रता दुःसहत्वम् । एकं बाणवेगतीव्रतायाः ॥
क्षुरप्रतद्बालार्धेन्दुतीरीमुख्यास्तु तद्भिदः ॥७८०॥
१ क्षुराभं लोहं प्राति क्षुरप्रः। 'प्रा पूरणे'(अ.प.अ.),
२० 'आतोऽनुपसर्गे कः'३।२।३॥ । धारामुखलोहोऽयम् । १ तत् प्रसिद्ध बलमस्य तबलः, मूषकपुच्छाकृतिरयम् । यदुक्तम् "मूषकपुच्छाकृतयस्तद्बला दण्डसायकाः''[]इति । यथा च हलायुधकाव्यम्-"सर्वाय सङ्करिणि मुञ्चति कङ्कपत्रं दीप्तं च मोचयति तद्बलमश्वकाये"[ ]इति । “तबलं काण्डविशेष मर्धलोहं दीप्तं तीव्रवेगमश्वकाये क्षिपति''[ ]इति तट्टीका । १ अर्धेन्दुः अर्धेन्दुसदृशमुखलोहत्वात् । १ तीरयति सङ्ग्रामं पारयति तीरी, द्विचतुर्थस्वरोऽयम् । तदुक्तम् - "त्रिभागशरजा तीरी शेषाङ्गे लोहसम्भवा"[ ]इति । मुख्यग्रहणात् दण्डासन१
तोमररवावल्लभल्ल४गरुडा५ऽर्धनाराच६प्रभृतयः, तस्य बाणस्य
३० भेदो भेदाः तद्भिदः ॥७८०॥
पक्षो वाजः
१ पक्ष्यते परिगृह्यतेऽसौ पक्षः । 'पक्ष परिग्रहे' (भ्वा.प.से.), कर्मणि घञ् । २ वजत्यनेन बाणो वाजः । वज गतौ'(भ्वा.प.से.), 'हलश्च'३।३।१२१ ॥ इति घञ्, जित्त्वाद् 'अत उपधायाः '७।२।११६ ॥ वृद्धिः । “[पच्यत इति] पक्षः गृध्रकङ्कपत्रादिः, [वजत्यनेन] वाणे (वाणो) वाजः, छदाऽ ऽवलिः, पत्त्रपालीति यावत्"[अभि. स्वोपज्ञटीका-३ १७८१॥] इति मूलटीका । " पत्त्रपाली भवेद् वाजः''[हलायुधकोश: २।४६८॥] इति हलायुधः । द्वे बाणपिच्छस्य ॥
पत्रणा तन्यासः
४० १ पत्त्रणं पत्रणा । "शराणां पत्त्ररचना पत्त्रणा परिकीर्तिता"[हारावली, अर्धोकावधिः, श्री-१६(११६)] [इति] हारावली । तस्य पक्षस्य शरस्कन्धे न्यसनं न्यासो रचना तन्न्यासः। एकं पत्रणायाः। 'तीरऊपरि पीछरचना' इति भाषा॥
पुङ्खस्तु कर्तरी ।
१ पुनाति बाणं पुङ्खः, पुंक्ली. । 'पूञ् पवने '(त्र्या. ___ उ.से.), 'पूजः पुन् च'( )इति खः । गुणविन्यासस्थानम् । २ कृत्यते छिद्यतेऽनया कर्तरी । 'कृती छेदने'(तु.प.से.), [बाहुलकादरः, ततो ङीष्], काष्ठशृङ्गादिमयी । "कर्तरी पुङ्ख
५० उच्यते''[हलायुधकोश:२।४६८ ॥] इति हलायुधः । द्वे पुत्रस्य । 'बाणना बे डंकासुषालो' इति भाषा ॥
तूणो निषङ्गस्तूणीर उपासङ्गः शराश्रयः ॥७८१॥
शरधि: कलापोऽपि
१ तूण्यते पूर्यते शरैः तूणः, त्रिषु । स्त्रियां तूणी तूणा वो । 'तूर्ण पूरणे'(चु.आ.से.), चुरादिः, ‘एरच्'३।३। ___५६॥ इत्यच् । “[स्त्रियां] तूणेषुधी उपासङ्गः"[ ]इति रत्न कोषः । “धिषणा तूणीतूणौ काकिणी द्रुणी''[ ]इति लिङ्ग कारिका च । २ निषज्यन्ते शरा अत्रेति निषङ्गः । षञ्ज सङ्गे '(भ्वा.प.अ.), अधिकरणे घञ्, 'चजोः-७।३ ५२ ॥ इति
६०
१. '-शेत्' इति२.३.४॥ २. द्र. स्वोपज्ञटीका३ १७८० ॥, पृ.१७२ ॥, तत्र 'दुर्जेयं' इत्यस्य स्थाने 'दुर्जेयं' इति दृश्यते ॥ ३ -मूक-' इतिर, '-कवो' इति३, ‘-बूं' इति४॥ ४. 'कंच-' इति३॥ ५. '-पत्र-' इति२॥ ६. '-दृशं मुखं' इति३.४॥ ७. द्र. स्वोपज्ञटीका३७८० ॥, पृ.१७२ ॥ ८. तुलनीयोऽमरकोषः२।८८७॥ ९. 'बल-' इति३.४॥ १०. 'पत्र-' इति३.४॥ ११. 'पी-' इति१ ॥ १२. 'पूङ् इति३॥ १३. 'पूङः' इति३ ।। १४. 'डंक-' इति३.४॥ १५. '-सुफाला' इति१ ॥ १६. इतोऽग्रे ३प्रतौ 'तूण पूरणा वा' इति दृश्यते ॥ १७. 'तृण' इति४॥ १८. द्र. पदचन्द्रिका, भा-२, क्षत्रवर्गः, शूो-५४१, पृ.६२६ ॥, रामाश्रमी २।८८८॥, पृ.३८४॥ १९. द्र. पदचन्द्रिका, भा-२, क्षत्रवर्गः, शूो-५४१, पृ.६२६ ॥
कुत्वम्, ['उपसगात्-'८।३।६५ ॥ इति षत्वम्] । ३ तूण्यते पूर्यते तूणीरः । 'तूण पूरणे'(चु.आ.से.), चुरादिः, बाहुलकात् 'कशपू(प)कटि-'(उणा- )इत्यादिना ईरन् । ४ उपासज्यन्ते संश्रुिष्यन्ते शरा अत्र उपासङ्गः । आपूर्वः ‘षञ्ज सङ्गे' (भ्वा.प.अ.), अधिकरणे घञ् । ५ शराणामाश्रयः शरा श्रयः ॥७८१॥६ शरा धीयन्तेऽत्र शरधिः, पुंसि । 'डुधाञ् धारणादौ'(जु.उ.अ.), 'कर्मण्यधिकरणे च'३।३।९३ ॥इति किः । यौगिकत्वाद् इषुधिः बाणधिरित्यादयः । ७ कल्यन्ते बाणा अनेन कलापः । 'कल सङ्ख्याने '(चु.उ.से.), 'कलेराप:'
१० ( )इत्यापः । सप्त 'भाथा' इति ख्यातस्य ॥
अथ चन्द्रहासः
करवालनिस्त्रिंशकृपाणखगाः ।
तरवारिकौक्षेयकमण्डलाना
असिरृष्टिरिष्टी
१ उद्योतेन चन्द्रं हसति चन्द्रहासः । 'हस(हसे) हसने'(भ्वा.प.से.), 'कर्मण्यण'३।२।१॥ । “चन्द्रवद् हास: प्रभाऽस्येति चन्द्रहासः''[अभि.स्वोपज्ञटीका-३।७८२] इत्याचार्याः । २ करं वलति वेष्टयति करवाल: । 'वल वेष्टने '(भ्वा.आ.से.), 'कर्मण्यण'३।२।१॥ । वलनं वालः,
२० करै वालोऽस्येति वा । करं पालयतीति कर्मण्यणि कर पालोऽपि । “विधूतकरपालक: पाल[क:]"[]इति यम कात् । ३ निर्गतस्त्रिंशतोऽङ्गुलिभ्यो निस्त्रिंशः । 'बहुव्रीहौ सङ्ख्येये डजबहुगणात् '५।४।७३ ॥ इति डच्, डित्त्वाट्टि लोपः । ४ कल्पते छेदसमर्थो भवति कृपाणः । 'कृपू सामर्थ्य '(भ्वा.आ.वे), 'उणादयो बहुलम्'३।३।१॥ इति कृपेरानक् । यद्वा 'क्रप कृपायां गतौ '(भ्वा.आ.से.), 'युधिकृपेः किच्चे'( )इत्यानक् बाहुलकादस्मादपि । अत्र “कृपो रो लः'८।२।१८॥ इति लत्वाभावार्थं कृपिस्थाने क्रपिः पठितव्यः''[ ]इति ‘कृपो रो लः'८।२।१८ ॥ इत्यत्र भाष्यादौ स्थितम् । कृपाणादौ बाहुलकात्
३० सम्प्रसारणम् । यद्वा सर्वे एते कृपाणकृपणकृपादयः 'कृपू सामर्थ्य ' (भ्वा.आ.वे.)इत्यस्यैव, ‘लत्वाभावो बहुलवचनात्' ( )इति लत्वसूत्रै उक्तम् । ५ खड्यते भिद्यते परोऽनेनेति खड्गः । 'खड खडि भेदने '(चु.उ.से.), 'छापूखडिभ्यः कित्'(उणा-१२१)इति गन् । ६ तरं तरत् प्लवमानं वारि पानीयमत्र तरवारिः, पुंसि । ७ 'कुष नि:कर्षे '(त्र्या.प.से.), 'प्लुषिशुषिकुषिभ्यः क्सि: '(उणा ४३५), कुक्षिः, कुक्षौ भवो विद्यमानः कौक्षेयकः । 'कुलकुक्षि-'४।२।९६॥ इत्यादिना ढकञ् । कुक्षिं रक्ष त्यस्माद्वा शेषार्थे ढकबि कौक्षेयको वा । ८ मण्डला-
४० कृत्यग्रमस्य मण्डलाग्रः । ९ अस्यते क्षिप्यते असिः, पुंसि । 'असु क्षेपणे' (दि.प.से.), ‘-इन्'(उणा-५५७) इतीन्, 'खनिकषि-'(उणा-५७९)इति इन् वा । १० ऋषति पाणिं गच्छति ऋष्टिः, सप्तमस्वरादिः । 'ऋषि(ऋषी) गतौ' (तु.प.से.), ‘क्तिच्तौ च्(च) संज्ञायाम्'३।३।१७४ ॥ इति क्तिच् । “शिलाशूलटिमुद्गरम्''[ ]इति भट्टिः । ११ हिनस्ति रिष्टिः । 'रिष हिंसायाम्'(भ्वा.प.से.), क्तिजन्तः, क्तिजन्तः, पुंस्त्रीलिङ्गावेतौ । एकादश खड्गस्य । शषेश्चात्र
"असिस्तु सायकः ।
श्रीगर्भो विजयः शास्ता व्यवहारः [प्रजाकरः] ॥
५० धर्मपालोऽक्षरो देवस्तीक्ष्णकर्मा दुरासदः ।
प्रसङ्गो रुद्रतनयो मनुज्येष्ठः शिवङ्करः ॥१॥
करपालो विशसनस्तीक्ष्णधारो विषाग्रजः ।
धर्मप्रचारो धाराङ्गो धाराधरकरालिकौ ॥२॥
चन्द्रभासाश्च शस्त्र:"[शेषनाममाला ३११४४-१४७॥] ।।
१. 'कल गतौ संख्याने च' इति स्वामिसायणौ, 'कल संख्याने गतौ च' इति मैत्रेयः ॥ २. 'भोथान' इति३, 'भोथाण' इति४ ॥ ३. 'इति' इति स्वोपज्ञटीकायां न दृश्यते ॥ ४. 'वलयति' इति३.४ ॥ ५. 'कर-' इति३॥ ६. '-ण' इति४॥ ७. 'पालय' इति३॥ ८. द्र. टीकासर्वस्वम्, भा ३, २८९० ॥, पृ.१२६ ॥, पदचन्द्रिका, भा-२, क्षत्रवर्गः, शूो-५४३, पृ.६२७ ॥ ९. वस्तुतस्त्वत्र बहुव्रीहेरभावादियं सरणिरनुसरणीया-तथा हि "निरादय: क्रान्ताद्यर्थे पञ्चम्या'(वा-२।२।१८॥)इति समासः, 'संख्यायास्तत्पुरुषस्य-'(वा-५४७३ ॥)इति डच्" इति ॥ १०. 'कल्पेते' इति१॥ . ११. 'छेदन-' इति३ ॥ १२. 'क्रप कृपायाम्' इत्येव स्वामी ॥ १३. भ्रष्टं प्रतिभाति, अथ च 'युधिबुधिशिभ्यः किच्च'(उणा-२४७)इत्यानच् युक्तः । अत्र ‘क्रप कृपायां गतौ'(भ्वादिः, धातुसं-५०६)इत्यत्र भ्वादौ मा. धातुवृत्तिरनुसन्धया ॥ १४. '-वार्थ' इति२॥ १५. 'कृ-' इति३ ॥ १६. 'पठन्ति' इति४॥ १७. 'इति सूत्रे' इति४॥ १८. 'खंड्यते' इति३॥ १९. यदि विग्रहे इदित् खडिधातुः पठ्यते, तर्हि 'खड्गः ' इत्यत्राऽऽगमशास्त्रस्याऽनित्यत्वान्न नुम् ॥ २०. 'खड खडि भेदे' इति स्वामी, 'खड खडि कडि भेदने' इति मैत्रेयसायणौ ॥ २१. 'ढक्' इति३, 'ढकन्' इति४ ॥ २२. 'ढकन्निति' इति३.४॥ २३. 'यष्टि-' इति४ ॥ २४. 'शक्त्यष्टिपरिघप्रासगदामुद्गरपाणयः' इति भट्टिकाव्ये, सर्गः-९,
शो-४, पृ.२२९ ।। २५. '-कलालिकौ' इति३ ॥ २६. '-भासश्च' इति३, शेषनाममालास्वोपज्ञटीकयोश्च ॥ २७. 'शस्त्रज्ञैः' इति४॥
त्सरुरस्य मुष्टिः ॥७८२॥
१ अस्य खड्गस्य मुष्टिर्ग्रहणस्थानम्, त्सरत्यनेन त्सरुः, पुंसि । तकारसकारसंयोगादिः । 'त्सर छद्मगतौ '(भ्वा. प.से.), 'भृमृशीतचरित्सरि[तनिध] निमिमस्जिभ्य: उ: '(उणा ७)इत्युः । खड्गस्येत्युपलक्षणम्, तेनाऽन्यस्याऽपि मुष्टिः त्सरु रुच्यते । यदमर:-"त्सरुः खड्गादिमुष्टौ स्यात्'[अमरकोषः २।८।९० ॥] इति । केकिरवच्छन्दः, तल्लक्षणं च छन्दश्चूडामणौ "स्यौ स्यौ केकिरवम्"[ ] । एकं खड्गमुष्टेः ॥७८२॥
प्रत्याकारः परीवारः कोशः खड्गपिधानकम् ।
१० १ प्रतिरूप आकारोऽस्य प्रत्याकारः । २ परिव्रिय तेऽनेन परिवारः । 'वृञ् आच्छादाने'(चु.उ.से), घञ् । 'उप सर्गस्य घञ्यमनुष्ये बहुलम् '६।३।१२२ ॥ इति दीर्घः । परीवारः । ३ कुश्यते संश्रुिष्यते कोशः, त्रिलिङ्गः । 'कुश संश्रूषणे'(दि.प.से.), घञ् । ४ खड्गः पिधीयतेऽनेन खड्गपिधानम् । करणे ल्युट्, ततः स्वार्थे कन् खड्ग पिधानकम् । चत्वारि पडियारस्य ॥
अड्डनं फलकं चर्म खेट काऽऽवरणस्फुराः ॥७८३॥
१ अड्यतेऽनेन अड्डनम्, तृतीयवर्गतृतीयद्वयमध्यः । 'अड्ड अभियोगे'(भ्वा.प.से.), करणे ल्युट् । २ ( फलति
२० विशीर्यते घातैः), फलति निष्पद्यते वा प्रहारोऽत्र फल कम् । 'जिफला विशरणे'(भ्वा.प.से.), ‘फल निष्पत्तौ' (भ्वा.प.से.) वा, अतः ‘कृत्रादिभ्यः संज्ञायां वुन्'(उणा ७१३), 'युवोरनाकौ'७।१।१॥ । आभ्यामेव पचाद्यचि, ततः स्वार्थे कन् वा । फरकमपि । पुंक्लीबलिङ्गः । ३ चर्म मयत्वात् चर्म । चर्मणी, चर्माणि इत्यादि क्लीबे । ६
खेटयति उत्त्रासयति खेटम्, पुंक्ली. । 'किट खिट उत्त्रासे' (भ्वा.प.से.), पचाद्यच्, ततः कन् [खेटकम्] । ५ आवियते वपुरनेनेति आवरणम् । 'वृञ् आवरणे'(चु.उ.से.), करणे ल्युट् । ६ स्फुरति चलति स्फुरः । 'स्फुर स्फुल स्फुरणे '(तु.प.से.), '-चलने' इत्येके । तुदादौ कुटादि-
३० रयमित्येके, तत्पाठबलाच्च ण्वुलि वृद्ध्यभावे, ‘गाङ्कटादि भ्योऽञ्णिन्त्'ि१।२।१ ॥ इति ङित्त्वात् स्फुरक इत्यपि । षट 'खेडां' इति ख्यातस्य ॥७८३।।
अस्य मुष्टिस्तु सङ्ग्राहः
१ अस्य फलकस्य मुष्टिर्ग्रहणस्थानम्, संगृह्यतेऽनेन सङ्ग्राहः । सङ्गृह्यतेऽयमिति वा । 'समि मुष्टौ' ३।३।३६ ॥ इति कर्मणि घञ् । एकं फलकमुष्टेः ॥
क्षुरी छुरी कृपाणिका । शस्त्र्यसेर्धेनुपुत्र्यौ च
१ क्षुरति विखनति क्षुरी । 'क्षुर छेदने '(तु.प.से.),
४० पचाद्यच्, ततो गौरादित्वाद् ङीषि, क्षुरिकाऽपि । २ छुरति छिनत्ति छुरी । 'छुर छेदने'(तु.प.से.), अच्, गौरादिः, छुरिकाऽपि । ३ 'क्वुन् शिल्पिसंज्ञयो:-'(उणा-१९०)इति क्वुनि, कल्पते कृपाणी, स्वार्थे कनि कृपाणिका । ४ शस्यते हिंस्यतेऽनया शस्त्री । 'शसु हिंसायाम्'(भ्वा.प.से.), 'दाम्नीशसु(शस) युयुजि(युजि)- '३।२।१८२॥ इति ष्ट्र, षित्त्वात् ङीष् । ५-६ असेरित्यसिशब्दात् धेनुपुत्र्यौ सम्बध्येते, चिन्तितार्थप्रदायित्वादसिरूपा धेनुः असिधेनुः । असे: पुत्रीव ह्रस्वत्वाद् असिपुत्री । षट् छुरिकायाः । शेषश्चात्र
“अथ क्षुर्यस्त्री कोशशायिका ।
पत्त्रं च धेनुका''[शेषनाममाला ३।१४७ ॥] ॥
पत्नपालस्तु साऽऽयता ॥७८४॥
१ सा क्षुरिका आयता दीर्घा, पत्त्रेण पालयति रक्षति पत्रपालः । अच् । एकं 'लांबी छुरी' इति ख्यातायाः ॥ [शेषश्चात्र
"पत्रपाले तु हुलमातृका ॥ कुट्टन्ती पत्रफला]" [शेषनाममाला ३।१४७-१४८] ॥७८४॥
दण्डो यष्टिश्च लगुडः
१. अत्र शोके केकिरवच्छन्दः प्रयुक्त इत्याशयः ॥ २. 'प्रतीकारः' इति३॥ ३. 'परी-' इति४॥ ४. दुर्गसम्मतोऽयं धातुः, द्रः क्षीरतरङ्गिणी, दिवादिः, धातुसं-११२, पृ.२२९ ।।, मा. धातुवृत्तिः, दिवादिः धातुसं-११७, पृ.४३८ ॥ ५. '-नेनेति' इति३.४॥ ६. '-नकम्' इति३॥ ७. '-वर्गः' इति३ ॥ ८. '-तृतीयमध्यः' इति३.४॥ ९. कोष्ठान्तर्गतपाठः १प्रतौ नास्ति ॥ १०. 'निष्पा-' इति४ ॥ ११. १प्रतौ नास्ति ॥ १२. 'पुंक्ली' इति३ ॥ १३. '-क्लीब' इति४॥ १४. 'खिट उत्त्रासे' इति स्वामी, 'किट खिट त्रासे' इति मैत्रेयसायणौ ॥ १५. अत्र माधवीयधातुवृत्तिरनुसन्धेया, तुदादिः, धातुसं-९३, पृ.४७७ ॥ १६. 'गाञ्-' इति३ ॥ १७. 'स्फ-' इति१.२ ॥ १८. 'खेडा' इति३, 'खेंडा' इति४ ॥ १९. 'खनति' इति३.४ ॥ २०. 'क्षुर खुर विलेखने' इति स्वामी, 'क्षुर विलेखने' इति मैत्रेयसायणौ ॥ २१. इतोऽग्रे ३.४प्रत्योः 'शस्त्री' इति दृश्यते ॥ २२. 'असिपुत्रीव' इति४॥ २३. 'रक्षयति' इति२ ॥
१ दाम्यत्यनेनं दण्डः, पुंक्ली. । 'दमु उपशमे' (दि.प.से.), 'अमन्ताड्डः '(उणा-१११)इति डः । ३ इज्यतेऽनया यष्टिः, पुंस्त्री । 'यज देवपूजादौ '(भ्वा. उ.अ.), क्तिच् । ३ लगति प्रहारोऽनेनेति लगुडः । 'लगे सङ्गे'(भ्वा.प.से.), 'लगेरुड: '(हैमोणा-१७७)इत्युड: । त्रीणि यष्टेः । 'लाठी' इति भाषा ॥
स्यादीली करवालिका ।
१ 'ईर गतौ'(अ.आ.से.), 'सार्वधातुक इत् (सर्वधातुभ्य इन्) '(उणा-५५७) इति इत् (इन्), ततः
१० 'कृदिकारात्-'(गणसू-४।१।४५ ॥ इति ङीषि ईली, कपिलि
कादिः । "इली दीर्घादिर्हस्वादिश्च'[ ]इत्यन्ये । ईड्यते स्तूयते, ‘इगुपधात् कि:(कित्) '(उणा-५५९), ततो ङीषि वा । २ अल्पः करवाल: करवालिका । यद्वा करवालात कर्मण्यन्ताद् ङीप, ततः कनि, 'केऽणः '७।४।१३ ॥ इति ह्रस्वत्वे करवालिका । पाल्यतेऽसौ पालिका, ‘पाल रक्षणे' (चु.प.से.), संज्ञायां क्वुन्, करेण पालिका करपालिका पकारमध्याऽपि । द्वे एकधारखड्गस्य । एकधारोऽसि स्तुरुष्कायुधम् ॥
भिन्दिपाले सृगः
२० १ भिदन्तः पालयति भिन्दिः, भिदेरिन् । "भिन्दिादशतालं तु दशदन्तोऽभिधीयते"[ ]इति भरतेन तदवच्छिन्नेः कालोऽप्युपचारेण भिन्दिः, तं पालयतीति [भिन्दिपाल:] । 'कर्मण्यण'३।२।१॥ । तावता कालेन लक्षं प्राप्नोतीत्यर्थः । “भिन्दतः पालयति भिन्दिपालो नाम हस्तक्षेप्यो महाफलो दीर्घदण्ड आयुधविशेषः''[अभि-, स्वोपज्ञटीका ३७८५ ॥] इत्याचार्याः । २ सृज्यते सृगः। 'सृज विसर्गे'(दि.आ.अ.), घबर्थे कः, न्यङ्कवादित्वात् कुत्वम् । सरतीति वा सृगः । बाहुलकाद् ‘मुदिग्रोग्रन्-' (-ग्रंग्)- '(उणा-१२१) । " 'गन्धौ-'( )इति गकि
३० सृगः"[ ]इति तु माधवी । “भिन्दिपालः सृगस्तुल्यौ" [अमरकोषः २।८।९१॥] इत्यमरः । “हस्तक्षेप्यो लगुडः" [अम.क्षीर.२।८।९२॥] इति तु क्षीरस्वामी । द्वे 'बरछी' इति ख्यातस्य ॥
कुन्ते प्रासः
१ कुं पृथ्वीं तनोति कुन्तः । 'अन्येभ्योऽपि (अन्येष्वपि)-'(वा-३।२।१०१॥) इति डः, पृषोदरादिः । कुत्सितोऽप्रतिक्रियोऽन्तोऽस्मादिति वा, पृषोदरादिः, तत्र । २ प्रकर्षण अस्यते क्षिप्यते प्रासः । 'असु क्षेपणे'(दि.प.से.), कर्मणि घञ् । “हस्तधार्यः शङ्क:"[अभि-,स्वोपज्ञटीका ___३१७८५] इत्याचार्याः । द्वे 'भाला' इति ख्यातस्य ॥
४० अथ द्रघणो घनः ॥७८५॥ मुद्गरः स्यात्
१ द्रुः वृक्षो हन्यतेऽनेन द्रुघणः । 'हन्(हन) हिंसागत्योः'(अ.प.अ.), 'करणेऽयोविद्रुषु'३।३।८२ ।। इत्यप् घनादेशौ, अरीहणादिषु पाठात् 'पूर्वपदात्-'८।४।३॥ इति णत्वम् । “क्षुम्नादेराकृतिगणत्वम्''[ ]इत्यन्ये, तेन 'द्रुघनः' इति तुर्यवर्गपञ्चमान्तोऽपि । २ हन्यतेऽनेनेति घनः । 'मूर्ती घनः '३।३७७॥ इत्यप्घनादेशौ । “पाद्ये मुस्तेऽम्बुदे सान्द्रे घनः स्याल्लोहमुद्गरः''[शाश्वतकोशः, शो- ]इति शाश्वत: ॥७८५॥ ३ मुदं हर्षं गिरति मुद्गरः, पुंस्त्री । ‘ग
५० निगरणे'(दु.प.से.), अच् । मुदं ग्रसतीति, पृषोदरादिर्वा । त्रीणि लोहमुद्गरस्य ॥
कुठारस्तु परशुः पशुपर्श्वधौ । परश्वधः स्वधितिश्च
१ कुठिः सौत्रः, कोठति कुठारः, पुंस्त्री। 'तुषिकुठि भ्यां कित्-'(हैमोणा-४०८)इत्यारन् । कुठारन् वृक्षान् इय र्तीति वा । 'ऋ गतौ'(भ्वा.प.अ.), 'कर्मण्यण्'३।२।१॥ ।
१. '-नेनेति' इति४ ॥ २. 'इति डः' इति ४प्रतौ नास्ति ॥ ३. 'पुंक्ली.' इति१ ॥ ४. तुलनीयोऽमरकोषः२।८ ।९१ ॥ ५. 'इर्' इति३॥ ६. द्र. पदचन्द्रिका, भा-२, क्षत्रवर्गः, शो-५४५, पृ.६२९ ॥ ७. '-धत्वात्' इति२.३ ॥ ८. 'डोष्' इति१.३॥ ९. 'वका-' इति३ ।। १०. 'भिन्दे-' इति३.४॥ ११. द्र. टीकासर्वस्वम्, भा-३, २८९२ ॥, पृ.१२८ ।, पदचन्द्रिका, भा-२, क्षत्रवर्गः, श्रो-५४५, पृ.६२९ ॥, रामाश्रमी२८ १९१॥, पृ.३८६ ॥, तासु टीकासु 'दशदन्तोऽ-' इत्यस्य स्थाने 'दशकुन्तोऽ-' इति दृश्यते ॥ १२. '-न-' इति४॥ १३. द्र. पदचन्द्रिका, भा-२, क्षत्रवर्गः, शो-५४५, पृ.६३० ॥, तत्र "-मुदिनोर्गग्गौ-(उणा-१।१२७)इति गकि 'सृग' इति तु माधवी" इति दृश्यते ॥ १४. ३प्रतौ नास्ति ॥ १५. 'व-' इति ॥ १६. '-छी' इति३ ॥ १७. '-या-' इति३.४॥ १८. 'शल्यः' इति स्वोपज्ञटीकायाम्, ३७८५ ॥, पृ.१७४ ॥ १९. 'भ-' इति२ ॥ २०. द्र. पदचन्द्रिका, भा-२, क्षत्रवर्गः, थो-५४५, पृ.६२९ ॥ २१. 'ग' इति१.३.४ ॥
“ २ परान् शत्रून् शृणाति परशुः । 'शू हिंसायाम्'(त्र्या.प.से.), 'आङ्पराभ्यां खनिशृभ्यां डिच्च'(उणा-३३) इत्युः, बाहु लकादुपसर्गस्य ह्रस्वत्वम् । ३ पृणाति पशुः । 'पृ(प) पालनपूरणयोः '(त्र्या.प.से.), 'प्रः शुः- '(हैमोणा-८२५) इति शुः । ४ पशुकाभिर्न धीयते पर्श्वधः । स्थादित्वात् कः । ५ परः शत्रुः श्वेव परश्वा, परश्वानं धयति पिबति, 'आतो ऽनुपसर्गे कः'३।२।३ ॥, परश्वधः । परान् शृणाति वा परश्वधः । 'परात् श्री डित्-'(हैमोणा-२५५)इति वधः, तालव्यशवान् । “परान् शत्रून् स्यति अन्तं नयति परस्वधः,
१० पृषोदरादिः, दन्त्यसकारवान्''[ ]इति माधवी । 'स्वधि विदारणे'( ), तुदादौ, ततो बाहुलकात् क्तिच् स्वधितिः, दन्त्यादिः । स्वं धियति धारयति वा । 'धि धारणे' (तु.प.अ.), क्तिच् । परश्वादयः षडपि पुंसि । षट् ‘फरसी' इति ख्यातायाः ॥
परिघः परिघातनः ॥७८६॥
१ परितो हन्यतेऽनेन परिधः । हन्तेः 'परौ घः' ३।३।४॥ इत्यप्प्रत्ययघादेशौ । लत्वे पलिघोऽपि । २ परितो घातयति परिघातनः । हन्तेय॑न्तानन्द्यादित्वाद् ल्युः । द्वे
परिघस्य । 'लोहबांधी गेडी' इति भाषा ॥७८६॥
२० सर्वला तोमरे
१ सर्वान् लाति सर्वला, दन्त्यादिः । 'शर्व गतौ' (भ्वा.प.से.), वृषादित्वात् कलचि शर्वला, तालव्यादि रपि । २ तुदन् व्यथन् मारयति तोमरः, पृषोदरादिः, पुंक्ली. । "सर्वला तोमरोऽस्त्रियाम्"[अमरकोषः२।८।९३॥] इत्यमरः, तत्रं । द्वे तोमरनाम्नः ॥
शल्यं शङ्कौ
१ शलत्यन्तर्विशति शल्यम्, पुंक्ली. । 'शल गतौ' (भ्वा.प.से.), अघ्न्यादित्वाद् यत् । “शल्यप्रोतं वीक्ष्य सकुम्भं मुनिपुत्रम्''[रघुवंशम्, सर्गः-९, श्रो-७५]इति रघुः ।
२ शाम्यत्यनेन शङ्कः, पुंसि । शङ्कतेऽस्मादिति वा। ‘खरु-
३० शङ्क-'(उणा-३६)इति स धुः । “पेतुर्बर्हिणदेशीयाः शङ्कवः प्राणहारिणः'' [शिशुपालवधम्, सर्गः-१९, शो-४५] इति ___ माघः । द्वे 'साल' इति ख्यातस्य ॥
__ शूले त्रिशीर्षकम् ।
१ शूलति रुजति शूलम्, पुंक्ली. । 'शूल रुजायाम्' (भ्वा.प.से.), पचाद्यच्, तत्र । २ त्रीणि शीर्षाण्यस्य त्रिशीर्ष कम् । 'उरः प्रभृतिभ्यः कप्'५।४।१५१॥ । द्वे त्रिशूलस्य ॥
शक्तिपट्टिसदुःस्फोटचक्राद्याः शस्त्रजातयः ॥७८७॥
१ शक्नोति जेतुमनया शक्तिः । 'शक्ल शक्तौ' (स्वा.प.अ.), 'स्त्रियां क्तिन्'३।३।९४॥ । १ पटति शत्रून्
४० पट्टिसः । 'पट गतौ'(भ्वा.प.से.), 'पटिवीभ्याम्-'(हैमोणा ५७९)इति टिसः । “अयं तालव्यान्तः''["]इत्यन्ये । १ दुरिति दुःखं स्फोटयति दुःस्फोटः । 'स्फुट विदारणे' (चु.उ.से), चुरादिः, अच् । १ क्रियते प्रहारोऽनेनेति चक्रम्, पुंक्ली. । 'कृञः क्लिदेः क्नसश्च'( )कप्रत्ययः, द्वित्वं च । आदेः शतघ्नी-महाशिला-मुषुण्ढी-चिरिका वराहकर्णकप्रभृतयः ।
शेषश्चात्र
“अथ शक्ति: कासूर्महाफला ।
अष्टतालाऽऽयता सा च पट्टिसस्तु खुरोपमः ॥
५० लोहदण्डस्तीक्ष्णधारो दुःस्फोटाराफलौ समौ ।
चक्रं तु वलयप्रायमरसञ्चितमित्यपि ॥१॥
शतघ्नी तु चतुस्ताला लोहकण्टकसञ्चिता ।
अय:कण्टकसंछन्ना शतघ्न्येव महाशिला ॥२॥
मुषुण्ढी स्याद् दारुमयी वृत्ताय:कीलसञ्चिता ।
कणयो लोहमात्रोऽथ चिरिका तु हुलाग्रका ॥३॥
वराहकर्णकोऽन्वर्थः फलपत्राग्रके हुलम् ।
मुनयोऽस्त्रशेखरं च"[शेषनाममाला ३।१४८-१५२ ॥] |
खुरली तु श्रमो योग्याऽभ्यासः
१. '-स्थानं' इति३ ।। २. 'श्रोत्रेन्द्रियादिति' इति३.४ ॥ ३. द्र. पदचन्द्रिका, भा-२, क्षत्रवर्गः, शो-५४६, पृ.६३१ ॥, तत्र “परान् स्यति 'परस्वधः' पृषोदरादिः(पा. ६।३।१०९ ॥) । दन्त्यस:-इति माधवी" इति दृश्यते ॥ ४. क्षीरतरङ्गिण्यादौ बकाररहितः पाठः ॥ ५. तुलनीयोऽमरकोषः २।८।९१॥ ६. '-यः' इति३.४॥ ७. 'सर्व' इति१.४ ॥ ८. ४प्रतौ नास्ति ॥ ९. रघुवंशे 'वीक्ष्य' इत्यस्य स्थाने 'प्रेक्ष्य' इति, 'वीक्ष्य' इति च पाठान्तरे दृश्यते, पृ.२४३ ॥ १०. ३प्रतौ नास्ति ॥ ११. इतोऽग्रे ३प्रतौ 'द्वे' इति दृश्यते ॥ १२. स्वामिसम्मतोऽयं धातुपाठः, 'शूल रुजायां सङ्घाते च' इति मैत्रेयसायणौ ॥ १३. 'तालव्यन्तोऽयम्' इति४॥ १४. द्र. स्वोपज्ञटीका ३७८७ ॥, पृ.१७४ ॥, तत्र "अयं तालव्यं" इति दृश्यते ॥ १५. "घञर्थे कः, 'कृञादीनां के द्वे भवतः '(वा-६।१।१२।।) इति द्वित्वम्" इति युक्तम् ॥ १६. '-र्णका-' इति३.४ ॥
१ खुरन्ति छिन्दन्त्यस्यां खुरली । 'खुर विलेखने' (तु.प.से.), बाहुलकादलप्रत्यये गौरादिः । २ श्राम्यतेऽनेन श्रमः । श्रम तपसि खेदे च'(दि.प.से.), घञ्, 'नोदा तोपदेश-'७।३।३४॥ इति वृद्धिनिषेधः। ३ योगे चित्तैकाग्र्ये साध्वी योग्यो । 'तत्र साधुः '४।४।९८॥ इति यत् । “पुनः पुनस्तद्युगयुग्विधाता योग्यामुपास्ते नु युवां युयुक्षुः''[नैषधीय चरितम्, सर्गः-३, श्री-११७]इति हर्षः । ४ शस्त्राणामभ्यसनं शस्त्राभ्यासः ( अभ्यासः) । भावे घञ् । चत्वारि शस्त्रा भ्यासस्य । 'आखाडा' इति भाषा । "शराभ्यास उपाशनम्"
१० [शेषनाममाला ३।१५२ ॥] इति शेषः ॥
तद्भूः खलूरिका ।
१ तस्य श्रमस्य साधनाय भूः तद्भः, खड्यते लक्ष्य भिद्यतेऽत्र खडूरः । 'खडि खड भेदने '(चु.उ.से.), खजूरा दित्वादूरच, लत्वे खलूरः, ततः स्वार्थे कन् टापि खलू रिका । एकं श्रमसाधनभूमेः ॥
सर्वाभिसारः सर्वोघः सर्वसनहनं साः ॥७८८॥
१ सर्वेण सैन्येन अभिसरणं सर्वाभिसारः। 'सृ गतौ' (भ्वा.प.से.), भावे घञ् । २ सर्वेषामोघो वाहनं सर्वोघः । ३ सर्वं संनह्यतेऽत्र सर्वसनहनम् । ‘णह बन्धने'(दि.उ.अ.),
२० अधिकरणे ल्युट् । त्रीणि सर्वसैन्याभिसरणस्य ॥७८८॥
लोहाभिसारो दशम्यां विधिर्नीराजनात् परः ।
१ राज्ञां शस्त्रादिना प्रस्थाननाम एकम्, नृपाणां सङ्ग्रामनिर्गमाय यस्मिन् वासरे शस्त्राणि नि:सार्यन्ते, तन्नाम इत्यर्थः । अस्त्रभृतां राज्ञां विजयदशम्यां यः शास्त्रोक्तो विधिविधानं प्रस्थानात् प्राक् सः । लोहं शस्त्रमभि सार्यतेऽत्रेति लोहाभिसारः । मिश्रास्तु-"महानवमी दीक्षा यामश्वादीनां नीराजने निर्मञ्चने (निर्मजने) सत्युत्तरकालं
शस्त्रधारिणां राज्ञां यः शास्त्रोक्तो विधिः प्रस्थानात् प्राक्,
३० स लोहाभिसारः, लोहशस्त्रस्य अभिहार: सर्वतो हरणमत्रेति बहुव्रीहिः, "लोहाभिहार इत्युक्तो विधिर्नीराजनात् परः" []इत्यमरमाला । [अन्ये तु-] "लोहाभिसारोऽस्त्रभृताम्" []इति पठित्वा "लोहं शस्त्रमभिसार्यते प्रस्थाप्यतेऽत्रं" []इत्याहुः"[ ] [इत्याहुः] । कीदृग् विधिः ?, नीरा जनात् परः, नीरस्य शान्त्युदकस्याऽजनं क्षेपोऽत्र नीराजनम्, आरात्रिकेत्यर्थः, मन्त्रोक्त्या अश्वगजवाहनातपत्रतालव्यजन ध्वजासिधनुश्छुरिकास्वर्णदण्डदुन्दुभिशसिंहासनानां नि:शेषेण राजनं शोभनं वा नीराजनम्, तस्मात् परोऽग्रिमः । यद् दुर्ग:-"लोहाभिसारस्तु विधिः परो नीराजनान्नृपैः। दशम्यां दंशितैः कार्य:''[ ]इति । भविष्योत्तरपुराणेऽपि
४० "जयाभिलाषी नृपतिः प्रतिपत्प्रभृतिक्रमात् ।
लोहाभिसारिकं कर्म कारयेद् यावदष्टमी ॥१॥" []इति ॥
प्रस्थानं गमनं व्रज्याऽभिनिर्याणं प्रयाणकम् ॥७८९॥ यात्रा
१ प्रस्थीयते स्थानाच्चल्यते प्रस्थानम्, ल्युट् । २ गम्यते गमनम् । ३ व्रजनं व्रज्या । 'व्रज गतौ'(भ्वा. प.से.), 'व्रजयजो वे क्यप्'३।३।९८॥ । ४ अभिनिर्यायते अभिनिर्याणम् । 'या प्रापणे'(अ.प.अ.), भावे ल्युट् । ५ ततः स्वार्थे कनि प्रयाणकम् ॥७८९॥ ६ यानं यात्रा। [हु] यामाश्रुत(भ)सिभ्यस्त्रन् '(उणा-६०७)इति
५० त्रन् । षट् सामान्येन प्रस्थानस्य । 'चालवउं' इति भाषा ॥
अभिषेणनं तु स्यात् सेनयाऽभिगमो रिपौ ।
१ सेनया सहकारणभूतया वा विजिगीषोः रिपा वाभिमुख्येन योऽभिगमः गमनम्, सेनयाऽभियातीत्यर्थे सेना शब्दात् 'सत्यापपाश-'३।१।२५ ॥ इत्यादिना णिच्, ततो ल्युटि अभिषेणनम् । एकं शत्रूपरि गमनस्य ॥
स्यात् सुहृद्बलमासारः
१ सुहृदो मित्रस्य बलं सैन्यं सुहृद्बलम्, आस्रियते
१. 'क्षुर खुर विलेखने' इति स्वामी, 'खुर च्छेदने खण्डने च' इति मैत्रेयः, 'खुर छेदने' इति सायणः ॥ २. 'साधुः योग्यः' इति४ ॥ ३. 'लक्षं' इति२॥ ४. 'खड खडि भेदे' इति स्वामी, 'खड खडि कडि भेदने' इति मैत्रेयसायणौ ॥ ५. 'टाप्' इति४॥ ६. 'समः' इति३॥ ७. '-सार:' इति४ ॥ ८. द्र. पदचन्द्रिका, भा-२, क्षत्रवर्गः, शो-५४८, पृ.६३३ ॥, तत्र 'नीराजनात् परः' इत्यस्य स्थाने 'नीराजनोत्तरः' इति दृश्यते ॥ ९. इतोऽग्रे ४प्रतौ 'इति लोहाभिसारः' इति दृश्यते ॥ १०. '-षणं' इति१ ॥ ११. १प्रतौ नास्ति ॥ १२. द्र. अम.क्षीर.२।८।९५ ॥, पृ.१९५ ॥, स्वोपज्ञटीका३ १७८९ ॥, पृ.१७५ ॥ १३. 'लौ-' इति२ ॥ १४. इतोऽग्रे ४प्रतौ 'प्रयायते प्रयाणं' इति दृश्यते ॥ १५. इतोऽग्रे ३प्रतौ 'प्रयायते प्रयाणम्, ततः स्वार्थे कनिः' इति दृश्यते ॥ १६. '-वो' इति३, ‘-वौ' इति४॥ १७. 'उपसर्गात् सुनोति-'८।३।६५ ॥ इत्यादिना षत्वं बोध्यम् ॥
आसारः, अन्वागच्छन्मित्त्रबलमित्यर्थः । 'सृ गतौ'(भ्वा. प.अ.), भावे घञ् । एकं मित्रसैन्यस्य ॥
प्रचक्रं चलितं बलम् ॥७९०॥
१ प्रस्थितं चक्रं सैन्यं प्रचक्रम् । प्रक्रियत इति प्रचक्रम् । कृो घञर्थे कः, 'कृञादीनां के-'(वा ६।१।१२ ॥) इति द्वित्वम् । चल्यते स्म चलितम्, प्रयाणक स्थितमित्यर्थः । एकं प्रस्थितसैन्यस्य ॥७९०॥
प्रसारस्तु प्रसरणं तृणकाष्ठादिहेतवे ।
१ सैन्याद् बहिः तृणजलाद्यर्थं प्रसरणं प्रसारः ।
१० भावे घञ् ।
"निरुद्धवीवधाऽऽसारप्रसाराङ्गा(प्रसारा गा)इव व्रजम् ।
उपरुन्धं तु दाशार्हाः पुरी माहिष्मती द्विषः ॥१॥"
[शिशुपालवधम्, सर्गः-२, श्री-६४] इति माघः । “अमरस्तु 'स्यादासारः प्रसरणम्'[अमरकोषः२।८।९६॥] इत्याह, तच्च अर्थशास्त्रेण न संवदति''[अभि-, स्वोपज्ञटीका३।७९१ ॥] इति श्रीआचार्याः । एकं तृणाद्यर्थं सैन्याद् बहिर्गमनस्य ॥
अभिक्रमो रणे यानमभीतस्य रिपून् प्रति ॥७९१॥
१ अभीतस्याऽऽभिमुख्येन अभिभूय रिपून् अरीन् प्रति रणे सङ्ग्रामे यानं गमनम्, तन्नामैकम्, अभिक्रमणम् अभि
२० क्रमः । 'क्रमु पादविक्षेपे'(भ्वा.प.से.), भावे घञ्, 'नोदात्तोप देश-७।३।३४॥ इति वृद्धिनिषेधः । “अहितान् प्रत्यभीतस्य रणे यानमभिक्रमः''[अमरकोषः२।८।९६॥] इत्यमरः ॥७९१॥
अभ्यमित्योऽभ्यमित्त्रीयोऽभ्यमित्रीणोऽभ्यरिव्रजन् ।
१-३ आभिमुख्येनऽमित्रानलङ्गामी अभ्यमित्यः, अभ्यमित्रीयः, अभ्यमित्रीणः । 'अभ्यमित्राच्छ च' ५।२।१७॥ इति छः, चकाराद् यत्खौ । त्रीणि भृशं वैरि संमुखगामिनः ॥
स्यादुरस्वानुरसिलः
१ उरसा बलं लक्ष्यते, तदस्याऽस्ति उरस्वान् । 'तद
३० स्यास्ति- '५।२।९४ ॥ इति मतुप्, 'तसौ मत्वर्थे '१।४।१९ ॥ इति भत्वान्न रुत्वम्, ‘झय:'८।२।१० ॥ इति वत्वम् । पिच्छादि त्वादिलचि उरसिलः । द्वे 'हीयाबली' इति ख्यातस्य ॥
ऊर्जस्व्यूर्जस्वलौ समौ ॥७९२॥
१ ऊर्जा बलं पराक्रमो वा, तदतिशययुक्त ऊर्जस्वी। 'अस्मायामेधास्रजो विनि: '५।२।१२१ ॥ इति विनिः । ऊर्जा बलमस्याऽस्ति ऊर्जस्वलः । 'ज्योत्स्नातमिस्रा- '५।२।११४ ॥ इत्यादिना साधुः । "ऊर्जस्वलः स्यादूर्जस्वी य ऊर्जातिशया न्वितः"[अमरकोषः२। ८७५ ॥] इत्यमरः । ऊर्जस्वानपि । [द्वौ बलिनः] ॥७९२॥ सांयुगीनो रणे साधुः
४० १ संयुगे साधुः सांयुगीनः । 'प्रतिजनादिभ्यः खञ्' ४४ १९९॥ इति खञ्, 'आयनेयी-७।१।२ ।। इत्यादिना खस्य ईनादेशः । प्रतिजनादिपाठादेव संयुगशब्दस्य घबि गुणा भावः । रणे सङ्ग्रामे यः साधुस्तस्यैकम् ॥
जेता जिष्णुश्च जित्वरः ।
१ जयनशीलो जेता । 'जि जये'(भ्वा.प.अ.), तृन्। २ जयनशीलो जिष्णुः । 'ग्लाजिस्थश्च रस्नुः'३।२।१३९॥ । ३ जयनशीलो जित्वरः । 'इण्नशि(नश्)जिसर्तिभ्यः क्वरप्' ३।२।१६३ ॥, पित्त्वात् तुक् । त्रीणि जयनशीलस्य । [शेषश्चात्र "जिष्णौ तु विजयी जैत्रः"] [शेषनाममाला३ ।१५३॥] ॥
५० जय्यो यः शक्यते जेतु
१ जेतुमवश्यं शक्यो जय्यः । 'क्षय्यजय्यौ शक्यार्थे' ६।१८१॥ इति साधुः । यो जेतुं शक्यते, तस्यैकम् ॥
जेयो जेतव्यमात्रके ॥७९३॥
१ शक्यार्थादन्यत्र योग्यतामात्रेण, जयनीयो जेयः । 'अचो यत्'३।१।९३॥ इति यत् । एकं ‘जीपवा योग्य' इति ख्यातस्य ॥७९३॥
वैतालिका बोधकरा: अर्थिकाः सौखसुप्तिकाः ।
१. 'ततो' इति३॥ २. 'कन्' इति ॥ ३. 'तनादीनां' इति३ ।। ४. ४प्रतौ नास्ति ॥ ५. '-र्थ-' इति१.२॥ ६. 'प्रसा-' इति३ । ७. '-सारं' इति२ ॥ ८. 'प्रसा-' इति१.३ ॥ ९. 'चात्' इति ४प्रतौ, 'चकारात्' इति ४प्रतौ बहिर्भागे ॥ १०. तुलनीयोऽमरकोषः२।८७६ ॥ ११. वस्तुतस्त्वयं प्रमादः प्रतिभाति, मस्य झयत्वाभावात्, अथ च 'मादुपधाया:-'८।२।९ ॥ इत्यनेन वत्वं बोध्यम् ॥ १२. '-वली' इति३ ॥ १३. आकारान्त ऊर्जाशब्दश्चिन्त्यः, मेदिनीवैजयन्तीकोषादौ सान्तस्याऽदन्तस्य च ऊर्जशब्दस्य दर्शनात् ॥ १४. तुलनीयोऽमरकोषः२।८७७॥ १५. तुलनीयोऽमरकोषः२।८ ७४ ॥
१ विविधो मङ्गलगीतवाद्यादिकृतस्तालः शब्दस्तेन चरन्ति व्यवहरन्तीति वैतालिकाः । 'चरति'४।४।८ ॥ इति ठक्, 'ठस्येक: ७।३ १५० ॥, 'किति च'७।२।११८॥ इत्याद्यचो वृद्धिः । वितालः शब्दः प्रयोजनमेषामिति वा। 'प्रयोजनम्' ५।११०९ ॥ इति ठक् । २ निशान्तं निवेदयन्तो ये नृपं बोधयन्ति जागरयन्ति ते बोधकराः । 'कृजो हेतुताच्छील्यानु लोम्येषु'३ ।२।२० ॥ इति टः। ३ अर्थिन एव अर्थिकाः । स्वार्थे कन् । ४ सुखसुप्तं पृच्छन्ति सौखसुप्तिकाः । 'पृच्छतौ सुस्नातादिभ्यः '(वा-४।४।१॥)इति ठक् । सौखशायनिक
१० सौखशय्यिकावपि । अमरस्तु "वैतालिका बोधकराः"
[अमरकोषः२।८।९७ ॥]इति राज्ञोऽवसरपाठकानाह । चत्वारि राज्ञां प्रातर्बोधकरस्य ॥ घाण्टिकाश्चाक्रिकाः
१ घण्टयां चरन्ति घाण्टिकाः । “देवताद्यग्रे घण्टाघातेन ये शंसन्ति, ते घाण्टिकाः श्रावकाख्याः" [अभि-,स्वोपज्ञटीका३ १७९४॥, अम.क्षीर.२।८।९८ ॥] इत्या चार्यस्वामिनौ । चुरादौ घटिर्भाषार्थः, 'गुरोश्च'३।३।१०३॥ इत्यकारः, 'इदित:-'७।१।५८॥ इति नुम्, 'तेन चरत' ४।४।८॥ इति ठक् । “घण्टा गोष्ठी, तया चरन्ति नैरुक्तो
२० वर्णागमो निरनुनासिको वा''[ ]इति सर्वस्वम् । “राज्ञः प्रबोधसमये घण्टाशिल्पास्तु घाण्डिका'[ ]इति च । २ चक्रं राष्ट्र प्रोयजनमेषां चाक्रिकाः । 'प्रयोजनम्'५।१।१०९ ॥ इति ठक् । द्वे घण्टावादकस्य ॥
सूतो बन्दी मङ्गलपाठकः ॥७९४॥
१ सुनोति सूतः । 'षुञ् अभिषवे'(स्वा.उ.अ.) । २ वन्दते स्तौति बन्दी । 'वदि अभिवादनस्तुत्यो: '(भ्वा. आ.से.), 'नन्दिग्रहि-'३।१।१३४॥ इति ग्रहादित्वाणिनिः । ३ मङ्गलं पठति मङ्गलपाठकः । 'पठ व्यक्तायां वाचि' (भ्वा.प.से.), ण्वुल् । त्रीणि मङ्गलपाठकस्य ॥७९४॥
मागधो मगधः
३० १-२ मगधेति धातुः कण्ड्वादौ याच्बार्थः । "कमर्थिनः कमुभ्यस्तु (कुषुभ्यन्तु) कं म[ग] ध्यन्तु मागधाः । कमिषुध्यन्तु यज्वानो रामेऽरण्यं तुरण्यति ॥१॥" []इति श्रीभोजः । मगध्यति याचते मगधः । पचाद्यच् । मगध एव मागधः, प्रज्ञादित्वादण् । "वंशक्रमेण महत्त्ववा दिनो राजाद्यग्रतः स्तुतिकृतो मागधाः क्षत्रिया वैश्यजातीया वा मगधदेशोद्भवाः''[ ] इत्यन्ये । २ अणभावे मगधः । "मागधाः स्तुतिवंशजाः''[]इत्यन्ये । “सूताद्या मगधान्ता __ एकार्था इत्येके ''[अम.क्षीर.२।८।९८॥] इति क्षीरस्वामी ।
वंशोदीरणेन यो याचते, तस्य द्वे ॥
४० संशप्तका युद्धाऽनिवर्तिनः । १ 'शप(शप) आक्रोशे'(भ्वा.उ.अ.), भावे क्तः, __ शतं शपथः, सं सम्यक् शतं सत्यं येषां ते संशप्तकाः । ('शप्(शप) आक्रोशे'(भ्वा.उ.अ.), भावे क्तः), संशपन्ति पलायमानानिति वा । सशपथं युध्यन्त इति वा । युद्धान्न निवर्तन्ते न पराङ्मुखा भवन्ति युद्धाऽनिवर्तिनः । एकं _ 'संग्रामिई जे न भाजई' इति प्रसिद्धस्य ॥
नग्नः स्तुतिव्रतः
१ न वस्ते नग्नः, पृषोदरादिः । कौपीनमात्रजर द्वस्त्रपरिधानात्, न विद्यन्ते ग्नाः श्रियश्छन्दांसि वा अस्येति
५० वा । 'नभ्राण्नपात्- '६।३ १७५ ॥ इति नअकृत्या । २ स्तुतिरेव व्रतमस्य स्तुतिव्रतः । "नग्नो बन्दिनि क्षपणे विवस्त्रे - प्यभिधेयवत्''[विश्वप्रकाशकोशः, नान्तवर्गः, श्रो-१४]इति महेश्वर: । द्वे कौपीनमात्रजरद्वस्त्रपरिधानमङ्गलपाठकस्य ॥
तस्य ग्रन्थो भोगावली भवेत् ॥७९५॥
१ तस्य नग्नस्य ग्रन्थः शास्त्रम्, यत्र काव्ये राज्ञो नानाविधाः क्रियाः स्नानभोजनादिकाः कुर्वाणस्य तदनुरूपा गाथादयः, सा भोगावली । भोगः सुखम्, तद्धेतुत्वाद् भोगाः
१. -य्य-' इति ३॥ २. 'घण्टाया' इति३॥ ३. 'चरति' इत्येवाऽष्टाध्याय्याम् ॥ ४. टीकासर्वस्वे न दृश्यते ॥ ५. 'घ-' इति२.३ ॥ ६. द्र. अम.क्षीर.२।८।९८॥, पृ.१९५ ।। ७. ४प्रतौ नास्ति ॥ ८. १.२प्रत्योर्नास्ति ॥ ९. द्र. अम.क्षीर.२।८।९८॥, पृ.१९५ ।।, पदचन्द्रिका, भा-२, क्षत्रवर्गः, श्रो-५५१, पृ.६३५ ।। १०. द्र. पदचन्द्रिका, भा-२, क्षत्रवर्गः, श्रो-५५१, पृ.६३५ ॥, तत्र 'क्षत्रिया वैश्यजातीया' इत्यस्य स्थाने 'क्षत्रिया वैश्याज्जाता' इति दृश्यते ॥ ११. द्र. अम.क्षीर.२।८।१८॥, पृ.१९५ ॥, स्वोपज्ञटीका३ ७९५ ॥, पृ.१७६ ।।, मङ्खकोषस्योद्धरणमिदम् ॥ १२. अम.क्षीरस्वामिकृतटीकायां "चत्वार एकार्था इत्येके" इति दृश्यते, २।८।९८ ॥, पृ.१९५ ॥ १३. कोष्ठान्तर्गतपाठः १.२.३प्रतिषु न दृश्यते ॥ १४. 'सशपं' इति१, 'संशपते' इति४ ॥ १५. 'स-' इति१, 'संग्रामे' इति३, 'संग्रामइ' इति४॥ १६. 'भाजै' इति३ ॥ १७. इतोऽग्रे ४प्रतौ 'वस्त्राणि न-' इति दृश्यते ॥ १८. महेश्वरकृतविश्वप्रकाशकोशे तु "नग्नोऽपि च क्षपणके विवस्त्रे चाऽभिधेयवत्" इति दृश्यते, पृ.८६ ॥
- स्तुतयः, तासामावलीभोगावली। “वैतालिकाः स्फुट पदप्रकटार्थमुच्चैर्भोगावली कलगिरोऽवसरेषु पेठुः''[शिशु पालवधम्, सर्गः-५, श्रो-६७] इति माघः ॥७९५॥
प्राणः स्थाम तरः पराक्रमबलद्युम्नानि शौर्योजसी ।
शुष्मं शुष्म च शक्तिरू सहसी
१ प्राणित्यनेन प्राणः । प्रपूर्वः ‘अन प्राणने '(अ. प.से.), घञि । प्राणनं प्राण इति भावे घञ् वा । २ तिष्ठ त्यनेन स्थाम । 'ष्ठा गतिनिवृत्तौ'(भ्वा.प.अ.), 'आतो मनि
प्क्वनिप्वनिप:'३।२।७४ ॥ इति मनिप्, ऊणादिको वा मनि
१० न्प्रत्ययः । ३ तरन्त्यनेन आपदं तरः, क्लीबलिङ्गावेतौ । 'त प्लवनतरणयो: '(भ्वा.प.से.), '-असुन्'(उणा-६२८)इत्य सुन् । ४ पराक्रम्यतेऽनेन पराक्रमः । 'हलश्च'३।३।१२१ ॥ इति घञ्, 'नोदात्तोपदेश-'७।३।३४ ॥ इति वृद्धिनिषेधः । ५ बलति प्राणित्यनेन बलम्, पुंक्ली. । 'बल प्राणने '(भ्वा. प.से.), घबर्थे कः । ६ दिवि मीयते द्युम्नम् । 'द्युस(सु)निभ्यो माङो डित्'(हैमोणा-२६६)इति नः । द्रविणमपि, द्रवत्य नेनाऽरिः द्रविणम् । 'द्रुदक्षिभ्यामिनन्'(उणा-२०८) । ७ शूरस्य भावः शौर्यम्, ण्यत् । ८ ओषत्यरीननेति ओजः । 'उष दाहे '(भ्वा.प.से.), 'उषेर्ज(-) च'(है मोणा
२० ९५९)इत्यसुन् । यद्वा 'उब्ज आर्जवे'(तु.प.से.), 'उब्जेर् [बलं]
वलोपश्च'(उणा-६३१)इत्यसुन् वलोपे गुणश्च निपात्यत इति वा । ओजसी, ओजांसि इत्यादि क्लीबे । ९ शुष्यत्यनेनाऽरिः शुष्मम् । 'शुष शोषणे'(दि.प.अ.), 'अरिविविशिशुषिभ्यः कित् (अविसिविसिशुषिभ्यः कित्) '(उणा-१४१)इति मन्, अकारान्तोऽयम् । १० -मनिन् '(उणा-५८४)इति मनिन्प्रत्यये शुष्म इति नकारान्तम्, क्लीबे । ११ शक्नोत्यनया शक्तिः । 'स्त्रियां क्तिन्'३।३।९४ ॥ १२ ऊर्जनम् ऊर्जः, पुंस्त्रीलिङ्गः । 'ऊर्ज बलप्राणनयो: '(चु.उ.से.), भावे घञ् । ऊर्गपि । १३ सहते शत्रुमनेन सहः, क्लीबे । 'षह मर्षणे'(भ्वा.आ.से.),
३० -असुन्'(उणा-६२८)। सहसी, सहांसि इत्यादि । “दण्डो त्पला मुद्गपर्णी कुमारीनखभेषजे । सहा स्त्री, बले न स्त्री''[ ]इति रभसोऽदन्तमपि । त्रयोदश पराक्रमस्य ॥
युद्धं तु सङ्ख्यं कलिः ।
सङ्ग्रामाहवसम्प्रहारसमरा जन्यं युदायोधनं ॥
संस्फोटः कलहो मृधं प्रहरणं संयद्रणो विग्रहः ॥७९६॥
द्वन्द्वं समाघातसमाह्वयाभि
सम्पासंमर्दसमित्प्रीताः ।
आम्कन्दनाजिप्रधनान्यनीक
मभ्यागमश्च प्रविदारणं च ॥७९७॥
४० समुदायः समुदयो रोटिः समितिसङ्गरौ ।
अभ्यामर्दः सम्परायः समीकं साम्परायिकम्।।७९८॥
आक्रन्दः संयुगं च
१ ('युध्यतेऽत्र युद्धम्) । 'युध संप्रहारे'(दि. आ.अ.), बाहुलकात् क्तः । २ संचक्षतेऽत्र सङ्ख्यम्, पुंक्ली. । 'चक्षिङ् व्यक्तायां वाचि'(अ.आ.से.), संपूर्वोऽयं वधार्थः, 'समि ख्यः'३।२७ ॥ इति चक्षिङ: ख्याञादेशः । संख्याति कथयति शौर्यं कातरत्वं वा । 'ख्या प्रकथने' (अ.प.अ.), 'आतोऽनुपसर्गे क:'३।२।३ ॥. 'आतो लोप इटि च'६।४।६४ ॥ इत्यालोपः । ३ कलन्ते स्पर्धमानाः शब्दायन्ते-
५० ऽत्रेति कलिः, पुंसि । 'कल शब्दसङ्ख्यानयोः '(भ्वा.आ.से.), 'कलेरि:'( )इति इ: । कलति क्षिपति कातरान् वा । 'कल पिल क्षेपे (चु.उ.से.), '-इन्'(उणा-५५७) इति इन् । ४ सङ्ग्रामणं सङ्ग्रामः । 'सङ्ग्राम युद्धे'(चु.उ.से.), ण्यन्ताद् भावे घञ् । ५ आहूयन्ते योद्धारोऽत्र आहवः । 'ह्वेञ् आह्वाने '(भ्वा.उ.अ.), 'आङि युद्धे '३।३।७३ ॥ अप्, संप्रसारणं च । ६ सम्प्रहरन्ते परस्परं घ्नन्त्यत्र सम्प्रहारः । अधिकरणे घञ् । ७ मरणं मरः, सह मरणेन वर्तते समरः । समिग्रते सङ्घट्टन्तेऽत्रेति वा । 'ऋ गतौ'(तु.प.अ.), 'पुंसि
१. ४प्रतौ नास्ति || २. 'आतो मनिन्क्वनिब्वनिपश्च'३।२७४ ।। इत्यष्टाध्याय्याम् ॥ ३. 'औ-' इति४॥ ४. 'बलते' इति१.२.३ ।। ५. ३.४प्रत्योर्नास्ति ।। ६. '-पो' इति३ ।। ७. ३प्रतौ नास्ति ॥ ८. 'निशि' इति३.४ ॥ ९. '-न्तः' इति३ ॥ १०. द्र. पदचन्द्रिका, भा-२, क्षत्रवर्गः, श्री-५५६, पृ.६३८ ।, रामाश्रमी २।८।१०२ ॥, पृ.३९१ ॥ ११. -यकम्' इति४॥ १२. कोष्ठान्तर्गतपाठः २प्रतौ नास्ति ॥ १३. '-क्ष्यते' इति३ ॥ १४. 'सम' इति३ ॥ १५. '-ख्यङ्' इति३ ॥ १६. 'इटि च' ४प्रतौ नास्ति ॥ १७. मैत्रेयसम्मतोऽयं धातुपाठः, 'कल किल पिल क्षेपे' इति स्वामी, 'कल विल क्षेपे' इति सायणः, '-आक्षेपे' इति३॥ १८. 'हृञ् स्पर्धायां शब्दे च' इति क्षीरतरङ्गिण्यादयः ॥ १९. 'आङ्' इति३ । २०. 'संप्रवदन्त्य-' इति४॥
संज्ञायाम्-'३।३।११८॥ इति घः । पुनपुंसकोऽयम् । “अस्त्रियां समरानीकरणाः" [अमरकोषः२।८।१०४॥] इत्यमरः । ८ जायते विद्वेषाद् जन्यम्, पुंक्ली. । 'जनी प्रादुर्भावे'(दि.आ.से.), 'भव्यगेय-'३।४।६८ ॥इत्यादिना साधुः । ९ युध्यन्तेऽस्यां युत्, स्त्रियाम् । 'युध सम्प्रहारे '(दि.आ.अ.), सम्पदादित्वात् क्विप् । युधौ, युधः इत्यादि । १० आयुध्यन्तेऽस्मिन् आयो धनम् । अधिकरणे ल्युट्, 'युवोरनाकौ'७।१।१॥ । ११ संस्फुटन्ति विशीर्यन्ते कातरहृदयान्यत्र संस्फोटः । 'स्फुटिर् विशरणे'(भ्वा.प.से.), अधिकरणे घञ् । 'स्फुट भेदने'
१० (चु.उ.से.) वा । संस्फेट इत्यन्ये । “स्फिट अनादरे" (चु.उ.से.) [अम.क्षीर.२।८।१०६॥] इति स्वामी । "संफेट:" [ ]इति च भरतः । १२ कलं मधुरध्वनिं हन्ति कलहः । 'अन्येभ्योऽपि- '(वा-३।२।१०१॥)इति डः । "कलं तु मधुरध्वनौ"[ ]इति धरणिः । कलं हीनबलं हन्तीति वा । 'अन्येभ्योऽपि-' (वा-३।२।१०१॥)इति डः । कलां जहातीति वा । 'ड्यापोः संज्ञाच्छन्दसि बहुलम् '६।३।६३ ॥ इति [पूर्वस्य हुस्वः] । १३ मर्धति हिनस्ति मृधम् । 'मृधि मेधृ मेधा-हिंसनयो: '(भ्वा.उ.से.), 'इगुपध-'३।१।१३५ ॥इति कः । म्रियन्तेऽत्रेति मृधं वा । ‘मृङ् प्राणत्यागे'(तु.आ.अ.),
२० बाहुलकाद् धक् इति धक् । १४ प्रहरन्तेऽत्रेति प्रहरणम् । अधिकरणे ल्युट् । १५ संयतन्ते संयच्छन्ति वा अत्र संयत्, क्लीबे । अमरस्तु-"स्त्रियां(स्त्रियः) संयत्-"[अम.२।८। १०६॥] इत्याह । 'यती प्रयत्ने'(भ्वा.आ.से.), 'यमु नियमने । (भ्वा.प.अ.) वा, संपदादित्वात् क्विप् । १६ रणन्ति दुन्दु भयोऽत्रेति रणम्, पुंक्ली. । 'रणशब्दे'(भ्वा.प.से.), 'पुंसि संज्ञायाम्-'३।३।११८॥ इति बाहुलकाद् घः, घः. 'वशिरण्योश्च' (वा-३।३।५८)इति वक्तव्यादप वा। १७ विगृह्णन्त्यत्र विग्रहः । 'ग्रहवृदृ-'३३ ५८ ॥ इत्यधिकरणेऽपि । ग्रहणं ग्रहो निर्बन्धः,
३० विविधो ग्रहोऽत्रेति 'अव्ययानां च'(वा-२।२।२४ ॥)इति बहुव्रीहिर्वा ॥७९६॥ १८ द्वौ द्वौ युध्यन्तेऽत्रेति द्वन्द्वम्, पृषो दरादित्वात् । "द्वन्द्वं समासकलहयुग्मेषु'["]इति श्रीभोजः । १९ सङ्गत्ये आघ्नन्ति परस्परमत्र समाघात: । 'हन्(हन) हिंसागत्यो: '(अ.प.अ.) अधिकरणे घञ्, 'हनस्तोऽचिण्ण मुलोः ७।३।३२ ॥इति तकारोऽन्तादेशः, 'हो हन्तेः-७।३५४॥ इति कुत्वम्, 'अत उपधायाः ७।२।११६॥ । २० सम्पृच्छन्ति आह्वयमत्र समाह्वयः । २१ अभिमुखं सम्पतन्त्यत्र अभि सम्पातः । अधिकरणे घञ् । २२ संमृद्नन्त्यत्रं संमर्दः । 'मद क्षोदे'(त्र्या.प.से.), अधिकरणे घब । २३ संयन्त्यत्रेति समित्, स्त्रीलिङ्गः । 'अण् गतौ'(अ.प.अ.), सम्पदादित्वात् क्विप, 'हस्वस्य-'६।१७१ ॥ इति तुक । समितौ, समितः १
४० इत्यादि । २४ प्रकर्षेण घ्नन्त्यत्र प्रघातः । 'हन्(हन) हिंसागत्यो: '(अ.प.अ.), अधिकरणे घञ् । २५ आस्कन्द्यन्ते शोष्यन्ते शत्रवोऽत्रेति आस्कन्दनम् । 'स्कन्दिर् गति शोषणयोः (भ्वा.प.अ.), अधिकरणे ल्युट । २६ अजन्ति क्षिपन्त्यस्याम, आजिः, स्त्रीलिङ्गः । 'अज गतौ क्षेपणे च' (भ्वा.प.से.), 'अजा(अज्य)तिभ्यामिन्मिण वृद्धिश्च '(उणा ५७०)इतीन् (इतीण) । २७ प्रधनति हन्ति प्रधनम् । उपर्ग बलाद् निधनवद् धनिर्मरणार्थः, पचाद्यच् । प्रदधाति म्रिय तेऽत्र, प्रपूर्वाद् धाधः, 'कृपृ(कृप) वृजिमन्दि[नि]धाभ्यः क्युः '(उणा-२३९)इति क्युः, अनादेशे प्रधनमिति वा । २८
५० अनन्ति जीवन्ति सुभटा अनेनेति अनीकम्, पुंक्ली. । 'अन प्राणने'(अ.प.से.), 'अनीकादयश्च ( )इतीकन् । अनीकं सैन्यमस्येति वा, अर्शआदित्वादच् । २९ अभ्यागच्छन्त्यत्र अभ्यागमः । अधिकरणे घञ् । ३० प्रकर्षेण विदार्यन्ते शत्रवोऽत्र प्रविदारणम् । 'ह(द) विदारणे'(त्र्या.प.से.), णिजन्तः, ततो ल्युट् । ॥७९७॥ ३१ समुदयन्ते मिलन्त्यत्र समुदायः । समुत्पूर्वः 'अय गतौ'(भ्वा.आ.से.), 'हलश्च' ३।३।१२१ ।। इति घञ् । ३२ समुद्यन्त्यत्रेति समुदयः । 'इण् गतौ'(अ.प.अ.), बाहुलकाद् ‘एरच्'३।३५६॥ । ३३
६० रटन्ति कलहायन्तेऽस्यां राटिः, स्त्रीलिङ्गः । ‘रट परिभाषणे'
१. 'युध्यते-' इति३ ॥ २. '-स्फोट' इति४ ॥ ३. 'स्मिट अनादरे' इति मैत्रेयसायणौ ॥ ४. १.२प्रत्यो स्ति ॥ ५. "संस्फेट इति युक्तः पाठः, स्फिट अनादरे, भरते तु संफेटः ।" अम. क्षीरस्वामिटीकायाम्, २८।१०६॥, पृ.१९७ ॥ ६. 'कलिं' इति४॥ ७. द्र. रामाश्रमी२।८।१०४॥, पृ.३९२॥ ८. 'ड्यापोः संज्ञाच्छन्दसोर्बहुलम्'६३।६३ ॥ इत्यष्टाध्याय्याम् ॥ ९. 'शुधु मृधु उन्दे(उन्दने इति सायणः)' इति स्वामिसायणौ, 'शुधु षधु मृधु उन्दे' इति मैत्रेयः ॥ १०. 'प्रियते' इति१ ॥ ११. 'इति धक्' इत्यधिकं प्रतिभाति ॥ १२. 'संयतते संयच्छति' इति१ ॥ १३. 'नपुंसकं' इति४॥ १४. 'यम उपरमे' इति क्षीरतरङ्गिण्यादयः ॥ १५. द्र. स्वोपज्ञटीका३७९७ ॥, पृ.१७७ ॥, तत्र 'द्वन्द्वं' इति न दृश्यते ॥ १६. 'समागत्य' इति३, 'सं आगत्य' इति४॥ १७. '-यनमत्र' इति१ ॥ १८. 'संमर्दयत्यत्र' इति३ ॥ १९. 'समेत्यत्रेति' इति४॥ २०. 'गतिविशो-' इति२॥ २१. फलितार्थकथनमिदं प्रतिभाति, 'अज्यतिभ्यां च'(उणा-५७०)इत्युणादिगणे ॥ २२. 'क्यौ' इति१.२ ॥ २३. उणादिसूत्रपाठे, 'अनीकादयश्च' इति सूत्रं नास्ति, सिद्धान्तकौमुद्यां चाऽस्य सिद्धिः 'अनिषिभ्यां किच्च'(उणा-४५७)इत्युणादिसूत्रेण विहिता ॥ २४. '-दयन्त्यत्रेति' इति२.४, '-दयन्तेऽत्रेति' इति३॥ २५. '-कादच्' इति३.४ ॥
(भ्वा.प.से.), 'इञ (इण) जादिभ्यः '(वा-३।३।१०८॥) इती । ३४ संयन्त्यस्यां समितिः । 'इण् गतौ'(अ.प.अ.), 'स्त्रियां क्तिन्'३।३।९४॥ । ३५ सङ्गिरन्तै सङ्गृणन्ति वाऽत्र सङ्गरः । 'गृ निगरणे'(तु.प.से.), ['गृ शब्दे'(त्र्या.प.से.)वा] 'ऋदोरप्'३।३१५७॥ इत्यप् । ३६ अभ्यामनन्त्यत्रं अभ्या मर्दः । मृद क्षोदे'(त्र्या.प.से.), 'ऋदोरप्'३।३।५७ । । ३७ सम्यक् परान् शत्रून् यान्ति अयन्ते वाऽत्र घञि सम्परायः, पुंक्ली. । ३८ समीयन्तेऽत्र समीकम् । सम्पूर्वः ‘इण् गतौ' (अ.प.अ.) । ३९ सम्परायो मृत्युः प्रयोजनमस्य साम्परायि
१० कम् । 'विनयादिभ्यष्ठक'५।४।३४॥ इति ठक् ॥७९८॥ ४० आक्रन्दन्ति कातरा अत्र आक्रन्दः । [कदि] क्रदि क्लदि वैक्लव्ये '(भ्वा.आ.से.), 'हलश्च'३।३।१२१ ।। इत्यधि करणे घञ् । ४१ संयुज्यन्तेऽत्र संयुगम्, पुंक्ली. । 'युजिर योगे'(रु.उ.अ.), अधिकरणे घञ् । सङ्गता रथयुगा अत्रेति वा । सामान्यत एकचत्वारिंशत् सङ्ग्रामस्य ॥
अथ विशेषत आह
अथ नियुद्धं तद्भुजोद्भवम् ।
१ नियतं युद्धं नियुद्धम् । “निगृह्य युद्धं नियुद्ध मिति वा । “सन्निकृष्टयुद्धं नियुद्धम्"[ ]इति सुभूतिः । तदिति
२० युद्धम्, भुजोद्भवं बाहुभिर्जिनितमित्यर्थः । एकं बाहुयुद्धस्य ॥
पटहाडम्बरौ तुल्यौ
हः । 'अभ्येभ्योऽपि(अन्ये ष्वपि-'३।२।१०१ ॥ इति ड: । वाद्यविशेषः । यद् वाचस्पतिः "महासमरतूर्ये तु पटहाडम्बरावुभौ''["]इति । २ आदम्यते आडम्बरः, पुंक्ली. एतौ । 'द, उपशमे'(दि.प.से.), डमरवद् दस्य डत्वेऽरचि साधुः । द्वे सङ्ग्रामवाद्यस्य ॥
तुमुलं रणसङ्कुलम् ॥७९९॥
१ ताम्यन्त्यत्रेति तुमुलम् । 'तमु ग्लानौ'( ), बाहुलकादुलक्, कित्, नैरुक्तस्तकारः । "तुमुलो व्याकुलो __ रवः"[हलायुधकोश:१।१३९ ॥] इति त्रिकाण्डम् (हलायुधः)।
३० "तु इति सौत्रो धातुर्गत्यर्थः, ततः क्विप्, आगमानित्यत्वान्न तुक् । मुरति संवेष्टयति, इगुपधत्वात् कः, तोर्मुरः तुमुरः, कपिरिकादित्वाल्लत्वम्"[ ]इत्यन्ये । रणस्य सङ्कलं सङ्की र्णता रणसङ्कलम् । यद् गौड:-"बिभीतकतरौ पुंसि तुमुलं रणसङ्कुले''[ ]इति । एकं सङ्ग्रामसङ्कीर्णतायाः ॥
नासीरं त्वग्रयानं स्यात्
१ नासते नासीरम्, स्त्रीक्लीबयोः । यद् गौड: "न नाग्रायाने नासीरम्'[]इति । "नासीरोऽस्त्री"[वैज यन्तीकोष:३।७।२०३ ॥] इति वैजयन्ती । ‘णासृ शब्दे' (भ्वा.आ.से.), बाहुलकात् 'कृशृपू(पृ)कटिपटि-'(उणा- ४० ४७०)इत्यादिना ईरन् । दन्त्यसकारवान् । "नासीरसीमनि घनध्वनिरस्य भूयान्''[नैषधीयचरितम्, सर्गः-१३, शो-२३] इति श्रीहर्षः। अग्रे यानमस्य अग्रयानम्। एकं 'पेसखानओ' इति ख्यातस्य ॥
अवमर्दस्तु पीडनम् ।
१ अवमर्दनम् अवमर्दः । भावे घञ् । २ पीड्यते पीडनम् । ‘पीड रुजायाम् '(चु.प.से.), ल्युट । द्वे सङ्ग्रामपीडायाः ॥
प्रपातस्त्वभ्यवस्कन्दो धाट्यभ्यासादनं च सः ॥८००॥
५० १ प्रपतनं प्रपातः । 'पत्लु पतने '(भ्वा.प.से.), भावे घञ् । बलादाक्रमणमित्यर्थः । २ अभ्यवस्कन्दम् अभ्यवस्कन्दः । अभ्यवपूर्वः 'स्कन्दिर् गतिशोषणयोः' (भ्वा.प.से.), भावे घञ् । ३ धावन्तोऽटन्त्यस्यां धाटिः, पृषोदरादिः, 'कृदिकारात्-'(गणसू-४।१।४५ ॥) इति ङीषि धाटी । ४ अभ्यासाद्यत इति अभ्यासादनम् । अभ्याङ् पूर्वात् सदेर्ण्यन्ताद् ल्युट् । चत्वारि धाट्याः ॥८००॥
तद् रात्रौ सौप्तिकम्
१. 'इति घञ्' इतिर, 'इतीन्' इति३ ॥ २. '-स्यामिति' इति३ ॥ ३. '-न्तो' इति३ ॥ ४. '-मृदन्ति अत्र' इति३॥ ५. 'अकर्तरि च कारके संज्ञायाम्'३।३।१९ ॥ इत्यनेन घञ् युक्तः ॥ ६. 'कदि क्रदि क्रद क्लद वैक्लव्ये' इति मैत्रेयः ॥ ७. '-युतं' इति२ ॥ ८. द्र. पदचन्द्रिका, भा १, क्षत्रवर्गः, शो-५६०, पृ.६४३॥ ९. 'बाहुज-' इति३॥ १०. '-त्रेति' इति३.४॥ ११. द्र. स्वोपज्ञटीका३ ७९९ ॥, पृ.१७७॥ १२. 'दम' इति४॥ १३. 'तमु काङ्क्षायाम्' क्षीरतरङ्गिण्यादयः ॥ १४. '-क्' इति१ ॥ १५. '-धात्' इति१.४॥ १६. द्र. पदचन्द्रिका, भा-२, क्षत्रवर्गः, श्रो-५६०, पृ.६४३ ॥ १७. 'क्लीबस्त्रीलिङ्गः' इति३ ॥ १८. '-नउं' इति२, ‘-खानो' इति३, ‘-खानौ' इति४ ॥ १९. तुलनीयोऽमरकोषः २८।१०९॥ २०. 'पीड गहने' इति स्वामी, 'पीड अवगाहने' इति मैत्रेयसायणौ ॥ २१. 'शल हुल पत्लु गतौ' इति क्षीरतरङ्गिण्यादयः ॥
१ तदिति अभ्यासादनम्, रात्रौ निशि, सुप्तेषु भवं सौप्तिकम् । अध्यात्मादित्वाद् ठक् । एकं 'रातीवाहा' इति ख्यातस्य ॥
वीराशंसनं त्वाजिभीष्मभूः ।
१ वीरा आशंस्यन्तेऽत्र वीराशंसनम् । 'शंस स्तुतौ' ( ), अधिकरणे ल्युट्, क्लीबे । “सा वीराशंसनी युद्ध भूमिर्याऽतिभयप्रदा"[अमरकोषः२।८।१०० ॥]इत्यमरः स्त्रिया माह । आजे: सङ्ग्रामस्य भीष्मा अतिभयङ्करा भूर्भूमिः आजिभीष्मभूः । एकं रणक्षेत्रस्य ॥
१० नियुद्धभूरक्षवाटः
१ नियुद्धस्य भुजजातसङ्ग्रामस्य भूः नियुद्धभूः, अक्षो मल्लानां युद्धव्यवहारः, तस्य वाट: अक्षवाटः । एकं 'मल्लाखाढा' इति ख्यातस्य ॥
मोहो मूर्छा च कश्मलम् ॥८०१॥
१ मोहनं मोहः । 'मुह वैचित्ये'(दि.प.से.), भावे घञ् । २ मूर्च्छनं मूर्छा । 'मूर्छा मोहसमुच्छाययोः' (भ्वा.प.से.), 'गुरोश्च हल: '३।३।१०२॥ इत्यप्रत्ययः, 'उपधायाश्च(-यां च)'८।२७८ ॥ इति दीर्घत्वम् । ३ कशति गच्छति चिरं न तिष्ठति कश्मलम् । 'कश गतौ'(अ.आ.
२० से.), 'कुटेः क्मरच् (क्मलच्) '(चान्द्रोणा-३४८॥)इति बाहुलकात् क्मरच् (क्मलच्) । “कशिः सौत्रो धातुः''[ ] इति सुभूत्यादयः । शयनशमनशीलं कश्मलं शुंभलं (शृङ्खलं) च"[]इति शभेदात् तालव्यशम् । सङ्ग्रामे प्रहारात् मोहो वैचित्यं मूर्छा मूर्छनम्, तयो मैकं कश्मलमिति ॥८०१॥
वृत्ते भाविनि वा युद्धे पानं स्याद् वीरपाणकम् ।
१ वृत्ते अङ्गीकृते रणे, भाविनि भविष्यति वा रणे, रणजनितश्रमशान्तये वीराणां यन्मद्यादिपानम्, तद् वीरकर्तृत्वाद् वीरपाणम् । ‘वा भावकरणयोः'८।४।१०॥ इति णत्वम् ।
३० वीरपानं वा । "वीरपानं (वीरपाणं) तु यत्पानं वृत्ते भाविनि वा रणे"[अमरकोषः२ ।८।१०३॥] इत्यमरः । वृत्तशब्दोऽत्र चतुर्थवर्गाद्यद्वयोपधो वृत्तार्थ: । "वृत्ते तु वृत्तव्यावृत्तौ''[] इत्याचार्याः । "वृत्तस्तु वर्तुलेऽतीते मृतेऽधीते दृढे वृते" - [विश्वलोचनकोशः, तान्तवर्गः, श्री-५६]इति श्रीधरः । एकं _[वृत्ते भाविनि वा युद्धे यत्पानम्, तस्य] ॥ ।
पलायनमपयानं संदावद्रवविद्भवाः ॥८०२॥ अपक्रमः समुत्प्रेभ्यो द्रावः
१ पलाय्यते पलायनम् । 'अय गतौ '(भ्वा.आ.से.), परापूर्वः, ल्युट्, 'उपसर्गस्यायतौ'८।२।१९ ॥ इति लत्वम् । २ अपसृत्य यायते अपयानम् । अपपूर्वः ‘या प्रापणे'(अ.प.अ.),
४० ल्युट् । ३ संदवनं संदावः । 'दु गतौ'(भ्वा.प.अ.), 'समि द्रुदव : '३।३।२३ ॥ इति घञ् । ४-५ द्रवणं द्रवः । विद्रवणं विद्रवः । 'द्रु गतौ'(भ्वा.प.अ.), 'ऋदोरप्'३ ।३५७॥इत्यप् ॥८०२॥ ६ अपावृत्य क्रमणम् अपक्रमः । भावे घञ्, _ 'नोदात्तोपदेश-७।३।३४॥ इति निषेधाद् वृद्ध्यभावः । ७-९ समुत्प्रेभ्यः पर: द्रावः, संद्रवणं संद्रावः । 'द्रु गतौ'(भ्वा. प.अ.), 'समि द्रुदवः '३।३।२३॥ इति घञ् । उठ्वणम् उद्मावः । 'उदि श्रयति-'३।३।४९ ॥ इत्यादिना घञ् । प्रद्र वणं प्रद्रावः। 'प्रे द्रुस्तुनुवः'३।३।२७॥इति घञ् । नशनमपि, तालव्यमध्यम् । नव पलायनस्य । 'नासवर्ड' इति भाषा ॥
५० अथ विजयो जयः ।
१-२ विजयनं विजयः । जीयते जयः । 'जि जये'(भ्वा.प.अ.), 'जि अभिभवे'(भ्वा.प.अ.) वो, उभयत्र घञ् । द्वे जयस्य ॥
पराजयो रणे भङ्गः
१ पराजयनं पराजयः । भावे घञ् । रणे सङ्ग्रामे भङ्गोऽपसरणम्, अन्यत्राऽप्युपचारात् । एकं पराजयस्य ॥
- डमरे डिम्बविप्लवौ ॥८०३॥
१. 'आङः शसि इच्छायाम्'(भ्वा.आ.से.)इति क्षीरतरङ्गिण्यादयः ॥ २. 'अक्षौ' इति१, ‘अक्षानां' इति४ ॥ ३. 'युद्धस्य' इति१॥ ४. 'कुटिकशिकौतिभ्यः प्रत्ययस्य मुट् च'(उणादिगणसूत्रम्-१०६)इत्युणादिगणसूत्रस्वरूपम् ॥ ५. द्र. पदचनि पृ.६४६ ॥ ६. '-व्यं शम्' इति३.४॥ ७. '-त्त्यर्थः' इति४॥ ८. स्वोपज्ञटीकायामिदमुद्धरणं न दृश्यते ॥ ९. '-ख्याते' इति विश्वलोचनकोशे, पृ.१२८॥ १०. 'समि युद्रुदुवः' इत्यष्टाध्याय्याम् ॥ ११. ३प्रतौ नास्ति ॥ १२. '-वो' इति३, ‘-वौ' इति४॥ १३. ३.४प्रत्योर्नास्ति ॥ १४. 'एरच'३।३५६ ।। इत्यनेनाऽच् युक्तः ॥
१ दाम्यति डमरः । ‘दमु उपशमे'(दि.प.से.), 'दमे र्णिद्वेर्ति दस्य ड:-'(हैमोणा-४०२)इत्यरः, तत्र । २ डयन्तेऽस्माद् डिम्बः, पुंक्ली. । ३ विप्लवनं विप्लवः। 'प्लुङ् गतौ' (भ्वा.आ.अ.), 'ऋदोरप्'३।३१५७ ॥इत्यप् । त्रीणि विप्लव स्य । 'लूटि' इति भाषा । आयुधं विना कलहनामान्यमूनि" []इत्यन्ये । 'वेढि' इति भाषा ॥ (शेषश्चात्र-"स्याच्छृगाली तु विप्लवे"[शेषनाममाला ३।१५३ ॥]) ॥८०३॥
वैरनिर्यातनं वैरशुद्धिर्वैरप्रतिक्रिया ।
१ यतेति धातुरुपकारापकारयोश्चरादिः निपूर्वः, ततो
१० ल्युटि निर्यातनम्, वैरस्य निर्यातनं वैरनिर्यातनम् । २ वैर स्य ऋणस्येव शोधनं वैरशुद्धिः । ३ वैरस्य प्रतीकरणं वैरप्रतीकार:( वैरप्रतिक्रिया)। भावे घञ् । त्रीणि वैरभञ्जनस्य॥
बलात्कारस्तु प्रसभं हठः
१ "बलादिति निपातो हठार्थः"[अम.क्षीर.२ । ८।११०॥ इति स्वामी, तस्य करणं बलात्कारः । २ सभाशब्देनाऽत्र सभासाध्यो युक्तायुक्तविचारो लक्ष्यते, प्रगता सभा विचारोऽस्मात् प्रसभम्, क्लीबेऽयम् । वैजयन्ती तु-"प्रसभोऽस्त्री बलात्कारः"[वैजयन्तीकोष३७।२०९॥] इति पुंस्यप्याह । "क्लीबे तु प्रसभं हठे"[]इति वोपा
२० लितः । ३ 'हठ प्लुतिसङ्घद्धयो:'(भ्वा.प.से.), सङ्क्रुद्धः बलात्कारः, घबर्थे के हठः । मड्डा पियाणा एतौ देश्याम्, यद्देशीमादिषु शब्देष्वनेकार्थेषु मड्डा बलकारे आणासु । मड्डा बलात्कारः आज्ञा च"[]इति तट्टीका । एकार्थेषु पादिषु "बलकारम्मि पिणाओं "[देसीसद्दसंगहो ६५११॥] इति । त्रीणि हठस्य ॥
__अथ स्खलितं छलम् ॥८०४॥
१ स्खलनं स्खलितम् । 'स्खल स्खलने '(भ्वा. प.से.), 'निष्ठा'३।२।१०२॥ इति क्तः । २ छ्यति मर्यादां छिनत्ति छलम् । 'छो छेदने'(दि.प.अ.), वृषादित्वात् कलचि
साधुः । “छलं तु स्खलिते व्याजे"[विश्वप्रकाशकोशः,
३० लान्तवर्गः, श्री-१०]इति महेश्वरः । “स्खलितं परस्य वदतः ___ स्वाभिमतार्थान्तरविकल्पोपपादनेन वचनविघातः, यथा
'छलं कूपो नवोदक:'"[ ]इति षड्दर्शनसमुच्चयः । द्वे 'भूलचूकवरांसु' इति ख्यातस्य ॥८०४॥
परापर्यभितो भूतो जितो भग्नः पराजितः ।
१ परादिभ्यस्त्रिभ्यो भूतशब्दो योज्यः, तेन पराभूयते स्म पराभूतः, परिभूतः, अभिभूतः । ४ (जीयते स्म जितः । 'जि अभिभवे'(भ्वा.प.अ.), 'निष्ठा'३।२।१०२॥ इति
क्त: । ५ भज्यते स्म भग्नः । 'भो आमर्दने'(रु.प.अ.), . क्तः, 'ओदितश्च'८।२।४५ ॥ इति निष्ठानत्वम् । ६ पराजीयते
४० स्म पराजितः । षट् पराजितस्य । 'जीतीया(हारेलो)' इति भाषा ॥
पलायितस्तु नष्टः स्याद् गृहीतदिक् तिरोहितः ॥८०५॥
१ परावृत्य अयते स्म पलायितः । परापूर्वः 'अय गतौ'(भ्वा.आ.से.), निष्ठा, 'आर्धधातुकस्य- '७।२।३५ ।। इत्यादिनेट्, 'उपसर्गस्यायतौ'८।२।१९ ॥इति लत्वम् । २ नश्यति स्म नष्टः। 'णश् (णश) अदर्शने'(दि.प.से.), 'निष्ठा'३।२। १०२॥ इति क्त:, 'व्रश्च-'८।२।३६ ॥इति षत्व, ष्टुत्वम् । ३ गृहीता दिक् येन स गृहीतदिक, शकारान्तोऽयम् । ४ तिरोधत्ते
५० स्म तिरोहितः । 'डुधाञ् धारणादौ'(जु.उ.अ.), क्तः, 'दधातेर्हिः' ७।४।४२ ॥ इति धात्रो हिरादेशः । चत्वारि नष्टस्य ॥८०५॥
जिताहवो जितकाशी
१ जित: आहवः सङ्ग्रामोऽनेन जिताहवः । २ जितेन काशते रोचते जितकाशी । 'काश दीप्तौ'(भ्वा. आ.से.), ग्रहादित्वाणिनिः । “ते बध्यमाना बलिभिर्दा नवैर्जितकाशिभिः"[ ]इति पुराणम् । येन सङ्ग्रामो जित स्तस्य द्वे ॥
१. हैमोणादिगणसूत्रे 'इति' इति न दृश्यते ॥ २. '-क्लीबः' इति३ ॥ ३. 'लूं-' इति४॥ ४. '-मानीत्यन्ये' इति३॥ ५. कोष्ठान्तर्गतपाठः १.२.४प्रतिषु न दृश्यते ॥ ६. '-ऽयम्' इति ४प्रतौ नास्ति ॥ ७. द्र. टीकासर्वस्वम्, भा-३, २७।१०८ ॥, पृ.१४१ ॥, पदचन्द्रिका, भा-२, क्षत्रवर्गः, श्रो-५६२, पृ.६४५ ॥, रामाश्रमी२।८।१०८॥, पृ.३९३ ।। ८. 'हठ प्लुतिशङ्कबन्धनयोः' इति स्वामिमैत्रेयौ, 'हठ प्लुतिशठत्वयोः' इति सायणः ॥ ९. 'बला-' इति१ ॥ १०. 'पिउणा' इति२, 'पियाणओ' इति३॥ ११. तुलनीयोऽमरकोषः२।१८।१०८॥ १२. '-विद्रावणे' इति४, 'स्खल चलने' इति स्वामी, 'खल स्खल सञ्चलने' इति मैत्रेयः, 'स्खल सञ्चलने' इति सायणः ॥ १३. 'बलन्तु' इति विश्वप्रकाशकोशे दृश्यते, तत्तु प्रमाद एव, पृ.१४९, थो १०॥ १४. '-वरांसु' इति१, '-वरांसउ' इति४॥ १५. कोष्ठान्तर्गतपाठ: ४प्रतौ नास्ति ॥ १६. 'भंजू' इति३.४॥ १७. 'इतीट्' इति४॥ १८. 'नश्' इति४॥ १९. 'गत्यर्थाकर्मक-' इत्यादिना कर्तरि क्तो युक्तः ॥ २०. ३प्रतौ नास्ति ॥ २१. 'काशति राजति' इति४ ॥ २२. 'तैः' इति३ ।
प्रस्कन्नपतितौ समौ ।
१ प्रस्कद्यते स्म प्रस्कन्नः । 'स्कन्दिर् गतिशोष णयोः'(भ्वा.प.अ.), 'निष्ठा'३।२।१०२॥ इति क्तः, 'रदा भ्याम्-'८।२।४२ ॥ इति तस्य नत्वम् । २ पतति स्म पतितः । 'पत्लु पतने '(भ्वा.प.से.), 'निष्ठा'३।२।१०२॥ इति क्तः । द्वे पतितस्य । 'पडिउ' इति भाषा ॥
चारः कारा गुप्तौ
१ चरन्त्यत्रेति चारः । 'चर गतिभक्षणयोः'(भ्वा. प.से.), अधिकरणे घञ् । स्वार्थे कनि चारकोऽपि । २
१० कीर्यते क्रियते वाऽस्यां कारा । 'कृ विक्षेपे'(तु.प.से.), 'डुकृञ् करणे'(त.उ.अ.) वा, भिदादित्वादङि साधुः । ३ गुप्यतेऽस्यां गुप्तिः । 'गुपू रक्षणे'(भ्वा.प.से.), 'स्त्रियां क्तिन्' ३।३।९४॥, तत्र । त्रीणि चारस्य । ‘बन्दिखानु' इति भाषा ॥
बन्द्यां ग्रहकः प्रोपतो ग्रहः ॥८०६॥
१ वन्दते स्तौति भयेनेति बन्दी, स्त्रियाम् । 'वदि अभिवादनस्तुत्योः (भ्वा.आ.से.), पचाद्यचि गौरादिः, हठकृष्टा स्त्री, बलवतो हस्ते क्षिप्तो राजपुत्रादिश्च । यदाहु:-"बन्दी स्यात् पणबन्धस्थः"[]इति । २ गृह्यते ग्रहः, अच्, ततः स्वार्थे कनि ग्रहकः । ३-४ प्रोपोपसर्गाभ्यां ग्रहः प्रग्रहः,
२० उपग्रहः । चत्वारि ‘बान्द' इति ख्यातस्य ॥८०६॥
चातुर्वर्यं द्विजक्षत्रवैश्यशूद्रा नृणां भिदः ।
१ द्विजश्च क्षत्रश्च वैश्यश्च शूद्रश्च द्विजक्षत्रवैश्यशूद्रा वक्ष्यमाणा नृणां मनुष्याणां भिदो जातिविशेषाः चातुर्वर्ण्यम् उच्यत इत्यन्वयः । वर्ण्यन्ते वेदवाक्येन स्वस्वाचारेषु प्रेर्यन्ते वर्णाः । 'वर्ण चूर्ण प्रेरणे '(चु.उ.से.), कर्मणि घञ्। चत्वार एव वर्णाः चातुर्वण्यम् । 'चतुर्वर्णादीनां स्वार्थे ष्यञ् वाच्यः '(वा-५।१।१२४॥)। चतुःशब्दं विनापि 'वर्णः' इत्ययं शब्दो द्विजादीनां वाचकः । “वर्णो द्विजादौ शुक्लौ" [विश्वप्रकाशकोशः, णान्तवर्गः, शो-१३]इति महेश्वरः ।
३० द्विजादिचतुर्वर्णानां नामैकम् ॥
ब्रह्मचारी गृही वानप्रस्थो भिक्षुरिति क्रमात् ॥८०७॥
चत्वार आश्रमाः
१ क्रमादनुक्रमेण अर्थाद् द्विजातीनां चत्वार आश्रमाः, प्रोच्यन्त इत्यन्वयः । आश्रम्यन्ति स्वं स्वं तपश्चरन्त्यत्र आश्रमाः । 'श्रमु तपसि खेदे च'(दि.प.से.), आयूर्वः, 'हलश्च'३।३।१२१ ॥ इति घञ्, 'नोदात्तोपदेश-'७।३।३४॥ इत्यादिना वृद्ध्यभावः । १ ब्रह्म वेदस्तदध्ययनार्थं यद् व्रतं भिक्षाचरणं मेखलादिधारणं च, तदप्युपचारेण ब्रह्म, तच्चरितुं कर्तुं शीलमस्येति णिनिः ब्रह्मचारी, स च चतुर्विधः सवित्र ब्रह्मचारी, वेदब्रह्मचारी, प्राजापत्यब्रह्मचारी, नैष्ठिकब्रह्मचारी
४० चेति । २ अत्यक्तपञ्चयज्ञो धर्माधर्मार्थकाममोक्षपरः कृतदार परिग्रह इतराश्रमोपजीवी गृही । गृहा दारास्तद्योगादिनिः । सोऽपि वार्तावृत्तिः, शीलनवृत्तिः, यायावरः, घोरसन्नासी, वनवासी, जटाऽजिनवल्कलधारी, वन्याहारभोजी च । ३ वनस्य प्रस्थ एकदेशस्तत्र भवो विद्यमानो वा वानप्रस्थः । 'तत्र भवः'४।३५२॥ इत्यण । सोऽपि साग्निभार्यो निरग्नि भार्यश्चेति द्विविधः । अस्य च भूशय्याजटाऽजिनधारणवन वासवन्याहार भोजित्वं चेत्यादिधर्मः, सोऽपि औदुम्बरः, वैखानसः, संप्रतीक्ष्णी, पौर्णमासश्चेति चतुर्विधः, अत्राऽऽश्रमे क्षयितायु[स्तृतीय] भागः, काषायदण्डधरः, सर्वभूतेषु समो
५० ध्यानधारणाव्यसनाध्यापनपरः । ४ भीक्षाशी[लः] भिक्षुः । 'भिक्ष याच्वायाम्'(भ्वा.आ.से.), ( सनाशंसभिक्ष उ:'३। २।१६८॥) । सोऽपि कुटीबको बहूदको, हंसः, परमहंसश्चेति चतुर्विधः । “आश्रमो ब्रह्मचर्यादिचतुष्केऽपि मठेऽपि च" [विश्वप्रकाशकोशः, मान्तवर्गः, श्रो-४०]इति महेश्वरः । एकं ब्रह्मचर्यादिचतुर्णामाश्रम इति ॥८०७॥
तत्र वर्णी स्याद ब्रह्मचारिणि ।
___ १ तत्र तेषु चतुर्वाश्रमेषु आद्यवर्णशब्दो ब्रह्मचर्य पर्यायः, वर्णोऽस्त्यस्य वर्णी । 'वर्णाद् ब्रह्मचारिणि'५।२।१३४ ।। इति मत्वर्थे इनिः । २ ब्रह्म वेदा ब्रह्म तपो ब्रह्म ज्ञानं च
६० शाश्वतम्, तच्चरत्यर्जयत्यवश्यं ब्रह्मचारी । 'चर गतौ'(भ्वा.
१. 'तस्य नः' इति४॥ २. 'शल हुल पत्लु गतौ' इति क्षीरतरङ्गिण्यादयः ॥ ३. '-नो' इति३, '-नूं' इति४॥ ४. '-ऽस्त्रो' इति१.२.४ ॥ ५. 'हस्त-' इति१.२ ॥ ६. द्र. अम.क्षीर.२१८।१२० ॥, पृ.१९९ ॥, स्वोपज्ञटीका३८०६ ॥, पृ.१७९ ।। ७. मैत्रेयसायणसम्मतोऽयं धातुपाठः, 'वर्ण वर्णने', 'चूर्ण प्रेरणे' इति स्वामी ॥ ८. '-रि' इति३॥ ९. 'चा-' इति३॥ १०. 'प्र-' इति१॥ ११. 'क-' इति४॥ १२. कोष्ठान्तर्गतपाठः ३प्रतौ नास्ति ॥ . १३. इतः पूर्वेः ३प्रतौ 'अत्र' इति दृश्यते ॥
.. प.से.), आवश्यके णिनिः, तत्र । "क्रतौ महाव्रते पश्यन्
ब्रह्मचारीत्वरीरतम्"[नैषधीयचरितम्, सर्ग:-१७, श्री-२०३] इति श्रीहर्षः । द्वे ब्रह्मचारिणः ॥
अथ द्वितीयाश्रममाह –
ज्येष्ठाश्रमी गृहमेधी गृहस्थः स्नातको गृही ॥८०८॥
१ ज्येष्ठश्चासावाश्रमी च ज्येष्ठाश्रमी । २ गृहं कलत्रम्, तेन मेधते संगच्छति गृहमेधी । 'मेधृ मेधासङ्गत्यों:' (भ्वा.उ.से.), ग्रहादित्वाणिनिः । ३ गृहे निष्ठति गृहस्थः ।
'ष्ठा गतिनिवृत्तौ'(भ्वा.प.अ.), 'सुपि स्थः'३।२४॥ इति कः ।
१० ४ ब्रह्मचर्यं त्यक्त्वा यो गृहाश्रमं गतः स स्नातकः । वेदं समाप्य स्नातः स्नातकः । 'स्नाताद् वेदसमाप्तौ'(गणसू ५।४।२९ ॥, है मसू-७।३।२२ ॥)इति कन् । स्नातकश्च त्रिविधः । ब्रह्मचर्याचरणस्य यः शास्त्रबोधितोऽवधिस्तावद् व्रत[:] स्नातक इति । ५ गृहमस्याऽस्ति गृही । 'अत इनिठनौ'५।२।११५ ।। इतीनिः । पञ्च गृहस्थस्य ॥८०८॥
तृतीयाश्रममाह
वैखानसो वानप्रस्थः
१ विशेषेण खनति कन्दमूलादीनि वैखानसः । ‘खन खनने '(भ्वा.उ.से.), पृषोदरादित्वात् साधुः । २ प्रतिष्ठन्तेऽत्र
२० प्रस्थः, वनस्य प्रस्थे भवो वानप्रस्थः । द्वे वानप्रस्थस्य ॥
तुर्याश्रममाह
भिक्षुः सांन्यासिको यतिः ।
कर्मन्दी रक्तवसन: परिव्राजकतापसौ ॥८०९॥
पाराशरी पारिकाङ्क्षी मस्करी पारिरक्षिकः ।
१ भिक्षणशीलो भिक्षुः । 'भिक्ष याच्ञायाम्' (भ्वा.आ.से.), 'सनाशंसभिक्ष उ:'३।२।१६८॥ । २ कर्मणां संन्यसनं प्रक्षेपणं संन्यासः, स प्रयोजनमस्य सांन्यासिकः ।
'प्रयोजनम् '५।१।१०९॥ इति ठक् । ३ यततेऽपवर्गायेति यतिः । 'यती प्रयत्ने'(भ्वा.आ.से.), '-इन्'(उणा-५५७) इतीन् । " 'यमु उपरमे'(भ्वा.प.अ.), 'यमु नियमने '( )
३० अतो वा । " 'यमेस्तिक'( )इति तिकि यतिः"[] इत्यन्ये । ४ कर्मन्देन प्रोक्तं भिक्षुसूत्रं वेत्त्यधीते वा कर्मन्दी । 'कर्मन्दकृशाश्वादिनिः'४।३।१११ ॥ इतीनिः । कर्मन्दिनौ, कर्म न्दिनः इत्यादि । ५ रक्तं वसनमस्य रक्तवसनः । ६ परित्यज्य सर्वं संन्यस्य व्रजति परिव्राजकः । परिपूर्वः 'व्रज गतौ'(भ्वा.प.से.), ण्वुल् । ७ तपः शीलमस्य तापसः । 'तप:सहस्राभ्यां विनणौ '५।२।१०२ ॥ इत्यण् । [तपस्व्यपि]
॥८०९॥ ८ पराशरस्याऽपत्यं पाराशर्यः, गर्गादित्वाद् यञ् । तेन प्रोक्तं भिक्षुसूत्रमधीते पाराशरी । [पारशर्य]शिला लिभ्याम्- '४।३।११०॥इति णिनिः । ९ पारमस्याऽस्ति पारि
४० ब्रह्मज्ञानम्, तत् काङ्क्षति, ताच्छील्ये णिनिः । परं ब्रह्म ज्ञानमवश्यं काङ्क्षति पारिकाङ्क्षी । 'काक्षि वाञ्छा याम् (भ्वा.प.से.), ताच्छील्ये णिनिः, पृषोदरादित्वादादेर्दी र्घत्वम् । १० कर्मनिषेधं कर्तुं शीलमस्य मस्करी । 'मस्कर मस्करिणौ वेणुपरिव्राजकयोः '६।१।१५४॥ इति सुट् वृद्ध्यभाव उपपदस्य ह्रस्वत्वम् । माकरणशीलो मस्करीति वा । "स ह्याह- मा कृषत कर्माणि शान्तिर्वः, श्रेयसीति, वर्च स्कादित्वात् साधुः"[अभि-,स्वोपज्ञटीका३८१०] इत्या चार्याः । ११ परिरक्षा प्रयोजनमस्य पारिरक्षिकः । 'प्रयो जनम्'५।१।१०९ ॥ इति ठक् । एकादश संन्यासिनः ॥
५० स्थाण्डिलः स्थण्डिलशायी यः शेते शण्डिले व्रतात् ॥८१०॥
१ स्थण्डिल एव शेते स्थाण्डिलः । 'स्थण्डिलाच्छ यितरि व्रते'४।२।१५ ॥ इत्यण् । २ एवं स्थण्डिले तृणाद्या च्छादितभूभागे शेते स्थण्डिलशायी । 'व्रते'३।२।८०॥ इति णिनिः । यो व्रतात् व्रतविशेषात् स्थण्डिले यागार्थमसंस्कृतायां भूमौ शेते, तस्य द्वे ॥८१०॥
तपःक्लेशसहो दान्तः
१.-श्रमनामान्याह' इति४॥ २. 'तेऽत्र मेधन्ते' इति४॥ ३. 'मेधृ सङ्गमे च' इति क्षीरतरङ्गिण्यादयः ॥ ४. '-तीति' इति३॥ ५. 'स्नातं' इति४॥ ६. 'शास्त्रे' इति३॥ ७. 'खनु अवदारणे' इति क्षीरतरङ्गिण्यादयः ॥ ८. 'यम' इति स्वामिसायणौ ॥ ९. क्षीरतरङ्गिण्यादौ नियमनार्थकयमुधातुर्न दृश्यते ॥ १०. द्र. पदचन्द्रिका, भा-२, ब्रह्मवर्गः, श्रो-४४०, पृ.५२८ ॥ ११. 'तप:सहस्राभ्यां विनीनी'५।२।१०२ ॥, 'अण् च'५।२।१०३ ॥ इत्यष्टाध्याय्याम् ॥ १२. -निभ्याम्' इति१.३.४ ॥ १३. 'काक्षि वाक्षि माक्षि द्राक्षि ध्राक्षि ध्वाक्षि काङ्क्षायाम्' इति स्वामी, 'काक्षि वाक्षि माक्षि काङ्क्षायाम्' इति मैत्रेयसायणौ ॥ १४. 'मारक-' इति३ ॥ १५. 'कृत' इति३ ॥ १६. 'श्रेयसी' इति२॥ १७. 'सांन्या-' इति३ ॥ १८. 'स्था-' इति१.२॥ १९. तुलनीयोऽमरकोषः२७४२ ।।
१'क्लिश उपतापे'(दि.आ.से.), पचाद्यर्चि क्लेशः । तपसा क्लेशं सहते तपःक्लेशसहः । 'षह मर्षणे'(भ्वा. आ.से.), अच् । २ दम्यते स्म दान्तः । 'दमु उपशमे (दि.प.से.), [क्त:], 'वा दान्तशान्तपूर्ण- ७।२।२७ ।। इत्या दिना साधुः । द्वे कृच्छ्रादनुद्विग्नस्य ॥
शान्तः श्रान्तो जितेन्द्रियः ।
१ शाम्यति स्म शान्तः । 'शमु उपशमे'(दि.प.से.), क्तः, 'वा दान्तशान्त-'७।२।२७॥ इति साधुः । २ श्राम्यति स्म श्रान्तः । 'श्रमु तपसि खेदे च'(दि.प.से.), निष्ठा,
१० 'अनुनासिकस्य-'६।४।१५॥ इति दीर्घः । ३ जितानीन्द्रियाणि येन स जितेन्द्रियः । त्रीणि निवृत्तविषयस्य ॥
अवदानं कर्म शुद्धम्
१ अवदीयतेऽनेन अवदानम् । 'दोऽवखण्डने' (दि.प.अ.), करणे ल्युटि । शुद्धं सोत्कर्ष कर्म चरितम् । "अवदानं मतमितिवृत्ते कर्मणि खण्डने"[विश्वलोचन कोशः, नान्तवर्गः, श्रो-१६१]इति श्रीधरः । "नैर्ऋतघ्नमथ मन्त्रवन्मुनेः प्रापदस्त्रमवदानतोषितात्" [रघुवंशम्, सर्ग:-११, शो-२१]इति रघुः । एकं शुद्धकर्मणः ॥
ब्राह्मणस्तु त्रयीमुखः ॥८११॥
२० भूदेवो वांडवो विप्रो द्वयग्राभ्यां जातिजन्मजाः ।
वर्णज्येष्ठः सूत्रकण्ठः षट्कर्मा मुखसम्भवः ॥८१२॥
वेदगर्भः शमीगर्भः सावित्रो मैत्र एतसः ।
१ ब्रह्मणोऽपत्यं ब्राह्मणः । तस्याऽपत्यम्'४।१।१२॥ इत्यण् । ब्रह्म वेदस्तदधीते वा। तदधीते- '४।२५९॥ इत्यण् । 'ब्राह्मोऽजातौ'६।४।१७१ ॥ इत्यत्राऽजातावित्युक्तत्वादन्प्रकृत्या बह्म ज्ञानमणतीति पृषोदरादित्वाद्वा । ब्रह्मा एव वा, अभे दोपचारात् । २ त्रयीति वेदत्रयी मुखेऽस्य॑ त्रयीमुखः ॥८११॥ ३ भुवि पृथिव्यां देवः भूदेवः । भूवो भूम्या देव इवेति वा । ४ वाडव इवं वडवाग्निरिवाऽतृप्तत्वाद् वाडवः । वडवा.
३० ब्राह्मणी, तत्र भव इति वा, शेषेऽण् ।" 'वल संवरणे'(भ्वा. आ.से.), वलनं वालः, भावे घञ्, वाल इन्द्रियाणां विषयेभ्यः संवरणमित्यर्थः, डलयोरेके त्वस्मरणाद् वाडः, तद्योगाद् 'अन्यत्रापि(अन्येभ्योऽपि) दृश्यते'(वा-५।२।१०९॥) इति वः, वाडवः''["]इति तु व्याख्यामृतम् । “वडवा कुम्भदास्यश्वा स्त्रीविशेषा द्विजन्मनाम्"[]इति रभसः । ५ विशेषेण प्राति षट्कर्माणि पूरयति विप्रः। 'प्रा पूरणे'(अ.प.अ.), 'आतश्च-'३।१।१३६॥इति कः । उप्यते धर्मबीजमत्रेति वा । __ 'टुवप् बीजसन्ताने '(भ्वा.उ.अ.), 'ऋजेन्द्र-'(उणा-१८६) इत्यादिना रकि इत्वे च निपातनम् । विप्र इव ब्रह्मेव वा
४० विप्रः । "ब्रह्मा विप्रः प्रजापतिः"[अमरकोषः ३।३।११४॥] इत्युक्तेः ।६-११ व्यग्राभ्यां परे जातिजन्मजाः, द्वे देहोत्पत्ति संस्कारोत्पत्तिलक्षणे जाती जन्मनी वाऽस्य द्विजातिः, द्विजन्मा च । द्विजातिरित्यत्र जातिपरत्वेनाऽबन्धुपरत्वाज्जात्य न्ताच्छों न भवति । "मातुरग्रे विजननं द्वितीयं मौञ्जिबन्धनम्" [मनुस्मृतिः, अध्या-२, थो-१६९]इति स्मृतेः । द्विर्जातो द्विजः । 'अन्येष्वपि दृश्यते'३।२।१०१॥ इति जनेर्ड: । अग्रे प्रथममग्राद् ब्रह्मणो मुखाद् वा जातिर्जन्म वाऽस्य अग्र जातिः, अग्रजन्मा । अग्रेऽग्राद् वा जातः अग्रजः । 'अन्येष्वपि-'३।२।१०१।।इति डः । १२ वर्णानां मध्ये ज्येष्ठो
५० वर्णज्येष्ठः । १३ सूत्रं यज्ञोपवीतं कण्ठेऽस्य सूत्रकण्ठः । १४ षट् इज्यादीनि कर्माण्यस्य षट्कर्मा, नकारान्तः ॥
"इज्याध्ययनदानानि याजनाध्यापने तथा ।
प्रतिग्रहश्च तैर्युक्तः षट्कर्मा विप्र उच्यते ॥१॥"
[]इति स्मृतेः । १५ ब्रह्मणो मुखात् सम्भवति मुखसम्भवः ।
१. '-च' इति३.४ ॥ २. ४प्रतौ नास्ति ॥ ३. '-सि' इति३ ॥ ४. इतोऽग्रे १प्रतौ ‘-पूर्णेत्यादिना' इति दृश्यते ॥ ५. ४प्रतौ नास्ति ॥ ६. 'मुखस्य' इति२॥ ७. 'पृथ्व्यां' इति४॥ ८. 'वाडव इव' इति ३प्रतौ नास्ति ॥ ९. '-रैक्य-' इति३ ॥ १०. द्र. पदचन्द्रिका, भा-२, ब्रह्मवर्गः,
स्वम्, भा-३, २१७१४ ॥, पृ.४ ॥, तत्र, "वडवा कुम्भदास्यश्च स्त्रीविशेषो द्विजाङ्गना" इति दृश्यते, रामाश्रमी२।७।४॥, पृ.३२५ ॥, तत्र 'स्त्रीविशेषा' इत्यस्य स्थाने 'स्त्रीविशेषे' इति दृश्यते ॥ १२. 'बीजतन्तुसन्ताने' इति १.२.४, काशकृत्स्नमते च ॥ १३. 'जाति' इति१.३॥ १४. 'जात्यन्ताच्छ बन्धुनि'५।४।९ ॥ इत्यनेन ॥ १५. 'श्रुतेः' इति३ ॥, "मातुरग्रेऽधिजननं द्वितीयं मौञ्जिबन्धने" इति मनुस्मृत्याम्, पृ.६२॥ १६. 'युतः' इति१॥ १७. "अध्यापनमध्ययनं यजनं याजनं तथा । दानं प्रतिग्रहं चैव ब्राह्मणानामकल्पयत् ॥" (मनुस्मृतिः, अध्या-१, शो-८८, पृ.२२)इति, "अध्यापनमध्ययनं यजनं याजनं तथा । दानं प्रतिग्रहश्चैव षट्कर्माण्यग्रजन्मनः ॥" (मनुस्मृतिः, अध्या-१०, भो-७४, पृ.४११)इति च मनुस्मृतिः, "इज्याध्ययनदानानि वैश्यस्य क्षत्रियस्य च । प्रतिग्रहोऽधिको विप्रे याजनाध्यापने तथा ॥"(याज्ञवल्क्यस्मृतिः, आचाराध्यायः, भो-११८, पृ.५२)इति याज्ञवल्क्यस्मृतिः ॥ १८. '-तिः' इति३ ॥
पचाद्यच् ॥८१२॥ १६ वेदा गर्भेऽस्य वेदगर्भः । १७ शमीगर्भोऽग्निः, स इव घस्मरत्वात् शमीगर्भः । १८ सावित्री देवताऽस्येति सावित्रः । 'साऽस्य देवता'४।२।२४॥ इत्यण् । सावित्र्यनुवचनं विना मौञ्जीबन्धाभावात् । यन्मनु:
"तत्र यद् ब्रह्मजन्माऽस्य मौञ्जीबन्धनचिह्नितम् ।
तत्राऽस्य माता सावित्री पिता त्वाचार्य उच्यते ॥२॥"
[मनुस्मृतिः, अध्यायः-२, श्री-१७०] इति । १९ मित्रो देवताऽस्य मैत्रः । 'साऽस्य देवता'४।२।२४॥ इत्यण् । २० एति गच्छति यत्र तत्राऽपीति एतसः । 'इण् गतौ'
१० (अ.प.अ.), 'इणस्तसन्-'(उणा-४२९)इति तसन्प्रत्ययः । विंशतिर्ब्राह्मणस्य ||
बटुः पुनर्माणवकः
१ वटति वेष्टयति मौञ्जीमिति बटुः । ‘वट वेष्टने' (भ्वा.प.से.), भृमृस्तृ(भृमृशीत)-'(उणा-७)इत्यादिना बाहुल कादुः । २ मनोरपत्यं कुत्सितं मूढं वा माणवः । यत्प्रासाद:
"अपत्ये कुत्सिते मूढे मनोरौत्सर्गिकः स्मृतः ।
नकारस्य च मूर्धन्यस्तेन सिद्ध्यति माणवः ॥१॥"
[वा-४।१।१६१॥] । मणति शब्दायते वा । बाहुलकादवः । स्वार्थे कनि माणवकः । द्वे 'बडुओ' इति ख्यातस्य ॥
२० भिक्षा स्याद् ग्रासमात्रकम् ॥८१३॥
१ भिक्ष्यते भिक्षा । 'भिक्ष याच्ञायाम्'(भ्वा. आ.से.), कर्मणि घञ् । ग्रास एव ग्रासमात्रम्, ततः स्वार्थे कनि ग्रासमात्रकम् । यदाहु:-"मयूराण्डप्रमाणो ग्रासः," 'कवउं' इति लोकभाषाप्रसिद्धः, स एव ग्रासमात्रं मूलटीका । "मात्रं त्ववधृतौ स्वार्थे "[अनेकार्थसङ्ग्रहः २।४३६] " इत्यनेकार्थवचनाद् मात्रशब्दोऽत्र स्वार्थवाचकः, न तु 'प्रमाणे द्वयसज्दघ्नज्मात्रच: '५।२।३७ ॥ इत्यस्य, सति च तस्मिन् बहुव्रीहिः स्यात्, तस्मिंश्च सति 'टिड्डाणञ्-'४।१।१५ ॥ इत्या दिना ङीषि(ङीपि) ग्रासमात्रीति स्यात्, ततः कनि 'केऽणः'
३० ७।४।१३ ॥ इति इस्वत्वे च ग्रासमात्रिकेति स्यात्, न च तदुचितम्, ग्रासमात्रमित्यस्य स्वार्थद्योतकत्वात्, यावन्मात्र मित्यादिवदिति । यद्वा मात्रशब्दोऽयं वृत्तिविषये एव तुल्ये " प्रमाणे वर्तते, अत्र ग्रासस्य तुल्यप्रमाणमित्यस्वपदविग्रहे षष्ठी समासे ग्रासमात्रम्, यथा-'समुद्रमानं न सरोऽस्ति किञ्चन' []इतिवत्, ग्रासमात्रकं कवलप्रमाणमित्यर्थः । यदुक्तम्
__ "ग्रासप्रमाणो भिक्षा स्यादग्रं ग्रासचतुष्टयम् ।
___ अग्राच्चचुर्गुणं प्राहुर्हन्तकारं द्विजोत्तमाः ॥१॥"
[ ]इति । एकं भिक्षायाः ॥८१३॥
उपनायस्तूपनयो बटूकरणमानयः ।
१ उपनायनम् उपनायः, “मौञ्जीबन्धः । यन्मनु:-
४० "गर्भाष्टमेऽब्दे कुर्वीत ब्राह्मणस्योपनायनम्''[मनुस्मृतिः, अध्या - २, श्री-३६]इति। २ उपनयनम् उपनयः । ‘णीञ् प्रापणे' (भ्वा.उ.अ.), 'एरच्'३।३५६॥ इत्यच् । ३ अवटुवर्टः क्रियतेऽनेन बटूकरणम् । अभूततद्भावे 'कृभ्वस्ति-'५।४। ५० ॥ इत्यादिना च्विः, 'च्वौ च'७।४।२६ ॥ इत्युकारस्य दीर्घ त्वम् । ४ आनयनम् आनयः । ‘णीञ् प्रापणे'(भ्वा.उ.अ.), 'एरच्'३।३।५६ ॥इत्यच् । चत्वारि उपनयनस्य । 'मौञ्जीबन्ध' इति भाषा ॥
अग्नीन्धनं त्वग्निकार्यमाग्नीध्रा चाऽग्निकारिका ॥८१४॥
५० १ अग्निरिध्यते दीप्यतेऽस्मिन्निति अग्नीन्धनम् । 'जिइन्धी दीप्तौ'(रु.आ.से.), अधिकरणे ल्युट् । २ अग्नेः कार्यम् अग्निकार्यम् । एतावाद्यस्वरादी । ३ अग्निमिन्धे अग्नीत्, ऋत्वग्विशेषः, तस्य शरणम् आग्नीधा । 'जिइन्धी दीप्तौ'(रु.आ.से), 'अग्नीधः शरणे रञ् घश्च (रण भं च)' (वा-४।३।१२०॥)इति षष्ठयन्ताच्छरणे रञ्(रण)प्रत्ययः, भं चेति भत्वात् पदत्वाभावाजश्त्वं न भवति । शरणं गृहम् । जि(णि)त्त्वाद् वृद्धि: आग्नीध्रः, ततः टाप् । प्रज्ञादित्वात् स्वार्थेऽणि आग्नीध्रीत्यपि । ४ अग्ने: करणम् अग्नि कारिका । भावे ण्वुले । “एते चत्वारोऽपि कवर्गतृतीय-
६० चतुर्थवर्गपञ्चममध्याः "[ ]इति केचित् । चत्वारि ऋग्वेद काण्डेऽग्निविशेषस्य ॥८१४॥
पालाशो दण्ड आषाढो व्रते
१. 'त्वा वां य' इति१.२.४ ॥ २. '-शन्-' इत्युणादिगणे ॥ ३. 'यत्प्र-' इति१.३.४॥ ४. '-चः' इति४॥ ५. '-डू-' इति२.३ ॥ ६. '-क्षते' इति४॥ ७. '-त्रकम्' इति३ ।। ८. 'कन्' इति४॥ ९. '-वओ' इति१, 'कवो' इति३ ॥ १०. 'नु' इति३ ॥ ११. इतोऽग्रे रप्रतौ 'च' इति दृश्यते ॥ १२. इतोऽग्रे ३.४ प्रत्योः 'तद्' इति दृश्यते ॥ १३. 'तुल्य-' इति३ ॥ १४. '-रोसि' इति२ ॥ १५. 'ग्रासमात्रो प्रमाणं' इति३, '-णो' इति४ ॥ १६. 'हूते कारे' इति३॥ १७. '-नयनम्' इति४॥ १८. 'मो-' इति१.२.३ ॥ १९. '-रीध्यते' इति१.२.४ ।। २०. 'इन्धी' इति४ ॥ २१. १प्रतौ नास्ति ॥ २२. तुलनीयोऽमरकोषः२७।४५ ॥
१ व्रते ब्रह्मचर्याश्रमकर्मणि, दण्डो यष्टिः, पलाश स्याऽवयवो विकारो वा पालाशः । 'अवयवे च प्राण्यौ (ण्यो)षधिवृक्षेभ्यः '४।३।१३५॥ इत्यण् । २ आषाढा प्रयोजन मस्य आषाढः, मूर्धन्यमध्यः । 'विशाखाषाढा[द]न्(ण) मन्थदण्ड[योः] '५।१।११० ॥ इत्यण् । द्वे पलाशदण्डस्य ॥
राम्भस्तु वैणवः ।
१ व्रते दण्ड इत्येव, रम्भाया विकारो राम्भः । रम्भा शब्दोऽत्र वेणुपर्यायः । 'अवयवे च प्राण्योषधि- '४।३।१३५ ॥ __ इत्यण, वृद्धिमानसौ । 'रम्भः' इत्याद्यस्वरादिरपि । यन्महेश्वरः
१० "रम्भो वैणवदण्डके''[विश्वप्रकाशकोशः, भान्तवर्गः, श्रो-२१] इति । यथा 'अमुष्य सन्तापमुखामनिम्ना तृष्णा प्रशाम्येद् रजसा सहैव । श्रीमन्महाहंसनिषेवितत्वाददः सरो भो न न रोचते मे ॥१॥' []इति । अत्र सरो रेफसहितो भो भकारो मह्यं रोचते, रम्भ इत्यर्थः । अदः दकाररहितो न, दकारसहित इत्यर्थः । भो भकारो दम्भ इत्यर्थः, स तु न रोचत इत्यर्थः । २ वेणोर्विकारो वैणवः । प्लक्षादित्वादण् । द्वे वेणुदण्डस्य ॥
बैल्वः सारस्वतो रौच्यः
१ व्रते दण्ड इत्येव, बिल्वस्य विकारोऽवयवो वा
२० बैल्वः । 'बिल्वादिभ्योऽण् '४ ।३।१३६ । । २-३ सरस्वत्या विकारः सारस्वतः । रुच्यस्य विकारो रौच्यः । उभयत्र 'अवयवे च प्राण्यौ(प्राण्यो)षधि- '४।३।१३५ ॥ इत्यण् । त्रीणि बिल्वदण्डस्य ॥
पैलवस्त्वौपरोधिकः ॥८१५॥
१ व्रते दण्ड इत्येव पीलोर्विकारः पैलवः । 'अव यवे च प्राण्यौ(प्राण्यो)षधि- '४।३।१३५ ॥ इत्यण् । २ समीपमागच्छतां दुष्टसत्त्वानामुपरोधो निवारणं प्रयोजनमस्य औपरोधिकः । पृषोदरादित्वात् साधुः, रेफद्वादशस्वरवान् । द्वे पीलुवृक्षदण्डस्य ॥८१५॥
आश्वत्थस्तु जितनेमिः
३० १ अश्वस्थस्य विकारोऽवयवो वा आश्वत्थः । प्लक्षादित्वादण् । २ क्षुद्रजन्तुघातेन जिता नेमिरनेन जितनेमिः । व्रते एव । द्वे पिप्पलवृक्षदण्डस्य ॥
___ औदुम्बर उलूखलः ।
१ व्रते दण्ड इत्येव, उदुम्बरस्य विकोरोऽवयवो वा औदुम्बरः । 'अवयवे च वृक्षौ(प्राण्यो)षधि-'४।३।१३५ ॥ __इत्यण् । २ उलूखलशब्द उदुम्बरपर्यायः । उलूखलस्य विकारोऽवयवो वा उलूखलः । 'अवयवे च प्राण्यौ(प्राण्यो) षधि-'४।३।१३५ ॥ इत्यादिनाऽण, तस्य॑ 'पुष्पफलमूलेषु बहु लम्'(वा-४।३।१६६ ॥)इति लुक् । द्वे उम्बरवृक्षदण्डस्य ॥
४० "ब्राह्मणो बैल्वपालाशौ क्षत्रियौ(यो)वाटखादिरौ ।
पैलवौदुम्बरौ वैश्यो दण्डानहन्ति धर्मतः ॥१॥"
मनुस्मृतिः, अध्या-२, शो-४५] इति मनुः ॥
जटा सटा
१ जायते तपसि जटा । 'जनी प्रादुर्भावे'(दि. आ.से.), 'जनेरन्त्यलोपश्च (उणा-७०८)इति टः । जटतीति, 'जट झट सङ्घाते'(भ्वा.प.से.)इत्यस्य पचाद्यचि वा । २ सटति सटा । 'षट अवयवे'(भ्वा.प.से.), अच्, टाप् । द्वे तपस्विनां ग्रथितकेशरवातस्य ॥
वृषी पीठम्
५० १ ब्रुवन्तः सीदन्त्यस्यां वृषी । 'षद्लु विशरणादौ' (तु.प.अ.), पृषोदरादित्वात् । वर्षति आसनात् सुखं ददाति वा । 'वृषु सेचने '(भ्वा.प.से.), 'इगुपध-'३।१।१३५ ।। इति कः, ततो गौरादित्वाद् ङीष, मूर्धन्यान्तः । दन्त्यान्तोऽपि । "अतसी वृसी मांसी"[]इति दन्त्यान्तेषु चन्द्रगोमी । “वृषी (बृषी)"["]इत्यपि केचित् । पीठं तपस्विनामासनम् । एकं तपस्विनामासनस्य ॥
१. तुलनीयोऽमरकोषः२।७।४५ ॥ २. '-म्येन्द्रजसा' इति३.४ ॥ ३. १.२.३प्रतिषु नास्ति ॥ ४. “यथा-अमुष्य मुखामहिम्ना तृष्णाप्रशाम्येद्रजसा सहैव । श्रीमन्महाहंसनिषेवितत्वाददः सरोम्भो न रोचते मे । अत्र सरो रेफसाहितोंम्भो (सहिताम्भो) मह्यं रोचते रंभ इत्यर्थः । अदः दकाररहितः । दंभस्तु न रोचते-इत्यर्थः ।" इत्यनेकार्थकरवाकरकौमुदीटीका, भा-१, काण्ड:-२, शो-३०६, पृ.१७८ ॥ ५. 'रेफः' इति१.२.३ ॥ ६. 'त्रयोदश' इति ४प्रतेष्टप्पणी ॥ ७. '-स्थविका-' इति३ ॥ ८. 'प्रक्षा-' इति१ ॥ ९. 'ऊ-' इति३॥ १०. इतोऽग्रे ४प्रतौ 'मूलफलेषु' इति दृश्यते ॥ ११. 'पुष्पमूलेषु बहुलम्' इति वार्तिकस्वरूपं दृश्यते ॥ १२. 'ओ-' इति३॥ १३. 'जनेष्टन् लोपश्च'(उणा-७०८)इत्युणादिगणसूत्रस्वरूपम् ॥ १४. 'जटति' इति३ ॥ १५. ३.४प्रत्योर्नास्ति ॥ १६. 'षट्' इति३.४॥ १७. '-दरादिः' इति४॥ १८. इतोऽग्रे १प्रतौ 'वा' इति दृश्यते, 'पृषु वृषु मृषु सेचने' इति क्षीरतरङ्गिण्यादयः ॥ १९. ४प्रतौ नास्ति ॥ २०. 'ङीप्' इति१.४॥ २१. द्र. टीकासर्वस्वम्, भा-३, २७४६ ॥, पृ.४० ॥, पदचन्द्रिका, भा-२, ब्रह्मवर्गः, श्रो-४४२, पृ.५३० ॥, रामाश्रमी २७४६॥, पृ.३४२ ।।
कुण्डिका तु कमण्डलुः ॥८१६॥
१ कुण्डति(कुण्डते) दहति पिपासादिकं कुण्डी । 'कुडि दाहे'(भ्वा.आ.से.), अच्, गौरादिः, ततः स्वार्थे कनि कुण्डिका । 'केऽण: '७।४।१३।। इति इस्वत्वम् । कुण्डी त्यपि । “पतिवन्तीसुते जारात् कुण्ड: कुण्डी कमण्डलौ" [विश्वलोचनकोशः, डान्तवर्गः, शो-३] इति श्रीधरः । २ मण्डनं मण्डः । 'मडि भूषायाम्'(भ्वा.प.से.), भावे घञ् । कस्य पानीयस्य मण्ड: कमण्डः, तं लाति कमण्डलुः, पुंक्ली. ।
"अस्त्री कमण्डलुः"[अमरकोषः२।७।४६ ॥] इत्यमरः । पृषो
१० दरादित्वात् साधुः । द्वे कमण्डलोः ॥८१६॥
श्रोत्रियश्छान्दसः
१ छन्दोऽधीते श्रोत्रियः । 'श्रोत्रियंश्छन्दोऽधीते' ५।२।८४॥ इति साधुः, छन्दःशब्दस्य श्रोत्रादेशः । २ छन्दो वेत्त्यधीते वा छान्दसः । तदधीते तद्वेद'४।२।५९ ॥ इत्यण् । द्वे 'वेदिया' इति ख्यातस्य ॥
यष्टा त्वादेष्टा स्यान्मखे व्रती । याजको यजमानश्च
१ यजत इति यष्टा । 'यज देवपूजादौ'(भ्वा.-उ.अ.), ‘ण्वुल्तृचौ'३।१।१३३॥ इति तृच्, 'व्रश्च-'८।२।३६॥ इति
२० षत्वम्, 'ष्टुना ष्टुः'८४४१ ॥ । यष्टारौ, यष्टारः इत्यादि । २ मखेऽध्वरविषये ममेष्टसंपादनाय यूयं कर्म कुरुतेति ऋत्वि जामादेशको यागस्वामी, आदिशति आदेष्टा । 'दिश अति सर्जने '(तु.प.अ.), तृच् । आदिष्टीति इन्नन्तः पाठो वा । आदिष्टमनेनेति, 'इष्टादे:- '५।२।८८ ॥ इतीन्प्रत्यये आदिष्टी, तृतीयस्वरमध्यः, आदिष्टिनौ, आदिष्टिनः इत्यादि । ३ व्रत मेणाजिनादिधारणम्, तद्युक्तो व्रती । 'अत इनिठनौ'५।२। ११५ ॥ इतीनिः । ४ यजति याजकः । ण्वुल् । ५ यजते यजमानः । 'यज देवपूजादौ'(भ्वा.उ.अ.), 'पू(पू)यजोः शानन्'३।२।१२८ ॥, 'आने मुक् '७।२।८२ ।। । “यष्टा च यजमानः स्यादादिष्टी दीक्षितो व्रतो"[हलायुधकोश: २६४२० ॥]
३० इति हलायुधः । (“पञ्च यजमाने"[]इति तट्टीका । पञ्च
यजमानस्य । यज्ञकर्तुरित्यर्थः ॥
सोमयाजी तु दीक्षितः ॥८१७॥
१ सोमेनेष्टवान् सोमयाजी । 'करणे यजः '३।२। ८५॥ इति भूते णिनिः । सोमपानवत्यध्वरे यजमानः सन् दीक्षित उच्यते । २ 'दीक्ष मौण्डयेज्योपनयननियमव्रतादेशेषु' (भ्वा.आ.से.)इत्यतः क्तः, [टाप्] । दीक्षा सञ्जाताऽस्येति तारकादित्वादितच् वा । “अन्यत्राऽप्युपचारात्"[]इति कलिङ्गः । अमृतवेल्या यो यजते, तस्य द्वे ॥८१७॥
इज्याशीलो यायजूकः
४० १ इज्या यागो नित्यं तत्कर्ता इज्याशीलः । इज्या यजनं शीलमस्येति वा । २ पुनः पुनर्यजनशीलो यायजूकः । यजेर्यङन्तात् 'यजजपदशां यङः'३।२।१६६ ॥ इत्यूकः, 'यस्य हल:'६।४।४९ ॥ इति यङो लोपः । द्वे नित्यं यागकरणशीलस्य ।
यज्वा स्यादासुंतीबलः ।
१ इष्टवानिति यज्चा । 'यज देवपूजादौ'(भ्वा.उ.अ.), 'सुयजोवनिप्' ३।२।१०३॥, नकारान्तोऽयम् । २ आसुतिः सोमसन्धानमस्त्यस्य आसुतीबलः । 'रजःकृष्यासुतिपरिषदो वलच्'५ ।२।११२ ॥, 'वले'६।३।११८॥इति सूत्रेण पूर्वस्याऽणो दीर्घः । द्वे दर्शपूर्णमास्यादियज्ञकर्तुः ॥
५० सोमपः सोमपीथी स्यात्
१ सोमममृतवल्लीं पीतवानिति सोमपः । 'पा पाने' (भ्वा.प.अ.), 'आतोऽनुपसर्गे कः'३।२।३ ॥, 'आतो लोप इटि च'६।४।६४ ॥ इत्यालोपः । २ पानं पीथः । 'पा पाने' (भ्वा.प.अ.), 'पातृतुर्दिवचिरिचिसिचिभ्यः थक्'(उणा-१६४) इति थक्, 'घुमास्थागापाजहातिसां हलि'६४।६६ ॥इतीत्वम् । सोमस्य पीथोऽस्त्यस्य सोमपीथी । 'अत इनिठनौ'५। २।११५॥ इतीनिः । मिश्रास्तु-"सोमः सोमलतारसः पीतो
१. ४प्रतौ नास्ति ॥ २. 'कन्' इति४॥ ३. 'पुंस्त्री' इति४॥ ४ '-दीया' इति३॥ ५. 'इष्टादिभ्यश्च'५।२८८ ॥ इत्यष्टाध्याय्याम् ॥ ६. कोष्ठान्तर्गतपाठः ४प्रतौ नास्ति ॥ ७ 'मौंज्यो-' इति३, 'मौंडे-' इति४॥ ८. मौण्ड्यं वपनम्, इज्या यजनम्, उपनयनं मौर्वीबन्धः, नियमः संयमः, व्रतादेशः संस्करादेशकथनम्, द्र. क्षीरतरङ्गिणी, भ्वादिः, धातुसं-४०२, पृ.९२॥ ९, द्र. पदचन्द्रिका, भा-२, ब्रह्मवर्गः, यो-४०४, पृ.४९५ ॥ १०. तुलनीयोऽमरकोषः२ १७ १८ ॥ ११. '-नुदि-' इति१, '-तुचि-' इति४॥ १२. '-स्थजुहोतीनां' इति३ ।।
ऽनेनेति, 'इष्टादिभ्यश्च ५।२।८८ ॥ इतीनिः सोमपीतीति तका रोपधोऽयम्"[ ] इत्याहुः ।"सोमपीथी तु सोमप:"[अमर कोषः २।८।९ ॥] इत्यमरः । “सर्वदाऽयम्, दीक्षितस्तु तत्का लम्''[अम.रामाश्रमी२।७।९॥]इति तट्टीका, अत: "सोमयाजी तु दीक्षितः"[अभिधानचिन्तामणिनाममाला ३८१७॥] इत्य स्माद् भेदः । द्वे सोमपानयज्ञकर्तुः ॥
स्थपतिर्गीष्यतीष्टिकृत् ॥८१८॥
१ गीष्पतेर्ब्रहस्पतेरिष्टिं यज्ञं करोति गोष्पतीष्टिकृत् सन् स्थपतिः इत्युच्यते । सर्वान् वशे स्थापयतीति स्थपतिः ।
१० 'वशतेरतिः(वहिवस्यर्तिभ्यश्चित्)' (उणा-५००)इति बाहुल
कात् स्थापेरत्पतिः(स्थापेरप्यतिः) ह्रस्वत्वं च । "बृहस्पति सवेनेष्टं येनाऽसौ स्थपतिर्भवेत्''[हलायुधकोश:२।४१८॥] इति हलायुधः । एकं बृहस्पतिनामयागकर्तुः ॥८१८॥
सर्ववेदास्तु सर्वस्वदक्षिणं यज्ञमिष्टवान् ।
१ सर्वं स्वं द्रव्यं सर्वस्वं सर्वद्रव्यं दक्षिणा यत्र स सर्वस्वदक्षिणो विश्वजिन्नामा यागस्तं य इष्टवान् स सर्ववेदाः इत्युच्यत इत्यन्वयः । सर्वस्वं वित्तवान् सर्वस्वं वेदयति लम्भयति ऋत्विज इति वा । लाभार्थस्य विदेर्ण्यन्तादसुन् । सर्ववेदसौ, सर्ववेदसः इत्यादि । एकं
२० सर्वस्वदक्षिणयागकर्तुः ॥
यजुर्विदध्वर्युः
१ यजुर्वेदं वेत्ति यजुर्वित् । 'विद ज्ञाने'(अ. प.से.), क्विप् । २ अध्वरं याति अध्वर्यः । 'या प्रापणे' (अ.प.अ.), 'मृगय्वादयश्च'(उणा-३७)इति कुः, अध्वर शब्दान्तलोपो निपात्यते । अध्वरेण यौतीति, अपष्ट्वा दिर्वा । द्वे 'यजुर्वेदिया' इति ख्यातस्य ॥
ऋग्विद् होता
१ ऋजं वेदं वेत्ति ऋग्विद् । सम्पदादित्वात् __क्विप् । २ जुहोति होता । 'हु दानादनयो: '(जु.प.अ.),
३० 'नप्तनेष्टुत्वष्टहोतृपोतृ[ भ्रातृजा]मातृ-'(उणा-२५२) इत्यादिना
साधुः । द्वे ऋग्वेदिनः ॥
___ उद्गाता तु सामवित् ॥८१९॥
१ उच्चायति सामानीति उद्गाता, ऋदन्तः । 'गै शब्दे'(भ्वा.प.अ.), तृच् । २ सामवेदं वेत्ति सामवित् । 'विद ज्ञाने '(अ.प.से.), क्विप् । यज्ञे हि यजुर्ऋक् सामवेदविदो ब्राह्मणास्तिष्ठन्ति कटादिशाखाभेदेन । यन्माघ:
"सप्तभेदकरकल्पितस्वरं साम सामविदसङ्गमुज्जगौ ।
तत्र सूनृतगिरश्च सूरयः पुण्यमृग्यजुषमध्यगीषत ॥१॥"
[शिशुपालवधम्, सर्ग:-१४, शो-२१]इति । [द्वे सामवेदिनः] ॥८१९॥
४० यज्ञो योगः संवः सत्रं स्तोमो मन्युर्मखः क्रतुः ।
संस्तरः सप्ततन्तुश्च वितानं बर्हिरवरः ॥८२०॥
१ इज्यते हविर्दीयतेऽत्रेति यज्ञः । 'यज देवपूजादौ' (भ्वा.उ.अ.), 'यजयाच-'३।३।९० ॥ इत्यादिना नङ् । २ इज्यतेऽधीयते(इज्यते दीयते)ऽत्रेति यागः । अधिकरणे घञ् । यजनं वा यागः । भावे घञ् । ३ सूयते सोमोऽत्र सवः । 'घुञ् अभिषवे' (स्वा.उ.अ.), 'ऋदोरप्'३।३।५७॥ । ४ सीदन्त्यत्र देवाः सत्त्रम् । 'षद्लु विशरणादौ'(भ्वा.प.अ.), 'गुधृवीं पचिवचियमि ( मनितनि)सदिक्षदिभ्यस्त्रन् '(उणा-६०६)इति त्रन्, 'तितुत्र-७।२।९॥ इतीनिषेधः । ५ स्तौत्यत्र यजमानः
५० स्तोमः । 'ष्टुञ् स्तुतौ '(अ.उ.अ.), 'अर्तिस्तुसुहुधृक्षिक्षु भाया[वा] पदियक्षिनीभ्यो मन् '(उणा-१३७)। ६ मन्यतेऽसौ मन्युः, पुंसि । ['मन ज्ञाने'(दि.आ.अ.), 'यजिमनिशुन्धि-' (उणा-३००)इत्यादिना युच्] । ७ मखन्ति स्वभागं गृहीतु मागच्छन्ति देवा अत्रेति मखः । 'मख गतौ'(भ्वा.प.से.), 'पुंसि संज्ञायाम्-'३।३।११८॥इति घः । ८ करोति स्वर्गादिफलम्, क्रियते वा फलार्थिभिः क्रतुः, पुंसि । 'कृञः क्रतुः '(उणा ७७) इति सूत्रेण 'डुकृञ् करणे'(त.उ.अ.) अस्माद्धातो: कतुप्रत्ययः, 'लशक्वतद्धिते'१।३।८॥, 'इको यणचि'६।१। ७७ ॥ । क्रीयते सोमोऽत्रेति वा । " 'क्रीणातेर्डतुच्'( )इति
६० डतुच्''[] इत्येके । क्रतुशब्दः ससोमके यागेऽन्यत्र
१.द्र. पदचन्द्रिका, भा-२, ब्रह्मवर्गः, श्रो-४०५, पृ.४९६ ॥, तत्र "सोमः सोमलतारसः । स पीतोऽनेन । "इष्टादिभ्यश्छ(-श्च?)" (पा. ५२८८॥)इतीनिः । 'सोमपीती' ||" इति दृश्यते ॥ २. क्षीरस्वामिसम्मतोऽयं पाठः, '-पीती' इति पदचन्द्रिकारामाश्रमीसम्मतपाठः ॥ ३. 'सर्व' इति१.४॥ ४. '-यज्ञकर्तुः' इति४॥५. द्र. कातन्त्रोणागिदगणः १।१६।। ६. 'ययु-' इति३ ॥ ७. '-सारं' इति१॥ ८. 'सामवेदविद-' इति३ ।। ९. 'षु-' इति१.२ ॥ १०.'-वि-' इति३, ४प्रतौ नास्ति ॥ ११. इतोऽग्रे ३प्रतौ 'वधि' इति दृश्यते ॥ १२. '-पचिवधियमि-' इति४॥ १३. कोष्ठान्तर्गतपाठ उणादिगणे न दृश्यते ॥ १४. '-स्त्रः' इत्युणादिगणे ॥ १५. इतोऽग्रे ४प्रतौ 'डुकृञ् करणे' इति दृश्यते ॥ १६. द्र. पदचन्द्रिका, भा-२, ब्रह्मवर्गः, शो-४१०, पृ.४९९-५०० ॥
तूपचारादिति । ९ संस्तीर्यते दर्भा अत्रेति संस्तरः । 'स्तृञ् आच्छादने'(स्वा.उ.अ.), 'पुंसि संज्ञायाम्-'३।३।११८॥ इति घः ।१० पशुबन्धार्थं सप्त तन्तवोऽत्र सप्ततन्तुः, पुंसि । यद्वा सप्तङ्ख्यास्तन्तवो भेदा अस्य । यदुक्तम्-“अग्निष्टोमादयः संस्था भेदा: सप्ताऽस्य तन्तवः"[]इति । सप्तार्चिरग्निस्तन्तु मूलकारणमस्य सप्ततन्तुः, पृषोदरादिः [वा] । ११ वितन्यत इति वितानम्, पुंक्ली. । 'तनु विस्तारे '(त.उ.से.), कर्मणि घञ् । १२ बृंहति वर्धते धर्मोऽत्र बर्हिः, क्लीबे । 'बृहि वृद्धौ'(भ्वा.प.से.), 'बंहिवृंहेर्नलुक् चं'(हैमोणा-९९०) इतीस् ।
१० १३ ध्वरति कौटिल्यं करोति ध्वरः, [अच्], न ध्वरः अध्वरः । अध्वानं स्वर्मार्ग राति ददाति वा । सामान्येन त्रयोदश यज्ञस्य ॥८२० ॥
अथ विशेषानाह
अध्ययनं ब्रह्मयज्ञः
१ अधीयत इति अध्ययनम् । 'इङ् अध्ययने' (अ.आ.अ.), कर्मणि ल्युट् । २ ब्रह्मणे यजनं दानं ब्रह्म यज्ञः । द्वे ब्रह्मयज्ञस्य ॥
स्याद् देवयज्ञ आहुतिः । होमो होत्रं वषट्कारः
२० १ देवेभ्यो यजनं दानं देवयज्ञः । 'यजयाच-' ३३९० ॥ इत्यादिना नङ् । २ आहूयतेऽसावग्नौ आहुतिः । 'हु दानादनयोः '(जु.प.अ.), 'स्त्रियां क्तिन्'३।३।९४॥ । ३ देवतोद्देशेन हविषोऽग्नौ प्रक्षेपो होमः । 'हु दानादनयोः' (जु.प.अ.), 'अर्तिस्तुसुहु-'(उणा-१३७) इत्यादिना भावे मन् । ४ हूयते होत्रम् । 'हुयामा-'(उणा-६०७) इत्यादिना त्रन् । ५ वषडिति देवहविर्दानेऽव्ययम्, वषट्करणं वषट् कारः, घञ् । पञ्च देवयज्ञस्य ॥
पितृयज्ञस्तु तर्पणम् ॥८२१॥ तच्छाद्धं पिण्डदानं च
३० १ पितृभ्यो यजनं दानं पितृयज्ञः । २ तर्प्यतेऽनेन तर्पणम् । 'तृप तृप्तौ'(दि.प.वे.), करणे ल्युट् । मन्त्रपूर्वकं जलदानम्, तर्पणमित्यर्थः । यद् याज्ञवल्क्यः -"स्नात्वा देवान् पितूंश्चैव तर्पयेदर्चयेदथ"[याज्ञवल्क्यस्मृतिः, आचाराध्यायः, श्री-१००] इति ॥८२१॥ ३ अदनीयस्य तत्स्थानीयस्य॑ वा प्रेतोद्देशेन द्रव्यस्य श्रद्धया त्यागः श्राद्धम्, पुंक्ली. ।
यन्मरीचि:
"प्रेतं पितृनथोद्दिश्य भोज्यं यत्प्रियमात्मनः ।
श्रद्धया दीयते यत्तु तत् श्राद्धं परिकीर्तितम् ॥१॥"
[]इत्यवान्तरभेदोऽत्र नाऽऽश्रितः । ४ पिण्डो दीयतेऽस्मिन् पिण्डदानम् । अधिकरणे ल्युट् । चत्वारि यज्ञस्य ॥
४० नृयज्ञोऽतिथिपूजनम् ।
१ नृभ्यो मनुष्येभ्यो यजनं दानं नृयज्ञः । २ अतिथी नामासनान्नादिना दानेन पूजनं सपर्या अतिथिपूजनम् । द्वे नृयज्ञस्य ॥
भूतयज्ञो बलिः
१ भूतेभ्यः काकादिभ्यो यजनं दानं भूतयज्ञः । २ बलन्ति प्राणन्त्यनेन बलिः, पुंस्त्री । 'बल प्राणने'(भ्वा. प.से.), '-इन्'(उणा-५५७)इतीन् । द्वे भूतयज्ञस्य ॥
उपसंहारमाह
... पञ्च महायज्ञा भवन्त्यमी ॥८२२॥
५० ___ अमी ब्रह्मयज्ञादयः पञ्च महायज्ञा भवन्ति । यन्मनुः
"अध्ययनं ब्रह्मयज्ञः१ पितृयज्ञस्तु तर्पणम्।।
होमो दैवो३ बलिआँतो४ नृयज्ञोऽतिथिपूजनम्५ ॥१॥"
[मनुस्मृतिः, अध्या-३, शूो-७०] इति ॥८२२॥
पौर्णमासश्च दर्शश्च यज्ञौ पक्षान्तयोः पृथक् ।
१-२ पूर्णमास्यां भवः पौर्णमासः । पौर्णमास्याः सन्धिवेलादौ पाठादण् । दर्शादिपदसाध्यो यागः कार्य कारणभेदोपचाराद् दर्शादिपदवाच्यः, पृथग् भिन्नो न तु पर्यायः, पक्षान्तयोः शुक्लकृष्णपक्षप्रान्तयोः, पृथग् भिन्नौ, शुक्लपक्षान्ते पूर्णिमायज्ञ: कृष्णपक्षान्तेऽमावसीयज्ञ इत्यर्थः ।
६० "दर्शश्च पौर्णमासश्च यज्ञौ पक्षान्तयोः समौ" [अमरकोषः २७४८॥]इत्यमरः ।
१. द्र. स्वोपज्ञटीका३८२० ॥, पृ.१८२॥ २. 'बॅहेर्नलोपश्च'(उणा-२६६)इत्यप्युणादिगणसूत्रम् ॥ ३. 'स्वमार्ग' इति१॥ ४. 'जननं' इति३॥ ५. '-न्ते' इति२॥ ६. तत्स्थानीयत्स्थानीयस्य' इति ॥ ७. 'पितृयज्ञस्य' इति३॥ ८. मनुस्मृत्याम् 'अध्यापनं' इति दृश्यते, “अध्यापनशब्देनाध्ययनमपि गृह्यते । 'जपोऽहुत' इति वक्ष्यमाणत्वात् । अतोऽध्यापनमध्ययनं च ब्रह्मयज्ञः ।" इति मन्वर्थमुक्तावलीटीका, मनुस्मृतिः, ३७० ॥, पृ.९१ ॥ ९. ३प्रतौ नास्ति ॥ १०. 'शुक्ल-' इति१॥ ११-१. 'यागौ' इति, ११-२. 'पृथक्' इति चाऽमरकोषे ॥
सौमिकी दीक्षणीयेष्टिः
१ सोमः प्रयोजनमस्याः सौमिकी । 'प्रयोजनम्' ५।१।१०९॥ इति ठक् । २ दीक्षणीयस्य दीक्षार्हस्य इष्टिः दीक्षणीयेष्टिः । चन्द्रनिमित्तं यज्ञोऽसौ । दीक्षायोग्यस्य
यज्ञनामैकम् ॥
दीक्षा तु व्रतसङ्ग्रहः ॥८२३॥
१ दीक्षणं दीक्षा । 'दीक्ष मौ[ ड्ये]ज्योपनयन नियमव्रतादेशेषु'(भ्वा.आ.से.), 'गुरोश्च हलः'३।३।१०३ ॥ इत्यः । २ व्रतं शास्त्रतो नियमः, तस्य सङ्ग्रह व्रतसङ्
१० ग्रहः । द्वे दीक्षायाः ॥८२३॥
वृतिः सुगहना कुम्बा
१ वृतिः कण्टकाद्यावरणम्, (कण्टकानां वस्त्राणां वा,) 'वार्डि' इति भाषा, प्रस्तावाद् यज्ञवाटस्य, सा सुगहना निबिडा कुम्बा प्रोच्यते । कुम्ब्यते आच्छाद्यतेऽनया कुम्बा । 'कुबि आच्छादने'(चु.प.से.), चुरादिः, परस्मैपदी, 'चिन्ति पूजिकर्थिकुम्बि-'३।३।१०५ ॥ इत्यादिनाऽङ् । एकमन्य स्पर्शादिदोषवारणाय यज्ञस्थाने कृतवृतेः ॥
वेदी भूमिः परिष्कृता ।
१ वेदयति निवासयति द्रव्यजातं वेदिः । 'विद
२० चेतनाख्याननिवासेषु '(चु.आ.से.), चुरादिः, ततो ण्यन्ताद् 'अच इ.'(उणा-५७८), 'कृदिकारात्-'(गणसू-४।१। ४५॥)इति ङीष् [वेदी] । परिष्कृता यज्ञार्थं पशुबन्धनाय यज्ञिय पात्रीसादनाय वाऽऽहितसंस्कारा, सा डमरुकाद्याकारा पिण्डिका । एकं योगार्थं भूषितभूमेः ॥
स्थण्डिलं चत्वरं चाऽन्या
१ अन्याऽसंस्कृता भूमिः यागार्थमेव, स्थलन्ति तिष्टन्त्यत्रेति' स्थण्डिलम् । 'स्थल स्थाने '(भ्वा.प.से.), 'मिथिलादयश्च'(उणा-५७)इति इलचि निपात्यते । २
चतन्तेऽस्मिन्, चत्यते वा चत्वरम् । 'चतेडू याचने'(भ्वा. उ.से.), 'कृ(कृ)गशृवृ[ञ्] चतिभ्यः ष्वरच्'(उणा-२७९) ।
३० द्वे यागार्थमसंस्कृतभूमेः ॥
यूपः स्याद् यज्ञकीलकः ॥८२४॥
१ यूयते पशुरनेनेति यूपः । 'यु बन्धने'(त्र्या. उ.अ.), क्र्यादिः । 'कुसुयुभ्यश्च पः किद् दीर्घश्च'( ) इति पः, दीर्घत्वं च । पुंस्ययम् । "युपोऽस्त्री संस्कृत[:] स्तम्भः"[वैजयन्तीकोष:३।६।१०३ ॥] इति तुं वैजयन्ती । यज्ञे पशुविनाशनायें कीलको यज्ञकीलकः । एकं यज्ञस्तम्भस्य ॥
चषालो यूपकटके
१ यज्ञसमाप्तिसूचकपशुबन्धाद्यर्थं यज्ञभूमौ वैल्वः खादिरो वाऽष्टानिर्यः (अष्टास्रो यः) स्तम्भ आरोप्यते, स
४० यूपः, तस्य शिरसि वलयाकृतिर्य काष्ठविकारः स चषालः, मूर्धन्यमध्यः । चषति समाप्तिसंशयं चषालः, पुंक्लीबलिङ्गः । 'चष भक्षणे'(भ्वा.उ.से.), 'मा(सा)नसि[वर्णसि] पर्णसिले तण्डुलाङ्कशचषालोनलधिष्ण्ये(-चषालेल्वलपल्वलधिष्ण्य शल्याः) (उणा-५४७)इत्यालच्प्रत्यये निपात्यते । तक्ष्णा घटितो यूपाने कटकाकृतिः । “यूपमङ्गलिमिवोदनीनमद्भ(यूपरूप कमनीनमद्भुजं भू)श्चषालतुलिताङ्गुलीयकम्'' [शिशुपाल वधम्, सर्ग:-१४, शो-५२]इति माघः । एकं [यूपकटकस्य] ॥
यूपकर्णो घृतावनौ ।
१ यूपस्य कर्णो यूपकर्णः । घृतस्य सर्पिषः अवनिः
५० सिञ्चनस्थानं घृतावनिः, तत्र । एकं घृतसिञ्चनस्थानस्य ॥
यूपाग्रभागे स्यात् तर्म
१ यूपस्याऽग्रभागः शिरो यूपाग्रभागः, तत्र । तरति प्लवते दूरादभिव्यक्तिं यातीति तर्म, क्लीबे । 'तृ प्लवन तरणयोः'(भ्वा.प.से.), '-मन्'(उणा-५८४)इति मन् । वाच स्पतिस्तु-"युपाने तर्म न स्त्रियाम्''["]इति पुंस्यप्याह । तर्माणौ, तर्माणः इत्यादि । एकं यूपाग्रभागस्य ॥
१. 'शास्त्रि-' इति१.२ ॥ २. कोष्ठान्तर्गतपाठः ४प्रतौ नास्ति ॥ ३. 'वाड' इति२ ॥ ४. '-कुथि-' इति४ ।। ५. 'इत्याङ्' इति४ ॥ ६. '-त्तेः' इति३.४ ।। ७. 'चेतना-' इति३.४ ॥ ८. 'चेतनाख्यानविवादेषु' इति स्वामी, 'वेदनाख्याननिवासेषु' इति मैत्रेयः ॥ ९. 'ङीप्' इति१.२॥ १०. '-नार्थ' इति४॥ ११. '-त्र' इति१ ।। १२. '-न्ते' इति४॥ १३. ङकारोऽनावश्यकः, उभयपदित्वस्य विघातकत्वात् ॥ १४. इतः पूर्वे ४प्रतौ 'एकं' इति दृश्यते ॥ १५. '-नेन' इति४ ॥ १६. 'यूञ्' इति१.३ ॥ १७. 'कुयुभ्यां च'(उणा-३०७)इत्युणादिगणसूत्रम् ॥ १८. १प्रतौ नास्ति ॥ १९. '-विनाशाय' इति१, '-बन्धनाय विनाशाय इत्यपि' इति३, -बन्धनाय' इति४॥ २०. २प्रतौ नास्ति ॥ २१. '-प्तिः' इतिर, '-प्ति' इति४॥ २२. 'पुंक्ली' इति३ ॥ २३. '-ल-' इत्युणादिगणसूत्रे नास्ति ॥ २४. 'यूपोग्रे' इति३ ॥ २५. '-क्तं' इति३.४ ॥ २६. द्र. स्वोपज्ञटीका ३८२५ ॥, पृ.१८३ ।।
अरणिर्निर्मन्थदारुणि ॥८२५॥
१ ऋच्छति प्राणयति (प्रापयति) अग्निम् अरणिः, पुंस्त्री । "अरणिर्द्वयोः''[अमरकोषः२७।१९॥]इत्यमरः । 'ऋ गतौ प्रापणे च'(भ्वा.प.अ.), 'अर्तिसृधृधमि-[धम्यम्यश्य वित]भ्योऽनि: '(उणा-२५९), 'कृदिकारात्-'(गणसू-४।१। ४५ ॥)इति ङीषि अरणी च । अग्नेर्निर्मन्थाय दारु काष्ठं निर्मन्थदारु, तत्र । असौ वनस्पतिकायोऽपि यज्ञोपयोगित्वाद् यज्ञाधिकारे पठितः । एकमरण्याः ॥८२५॥ स्युदक्षिणाऽऽहवनीयगार्हपत्यास्त्रयोऽग्नयः ।
१० १ ('दक्षिणदिशि वर्तमानोऽग्निः दक्षिणः । दक्षिणे पार्श्वे स्थाप्यत्वाद् दक्षिणो वा ) । अर्धचन्द्राकृतिरयम् १ । २ आयूर्वाद् जुहोतेः 'कृत्यल्युटो बहुलम्'३।३ १३२ ॥ इत्यधि करणेऽनीयर् । आहवनमर्हतीति 'प्राक् क्रीताच्छ:'५।१।१॥ इति छप्रत्यये वा आह्वनीयः, चतुरस्रोऽयम् २। ३ गृहपति र्गृहस्वामी, तेन संयुक्तो नित्यसम्बद्धो गार्हपत्यः । 'गृहपतिना संयुक्ते ज्य:'४।४।९० ॥ इति ज्यः । अयं च सदा रक्षणीयो वर्तुलाकारश्चेति ३। एते त्रयोऽग्नयः ॥
इदमग्नित्रयं त्रेता
१ इदमुक्तमग्नित्रयं त्रेता उच्यते । त्राणं त्राः सदा सन्धु
२० क्षणम्, तामिताः(तामिता) प्राप्ता त्रेताः (त्रेता) । त्रायन्ते त्रा अग्निहोत्रिण आहुतयश्च, त्रामिता वात्रेता । [एकं अग्नित्रयस्य] ॥
प्रणीत: संस्कृतोऽनलेः ॥८२६॥
१ प्रणीयते स्म प्रणीतः । संस्कृतो मन्त्रादिना, यथा 'प्रणीत जुहुयाद्रव्यम्"[] ।एकं मन्त्रादिसंस्कृताग्नेः ॥८२६॥
ऋक् सामिधेनी धाय्या च समिदाधीयते यया ।
१ 'ऋच स्तुतौ'(तु.प.से.), 'अन्येभ्योऽपि दृश्यते' ३।२।१७८ ॥ इति क्विपि ऋक्, यया ऋचाऽग्नौ समिद् इन्धनमाधीयते क्षिप्यते, सा ऋक् सामिधेनी चापरा धाय्या
उच्यत इत्यन्वयः । समिधामाधानी सामिधेनी । 'समिधामा धाने खेनण(षेण्यण) '(वा-४।३।१२०॥) । "तेजो हुताशन-
३० समिन्धनसामिधेनी''[]इति मुरारिः । धीयते पुष्यतेऽग्निरनया धाय्या । 'डुधाञ् धारणादौ'(जु.उ.अ.), 'पाय्यसांनाय्य निकाय्यधाय्या-'३।१।१२९ ॥ इति साधुः, टाप् । यया ऋचा अग्नाविन्धनं क्षिप्यते, तस्या द्वे ॥
समिदिन्धनमेधेध्मतर्पणैधासि
१ समिध्यते वह्निरनया समित्, स्त्रीलिङ्गः। 'जिइन्धी दीप्तौ'(रु.आ.से.), सम्पदादित्वात् क्विप् । २ इध्यतेऽनेन इन्धनम् । 'झिइन्धी दीप्तौ'(रु.आ.से.), करणे ल्युट् । ३ इध्यतेऽग्निरनेन एधः । 'जिइन्धी दीप्तौ'(रु.आ.से.), 'अवो दैधौद्य-'६।४।२९ ॥ इति निपात्यते । अकारान्तोऽयम् । यथा-
४० __ "एधान् हुतासन(शन)वतः स मुनिर्ययाचे''[रघुवंशम्, सर्गः _९, श्री-८१]इति रधुः । ४ 'इषियुधि-'(उणा-१४२)इति __ मकि इध्मम्, क्लीबे । “इध्मोऽस्त्री"[वैजयन्तीकोष:
३।६।९६ ॥]इति वैजयन्ती । ५ तृप्यतेऽग्निरनेन तर्पणम् । "तृप तृप्तौ '(तु.प.से.), ल्युट् । ६ इध्यतेऽनेन एधः, क्लीबे । 'बिइन्धी दीप्तौ'(रु.आ.से.), औणादिकोऽसुन्, बाहुलकान लोपः । एधसी, एधांसि इत्यादि । षडिन्धनस्य ॥
भस्म तु ॥८२७॥ स्याद् भूतिर्भसितं रक्षा क्षारः
१ भसति तदिति भस्म, क्लीबे । 'भस भर्त्सन-
५० दीप्त्योः '(जु.प.से.), '-मन्'(उणा-५८४)इति मन् ॥८२७॥ २ भूयतेऽनया भूतिः । 'स्त्रियां क्तिन्'३।३।९४॥ । ३ बभस्ति वह्निना भसितम् । बाहुलकाद् वर्तमाने क्तः । ४ रक्ष्यतेऽग्निरनयेति रक्षा । 'रक्ष पालने'(भ्वा.प.से.), भिदा दित्वादङ् । ५ क्षरति क्षारः । 'क्षर सञ्चलने'(भ्वा.प.से.), ज्वलादित्वाण्णः । पञ्च भस्मनः ॥
पात्रं नुवादिकम् ।
१. कोष्ठान्तर्गतपाठस्थाने १.२.३प्रतिषु "दक्षिणाया दिशोऽग्निः दक्षिणाग्निः । सर्वनाम्नो वृत्तिमात्रे पुंवद्भावे दक्षिणाग्निः । दक्षिणपार्श्वे स्थाप्यत्वाद् दक्षिणः । स चासावग्निश्चेति वा ।" इति दृश्यते, स तु दक्षिणाग्निशब्दं लक्ष्यीकृत्य ॥ २. 'गृहे' इति४॥ ३. 'प्राप्ताः' इति१.२.४॥ ४. 'त्रेताः' इति१.२॥ ५. तुलनीयोऽमरकोषः २७।२०॥ ६. 'प्रणीयते' इति३॥ ७. द्र. अनेकार्थकैरवाकरकौमुदीटीका, भा-२, ३१२६६ ॥, पृ.११८॥, तत्र 'द्रव्यम्' इत्यस्य स्थाने 'हव्यम्' इति दृश्यते ॥ ८. ४प्रतौ नास्ति ॥ ९. १.२प्रत्योर्नास्ति ॥ १०. '-रं' इति१.२.४ ।। ११. '-ना' इति४॥ १२. '-नी' इति३॥ १३. '-ङ्गा' इति१.२॥ १४. इतः पूर्वे ३प्रतौ 'तृप्यति' इति दृश्यते ॥ १५. '-या' इति४॥
१ पिबन्त्यनेन पात्रम् । 'पा पाने'(भ्वा.प.अ.), '-ष्ट्रन्'(उणा-५९८) । “पात्रं स्रुवादौ पर्णे च राजमन्त्रिणि चेष्यते''[विश्वप्रकाशकोशः, रान्तवर्गः, श्रो-३६]इति महेश्वरः । सामान्येन स्रुवादियज्ञपात्राणामेकम् ॥
स्रुवः नुक्
१ स्रवत्यस्मात् त्रुवः, पुंसि । 'त्रु गतौ'(भ्वा. प.अ.), 'सुवः कच्किचौ (स्रुवः कः)'(उणा-२१९), 'चिक् च'(उणा-२२०)इति कच्किचौ(ककिचौ) प्रत्ययौ,
इकारककारानुबन्धावितौ, एतौ भीमादित्वादपादानम्, 'अचि
१० श्रुधातु-'६।४७७ ॥ इत्युवङ् । २ स्रवति हविरस्याः शुक्, स्त्रियाम् । 'स्त्रु गतौ'(भ्वा.प.अ.), 'चिक् च'(उणा-२२०) इति चिक् । सुचौ, स्रुचः इत्यादि । द्वावपि दन्त्यौष्ठाद्य स्वरान्तौ । द्वे 'सरुआ' इति ख्यातस्य ॥
अधरा सोपभृत्
१ सा स्रुग् अधरा हीना, लध्वीत्यर्थः । “अधरो दन्तवसनेऽनूधै हीनेऽधरोऽन्यवत्''[ विश्वप्रकाशकोशः, रान्त वर्गः, श्री-९६] इति महेश्वरः । उपाधिकं बिभर्ति उपभृत्, स्त्रीलिङ्गः । इयं चक्राकारा । एकं लघुस्रुचः । 'नाना सरूआ' इति भाषा ॥
२० जुहूः पुनरुत्तरा ॥८२८॥
१ जुह्वत्यनया जुहूः, स्त्रीलिङ्गः । 'हु दानादनयोः' (जु.प.अ.), 'द्युतिगमिजुहोतीनां द्वे च'(वा-३।२।१७८ ॥)इति क्विप् । जुह्वौ, जुह्वः इत्यादि । चमूवदियं पालाशी बाहुमात्री च। पुनः सा स्रुग् उत्तरा वृद्धा। एकं महत्या स्रुचः ॥८२८॥
ध्रुवा तु सर्वसंज्ञार्थं यस्यामाज्यं निधीयते ।
१ यस्यां सुचि सर्वसंज्ञार्थमाज्यं निधीयते स्थाप्यते, सा ध्रुवा । ध्रुवति स्थैर्यं भजति ध्रुवा । 'ध्रुव(ध्रु) स्थैर्ये' (तु.प.से.), अच्, कुटादित्वाद् ङित्त्वे, उवङ्, टाप् । इयं
वटपत्त्राकृतिः । स्रवादीनां विचार: कात्यायनसूत्राद् ज्ञेयः ॥
३० योऽभिमन्त्र्यनिहन्येत सस्यात्पशुरुपाकृतः॥८२९॥
१ योऽभिमन्त्र्य मन्त्रेण पूतीकृत्य निहन्यते, स पशुः उपाकृतः इत्युच्यते । उपामन्त्र्य क्रियते निहन्यते स्म उपा कृतः । 'कृञ् हिंसायाम्'(स्वा.उ.अ.), 'निष्ठा'३।२।१०२ ।। इति क्तः । "उपाकृतः पशुरसौ योऽभिमन्त्र्य कृतो हतः" [अमरकोषः२७।२५ ॥] इत्यमरः । जीवत्यपि पशावुपाकृत इति दृश्यते, “यदाऽसावुपाकृतः पलायितः"[ ]इति प्रायश्चित्तोप देशात् ॥८२९॥
परम्पराकं शसनं प्रोक्षणं च मखे वधः ।
१ परमित्यतिशयार्थेऽव्ययम्, परः श्रेष्ठः आको गतिरस्य परम्पराकम् इति बहुव्रीहिः । “हता हि पशवः परां
४० गतिमवश्यं लभन्ते ''[ ]इति स्मृते: । २ शस्यते हिंस्यते शसनम्। 'शसु हिंसायाम्'(भ्वा.प.से.), तालव्यादिः, दन्त्यान्तः, भ्वादिः, परस्मैपदी, ल्युट् । ३ प्रकृष्टं सद्गतिजनकमुक्षणमस्य प्रोक्षणम् । मखे यज्ञे वधो हिंसा, तस्यास्त्रीणि ॥
हिंसा) कर्माभिचारः स्यात्
१ विपक्षादीनां हिंसा) हिंसानिमित्तं कर्म उच्चाटन मारणादि, तस्य एकम् अभिचारः इति । अभिभवितुं चरण मभिचारः । 'चर गतौ भक्षणे च'(भ्वा.प.से.), भ्वादिः, पर स्मैपदी, भावे घञ् ॥
यज्ञार्हं तु यज्ञियम् ॥८३०॥
५० १ यज्ञो नाम क्रियासमुदायः, कश्चित्तदभिव्यङ्ग्यं चाऽप्रकाश्यमित्यर्थः, अपूर्वफलदानसमर्थमदृष्टमित्यर्थः, यज्ञकर्म अर्हति यज्ञियम् । अर्हतीत्यर्थे 'यज्ञवि[ग्] भ्यां खघजो (घखौ) '५।१७१ ।। इति घञ् (घः)। तच्च त्रिषु यज्ञियो ब्राह्मणः, यज्ञिया भूमिः, यज्ञियं द्रव्यम् । एकं सामान्येन यज्ञयोग्यस्य ॥८३०॥
हविः सान्नाय्यम्
१ हयते हविः, क्लीबे । 'हु दानादनयोः (जु. प.अ.), 'अर्चिरुचिसुचि(शुचि)-'(उणा-२६५)इत्यादिना
१. 'पर्णेऽपि' इति विश्वप्रकाशकोशे, पृ.१२८ ॥ २. 'सरूआ' इति३॥ ३. '-वः' इति४॥ ४. 'छोटा' इति४॥ ५. 'जुहोतेर्दीर्घश्च'(वा ३।२।१७८ ॥)इत्यनेन दीर्घः ॥ ६. 'जीव्य-' इति४॥ ७. द्र. पदचन्द्रिका, भा-२, ब्रह्मवर्गः, श्रो-४२२, पृ.५१२॥, तत्र 'पलायितः' इत्यस्य स्थाने 'पलायते' इति दृश्यते ॥ ८. 'लभते' इति१॥ ९. '-तिः' इति३ ॥ १०. 'यज्ञविग्भ्यां तत्कर्माहतीत्युपसंख्यानम्'(वा-५।१७१ ॥)इत्यपि वार्तिकम् ॥ ११. 'अर्चिशुचिहु-'(उणा-२६५)इत्युणादिगणे ॥
इस् । २ सन्नीयते वह्निना संयोज्यते सानाय्यम् । ‘णी प्रापणे'(भ्वा.उ.अ.), 'पाय्यसान्नाय्य-'३।१।१२९ ॥ इत्यादिना साधुः। “सन्नाय्यमिति दन्त्याद्यस्वरादिरपि''[]इति हलायुध टीको । द्वे होतव्यद्रव्यस्य ॥
आमिक्षा शृतोष्णक्षीरगं दधि । क्षीरेशरः पयस्या च
१ "आपूर्वाद् ‘मिहेर्दीर्घश्च'( )इति षः, उपधा दीर्घत्वं चेति दीर्घमध्येयम्"[]इति पुरुषोत्तमः । “आङ् पूर्वाद् ‘मिष स्पर्धायाम् '(तु.प.से.)इत्यतः 'स्थः व्रश्चि
१० कुडिकुषिभ्यः (स्नुव्रश्चिकृत्यृषिभ्यः) कित्'(उणा-३४६)इति बाहुलकात् किप्रत्यये ह्रस्वमध्येयम् '[]इति गोवर्धनः । आमीयते क्षिप्यते दध्योति आमिक्षा वा । शृतं पक्वमुष्णं तप्तं [च] यत् क्षीरं दुग्धम्, तद् गच्छतीति डप्रत्यये शृतोष्ण क्षीरगम् । एतादृग् दधि आमिक्षेत्यन्वयः । २ क्षीरस्य शरो मण्डः क्षीरशरः । "शरशब्दोऽत्र दधिसारवाची तालव्यादिः, दन्त्यादिरपि"[]इति प्रागेव निर्णीतम् । ३ पयसो विकारः पयस्या । 'गोपयसोर्यत्'४।३।१६० ॥ इति यत्, टाप, स्त्री लिङ्गः । त्रीणि तप्तदुग्धनिहितदधिहव्यविशेषस्य ॥
तन्मस्तु तु वाजिनम् ॥८३१॥
२० १ तस्या आमिक्षाया मस्तु मण्डः तन्मस्तु, तत्र । वजति वाजिनम् । 'वज गतौ'(भ्वा.प.से.), बाहुलकादिनचि प्रत्यये निपात्यते । एकमामिक्षामण्डस्य ॥८३१॥ हव्यं सुरेभ्यो दातव्यम्
१ हूयत इदं हव्यम् । 'हु दानादनयोः '(जु.प.अ.), 'अचो यत्'३।१।९७ । । " 'ओरावश्यके'३।१।१२५ ॥ इति ण्यत्''[मा. धातुवृत्तिः, जुहोत्यादिः, धातुसं-१]इति माधवः । बाहुलकाद् वृद्ध्यभावः । सुरेभ्यो देवेभ्योऽग्निमुखेन दातव्य मोदनमन्नं हव्यमित्यन्वयः । अग्रे स्थितमोदनमिहाऽपि योज्यम् । एकमग्निमुखेन देवेभ्यो दातव्यान्नस्य ॥
पितृभ्यः कव्यमोदनम् ।
३० १ ब्राह्मणमुखेन पितृभ्यो दातव्यमनमोदनमन्नं कव्यम् इत्यन्वयः । कव्यते तृप्तिकारणत्वेन वर्ण्यते कव्यम् । 'कबृ वर्णने '(भ्वा.आ.से.), 'पोरदुपधात्'३।१।९८॥ इति यत् । कूयते शब्दयत इति वा । 'कु शब्दे'(अ.प.अ.), 'अचो यत्'३।१।९७॥। एकं ब्राह्मणमुखेन पितृभ्यो दातव्यान्नस्य ॥
आज्ये तु दधिसंयुक्ते पृषदाज्यं पृषातकम् ॥८३२॥
१-२ दधिसंयुक्ते आज्ये घृते पृषदाज्यम्, पृषात कम् एतौ । पर्षति सिञ्चति पृषत्, पृषदाज्यमत्रेति पृषदा ज्यम् । पृषच्च तदाज्यं चेति वा । पृषद्भिर्दधिबिन्दुभिः सहितमाज्यं पृषदाज्यमिति वा । दधिषाज्यमित्यपि । “पृषदाज्यं
४० सदध्याज्ये"[अमरकोषः२७।२४॥] इत्यमरः । पृषद्भिरङ्क्यते पृषातकम्, पृषोदरादिः । पृषदित्यपि उणादिगणरत्नमहो दधिवृत्त्योः, चतुर्थवर्गाद्यन्तः, क्लीबलिङ्गः, यथा पृषोदरो देवताविशेषः । द्वे दधिमिश्रितघृतस्य ॥८३२॥
दध्ना तु मधुसम्पृक्तं मधुपर्क महोदयः ।
१ मधुनः क्षौद्रस्य पर्कः सम्पर्कोऽत्र मधुपर्कम् । मधुना पृच्यत इति वा । २ महानुदयोऽस्माद् महोदयः । द्वे दधिमिश्रितमधुनः ॥
हवित्री तु होमकुण्डम्
१ हूयतेऽस्यां हवित्री । बाहुलकादि: गौरादिः ।
५० _ 'हु दानादनयो: '(जु.प.अ.), 'अर्ति-'(उणा-१३७)इत्यादिना मन्, होमः । होमाय कुण्डं होमकुण्डम् । एकं होमकुण्डस्य ॥
हव्यपाकः पुनश्चरुः ॥८३३॥
१ हव्यस्य पाको हव्यपाकः । हव्यं देवार्थमत्र (-मन्त्र) पच्यत इति [अ] कर्तरि च- '३।३।१९ ॥ इति कर्मणि घञ् । तयोः कर्मधारये वा हव्यपाकः । केचित्तु
१. 'आदिना' इति ४प्रतौ नास्ति ॥ २. 'सान्नाय्यं हविरुच्यते' इति हलायुधकोशे, २४१६ ॥, पृ.४८ ॥ ३. 'होतद्र-' इति१॥ ४. '-धाया दी-' इति२.३ ॥ ५. द्र. पदचन्द्रिका, भा-२, ब्रह्मवर्गः, शो-४१९, पृ.५०९ ॥, तत्र "आपत् मिह सेचने इत्यतः "मनेर्दीर्घश्च"(उ०३।६४)इति बाहुलकात् तः, उपाधादीर्घत्वं च दीर्घमध्येयम्-" इति पुरुषोत्तमः । “आङ् पूर्वात् मिष स्पर्धायाम् इत्यतः "स्नुवश्चिकृत्यृषिभ्यः कित्"(उ०३।६६) इति बाहुलकात् सप्रत्यये हुस्वमध्येयम्" इति गोवर्धनः" ६. '-मध्योऽयम्' इति४॥ ७. माधवीयधातुवृत्तौ तु हाव्यशब्दं लक्ष्यीकृत्योक्तं सायणेन, पृ.३८५ ॥ ८. 'दातव्यमो-' इति३ ॥ ९. 'ह-' इति१.२॥ १०. 'वर्णे' इति क्षीरतरङ्गिण्यादयः ॥ ११. '-तकः' इति मुद्रितमूले ॥ १२. 'पृषति' इति३.४ ॥ १३. '-सम्पर्के' इति३ ॥ १४. '-यं' इति३.४ ॥ १५. '-दिञ्' इति३ ॥ १६. ३प्रतौ नास्ति ॥
"पच्यतेऽत्रेति, 'हलश्च'३।३।१२१ ॥ इति घञि पाकं व्युत्पाद्य हव्यपाक: स्थाल्यादिरुच्यते, अन्यत्रौपचारिकः''[ ] इत्याहुः । तदसत्, अत्रं एव तत्प्रयोगदर्शनात् । “हेमपात्रे कृतं दोर्ध्यामादानाय (-दधानः) पयश्चरुम्''[रघुवंशम्, सर्ग:-१०,
श्री-५१], "चरोरर्धार्धभागाभ्यां तामयोजयतामुभे"[रघुवंशम्, सर्गः-१०, श्री-५६] इति कर्मकाण्डे च मुद्गतण्डुलाभ्यां पयसा चरु: अपवितव्य इत्यादौ, न तु स्थाल्यादौ तत्प्रयोगो द्रष्टव्यः । मधुमाधव्यामपि-"पचनाय हव्यं चरुरित्यर्थः, यद्वाऽष्टाकपालं
चकै निर्वेशयेदिति, स्थाल्यादौ तु तादादुपचार:"[]इत्युक्तम् ।
१० २ चरन्त्यस्माद् देवपितृभूतानीति चरुः । 'चर गतिभक्षणयोः' (भ्वा.प.से.), 'भृमृशीतृचरि-'(उणा-७)इत्यादिना उ:, पुंसि । द्वे पक्वहव्यान्नस्य । “द्वे हव्यपचनभाण्डस्य"[] इति केचित् । "चरर्हव्याने भाण्डे च"[विश्वप्रकाशकोशः, रान्तवर्गः, श्री ७३]इति महेश्वरः । “एतौ द्वौ पक्वहोतव्यनाम्नी, (होतव्य पचनभाण्डनाम्नी) च''[]इति केचित् ॥८३३॥
अमृतं यज्ञशेषे स्यात्
१ अपमृत्युहरत्वादमृतमिव अमृतम् । २ यज्ञस्य यच्छेषं घृतादि यज्ञशेषम्, तत्र । द्वे यज्ञशेषस्य ॥
विघसो भुक्तशेषके ।
२० १ विशेषेण अद्यते भक्ष्यते विधसः । 'अद भक्षणे' (अ.प.अ.), 'उपसर्गेऽदः '३।३ । ५९ ॥इति कर्मण्यण्, 'घत्र पोश्च'२।४।३८॥ इति घस्लादेशः । २ देवपित्रतिथिगुर्वादि भुक्तस्य यच्छेषं भुक्तशेषम्, ततः कनि भुक्तशेषकम्, तत्र । यन्मनु:
"विघसाशी भवेन्नित्यं नित्यं चोऽमृतभोजनः ।
विघसो भुक्तशेषः स्याद् यज्ञशिष्टमथाऽमृतम् ॥१॥"
[मनुस्मृतिः, अध्या-४, शो-२८५] इति । द्वे भुक्तशेषस्य ॥
- यज्ञान्तोऽवभृथः
१ यज्ञस्याऽन्तः समापनं यज्ञान्तः। २ अवहीनं बिभर्ति पोषयति अवभृथः । अवे भृत्रः'(उणा-१६०) थक् (क्थन्)।
३० द्वे प्रधानयागे दीक्षितस्य समापको योऽपरो यज्ञो न्यूनाधि कत्वादिदोषनिरासाय प्रधानयागस्य पूरणाय क्रियते, तस्य ॥
पूर्तं वाप्यादि
१ पूर्यते पाल्यते वा पूर्तम्, पुंक्ली. । 'पू पालन पूरणयो: '(जु.प.से.), क्त:, 'उदोष्ठ्यपूर्वस्य'७।१।१०२॥ इति उत्त्वम्, 'न ध्याख्यापृमूर्च्छ(मूर्च्छि)मदाम्'८।२१५७॥ इति नत्वनिषेधः । पुंक्लीबलिङ्गः । यन्माला-"पूर्तं ना वा"[] इति । वाप्यादीत्यादिशब्दाद् देवकुलादिग्रहः । तदुक्तम्
"पुष्करिण्यः सभा वापी देवतायतनानि च ।
आरामाश्च विशेषेण पूर्तं कर्म विनिर्दिशेत् ॥१॥"
४० ["]इति । एकं वापीकूपतडागादेः ॥
इष्टं मखक्रिया ॥८३४॥
१ इज्यते स्म इष्टम् । यदाह
“एकाग्निकर्म हवनं त्रेतायां यच्च हूयते ।
अन्तर्वेद्यां च यद्दानमिष्टं तदभिधीयते ॥१॥"["]इति ।
"इष्टं दाने च यागे च वाञ्छितेऽपि प्रयुज्यते"[ ]इत्यजयो ऽपि । एकं यज्ञक्रियायाः ॥८३४॥
इष्टापूर्तं तदुभयम्
१ इष्टं च पूर्तं च इष्टापूर्तम् । राजदन्तादित्वात् साधुः । तत्पूर्तमिष्टं च उभयं तदुभयम् । यद् भागवतम्-
५० "संप्लवः सर्वभूतानां विक्रमः प्रतिसङ्क्रमः ।
इष्टापूर्तस्य काम्यानां त्रिवर्गस्य च यो विधिः ॥१॥"
___ []इति । वाप्यादिकर्मयागकर्मणोरेकोक्त्या नामैकम् ॥
१. 'इत्याचार्या आहुः' इति४ ॥ २. द्र. रामाश्रमी२७।२२ ॥, पृ.३३२॥ ३. 'अत' इति१.२॥ ४. 'हेमपात्रगतं' इति रघुवंशे, १०५१॥, पृ.२६१ ॥ ५. '-दानाय' इति३ ॥ ६. 'चरु' इति१, 'चरुर्नि-' इति४॥ ७. द्र. पदचन्द्रिका, भा-२, ब्रह्मवर्गः, श्रो-४१९, पृ.५०९॥, तत्र "केचित् तु-पच्यतेऽत्र इति
अधिकरणे "हलश्च"(पा.३।३।१२१ ॥)इति घञ् । पाकं व्युत्पाद्य 'हव्यपाकेन' स्थाल्यादिरुच्यते । अन्यत्र तु औपचारिक:-इत्याहुः । तदसत् । अन्न एव तत्प्रयोगदर्शनात् । “हेमपात्रे कृतं दोामाददानः पयश्चरुम्" । "चरोरर्धार्धभागाभ्यां तामयोजयतामुभे" । (रघु. १०।५१-५६) । कर्मकाण्डे च-"मुद्गतण्डुलाभ्यां पयसा च चरुः श्रपयितव्य" इत्यादौ । न तु स्थाल्यादौ तत्प्रयोगो दृष्टः । मधुमाधव्याम् अपि-"पचनीये हव्ये चरुरित्यर्थः ।
ल्यादौ तु तादादपचार:"-इत्युक्तम्" इति दृश्यते ॥ ८. '-तानि' इति३.४॥ ९. विश्वप्रकाशकोशे-"चरुर्भाण्डे च हव्याने" इति दृश्यते, पृ.१३१॥ १०. कोष्ठान्तर्गतपाठः १प्रतौ नास्ति ॥ ११-१ मनुस्मृत्याम्-'वा-' इति, ११-२ 'विघसो भुक्तशेषं तु यज्ञशेषं तथाऽमृतम्' इति च दृश्यते, पृ.१३१ ॥ १२. मालामतमुट्टङ्क्य वक्ष्यमाणत्वादत्राऽनुपयुक्तः प्रतिभाति ॥ १३. 'पुंक्ली' इति३.४॥ १४. '-ण्या' इति२ ॥ १५. द्र. टीकासर्वस्वम्, भा-३, २७।२८॥, पृ.२४ ॥, पदचन्द्रिका, भा-२, ब्रह्मवर्गः, श्री-४२४, पृ.५१४ ॥, रामाश्रमी २७।२८॥, पृ.३३५ ॥ १६. अम.क्षीर. २७।२७॥, पृ.१६८ ॥, स्वोपज्ञटीका ३८३४ ॥, पृ.१८५ ॥, रामाश्रमी२७।२८॥, पृ.३३५ ।। १७. द्र. पदचन्द्रिका, भा-२, ब्रह्मवर्गः, शो ४२४, पृ.५१३ ॥, रामाश्रमी २७।२८ ॥, पृ.३३५ ।। १८. 'संभवः' इति३ ॥
बर्हिर्मुष्टिस्तु विष्टरः ।
१ बर्हिषां दर्भाणां मुष्टिः बहिर्मुष्टि: । विस्तीर्यते विष्टरः, पुंक्ली. । विपूर्वः ‘स्तृञ् आच्छादने'(स्वा.उ.अ.), 'ऋदोरप्'३।३।५७ ॥, 'वेः स्तृञः '( )इति षत्वम् । "विष्टरस्तु महीरुहे आसने कुशमुष्टौ च''[विश्वप्रकाशकोशः, रान्तवर्गः, श्रो-१०६]इति महेश्वरः । एकं दर्भमुष्टेः ॥
अग्निहोत्र्यग्निचित् चाऽऽहिताग्नौ
१ अग्निहोत्रमस्याऽस्ति अग्निहोत्री । 'अत इनिठनौ' ५।२।११५ ॥ इतीनिः । २ अग्निं चिनोति स्म अग्निचित् ।
१० 'चिञ् चयने'(स्वा.उ.अ.), 'अग्नौ चे:'३।२।९१ ॥ इति क्विप् । २ आहितोऽग्निरनेन आहिताग्निः । अग्न्याहितोऽपि । त्रीणि
अग्निहोत्रिणः ॥
अथाऽग्निरक्षणम् ॥८३५॥ अग्न्याधानमग्निहोत्रम्
१ अग्नेः रक्षणम् अग्निरक्षणम् ॥८३५॥ । २ अग्निराधीयतेऽत्रेति अग्न्याधानम् । अधिकरणे ल्युट । ३ अग्निहूयतेऽत्र अग्निहोत्रम् । 'हुयामा-'(उणा-६०७) इति त्रन् । त्रीणि अग्निरक्षणस्य ॥
दर्वी तु घृतलेखनी ।
२० १ दृणाति हव्यद्रव्यं दर्विः । 'दृ(द) विदारणे' (त्र्या.प.से.), 'वृदृभ्यां वित् (विन्) '(उणा-४९३)इति वित् । 'कृदिकारात्- '(गणसू-४।१।४५ ॥)इति ङीर्षि दर्वी । घृतं लिख्यतेऽनया घृतलेखनी । ‘लिख लिखने '(तु.प.से.), करणे ल्युट्, गौरादित्वाद् ङीष् । एकं दाः । घृतस्य ‘डोई' इति भाषा ॥
होमाग्निस्तु महाज्वालो महावीरः प्रवर्गवत् ॥८३६॥
१ होमार्थमग्निः होमाग्निः । २ महत्यो ज्वाला अस्य महाज्वालः । २ वीरयते वीरः अग्निः, महांश्चासौ वीरश्च महावीरः । ३ प्रवृज्यते पापमनेन प्रवर्गः । 'वृजी
३० वर्जने'(रु.प.से.), करणे घञ् । चत्वारि होमाग्नेः ॥८३६॥
होमधूमस्तु निगण:
१ होमे होमविषये धूमो होमधूमः । नितरां गण्यते निगणः । 'गण सङ्ख्याने'(चु.उ.से.), घञर्थे कः । एकं होमधूमस्य ॥
होमभस्म तु वैष्टतम् ।
१ होमविषये भस्म होमभस्म । 'भस भर्त्सन दीप्त्यो: '(जु.प.से.), 'अन्येभ्योऽपि दृश्यते'३।२७५ ॥ इति भाषायां मनिन् । विशेषेण स्तूयते स्म विष्टुतो वह्निः, तस्येदं वैष्टुतम् । एकं होमभस्मनः ॥
उपस्पर्शस्त्वाचमनम्
४० १ उपस्पृश्यन्तेऽद्भिः खानीन्द्रियाण्यस्मिन् उपस्पर्शः। 'स्पृश संस्पर्शने '(तु.प.अ.), अधिकरणे घञ् । यन्मनु:
"उपस्पृश्य द्विजो नित्यमन्नमद्यात् समाहितः ।
भुक्त्वा चोपस्पृशेत् सम्यगद्भिः खानि च संस्पृशेत् ॥१॥"
[ मनुस्मृतिः, अध्या-२, श्रो-५३] इति । "उपस्पर्शः स्पर्शमात्रे स्नानाचमनयोः''[विश्वप्रकाशकोशः, शान्तवर्गः, श्री-३६] इति महेश्वरः । २ आचम्यतेऽम्भोऽत्रेति आचमनम् । 'चमु अदने' (भ्वा.प.से.), अधिकरणे ल्युट् । आचमनं नाम विप्रक्षत्रिय वैश्यशूद्राणां यथाक्रमं ब्राह्मण तीर्थेन हृत्कण्ठतालुगामि जल पानम् । यद् याज्ञवल्क्यः
५० "हत्कण्ठतालुगाभिस्तु यथासङ्ख्यं द्विजातयः ।
शुद्धयेरन् स्त्री च शुद्रश्च सकृत्स्पृष्टाभिरन्ततः ॥१॥" [याज्ञवल्क्यस्मृतिः, आचाराध्यायः, श्री-२१]इति । "हृत्कण्ठ तालुगाभिरद्भिर्यथाक्रमं द्विजातयः शुद्धयन्ति स्त्री च शूद्रश्च अन्ततः अन्तेन तालुना स्पृष्टाभिः''[मिताक्षराटीका, आचाराध्यायः, थो २१]इति तट्टीका । उपस्पर्शनमपि । “आचमनमुपस्पर्शनम्" [हलायुधकोश: २।४०८॥] इति हलायुधः । द्वे आचमनस्य ॥
घारसेकौ तु सेचने ॥८३७॥
१ घरणं घारः । 'घृ क्षरणदीप्त्योः '(जु.प.अ.), भावे घञ् । २ सेचनं सेकः । 'षिचि(षिच) क्षरणे'(तु.उ.अ.), ६० __ भावे घञ्, 'चजो:-'७।३५२ ।। इति कुत्वम् । ३ सेचनं घृतादिनाऽग्नेः प्रोक्षणम्, तत्र । त्रीणि अग्निसिञ्चनस्य ॥८३७॥
१. 'ङीप्' इति४॥ २. 'अक्षरविन्यासे' इति क्षीरतरङ्गिण्यादयः ॥ ३. 'डीप्' इति१.२.४ ॥ ४. '-ऽहि' इतिर ।। ५. '-श्यते' इति४॥ ६. 'भुक्ते' इति१.२, ‘भुक्तो' इति४॥ ७. 'वो-' इति४॥ ८. '-न्ते' इति१॥ ९. 'अनेन' इति३.४ ॥
ब्रह्मासनं ध्यानयोगासने
१ ब्रह्मणि परमज्योतिषि आसनं लयो ब्रह्मा सनम् । ध्यानं निरालम्बनं ज्ञानम्, योगः सालम्बनं ज्ञानम् । यद्वा ध्यानं परमात्मचिन्तनम्, योगश्चित्तनिरोधमात्रम् । तयोर्य दासनं स्वस्तिकोर्ध्वपादपपद्मासनादिकम् । ध्यानयोगयोरास्य तेऽनेनेति ध्यानयोगासनम्, तत्र । एकं ध्यानयोगासनस्य ॥
अथ ब्रह्मवर्चसम् । वृत्ताध्ययनर्द्धिः
१ वृत्तं वेदवाक्यस्य परिपालनम्, अध्ययनं व्रत
१० ग्रहणपूर्वकं गुरुमुखेन वेदाभ्यसनम्, तयोर्ऋद्धिर्वृत्ताध्ययनर्द्धि ब्रह्मवर्चसम् उच्यत इत्यन्वयः । ब्रह्मणस्तपःस्वाध्यायादेवर्चः ब्रह्मवर्चसम् । 'ब्रह्महस्तिभ्यां वर्चसः'५।४७८ ॥ इत्यच्समा सान्तः । "वृत्ताध्ययनसम्पत्तिरिष्यते ब्रह्मवर्चसम्''[हलायुध कोश:२।३९७ ॥] इति हलायुधः । एकं चारित्राध्ययनसम्पदः ।।
पाठे स्याद् ब्रह्माञ्जलिरञ्जलिः ॥८३८॥
१ पाठे वेदपाठे अञ्जलिः प्रणामार्थं मुकुलितं हस्तयुगं ब्रह्माञ्जलिः उच्यत इत्यन्वयः । ब्रह्मणे वेदाय अञ्जलिः प्रणामार्थं मुकुलितं हस्तयुगं ब्रह्माञ्जलिः । “सामवेदपाठे हि स्वरविभागार्थमञ्जलिः, स ब्रह्माञ्जलिः''[]इति माधव्यादयः ।
२० "अध्ययनस्यादावन्ते च गुरवे प्रणवोच्चारणपूर्वको योऽञ्जलिः क्रियते, स ब्रह्माञ्जलिः''[ ]इति तु मिश्राः । एकं वेदपाठे
कृताञ्जले: ॥८३८॥
पाठे तु मुखनिष्क्रान्ता विप॒षो ब्रह्मबिन्दवः ।
१ पाठे वेदाध्ययने मुखनिष्क्रान्ता वदनान्निर्गता विप्रुषो जलकणा ब्रह्मबिन्दवः प्रोच्यन्ते । ब्रह्मणो वेदस्यैव बिन्दवो जलकणा ब्रह्मबिन्दवः । एकं वेदपाठे मुखनिः सृतजलकणस्य ॥
साकल्यवचनं पारायणम्
१ सकलस्य भावः साकल्यम्, साकल्येन सामस्त्येन वचनमध्ययनं साकल्यवचनम् । पारमयन्ते प्राप्नुवन्त्यनेन पारा-
३० यणम् । 'अय गतौ'(भ्वा.आ.से.), करणे ल्युट् । एकं साकल्येन अध्ययनस्य ॥
कल्पे विधिक्रमौ ॥८३९॥
१ कर्तव्यतोपदेशः कल्पः । कल्पते फलजननाय समर्थो भवति कल्पः । 'कृपू सामर्थ्य '(भ्वा.आ.से.), पचाद्यच्, 'कृपो रो लः'८।२।१८॥ तत्र । २ विधीयते सम्पाद्यते फला र्थिभिरिति विधिः । 'डुधाञ् धारणादौ'(जु.उ.अ.), 'उपसर्गे घोः किः'३।३।९२॥ । ३ क्रम्यते आरभ्यत इति क्रमः । ‘क्रमु पादविक्षेपे'(भ्वा.प.से.), घञ्, 'नोदात्तोपदेश-७।३।३४ ।। इति न वृद्धिः । "कल्पवित् कल्पयामास''[रघुवंशम्, सर्गः-
४० १, शो-६] "यथाविधिहुताग्नीनाम्''[रघुवंशम्, सर्गः-१, शो ९४] इत्युभयमपि रघु: । त्रीणि विधेः ॥८३९॥
मूलेऽङ्गुष्ठस्य स्याद् ब्राह्यं तीर्थम्
१ अङ्गष्ठस्यादौ मूले तीर्थं ब्राह्यं स्यादित्यन्वयः । ब्रह्मा देवताऽस्य ब्राह्मम् । 'साऽस्य देवता'४।२।२४॥इत्यण, 'साऽस्य देवता'४।२।२४ ॥ इत्यण, 'ब्राह्मोऽजातौ'६।४।१७१ ॥ इति साधु । देवेभ्यस्तीर्यतेऽनेनेति तीर्थम् । 'तृ प्लवन तरणयोः '(भ्वा.प.से.), 'पाततुदि-'(उणा-१६४) इत्यादिना थक् । एकं ब्रह्मतीर्थस्य ॥
कायं कनिष्ठयोः ।
५० १ कनिष्ठयोर्मूले कः प्रजापतिर्देवताऽस्येति कायम्, तीर्थम् । 'कस्येत्'४।२।२५ ॥ इति कशब्दादण्प्रत्यय इकारो ऽन्तादेशः वृद्ध्यायादेशौ च । कनिष्ठयोरिति द्वित्वम् । अञ्जलिमध्येन प्रजापतिभ्योजल(-ऽञ्जलि-)दानात् । एकं प्रजापतितीर्थस्य ॥
पित्र्यं तर्जन्यङ्गुष्ठान्तः
१ तर्जन्यङ्गष्ठमध्ये पितरो देवताऽस्य पित्र्यम्। 'वाय्व तुपित्रुषसो यत्'४।२।३१ ॥इति यत् । एकं पितृतीर्थस्य ॥
दैवतं त्वङ्गुलीमुखे ॥८४०॥
१. '-त-' इति४॥ २. इतोऽग्रे १.३.४प्रतिषु 'तु' इति दृश्यते ॥ ३ 'प्रमाणार्थं' इति३॥ ४ - णो' इति३.४॥ ५द्र. पदचन्द्रिका, भा २, ब्रह्मवर्गः, थो-४३५, पृ.५२३॥, तत्र "सामवेदपाठे स्वरविभागार्थं योऽञ्जलिः स 'ब्रह्माञ्जलिः' इति तु माधव्यादयः ॥” इति दृश्यते ॥ ६ -ठेऽञ्जलेः' इति१.२॥ ७ तुलनीयोऽमरकोषः २७३९॥ ८ -व्योपदेशः' इति३॥ ९. 'सम्प--' इति३॥ १०. 'वृद्धिनिषेधः' इति१ ॥ ११. -स्य' इति४॥ १२. 'इति' इति ३प्रतौ नास्ति ॥
१ अङ्गलीनां मुखेऽग्रभागे देवतानामिदं दैवतम् । 'तस्येदम् '४।३।१२० ॥ इत्यण् । एकं देवतीर्थस्य । यद् याज्ञवल्क्य:
"कनिष्ठातर्जन्यङ्गुष्ठमूलान्यग्रं करस्य च ।
प्रजापतिपितृब्रह्मदेवतीर्थान्यनुक्रमात् ॥१॥"
[याज्ञवल्क्यस्मृतिः, आचाराध्यायः, शो-१९] इति । [शेषश्चात्र करमध्ये सौम्यं तीर्थम्] ॥८४०॥
ब्रह्मत्वं तु ब्रह्मभूयं ब्रह्मसायुज्यमित्यपि ।
__१ ब्रह्मणो ज्ञानस्य भावो ब्रह्मत्वम्, ब्रह्मशब्दोऽत्र
१० ज्ञानपर्यायः । २ ब्रह्मणो भवनं ताद्रूप्यं ब्रह्मभूयम् । 'भुवो भावे'३।१।१०७॥ [इति] क्यप् । ३ योजनं युक्, सम्पदा दित्वात् क्विप् । युजा सहितः सयुक्, तद्भावः सायुज्यं । 'वोपसर्जनसय'६।३।८२ ॥ इति सहस्य सभावः । ब्रह्मणा संयु नक्ति आत्मना सम्बध्नाति सयुक् (संयुक्) । 'सत्सूद्विष-' ३।२।६१ ॥ इति क्विप् । तद्भावः सायुज्यमिति(सायुज्यमिति) वा । यद्वा सह युग योगोऽस्य सयुक्, तद्भावो वा सायुज्यम् । ब्रह्मणा ज्ञानेन सायुज्यं ब्रह्मसायुज्यम् । त्रीणि ब्रह्मत्वस्य । 'ब्रह्मपणउं' इति भाषा ॥
देवभूयादिकं तद्वत्
२० १ देवस्य भावो देवभूयम् । भुवो भावे'३ ।१।१०७ ॥ [इति] क्यप् । तेन ब्रह्मभूयशब्देन तुल्यं तद्वत्, भवतीति क्रियाध्याहारो वाक्यत्वात् । स्यादेरिवेत्यनेन भवतीति क्रिया सादृश्ये वत्प्रत्ययः, इवस्य सादृश्याऽर्थद्योतकत्वात् । देवझ२१०वम् देवसायुज्यं चेत्यर्थः । आदिशब्दात् स्वर्भूयम्, स्वर्गत्वम्, स्वर्ग सायुज्यं च । एकं देवत्वस्य ॥
. अथोपाकरणं श्रुतेः ॥८४१॥ संस्कारपूर्वग्रहणं स्यात्
१ उपाक्रियतेऽनेन उपाकरणम् । करणे ल्युट । श्रुतेर्वेदस्य ॥८४१॥ संस्कारपूर्वं विधिपूर्वकं ग्रहणम् आदा नम्, “रोहिण्यां छन्दांस्युपाकुर्यात्''[]इति हि श्रुतेः । एकं
३० __ वेदपाठारम्भे विशिष्टविधेः ॥
स्वाध्यायः पुनर्जपः ।
१ स्वस्य वेदस्याऽध्ययनं स्वाध्यायः । 'इङ्अध्ययने' __ (अ.आ.अ.), 'इङश्च'३।३।२१॥ इति घञ् । २ जपनं जपः ।
'व्यधजप(जपोः)- '३।३।६१ ।। इत्यप् । द्वे जपस्य ॥
औपवस्त्रं तूपवासः
१ उपवस्ता प्राप्तोऽस्य औपवस्त्रम् । 'उपवस्त्रा दिभ्यः'( )इत्यण् । " 'वसु स्तम्भे'(दि.प.से.), उपपूर्वाद् भावे क्तः, उपवस्तम्''[ ]इति मिश्राः । "उपवस्तस्येदम् औपवस्तम्''[ ] इत्येके । "उपवस्त्रम्''[ ] इत्यन्ये ।
४० यत्स्मृतिः-"माषान् मधुमसूरांश्च वर्जयेदौपवस्त्रके "[ ] इति । २ उपवसनम् उपवासः, पुंक्ली. । 'वस निवासे' __ (भ्वा.प.अ.), भावे घञ् । उपोषितं च, उपोषणमपि । 'उप दाहे'(भ्वा.प.से.), "अयमप्यभोजने वर्तते''[ ]इति माधवः । द्वे उपवासस्य ॥
कृच्छ्रे सान्तपनादिकम् ॥८४२॥
१ सान्तपनं चान्द्रायणं प्राजापत्यादिकं प्रायश्चित्तं कृच्छ्पदवाच्यम् । कृन्तति पापं कृच्छ्रम्, पुंक्लीबलिङ्गः। कृच्छ्रे नाम तपः । ‘कृतेश्छक '(उणा-१७८)इति रक्, छगागमश्च । यद्वा कृच्छ्यति कृच्छ्रम्, 'तत्करोति-'(गणसू-
५० ३।१।२६॥)इति ण्यन्तादच् । यथा
"गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।
___ एकरात्रोपवासश्च कृच्छ्रे सान्तपनं स्मृतम् ॥१॥"
मनुस्मृतिः, अध्या-११, श्री-२१२] इति स्मृतिरपि ।
"त्र्यहं सायं त्र्यहं प्रातस्त्र्यहमद्यादयाचितम् ।
___ त्र्यहं परं च नाश्नीयात् कृच्छ्रे सान्तपनं स्मृतम् ॥२॥"
[मनुस्मृतिः, अध्या-११, श्रो-२११] इति । आदिग्रहणात् चान्द्रायणादि । “कृच्छ्रमाख्यातमाभीले पापसान्तपनादिनोः" [विश्वप्रकाशकोशः, रान्तवर्गः, श्री-६१]इति महेश्वरः । एकं सान्तपनादितपसः ॥८४२॥
१. '-देशिन्य-' इति याज्ञवल्क्य स्मृत्याम्, पृ.९॥ २. 'सम्बध्नाति आत्मना' इति४॥ ३. इतोऽग्रे १प्रतौ 'स' इति दृश्यते ॥ ४. इतोऽग्रे १.२.४प्रतिषु 'वा' इति दृश्यते ॥ ५. समुपसर्गपूर्वकविग्रहप्रदर्शनेन 'ब्रह्मसायुज्यम्' इत्यपि भवति ॥ ६. '-णो' ३, '-णौ' इति४॥ ७ ‘सादे-' इति४॥ ८. 'वन्प्र-' इति३॥ ९. द्र. अम.क्षीर. २७॥४०॥, पृ.१७१ ॥, स्वोपज्ञटीका ३८४१ ॥, पृ.१८६॥ १०. द्र. पदचन्द्रिका, भा-२, ब्रह्मवर्गः, शो ४३४, पृ.५२३ ॥ ११. द्र. स्वोपज्ञटीका ३८४१ ॥, पृ.१८६ ॥ १२. '-स्तके' इति३॥ १३. तुलनीयोऽमरकोषः २७५२ ॥ १४. '-च्छं' इति१ ।। १५. 'कृतेश्छः क्रू च'(उणा-१७८) इत्खुणादिगणसूत्रम् ॥ १६. 'सान्तपं' इति१.२॥ १७. "त्र्यहं प्रातस्त्र्यहं सायं त्र्यहमद्यादयाचितम् । त्र्यहं परं च नाश्नीयात् प्राजापत्यं चरन् द्विजः' इति मनुस्मृत्याम्, ११।२११ ॥, पृ.४५८ ॥ १८. 'तपः-' इति विश्वप्रकाशकोशे, पृ.१३० ॥
प्रायः संन्यास्यनशने
१ प्रकर्षेण अयन्ते परलोकमनेनेति प्रायः, पुंसि, अकारान्तः । “पुमान् प्रायः"[अमरकोष:२७५२॥] इत्य मरः । प्रपूर्वः 'अय गतौ'(भ्वा.आ.से.), करणे घञ् । 'इण गतौ'(अ.प.अ.) अस्माद् ‘एरच्'३।३।५६॥ वा । "प्रायश्चा ऽनशने मृत्यौ तुल्यबाहुल्ययोरपि"[विश्वप्रकाशकोशः, यान्तवर्गः, श्री-९]इति महेश्वरः । यथा-"प्रायोपवेशनमतिर्नृपतिर्बभूव" [रघुवंशम्, सर्गः-८, शो-९४] इति । संन्यसनं संन्यासः सर्व त्यागेन मरणाध्यवसायः, सोऽस्त्यस्य संन्यासि । 'अत इनि
१० ठनौ'५।२।११५ ॥ इतीनिः । 'सर्वत्यागेन मरणाध्यवसाययुक्तं संन्यासि च तदनशनं च संन्यास्यनशनम्, तत्र । एकमनशनस्य ।।
नियमः पुण्यकं व्रतम् ।
१ नियम्यतेऽन्नाद्यत्रेति नियमः । 'यमु नियमने'( ), 'यमः समुपनिविषु च'३।३।६३ ॥ इत्यप् । यत्कर्म [अ]नित्यं कर्तव्यम्, न तु यावजीवम्, आगन्तुः कादाचित्कैः कामना (कामनया) समयविशेषादिभि: सहकारिभिः साध्यमुपवासादि, तन्नियमशब्दवाच्यमित्यर्थः । २ पुण्यमेव पुण्यकम् । स्वार्थे कन् । ३ वियते उपवासाद्यत्रेति व्रतम्, पुंक्ली. । 'वृञ् वरणे' (स्वा.उ.से.), बाहुलकात् 'पृषिरञ्जिभ्यां कित्'(उणा-३९१)
२० इत्यतच्, ‘इको यणचि'६।१७७॥ । “वृत्यते वृज्यते सर्व भोगोऽत्र''[ ]इति सुबोधिनीकारः । व्रतेर्धातोः 'पुंसि संज्ञायां घ:-'३।३।११८ ॥इति घप्रत्ययः, व्रतिश्च वर्जनार्थः । सामान्येन एभिस्त्रिभिरुपवासादिरुच्यत इत्यर्थः । त्रीणि नियमस्य । 'आखडी' इति भाषा । ( शेषश्चात्र-“अथ स्यान्नियमे तपः" [शेषनाममाला ३।१५३॥] ) ॥
चरित्रं चरिताचारौ चारित्रचरणे अपि ॥८४३॥ वृत्तं शीलं च
१ चर्यतेऽनेन चरित्रम् । 'चर गतौ'(भ्वा.प.से.), 'अर्तिलूधू[ सू] खनसहचर इत्रः'३।२।१८४॥ । २ चर्यते स्म
३० चरितम् । निष्ठा । ३ आचरणम् आचारः । भावे घञ् । ४ चरित्रमेव चारित्रम् । प्रज्ञादित्वात् स्वार्थेऽण् । 'चरेर्णिच्च
(चरेर्वृत्ते) '(उणा-६११)इति इत्रच् वा । ५ चर्यते चरणम् । कर्मणि ल्युट् ॥८४३॥ ६ वर्तनं वृत्तम् । भावे निष्ठा । ७ शेते सुखमनेनेति शीलम्, पुंक्ली. । 'शिङो धुग्लग्वालङ् वल(धुक्लक्कलञ्चालनः)'(उणा-४७८)इति लक् । 'शील समाधौ'(भ्वा.प.से.), भावे घर्षि वा । सप्त चारित्रस्य ॥
सर्वैनोध्वंसिजप्येऽघमर्षणम् ।
१ सर्वेनसां सर्वपापानां' ध्वंसि विध्वंसनशीलं यज्जप्यम्, अदैवत्यो मन्त्रस्तज्जपो वा, त्रिरात्रोपवासादिस्तूप चारात्, सर्वैनोध्वंसिजप्यम्, तत्र । अघं पापं मृष्यते शोध्यते-
४० ऽनेन अघमर्षणम्, वाच्यलिङ्गम् । करणे ल्युट् । एकं सर्व पापविनाशकजपस्य ॥
समास्तु पादग्रहणाभिवादनोपसङ्ग्रहाः ॥८४४॥
१ पादयोरन्तर्ग्रहणं पादग्रहणम्, पादस्पर्श इत्यर्थः । २ अभिमुखीकृत्य सम्बोध्य वादनमाशिषो वचनं मह्यमा शिषं देहीति यया क्रियते, अभिपूर्वाद् वर्ण्यन्तात् स्त्री त्वाविक्षायां ल्युट्, [ अभिवादनम्] । ३ उपसङ्ग्रहणम् उपसङ्ग्रहः । यन्मनुः
"विन्यस्तपाणिना कार्यमुपसङ्ग्रहणं गुरोः ।
वामेन वामः स्प्रष्टव्यो दक्षिणेन तु दक्षिणः ॥१॥"
५० [मनुस्मृतिः, अध्या-२, शो-७२]इति । "समे तु पादग्रहण मभिवादनमित्युभे''[अमरकोषः २७४१ ॥] इत्यमरः । त्रीणि गुरुपादवन्दनस्य ॥८४४॥
उपवीतं यज्ञसूत्रं प्रोद्धृते दक्षिणे करें ।
१ उपाधिक्येन वेति शोभते उपवीतम्, पुंक्ली बलिङ्गम् । 'वी गतिप्रजनकान्त्यशन(सन)खादनेषु'(अ. प.अ.), कर्तरि क्तः । २ यज्ञविधिधृतं सूत्रं [ यज्ञसूत्रम् ], (पवित्रमिति चैकार्थाः) । शाकपार्थिवादिः । दक्षिणे करे प्रोद्धृत इति दक्षिणकराधोनिक्षिप्तसूत्रे इत्यर्थः । "उपवीतं ब्रह्मसूत्रं प्रक्षिप्तं दक्षिणे करे"[हलायुधकोश:२४०७ ॥]
६० इति हलायुधः । यज्ञोपवीतम्, ब्रह्मसूत्रम्, पवित्रमिति चैकार्थाः । द्वे उपवीतस्य ॥
१. 'सन्या-' इति३.४॥ २. '-देशन-' इति४॥ ३. द्र. अनेकार्थकैरवाकरकौमुदीटीका, भा-१, २३६१ ॥, पृ.२०९॥ ४. '-क्त-' इति२ ॥ ५. 'क-' इति३.४॥ ६. ३.४प्रत्योर्नास्ति ॥ ७. ३प्रतौ नास्ति ॥ ८. 'घः' इति४॥ ९. कोष्ठान्तर्गतपाठः १.२.४प्रतिषु न दृश्यते ॥ १०. '-' इति३ ॥ ११. 'पापानां' इति४ ॥ १२. 'शशब्दवत्यो' इति४॥ १३. 'वा-' इति४॥ १४. '-णं' इति४॥ १५. "व्यत्यस्तपाणिना कार्यमुपसंग्रहणं गुरोः । सव्येन सव्यः स्प्रष्टव्यो दक्षिणेन च दक्षिणः" इति मनुस्मृत्याम्, पृ.४३॥ १६. तुलनीयोऽमरकोषः२७४९॥ १७. 'पुंक्ली.' इति३.४ ॥ १८. कोष्ठान्तर्गपाठोऽधिकः प्रतिभाति, अत्राऽसङ्गतत्वादने वक्ष्यमाणत्वाच्च ॥ १९. '-से' इति३ ॥
प्राचीनाऽऽवीतमन्यस्मिन्
१ अन्यस्मिन् श्राद्धादौ वामकराधोदेशे निहितयज्ञ सूत्रे, प्रागेव प्राचीनम्. ( प्राचीनमावीयते स्म प्राचीनावीतम्) । ‘वी गत्यादौ '(अ.प.अ.), निष्ठा । एकं वामकराधोदेशे निहित यज्ञसूत्रस्य ॥
निवीतं कण्ठलम्बितम् ॥८४५॥
१ करद्वये बहि:कृते ऋजुभावेन कण्ठलम्बितं तत्, कण्ठादधोभागेन वीतं गमनस्य निवीतम् । नि इति प्रकृति
भावात् । “पथो (रश्यधो-) भावविन्यासे''[मेदिनीकोषः,
१० अव्ययवर्गः, शो ४१] इति मेदिनिः । कण्ठे गले ऋजु सरलं लम्ब्यते स्म कण्ठलम्बितम् । यन्मनुः
"प्रोद्धृते दक्षिणे पाणावुपवीत्युच्यते द्विजः ।
सव्ये प्राचीनमावीतं(-ती) निवीती कण्ठसज्जने ॥१॥"
[मनुस्मृतिः, अध्या-२, श्रो-६३]इति । एकं 'कण्ठीकरण' इति ख्यातस्य ॥८४५॥
प्राचेतसस्तु वाल्मीकिर्वल्मीककुशिनौ कविः ।
मैत्रावरुणवाल्मीको
१ प्रचेतसोऽपत्यं प्राचेतसः । तस्यापत्यम्'४।१।९२ ।। इत्यण् । “ऋष्यन्धकवृष्णि-४।१।११४ ।।इत्यण''[ ] इत्येके । २
२० वल्मीकस्याऽपत्यं वाल्मीकिः । 'ब(बा) ह्वादिभ्यश्च'४।१।९६ ॥ इतीञ् । ३ वल्मीकभवत्वाद् वल्मीकः, आद्यस्वरादिः । ४ कुशाः सन्त्यस्य कुशी । अत इनिठनौ'५।२।११५ ॥इतीनिः । ५ कवते कविः । 'कुशब्दे'(भ्वा.आ.अ.), '-इन् '(उणा ५५७) इतीन् । आदिकविरपि । ६ मित्रावरुणयोरयं मैत्रा वरुणः । तस्येदम्'४।३।१२० ॥ इत्यण् । मैत्रावरुणिरपि । ७ वल्मीक स्याऽयं वाल्मीकः, द्वितीयस्वरादिः । तस्येदम्' ४।३।१२० ॥ इत्यण् । सप्त वल्मीकर्षेः ॥
वेदव्यासस्तु माठरः ॥८४६॥ द्वैपायनः पाराशर्यः कानीनो बादरायणः ।
३० व्यासः
१ वेदार्थान् व्यासयति प्रपञ्चयति वेदव्यासः । व्यापर्वो 'असु क्षेपणे'(दि.प.से.), अस्माद्धेतुमण्ण्जिन्तात् 'कर्मण्यण'३ ।२।१ ॥ । यद्भारते-"वेदार्था भारते न्यस्ताः''[] इति । २ मठरस्याऽपत्यं माठरः । विदादित्वादञ् । ॥८४६ ॥ ३ द्वीपस्याऽपत्यं द्वैपायनः । नडादित्वात् फक्, फस्यायना देशः । ४ परान् शृणाति पालयति पराशरः । ‘श हिंसायाम्' (व्या.प.से.), पचाद्यच् । पराशरस्याऽपत्यं पाराशर्यः। ['गर्गा दिभ्यो यञ्'४।१।१०५ ॥ इति यञ्], 'यस्येति च'६।४।१४८ ॥ इत्यकारलोपः । ५ कन्याया अपत्यं कानीनः । 'कन्यायाः कनीन च'४।१।११६ ॥ इत्यण, कनीनादेशश्च १६ बदरस्याऽपत्यं
४० बादरायणः । 'नडादिभ्यः फक्'४।१।९९ ॥ इति फक् ! ७ व्यस्यति वेदार्थमिति व्यासः । व्यापर्वः 'असु क्षेपणे' (दि.प.से.), पचाद्यच् । सप्त कृष्णद्वैपायनस्य ॥
अस्याऽम्बासत्यवती वासवीगन्धकालिका ॥८४७॥ योजनगन्धा दाशेयी शालङ्कायनजा च सा ।
१ अस्य व्यासस्य, अम्बा जनयित्री सत्यवती । सत्यमस्त्यस्याः सत्यवती । 'तदस्याऽस्ति- '५।२।९४ ॥ इति मतुप्, 'मादुपधायाः-'८।२।९ ॥ इति वत्वम्, 'उगितश्च'४।१६ ॥ इति ङीप् । २ वसोरियं वासवी । तस्येदम्'४।३।१२० ।। इत्यण, 'टिड्डाणञ्- '४।१।१५ ॥ इति ङीप् । ३ गन्धेन युक्ता
५० काली गन्धकाली, ततः कनि, 'केऽणः'७।४।१३।।इति ह्रस्व त्वे गन्धकालिका ॥८४७॥ ४ योजनव्यापी गन्धोऽस्या योजनगन्धा । ५ दाशी धीवराङ्गना, तस्या अपत्यं दाशेयी। 'स्त्रीभ्यो ठक्'४।१।१२० ॥, ढस्य एयादेशः । ६ शालङ्काय नाज्जाता शालङ्कायनजा, तालव्यादिः । ‘पञ्चम्यामजातौ' ३।२।९८ ॥ इति डः । षट् कृष्णद्वैपायनमातुः ॥ शेषश्चात्र "सत्यवत्यां गन्धवती मत्स्योदरी''[शेषनाममाला ३।१५४॥] ।।
जामदग्न्यस्तुरामः स्याद्भार्गवोरेणुकासुतः॥८४८॥
१ जमदग्नेरपत्यं जामदग्न्यः । गर्गादित्वाद् यञ् । २ रमतेऽसौ रामः । 'रमु क्रीडायाम्'(भ्वा.आ.अ.), ज्वला-
६० दित्वाण्णः । परशुरामोऽपि । ३ भृगोरपत्यं भार्गवः ।।
१. तुलनीयोऽमरकोषः २१७५० ॥ २. 'निहितं' इति३.४॥ ३. -त्रं' इति३॥ ४. कोष्ठान्तर्गतपाठस्थाने ३प्रतौ 'आवीयते स्म, आवीतम्, प्राचीनं च तदावीतं च प्राचीनावीतम्' इति दृश्यते ॥ ५. 'उद्धते' इति मनुस्मृत्याम, २।६३ ॥, पृ.४२ ॥ ६. 'प्राचीन पृ.४२ ॥, 'सव्ये प्राचीनआवीतीति छन्दोऽनुरोधादुक्तम्' इति तट्टीका ॥ ७ '-ठाभरणे' इति३॥ ८ द्र. स्वोपज्ञटीका ३८४७ ॥, पृ.१८७॥ ९. 'शृणोति' २.३.४॥ १०. 'व्यसति' इति३ ॥ ११. 'दासेयी' इति२.३॥ १२. 'वा-' इति४॥ १३. 'सौरभ्यमस्या:' इति३ ॥ १४. 'यत्' इति३ ॥
'ऋष्यन्धकवृष्णि-'४।१।११४ ॥ इत्यण् । ४ रेणुकायाः सुतो रेणुकासुतः । रेणुकेयोऽपि । चत्वारि परशुरामस्य ॥८४८॥
नारदस्तु देवब्रह्मा पिशुनः कलिकारकः ।
१ नराणां समूहो नारम् । 'तस्य समूहः '४।२।३७ ।। इत्यण् । नारं द्यति खण्डयति कलहरुचित्वाद् नारदः । 'दो अवखण्डने'(दि.प.अ.), 'आतोऽनुपसर्गे कः'३।२।३॥ । २ देवानां ब्रह्मा देवब्रह्मा, नकारान्तः । ३ पिशुनयति कथयति पिशुनः । 'पिशे: किच्चे'(उणा-३७५)इत्युनन् । ४ कलिं करोति कलिकारकः । ण्वुल् । चत्वारि नारदस्य ॥
१० वसिष्ठोऽरुन्धतीजानिः
१ वसुमत्तमो वसिष्ठः, दन्त्यमध्यः । “वसुमत्तरो वसीयान् । मतुबन्तादिनीयसुनोः 'विन्मतोलुंक्'५३।६५ ॥ इति मतुपो लुकि [तुरि]ष्ठेमेयस्सु'६।४।१५४॥ इति वर्तमाने 'टे:'६।४।१५५ ॥ इति टिलोपः । अस्मादेव लुग्विधानाद गुणवचनादपि मत्वन्तादिष्ठनीयसुनावनुमीयेते''[मा. धातुवृत्तिः, भ्वादिः, धातुसं-७३०] इति माधवः । २ अरुधन्ती जाया यस्य अरुन्धतीजानिः । 'जायाया निङ्'५।४।१३४ ॥, 'लोपो व्योर्वलि'६।१६६॥ । द्वे वसिष्ठस्य ॥
अक्षमाला त्वरुन्धती ॥८४९॥
२० १ अक्षाणां माला अक्षमाला । 'अर्शआदि भ्योऽच्'५।२।१२७॥ । न क्षमा लातीति वा, आकाशगामि त्वात् । २ (न रुणद्धि अरुन्धती ) । द्वे वशिष्ठपत्न्याः ।
त्रिशङ्कयाजी गाधेयो विश्वामित्रश्च कौशिकः ।
१ त्रिशङ्ख याजयति त्रिशङ्कयाजी । यजेर्णिजन्ताद् ग्रहादित्वाणिनिः । २ गाधेरपत्यं गाधेयः । 'इतश्चानिञः' ४।१।१२२॥ इति ठक् । ३ विश्वं मित्रमस्य विश्वामित्रः । ४ कुशिकस्याऽपत्यं कौशिकः । विदादित्वादञ् । चत्वारि विश्वामित्रस्य ॥
कुशारणिस्तु दुर्वासाः
१ कुशारणिग्रहणात् कुशारणिः । २ दुष्टं वासो-
३० ऽस्य दुर्वासाः । 'अत्वसन्तस्य चाधातोः '६।४।१४ ॥ इति दीर्घः । द्वे 'दुर्वासा' इति ख्यातस्य ॥
शतानन्दस्तु गौतमः ॥८५०॥
१ शतं बहूनानन्दयत्याह्लादयति शतानन्दः । 'टुणदि (टुनदि) समृद्धौ'(भ्वा.प.से.), 'कर्मण्यण'३।२।१॥ । २ गोतमस्याऽपत्यं गौतमः । 'ऋष्यन्धकवृष्णि-'४।१।११४ ॥ इत्यण् । द्वे गौतमस्य ॥८५०॥
याज्ञवल्क्यो ब्रह्मरात्रिर्योगेशोऽपि
१ यज्ञवल्कस्याऽपत्यं याज्ञवल्क्यः । गर्गादित्वाद् य। २ ब्रह्मैव रात्रिरस्य ब्रह्मरात्रिः, सदा योगनिद्रापर-
४० वशत्वात् । ३ योगस्य ईश: योगेश: । योगीशोऽपि । त्रीणि याज्ञवल्क्यस्यं ॥
अथ पाणिनौ । सालातुरीयदाक्षेयौ
१ पणनं पणः स्तुतिः, पणोऽस्याऽस्ति पणी, पणिनो ऽपत्यं पाणिनः, पाणिनस्याऽपत्यं पाणिनिः । 'अत इञ्' ४।१।९५ ॥, तत्र । २ सलातुरे अभिजनो निवासोऽस्य सालातुरीयः, दन्तसादिः । सलातुराच्छण् । ३ दाक्ष्या अपत्यं दाख्यः । ‘इतश्चानिञः '४।१।१२२ ॥ इति ढक् । दाक्षी पुत्रोऽपि । “दाक्षीपुत्रस्य तन्त्रे ध्रुवमयमभवत् कोऽप्यधीती
५० कपोतः''[नैषधीयचरितम्, सर्गः-१९, श्रो-६१] इति श्रीहर्षः । त्रीणि पाणिनिमुनेः ॥
गोनर्दीये पतञ्जलिः ॥८५१॥
१ गोनर्दे भवो गोनर्दीयः । 'वृद्धाच्छ:'४।२। ११४॥ इति छः । २ पततोऽञ्जलिः पतञ्जलिः । (द्वे पतञ्जलिमुनेः) ॥८५१॥ कात्यायनो वररुचिर्मेधाजिच्च पुनर्वसुः ।
१. 'रे-' इति१.४ ॥ २. 'पशु-' इति१.२॥ ३. १.२.४प्रतिषु नास्ति ॥ ४. 'पिशिः' इति४ ॥ ५. इदं सूत्रमितन्प्रत्ययविधानं करोत्यतः 'क्षुधिपिशिमिथिभ्यः कित्'(उणा-३३५)इत्यनेनोनन्प्रत्ययो युक्तः ॥ ६. 'वशि-' इति२.३॥ ७. कोष्ठान्तर्गतपाठः १.२.४प्रतिषु न दृश्यते ॥ ८. 'वसि-' इति४॥ ९. 'अरुन्धत्या:' इति३ ॥ १०. '-तीति' इति३ ॥ ११. 'मित्रे चर्षों '६।३।१३० ॥ इति दीर्घः ॥ १२. 'बहूनां' इति३.४॥ १३. 'यागे-' इति१॥ १४. 'यच्' इति४॥ १५. '-ह्येव' इति२ ॥ १६. 'या-' इति१.२.४ ॥ १७. 'या-' इति१ ॥ १८. '-ल्कस्य' इति१.२.३ ॥ १९. '-स्तीति' इति४॥ २०. अधुना पाकिस्तानाख्यदेशे 'लाहोर' इति ॥ २१.'-च्छः' इति३ ॥ २२. 'दाक्षा' इति४॥ २३. कोष्ठान्तर्गतपाठः १.२.४प्रतिषु न दृश्यते ॥ २४. '-ने' इति३.४॥
१ कतस्याऽपत्यं कात्यः । गर्गादित्वाद् यञ् । तस्याऽपत्यं कात्यायनः । 'यजिञोश्च'४।१।१०१॥ इति फक्, फस्यायनादेशः । २ वरा रुचिरस्य वररुचिः । ३ मेधया जयति पण्डितानिति मेधाजित् । ४ पुनरपि वसु द्रव्यमस्य पुनर्वसुः । पुनर्वस्वोर्जात इति वा । चत्वारि कात्यायनर्षेः ॥
अथव्याडिर्विन्ध्यवासी नन्दनीतनयश्च सः ॥८५२॥
१ विशेषेण आसमन्ताद् अडति उद्यच्छते, डीयते खे चरतीति वा व्याडिः, पृषोदरादित्वात् । 'अड उद्यमे' (भ्वा.प.से.), "अडो वृश्चिकलाङ्गुलम्, तेन तैक्ष्ण्यं लक्ष्यते ।
१० विशिष्टोऽडस्तक्ष्ण्यमस्य व्यडः, तस्याऽपत्यं व्याडिः, 'अत इ' ४।१।९५ ॥, 'स्वागतादीनां च ७।३७॥ इति ऐजागमप्रतिषेधः (वृद्धिप्रतिषेधैजागमयोर्निषेधः)'' [मा.धातुवृत्तिः, भ्वादिः, धातुसं-२४४] इति माधवः । २ विन्ध्ये वसति विन्ध्य वासी । 'वस निवासे '(भ्वा.प.अ.), ग्रहादित्वाणिनिः । ३ नन्दन्यास्तनयो नन्दनीतनयः । नन्दनीशब्दो नन्द्यादित्वाद् ङीषि प्रत्यये साधुः । “ग्रहादित्वाणिनिप्रत्यये नन्दिनीति तृतीयस्वर मध्योऽपि''[]इत्यन्ये । त्रीणि व्याडिमुनेः ॥८५२॥
स्फोटायने तु कक्षीवान्
१ स्फोटं शब्दस्फोटमयते स्फोटायन: । 'अय
२० गतौ '(भ्वा.आ.से), नन्द्यादित्वाद् ल्युः, तत्र । स्फोटायनोऽपि (स्फोटनोऽपि) । २ कक्षा उद्योगोऽस्य कक्षीवान् । 'आसन्दीवदष्ठीवत्-'८।२।१२॥ इति सूत्रेण साधुः । एकं (द्वे) स्फोटायनस्य ॥
पालकाप्ये करेणुर्भूः ।
१ पालकैर्हस्तिचिकित्सकैराप्यते आप्तत्वेन गम्यते पालकाप्यः । 'आप्ल व्याप्तौ'(स्वाप.अ.), 'ऋहलोर्ण्यत्' ३।१।१२४ ॥ इति ण्यत्, तत्र । २ करेणोर्हस्तिन्या भवति करेणुर्भूः । क्विप् । कारेणवोऽपि । द्वे पालकाप्यमुनेः ॥
वात्स्यायने मल्लनाग: कौटल्यश्चणकात्मजः ॥८५३॥
द्रामिल: पक्षिलस्वामी विष्णुगुप्तोऽङ्गुलश्च सः ।
३० १ वत्सस्याऽपत्यं वात्स्यः । गर्गादित्वाद् यञ् । वात्स्यस्याऽपत्यं वात्स्यायनः । 'यजिजोश्च'४।१।१०१ ॥ इति फक्, तत्र । २ मल्लो नवनन्दच्छेदने स चासौ नागश्च मल्लनागः । 'वृन्दारकनागकुञ्जरैः '२।१।६२ ॥ इति समासः । ३ कुटो घटः, तं लान्ति कुटलाः कुम्भीधान्याः, तेषामपत्यं कौटल्यः । गर्गादित्वाद् यञ् । ४ चणकस्य ऋषेरात्मजः चणकात्मजः । चाणक्योऽपि ॥८५३॥५ द्रमिलदेशे भवो द्रामिल: । 'तत्र भव:'४।३ १५३ ॥ इत्यण् । ६ प्रशस्तौ पित्रोः पक्षावस्य स्तः पक्षिलः । '-पिच्छादिभ्यश्च-'५।२।१०० ।। इतीलच् । स चासौ स्वामी च पक्षिलस्वामी । ७ विष्णुरेनं
४० गुप्यादिति विष्णुगुप्तः । ‘क्तिच्तौ च संज्ञायाम्'३।३।१७४ ।। इत्याशिषि क्तच् । ८ अङ्गु शरीरावयवं लाति अङ्गुलः । 'ला दाने '(अ.प.अ.), 'आतोऽनुपसर्गे कः'३।२।३॥ । अष्टौ वात्स्यायनस्य । एते प्राचेतसाद्याः सर्वेऽपि ऋषिविशेषाः ॥
क्षतव्रतोऽवकीर्णी स्यात्
१ क्षतं विलुप्तं व्रतमनेन क्षतव्रतः । अवान्तरे कीर्णं विक्षिप्तं रेतोऽस्त्यस्य अवकीर्णी । मत्वर्थे इनिः । "ब्रह्मचार्य वकीर्णी स्यात् कामतस्तु स्त्रियं व्रजन्'[ ]इति स्मृतेः । एकं खण्डितव्रतस्य ऋषेः ॥
व्रात्यः संस्कारवर्जितः ॥८५४॥
५० १ अष्टाचत्वारिंशत् संस्कारहीनः षोडशवर्षादूर्ध्वम कृतव्रतरथो भ्रष्टगायत्रीको दानाद्यकर्ता द्विजो व्रात्यः । व्रातो यवादिः, स इवेत्यर्थे 'शाखादिभ्यो यः५।३।१०३ ॥ । यद्वा व्रते साधुः कालो व्रत्यः, तत्र भवो व्रात्यः प्रायश्चित्तार्हः । यत्स्मृति:
"अत ऊर्ध्वं त्रयोऽप्येते यथाकालमसंस्कृताः ।
सावित्रीपतिता व्रात्या भवन्त्यार्यविगर्हिताः ॥१॥"
__ [मनुस्मृतिः, अध्या-२, श्री-३९]इति । "वाते वृन्दे साधुः"
१. का- इात१.२.४॥ २. यत्' इात३.४॥ ३. '-वरस्य' इति२ ॥ ४. '-नौति' इति३ ॥ ५. 'नान्दना-' इति२.३ ।। ६. 'उड्डा-' इति३.४ ॥ ७. '-दिः' इति४॥ ८. '-क्ष्णं' इति३.४॥ ९. -जि' इति१.२.४॥ १०. 'स्फौ-' इति२॥ ११. '-णभूः' इति१ ॥ १२. 'कैणवोऽपि' इति३॥ १३. 'कौटि-' इति१.३.४॥ १४. '-त्' इति३ ॥ १५. '-न्दोच्छेदने' इति३ ॥ १६. 'तां' इति३ ॥ १७. 'लाति' इति१.३॥ १८. 'कुटि-' इति३ ॥ १९. 'कौटि-' इति३ ॥ २०. 'चाणि-' इति४॥ २१. अष्टाध्याय्यां 'च' इति न दृश्यते ॥ २२
१.२ ॥ २३. द्र. अम.क्षीर. २७१५४॥, पृ.१७५ ।।, स्वोपज्ञटीका ३८५४॥, पृ.१८८॥
[]इत्येके । संस्कारोऽत्रोपनयनम्, तेन वर्जितः संस्कार वर्जितः । एकं क्रियाहीनविप्रस्य ॥८५४॥
शिश्विदानः कृष्णकर्मा
१ श्वेतते शिश्चिदानः । 'श्विताङ् वर्णे'(भ्वा.आ.से.), 'मुमुचान-'(हैमोणा-२७८)इत्यानप्रत्यये साधुः । अमरस्तु शिश्विदिश्चैत्ये लिट: कानज् वा ('श्विदि शैत्ये'(भ्वा.आ.से.), 'लिटः कान्-'३।२।१०६ ॥, “श्विता वर्णे'(भ्वा.आ.से.), 'सम्यानच् स्तुव:'(उणा-२४६)इत्यत आनजित्यनुवृत्तौ 'हुर्छः सनो लुक् छलोपश्च'(उणा-२४८)इत्यतः सनो लुगित्यनुवृत्तौ
१० 'श्वितेर्दश्च'(उणा-२४९) इत्यानच्प्रत्ययो दत्वं सनो लुक् च) इत्याह । कृष्णं मलिनं कर्म आचारोऽस्य कृष्णकर्मा, दुराचार इत्यर्थः । 'शिश्विदानो दुराचारे'[हलायुधकोश: २४४०४॥] इति हलायुधः। एकं दुराचारद्विजस्य ॥
ब्रह्मबन्धुर्द्विजोऽधमः ।
१ ब्रह्मा बन्धुरिवाऽस्य ब्रह्मबन्धुः । द्विजो विप्रः, अधमो गर्दा इत्यर्थः । एकमधमविप्रस्य ॥
नष्टाग्निर्वीरहा
१ नष्ट उच्छिन्नोऽग्निरस्य नष्टाग्निः । वीरोऽग्निः, तं हतवान् वीरहा । क्विप् । वीरयति प्रभावन्तं करोति,
२० वीर: पूर्वोक्तोऽग्निः, तं हतवानिति वा । 'शूर वीर विक्रान्तौ' (चु.आ.से.), चुरादिः, ततो ण्यन्तादच् । वीरहणौ, वीरहणः इत्यादि । 'ब्रह्मभ्रूण-'३।२८७॥ इत्यत्र ब्रह्मादिभ्य एव हन्तेः क्विबिति भूतेः नियमाद् वर्तमानेऽपि क्वचित् क्विप् वा । एकं नष्टाग्निविप्रस्य ॥
जातिमात्रजीवी द्विजब्रुवः ॥८५५॥
१ जातिरेव जातिमात्रम् । “मात्रं त्ववधृतौ स्वार्थे" [अनेकार्थसङ्ग्रहः २।४३६ ।।] इत्यनेकार्थः । तेन जीवति जातमात्रजीवी । ग्रहादित्वाणिनिः । द्विजश्चासौ ब्रुवश्च
द्विजब्रुवः । 'कृत्सितानि कुत्सनैः '२।१।५३ ॥ इति कर्म
३० धारयः । ब्राह्मणब्रुवोऽपि । “जातिमात्रोपजीवी च कथ्यते ब्राह्मणब्रुवः" [हलायुधकोश:२।४०६॥]इति हलायुधः । एकं जातिमात्रजीविद्विजस्य ॥८५५॥ धर्मध्वजी लिङ्गवृत्तिः
१ धर्मस्य ध्वजश्चिह्नमस्य धर्मध्वजी । 'अत इनि ठनौ'५।२।११५ ॥ इतीनिः । २ लिङ्गेन जटादिधारणेन वृत्ति र्जीवनमस्य लिङ्गवृत्तिः । धर्मध्वज इत्यकारान्तोऽपि । यद्ध लायुधः-"धर्मध्वजो लिङ्गवृत्तिः''[हलायुधकोश: २।४०५ ॥] इति हलायुधः । " "(दाम्भिकवृत्तिद्विजे द्वौं''[]इति तट्टीका । द्वे दाम्भिकवृत्तिद्विजस्य॑ ॥
वेदहीनो निराकृतिः ।
४० १ वेदेन स्वाध्यायेन हीनो वेदहीनः । २ आकृते र्जातेनि:क्रान्तो निराकृतिः । यत्स्मृति:
"अनधीत्य तु यो वेदानन्यत्र कुरुते श्रमम् ।
स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः ॥१॥"
[मनुस्मृतिः, अध्या-२, शो-१६८] । अस्वाध्यायोऽपि ।
"अस्वाध्यायो निराकृतिः''[हलायुधकोशः २।४०५ ।।] इति हलायुधः । द्वेऽनधीतवेदविप्रस्य ॥
वार्ताशी भोजनार्थं यो गोत्रादि वदति स्वकम् ॥८५६॥
१ यो भोजनार्थं स्वकमात्मीयं गोत्रादि अन्वयादिकं
५० वदति कथयित, से वार्ताशी इत्यन्वयः । सत्रादौ वार्तार्थमा जीविकानिमित्तमश्नाति वार्ताशी । 'अश भोजने'(त्र्या.प.से.), ग्रहादित्वाणिनिः । एकं [यो भोजनार्थं स्वकं गोत्रादि वदति, तस्य] ॥८५६॥
उच्छिष्टभोजनो देवनैवेद्यबलिभोजनः ।
१ उच्छिष्टं भोजनमस्य उच्छिष्टभोजनः । देवस्य नैवेद्यबलिर्भोजनमस्य देवनैवेद्यबलिभोजनः । एकं 'भरडा' इति ख्यातस्य ॥
अजपस्त्वसदध्येता
१ नास्ति जपः स्वाध्यायोऽस्य अजपः । असदशोभ-
६०
१. ३प्रतौ नास्ति ॥ २. क्षीरतरङ्गिण्यादौ ङकारो न दृश्यते ॥ ३. त्रुटितेनैतद्ग्रन्थेन शिश्विदानशब्दस्याऽन्यप्रकारेणाऽपि सिद्धिर्ज्ञायते, सा कोष्ठान्त र्गतपदचन्द्रिकापाठेन बोध्या ॥ ४. '-यन्ति' इति१ ॥ ५. इतोऽग्रे १प्रतौ 'वा' इति दृश्यते ॥ ६. 'कुत्सनानि' इति१.२.३ ।। ७. तुलनीयोऽमरकोषः २७१५४ ॥ ८. 'ध्वज' इति४ ॥ ९. ३प्रतौ नास्ति ॥ १०. इतोऽग्रे १.२.३प्रतिषु 'हलायुधः' इति दृश्यते ॥ ११. कोष्ठान्तर्गतपाठस्थाने ४प्रतौ 'वेदान्तिके वृत्तिद्विजे' इति दृश्यते ॥ १२. इतः पूर्वे ३प्रतौ 'द्वौ' इति दृश्यते ॥ १३. ३प्रतौ नास्ति ॥ १४. 'वेदान्तिकवृत्तिद्विजस्य' इति४॥ १५. द्र.अम.क्षीर. २७१५४॥, पृ.१७४ ॥, स्वोपज्ञटीका ३८५६॥, पृ.१८९ ॥, मनुस्मृत्याम्-'अनधीत्य तु यो वेदान्' इत्यस्य स्थाने 'योऽनधीत्य द्विजो वेदम्' इति दृश्यते, २।१६८ ॥, पृ.६२ ॥ १६. ३प्रतौ नास्ति ॥ १७. 'वातार्थ...निमित्तं' इतिर, 'वातार्थजीविका-' इति४॥ १८. '-लिभो-' इति२॥
नमधीते असदध्येता । 'इङ् अध्ययने'(अ.आ.अ.), तृच् । द्वे असदध्येतुः, अपठनशीलस्य वा ॥
शाखारण्डोऽन्यशाखकः ॥८५७॥
१ शाखासु अन्यवेदशाखासु रमते शाखारण्डः । 'रमु क्रीडायाम्'( भ्वा.आ.अ.), 'जमन्ताङ्कः '(उणा-१११)। स्वशाखया रण्डो विरहितः शाखारण्ड इति वा । २ अन्याः शाखा अस्य अन्यशाखः । अर्शआद्यच् । ततः स्वार्थे कनि अन्यशाखकः । अत्र शाखाशब्द: पक्षान्तरे सन्तति विशेषार्थः । द्वे स्वशाखारहितविप्रस्य ॥८५७॥
१० शस्त्राजीव: काण्डस्पृष्टः
१ शस्त्रेण आयुधेन आजीवति शस्त्राजीवः । 'जीव प्राणधारणे'(भ्वा.प.से.), अच् । २ स्पृष्टानि काण्डान्यनेन काण्डस्पृष्टः । 'जातिकालसुखादिभ्यः परा निष्ठा वाच्या'(वा २।२।३६ ॥) । काण्डोऽधमः, स चासौ स्पृष्टश्चेति काण्डस्पृष्ट इति वा । द्वे शस्त्रजीविद्विजस्य ॥
__ गुरुहा नरकीलकः ।
१ गुरुं हन्ति गुरुहा । २ नरेषु कीलक इव नर कीलकः । द्वे गुरुहन्तृद्विजस्य ॥
मलो देवादिपूजायामश्राद्धः
२० १ मलते धारयति पापं मलः । ‘मल धारणे'(भ्वा. आ.से.), अच । मलमस्याऽस्तीति, अर्शआदित्वादच वा । देवाद्यर्चनविषयेऽश्राद्धः, श्रद्धावर्जित इत्यर्थः । एकं देवाद्यर्चायां श्रद्धारहितस्य ॥
अथ मलिम्लुचः ॥८५८॥ पञ्चयज्ञपरिभ्रष्टः
१ मलिनं म्लोचति मलिम्लुचः । ‘म्लुच (म्लुचु) गतौ'(भ्वा.प.से.), मूलविभुजादित्वात् कः ॥८५८॥ पञ्चभिः ब्रह्मदेवपितृभूतयज्ञैः परिभ्रष्टः पतितः पञ्चयज्ञपरिभ्रष्टः । एकं ब्रह्मादिपञ्चयज्ञपरिभ्रष्टस्य ॥
३० निषिद्धकरुचिः खरुः ।
१ निषिद्धा एकत्र रुचिरनेन निषिद्धैकरुचिः । खनति खोरति खुरति वा चित्तं खरुः । 'खरुशङ्क पी(पा)-- युनीलङ्गलिगु'(उणा-३६) क्वन्ता निपात्यन्ते । एकमेक
षद्धरुचिविप्रस्य ॥
सुप्ते यस्मिन्नुदेत्यर्कोऽस्तमेति च क्रमेण तौ ॥८५९॥ अभ्युदिताऽभिनिर्मुक्तौ
१ यस्मिन् सुप्तेऽर्क उदेति उदयाद्रिमौलिं गच्छति, सोऽभ्युदितमभ्युदयः सूर्यस्य, तद्योगादर्शआद्यच् अभ्यु दितः, भुक्ता ब्राह्मणा इत्यादिवत् । १ यस्मिन् सुप्ते निद्राणे ऽर्कोऽस्तमेति अस्ताचलं याति, स अभिनिर्मुक्तः । सर्वतो
४० भावेन सामान्येन कर्मणा निर्निश्चयेन मुक्तोऽभिनिर्मुक्तः । "अभिभूय उदितोऽर्कोऽस्य सुप्तस्य अभ्युदितः । अभिभूय निर्मुक्तोऽस्तमितोऽर्कोऽस्य सुप्तस्य अभिनिर्मुक्तः''[अभि-, स्वोपज्ञटीका-२८५९-८६०] इत्याचार्याः ॥
"सुप्ते यस्मिन्नस्तमेति सुप्ते यस्मिन्नुदेति च ।।
अंशुमानभिनिर्मुक्ताभ्युदितौ तौ यथाक्रमम् ॥१॥"
[अमरकोषः २७।५४-५५॥] इत्यमरः । क्रमेणैकैकम् ॥८५९॥
वीरोज्झो न जुहोति यः ।
१ वीरमग्निमुज्झति त्यजति वीरोज्झः, चवर्गतृतीय चतुर्थान्तः । 'उज्झ त्यागे '(तु.प.से.), 'कर्मण्यण'३।२।१॥।
५० न जुहोत्यग्नौ हवि:प्रक्षेपं न करोति, तस्यैकम् ॥
अग्निहोत्रच्छलाद्याच्यापरो वीरोपजीवकः॥८६०॥
१ अग्निहोत्रच्छलादग्निरक्षणमिषात् यो याच्वापर: प्रार्थनापरः, तस्यैकम् । वीरमग्निमुपजीवति वीरोपजीवकः । ण्वुल् ॥८६०॥
वीरविप्लावको जुह्वद्धनैः शुद्रसमाहृतैः ।
१ शुद्रेभ्यः समाहृतैः कृतसङ्ग्रहै: जुह्वद्धनैः हूय मानद्रव्यैः यो याच्यापरः, तस्यैकम् । वीरमग्निं विप्लावयते वीरविप्लावकः । 'प्लुङ् गतौ'(भ्वा.आ.अ.), हेतुमण्णि जन्तात् ण्वुल् ॥
६० अथ षड्दर्शननामानि निरूपयन्नाह –
स्याद्वादवाद्याऽऽर्हतः स्यात्
१ स्यादिति विकल्पार्थेऽव्ययम्, स्याद् विकल्पितो वादः स्याद्वादः सदसन्नित्यानित्याभिलाप्यानभिलाप्यरूपः, तं
१.'-षणार्थः' इति३ ।। २. ४प्रतौ 'स्व-' इति न दृश्यते ॥ ३.'-वी' इति१.२ ॥ ४. 'शस्त्रा-' इति४॥ ५. 'नल-' इति१.३.४ ॥ ६. 'नल-' इति१.२.४ ॥ ७. 'ब्रह्मा-' इति३.४ ॥ ८. १प्रतौ नास्ति ॥ ९. मुद्रितस्वोपज्ञटीकायां न दृश्यते ॥ १०. 'च' इत्यमरकोषे ॥ ११. 'उत्सर्गे' इति क्षीरतरङ्गिण्यादयः ॥ १२. '-तृ-' इति१.२ ।। १३. 'शूद्रस्य' इति४ ॥ १४. '-दर्शननामान्याह' इति४ ॥ १५. '-ल्पेऽर्थे-' इति३॥ १६.'-लाप्यरूपः' इति१.२.४ ॥
वदति स्याद्वादवादी । 'वद व्यक्तायां वाचि'(भ्वा.प.से.), ग्रहादित्वाणिनिः । अनेकान्तवाद्यपि । २ अर्हन् देवताऽस्य
आर्हतः । 'सास्य देवता'४।२।२४॥ इत्यण् । जैनोऽपि । द्वे जैनदर्शनस्य ॥
___शून्यवादी तु सौगतः ॥८६१॥
१ शून्यं निराकारं वदति शून्यवादी । ग्रहादित्वा ण्णिनिः । २ सुगतो देवताऽस्य सौगतः । 'सास्य देवता' ४।२।२४ ।। इत्यण् । द्वे बौद्धदर्शनस्य ॥८६१॥ नैयायिकस्त्वाक्षपादो योगः
१० १ नीयते प्राप्यते विवक्षितोऽर्थो येनाऽसौ न्यायः । 'इण् गतौ'(अ.प.अ.), करणे घञ् । न्यायः प्रतिज्ञादिपञ्चा वयवोपेतं वाक्यादिः, तं वेत्त्यधीते वा नैयायिकः । क्रतूक्था दित्वाट्ठक्, 'न य्वाभ्यां पदान्ताभ्यां पूर्वी तु ताभ्यामैच' ७।३।३॥ । २ अक्षस्तृतीयं नेत्रं पादेऽस्य अक्षपादः, अक्ष पादस्याऽयम् आक्षपादः । ३ योगः प्रत्याहारादिरष्टाङ्गः, तं वेत्त्यधीते वा यौगः । तदधीते तद्वेद'४।२।५९ ॥ इत्यण् । त्रीणि नैयायिकदर्शनस्य ॥
साङ्ख्यस्तु कापिलः ।
१ पञ्चविंशतेस्तत्त्वानां सङ्ख्या, तदधिकृतं शास्त्रं
२० साङ्ख्यम्, तदधीते वेत्ति वा साङ्ख्यः । 'तदधीते तद्वेद'४।२५९॥ इत्यण् । २ कपिलेन प्रोक्तो ग्रन्थः कापिलः । 'तेन प्रोक्तम्'४।३।१०१ ॥ इत्यण् । तं वेत्त्यधीते वा कापिलः । कपिलस्याऽयमिति वा । 'तस्येदम्' ४।३।१२० ॥ इत्यण् । द्वे साङ्ख्यदर्शनस्य ॥
वैशेषिकः स्यादौलूक्यः
१ नित्यद्रव्यवृत्तयोऽन्त्याः(-त्र) विशेषाः । यदाह शिवादित्यः-"विशेषास्तु नित्यद्रव्यवृत्तित्वादनन्ता एव"[] । ते प्रयोजनमस्य वैशेषिकं शास्त्रम् । 'प्रयोजनम्'५।१।१०९॥ इति ठक्, “विनयादिभ्यश्च ५।४।३४॥ इति स्वार्थे ठक्
३० वा । तदधीते वेत्ति वा वैशेषिकः । 'तदधीते- '४।२५९ ॥ इत्यण् । २ उलूकस्याऽपत्यमिव तज्जन्यत्वाद् औलूक्यं शास्त्रम्। गर्गादित्वाद् यञ् । उलूकवेषधारिणा महेश्वरेण प्रणीतमिति हि प्रसिद्धिः । औलूक्ये साधुः औलूक्यः । 'तत्र साधुः'४।४।९८॥ इति यत्, 'यस्येति च'६।४।१४८ ।। इत्यकारलोपः, 'लोपो व्योर्वलि'६।१६६ ॥इति पूर्वयलोपः । द्वे वैशेषिकदर्शनस्य ॥
बार्हस्पत्यस्तु नास्तिकः ॥८६२॥ चार्वाको लौकायतिकश्च
१ बृहस्पतिना कृतं बार्हस्पत्यं शास्त्रम् । 'पत्य न्तपुरोहितादिभ्यो यक्'५।१।१२८ ॥ इति यक् । बार्हस्पत्ये
४० साधु: बार्हस्पत्यः । 'तत्र साधुः '४।४।९८ ॥ इति यत् । २ नास्ति परलोके मतिरस्य नास्तिकः । 'अस्तिनास्तिदिष्टं मति:"४।४।६० ॥इति ठक, 'ठस्येक:'७।३।५०॥ ॥८६२॥ ३ चर्वत्यात्मानं चार्वाकः । 'चर्व अदने '(भ्वा.प.से.), 'पिनाकादयश्च'(उणा-४५५) इति साधुः । ४ लोकेष्वायतं लोकायतं बृहस्पतिप्रणीतं शास्त्रम् । तद्वेत्त्यधीते वा लौका यतिकः। क्रतूक्थादित्वाट्ठक्, 'ठस्येकः'७।३।५० ।। चत्वारि नास्तिकदर्शनस्य ॥
उपसंहारमाह
एते षडपि तार्किकाः ।
५० १ एते आर्हतादयः षट्सङ्ख्या अपि, तर्कः प्रयोजन __ मेषां तार्किकाः । 'प्रयोजनम्'५।१।१०९ ॥ इति ठक् ॥
क्षत्रं तु क्षत्रियो राजा राजन्यो बाहुसम्भवः ॥८६३॥
१ क्षदति संवृणोति क्षत्रम्, द्वितकारम्, पुंक्ली बलिङ्गम् । 'क्षद संवरणे' [सौत्रोऽयम्], 'गुधृवीपचि वचियमि(मनितनि)क्षदिभ्यस्त्रन्(-स्त्रः) '(उणा-६०६) । क्षतात् त्रायत इति पृषोदरादित्वाद्वा । २ क्षत्रस्याऽपत्यं क्षत्रियः । 'क्षत्राद् घः'४।१।१३८॥ इति घः । क्षतात् त्रायत इति । 'आत:-'३।२।३॥ इति कः । नैरुक्ते क्षतशब्दा न्ताकारलोपे क्षत्रः, ततो घ इति वा । 'वार्तासंणोपधम्(त्रान्तं
६० सलोपधम्) '(लिङ्गादि-४५८)इति क्लीबत्वमपि । ३ तेजसा प्रभावेन वा राजते दीप्तो भवति राजा, नकारान्तः । 'राज़
१. 'निई-' इति१.२.४॥ २. '-दिह' इति२ ॥ ३. '-क-' इति२ ॥ ४. '- भ्यष्ठक्' इत्यष्टाध्याय्याम् ॥ ५. '-द्धेः' इति४॥ ६. 'गृ-' इति१.३.४ ॥ ७. कोष्ठान्तर्गतपाठ उणादिगणसूत्रे न दृश्यते ॥
दीप्तौ'(भ्वा.उ.से.), 'कनिन् युवृषि-'(उणा-१५४)इति साधुः । “राजा चन्द्रे नृपे शक्रे क्षत्रिये प्रभुयक्षयोः''[विश्व लोचनकोशः, नान्तवर्गः, श्रो-११४] इति श्रीधरः । ४ राज्ञोऽपत्यं राजन्यः । क्षत्रियार्थाद् राजशब्दात् 'राजश्वसुराद् यत् '४।१।१३७ ॥ इति यत्, 'ये चाभावकर्मणोः '६।४। १६८॥ इति प्रकृतिभावाद् न टिलोपः । 'राज्ञो जातौ- '(वा ४।१।१३७॥)इति यदिति वा । ५ ब्रह्मणो बाहुभ्यां सम्भवति बाहुसम्भवः । पचाद्यच् । “बाहू राजन्यः कृतः"[ऋ. वे. १०।९०।१२॥] इति श्रुतिः । पञ्च क्षत्रियस्य ॥८६३॥
१० अर्या भूमिस्पृशो वैश्या ऊरव्या ऊरजा विशः ।
१ अर्यन्ते अर्याः । 'ऋ गतौ'(भ्वा.प.से.), 'अर्यः स्वामिवैश्ययोः'३।१।१०३ ॥ इति साधुः, आद्यस्वरादिः । २ कृष्यादिना भूमिं स्पृशन्ति भूमिस्पृशः । 'स्पृश संस्पर्शने' (तु.प.अ.), क्विप् । ३ विशोऽपत्यानि जातयो वैश्याः । गर्गादित्वाद् यञ् । विश एव वा, भेषजादित्वाद् यण् । ४ ऊर्वोर्भवा ऊरव्याः । 'शरीरावयवाद्यत्'५ ।१।६॥इति यत्, 'ओर्गुणः '६।४।१४६ ॥ इति गुणः, 'वान्तो यि प्रत्यये' ६।१७९ ॥ इत्यवादेशः । ५ ऊरुभ्यां जाता ऊरजाः । 'पञ्चम्यामजातौ'३।२।९८ ॥ इति डः । ऊर्वोर्जाता इति वा ।
२० द्वावपि षष्ठस्वरादी । "ऊरू तदस्य यद्वैश्यः"[ऋ. वे.१०। ९०।१२ ॥] इति श्रुतिः । ६ विशन्ति विशः । 'विश प्रवेशने' (तु.प.अ.), क्विप् । षड् वैश्यस्य ॥
वाणिज्यं पाशुपाल्यं च कर्षणं चेति वृत्तयः ॥८६४॥
१ वाणिज्यं वणिक्कर्म१, पाशुपाल्यं पशुपालनाद् वृत्ति:२, कर्षणं हलकर्मकरणम्३, इत्येतेषां त्रयाणां नाम वृत्तिः इत्यर्थः । "वृत्तिः प्रवृत्तौ विवृतौ कौशिक्यादिषु वर्तने'[विश्वलोचनकोशः, तान्तवर्गः, श्री-५६] इति श्रीधरः । "वर्तनं कृष्यादिजीवनम्''[]इति तट्टीका । वाणिज्यादीनां त्रयाणमेकोक्त्या नाम एकं वृत्तिरिति ॥८६४॥
३० आजीवो जीवनं वार्ता जीविका वृत्तिवेतने ।
१ आजीवनम् आजीवः । भावे घञ् । आजीव न्त्यनेनेति करणे घञ् वा । २ जीवत्यनेन जीवनम् । करणे ल्युट् । ३ वर्तनं वृत्तिः, साऽस्त्यस्यां वार्ता । 'प्रज्ञाश्रद्धार्चा वृत्तिभ्यो णः'५ ।२।१०१॥ । ४ जीवत्यनया, जीव्यते वाऽनया जीविका । 'जीव प्राणधारणे'(भ्वा.प.से.), 'धात्वर्थनिर्देशे ण्वुल वक्तव्यः (वा-३।३।१०८॥)इति ण्वुल, टाप्, 'प्रत्यय स्थात्-'७।३।४४ ॥ इतीत्वम् । ५ वृत्यतेऽनया वृत्तिः । 'वृतु वर्तने '(भ्वा.आ.से.), 'स्त्रियां क्तिन्'३।३।९४॥ । ६ वेति खादत्यनेन वेतनम् । 'वी गत्यादौ'(अ.प.अ.), 'वीपतिभ्यां तनन्'(उणा-४३०) । सामान्येन आजीविकायाः षट् ॥
४० उञ्छो धान्यकणादानम्
१ उञ्छनम् उञ्छः, पुंक्ली. । 'उञ्छ(उछि) उञ्छने' (भ्वा.तु.प.से.), भावे घञ् । क्षेत्रादिलवनात् पतितानां धान्यकणानामादानमुच्चयो धान्यकणादानम् । “आपणादि कणोपादानं धान्यकणादानम्''[] इति भागवतसप्तमस्कन्ध टीका । "ईषद्भूच्छन्नकणोद्ग्रहणमुञ्छ:"[]इति धातु वृत्तिः । एकं 'हूंछा' इति ख्यातस्य ॥
. कणिशाद्यर्जनं शिलम् ॥८६५॥
१ कणिशं धान्यमञ्जरी, आदिशब्दात् शिम्बादिः, ___ तस्याऽर्जनं ग्रहणम्, शिल्यते शिलम् । 'शिल उञ्छे'(तु.-
५० प.से.), कर्मणि घञ् । एकं 'शिलु' इति ख्यातस्य ॥८६५॥
ऋतं तद् द्वयम्
१ तद् द्वयमुञ्छं शिलं च ऋतम् उच्यते, निरवद्य ___ त्वात् । “ऋतमुञ्छशिलं ज्ञेयम्"[मनुस्मृतिः, अध्या-४, शो ५]इति मनुः । एकं तदुभयस्य ॥
अनृतं कृषिः
१ न ऋतम् अनृतम्, पापकर्मत्वात् । २ कर्षणं __ कृषिः, स्त्रियाम् । 'कृष विलेखने'(भ्वा.प.अ., तु.उ.अ.), __'इक् कृष्यादिभ्यः'(वा-३।३।१०८॥ इति किदिन् (इक्)। ___ "अनृतं स्यान्मृषाकृष्योः"[विश्वप्रकाशकोशः, तान्तवर्गः, श्री-
६० ७७]इति श्रीधरः। प्रमृतमित्यन्ये। द्वे करसण' इति ख्यातस्य॥
१. 'क्षतः' इति३ ॥ २. 'अर्यतेऽसौ' इति१.२.४ ॥ ३. '-ति' इति इति१ ॥ ४. 'शरीरावयवाच्च'४।३ ५५ ॥ इत्येव युक्तः ॥ ५. 'निवृत्तौ' इति३॥ ६. "वृत्तिः प्रवृत्तौ वृत्तौ च कौशिक्यादिप्रवर्तने" इति विश्वलोचनकोशे, पृ.१२८ ॥ ७. '-क-' इति३ ॥ ८. इतोऽग्रे ४प्रतौ 'ल्युट्' इति दृश्यते ॥ ९. '-नां' इति ॥ १०. '-लो' इति३, '-लू' इति४॥ ११. इतोऽग्रे १प्रतौ 'क्ति' इति दृश्यते ॥ १२. 'कृषि' इति३ ॥ १३. ३.४प्रत्यो स्ति ॥
मृतं तु याचितम् ।
१ मृतं निर्जीवमिव । २ याच्यते स्म याचितम् । "मृतं तु याचितं भैक्षम्"[मनुस्मृतिः, अध्या-४, शो-५]इति मनुः । "मृतं तु नित्ययाच्या स्यात्''[]इति भागवतम् । "मृत्युयाचितयोम॑तम् "[विश्वप्रकाशकोशः, तान्तवर्गः, शो ४४] इति श्रीधरः । द्वे भिक्षावृत्तेः ॥
अयाचितं स्यादमृतम्
१ न याचितम् अयाचितम् । २ म्रियते स्म मृतम्, न मृतम् अमृतम्, अविनश्वरमित्यर्थः ॥
१० "अमृतं मोक्षपियूषसलिले हृद्यवस्तुनि ।
अयाचिते यज्ञशेषे [घृते दुग्धेऽतिसुन्दरे] ॥१॥"
[विश्वप्रकाशकोशः, तान्तवर्गः, शो-७९-८०] इति श्रीधरः । द्वे अभिक्षितवृत्तेः ॥
सेवावृत्तिः श्वजीविका ॥८६६॥
१ वेतनग्रहणेन आज्ञाकरणं सेवा, तया कृत्वा वृत्तिः जीविका सेवावृत्तिः । शुन इव जीविका वृत्तिः श्वजीविका, परपिण्डोपजीवित्वादधमेत्यर्थः । एवं सेवावृत्तेः ॥८६६॥ सत्यानृतं तु वाणिज्यं वणिया
१ किञ्चित् सत्यं किञ्चिदनृतमसत्यं सत्यानृतम् ।
२० २ वणिजः कर्म वाणिज्यम् । 'गुणवचनब्राह्मणादिभ्यः
कर्मणि च'५।१।१२४ ॥ इति ध्यञ् । ३ वणिजः कर्म वणिज्या, आद्यस्वरादिः । 'दूतवणिग्भ्यां च '(वा-५।१। १२६ ॥)इति यत् । स्त्रीक्लीबलिङ्गः । [यन्मनुः-]
"ऋतमुञ्छशिलं ज्ञेयममृतं स्यादयाचितम् ।
मृतं तु याचितं भैक्षं प्रमृतं कर्षणं स्मृतम् ॥१॥
सत्यानृतं तु वाणिज्यं तेनाऽपि खलु जीव्यते ।।
सेवा श्ववृत्तिराख्याता तस्मात् तां परिवर्जयेत् ॥२॥"
[मनुस्मृतिः, अध्या-४, श्री-५-६]इति । वणिजनामानि त्रीणि ॥
वाणिजो वणिक् ।
क्रयविक्रयिकःपण्याजीवाऽऽपणिकनगमाः॥८६७॥
३० वैदेहः सार्थवाहश्च
१ वणिगेव वाणिजः । प्रज्ञादित्वादण् । २ पणायति व्यवहरते वणिक् । 'पण व्यवहारे स्तुतौ च' (भ्वा.आ.से.), ‘पणेरिच्चा(ज्या) देशश्च व:'(उणा-२२८) इतीज्प्रत्ययः । वणिजौ, वणिजः इत्यादि । ३ क्रयविक्रयेण जीवति क्रयविक्रयिकः । 'वस्नक्रयविक्रयाट्ठन् '४।४।१३॥ इति ठन्, 'ठस्येकः' ७।३।५० ॥ । ४ पण्येण आजीवति पण्याजीवः । पचाद्यच् । ५ आपणायतीति आपणिकः । 'आङि पणिपनि- '(उणा-२०३)इतीकन्। आपणः प्रयोजनम स्याऽस्तीति वा । 'प्रयोजनम्'५।१।१०९॥ इति ठक् ।
४० प्रापणिकोऽपि । ६ निगमे पुरे मार्गे वा भवो नैगमः । 'तत्र भवः'४।३।५३॥ इत्यण् ॥८६७॥ ७ विदेहे उपचये भवो वैदेहः । ८ सार्थान् सधनान् सरतो वा पान्थान् वहति सार्थवाहः । 'कर्मण्यण्'३।२।१॥ । “अर्थोऽभिधेयरै वस्तुप्रयोजननिवृत्तिषु' [अमरकोषः३।३।८६ ॥] इत्यनेकार्थः । . अष्टौ वणिजः ॥
क्रायकः क्रयिकः क्रयी ।
१ क्रीणाति क्रायकः । 'डुक्रीञ् द्रव्यविनिमये' (क्या.उ.अ.), ण्वुल् । २ क्रयेण जीवति क्रयिकः, तृतीयस्वरमध्यः । क्रयविक्रयादित्यवसंहतरि गृहीतयोर-
५० पीष्टत्वाट्ट, 'ठस्येक:'७।३।५० ।। ३ क्रयोऽस्त्यस्य क्रयी। 'अत इनिठनौ'५।२।११५ ॥ इतीनिः । क्रयिणौ, क्रयिणः इत्यादि । त्रीणि वस्तुग्राहकस्य ॥
क्रेयदे तु विपूर्वास्ते
१ क्रेयं क्रेतव्यं 'वेचाऊ' इति भाषाप्रसिद्धं ददाति क्रेयदः, तत्र । ते क्रायकादयो विपूर्वाः क्रेयदे क्रेतव्यदायके भवन्ति, यथा २ विक्रायकः, ३ विक्रयिकः, ४ विक्रयी । "विक्रेता स्याद् विक्रयिकः"[अमरकोषः२।९७९ ।।] इत्यमरः । चत्वारि 'वेचणहार' इति ख्यातस्य ॥
१. 'भैक्ष्यम्' इति३ ॥ २. 'मतम्' इति विश्वप्रकाशकोशे, पृ.१२६ ॥ ३. 'वणिक्कर्म' इति३॥ ४. सिद्धान्तकौमुद्यां 'सख्युर्यः'५।१।१२६ ॥ इत्यत्र भट्टोजिदीक्षितेन " 'दूतवणिग्भ्यां च' । दूतस्य भावः कर्म वा दूत्यम् । वणिज्यमिति काशिका । माधवस्तु वणिज्याशब्दः स्वभावात् स्त्रीलिङ्गः । भाव एव चाऽत्र प्रत्ययो न तु कर्मणीत्याह । भाष्ये तु 'दूतवणिग्भ्यां च' इति नास्त्येव" इत्युक्तम्, तद्धितेषु भावकर्मार्थाः, पृ.३४५ ॥ ५. 'भैक्ष्यं' इति३॥ ६. 'प्रभृतं' इति४॥ ७. "तेन चैवापि जीव्यते" इति मनुस्मृत्याम्, पृ.१३२॥ ८. '-हारते' इति४॥ ९. 'वस्तुक्रियाट्ठन्' इति३॥ १०. '-ठञ्' इति४॥ ११. 'सधनान् पान्थान्' इति१॥ १२. 'सार्थान् वहति' इति४॥ १३. '-ञ्' इति३ ॥ १४. इतोऽग्रे ४प्रतौ 'क्रेयं' इति दृश्यते ॥ १५. 'विक्रायः' इति१.२, 'विक्रायिकः' इति४॥
मल्ये वस्ना_वक्रयाः ॥८६८॥
१ पठा(पटा) दीनामुत्पत्तिकारणं हिरण्यं मूलम्, मूले नाऽऽनाम्यमनभिभवनीयं मूल्यम् । 'नौवय-'४।४।९१ ॥ इति यत् । २ प्राप्तिहेतुत्वं वसत्यत्र वस्तम्, पुंक्ली. । 'वस निवासे' (भ्वा.प.अ.), 'वधिवसिधापृ(प)भ्यो न: '(चान्द्रोणा-२८६)। तवर्गपञ्चमान्तोऽयम् । ३ अर्यते पण्यमत्र अर्घः । 'ऋ गतौ' (जु.प.अ.), बाहुलकाद् घः । अर्हतीत्यर्घ इति वा । 'अर्ह पूजायाम्'(भ्वा.प.से.) 'संज्ञायामघमेघनिदार्घा : '(गणसू ७।३।५३ ।।) इति न्यक्कादित्वात् कुत्वम् । अर्घ्यते पण्यमत्रेति
१० वा । अर्घधातोरधिकरणे घञ् । ४ अवक्रीयतेऽनेन अवक्रयः । 'डुक्रीञ् द्रव्यविनिमये'(त्र्या.उ.अ.), ‘एरच '३।३।५६ ॥ इत्यच् । “वष्टि भागुरिरल्लोपम्-''[भागुरिकृतकारिका] इति वक्रयोऽपि । चत्वारि मूल्यस्य । “भाटक:''[शेषनाममाला ३।१५४॥] शैषिकम् ॥८६८॥
मलद्रव्यं परिपणो नीवी
१ मूलं लाभकरणं द्रव्यं मूलद्रव्यम् । २ परिपण्यते वृद्ध्यर्थं प्रयुज्यते परिपणः । ‘पण व्यवहारे स्तुतौ च' (भ्वा.आ.से.), 'पुंसि संज्ञायाम्-'३।३।११८ ॥ इति घः ।
३ नीयते वृद्धिमिति नीवी । पृषोदरादिः । नीवीव पर
२० हस्तेऽर्पणाद् वा । निपूर्वाद् ‘वेञ् तन्तुसन्ताने '(भ्वा.उ.अ.) अस्माद् वा, [नेरीच्] च'(चान्द्रोणा-१५९॥)इति डि:, 'कृदिकारात्- '(गणसू-४।१।४५ ॥) इति ङीष्, वे(ने)
र्दीर्घश्च । द्वे मूलद्रव्यस्य । 'नीवी' इति भाषा ॥
__ लाभोऽधिकं फलम् ।
१ मूलधनविक्रयाद् यदधिकं लभ्यते, स लाभः । 'डुलभष् प्राप्तौ'(भ्वा.आ.अ.), कर्मणि घञ् । २ फलति फलम् । 'फल निष्पत्तौ'(भ्वा.प.से.), अच् । “फलं हेतु समुत्थे स्यात् फलके व्युष्टिलाभयोः''[विश्वप्रकाशकोशः, लान्तवर्गः, श्री-२]इति महेश्वरः । अधिकं मूलद्रव्यादतिरिक्तं
३० निष्पन्नम्, स लाभः फलमित्यन्वयः । द्वे लाभस्य ॥
परिदानं विनिमयो नैमेयः परिवर्तनम् ॥८६९॥ व्यतिहारः परावर्तो वैमेयो निमयोऽपि च ।
१ परिवर्तनाद् दानं परिदानम् । २ विनिमानं विनिमयः । 'डुमिञ् प्रक्षेपणे'(स्वा.उ.अ.), एरच्' ३।३५६ ।। इत्यच्, 'मीनातिमिनोतिदीङां ल्यपि च'६।१५० ॥ इत्यात्वे प्राप्ते 'निमिमीलियां खलचोरात्वनिषेधः '(वा-३।१।५० ॥) । ३ डुमिञः 'अचो यत्'३।१।९७ ॥ इति यत्, 'इ(ई)द्यति' ६।४।६५ ।। इतीत्वम्, गुणः, निमेयः, प्रज्ञाद्यणि नैमेयः । निमेये परिवर्तनीये भव इति वा नैमेयः । 'तत्र भवः '४।३ १५३ ॥ इत्यण् । ४ परिवर्त्यते परिवर्तनम् । 'वृतु वर्तने'(भ्वा.आ.से.),
४० ल्युट् ॥८६९॥ ५ व्यत्ययेन हरणं व्यतिहारः । 'हृञ् हरणे'(भ्वा.उ.अ.), भावे घञ् । ६ परावर्तनं परावर्तः । ७ विमी(मे)ये परिवर्तनीये भवो वैमेयः । तत्र भव: '४।३ १५३ ॥ इत्यण । ८ निमानं निमयः । 'डुमिन् प्रक्षेपणे'(स्वा.उ.अ.), 'एरच्'३।३।५६॥ । अष्टौ ‘पालटवउं' इति ख्यातस्य ॥
निक्षेपोपनिधी न्यासे
१ निक्षिप्यते भूतलादाविति निक्षेपः । 'क्षेप प्रेरणे' (दि.प.अ., तु.उ.अ.), कर्मणि घञ् । २ उप समीपे निधीयते उपनिधिः । 'उपसर्गे घोः कि: '३।३।९२ ॥ ३ न्यस्यते निक्षिप्यते न्यासः, तत्रं । निपूर्वः ‘असु क्षेपणे'(दि.प.से.),
५० कर्मणि घञ् । त्रीणि 'थांपणि' इति ख्यातस्य ॥
"वासनस्थमनाख्याय हस्तेऽन्यस्य यदर्पितम् ।
द्रव्यं तदुपनिधिया॑सः प्रकाश्यस्थापितं तु यत् ॥१॥"
[याज्ञवल्क्यस्मृतिः, आचाराध्यायः, शो-६५] ।
"निक्षेपः शिल्पिहस्ते तु भाण्डं संस्कर्तुमर्पितम् ।"
["]इति स्मार्तो भेदोऽत्र नाश्रितः ॥
प्रतिदानं तदर्पणम् ॥८७०॥
१ प्रतीपं दानं प्रतिदानम् । प्रतिपूर्वो ददाति ासार्थः । तस्य न्यासस्य 'थांपणी' इति ख्यातस्याऽर्पणं तदर्पणम् । 'ऋ गतौ '(जु.प.अ.), णिच्, 'अर्तिहीब्लीरी-
६० क्नूयी-'७।३।३६ ॥ इत्यादिना पुक्, 'पुगन्तलघूपध- '७।३। ८६ ॥ इति गुणः । एकं प्रतिदानस्य । 'थांपणि पाछी देवी' इति भाषा ॥८७०॥
क्रेतव्यमात्रके क्रेयम्
१. 'पा-' इति१ ।। २. 'पुंक्लीबलिङ्गः' इति३॥ ३. '-मोऽयम्' इति३ ॥ ४. 'संज्ञायां मेघनिदाघावदाघार्घाः' इति गणसूत्रस्वरूपम् ॥ ५. 'डीषि' इति१.४ ॥ ६. तुलनीयोऽमरकोषः २।८।८० ॥ ७. '-वौ' इति३ ।। ८. 'भाषा' इति१ ॥ ९. १.२.४प्रतिषु न दृश्यते ॥ १०. याज्ञवल्क्यस्मृत्याम् - "वासनस्थमनाख्याय हस्तेऽन्यस्य यदय॑ते । द्रव्यं तदौपनिधिकं प्रतिदेयं तथैव तत् ॥'' इति दृश्यते, पृ.२२१ ॥ ११. '-स्तेषु' इति३ ॥ १२. द्र.अम.क्षीर. २।९।८१ ॥, पृ.२१८ ।, स्वोपज्ञटीका ३८७० ॥, पृ.१९२ ॥ १३. तुलनीयोऽमरकोषः २।९।८१ ॥ १४.'-पि-' इति२ ॥ १५. इतोऽग्रे १प्रतौ 'स्य' इति दृश्यते ॥
१ क्रेतव्यमेव क्रेतव्यमात्रम्, ततः स्वार्थे कनि क्रेत व्यमात्रकम्, तत्र । यथा क्रेयो गौर्वर्तते, न च क्रय्योऽस्ति । कोऽर्थः ? गौः क्रेतव्यो वर्तते, न च क्रय्यः, क्रयनिमित्तं हट्टे परधान्याम्बरादिवस्तुवत् प्रसारितो नास्तीत्यर्थः । २ क्रेतुं योग्य क्रेयम् । 'डुक्रीज् द्रव्यविनिमये'(त्र्या.उ.अ.), 'अचो यत्' ३।१।९७ ॥ इति यत्, 'सार्वधातुकार्धधातुकयोः '७।३।८४॥ इति गुणः । सामान्यतो द्वे 'वेचाऊ वस्तु' इति ख्यातस्य ॥
क्रय्यं न्यस्तं क्रयाय यत् ।
१ यत् क्रयाय विक्रयनिमित्तं हट्टे न्यस्तं प्रसारि
१० तम्, तत् क्रय्यम् इत्युच्यते । क्रयाय प्रसारितं क्रय्यम् । 'डुक्रीञ् द्रव्यविनिमये '(त्र्या.उ.अ.), 'अचो यत्'३।१। ९७ ॥, 'क्रय्यस्तदर्थे '६।१।८२॥ इति साधुः । एकमापणादौ विक्रयाय प्रसारितस्य ॥
पणितव्यं तु विक्रेयं पण्यम्
१ पण्यते पणितव्यम् । 'पण व्यवहारे स्तुतौ च' (भ्वा.आ.से.), 'तव्यत्तव्यानीयरः '३।१।९६ ॥, 'आर्धधातु कस्य-७।२।३५ ॥ इतीट् । २ विक्रीयते विक्रेयम् । 'अचो यत्'३।१।९७॥ । ३ पण्यते पण्यम् । 'अवधपण्यवर्या गहपणितव्यानिरोधेषु' ३।११०१॥ इति साधुः । “पण्यं क्रय्या
२० दयस्त्रिषु''[अमरकोषः २।९।८२ ॥] इत्यमरः । त्रीणि 'क्रयाण'
इति ख्यातस्य ॥
सत्यापनं पुनः ॥८७१॥ सत्यङ्कारः सत्याकृतिः
१ अवश्यं मयैतद् विक्रेतव्यमिति सत्यस्य करणं सत्यापनम्, पवर्गाद्यमध्यम् । 'सत्यापपाश-'३।१।२५ ॥ इत्यादिना णिच् । “सत्यापना सत्याकृतिः''[ ]इति स्त्री काण्डे वोपालितः ॥८७१॥ २ सत्यस्य करणं सत्यङ्कारः । 'कारे सत्यागदस्य'६।३ ७० ॥ इति मुम् । ३ सत्यस्य कृतिः सत्याकृतिः । 'सत्यादशपथे'५।४।६६ ॥ इति डाच् । त्रीणि
३० ‘संचकार' इति ख्यातस्य ॥
तुल्यौ विपणविक्रयौ ।
.
१ विपणनं विपण: । घबर्थे कः । “चुराद्यदन्ता दच्''[]इत्येके । २ विक्रयणं विक्रयः । ‘एरच्'३।३।५६ ॥ इत्यच् । द्वे विक्रयस्य । 'वेचवउं' इति भाषा ॥
गण्यं गणेयं सङ्ख्येयम्
१ गण्यते गण्यम् । 'गण सङ्ख्याने '(चु.उ.से.), णिच्, 'अचो यत्'३।१।९७॥ इति यत्, ‘णेरनिटि'६।४। ५१॥ इति णिलोपः । २ 'गणेरेय:'( )इत्येये गणेयम् । “पारपरार्धं गणितं यदि स्याद् गणेयनि:शेषगुणोऽपि स स्यात्' [नैषधीयचरितम्, सर्गः-३, श्री-४०] इति श्रीहर्षः । “गणनीयं
४० तु गणेयम्''[ ]इति वाचस्पतिः । ३ सङ्ख्यायते सङ्ख्ये यम् । 'ख्या प्रकथने' (अ.प.अ.), 'अचो यत्'३।१।९७ ॥, 'ईद्यति'६।४।६५ ।। इतीत्वम्, 'सार्वधातुका- '७।३।८४॥ इति गुणः । त्रीणि गणनार्हस्य ॥
सङ्ख्या त्वेकादिका भवेत् ॥८७२॥
१ एत्येकत्वसङ्ख्यामिति एकः । 'इण् गतौ'(अ. ___प.अ.), 'इण्भीकापाशल्यतिमर्चिभ्यः कन् '(उणा-३२३), 'सार्वधातुका-'७।३।८४॥ इति गुणः । एक आदिरस्या एकादिका, आदिग्रहणाद् द्वौ त्रयः चत्वारः एते वाच्य लिङ्गाः, पञ्च सप्तेत्यादयोऽष्टादशान्ता अलिङ्गाः । यल्लिङ्गानु-
५० शासनम्-“नन्ता सङ्ख्या डतिर्युष्मदस्मर्च स्युरलिङ्गकाः" [श्रीहेमचन्द्राचार्यकृतलिङ्गानुशासनम्, अलिङ्गाः, श्रो-४] इति । षष्शब्दस्य रूपविशेषाभावात् लिङ्गनिर्णयो नोक्तः, एकोनविंशतित्रिंशदित्यादयः शतादाक् स्त्रीलिङ्गाः, षष्टिस्तु त्रिलिङ्गनिर्णये पृथग्लिङ्ग उक्तः । अत्र च दशशब्दश्रुतिपर्यन्तं अष्टादश यावदेकादिकाः सङ्ख्याः सङ्ख्येयद्रव्ये वर्तन्ते, तेन सह सामानाधिकरण्येनैव तासां वृत्तिरित्यर्थः । यथा-- एको विप्रः, दश विप्रा इति, न तु वैयधिकरण्येन वृत्तिरिति, न तु एको विप्रस्य, दश विप्राणामित्यादि । विंशत्याद्यास्तु सङ्ख्याशब्दा एकत्वे वर्तमानाः सङ्ख्येये सङ्ख्याने च
६० वर्तन्ते । यथा-विंशतिर्घटाः, विंशतिर्घटानाम्, शतं गावः, शतं गवामिति । यदाह वाचस्पतिः
१. 'तत्' इति४ ॥ २. '-त्त-' इति२॥ ३. 'क-' इति२॥ ४. '-णा' इति३, '-j' इति४ ॥ ५. द्र. टीकासर्वस्वम्, भा-३, २।९।८३ ॥, पृ.२२२ ।।, पदचन्द्रिका, भा-२, वैश्यवर्गः, श्रो-६५४, पृ.७४३ ॥, रामाश्रमी २।९।८२ ॥, पृ.४३७॥ ६. 'णमुल्' इति१.२.४ ।। ७. 'इत्यादि' इति३ ॥ ८. '-वो' इति३, ‘-वौ' इति४॥ ९. 'इति यत्' इति१.२.३प्रतिषु न दृश्यते ॥ १०. द्र. स्वोपज्ञटीका ३८७२ ॥, पृ.१९२॥ ११. 'इकन्' इति४॥ १२. 'नान्ता' इति३.४॥ १३. '-स्माच्च' इति४॥ १४. '-ङ्गिका' इति३॥
"अष्टादशभ्य एकाद्याः सङ्ख्याः सङ्ख्येयगोचराः ।
ऊनविंशत्यादिकास्तु सर्वाः सङ्ख्येयसङ्ख्ययोः ॥१॥"
[]इति । भाष्यकारोऽपि-"अष्टादशभ्यः सङ्ख्याः सङ्ख्येये वर्तन्ते, ततः परं सङ्ख्याने सङ्ख्येये च''[ ]इति । यदा तु भेदविवक्षायां सङ्ख्यान्तरस्याऽर्थेऽभिधेये विंशत्यादयो वर्तन्ते, तदा तत्सामानाधिकरण्यादुपचारेण तेभ्यो द्विवचनबहुवचनेऽपि भवतः, यथा-द्वे विंशती, तिस्रो विंशतय इति । सामानाधि करण्याभावेऽपि गवां विंशी, गवां विंशतय इति । विंश त्यादिसङ्ख्यासु नवतिमभिवाप्य भिन्नलिङ्गेनाऽपि सामानाधि
१० करण्ये स्त्रीलिङ्गाः, यथा विंशत्या पुरुषैः कृतम्, विंशतिः कुण्डानि, विंशतिः श्रुतयः, अष्टाविंशति यावत्, एवं त्रिंश च्छ्रतिरष्टत्रिंशतं यावत् । पङ्क्तिशब्दोऽपि दशसङ्ख्यावाची । "पङ्क्तिर्दशाक्षरच्छन्दोदशसङ्ख्यावलीष्वपि''[विश्वप्रकाश कोशः, तान्तवर्गः, श्री-६९] इति विश्वः ॥८७२॥
यथोत्तरं दशगुणं भवेदेको दशाऽमुतः ।
शंतं सहस्रमयुतं लक्षप्रयुतकोटयः ॥८७३॥
अर्बुदमब्ज खर्वं च निखर्वं च महाम्बुजम् ।
शङ्कार्खिरन्त्यं मध्यं परार्द्ध चेति नामतः ॥८७४॥
१ यथोत्तरं यथाग्रं एको दशभिर्गणितः सङ्ख्यातः
२० गुणितोऽभ्यस्तो वा दश भवेत् स्यात् । 'गण सङ्ख्याने' (चु.उ.से.)आद्यस्वरादिः । गण्यते गणः । दश गणाः सङ्ख्या यत्र तद् दशगणम्, क्रियाविशेषणमेतत् । “गणः समूहे प्रथमें सङ्ख्यासैन्यप्रभेदयो:"[विश्वप्रकाशकोश:, णान्तवर्गः, शो-२]इति महेश्वरः । दशभिर्गुणोऽभ्यासो यस्य तद् दशगुणमिति, पञ्चमस्वरादिरपि गुणशब्द इत्यन्ये । 'कुण गुणं आमन्त्रणे'(चु.उ.से.), आमन्त्रणं गूढोक्तिः''[ ] इति माधवः । “गुण अभ्यासे'( )इत्यस्याऽपि धातोर्गुण शब्दः''[ ] इत्यन्ये । यथोत्तरं दशभिर्गणिता, दश, अमुतः दशतः मानमेषां सङ्ख्येयानामस्य वा सङ्ख्यानमस्य शतम् ३। एवं दश शतानि मानमेषामस्य वा सहस्त्रम्, दन्त्यसकारम्
३० ४। दशसहस्राणि अयुतम् ५। शतादयस्त्रयः पुंक्लीबलिङ्गाः । दशाऽयतानि लक्षम. स्त्रीक्लीबलिङ:. नियतमपि लक्षपर्यायः ६। दश लक्षाणि प्रयुतम्, पुंक्ली.७। दश प्रयुतानि कोटिः, स्त्रीलिङ्गः ८ ॥८७३॥ दश कोटयः अर्बुदम्, पुंक्ली. ९। दशाऽर्बुदानि अब्जम् १० । दशाऽब्जानि खर्वम् ११। दश खर्वाणि निखर्वम् १२ । दश निखर्वाणि महाम्बुजम् १३। दश महाम्बुजानि शङ्कः, पुंस्त्रीलिङ्गः १४। दश शङ्कवो वार्द्धिः समुद्रः, पुंलिङ्गः १५ । दश वार्द्धयः अन्त्यम् १६ । दशान्या (त्या)नि मध्यम् १७। दश मध्यानि परार्द्धम् इति १८। यथोक्तम्
४० "एकं दश शतमस्मात् सहस्रमयुतं ततः परं लक्षम् ।
प्रयुतं कोटिमथाऽर्बुदमब्जं खर्वं निखर्वं च ॥१॥
तस्मान्महासरोजं शङ्क सरितां पतिं ततस्त्वन्त्यम् ।
__ मध्यं परार्द्धमाहुर्यथोत्तरं दशगुणं तज्ज्ञाः ॥२॥"[ ] इति । इत्थमेकादीनि परार्द्धान्तानि अष्टादशगणितस्थानानि ॥८७४॥
असङ्ख्यं द्वीपवाादि
१ न विद्यते सङ्ख्या गणनमस्य असङ्ख्यम् । द्वीपा जम्बूद्वीपादयः, वार्धयोऽब्धयः लवणोदध्यादयः, ते आदिर्यस्य तत् द्वीपवाादि, [आदिग्रहणात् चन्द्राऽर्का दयः] | यदुक्तम्-"असङ्ख्या द्वीपोदधयः''["]इति ।
५० सामान्यत एकं द्वीपवाादीनामसङ्ख्यमिति ॥
पुद्गलाऽऽत्माद्यऽनन्तकम् ।
१ पुतः शरीराद् गलति पुद्गलः, रूपादिमद् द्रव्यम्, परमाणुलक्षणम्, आत्मा जीवः, स आदिर्यस्य तत् पुद्गला त्मादि, आदेराकाशप्रदेशादि । नास्त्यन्तोऽस्य अनन्तम्, ततः कनि अनन्तकम् । “अनन्तं गगनेऽनन्तं भवेदनवधौ त्रिषु" [विश्वलोचनकोशः, तान्तवर्गः, श्री-७८] इति श्रीधरः । सामान्यत एकं पुद्गलात्मादीनाम् ॥
१. द्र. स्वोपज्ञटीका३८७२ १, पृ.१९२ ।। २. '-ख्या' इति३ ॥ ३. 'वर्तते' इति३ ॥ ४. '-ङ्गः' इति३ ॥ ५. 'अभ्यस्तो गुणितो' इति४॥ ६. 'प्रमथे' इति३.४ ॥ ७. 'इत्येके' इति४॥ ८. 'गुण गण' इति४॥ ९. '-लिङ्गः' इति ३प्रतौ नास्ति ॥ १०. द्र.स्वोपज्ञटीका३ ८७४ ॥, पृ.१९३ ॥, टीकासर्वस्वम्, भा-३, २।९।८५), पृ.२२४ ॥, "यदाहुः-एकदशशतसहस्राण्युतं प्रयुताख्यलक्षमथ नियुतम् । अर्बुदकोटिन्यर्बुदपद्मं खर्वं निखर्वमिति दशभिः ॥ गुणनान्महाब्दशङ्क समुद्रमध्यान्तमथ परार्धं च । स्वहतं परार्धममितं तत्स्वहतं संख्येति । प्रयुतसं लक्षमर्बुदसंज्ञा कोटिरित्यर्थः" इति क्षीरस्वामिकृतटीका २।९।८४॥, पृ.२१९ ॥ ११. 'इत्येका-' इति३ ॥ १२. द्र. स्वोपज्ञटीका ३८७५ ।।, पृ.१९३ ॥, तत्र 'असङ्ख्याता द्वीपसमुद्राः' इति दृश्यते ॥ १३. '-लादि' इति४॥ १४. 'आदिग्रहणादाका-' इति३ ॥ १५. '-न्तो प्रदेशोऽस्य' इति४॥ १६. '-न्तः' इति३ ।।
सांयात्रिकः पोतवणिक्
१ सम्पूर्वाद् यातेः ष्ट्रन्, अजादिपाठाट्टाप, संयात्रा द्वीपान्तरगमनम् । "तथा [च] सम्पूर्वस्य याते:पान्तर गमने वृत्तिरिति चाणक्यटीका"[]इति कलिङ्गः । तदस्य 'प्रयोजनम्'५।१।१०९ ॥ इति ठक् [सांयात्रिकः] । “सम्यग् यात्रा संयात्रा, तया व्यवहरतीति ठक्"[]इति पञ्जिका । पोतेन वहित्रेणोपलक्षितो वणिक् पोतवणिक् । (पोतस्य वणिक् पोतवणिगिति वा,) जकारान्तः । एकं सांयात्रिकस्य। 'प्रवहणी वाणीआ' इति भाषा ॥
१० यानपात्रं वहिनकम् ॥८७५॥ बोहित्थं वहनं पोतः
१ जलमार्गे यानाय पात्रं यानपात्रम् । २ उह्यतेऽनेन वहित्रम् । 'वह प्रापणे'(भ्वा.उ.अ.), 'अशित्रादिभ्यः-'(उणा ६१२)इतीत्रः, स्वार्थे कः ॥८७५॥ ३ बहिस्तिष्ठति बोहि स्थम्, पृषोदरादिः । ४ उह्यतेऽनेन वहनम् । करणे ल्युट् । ५ पूयते पुनाति रक्षति वा पोतः । 'पूञ्(पू) पवने' ( भ्वा.आ.से.), 'हसिमृग्रिण्वाऽमिदमितमिलूपूधू (धु)र्विभ्य स्तन्'(उणा-३६६) । पञ्च ‘वाहणं' इति ख्यातस्य ॥
पोतवाहो नियामकः ।
२० निर्यामः
___ १ पोतं वहिनं वाहयतीति पोतवाहः । 'कर्मण्यण' ३।२।१ । । २ नियामयति नियच्छति नियामकः । निपूर्वः 'यमु(यम) नियमने'(भ्वा.प.अ.), ण्वुल् । ३ निर्यामः, निर् पूर्वः । त्रीणि पोतवाहस्य । 'मालिमनिजाम' इति भाषा ॥
कर्णधारस्तु नाविकः
१ कर्णमरित्रं धरति कर्णधारः । 'धृञ् धारणे' (भ्वा.उ.अ.), 'कर्मण्यण'३।२।१॥ । "कर्णः श्रोत्रमरित्रं च' [ ]इति दुर्ग: । कर्णप्रायं बृहन्तं के निपतन्तं धरतीति वा । २ नावा कृत्वा तरति नाविकः । 'नौद्यचष्ठन्'
३० ४।४७ ॥ इति ठन् । द्वे कर्णधारस्य । 'नाकूआ खलासि आखरूआ' इति भाषा ॥
नौस्तु मङ्गिनी ॥८७६॥
तरीतरण्यौ बेडा
१ नुद्यते कर्णधारैरिति नौः, स्त्रीलिङ्गः । 'नुद (णुद) प्रेरणे'(तु.उ.अ.), 'ग्लानुदिभ्यां डौ: '(उणा-२२२), 'टे:' ६।४।१४३ ॥ इति उद्भागलोपः । २ मङ्गो नौशीर्षमस्त्यस्यां मङ्गिनी । 'अत इनिठनौ'५ ।२।११५॥ इतीनिः, 'ऋन्नेभ्यो ङीप्'४।१५॥ ॥८७६॥३ तरन्त्यनया तरिः । 'त प्लवन तरणयो: '(भ्वा.प.से.), 'अच इ:' (उणा-५७८)इति इ:, 'कृदिकारात्- '(गणसू-४।१।४५ ॥)इति ङीषि तरी, नदीवत् ।
४० यद्वा 'अवितस्ततन्त्रिभ्य ई: '(उणा-४३८)इतीप्रत्यये तरी, तयाँ, तर्यः इत्याद्यपि । ४ तरन्त्यनया तरणिः । -अश(अश्य) वितृभ्योऽनि: '(उणा-२५९)इत्यनिः, 'कृदिकारात्- '(गणसू ४।१।४५ ॥) इति ङीषि तरणी, नदीवत् । ५ बिड्यत आक्रुश्यतेऽस्यां बेडा । 'बिड आक्रोशे'( ), अधिकरणे घञ् । पञ्च 'बेडी ' इति ख्यातायाः ॥
अथ द्रोणी काष्ठाम्बुवाहिनी ।
१ द्रवति गच्छति अम्भोऽस्यां द्रोणी । 'दु द्रु गतौ'(भ्वा.प.अ.), 'वहिशि(श्रि) श्रुयुहूग्लाहात्वरिभ्यो निः (नित्) '(उणा-४९०)इति निः, द्रोणिः, ततः 'कृदिकारात्-'
५० (गणसू-४।१।४५ ॥)इति ङीषि द्रोणी । द्रोणिरपि, अत एव "मरकतमणिद्रोणिसरला-"["]इति पूर्वकविप्रयोगः । द्रुणिः पञ्चमस्वरादिरपि । 'द्रुण हिंसायां कौटिल्ये चे'(तु.प.से.), 'इगुपधात् कित् '(उणा-५५९)इति इः । 'कृदिकारात्-' (गणसू-४।१।४५ ॥)इति ङीषि द्रोणी च । "काष्ठाम्बुसेचनी द्रुणिश्च''["]इति रूपरत्नाकरः । २ पुनः पुनरम्बु वहति अम्बुवाहिनी । ग्रहादित्वाणिनिः । काष्ठघटिता अम्बुवाहिनी काष्ठाम्बुवाहिनी । काष्ठमम्बु च वहति वा । मिश्रास्तु "काष्ठमुपलक्षणं काष्ठाऽश्मादिमयी जलधारिणी द्रोणी"["] इत्याहुः । द्वे द्रोण्याः । 'दुणीया' इति भाषा ॥
६० नौकादण्डः क्षेपणी स्यात्
१. तुलनीयोऽमरकोषः ११०।१२।। २. '-र्वाद्' इति४॥ ३. द्र. पदचन्द्रिका, भा-१, वारिवर्गः, श्रो-२४०, पृ.२८६॥ ४. कोष्ठान्तर्गतपाठस्थाने ४प्रतौ 'पोतवणिगिति' इति दृश्यते ॥ ५. '-\' इति३.४॥ ६. 'स्वार्थे कः' इति१.२प्रत्योर्नास्ति ॥ ७. '-न' इति३॥ ८. द्र. रामाश्रमी १।१०।१२।।, पृ.१२४ ॥ ९. 'हुग्नः' इति४॥ १०. 'ठक्' इति४॥ ११. '-रुआ' इति२.३॥ १२. 'वे-' इति१.२ ॥ १३. '-युग्ला-' इत्युणादिगणे ॥ १४. द्र. पदचन्द्रिका, भा-१, वारिवर्गः, श्रो-२३९, पृ.२८५ ॥ १५. 'द्रुण हिंसागतिकौटिल्येषु' इति क्षीरतरङ्गिण्यादयः ॥ १६. 'किः' इति४॥ १७. 'द्रुणी'
रामाश्रमी १।१०।११ ॥, पृ.१२४ ॥ १९. १.२प्रत्योर्नास्ति ॥ २०. द्र. अम.क्षीर. १९११ ॥, पृ.६३ ।।, स्वोपज्ञटीका ३८७७ ॥, पृ.१९३॥ २१. तुलनीयोऽमरकोषः ११०।१३।।
१ क्षिप्यतेऽनया क्षेपणी । 'क्षिप प्रेरणे'(दि.प.अ., तु.उ.अ.), 'क्षिपेः किच्च'(उणा-२६४) इत्यनिः, “आति देशिककार्यानित्यत्वाद् गुणाभावाभावे क्षेपणिः, 'कृदि कारात्-'(गणसू-४।१।४५ ॥)इति ङीषि क्षेपणी च"[] इति माधवी । क्षिप्यतेऽनयेति करणे ल्युट वा, गौरादिः । नौकायां दण्ड: येन नौर्वाह्यतेऽसौ नौकादण्डस्तस्यैकम् ॥
गुणवृक्षस्तु कूपंकः ॥८७७॥
१ गुणानां रज्जूनां वृक्ष इव गुणवृक्षः । २ कूपा कृत्याधारगर्ते कायति स्वपिति कूपकः । 'आतोऽनुपसर्गे
१० कः'३।२।३॥ । “पोतो ध्वजपटाद्याधारः''[]इत्येके । गौड स्तु-'जलान्तस्तरून् कूपकानाहं । द्वे कूपकस्य । 'कूआथंभ' इति भाषा ॥८७७॥
पोलिन्दास्त्वन्तरादण्डाः
१ पोलन्ति महत्त्वं यान्ति पोलिन्दाः । 'पुल महत्त्वे'(भ्वा.प.से.), 'कल्यलिपुलि-'(हैमोणा-२४६) इति इन्दक्, बाहुलकाद् गुणः । नौकाया मध्ये दण्डा अन्तरा दण्डाः । एकं 'गाभला' इति ख्यातस्य ॥
स्यान्मङ्गो मङ्गिनीशिरः ।
१ मङ्गत्यनेन मङ्गः । 'मगि गतौ'(भ्वा.पसे.),
२० अच्, पुंस्ययम् । वैजयन्ती तु-"नौशिरो मङ्गमस्त्रियाम्" [वैजयन्तीकोषः ४।२।१७ ॥] इति क्लीबेऽप्याह । मङ्गिनी नौः. तस्याः शिर उपरिभागः [मङ्गिनीशिरः] ॥
अभ्रिस्तु काष्ठकुद्दालः
१ अभ्रति गच्छति अभ्रिः, स्त्रीलिङ्गः । 'अभ्र गतौ'(भ्वा.प.से.), 'सर्वधातुभ्यः इन्'(उणा-५५७), 'कृदि कारात्- '(गणसू-४।१।४५ ॥)इति ङीषि अभ्री च । कुं भुवमुद्दालयति कुद्दालः । 'दल विशरणे'(भ्वा.प.से.), हेतु मण्णिच्, 'कर्मण्यण'३।२।१॥, शकन्ध्वादिः । काष्ठस्य कुद्दालः काष्ठकुद्दालः । येन निखन्यते भग्नं पोतादि कुथेन
३० पर्यते. तस्यैकम ।।
सकपात्र तु सचनम् ॥८७८॥
१ सेकाय सेकस्य वा पात्रं सेकपात्रम् । सिच्यते ऽनेन नौजलं सेचनम् । 'षिचिर् (षिच) क्षरणे'(तु.उ.अ.), करणे ल्युट । येन नावो जलमुद्धियते, तस्यैकं क्वचित् । 'नावलां' इति भाषा ॥८७८॥
केनिपात: कोटिपात्रमरित्रे
१ के जले निपात्यते केनिपातः । कर्मणि घञ्, 'संज्ञायाम्'२।१।४४ ॥ इति समासः, 'तत्पुरुषे कृति-'६।३।१४॥ इत्यलुक् । के निपातोऽस्येति वा । 'हलदन्तात् सप्तम्या: संज्ञायाम्'६।३।९॥ इत्यलुक् । २ कोटिभिः काष्ठाग्रभागैः पाति
४० कोटिपात्रम् । ['सर्वधातुभ्यः ष्ट्रन्'(उणा-५९८)इति ष्ट्रन्] । ३ ऋच्छत्यनेन अरित्रम् । 'ऋ गतौ'(भ्वा.प.अ.), 'अर्ति लूधूसूखनसहचर इत्रः'३।२।१८४ ॥, गुणः, [तत्र] । कर्णो ऽपि । “कर्णः श्रोत्रमरित्रं च''[]इति दुर्ग: । त्रीणि 'आउला" इति ख्यातस्य ॥
अथोडुप: प्लवः । कोलो भेलस्तरण्डश्च
१ उडुर्जलम्, तथा च-"जलहस्तिनीत्यर्थे उडु हस्तिनी सहस्रवर्णम्''[ ]इति हरिप्रबोधः, "उडव आपः" [ ]इति भिक्षाकरगुप्तश्च । उडुनि जले, उडुनो जलाद्
५० वा पाति उडुपः, पुंक्ली., ह्रस्वादिर्हस्वमध्यः । 'पा रक्षणे' (अ.प.अ.), 'आतोऽनुपसर्गे कः'३।२।३॥ । "उडुपश्चन्द्र भेलयोः"[ ]इति धरणिः, चन्द्रगोमी च । “अतः पुंस्ययम्, 'ऊदनोर्देश'६।३।९८ ॥ इति दीर्घकरणमनोरन्यतोऽपि यथा स्यात्, तेन उत्तरत्यद्भ्यः, उदुपदाद् अपशब्दस्याऽकारस्योत्वे नैरुक्तो वर्णविकारे 'उदूपः' इत्यपि''[ ] इत्युज्ज्वलदत्तः । २ प्लवति(प्लवते) इति प्लवः। 'मेव प्लु गतौ'( ), अच् । प्लवन्तेऽनेनेति, 'ऋदोरप्'३।३।५७॥ वा । कोल यति घनीभवति कोलः । 'कुल संस्त्याने '(भ्वा.प.से.), ज्वलादित्वाण्णः । ४ भिल्यते भेलः । भिलि: सौत्रः
६०
१. 'गुणाभावे' इति४ ॥ २. द्र. पदचन्द्रिका, भा-१, वारिवर्गः, श्री-२४१, पृ.२८७ ॥ ३. द्र. अम.क्षीर. १९१२ ॥, पृ.६३ ॥, स्वोपज्ञटीका ३८७७ ।।, पृ.१९३ ॥, तयोः 'पोतो' इत्यस्य स्थाने 'पोते' इति दृश्यते ॥ ४. '-भाला' इति२, ‘-भिला' इति३ ।। ५. 'अयम्' ४प्रतौ नास्ति ॥ ६. '-न्ति' इति३॥ ७. -ग्न-' इति३॥ ८. तुलनीयोऽमरकोषः१।१०।१३ ॥ ९. '-ला' इति३॥ १०. '-त्रं' इति४॥ ११. '-ला' इति३.४ ॥ १२. द्र. पदचन्द्रिका, भा-१, वारिवर्गः, श्रो-२३९, पृ.२८४॥ "ददृशुश्चिरमुडुकरिणीसहस्त्रमन्तं सुधामदं सकलं" इत्यत्र हरिप्रबोधे कीर्त्तिमतालङ्कारप्रणीतटीकायाम् 'उडव आप' इति व्याख्यातम् । अतस्ततः पातीत्युडुपः ।" इति टीकासर्वस्वम्, भा-१, १।१०।११ ॥, पृ.१८२ ॥ १३. '-दिह' इति३॥ १४. द्र. टीकासर्वस्वम्, भा-१, १।१०।११ ॥, पृ.१८२ ॥, तत्र 'उडुपो हेलचन्द्रयोः' इति दृश्यते, पदचन्द्रिका, भा-१, वारिवर्गः, शो-२३९, पृ.२८४ ॥, रामाश्रमी ११० ११ ॥, पृ.१२४ ॥ १५. द्र. पदचन्द्रिका, भा-१, वारिवर्गः, श्रो-२३९, पृ.२८४ ।।
'कर्मण्यण'३।२।१॥ । ५ तीर्यतेऽनेन तरण्डः, पुंक्ली. । 'त प्लवनतरणयोः (भ्वा.प.से.), 'अण्डन् कृसृभृवृञः' (उणा-१२६)इत्यत्र प्राक्प्रत्ययनिर्देशः शरण्डाद्यर्थः, तेनैतत् सिद्धयति । पञ्च ‘त्रापाडूं घा' इति ख्यातस्य ॥
स्यात् तरपण्यमातरः ॥८७९॥
१ तरणं तरः । 'ऋदोरप्'३।३।५७ ॥ । पणे साधु पण्यं मूल्यम् । तरस्य पण्यं तरपण्यम् । आतरन्त्यनेन आतरः । 'ऋदोरप्'३ ।३५७॥ । एकं 'तूर' इति ख्यातस्य ॥८७९॥
वृद्ध्याजीवो द्वैगुणिको वाधुषिकः कुसीदिकः ।
१० वाधुषिश्च
१ वृद्धिमाजीवति वृद्धयाजीवः । 'कर्मण्यण्' ३।२।१॥ । २ द्विगुणं गृह्णाति द्वैगुणिकः । द्विगुणं गृहीतु मेकगुणं गृह्णातीति यावत् । ३ वर्धनं वृद्धिः । 'वृधु वर्धने'(भ्वा.आ.से.), 'स्त्रियां क्तिन्'३।३।९४ ॥, 'तितुत्र-' ७।२।९॥ इति नेट् । वृद्ध्यर्थं द्रव्यमपि वृद्धिः, तत्प्रयच्छतीति वार्धाषिकः । 'प्रयच्छति गम्'४।४।३० ॥ इति द्वितीयान्ताद् गोपाधिकात् प्रयच्छतीत्यर्थे ठक्, 'वृद्धवृधुष्(-षि) भावः' (वा-४।४।३०॥) च । “वृधुषिः प्रकृत्यन्तरं च''[]इति वृत्तिः, वृद्धेर्गीत्वमशास्त्रीयत्वेनं । ४ कुसीदं वृद्ध्याजीविका
२० प्रयच्छति कुसीदिकः। 'कुसीददशैकादशात् ठन्ठचौ'४।४।
३१ ।। इति ठन्(ष्ठन्)। षित्त्वात् स्त्रियां ङीषि कुसीदिकी। ५ वृधुष्यां भवो वार्षुषः । तस्याऽपत्यं वाधुषिः। 'अत इञ्'४।१।९५ ॥ । पञ्च ‘व्याजडिओ' इति ख्यातस्य ॥
कुसीदार्थप्रयोगौ वृद्धिजीवने ॥८८०॥
१ 'कुस श्रेषणे'(दि.प.से.), दन्त्यान्तः, 'कुसेरू लोभोएवोमेदाः (कुसेरूम्भोमेदेताः) (उणा-५४६)इतीदः, कुसीदम् । कुत्सितं सीदन्त्यवसन्ना भवन्त्यनया वा । कुत्सितं सदनं गतिरनया वा । कुत्सितोऽधर्माणः सीदन्त्यनया वा
घञ्, कुसीदम् । 'कुसीददशैकादशा-'४।४।३१ ॥ इति निर्देशा
३० दशित्यपि सीदादेशः । २ अर्थस्य प्रयोगः पुनः पुनः कलया दानं अर्थप्रयोगः । वृद्ध्या कृत्वा जीविका वृद्धिजीवनम्, तत्र। द्वे वृद्धिजीवनस्य । 'दौढी सवाई आजीविका'
इत्यादिभाषा ॥८८०॥
वृद्धिः कलान्तरम्
१ मूलद्रव्यस्य वर्धनं वृद्धिः । 'वृधु वृद्धौ'(भ्वा. प.से.), 'स्त्रियां क्तिन्'३।३।९४॥ । २ मूल द्रव्यस्याऽपरा कला कलान्तरम् । “वृद्धिः कलान्तरं प्रोक्तम्"[हलायुध कोश:२५७२ ॥] इति हलायुधः । द्वे 'व्याज' इति ख्यातस्य ॥
ऋणं तूद्धारः पर्युदञ्चनम् ।
१ अर्यत इति ऋणम् । 'ऋ गतौ'(भ्वा.प.अ.),
४० क्तः, 'ऋणमाधमण्र्ये '८।२।६० ॥ इति साधुः । २ उद्धियते गृह्यते उद्धारः । 'धृञ् धारणे'(भ्वा.उ.अ.), कर्मणि घन् । ३ उदञ्च्यते गृह्यते नीयते वा उदञ्चनम् । 'अञ्च गति पूजनयो: '(भ्वा.प.से.), कर्मणि ल्युट् । परित उदञ्चनमुत्त मर्णाद् उद्धारत्वेन ग्रहणं पर्युदञ्चनम् । त्रीणि ऋणस्य । ऊधारि' इति भाषा ॥
याच्त्रयाप्तं याचितकम्
१ याच्चया प्रार्थनया आप्तं प्राप्तम्, तन्नामैकं याचित कम् इति । याचितेन निर्वृत्तमित्यर्थे 'अपमित्य याचिताभ्यां कक्कनौ'४।४।२१ ॥ इति कन् । “अभ्यर्थ्य धत्तः खलु
५० पद्मचन्द्रौ विभूषणं याचितकं कदाचित्"[नैषधीयचरितम्, सर्गः-७, श्रो-५६]इति श्रीहर्षः ॥
परिवृत्यापमित्यकम् ॥८८१॥
१ परिवृत्या आप्तम् आपमित्यकम् इत्यन्वयः । 'मेङ् प्रतिदाने'(भ्वा.आ.अ.), 'उदीचां मेङो (माङो) व्यति हारे '३।४।१९ ॥ क्त्वा, 'मयतेरिदन्यतरस्याम्'६।४।७० ।। इतीत्, 'समासेऽनपूर्वे क्त्वो ल्यप्'७।१।३७॥, ‘ह्रस्वस्य पिति कृति-'६।१७१ ॥इति तुक्, तत आगतेऽर्थे 'अपमित्य याचिता-'४४।२१ ॥ इति कन् । “निमयादापमित्यकम्"
.
१. '-णि' इति३.४॥ २. 'तरण्डार्थः' इति३ ।। ३. द्र.मा.धातुवृत्तिः, भ्वादिः, धातुसं-४९२, पृ.१८८ ॥ ४. 'कुशी-' इति३ ॥ ५. 'इन्' इति३ ॥ ६. '-दिआ' इति४ ॥ ७. 'संथे-' इति४ ॥ ८. 'दुढी' इति१॥ ९. 'उद्गृ-' इति३ ०२०. 'उ-' इति३ ।। ११. '-रा' इति१, '-र' इति२ ॥ १२. तुलनीयोऽमरकोषः २।९।४॥ १३. '-र्थः' इति३ ॥ १४. 'दत्तः' इति३ ॥ १५. '-' इति१, -न्' इति३.४ ॥ १६. 'कृति' इति ३प्रतौ न दृश्यते ॥ १७.'-' इति१.२ ।।
[अमरकोषः २।९।४॥] इत्यमरः । “निमयार्दू भाण्डपरि वर्तनात्''[अम.क्षीर.२।९।४॥] इति क्षीरस्वामी । एकं ‘पालटी लीधुं' इति ख्यातस्य ॥८८१॥
अधमर्णो ग्राहकः स्यात्
१ अपचयहेतुत्वादधमृणमस्य अधमर्णः । अधमः ऋणेऽधमर्णः, अत एव निर्देशात् सप्तमीसमासः । अधमृ णमस्येति बहुव्रीहिर्वा । निष्ठान्तस्य परनिपातोऽत एव निर्दे शात् "ऋणेऽधमोऽधमर्णः, राजदन्तादित्वात् परनिपातः"
[अभि-, स्वोपज्ञटीका३८८२ ॥] इत्याचार्याः । एकं ग्राहक
१० स्य । 'ऋणीया' इति भाषा ॥
उत्तमर्णस्तु दायकः ।
१ उपचयहेतुत्वादुत्तममृणमस्य उत्तमर्णः । ऋणे उत्तम उत्तमर्णः । “राजदन्तादि:"[अभि-,स्वोपज्ञटीका ३।८८॥] इत्याचार्याः । ददाति दायकः । ण्वुल्, 'आतो युक् -' ७।३।३३॥ इति युक् । एकं दायकस्य ॥
प्रतिभूलग्नकः साक्षी स्थेयः
१ धनिकाधमर्णयोरन्तरेऽस्तीति प्रतिभूः । 'भुवः संज्ञान्तरयोः '३।२।१७९ ॥ इति क्विप् । अन्तरशब्दोऽत्र न
ग्रामाद्यन्तरवचनः । २ लगति लग्नः । 'लगे सङ्गे'(भ्वा.
२० प.से.), निष्ठा, 'क्षुब्धस्वान्तध्वान्त-७।२।१८॥ इति साधुः, ततः स्वार्थे कन् लग्नकः । ३ साक्षाद् द्रष्टा साक्षी । 'साक्षाद् द्रष्टरि-'५ ।२।९१॥ इतीन् (इतीनिः), 'अव्ययानां भमात्रे टिलोप:'( ) । ४ तिष्ठन्त्यस्मिन् स्थेयः, विवादपदनिर्णता प्रमाणभूतः पुरुषः । चत्वारि साक्षिणः । शेषश्चात्र
"अथ साक्षिणि स्यान्मध्यस्थः प्राश्निकोऽप्यथः ।
कूटसाक्षी मृषासाक्ष्ये सूची स्याद् दुष्टसाक्षिणि ॥१॥"
[शेषनाममाला ३।१५४-१५५] ॥
आधिस्त बन्धक ॥८८२॥
१ आधीयतेऽसौ आधिः । 'उपसर्ग घो: किः' ३।३।९२॥ । २ बध्यते सम्बध्यते बन्धकः । 'बन्ध ३० बन्धने '(त्र्या.प.अ.), 'कृञादिभ्यः [संज्ञायां] वुन्'(उणा ७१३) । यदधमणेन उत्तमर्णस्य भूम्यादि आयत्तं क्रियते, तन्नाम्नी द्वे । 'ग्रहणउं' इति भाषा ॥८८२॥
अथ मानविशेषानाह
तुलाद्यैः पौतवं मानम्
१ तुला कांटउताकडीघडीत्यादीनि विविधनामानि आद्यानि येषां ते तुलाद्याः, तैर्यन्मीयते तत् पौतवं मानमित्य न्वयः । पुनाति पोतुः बहुलवचनाद् भावे 'वसं तुन्(वसे स्तुन्) '(उणा-७५)इति तुन् । पोतोरिदं पौतवम् । 'तस्येदम्' ४।३।१२० ॥ इत्यण् । पवर्गाद्यादिः । तुलाज्ञानं शास्त्रान्तराद्
४० ज्ञेयम्, तथापि संक्षेपतः प्रदर्श्यते, यथा
"ब्रह्मविष्णुमहेशानां त्रिधा प्रोक्ता तुला बुधैः ।
सूक्ष्म१मध्यरबृहत्त्वेन३ लक्ष्यन्ते लक्षणेन ताः ॥१॥
शौल्बव्यङ्गलशिक्याऽष्टाङ्गलियुक्तिजयष्टिका ।।
ब्राह्मकण्टकमध्या सा हेमरत्नानि मानकृत् ॥२॥
हस्तखादिरदण्डार्धचर्मकाष्ठादिशिक्यका ।
रसधान्यफलादीनां मानकृद् वैष्णवी तुला ॥३॥ .
पञ्चहस्ता लोहयष्टिर्मानादौ मानचिह्निता ।।
मानकृद् वस्तुभाराणां रौद्री शिक्यविवर्जिता ॥४॥
आपलं ब्रह्मतुलया वैष्णव्या वामणं ततः ।
५० एकस्थं गुरु तद्रौद्र्या तुलया मानमिष्यते ॥५॥
तासामनेकशो भेदास्तुलानां स्युस्त्रिधा च ते ।
सर्वे स्वलक्षणैर्लक्ष्या दण्डशिक्याऽल्पगौरवैः ॥६॥
सर्वदेवमयी प्रोक्ता तुला धर्ममयी परा ।
कूटं व्यवहरेद् यस्तु तुलायां स क्षयं व्रजेत् ॥७॥"
[]इति तुलालक्षणम्, उन्मानमेतत् । एकं पौतवमानस्य। ताकटीप्रभृति, 'तोलउं' इति भाषा ॥
१. 'विनिमयाद्' इति क्षीरस्वामिकृतटीकायाम्, २।९।४॥, पृ.२०१॥ २. 'स्वामी' इति४॥ ३. '-धु' इति३ ॥ ४. 'पूर्वनिपातः' इति स्वोपज्ञटीकायाम्, ३८८२ ॥, पृ.१९४॥ ५. मुद्रितस्वोपज्ञटीकायां न दृश्यते ॥ ६. स्वोपज्ञटीकासहिताभिधानचिन्तमणिनाममालायाम्-'प्रतिभूर्लग्नकः' तथा 'साक्षी स्थेयः' इति पृथग्रूपेण दृश्यते, तत्तु भित्रार्थताप्रतिबोधनाय प्रतिभाति ॥ ७ --ये-' इति१.४॥ ८. '-रं' इति३.४॥ ९. --णी' इति३॥ १०. १प्रतौ नास्ति ॥ ११. '--णो' इति३, ‘-j' इति४ ॥ १२. '-टो-' इति३॥ १३. '-दिवि-' इति४॥ १४. 'वा' इति४॥ १५. '-श्नवी' इति३॥ १६. '-नं' इति३॥ १७. 'सर्वस्व-' इति४॥ १८. 'एतदुन्मानम्' इति४॥ १९. 'पो-' इति३ । २०. -लो' इति३, ‘-लुं' इति४॥
द्रुवयं कुडवादिभिः ।
१ कुडवप्रमुखैर्यन्मीयते तद् द्रुवयम् उच्यते, परि माणमित्यर्थः । कुडवशब्देन 'पाउलउ' इति प्रसिद्धः । द्रुः वृक्षस्तद्विकारो द्रुवयम् । 'द्रोश्च'४।३।१६१ ॥ इत्यनुवृत्तौ 'माने वयः '४।३।१६२॥ इति वयः । एकं सामान्येन
कुडवादिपरिमाणस्य ॥
पाय्यं हस्तादिभिः
१ पीयते(मीयते)ऽनेन पाय्यम्। 'पाय्यसांनाय्य-' ३।१।१२९॥ इति साधुः । हस्तादिभिः हस्तप्रभृति
१० भिर्यन्मीयते, तस्यैकम्, प्रमाणाख्यमेतत् । यदमरः- "मानं तुलाङ्गुलिप्रस्थैः''[अमरकोषः२ ।९।८५ ।।] इति । “माति मानम्, मीयतेऽनेनेति वा, तत्र तुलादि उन्मानम्, अङ्गुल्यादि प्रमाणम्, प्रस्थादि परिमाणम् । यदाहुः
"ऊर्ध्वमानं किलोन्मानं परिमाणं तु सर्वतः ।
आयामस्थं प्रमाणं स्यात् संख्या बाह्या तु सर्वतः ॥१॥"
[अम.क्षीर.२।९।८५ ॥] इति क्षीरस्वामी ॥
अथ पौतवमानमाह
तत्र स्याद् गुञ्जाः पञ्च माषकः ॥८८३॥
१ तत्रेति पौतवे माने गुञ्जाः कृष्णलाः पञ्च
२० सङ्ख्याः माषकः उच्यते । 'जष [झष शष] वष मष-' (भ्वा.प.से.)इति मूर्धन्यान्तेषु पठ्यते, ततो घञि माष:, ततः कनि माषक:, पुंक्ली. । धान्यकणा दशमाषक: तथा "द्वे कृष्णले रूप्यमाषे"[]इत्यादिदर्शनात् ॥८८३॥
ते तु षोडश कर्षोऽ क्षः
१ ते माषा: षोडश सङ्ख्याः कर्षः स्यात् । कर्षति माषकादाधिक्यं कर्षः, पुंक्ली. । 'कृष विलेखने' (भ्वा.प.अ.), अच् । २ अक्ष्णोति अक्षः । 'अक्ष(अक्षू) व्याप्तौ'(भ्वा.प.वे.), अच् । टङ्कगणनायां चत्वारः टङ्काः कर्षः । द्वे कर्षस्य । 'तोला' इति भाषा ॥
पलं कर्षचतुष्टयम् ।
३० १ पलति पलम्, पुंक्ली. । 'पल रक्षणे'(चु. उ.से.), अच् । कर्षाणां चतुष्टयं कर्षचतुष्टयम्, चतुर्भिः कषैः पलमित्यर्थः । टङ्कगणनायां षोडश टङ्काः पलः । __माषकादीनां शास्त्रान्तरोक्तभेदो "नेश्रिककदेशप्रसिद्धः
शास्त्रान्तरादवधार्यः । एकं पलस्य ॥
विस्तः सुवर्णो हेम्नोऽक्षे
१ विस्यति विस्यते वा विस्तः । 'विस उत्सर्गे , (दि.प.से.), 'विस प्रेरणे'( )वों, अतो बाहुलकात् 'हसिमृग्रिण्-'(उणा-३६६)इत्यादिना तन्, 'तितुत्र-७।२।९॥ इतीनिषेधः, अगुणत्वं च । २ सुवर्णमस्त्यस्य॑ सुवर्णः ।
४० 'अर्शआदिभ्योऽच्'५ ।२।१२७ ।।, पुंस्ययम् । रुद्रस्तु-"सुवर्णं स्वर्णरि(वि)स्तयोः"[ ]इति क्लीबेऽप्याह। हेम्नः सुवर्णस्य, अक्षे कर्षे । 'सुवर्णनां तोला' इति भाषा । “रूप्यमुक्ता वज्रपट्टसूत्रकर्पूरादितौल्ये कर्षसंज्ञा, हेम्नस्तौल्ये सुवर्णसंज्ञा कर्षस्येति विशेष;"[ ]इति लीलावतीटीका । यत्स्मृति: "पञ्चकृष्णलको माषस्ते सुवर्णस्तु षोडश'[ ]इति ।
तथा च लीलावतीकारः
"दशार्धगुञ्ज प्रवदन्ति माष१ माषाह्वयैः षोडशभिश्च कर्षम् ।
___ कईश्चतुर्भिश्च पलं३ तुलाज्ञाः कर्षं सुवर्णस्य सुवर्णसंज्ञम् ॥१॥"
[लीलावती, परिभाषा, श्री-४] इति । “पादत्रयं सुकरम्,
५० सुवर्णस्य कर्षं सुवर्णसंज्ञं वदन्ति"[ ] इति तट्टीका । द्वे सुवर्णकर्षस्य ॥
कुरुविस्तस्तु तत्पले ॥८८४॥
१ तस्य सुवर्णस्य पलं तत्पलम्, तत्र । कुरु देशे प्रसिद्धो विस्तो हेमपलं कुरुविस्तः । यन्माला "पलेन हि सुवर्णस्य करुविस्त:"["]इति । हेम्नः पलं कुरुविस्त इत्यर्थः । एकं हेमपलस्य ॥८८४॥
१. 'पाउलवउ' इति१, ‘पाउलो' इति३, 'पाइलौ' इति४ ॥ २. 'भाषाप्र-' इति३ ॥ ३. '-द्धिः' इति३॥ ४. '-तिर्य-' इति१.२.४ ॥ ५-१. 'मितिर्मानं मीयतेऽनेन च' इति, ५-२. 'आयामस्तु' इति, ५-३. "भिन्ना' इति च अम.क्षीरस्वामिकृतटीकायाम्, २।९८५ ॥, पृ.२१९ ॥ ६. 'पो-' इति३॥ ७. '-क्लीबलिङ्गः' इति४॥ ८. '-क्लीबलिङ्गः' इति३, '-क्लीबः' इति४॥ ९. 'टंका-' इति३ ॥ १०. तुलनीयोऽमरकोषः २।९।८६॥ ११. '-क्लीबः' इति३ ॥ १२. रक्षणार्थकपलधातुश्चुरादिः, अथ च विग्रहे 'पालयति' इति युक्तः, यद्वा ‘पल गतौ'(भ्वा.प.से.)इति ॥ १३. '-भेदौ' इति२.४ ॥ १४. 'नैक-' इति३, 'नेक-' इति४॥ १५. इतोऽग्रे ३प्रतौ 'विश प्रवेशने' इति दृश्यते ॥ १६. ३प्रतौ नास्ति ॥ १७. "त्रिन्' इति४॥ १८. '-स्याऽस्ति' इति४॥ १९. द्र. पदचन्द्रिका, भा-२, वैश्यवर्गः, श्रो-६५८, पृ.७४७ ॥, रामाश्रमी २।९८६॥, पृ.४३८ ॥ २०. '-ना' इति३, '-र्णानां' इति४॥ २१. 'कर्षादिसंज्ञा' इति३.४ ॥ २२. 'इति' इति २प्रतौ नास्ति ॥ २३. ३प्रतौ नास्ति ॥ २४. तुलनीयोऽमरकोषः २।९८६ ।। २५. द्र. अम.क्षीर. २९८६॥, पृ.२१९ ॥, स्वोपज्ञटीका ३८८४ ॥, पृ.१९५ ॥
तुला पलशतम्
१ 'तुल उन्माने'(चु.उ.से.), चुरादिणिचोऽनित्यत्वाद् 'इगुपध-'३।१।१३५ ॥ इति कः, टापि तुला । तोल्यतेऽनयेति वा । 'चिन्तिपूजि-'३।३।१०५ ॥ इत्यत्र चकारस्याऽनुक्तसमुच्च यार्थत्वादङ्, ‘-तुला- '४।४।९१ ॥ इति निर्देशाद् वा । पलानां शतं पलशतम् । “तुला स्त्रियां पलशतम्''[अमरकोषः २।९।८७ ॥] इत्यमरः । एकं पलशतस्य ॥
तासां विंशत्या भार आचितः ।
१० शाकंट: शाकटीनश्च शलाट:
१ तासां तुलानां विंशत्या, पलसहस्रद्वयेनेत्यर्थः, पुंसा वे पलसहस्रे वोढुं शक्येते, भ्रियतेऽनेनेति भारः । करणे घञ् । २ आचीयते स्म आचितः । 'चिञ् चयने'(स्वा. उ.अ.), क्त: । ३ शकटेन वाह्यः शाकटः । 'शकटादण्' ४१४१८० ॥ इत्यण् । ४ शकट्या नीयते शाकटीनः । ५ शृणाति शराटः । 'शु हिंसायाम्'(त्र्या.प.से.), बाहुलका दाटः, लत्वे शलाटः । पञ्च भारस्य ।
ते दशाऽऽचित ॥८८५॥
१ ते भारः दशेति दशसंख्याकाः आचितः ।
२० आचीयते स्म आचितः, पुंसि । क्लीबेऽप्ययमित्यन्ये । "आचितः शकटोन्मेये पलानामयुतद्वये''[विश्वलोचनकोशः, तान्तवर्गः, श्री-८५] इति श्रीधरः । "शकटेन उन्मेयः शक टोन्मेयः, शकटेन वोढुं शक्यो भार इत्यर्थः, पलानामयुतद्वयं दशभारा:''[ ]इति तद्वृत्तिः । एकं दशभारस्य ॥८८५॥
पौतवमानमुक्त्वा द्रुवयमाह
चतुर्भिः कुडवैः प्रस्थः
१ कुड्यते भक्ष्यते कुडवः । 'कुड भक्षणे'(तु. प.से.), तौदादिकः, 'कुडे: कवन्'( ) । 'कुडिनुड्यडे रुव'( ) इत्युवे कुडुव इति द्विपञ्चमस्वरोऽपि । कुटप इत्यपि, 'कुटे: कपन्'(उणा-४२२)इति कपन् । चतुर्भिः कुडवैः
३० प्रस्थः प्रोच्यते । प्रतिष्ठते प्रस्थः, पुंक्ली. । "प्रस्थोऽस्त्री सानुमानयोः''[अमरकोषः ३।३८८ ॥] इत्यमरः । पाइलीनाम एकं प्रस्थः कुडव इति, ‘पावलं ' इति लोकप्रसिद्धः । टङ्कगणनायां चतुष्पष्टिटङ्काः कुडव उच्यते, तैश्चतुर्भिः प्रस्थ इत्यन्वयः । चतुष्पञ्चाशदङ्गुलप्रमाणो वेधदैर्घ्य विस्तारैर्भवति, टङ्कगणनायां द्विशतपट्पञ्चाश२५६ट्टकाः प्रस्थशब्देनोच्यन्ते। कुडवश्च सार्द्धत्रयोदशाङ्गलप्रमाणो वेधदैर्घ्यविस्तारैर्भवति ॥
प्रस्थैश्चतुर्भिराढकः ।
१ चतुर्भिः प्रस्थैः पल्लिकति लोकप्रसिद्धैः आढकः इत्यन्वयः । आढौक्यत इति आढक:, पृषोदरादिः, त्रि-
४० लिङ्गः । अस्मिन्नङ्गलशतद्वयं पोडशाधिकं २१६ वेधदैर्ध्य विस्ताराणां ज्ञेयम्, टङ्कगणनायां चैकसहस्रं चतुर्विंशत्यधिकं १०२४ टङ्काः आढकशब्देनोच्यन्ते । एकं 'माणा' इति ख्यातस्य ।
चतुर्भिराढकोणः
१ चतुर्भिराढकैः ‘माणउँ ' इति लोकप्रसिद्धैः द्रोण: उच्यते । द्रवति द्रोणः, पुंक्ली. । “अस्त्रियामाढकद्रोणी" [अमरकोषः२।९।८८ ॥] इत्यमरः । 'दु द्रु गतौ'(भ्वा.प.से.), 'कृ(क)वृजप(ज) [सि]द्रु-'(उणा-२९०)इति नः । ‘सेई' इति भाषा । अस्मिन्नष्टौ शतानि चतुष्पष्टयधिकानि अङ्गलानि
५० ८६४ वेधदैर्घ्यविस्ताराणां ज्ञेयम्, टङ्कगणनायां च षण्ण ___ वत्यधिकचत्वारिंशच्छताः ४०९६ टङ्का द्रोणशब्देनोच्यन्ते ॥
खारी षोडशभिश्च तैः ॥८८६॥
१ खन्यते खारी । ‘खन खनने (भ्वा.उ.से.), 'वक़्यादयश्च'(उणा-५०६) इति क्रिन् नकारस्यात्वं च निपात्यते खारिः, 'कृदिकारात्- '(गणसू-४।१।४५ ॥) इति ङीषि खारी । तैः द्रौणैः ‘सेई' इति लोकप्रसिद्धैः षोडशभिः । अस्यां त्रयोदशसहस्राणि अष्टौ शतानि चतुर्विंशत्य - धिकान्यङ्ग लानि १३८२४ वेधदैर्घ्य विस्ताराणां ज्ञेयानि,
"
१. इतोऽग्रे २प्रतौ 'इति' इति दृश्यते ॥ २. 'पुंसां' इति१, इतोऽग्रे ३प्रतौ 'हि' इति दृश्यते ॥ ३. 'साधुः' इति१॥ ४ क्षीरतरङ्गिण्यादौ बाल्यार्थककुडधातुर्दश्यते ॥ ५ 'उपिकुटिदलिकचिखजिभ्यः कपन्'(उणा-४२२)इत्युणादिगणसूत्रम् ॥ ६ -क्लीबः' इति४॥ ७ - यलुं' इति४, लु' इति२ ॥ ८ 'वै.' इति३॥ ९. 'वै-' इति४॥ १०. --- गाउं' इति३.४॥ ११. 'वै.' इति१.३॥ १२. '-त' इति१॥ १३. ‘खनु अवदारण' इति क्षीरतरङ्गिण्यादयः ॥
टङ्कगणनायां च पञ्चषष्टिसहस्रपञ्चशतषट्त्रिंशट्टङ्काः ६५५३६ खारीशब्देनोच्यन्ते । यदुक्तम्
"टङ्कः१ कर्षः४ पलं१६ चापि
कुडवं६४ प्रस्थ२५६माढकं१०२४ ॥
द्रोणो ४०९६ द्रोणी १६३८४
खारिके६५५३६ति क्रमादेते चतुर्गुणाः ॥१॥"
[ ]इति । कुडवप्रस्थाढकद्रोणंखारीणां प्रमाणं लीलावती प्रोक्तं प्रोच्यते
"हस्तोन्मितैर्विस्तृतिदैर्घ्यपिण्डैर्यद् द्वादशास्रं घनहस्तसंज्ञम् ।
१० धान्यादिके यद्द्घनहस्तमानं शास्त्रोदिता मागधखारिका सा ॥२॥" द्रोणस्तु खार्याः खलु षोडशांशः स्यादाढको द्रोणचतुर्थभागः । प्रस्थश्चतुर्थोऽह्रिरथाढकस्य प्रस्थाहिराद्यैः कुडवः प्रदिष्टः ॥३॥ [लीलावती, परिभाषा, -७-८] [इति] | "हस्तेन उन्मितः हस्तपरिमितैः विस्तारदीर्घत्वपिण्डैर्यद् द्वादशास्त्रं परितो द्वादश धारं मानं कुण्डकोष्टकाद्यन्तस्य घनहस्त इति संज्ञा भवति, तद्यथा स्पष्टयति घनहस्ते हस्तप्रमाणं दैर्घ्यं हस्तप्रमाणो विस्तारो हस्तप्रमाणः पिण्डश्च, एवंविधं यत् समचतुरस्रम् अधश्चतुरस्रम् उपरिचतुरस्रं पिण्डे चतुररस्रम्, एवं द्वादशास्रं 'निष्पद्यते,
धान्यादौ घनहस्तपरिमितं यन्मानम, सा शास्त्रे मागधखारिका
२० मागधदेशीया खारिका उदिता, सा लोके कलसिकेति प्रसिद्धा, द्रोणस्तु खलु निश्चयेन एवमुक्तायाः खार्याः षोडशांशो द्रोणो भवति, स च सेतिकेति प्रसिद्धः, सा च तौल्ये मणसंनिहिता भवति, एकं षोडशसेतिकाभिरेका कलसिकेत्यर्थः, द्रोणस्य चतुर्थो भाग आढको भवति, मानकमिति प्रसिद्धम्, आढकस्य चतुर्थोऽह्रिश्चतुर्थः पादो विभागः प्रस्थो भवति, पल्लिकेति प्रसिद्धा, आद्यैर्मुनिभिः प्रस्थाह्निः प्रस्थचतुर्थांश: कुडवो भवति, तथा चोक्तं श्रीश्रीधराचार्येण-"कुडवमानं सार्द्ध वेधोऽङ्गुलं त्रीणि कुडवे दैर्घ्यविस्तृती कुडवे काष्ठमयमानके सार्द्धमङ्गुलं वेधो भवति, त्रीण्यङ्गुलानि दैर्घ्यं विस्तारश्च''[] इति । वक्ष्यमाण
३० खातफलसाधनेन गणनाद् जातानि सार्द्धानि त्रयोदशाङ्गुलानि तानि चतुर्गुणानि प्रस्थमानमङ्गलानि चतुष्पञ्चाशत् ५४ आढकेऽङ्गुलशतद्वयं षोडशाधिकं २१६ भवति द्रोणेऽष्टौं शतानि चतुष्षष्ट्याधिकान्यङ्गलानि ८६४ भवन्ति, एवं खार्यां त्रयोदश
सहस्राण्यष्टौ शतानि चतुर्विंशत्यधिकान्यङ्गलानि १३८२४ भवन्ति''[]इति तट्टीका ।
अथ पाय्यमानमाह
चतुर्विंशत्याऽङ्गलानां हस्तः
१ अङ्गलानां चतुर्विंशत्या एको हस्तः । अष्ट भिर्यवोदरैरेकमङ्गलं भवति, तैश्चतुर्विंशत्या हस्त इत्यर्थः । एकं [हस्तस्य] ॥
४० दण्डश्चतुष्करः ।
१ दाम्यति दण्डः, पुंक्ली. । 'मन्ताड्डः'(उणा १११)इति डः । चतुष्करः चतुर्हस्तः । एकं दण्डस्य ॥
तत्सहस्त्रौ तु गव्यूतं क्रोशः
१ तेषां दण्डानां द्वौ सहस्रौ तत्सहस्रौ, गवां यूतिरत्र गव्यूतम्, पृषोदरादिः । २ क्रुश्यते उच्यतेऽध्वपरिमाणमनेनेति क्रोशः । 'क्रुश आह्वाने'(भ्वा.प.अ.), करणे घञ्। यल्लीलावती
"यवोदरैरङ्गुलमष्टसङ्ख्यैर्हस्तोऽङ्गुलैः षड्गुणितैश्चतुर्भिः ।
हस्तैश्चतुर्भिर्भवतीह दण्डः क्रोशः सहस्रद्वितयेन तेषाम् ॥१॥" [लीलावती, परिभाषा, श्रो-५]इति । द्वै क्रोशस्य ॥
५० तौ द्वौ तु गोरुतम् ॥८८७॥ गव्या गव्यूतगव्यूती
१ तौ क्रोशौ द्वौ गवां रुतमत्र गोरुतम् ॥८८७॥ २ गोभ्यो हिता गव्या । 'गोपयसोर्यत्'४।३।१६० ॥इति यत् । ३ गवां यूतिरत्रेति गव्यूतम्, पृषोदरादिः । ४ गवां यूतिः, गव्यूतिः, पुंस्त्री । “गव्यूतिः स्त्री''[अमरकोषः२।१।१८॥] इति त्वमरः । 'ऊतियूति-'३।३।९७॥ इत्यादिना ऊति(यूति)शब्दः साधुः, _ 'गौऍतौ छन्दसि'(६।१७९ ॥), 'अध्वपरिमाणे-'(वा-६।१। ७९॥)इत्यवादेशे गव्यूतिः । चत्वारि क्रोशयुगस्य ॥
चतुष्क्रोशं तु योजनम् ।
६० १ चत्वारः क्रोशाः समाहृता अत्रेति चतु:क्रोशम् (चतुष्क्रोशम्) । युज्यतेऽनेनेति योजनम् । करणे ल्युट् । (युज्यतेऽनेन योजनम्), 'युजिर् योगे'(रु.उ.अ.)। "स्याद्
१. '-गणा' इति१॥ २. '-णी-' इति४ ॥ ३. '-र्थांश इहाढकस्य' इति लीलावत्याम्, परिभाषा, शो-८, पृ.३॥ ४. इतोऽग्रे १प्रतौ 'च' इति दृश्यते ॥ ५. 'निष्पा-' इति३.४॥ ६. '-गणानि' इति१॥ ७. '-णोऽष्टौ' इति४॥ ८. '-य्यमाह' इति२ ॥ ९. ' -नेर' इति४॥ १०. 'द्वौ' इति३॥ ११. '-शः' इति४॥ १२. कोष्ठान्तर्गतपाठः ३.४प्रत्योर्न दृश्यते ॥
योजनं क्रोशचतुष्टयेन''[लीलावती, परिभाषा, श्रो-६] इति भास्कराचार्यः । एकं [योजनस्य] ।
- वाणिज्यमुक्त्वाऽथ पाशुपाल्यमाह
पाशुपाल्यं जीववृत्तिः
___ १ पशुपालस्य भावः कर्म वा पाशुपाल्यम् । २ जीवपालनाद् वर्तनं जीववृत्तिः । 'स्त्रियां क्तिन्'३।३।९४॥ । द्वे जीवपालनाजीविकायाः ॥
गोमान् गोमी गवीश्वरे ॥८८८॥
१ गावः सन्त्यस्य गोमान् । 'तदस्यास्त्यस्मिन्निति
१० मतुप्'५।२।९४ ॥ 'उगिदचाम्- '७।१।३० ॥ इति नुम् । २ गावः सन्त्यस्य गोमी । 'ज्योत्स्नातमिस्रा-'५।२।११४॥इति निपातः । गोमिनौ, गोमिनः इत्यादि । ३ गवामीश्वरो गवीश्वरः, तत्र । गवेश्वरोऽपि । त्रीणि गोमतः ॥८८८॥
गोपाले गोधुगाभीरगोपगोसङ्ख्यवल्लवाः
१ गाः पालयति गोपालः । 'पाल रक्षणे'(चु. उ.से.), 'कर्मण्यण्'३।२।१ ॥, तत्र । २ गाः दोग्धिं गोधुक् । 'दुह प्रपूरणे'(अ.उ.अ.), 'सत्सूद्विष-'३।२।६१ ॥ इत्यादिना क्विप्, 'एकाचो बशो-'८।२।३७॥ इति भष्भावः, 'दादेर्धा तोर्घः'८।२।३२ ॥, जश्त्वम् । ३ आ समन्ताद् भियं रात्यादत्ते
२० आभीरः । ‘रा दाने'(अ.प.अ.), 'आतोऽनुपसर्गे कः'३।२। ३ ॥, 'आतो लोप इटि चं'६।४।६४ ॥ इत्यालोपः । “आ समन्ताद् अभि अभिमुखमीरयति प्रेरयति आभीर:"[अम. क्षीर.२ १९५७॥] इति स्वामी । ४ गां पाति रक्षति गोपः । 'पा रक्षणे'(अ.प.अ.), 'आतोऽनुपसर्गे कः'३।२।३॥ । ५ गाः सङ्ख्याति गोसङ्ख्यः । सम्पूर्व: ‘ख्या प्रकथने' (अ.प.अ.), 'प्रे दाज्ञः कर्मणि'३।२६॥ इति कः । ६ वल्लते संवृणोति वल्लवः । 'वल वल्ल संवरणे '(भ्वा.आ.से.), वल्लि: सौत्रो वा, ततो बाहुलकादच् । यद्वा वल्लनं वल्ल:, भावे घञ्, तद्योगाद् ‘अन्येष्वपि-'(वा-५।२।१०९ ॥)इति वः । गोदुहोऽपि, मूलविभुजादित्वात् के। “गोपगोदु-
३० हवल्लवाः''[ ]इति त्रिकाण्डशेषः । षड् गोपालस्य ।
गोविन्दोऽधिकृतो गोषु
१ गां वन्दिति गोविन्दः । 'विद्लु लाभे'(तु. उ.अ.), ‘गवादिषु विदेः (विन्देः) संज्ञायाम्'(वा-३।१। १३८॥)इति खच्, खित्वान्मुम् । “गोविन्द इन्द्रावरजे गवाध्यक्षे च गीष्पतौ''[विश्वलोचनकोशः, दान्तवर्गः, श्री २४]इति श्रीधरः । गोषु अधिकृतः, गोष्वधिकारीत्यर्थः । एकं गवामधिकारिणः ॥
जावालस्त्वजजीविकः ॥८८९॥
१ अजाः पालयति जावालः, पृषोदरादिः । जव-
४० मलति जवालः छागः, तस्याऽयमिति वा । २ अजेभ्यो जीविकाऽस्य अजजीविकः । 'गोस्त्रियोः- '१।२।४८॥ इति ह्रस्वत्वम् । द्वे 'एवाल' इति ख्यातस्य ॥८८९॥
कुटुम्बी कर्षकः क्षेत्री हली कृषिककार्षको ।
कृषीवलोऽपि
१ कुटुम्बमस्त्यस्य कुटुम्बी । 'अत इनिठनौ'५।२। ११५॥ । २ कर्षति भुवं कर्षकः । 'कृष विलेखने'(भ्वा. प.अ.), ण्वुल् । ३ क्षेत्रमस्त्यस्य क्षेत्री । 'अत इनि ठनौ'५।२।११५ ॥ इतीनिः । ४ हलमस्त्यस्य हली । 'अत इनिठनौ'५।२।११५॥ । ५ कर्षति भुवं कृषिकः । 'कृष
५० विलेखने'(भ्वा.प.अ.), वृश्चिकृषो:(-कृष्योः) किकन्'(उणा १९८) । ६ 'कृषेर्वृद्धिश्चोदीचाम्'(उणा-१९६)इति क्वुनि कार्षकः । वृद्ध्यभावपक्षे कृषकोऽपि । ७ कर्षणं कृषिः । 'इक्कृष्यादिभ्यः '(वा-३।३।१०८॥)इतीक्, ततो मत्वर्थे रजः कृष्यासुतिपरिषदो वलच्५ ।२।१२२ ॥, 'वले'६।३।११८ ॥इति दीर्घः [कृषीवल:]. | सप्त 'करसणी' इति ख्यातस्य ॥
जित्या तु हलिः
१. '-र्याः' इति३ ॥ २. 'गां दोग्धीति' इति३ ॥ ३. 'इटि च' इति २.३.४प्रतिषु नास्ति ॥ ४. अम.क्षीरस्वामिटीकायाम्-"आ-अभित ईरयति आभीरः" इत्येव दृश्यते, २।९५७॥, पृ.२१३ ॥ ५. 'गां' इति३ ॥ ६. '-वस्य' इति३॥ ७. 'प्रे दाज्ञः' इत्येवाष्टाध्याय्याम् ॥ ८. मैत्रेयसम्मतोऽयं धातुपाठः, 'वल संवरणे' इति स्वामी, 'वल वल्ल संवरणे सञ्चरणे च' इति सायणः ॥ ९. '-दुरच्' इति१ ॥ १०. 'माधवः' इति१, 'क' इति२, 'डः' इति४॥ ११. 'कः' इति२ ॥ १२. द्र. पदचन्द्रिका, भा-२, वैश्यवर्गः, श्री-६३०, पृ.७२१ ॥, रामाश्रमी २९५७ ॥, पृ.४२७ ॥ १३. 'त्रिकाण्डशेषे नेदमुद्धरणं दृश्यते ॥ १४. '-स्यास्तीति' इति४ ॥ १५. 'कृषि' इति३ ।। १६. 'कृषि-' इति१॥ ।
१ जीयते निपुणेनेति जित्या । 'जि अभिभवे' (भ्वा.प.अ.), 'विपूयविनीयजित्या मुञ्जकल्कहलिषु'३।१। ११७॥ इति क्यपि साधुः । २ हलन्त्यनया हलिः । 'हल विलेखने '(भ्वा.प.से.), 'इन् सर्वधातुभ्यः '(उणा-५५७) इतीन् । पुंस्त्रीलिङ्गावेतौ । मालाकारस्तु-"जित्यस्तु हलि संज्ञकः"[]इति पुंस्यप्याह । “जित्यहली इति पुंसि''[]इति गौडः । द्वे महाहलस्य ॥
__ सीरस्तु लाङ्गलम् ॥८९०॥ गोदारणं हलम्
१० १सीयते बध्यते सीरः, पुंक्ली. । 'षिञ् बन्धने' (स्वा.उ.अ.), 'शुसिचि-'(उणा-१८३)इति क्रन् दीर्घश्च । "हलतिग्मकरौ सीरौ''[]इति दन्त्यादौ रभसाद् दन्त्या दिरयम् । २ लङ्गति गच्छति भुवं लाङ्गलम् । 'लगि गतौ' (भ्वा.प.से.), [नहि]लङ्गेर्दीर्घश्च'(हैमोणा-४६६)इति कलच् । यद्वा अगिरगिलगिगतीत्यादौ लङ्गेर्गत्यर्थात् 'कलम्बादयश्च (कम्बलादयश्च)'( )इति कलन्प्रत्ययो दीर्घत्वं च निपात्यते ॥८९० ॥ ३ गौः भूमिर्दार्यतेऽनेने गोदारणम् । 'दृ(द) विदारणे'(त्र्या.प.से.), णिजन्तः, 'करणाधिकरणयोश्च'३।३। ११७ ॥ इति ल्युट् । गां दृणातीति, नन्द्यादित्वाद् ल्युर्वा । ४
२० हलति भुवं हलम्, पुंक्ली. । 'हल विलेखने'(भ्वा.प.से.), अच् । ज्वलादित्वाण्णप्रत्यये हालोऽपि । “हलो हालो वहः सीता''[]इति विक्रमादित्यः । चत्वारि सामान्येन हलस्य ॥
ईषासीते तद्दण्डपद्धती । १ ईषति (ईषते) ईषा । 'ईष गतिहिंसादानेषु' (भ्वा.आ.से.), 'इगुपध-'३।१।१३५ ॥ इति कः, 'गुरोश्च हल: '३।३।१०३ ।। इत्यकारो वा । “ईषापेषामञ्जूषा"[]इति मूर्धन्यान्तेषु इन्द्र(चन्द्र)गोमी । 'ईश ऐश्चर्ये'(अ.आ.से.), अस्याऽपि धातोः 'इगुपध-'३।१।१३५ ॥ इति कः, 'गुरोश्च हल: '३।३।१०३ ॥ इत्यकारो वा, ईशा तालव्यान्ताऽपि । “ईशः
३० प्रभौ शङ्करे स्यादीशा लाङ्गलदण्डके''[विश्वप्रकाशकोशः, शान्तवर्गः, श्रो-९]इति महेश्वरः । “प्रभुशङ्करयोरीशः स्त्रियां लाङ्गलदण्डके"[]इति तालव्यान्ते रुद्ररभसौ च । एकं _ 'हलनी हाल' इति भाषा । १ स्यति भुवं सीता। 'अजि
घृषि(घृसि)भ्यः क्त: '(उणा-३६९), बाहुलकात् 'षोऽन्त कर्मणि'(दि.प.अ.)इत्यतोऽपि क्ते, 'घुमास्थागा-'६४।६६ ॥ इतीत्वम्, दन्त्यादिरयम् । “सीता लाङ्गलरेखा स्याद् व्योमगङ्गा तु जानकी''[]इति दन्त्यादौ रभसात् । "सीता तु जानकीव्योमगङ्गालाङ्गलवमसु' [विश्वलोचनकोशः, तान्त वर्गः, श्री-६६] इति श्रीधरः । 'शो तनूकरणे'(दि.प.अ.), बाहुलकादतोऽपि वा क्तादिः ।
४० "शीता नभःसरिति लाङ्गलपद्धतौ च ।
सीता दशाननरिपोः सहधर्मिणी वा ।
शीतं स्मृतं हिमगुणेषु तदन्विते च ।
[शीतोऽलसे च बहुवारतरौ च दृष्टः] ॥१॥"
["]इति धरणिः । ईषा च सीता चेति द्वन्द्वः । दण्डश्च यष्टिः, पद्धतिश्च मार्गः दण्डपद्धती, तस्य हलस्य दण्डपद्धती तद्दण्डपद्धती । सीता हलस्य रेखा । 'चास' इति भाषा ॥ निरीषे कुटकम्
१ निःक्रान्ता ईषा अस्माद् निरीषम्, तत्र । कुटति छिनत्ति कुटकम् । 'कुट कौटिल्ये'(तु.प.से.), क्वुन् ।
५० यद्वा कुटति कुटः । ‘इगुपध-'३।१।१३५ ॥ इति कः, ततः स्वार्थे कन् कुटकम् । यस्याऽग्रे फालो बध्यते, तन्नामै कम् । 'कुली' इति भाषा ॥
फाले कृषकैः कुशिकः फलम् ॥८९१॥
१ फलति निष्पद्यते कृषिरनेनेति फालम् । 'फल निष्पत्तौ'(भ्वा.प.से.), 'हलश्च'३।३।१२१ ।। इति करणे घञ्, तत्र । "फालं सीरो(शिरो)पकरणे कार्पासादिकवाससि" [विश्वप्रकाशकोशः, लान्तवर्गः, शो-२०]इति महेश्वरः । २ कृष्यते भूरनेनेति कृषकः । 'क्वुन् शिल्पिसंज्ञयो: '(उणा
-
१. 'पुंस्त्री' इति३॥ २. द्र. पदचन्द्रिका, भा-२, वैश्यवर्गः, यो-५८७, पृ.६६७॥, रामाश्रमी २।९।१४॥, पृ.४०३ ॥ ३. '-लगे-' इति३.४ ॥ ४. '-रगि लगि अगि वगि-' इति स्वामिसायणौ, '-रगि वगि लगि अगि-' इति मैत्रेयः ॥ ५. '-नेति' इति३.४॥ ६. 'दृणाति' इति१॥ ७. 'ल्युट्' इति३.४ ।। ८. द्र. पदचन्द्रिका, भा-२, वैश्यवर्गः, श्रो-५८६, पृ.६६७॥, तत्र 'हालः फालवहः सीता' इति दृश्यते ॥ ९. 'गतिहिंसादर्शनेषु' । इति क्षीरतरङ्गिण्यादयः ॥ १०. '-न्तोऽपि' इति१॥ ११. टीकासर्वस्वम्, भा-३, २।९।१४ ॥, पृ.१६१ ॥ १२. '-नों' इति१॥ १३. 'सीतं' इति३ ॥ १४. टीकासर्वस्वम्, भा-३, २।९।१४॥, पृ.१६२ ॥, पदचन्द्रिका, भा-२, वैश्यवर्गः, शो-५८७, पृ.६६८॥, रामाश्रमी २।९।१४ ॥, पृ.४०३ ॥ . १५. '-षिकः' इति३.४॥ १६. '-नेन' इति१ ॥ १७. '-षिकः' इति३॥
१९०)इति क्वुन् । स्त्रियां कृषिका । ३ कुष्णाति भूमि कुशिकः । 'कुष निष्कोषणे'(त्र्या.प.से.), किकनि प्रत्यये साधुः । ४ फलति विदारयति भुवं फलम् । 'त्रिफला विशरणे'(भ्वा.प.से.), अच् । चत्वारि 'लोहकुशी' इति ख्यातायाः ॥८९१॥
दात्रं लवित्रम्
१ द्यन्ति (दान्ति) लुनन्त्यनेनं दात्रम् । 'दैप् शोधने '(भ्वा.प.अ.), 'दाप् लवने'(अ.प.अ.), 'दाम्नी-' ३।२।१८२॥ इति ष्ट्रन् । २ लूयतेऽनेन लवित्रम् । 'लूञ्
१० छेदने '(त्र्या.उ.से.), 'अर्तिलूधूसूखनसहचर इत्र: '३।२। १८४॥ । द्वे 'दात्र' इति ख्यातस्य ॥
तन्मुष्टौ वण्ट:
१ तस्य दात्रस्य मुष्टिर्ग्रहणस्थानं तन्मुष्टिः, तत्र । वण्ट्यते विभाज्यते वण्ट: । 'वटि विभाजने'(चु.उ.से.), कर्मणि घञ् । एकं दात्रमुष्टेः ॥ .
मत्यं समीकृतौ ।
१ मतस्य करणं मत्यम् । मतशब्दः साम्यार्थः । 'मतजनहलात् करणे(ण-)'४।४।९७ ॥ इति यत् । असम स्य समीकरणं समीकृतिः, तत्र । एकं 'समार' इति ख्यातस्य ॥
२० गोदारणं तु कुद्दालः
१ गौर्दार्यतेऽनेन गोदारणम् । 'दं विदारणे' (त्र्या.प.से.), अतो णिजन्तात् करणे ल्युट् । कुं भुवमुद्दालयति, कुर्दल्यतेऽनेनेति वा कुद्दालः । 'दल विशरणे'(भ्वा.प.से.), पृषोदरादिः । पुंस्ययम् । वैजयन्ती तु-'गोदारणं तु कुद्दालम्''[वैजयन्तीकोषः ३।८।२९॥] इति क्लीबेऽप्याह । द्वे कुद्दालस्य ॥
खनित्रं त्ववदारणम् ॥८९२॥
१ खन्यतेऽनेन खनित्रम् । 'खनु अवदारणे' (भ्वा.उ.से.), 'अर्तिलूधू-'३।२।१८४ ।। इतीत्रः । २ अव
३० दार्यतेऽनेन अवदारणम् । 'द विदारणे'(त्र्या.प.से.), णिजन्तात् करणे ल्युट् । सामान्येन द्वे कुद्दालादे: ॥८९२॥
प्रतोदस्तु प्रवयणं प्राजनं 'तोत्रतोदने ।
१ प्रतुद्यन्ते वोढारोऽनेन प्रतोदः । 'तुद व्यथने' (तु.उ.अ.), 'हलश्च'३।३।१२१॥ इति संज्ञायां करणे घञ् । २-३ प्राज्यन्ते प्रेर्यन्तेऽनेन प्रवयणम् । 'अज गतौ क्षेपणे च'(भ्वा.प.से.), ल्युटि, ‘वा यो:(यौ)'२।४।-- ५७॥ इति पक्षे वीभावः । व्यभावपक्षे करणे ल्युटि प्राज नम् । ४ तुद्यन्तेऽनेन तोत्रम् । 'तुद व्यथने '(तु.उ.अ.), 'दाम्नीशसु(शस) युज-'३।२।१८२ ॥ इत्यादिना ट्रन्। ५ तुद्यतेऽनेन तोदनम् । 'करणाधिकरणयोः (-योश्च)'३।३।–
४० ११७ ॥इति ल्युट् । पञ्च ‘पराणा' इति ख्यातस्य ॥
योत्रं तु योक्त्रमाबन्धः
१-२ यूयतेऽनेन योत्रम् । युज्यतेऽनेन योकत्रम् । 'युञ् बन्धने'(त्र्या.उ.अ.), 'युजिर् योगे'(रु.उ.अ.) च, आभ्यां 'दाम्नीशसु(शस) युयुज-'३।२।१८२ ॥ इति ष्ट्रन् । ३ आबध्यतेऽनेन आबन्धः, चर्मरज्जुः । 'बन्ध बन्धने '(त्र्या. प.अ.), करणे घञ् । त्रीणि 'जोत्र' इति ख्यातस्य ॥
कोटिशो लोष्टभेदनः ॥८९३॥
१ कोटिमग्रभागं श्यति तनूकरोति कोटिशः । 'शो तनूकरणे'(दि.प.अ.), 'आतोऽनुपसर्गे कः'३।२।३॥ ।
५० कोटिरग्रभागः, साऽतिशयिताऽस्तीति लोमादित्वात् शे कोटिश इति वा । 'कृदिकारात्- '(गणसू-४।१।४५ ॥) इति ङीषि कोटीशो दीर्घमध्योऽपि । २ लोष्टान् भिनत्ति लोष्टभेदनः । 'भिदिर् विदारणे'(रु.उ.अ.), नन्द्यादित्वाद् ल्युः । भिद्यते ___ऽनेन भेदनः, लोप्टानां भेदनो लोष्टभेदन इति वा । द्वे 'मोगरी' इति ख्यातायाः ॥८९३॥ मेधिर्मेथिः खलेवाली खले गोबन्धदारु यत् ।
१ मेधन्ते सङ्गच्छन्ते गावोऽस्यां मेधिः । 'मेधृ सङ्गमे'(भ्वा.उ.से.), '-इन्'(उणा-५५७)इतीन् । २ मेथते __ हिनस्ति मेथिः । 'मेथूङ (मेथू) मेधाहिंसयोः (भ्वा.उ.से.),
६०
१. 'ख्यातस्य' इति१॥ २. 'धति' इति३.४ ॥ ३. 'लुनाति' इति४, 'लुनाति अनेनेति' इति३ ॥ ४. 'इत्यत्रः' इति३ ।। ५. 'विभ-' इति३ ॥ ६. '-ष्टौ' इति३ । ७. '-माहार' इति१ ॥ ८. 'गौ दा-' इति१.३॥ ९. 'दृ' इति१.२.३ ॥ १०. १प्रतौ नास्ति ॥ ११. 'अवि-' इति३ ॥ १२. '-धारणे' इति४॥ १३. 'अवदी-' इति४ ॥ १४. '-लादेः' इति१.२ ॥ १५. 'तोत्र-' इति३.४॥ १६. ४प्रतौ नास्ति ॥ १७. 'व' इति१.३.४ ॥ १८. 'पितराणी' इति३, 'पिराणी' इति४॥ १९. तुलनीयोऽमरकोषः २।९।१२ ॥ २०. '-ति' इति३.४ ॥ २१. '-' इति१ ॥ २२. —-हिंसनयोः' इति३, 'मिथू मेथू मेधाहिंसनयोः' इति स्वामी, 'मिह मेह मेधाहिंसयोः ('-हिंसनयोः' इति सायणः)' इति मैत्रेयसायणौ ॥
'-इन्'(उणा-५५७)इतीन् । मेथ्यन्ते सङ्गम्यन्तेऽत्रेति [वा] । पुंस्त्रीलिङ्गावेतौ । अमरस्तु-"पुंसि मेधिः''[अमरकोषः २।९।१५ ॥] इत्याह । ३ खले वलन्ति भ्रमन्ति गावोऽनया खलेवाली । 'हलदन्तात्-'६।३।९।। इति सप्तम्यलुक् । खले धान्यनिष्पन्नवनक्षेत्रे गोबन्धः बलीवर्दबन्धम्, तदर्थं दारु काष्ठं यत्। त्रीणि 'मेढी' इति ख्यातायाः ॥
शूद्रोऽन्त्यवर्णो वृषलः पद्यः पज्जो जघन्यजः ॥८९४॥
१ शोचतीति शूद्रः । 'शुच शोके '(भ्वा.प.से.),
१० 'शुचेर्दीर्घश्च'(उणा-१७६) इति रक् दश्चान्तादेशः उपधाया दीर्घत्वं च । शद्यत इति वा । 'शदल शातने'( भ्वा. आ.अ.), 'शदेश्चात ऊत्वं च'( )इति रक् । शुः पूजितां कृत्वा सुरामुनत्ति क्लेदयति वा, पृषोदरादिः । २ त्रयाणाम पेक्षया अन्त्यश्चासौ वर्णश्च अन्त्यवर्णः । ३ वर्षति वृषलः । 'वृषु सेचने '(भ्वा.प.से.), 'वृषादिभ्यश्चित् '(उणा-१०६) इति कलच् । यद्वा अशुचित्वात् सेक्तव्यः, 'वृषलादयः' ( )इत्यलः, अगुणत्वं च । वृष धर्मं लुनातीति वा । 'लूञ् छेदने'(त्र्या.उ.से.), 'अन्येभ्योऽपि-'(वा-३।२।१०।।) इति ड: । वृषं धर्ममलं व्यर्थं करोतीति वा । “वृषो हि
२० भगवान् धर्मस्तमेष कृतवानलम्''[] इत्यागमः । ४ ब्रह्मणः पादयोर्भवः पद्यः । 'शरीरावयवाद्-'४३ ५५ ॥ इति यत्, 'पादः पत्'६।४।१३० ॥ इति पदादेशः । ५ पद्भ्यां जातः पजः, द्वितीयवर्गतृतीयद्वयान्तः । 'जनी प्रादुर्भावे'(दि.
आ.से), 'पञ्चम्यामजातौ'३।२।९८॥ इति डः । “पद्भ्यां शुद्रोऽजायत''[ऋ. वे. १०।९० ॥१२॥] इति श्रुतिः । ६ ब्रह्मणो जघन्याङ्गात् पादाज्जातो जघन्यजः । “जघन्यं मेहने क्लीबं चरमे गर्हितेऽन्यवत्'[मेदिनीकोशः, यान्तवर्गः, श्री ८३]इति मेदिनिः । षट् शूद्रस्य ॥८९४॥
अथ मिश्रजातिमाह
३० ते तु मूर्धावसिक्तादारथकृन्मिश्रजातयः ।
ते शूद्राः मूर्धावसिक्तादारभ्य रथकारं यावद् मिश्रा सङ्कीर्णा जातिर्येषां ते मिश्रजातयः, उच्यन्त इति शेष इत्यन्वयः ।।
क्षत्रियायां द्विजान्मूर्धावसिक्तः
१ द्विजाद् ब्राह्मणात् क्षत्रियायां जातो मूर्धावसिक्तः उच्यते । “सूतस्तु क्षत्त्रियाद् जात:''[अभिधानचिन्तामणि नाममाला३ ।८९८ ॥] इत्यतो वक्ष्यमाणाज्जात इति सम्बध्यते, एवमग्रेऽपि व्याख्येयम् । इति प्रथमो भेदः ॥
विस्त्रियां पुनः ॥८९५॥
अम्बष्ठः
१ विस्त्रियां वैश्यजातिस्त्रियां ॥८९५॥ द्विजाज्जातः
४० अम्बष्ठः उच्यत इत्यन्वयः । अम्बेव तिष्ठति अम्वष्ठः । 'सुपि स्थः'३।२।४ ॥ इति कः । उपपदसमासे वृत्तिस्व भावादिवार्थोऽन्तर्भूतः, न्यासे तु "अम्बायां तिष्ठति"[ ] इति व्युदपादि । ‘ड्यापोः संज्ञाच्छन्दसोः '६।३।६३॥ इति पूर्वपदस्य ह्रस्वत्वम्, 'अम्बाम्बगोभूमि-'८।३।९७ ॥ इत्यादिना स्थ: सस्य षत्वम् । इति द्वितीयो भेदः ॥
अथ पारशवनिषादौ शूद्रयोषिति ।
१ ब्राह्मणात् शुद्रस्त्रियां जातः, परात् पुरुषाद् भिन्न वर्णा स्त्री परस्त्री, तस्याऽपत्यं पारशवः । 'परस्त्री परशुं च'(गणसू-४।१।१०४॥)इति शिवादि(बिदादि)पाठादपत्य-
५० र्थेऽण, परशुभावश्च परस्त्रीशब्दस्य । २ निषीदति पापमोति निषादः । ‘षद्लु विशरणादौ'(तु.प.अ.), ज्वलादित्वाण्णः । प्राकृतभाषया 'सबारडे' उच्यत इति तद्धितढूण्ढ्याम् । द्वे ब्राह्मणात् स्त्रियां जातस्य । इति तृतीयो भेदः ॥
क्षत्रान्माहिष्यो वैश्यायाम्
१ क्षत्राद् वैश्यस्त्रियां जातो माहिष्यः उच्यत इत्य न्वयः । महिष्यां साधुर्महिष्यः । 'तत्र साधुः'४।४।९८ ॥ इति यत्, प्रज्ञाद्यणि माहिष्यः । 'अन्येषामपि-'६।३।१३७ ॥ इति दीर्घत्वे वा । "माहिष्योऽर्याक्षत्रिययोः''[अमरकोषः २।१०। ३॥]इत्यमरः । “स ह्यन्तःपुररक्षिता''[]इति स्मार्ताः ।
६० इति तुर्यो भेदः ॥
१. 'धान्ये' इति३.४ ॥ २. '-ने' इति२, -नार्थं' इति४ ॥ ३. 'शुचेर्दश्च'(उणा-१७६)इत्युणादिगणसूत्रम् ॥ ४. 'चित्' इति ४प्रतौ नास्ति ॥ ५. 'धर्मम् अलं' इति च्छेदः ॥ ६. द्र. पदचन्द्रिका, भा-२, शूद्रवर्गः, श्रो-६८४, पृ.७७५ ॥ ७. '-वाद्यत्' इति१.२.३ ॥ ८. 'ते' इति२.४ ॥, द्र. अम. क्षीर. २।१०।१॥, पृ.२२५ ॥, स्वोपज्ञटीका ३८९४ ॥, पृ.१९७॥ ९. '-व्या-' इति३ ॥ १०. द. मा.धातुवृत्तिः, भ्वादिः, धातुसं-६५०, पृ.२५१ ॥ ११. '-णः' इति१.२.४ ॥ १२. 'रबारट' इति३ ॥ १३. द्र. अम.क्षीर.२।१०।३।।, पृ.२२६ ॥, स्वोपज्ञटीका३ १८९६ ॥, पृ.१९८ ॥
उग्रस्तु वृषलस्त्रियाम् ॥८९६॥
१ वृषलस्त्रियां क्षत्रियाज्जात उग्रः उच्यत इत्य न्वयः । उचति (उच्यति) उग्रः । 'उच समवाये'(दि. प.से.), 'ऋजेन्द्राग्र- '(उणा-१८६) इत्यादिना साधुः । "शुद्राक्षत्रिययोरुग्रः"[अमरकोषः २ ।१०।२ ॥] इत्यमरः । इति पञ्चमो भेदः ॥८९६॥ वैश्यात् तु करणः
१ वैश्यात् शूद्रायां जात: करणः इत्युच्यते । करोति करणः । नन्द्यादित्वाद् ल्युः । “शूद्राविशोस्तु करणः"
१० [अमरकोषः २।१०।२ ॥] इत्यमरः । इति षष्ठो भेदः ॥
शूद्रात् त्वायोगवो विशः स्त्रियाम् ।
१ तुरवधारणे शूद्राद् वैश्यायां जात आयोगवः उच्यत इत्यन्वयः । अयोवद् गौरस्य अयोगुः, तस्याऽयम् आयो गवः । तस्येदम्'४।३।१२० ॥ इत्यण् । इति सप्तमो भेदः ॥
क्षत्रियायां पुनः क्षत्ता
१ शूद्रात् क्षत्रियायां जातः क्षत्ता प्रोच्यत इत्यन्वयः । क्षदति हिनस्ति द्वा:स्थत्वादिति क्षत्र:(क्षत्ता) । 'क्षद स्थैर्ये हिंसायां च'( ), 'तृन्तृचौ शंसि[क्षदादिभ्यः
संज्ञायां चानिटौ] '(उणा-२५०)इति तृच् । द्वा:स्थः "क्षत्ता
२० ऽर्याशूद्रयोः सुतः"[अमरकोषः२।१०।३ ।।] इत्यमरः । वैश्य माता, शूद्रः पिता, तत्पुत्रः क्षत्तेति कश्चित् । इत्यष्टमो भेदः ।।
चण्डालो ब्राह्मणस्त्रियाम् ॥८९७॥
१ क्षुद्राद् ब्राह्मणस्त्रियां जातः, चण्डाल: प्रोच्यते । चण्डति(चण्डते) कुप्यति चण्डालः । 'चडि कोपे' (भ्वा.आ.से.), 'पतिचण्डिभ्यामालञ्'(उणा-११४) । चण्डं क्रोधमुखं कर्म अलति पर्याप्नोतीति वा । 'अल भूषणादौ' (भ्वा.प.से.)। प्रज्ञाद्यणि चाण्डालोऽपि । इति नवमो भेदः ।
वैश्यात् तु मागधः क्षत्र्याम्
. १ वैश्यात् क्षत्रियायां जातो मागधः प्रोच्यते । मगध्यति स्तौति मगधः । 'मगध स्तुतौ' कण्ड्वादिः,
३० ततोऽच्, प्रज्ञाद्यणि मागधः । “मागधः क्षत्रियाविशोः" [अमरकोषः २।१०।२॥] इत्यमरः । इति दशमो भेदः ॥
वैदेहको द्विजस्त्रियाम् । १ वैश्याद् ब्राह्मण्यां जातः, ('वैदेहकः प्रोच्यते)। वैदेह एव वैदेहकः । स्वार्थे कनि, वणिक्कर्माऽयम् । [इति] एकादशो भेदः ॥
सूतस्तु क्षत्रियाद् जातः
- १ क्षत्रियाद् ब्राह्मण्यां जातः सूतः प्रोच्यते । सुवति प्रेरयत्यश्वान् सूतः। 'षु प्रेरणे'(तु.प.से.), 'हसि मृग्रि- '(उणा-३६६) इति तन्, बाहुलकाद् दीर्घत्वं च ।
४० इति द्वादशों भेदः ॥
अथोपसंहारमाह
__इति द्वादश तद्भिदः ॥८९८॥ इति पूर्वोक्तप्रकारेण तेषां शूद्राणां भिदो जाति विशेषा, द्वादश ज्ञेयाः ॥८९८॥
माहिष्येण तु जातः स्यात् करण्यां रथकारकः ।
१ वैश्यात् क्षत्रिययोः (क्षत्रियाद् वैश्यायां जातः) पुत्रो माहिष्यः, स पिता, वैश्यात् शूद्रायां जाता करणी, सा माता, तयोः पुत्रनामैकं रथकारकः तक्षा, माहिष्योऽत्र प्रागुक्तश्चतुर्थजातीयस्तेन, करणी प्रागुक्ता षष्ठजातीया तस्याम्,
५० जात उत्पन्न इत्यर्थः । करणीत्यत्र 'जातीरस्त्रीविषया दयोपधात्'६।१।६३ ।। इति ङीष् ॥
कारुस्तु कारी प्रकृति: शिल्पी
१ करोति कर्माणि चित्रलेप्यादिकर्म वा कारुः । ‘कृवापाजिमि-'(उणा-१)इत्युण् । स्त्रियामूङि कारूः । २ करोति कर्माणि कारी । ग्रहादित्वाणिनिः । ३ प्रक्रियतेऽनया प्रकृतिः। 'स्त्रियां क्तिन्'३।३।९४॥ । ४ शिल्पं कलाकौशलमस्याऽस्ति शिल्पी । 'अत इनिठनौ' ५।२।११५॥ इतीनिः ॥
१. 'द्विजात्' इति१.४॥ २. 'तृन्' इति३.४॥ ३. अनावश्यक: प्रतिभाति ॥ ४. '-चडि-' इति१॥ ५. 'च-' इति३॥ ६. १.२.४प्रतिषु नास्ति ॥ ७. कोष्ठान्तर्गपाठः १.२.४प्रतिषु न दृश्यते ॥ ८. 'वि-' इति३॥ ९. '-याम्' इति३॥ १०. '-शमो' इति२.३॥ ११. '-शमो' इति३॥ १२. '-संहरति' इति१.२॥ १३. 'ङीप्' इति१.२.४ ॥
"तया (तक्षा) च तन्तुवायश्च नापितो रजकस्तथा ।
पञ्चमश्चर्मकारश्च कारवः शिल्पिनो मता ॥१॥"
[]इति । चत्वारि सामान्येन ‘कारुः' इति ख्यातस्य ॥ ‘कारीगर उस्तादविज्ञानी' इति भाषा ॥
श्रेणिस्तु तद्गणः ॥८९९॥
१ श्रीयते श्रेणिः, पुंस्त्रीलिङ्गः । “श्रिञ् सेवायाम्' (भ्वा.उ.से.), वहिश्रि[ श्रु]यु-'(उणा-४९१)इति निः । तेषां कारूणां गणस्तद्गणः । एकं समानजातीयकारुसमूहस्य ॥८९९॥
शिल्पं कला विज्ञानं च
१० १ शील्यते शिल्पम् । ‘शील समाधौ'(भ्वा. प.से.), 'शील अभ्यासें '(चु.उ.से.), चुरादिः, “शिल उञ्छे' (तु.प.से.)इत्यस्माद्वा पप्रत्यये 'खष्पशिल्प- '(उणा-३०८) इत्यादिना साधुः । २ कल्यते कला । 'कलण् सङ्ख्या नगत्योः (चु.उ.से.), चुरादिः, भिदादित्वादङ् । ३ विविधं ज्ञायते विज्ञानम् । 'ज्ञा अवबोधने'(त्र्या.प.अ.), कर्मणि ल्यु: । त्रीणि 'विज्ञान' इति ख्यातस्य ॥
मालाकारस्तु मालिकः । पुष्पांजीवः
१ मालां करोति मालाकारः । 'कर्मण्यण'३।२।१।।
२० २ मालानिर्माणं शिल्पमस्य मालिकः । 'शिल्पम्'४।४।५५॥ इति ठन् । मालाऽस्त्यस्येति व्रीह्यादित्वाट्ठन् वा । ३ पुष्पैरा जीवति पुष्पाजीवः । ‘जीव प्राणधारणे'(भ्वा.प.से.), पचा द्यच् । त्रीणि मालाकारस्य ॥
पुष्पलावी पुष्पाणामवचायिनी ॥९००॥
१ पुष्पाणि लुनाति पुष्पलावी । 'लूञ् छेदने' (त्र्या.उ.से.), 'कर्मण्यण्'३।२।१ ॥ 'टिड्डाणञ्-'४।१।१५॥ इति ङीप् । पुष्पाणां कुसुमानां अवचायिनी । अवपूर्वात् 'चिञ् चयने'(स्वा.उ.अ.) अस्माद् ग्रहादित्वाणिनिः, ततः 'ऋन्नेभ्यो ङीप्'४।१।५॥ । एकं 'मालिणि' इति ख्यातायाः ॥९००॥
३० कल्यपालः सुराजीवी शौण्डिको मण्डहारकः ।
वारिवास: पानवणिक् ध्वजो ध्वज्याऽऽसुतीवल: ॥९०१॥
१ कल्यं मद्यं पालयति कल्यपालः, अन्तस्था तृतीयप्रथममध्योऽयम् । 'पाल रक्षणे'(चु.उ.से) णिज न्तादस्मात् 'कर्मण्यण'३।२।१॥ । २ सुरया जीवति सुराजीवी । ग्रहादित्वाणिनिः । ३ शुण्डा पानमदस्थानं सुरा वा पण्यमस्य शौण्डिकः । 'तदस्य पण्यम्'४।४५१॥ इति ठक् । ४ मण्डमच्छसुरां हरति मण्डहारः। 'कर्मण्यण्' ३।२।१॥, ततः स्वार्थे कनि मण्डहारकः । ५ वारि पानीयं वासयति वारिवास: । 'वस निवासे'(भ्वा.प.अ.),
४० 'कर्मण्यण'३ ।२।१॥ । ६ पानस्य वणिक् पानवणिक्, जकारान्तः । ७ ध्वजति ध्वजः । 'ध्वज गतौ'(भ्वा.प.से.), पचाद्यच् । ८ ध्वजः सुराभाण्डपताकाऽस्त्यस्य ध्वजी । 'अत इनिठनौ'५।२।११५॥ । ९ आसुतिर्मद्यसन्धानमस्त्यस्य आसुतीवलः । आपूर्वः 'षुञ् अभिषवे'(स्वा.उ.अ.) अभिषवः स्नपनपीडनस्नानसुरासन्धानादिः, स्त्रियां क्तिनि आसुतिः, ततो 'रज:कृष्यासुतिपरिषदो वलच्'५।२।११२ ॥, ‘वले'६।३।११८॥ इति दीर्घः । नव ‘कलाल' इति
ख्यातस्य ॥९०१॥
मद्यं मदिष्ठा मदिरा परित्रुता ।
५० कश्यं परित्रुमधु कापिशायनम् ॥
गन्धोत्तमा कल्यमिरा परिप्लुता ।
कादम्बरी स्वादुरसा हलिप्रिया ॥९०२॥
शुण्डा हाला हारहूरं प्रसन्ना वारुणी सुरा ।
माध्वीकं मंदना देवसृष्टा कापिशमब्धिजा ॥९०३॥
१ मदे साधु मद्यम् । 'तत्र साधु: '४।४।९८ ॥ इति यत् । माद्यन्त्यनेनेति वा । 'मदी हर्षे '(दि.प.से.), 'गद मदचरयमश्चानुपसर्गेभ्य: '३।१।१०० ॥ इति यत् । 'कृत्यल्युटो बहुलम्'३।३।११३॥ इति करणेऽपि यत् भवति । २ अतिशयेन मदवती मदिष्ठा । 'अतिशायने तमप्-'५।३ ५५ ॥
६०
१. द्र. पदचन्द्रिका, भा-२, शूद्रवर्गः, श्रो-६८८, पृ.७७७ ।।, रामाश्रमी २११०५ ॥, पृ.४५३ ।। २. 'पुंस्त्री' इति४॥३. 'उपधारणे' इति क्षीरतरङ्गिण्यादयः ॥ ४. इतोऽग्रे ३प्रतौ 'वा' इति दृश्यते ॥ ५. 'कल गतौ संख्याने च' इति स्वामिसायणौ, 'कल संख्याने गतौ च' इति मैत्रेयः ॥ ६. 'ल्युटि' इति४॥७. इतोऽग्रे ३प्रतौ 'वा' इति दृश्यते ॥ ८. '-ब्' इति३ ॥ ९. -षि' इतिर, '-ष्' इति३.४॥ १०. 'डोष्' इति२.३.४ ॥ ११. '-रकः' इति३ ॥ १२. 'कन्' इति४॥ १३. '-नमस्या' इति४ ॥ १४. '-स्पृष्टा' ३.४ ॥ १५. ' - भ्यः' इत्यष्टाध्यायां न दृश्यते ॥१६. ३प्रतौ नास्ति ॥ १७. '-यिने' इति३.४॥
इतीष्ठनि, 'विन्मतोलुंक् '५ ।३।६५ ॥ इति मतुप्लुकि 'टेः' ६।४।१५५ ।। इति टिलोपः । ३ माद्यत्यनया मदिरा । 'मदी हर्षे '(दि.प.से.), 'इषिमदिमुदि-'(उणा-५१) इत्यादिना किरच् । ४ परिस्रवति स्म परित्रुता, टाबन्तः, दन्त्यरेफपञ्चम स्वरमध्यः । 'त्रु गतौ '(भ्वा.प.अ.), निष्ठा । ५ कशदेशे साधु कश्यम् । 'तत्र साधुः '४।४।९८ ॥ इति यत् । कशि: सौत्रो वा, तालव्यान्त:, ‘जनेर्यक्'(उणा-५५०)इति बाहुलकाद् यक् । “मद्याश्वमध्ययोः कश्यम्' इति रन्तिदेवः । ६ परिस्रवति परिस्रुत्, दन्त्यरेफपञ्चमस्वरमध्यः । 'त्रु गतौ'
१० (भ्वा.प.अ.), क्विप्, 'हृस्वस्य-'६।१७१ ॥ इति तुक् । परिस्रुतौ, परिस्रुतः इत्यादि, स्त्रीलिङ्गः । ७ मन्यते मधु, पुंक्ली ., । 'मनु अवबोधने '(त.आ.से.), 'फलिपाटि नमिमनिजनां गुक् पटिनाक(नाकि)धता(त)श्च'(उणा-१८)इति मन्यतेोऽन्तादेशः, उप्रत्ययः । ८ कपिश्यां(कापिश्यां) पुर्यां भवं कापिशायनम् । 'कपिश्या:(कापिश्या:) फक् (फक्)' ४।२।९९॥ इति फक्रष्फक्) । ९ गन्धेन उत्तमा श्रेष्ठा गन्धो त्तमा । १० कल्यते कल्यम्, स्त्रीक्लीबलिङ्गः, अन्तस्था तृतीयप्रथमान्तः, 'अघ्न्यादयश्च'(उणा-५५१)इति यत् । ११ एति भ्राम्यत्यनया इरा । 'इण गो'(अ.प.अ.), 'ऋजेन्द्र-'
२० (उणा-१८६)इत्यादिना रक् । इ: कामस्तं राति दत्ते वा । ‘रा दाने'(अ.प.अ.), 'आतोऽनुपसर्गे कः'३।२।३ ।।, टाबन्तः । १२ परिप्लवते स्म परिलुप्ता । 'प्लुङ् गतौ'(भ्वा.आ.अ.), 'निष्ठा'३।२।१०२ ॥ इति क्तः । १३ गोमन्थपर्वतकदम्बकोटर जाता कादम्बरी, स्त्रीक्लीबलिङ्गः, पृषोदरादिः । “कदम्ब कोटरे जाता नाम्ना कादम्बरी''[]इत्यागमः । कुत्सितमम्बु यत्र क्षारत्वात् कदम्बुः, समुद्रः, तमियर्तीति वा । पृषोदरादिः । कुत्सिताम्बरस्य नीलवासस इयं कादम्बरी । 'तस्येदम्'४।३ । १२० ॥ इत्यण, 'टिड्डाणञ्- '४।१।१५ ॥ इति ङीष् (ङीप्) वा । कदम्बगिरावर्यते वा, तत्र हि यादवैस्त्यक्ता, पृषोदरादिः ।
३० अत्र सामान्यविशेषयोरभेदविवक्षेयेत्थं निर्देशः । यद् गौड: "कादम्बरं मद्यभेदे दध्यग्रे सीधुनि स्त्रियाम्'[]इति । १४ स्वादूं रसोऽस्याः स्वादुरसा । १५ हलिनो भद्रस्य प्रिया इष्टा हलिप्रिया ॥९०२॥ १६ शुनति वैकल्यमनया शुण्डा, पुंस्त्रीलिङ्गः । “शुण्डो मद्यम्'[] इति पुंसि शाकटायनः । _ 'शुन गतौ'(तु.प.से.), 'अमन्ताड्डः '(उणा-१११) । १७ हलति विलिखति अङ्गं हाला । 'हल विलेखने '(भ्वा.प.से.), ज्वलादित्वाण्णः । जहाति लज्जामनयेति पृषोदरादिर्वा । १८ हरति इन्द्रियाणि हारहूरम् । पृषोदरादिः । हारहूरा द्राक्षा, तस्या विकारो हारहूरमिति वा । 'तस्य विकारः '४।३।१३४ ॥ इत्यण् । १९ प्रसीदति अच्छत्वात् प्रसन्ना । 'षद्लु विश-
४० रणादौ'(भ्वा.प.अ.), 'निष्ठा' ३।२।१०२ ॥ इति क्तः, 'रदा भ्याम्-'८।२।४२ ॥ इति नत्वम् । २० वरुणस्येयं वारुणी, समुद्रोत्थत्वात् । २१ सुरति उद्दीप्यते सुरा । 'सुरत् (पुर) ऐश्वर्यदीप्त्योः '(तु.प.से.), 'इगुपध-'३।१।१३५ ॥ इति कः । सूयते परिवास्यते वा । 'घुञ् अभिषवे'(स्वा.उ.अ.), _ 'सुसूधा- '(उणा-१८२)इति क्रन् । सुष्ठु रान्त्याददत एतामिति वा । ‘रा आदाने '(अ.प.अ.), 'आतश्चोपसर्गे'३।३।१०६ ।। इत्यङ् । २२ माद्यत्यनया माध्वीकम् । पृषोदरादिः । मृद्वीकाया विकारो मार्दीकमिति अमरक्षीरस्वामिनौ । तथा च तद्वचः-"मधु मार्दीकमद्वयोः"[अमरकोषः २।१०।४१ ॥]
५० इति । २३ मदयति मदना । 'मदी हर्षे '(दि.प.से.), नन्द्यादित्वाल्ल्युः । २४ देवैः सृज्यते स्म देवसृष्टा । 'सृज विसर्गे'(दि.आ.अ., तु.प.अ.), निष्ठा । २५ कपिशमेव कापिशम् । 'प्रज्ञादिभ्यश्च'५।४।३८॥ इत्यण् । २६ अब्धेः समुद्राज्जाता अब्धिजा । 'जनी प्रादुर्भावे'(दि.आ.से.), 'पञ्च म्याम्-'३।२।९८ ॥ इति ड: । षड्विंशतिर्मद्यस्य । अथ "गोंडी पैष्टी च माध्वी च फलोत्था च सुधा स्मृता''[ ]इति ॥९०३॥
सुराभेदानाह
मध्वासवे माधवकः
१ मधु माक्षिकम्, तन्मिश्रे आसूयते मध्वासवः ।
६० 'षुञ् अभिषवे'(स्वा.उ.अ.), तत्र । २ मधुनो विकारो । माधवः । तस्य विकार: '४।३।१३४॥ इत्यण, ततः स्वार्थे
१. द्र. पदचन्द्रिका, भा-२, शूद्रवर्गः, श्री-७२३, पृ.८१३ ॥, रामाश्रमी २।१०।४० ॥, पृ.४६९ ॥ २. '-क्लीबः' इति३.४।। ३. द्र. टीकासर्वस्वम्, भा-३, २१०१३९ ॥, पृ.२८१ ॥, तत्र '-टराज्जाता' इति दृश्यते, पदचन्द्रिका, भा-२, शूद्रवर्गः, भो-७२२, पृ.८१३ ।। ४. ३प्रतौ नास्ति ॥ ५. '-दु' इति३ ॥ ६. 'बलिभ-' इति३, 'वलभ-' ति४॥ ७. '-रा इति' इति३॥ ८. '-सते' इति४॥ ९. 'रात्यादत्ते' इति३.४॥ १०. 'दाने' इति१॥ ११. 'माीयक-' इति३॥ १२. 'पूञ्' इति१.२ ।।
कन् । मधुनो विकारः, मधुना कृतो वा माधवकः । कुलादित्वाद् वुञ् वा । द्वे मधुमिश्रितस्य ॥
मैरेये शीधुरासवः ।
१ मीरायां देशे भवो गौड्याः सुराया विशेषो मैरेयः । 'स्त्रीभ्यो ढक्'४।१।१२०॥ । २ शेरतेऽनेनेति शीधुः । 'शीङो धुक्- '(उणा-४७८)इति धुक् । पुनपुंसकौ । "पुंनपुंसकयो रुजीवातुस्थाणुशीधवः''[त्रिकाण्डशेषः ३।५।८॥] इति त्रिकाण्डशेषः । ३ आसूयते आसवः। 'षुचं अभिषवे' (स्वा.उ.अ.), 'ऋदोरप्'३।३।५७॥ इत्यप् ।
१० पक्वरसोऽपि । सुरा चतुर्द्धा । यदुक्तम्-“गौडी पैष्टी माध्वी फलोत्था च"[] इति । आत्रेयोऽपि-"गौडी माध्वी तथा पैष्टी निर्यास्या कथिता परा''[ ] इति । तन्मध्ये गुडोत्पन्नायाः सुराया नामानि मैरेय इत्यादित्रीणि । "मैरेयमासवः शीधुः" [अमरकोषः २।१०।४१॥] इत्यमरः । "मीरायां देशे भवो गौड्याः सराया विशेषो मैरेयः"अम. क्षीर.२।१०।४१ ॥ इति क्षीरस्वामी । "मैरेयो गदितः शीधुः''[ ]इति माला । "शीधौडी च मात्सण्डी गडेन प्रभवास्त्रयः" इत्यात्त्रेयो गुडप्रभवायाः सुरायास्त्रीन् भेदानाह। श्रीलिङ्ग[य] सूरयस्तु "धातकीपुष्पमिश्रगुडसहितधान्याम्बुकृतमद्यनाम मैरेयम्, पक्वे
२० क्षुरसकृतमद्यनाम शीधुः, अपक्वेक्षुरसकृतमद्यनाम आसवः" [लिङ्गयसूरिकृता अमरपदविवृत्तिः (अमरकोशः, भा-१, २।१०।४१ ॥] इति त्रीनपि भिनत्ति ॥
जगलो मेदको मद्यपङ्कः
१ भृशं गलति स्रवति जगलः । गलेर्यङ्लु गन्तादच् । " 'जक्ष भक्षहसनयोः (अ.प.से.)इत्यतः वृषादि त्वात् कलच्, बाहुलकात् षलोपे जश्त्वे च जगल:"[ ] इति शाब्दिकाः । "जगलो मदनद्रुमे । मेदके पिष्टमये च"[मेदिनीकोशः, लान्तवर्गः, श्री-९१-९२] इति चवर्ग तृतीयादौ मेदिनिः । २ मेद्यति स्निह्यति मेदकः । 'जिमिदा
३० स्नेहने'(दि.प.से.), ण्वुल् । ३ मद्यस्य पङ्को मद्यपङ्कः ।
मदनपालस्तु
"प्रसन्ना स्यात् सुरामण्ड१स्तस्मात् कादम्बरी घना२।
जगलस्तदधः प्रोक्तो३ जगलान्मेदको घनः४ ॥१॥"
बुक्कसो(पक्वशो)५ जगलः सारः सुराबीजं तु किण्वकम्६ ।। [मदनपालनिघण्टुः, पानीयादिवर्ग:-८, मद्यभेदनामगुणाः, - १७१-१७२] इति भिनत्ति । एषां षण्णां गुणांश्च पृथग् ब्रूते । त्रीणि मद्यपङ्कस्य ॥
किण्वं तु नग्नहूः ॥९०४॥
नग्नहर्मद्य बीजं च
१ किणति(कणति) सुराननेनेति किण्वम्, क्लीबे।
४० 'कण् (कण) गतौ '(भ्वा.प.से.), ततो बाहुलकावुल्वादित्वाद् वः, उपधायाश्चेत्वम् । किणिः सौत्रो वा, तत उल्वादित्वाद् वः । “किण्वं पापे सुराबीजे''[विश्वप्रकाशकोशः, वान्त वर्ग:, शो-१७] इति विश्वः । २ नग्नेन अवस्त्रेण हूयते स्पर्ध्यतेऽनाच्छादनत्वाद् नग्नहूः । 'ह्वेञ् स्पर्धायां शब्दे च' (भ्वा.उ.अ.), क्विप्, ऊठ् । नग्नह्वौ, नग्नह्वः इत्यादि। अव्युपन्नोऽमित्यन्ये ॥९०४॥ ३ नग्नहुः पञ्चमस्वरान्तः । पुंलिङ्गावेतौ । ४ मद्यस्य बीजं मद्यबीजम् । चत्वारि माषदलन्यादिमद्यबीजस्य ॥
मद्यसन्धानमासुतिः ।
५० आसवोऽभिषवः
१ मद्यस्य सन्धानं मद्यसन्धानम् । २ आसूयत इति आसुतिः । 'षुञ् अभिषवे'(स्वा.उ.अ.), 'स्त्रियां क्तिन्' ३।३।९४ ॥ । ३ आसवनम् आसवः । 'ऋदोरप्'३।३।५७ ।। ४ अभिषूयते चिरं क्लेद्यते अभिषवः । त्रीणि मद्यसन्धानस्य । 'मद्यर्नु अथाणुं ' इति भाषा ॥
मद्यमण्डकारोत्तमौ समौ ॥९०५॥
१ मद्यस्य मण्डो मद्यमण्डः । २ कारण क्रिया वशादुत्तमः कारोत्तमः । कारोत्तरोऽपि । “कारोत्तमः(-त्तरः) सुरामण्डः''[अमरकोषः २।१०।४२॥] इत्यमरः । “सुरोचे
६० स्वच्छो भागः"[ ]इति तट्टीका । द्वे मद्यमण्डस्य ॥९०५॥
गल्वर्कस्तु चषकः स्यात् सरकश्चानुतर्षणम् ।
१ गैलन्त्यनेन गल्वर्कः । ‘गल अदने'(भ्वा.
१. ४प्रतौ न दृश्यते ॥ २. '-सीधवः' इति त्रिकाण्डशेषे, पृ.३८८ ॥ ३. 'घूञ्' इति३ ।। ४. '-स्यण्डी' इति२.४ ॥ ५. 'मिदा' इति१.२॥ ६. 'किण्' इति२.३.४ ॥ ७. 'किणेः' इति१॥ ८. 'तत्र' इति३, ४प्रतौ नास्ति ॥ ९. '-ति' इति३.४ ।। १०. '-नों' इति४॥ ११. '-j' इतिर, '-णों' इति४ ॥ १२. 'गल्यन्ते' इति४॥
प.से.), 'निष्कतुरुष्क-'(हैमोणा-२६)इति कप्रत्यये निपा त्यते । २ चष्यते भक्ष्यतेऽनेन चषकः, पुनपुंसकः । “चषको ऽस्त्री"[अमरकोषः २।१०।४३ ।।] इत्यमरः । 'चष भक्षणे' (भ्वा.उ.से.), मूर्धन्यान्तः, 'क्वुन् शिल्पिसंज्ञयो:'(उणा-१९०) इति क्वुन् । ३ सरत्यनेन सरकः । 'सृ गतौ'(भ्वा.प.अ.), 'कृञादिभ्यः [संज्ञायां] वुन्'(उणा-७१३) पुंक्लीबलिङ्गावेतौ । "शीधौ च शीधुपाने च चषके सरकोऽस्त्रियाम्''[ ]इति गौडः । ४ अनुतृष्यन्त्यनेन अनुतर्षणम् । 'बितृषा पिपासायाम्' (दि.प.से.), ल्युट । अनुतर्षोऽपि । “अनुतर्षश्चषकश्चा
१० ऽनुकर्षश्च"[]इति भागुरिः । “स्फाटिके पात्रेऽयं रूढः" [अम.क्षीर.२।१०।४३ ॥] इति क्षीरस्वामी । चत्वारि मद्यपान पात्रस्य । अमरस्तु-"सरकोऽप्यनुतर्षणम्'' [अमरकोषः२।१०। ४३॥]इति सरकानुतर्पणशब्दौ सुरापरिवेषणपर्यायावाह, तेन सरकोऽनुतर्षणमेतौ मद्यपरिवेषणस्याऽपि नाम्नी ज्ञेये ॥
शुण्डा पानमदस्थानम्
१ शुन्यते शुण्डा । 'शुन गतौ'(तु.प.से.), 'जमन्ताड्डः' (उणा-१११) । शुण्डा पानगृहम् । “शुण्डा पानगृहेऽनेन (मता)"[मेदिनीकोशः, डान्तवर्गः, श्रो-२५] इति तालव्यादौ मेदिनिः । पानमदयोः स्थानमास्पदं कल्यपालगृहैकदेशः ।
२० यथा-"शुण्डायां प्रविजृम्भते परिमलः कोऽप्येष शुण्डाकृतः" []इति । एकं मदपानस्थानकस्य, मदस्थानकस्य च ॥
मधुवारा मधुक्रमाः ॥९०६॥
१ मधुनो वारा अवसरा मधुवाराः । २ मधुनः क्रमा मधुक्रमाः ॥९०६॥
सपीतिः सहपानं स्यात्
१ सह सम्भूय पानं सपीतिः । 'पा पाने'(भ्वा. प.अ.), 'स्त्रियां क्तिन्'३।३।९४ ॥, 'घुमास्था- '६४।६६ ॥ इतीत्वम् । २ सह पीयते सहपानम् । ल्युट् । द्वे सह पानस्य । 'साथिई पीवउं' इति भाषा ॥
आपानं पानगोष्ठिका ।
३० १ आ समन्तात् सम्भूय पिबन्त्यत्र आपानम् । 'पा पाने'(भ्वा.प.अ.), अधिकरणे ल्युट् । “यत्र(अत्र) स्फटि कहर्येषु नक्तमापानभूमिषु"[कुमारसम्भवम्, सर्गः-६, श्रो ४२] इति कुमारसम्भवः । २ पानाय कृता गोष्ठी पानगोष्ठी, ततः स्वार्थे कनि, 'केऽणः'७।४।१३॥ इति ह्रस्वत्वे पान गोष्ठिका । "पानाय पानस्य वा गोष्ठी आसनबन्धः पानगोष्ठी" [अभि-,स्वोपज्ञटीका ३।९०७] इत्याचार्याः । द्वे पानगोष्ठ्याः ॥
उपदंशस्त्ववदंशश्चक्षणं मद्यपाशनम् ॥९०७॥
१ उपदश्यते पानरुचिजननाय उपदंशः । ‘दंश दशने '(भ्वा.प.अ.), कर्मणि. घञ् । २ एवमवदश्यते
४० अवदंशः । ३ चक्ष्यते चक्षणम् । 'चक्ष भक्षणे'( ), कर्मणि ल्युट् । ४ मद्यपस्य अशनं खरविशदमभ्यवहार्य मद्यपाशनम् । चत्वारि उपदंशस्य । 'मद्यनुं चाखवउं' इति भाषा ॥९०७॥
नाडिन्धमः स्वर्णकारः कलादौ मुष्टिकश्च सः ।
१ नाडी वंशादिकृता नलीति ख्याता, तां मुखे विन्य स्य वायुना धमति शब्दयति नाडिन्धमः । 'ध्मा शब्दा ग्निसंयोगयो: '(भ्वा.प.से.), 'नाडीमुष्टयोश्च'३।२।३० ॥ इति खश्, 'खित्यनव्ययस्य'६।३।६६ ॥ इति ह्रस्वत्वम् । २ स्वर्ण करोति अलङ्कारादिरूपतयेति स्वर्णकारः । 'कर्मण्यण'
५० ३।२।१॥ । ३ कलां स्वर्णशिल्पमादत्तवान् स्वीकृतवान् मूलविभुजादेराकृतिगणत्वात् कः कलादः । कलं स्वर्ण कालिकामाद्यति [आ]खण्डयति वा । 'दोऽवखण्डने' (दि.प.अ.), 'आतोऽनुपसर्गे कः'३।२।३॥ । अत एव कलधौतमपि हेमनाम । ४ मुष्टिं कायति मुष्टिकः । 'कै शब्दे' (भ्वा.प.अ.). 'आतोऽनुपसर्गे कः' ३।२।३ ॥ । चत्वारि स्वर्णकारस्य ॥
१. द्र. अम.क्षीर. २।१०।४३ ॥, पृ.२३५ ॥, रामाश्रमी २।१०।४३ ॥, पृ.४७१ ॥, तयोः "चषश्चानुतर्षश्च सरकश्च" इति दृश्यते, पदचन्द्रिका, भा-२, श्री-७२६, पृ.८१६ ॥, तत्र "चषकश्चानुतर्षश्च" इति दृश्यते ॥ २. 'मद्यपानस्य' इति१॥ ३. 'ज्ञेयं' इति३ ॥ ४. द्र. अनेकार्थकैरवाकरकौमुदीटीका, भा-१, २१२५ ॥, पृ.७७-७८ ॥ ५. तुलनीयोऽमरकोषः २।१०।४०॥ ६. 'साथि' इति४॥ ७. '-वो' इति३, '-बूं' इति४॥ ८. 'स्फु-' इति३ ।। ९. 'कन्' इति४॥ १०. '-त्वं' इति४॥ ११. स्वोपज्ञटीकायाम्-"पानस्य गोष्ठी आसनबन्धः' इत्येव दृश्यते, ३९०७॥, पृ.२००॥ १२. '-दंश्यते' इति३.४॥ १३. 'चक्षिङ्' इति३ ॥ १४. '-नो' इति३, '-' इति४॥ १५. '-डति' इति३॥